Digital Sanskrit Buddhist Canon

सप्तमोऽध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Saptamo'dhyāyaḥ

सप्तमोऽध्यायः

प्रथमः पादः।

अत्राह। भगवतोक्तस्त्रिस्कन्धोऽयं मार्गः। तत्र शीलस्कन्धः कर्माध्याये विस्तरेण व्याख्यातः। समाधिस्कन्धोऽष्टमेऽव्याये व्याख्यायिष्यते। प्रज्ञास्कन्ध इदानीं व्याख्यातव्यः। सोऽयमारभ्य-

[476] लोकोऽयं तत्त्वसंमुग्धो ज्ञेयतत्त्वे प्रमुह्यति।
तानि ज्ञानानि वक्ष्यामि स्वरूपादिप्रपञ्चतः॥

कानि पुनस्तानि कियन्ति वेति ? तदुच्यते-

[477] जातिद्रव्ये निराकृत्य प्रतिपक्षाद्यपेक्षया।
तद्भेदो दशधा प्रोक्तो धर्मज्ञानादिनामभिः॥

जात्याश्रयणे खल्वेकत्रप्रसङ्गो द्रव्याश्रयणे ह्यानन्त्यं तच्चाशक्यं वक्तुम्। तस्मादुभयमेतदुपेक्ष्य ययापेक्ष्यया दश भवन्ति यच्च तेषां स्वलक्षणं सामान्यलक्षणं च तत्सर्वं विस्तरेण वक्ष्यामः॥

तत्र तावत्-
[478] धर्मान्वयविशेष्ये द्वे दुःखाद्यैश्च चतुष्टयम्।
द्वे संवृत्यन्यचित्ताभ्यां क्षयेणाजन्मना द्वयम्॥

धर्मान्वयज्ञाने खलु धर्मान्वयाभ्यामेव विशेष्य(ष्ये)ते। दुःखादीनि तु चत्वारि स्वविषयैरेव चतुर्भिरार्यसत्यैः विशेष्यन्ते। संवृत्या परचित्तेन च संवृतिपरचित्तज्ञाने विशेष्येते। क्षयेणापुनरुत्पत्त्या च क्षयानुत्पादज्ञानद्वयं विशिष्यते।

अथवा
[479] प्रतिपक्ष[प्र]योगाभ्यां स्वभावाकारगोचरैः।
तद्‍व्यवस्था निबोद्धव्या कृत्येनोपचयेण(न) वा॥

तत्र कामधातुविपक्षप्रतिपक्षो धर्मज्ञानम्। रूपारूप्यावचरविपक्षप्रतिपक्षोऽन्वयज्ञानम्। प्रयोगतः परचित्तज्ञानं चित्तं ज्ञास्यामीति तत्प्रयोगात्। स्वभावतः संवृतिज्ञान(नं) पिपीलिकादिष्वपि तद्भावात्। सत्याकारैर्गोचरैश्‍चत्वारि ज्ञानानि। कृत्यतः क्षयज्ञानं कृत्यपरिसमाप्तेः। हेतूपचयतोऽनुत्पादज्ञानं सर्वैरणा(ना)स्रवैर्ज्ञानैस्तत्सभागहेतूपचयात्॥

[480] धातुसत्यार्थचित्तेषु जातिध्वंसाप्रजन्मनोः।
संमोहस्य निवृत्त्यर्थं तद्भेदो दशधैव वा॥

तत्र धातुसंमोहो द्वाभ्यां धर्मान्वयज्ञानाभ्यां निवर्त्यते। सत्यसंमोहश्चतुर्भिः दुःखज्ञानादिभिः। अर्थसंमोहः संवृतिज्ञानेन। चित्तसंमोहः परचित्तज्ञानेन। जातिसंमोहः क्षयज्ञानेन। पुनरुत्पत्तिसंमोहोऽनुत्पादज्ञानेनेति दशैव ज्ञानानि भगवानवोचत्। नातिभूयांसि नाल्पीयांसीति॥

अत्र पुनः
[481 ab.] परिज्ञाताद्यवगमः दुःखादौ क्षयधी फलम्।

“दुखं परिज्ञातं समुदयो मे प्रहीणः,................

..............मिति वादविपक्षेण वा अनारम्भिणां संसारेणैव शुद्धिरिति वादविपक्षेण प्रतिपदाकारः। लौकिकवैराग्यमार्गमारसंज्ञाविपक्षेण वा अनात्यन्तिकवैराग्यगमनविप्रलम्भात् सर्वत्राबहुमानविपक्षेण नैर्याणिकाकारः॥

अथाकारो [ना]म क एष धर्मः। किं वा तेनाकार्यत इति ? तदुभयं निर्दिश्यते-

[482 cd.] धीराकारः सदाकार्यं साकारास्त्ववलम्बिनः॥

प्रज्ञा खल्वाकार इत्युच्यते। न तर्हि प्रज्ञा साकारा भवति द्वयोः प्रज्ञयोः यौगपद्याभावात्। ततश्च न सर्वे चैतसिकाः साकाराः प्राप्नुवन्ति। न खलु ब्रू मः प्रज्ञासंप्रयोगात्साकारा वैकाकारा वा। किं तर्हि ? स्ववृत्तिभिराकरणादालम्बनग्रहणादित्यर्थः।

किं पुनस्तदात्का(का)र्यम् ? सदाकार्यम्। यत्किञ्चिद् द्रव्यतः प्रज्ञप्तितो वा विद्यते य(त)दाकार्यते। चित्तचैत्तास्तु साकाराः विषयग्राहिण इत्यर्थः॥

किं पुनर्ज्ञानं कति स्मृत्युपस्थानानि ?

[483] परिचित्तमतिस्त्रीणि धर्मसंज्ञं निरोधधीः।
चत्वारि स्मृत्युपस्थानान्यतोऽन्यज्ज्ञानमिष्यते॥

परचित्तज्ञानं खलु त्रीणि वेदनाचित्तधर्माख्यानि। निरोधज्ञानं धर्मस्मृत्युपस्थानम्। परचित्तनिरोधज्ञानाभ्यामन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानि॥

अथ कतमस्य ज्ञानस्य कति ज्ञानान्यालम्बनम् ?

[484] मार्गधर्मान्वयज्ञानगोचरो नवशो धियः।

मार्गधर्मान्वयज्ञानानां प्रत्येकं नवज्ञानान्यालम्बनम्। मार्गज्ञानस्य तावत्संवृतिज्ञानं हित्वा। धर्मज्ञानस्यान्वयज्ञानम्। अन्वयज्ञानस्य धर्मज्ञानम्।

दुःखहेतुधियोर्द्वे द्वे

दुःखसमुदयज्ञानयोः संवृतिज्ञानं सास्रवं च परि(र)चित्तज्ञानमालम्बनम्।

चतुर्णां दश

संवृतिपरचित्तक्षयानुत्पादज्ञानानां सर्वान्ये(ण्ये)व दशज्ञानान्यालम्बनम्।

नापरम्॥

निरोधज्ञानं खलु नैव ज्ञानालम्बनम्॥

पुनरपि दशधर्मान् स्थापयित्वा कस्य ज्ञानस्य कति धर्मा विषय इति वाच्यम्। कथम् ? तदुच्यते-

[485] पञ्चधर्मास्त्रिधात्वाप्तान् मार्गरूपान् सनातनान्।
व्युत्पत्त्यर्थं द्विधा कृत्वा दर्शयेज्ज्ञानगोचरम्॥

त्रैधातुकान् धर्मात्(न्)प्रत्येकं द्विधा कृत्वा संप्रयुक्ता विप्रयुक्ताश्च, अप्रतिसंयुक्तांश्च द्विधा कृत्वा संयुक्तविप्रयुक्तभेदेनैव, असंस्कृतमपि द्विधाकृत्वा कुशलाव्याकृतभेदेनैवं कृत्वा दश भवन्ति।

तत्र तावत्संवृतिज्ञानस्य सर्व एव दशधर्मा विषयः। धर्मज्ञानस्य पञ्च कामप्रतिसंयुक्तानास्रवाः संप्रयुक्तविप्रयुक्ताकुशलं चासंस्कृतम्। अन्वयज्ञानस्य सप्त रूपारूप्यप्रतिसंयुक्तानास्रवा[:] संप्रयुक्तविप्रयुक्तकुशलं चासंस्कृतम्। परि(र)चित्तज्ञानस्य त्रयः कामरूपप्रतिसंयुक्तानास्रवासंप्रयुक्ता एव। दुःखसमुदयज्ञानयोः षट्‍कामरूपारूप्यप्रतिसंयुक्तासंप्रयुक्तविप्रयुक्ताः। निरोधज्ञानस्यैको[ऽ]संस्कृतमेव कुशलम्। मार्गज्ञानस्य द्वावनास्रवः संप्रयुक्तो विप्रयुक्तश्च। क्षयानुत्पादज्ञानयोर्नव धर्मा विषयोऽसंस्कृतमव्याकृतं मुक्त्वा॥

इदमिदानीं वक्तव्यम्। कः कतिभिर्ज्ञानैः समन्वागतः ? सर्वस्तावत्पृथग्जनः संवृतिज्ञानेनैव। अयं तु नियमः-

[486] दृङ्‍मार्गे प्रथमे ज्ञाने त्रिभिर्ज्ञानैः समन्वितः।

द्वितीयक्षणे त्रिभिः संवृतिज्ञानदुःखज्ञानधर्मज्ञानैः।

चतुर्ष्वेकैकवृद्ध्योर्ध्वं विरक्तोऽन्यमनो धिया॥

अतः परं चतुर्षु चित्तक्षणेष्वेकैकं ज्ञानं वर्धते। त[द्यथा] दुःखेऽन्वयज्ञानेऽन्वयज्ञानं वर्धते। समुदयधर्मज्ञाने समुदयज्ञानम्। निरोधधर्मज्ञाने निरोधधर्मज्ञानम्। मार्गधर्मज्ञाने मार्गधर्मज्ञानं वर्धते। समुदयनिरोधमार्गान्व[यज्ञा]नेषु क्षान्तिषु च नास्त्यपूर्वज्ञानवृद्धिः। सर्वत्र तु वीतरागस्य परचित्तज्ञानं वर्धत इति वाच्यम्॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य प्रथमः पादः॥

सप्तमाध्याये

द्वितीयपादः।

इदमिदानीं वक्तव्यम्। कस्यां भूमौ कस्यां वावस्थायां कस्य वा पुद्‍गलस्य कति ज्ञानानि भाव्यन्ते ? तदारभ्यते-

[487] त्रिध्यानकामवैराग्ये पश्चिमे मुक्तिवर्त्मनि।
मौलघ्यानप्रयोगे च ज्ञेयानागतभावना॥

[488] बालस्य स्मृत्युपस्थानध्यानाद्युत्पादने तथा।
प्रयोगमुक्तिमार्गेषु संवृत्यान्यमनोधियः॥

बालस्य खल्वाद्यध्यानत्रयवैराग्ये पश्‍चिमे विमुक्तिमार्गे मौलध्यानप्रयोगमार्गे च स्मृत्युपस्थानादिकुशलमूलोत्पादने च प्रयोगविमुक्तिमार्गे च संवृतिज्ञानस्य परचित्तज्ञानस्य चानागतभावना वेदितव्या॥

आर्यस्य तु

[489] क्षान्तिज्ञानानि भाव्यन्ते स्वजातीयानि दृक्पथे।

दर्श(न)मार्गे खलु यद्येव संमुखीभूतं भवति क्षान्तिर्वा ज्ञानं वा तज्जातीयमेवानागतं भाव्यते। नान्यजातीयमन्यविषयं वा पृथक्कार्यत्वात्।

सांवृतं चान्वयज्ञाने दुःखहेतुसमाह्वये॥

संवृतिज्ञानं खलु दर्शण(न)मार्गे त्रिषु चित्तेषु दुःखसमुदयनिरोधान्वयज्ञानाख्येषु भाव्यते। न धर्मज्ञानेषु, अकृतार्थत्वादालम्बनाकारपरिजयो हि नाद्यापि परिसमाप्तः॥

कस्मात्पुनः संवृतिज्ञान तत्र भावनां गच्छति ? तदुच्यते-

[490] समानप्रतिपक्षत्वात्तेषु मार्गायितत्वतः।

यथैवान्वयक्षान्तिज्ञानानि त्रीणि तत्प्रहातव्यक्लेशप्रतिपक्षः, तथा तान्यपि संवृतिज्ञानानि प्रतिपक्षः। तैरपि तत्र मार्गायितं निर्वेधभागीयावस्थायाम्।

अतोऽभिसमयात्याख्यं तत्त्रिसत्यान्तलाभतः॥

अत एव तदाभिसमयान्तिकं संवृतिज्ञानमित्याख्यायते। धर्मज्ञानेषु खलु तद्भावनायामभिसमयमध्यानि स्युरिति। तच्चैतदनुत्पत्तिधर्मकमपि सद्धर्मतया चिन्त्यते।

कस्मात्पुनस्तदनुत्पत्तिधर्मकमेव ? श्रद्धाधर्मानुसार्याश्रयेण तदुत्पत्तिप्रतिबद्धत्वात्। दर्शनमार्गे च संमुखीभूते तन्नोत्पन्नम्। तस्मादनुत्पत्तिकधर्ममेव भावनां गच्छति। तत्पुनरेतत्सप्तभूमिकं कामावचरं दर्शनमार्गसमानभूमिकं च। उक्ता दर्शनमार्गभावना॥

भावनामार्गे वक्तव्या।

[491] मार्गाख्ये त्वन्वयज्ञाने ष[ड् भाव्य]न्तेऽथ सप्त वा।

षोडशे[तु वर्त]मानान्वयज्ञानचित्ते भावनावर्त्मन्यवीतरागस्य षड् भाव्यन्ते। संवृतिपरचित्तक्षयानुत्पादज्ञानानि हित्वा। वीतरागस्य तु सप्तानागतानि भाव्यन्ते परचित्तज्ञानं वर्धयित्वा।

आनन्तर्यपथे चोर्द्‍ध्वं भाव्यते नान्यचित्तधीः॥

सरागस्यापि भावनामार्गे तस्मात् षोडशात्क्षणादूर्ध्वं यावत्कामे वीत रागो भवति तावत्सर्वेषु प्रयोगानन्तर्यविमुक्तिविशेषमार्गेषु सप्त ज्ञानानि भाव्यन्ते। अन्यत्र परचितक्षयानुत्पादज्ञानेभ्यः॥

[492] प्रहाणमुक्तिमार्गेषु विनान्त्याया विमुक्तितः।
भवाग्रप्रतिपक्षत्वात्संवृतस्य न भावना॥

ध्यानचतुष्ट्‍वारूप्यत्रयवैराग्ये पञ्चस्वभिज्ञासु, अकोप्याप्रतिवेधे च व्यवकीर्ण[भाविते च] ध्याने। शैक्षस्य सर्वेष्वानन्तर्यविमुक्तिमार्गेषु सप्तैव ज्ञानानि .............।

[........अभिधर्मदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य द्वितीयपादः समाप्तः॥]

सप्तमाध्याये

तृतीयपादः।.....

.........स्थानवस्तुहेतुविपाकप्रतिविस्तरैर्बोद्धव्यम्। तत्रातीतानागते प्रत्युत्पन्ने च [त]दाक्षेप्ताक्षेपवैचित्र्यं प्रतिकर्मसमादानं भवति। किचिद्धि सहसा प्रत्ययवृ(व)शात्क्रियते। किञ्चिद् दृष्टचेतसा। किञ्चित्पुनः समादाय क्रियते तेन कर्मणा मया जीवि[तव्य]मिति। तथा धर्मोऽयमधर्मो वेति समादायासमादाय करोति। स्थानादिप्रविभागतश्‍च गाम्भीर्यं बोद्धव्यम्। तत्र स्थानमायत्युत्पत्त्यायत्तानामवकाशकारणात्। हेतुरपि येन हेतुना क्रियते। यथोक्तम्-“वस्तु स्थानाधिकरणमुच्यते। साधिकरणं वस्तु स्थानम्। तद्यथा प्राणिवधकर्मणः स्वभावः। स च प्राणी यस्य चार्थे वध्यते यया प्रत्ययसामग्र्या सर्वमेतद्वस्तु सम्भवति। कुतः ? स्थानहेतुविपाकानां पृथगुक्तेः। यस्य खल्वेत[त्] स्थानं यच्चास्य स्थानं क्रियते यस्य तत्कर्म हेतुः, यद्धेतुकं च तत्, अयं चास्य कर्मणो विपाकोऽयमन्यस्य” इति। तदेतदष्टज्ञानस्वभावं निरोधमार्गज्ञाने हित्वा॥

[493] ध्यानादीनां स्वभावादावव्याघातविसारि यत्।
घ्यानादिज्ञानसंज्ञं तन्नवज्ञानमयं बलम्॥

ध्यानविमोक्षसमाधिसमापत्ति ज्ञानबलं खलु यत्संक्लेशव्यवदानव्यवस्थानविशुद्धिषु निवृत्तिपक्षे ध्यानानां विमोक्षाणां समाधीनां समापत्तीनां च संक्लेशव्यवदानव्यवस्थानविशुद्धिषु यद्‍बलमव्याहतम्। तत्र संक्लेशादिचतुष्टयं हानि(न)विशेषस्थितिनिर्वेधभागीयं सास्वादशुद्धकानास्रवादिभेदात्। तदेतद्ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं नवज्ञानात्मकं बोद्धव्यम्॥

[494] यत्सत्त्वाक्षमृदुत्वादौ परिच्छेदे प्रवर्तते।
अक्षोत्तमावरज्ञानबलं तन्नवधीमयम्॥

इन्द्रियपरापरज्ञानबलम् यत्सर्वसत्त्वानां श्रेयःप्राप्तिशक्तित्रैविध्ये ज्ञानमव्याहतं तदिन्द्रियपरापरज्ञानबलं नवज्ञानात्मकं निरोधज्ञानं हित्वा॥

[495] यत्सत्त्वाधिरुचित्रैधे हीनादौ सम्प्रवर्तते।
नानाधिमुक्तिधीसंज्ञे बलं तच्च नवात्मकम्॥

यत्खलु सर्वसत्त्वानां हीण(न)मध्यमोत्तमाधिमुक्तिष्वव्याहतं ज्ञानं तच्च नानाधिमुक्तिज्ञानबलं नवज्ञानात्मकमेव निरोधज्ञानं हित्वा॥

[496] यन्नानाधात्वपेक्षाख्यं सत्त्वार्थाय प्रवर्तते।
नवज्ञानमयं तद्वत्तन्नानाधातुधीबलम्॥

ते पुनः पूर्वाभ्यासवासनाधातवः पूर्वजन्मसु गुणदोषविद्याशिल्पकर्माभ्यासेभ्यो या वासनास्ताः खल्विह धातवो विशेषेण बोद्धव्याः। गोत्रार्थेणा(ना)वस्थानां त एवाशया इत्यवगन्तव्याः, तद्वशाच्चरि(रती)त्युच्यते। उक्तं च भगवता-“धातुशः सत्त्वाः संस्यन्दन्ते” इति॥

[497] गतिधर्मार्यभेदं यद्वेत्ति प्रत्ययभेदतः।
तद्धियो दश सर्वत्रगामिनीप्रतिपद्बलम्॥

यत्खलु सत्त्वोपपत्तिनिर्वर्तकेषु तत्क्षयकरेषु च धर्मेषु ज्ञानमव्याहतं तत्सर्वत्रगामिनीप्रतिपज्ज्ञानबलम्। भव्यविशेषौषधवद् द्रष्टव्यम्। मोक्षभव्यानां नानाधातूनां सत्त्वानामनेकधातूनां सर्वक्लेशप्रहाणायौषधविशेषवत्सामान्यप्रतिपक्षविशेषप्रतिपक्षं च सर्वत्र जानीते गतिहेतुं चानेन धातुरेकसन्ताने यो यद्‍गतचित्तस्तद्वशेन तदवतरणभव्योऽभव्यश्च भवति तत्सर्वं यथावत्प्रतिजानातीति सर्वाकारज्ञताप्युक्ता भवति। तदेतत् सफलमार्गप्रहाणाद्दशज्ञानात्मकं भवति। केचित्तु केवलमार्गग्रहणान्नवज्ञानात्मकम्॥

[498] यत् स्वान्यातीतजन्मेक्षिसंवृतिज्ञानसंज्ञकम्।
प्राग्जात्यानुस्मृतिज्ञानबलं तत्सफलं मतम्॥

स्वपरसन्ता निकानामतीतजन्मपरम्पराणां विचित्रसुखदुःखेषु प्राणिष्वयममुष्यकर्मणो विपाकोऽयममुष्यस्वप्ननिमित्तघ्यायिमनसिकारचिह्नार्थावधारणवदनेकविधसम्बन्धावबोधवशित्वमस्य सूचितं भवति। यथा खलु भव्यार्थसूचकानि(न्) स्वप्नाननेकशो दृष्ट्‍वा तांश्चार्थानभिनिष्पन्नात्(न्) प्रायशः सदृशानपेक्ष(क्ष्य) निश्चयो भवति तद्वदिति। यथा च ध्यायिनां मनसिकारेषु धर्मचिह्नान्युत्पद्यन्ते तैश्च सुव्यक्तो धर्मपरिच्छेदो भवति। तद्वत्सर्वधर्मेषु मुद्रा भगवतो विदिता। किं पुनस्तत्कर्म विपाकसम्बन्धमुद्रास्विति ? तदेतद्‍बलं संवृतिज्ञानात्मकमेव॥

[499] सत्त्वानां च्युतिसम्भूत्योर्ज्ञानमन्याध्ववृत्ति यत्।
तच्च्युत्युत्पत्तिबुद्‍ध्याख्यं बलं पूर्ववदुच्यते॥

दिव्यचक्षुराश्रयाच्च ज्ञानात्कर्मफलवैचित्र्यचरितावतरणज्ञानपरप्रत्ययो भवति। प्रत्युत्पन्नविषयमप्येवम्। तद्दिव्यचक्षुराश्रयज्ञानं सह प्रणिधिज्ञानेनापरान्ते प्रभाव्यते। तदेतत्संवृतिज्ञानात्मकमेव॥

[500] आस्रवक्षयधीसंज्ञं षड्ज्ञानान्यथवा दश।

अत इदानीं भगवतो विनेयकार्यं किमवशिष्टम् ? आस्रवक्षयः। तस्मिन्यज्ज्ञानं यस्य यदा यैरवतरणदेशनाविधिभिरकृच्छ्रेण संपद्यते तद्भगवान् सर्वाकारमनेन ज्ञानेन वेत्ति नान्यः कश्चित्। अतोऽस्यैव तद्‍बलं नान्यस्य। तत्पुनरेतत् षड्‍ज्ञानस्वभावं दशात्मकं वा। यद्यास्रवक्षये ज्ञानम्, षड्‍भवन्ति। परचित्तदुःखसमुदयमार्गज्ञानानि हित्वा। अथ सोपाये क्षये ज्ञानं दर्शणं(नं) भवति, [दशज्ञानानि भवन्ति]।

उक्तो दशबलस्वभावः।

आकारणि(नि)यमो वक्तव्यः। सोऽयमुच्यते-
षोडशाकारमन्त्रा(त्रा)द्यमन्यैश्‍चाप्युत्तरं भुवा॥

[501] सप्तमं षोडशाकारमविभक्ताकृतिद्वयम्।
अष्टाकारं द्वितीयं तु नवज्ञानमयं तु यत्॥

[502] तथागतबलं प्रोक्तं तज्ज्ञेयं द्वादशाकृति।

स्थानास्थानज्ञानबलं षोडशभिराकारैः प्रवर्तते। अन्यैश्‍च तन्निर्मुक्तैरास्रवक्षयज्ञानबलमपि यदि सोपायं क्षयं विवक्षति तदपि षोडशाकारम्। अथ क्षयमात्रं तत्, षड्‍ज्ञानमयैराकारैः सर्वत्रगामिनीं प्रतिपज्ञा(ज्ज्ञा)नबलं सप्तमं तदपि तथैव षोडशाकारम्। द्वयं तु पूर्वेनिवासानुस्मृतिच्युत्युपपत्तिज्ञानबलमविभक्ताकारबलम्। द्वितीयं तु कर्मविपाकज्ञानबलमष्टाकारम्। यत्तु समाधिसमापत्तिज्ञानबलं तस्य नवज्ञानस्वभावं तैरेव द्वादशभिराकारैः प्रवर्तते। अन्यद्यन्नोक्तं तदभ्यूह्यम्।

किं पुनः किं गोचरम् ?

सर्वगोचरमत्राद्यमन्त्यं शान्त्यवलम्बि धा(वा)॥

सर्वविषयं स्थानास्थानबलम्। आस्रवक्षयज्ञानबलं निर्वाणविषयं वा चतुःसत्यविषयं वा॥

[503] द्विधा [हेतुभवालम्बं] सप्तमं सत्यगोचरम्।

कर्मविपाकज्ञानबलं भवविषयम्। सर्वत्रगामिनी प्रतिप[त्]ज्ञानबलं चतुःसत्यालम्बनम्।

अतीताद्यद्धि धात्वर्थमष्टमं समुदाहृतम्॥

पूर्वेणि(नि)वासानुस्मृतिज्ञानबलं ‘अतीताद्यद्धि’ धातुगोचरम्॥

[504] नवमं खलु रूपार्थं संस्कृतालम्ब्यते परम्।

च्युत्युपपत्तिज्ञानबलं रूपायतनविषयम् अन्यद्यदवशिष्टं तत्संस्कृतधर्मगोचरं द्रष्टव्यम्।

अत्र पुनः

द्व्यपेक्षो बलशब्दोऽयं बलं त्वप्रतिघाततः॥

पराभिभवापेक्षश्‍च सर्वाप्रतिघातित्वेन च। यत्खलु [अ]प्रतिहतसामथ्य तद्‍बलमित्युच्यते। मानसं बलं दशविधं भगवतो व्याख्यातम्॥

कायिकमप्यभिधीयते-

[505] [सन्धौ] सन्धौ च बुद्धस्य काये ण(ना)रायणं बलम्।

स्प्रष्टव्यमधिकं तत्तु दश हस्त्यादिसप्तकात्॥

नारायणं नाम बलमुच्यते। तच्च भगवतो मर्मणि मर्मणि विद्यते। नागग्रन्थिशङ्कलाशङ्कुसन्धयश्‍च यथाक्रमं बुद्धप्रत्येकबुद्धचक्रवर्तिणः(नः)।

किं प्रमानं(णं) पुनस्तन्नारायणं बलम् ? यत्खलु दशानामितरहस्तीनां बलं [त]देकस्य गन्धहस्तिनः। एवं दशोत्तरवृत्त्या महानग्नि(ग्न) प्रस्कन्दिवराङ्गचानूरणा(ना)रायणानां वाच्यम्। ऐरावन(ण)सहस्रस्येत्यन्ये। स हि देवोद्यानयात्रासमये त्रयस्त्रिंशच्छिरसमात्मानमभिनिर्मायात्यद्‍भुतविचित्रोद्यानायायमानानि तावन्त्येव देवकुलान्यनेकसहस्रपरिवाराणि भूर्जपत्रवदादाय गच्छःयेष बलसमुदयस्तस्य। एवं तु [वर्णयन्ति] मानसबलवदनन्तं कायिकमपि बलं बुद्धानां भगवतामिति। तत्पुनः कायिकं बलं स्पृष्टव्यायतनसंगृहीतम्। गुरुत्वेन बलसंग्रहो लघुत्वेन दौर्बल्यस्येति वर्णयन्ति।

[506] स्वपरार्थान्तसम्प्राप्ते(र्वै)शारद्यचतुष्टयम्।
आद्यन्तबलरूपे द्वे द्वे कर्म प्रतिपद्धियोः॥

सूत्र उक्तम्-“सम्यक्सम्बुद्धस्य वत मे सत इमे धर्मास्त्वयाऽनभिसम्बुद्धाः” इति विस्तरः। [अत्र हि प्रथम]द्वितीयाभ्यां स्वार्थसम्पद्भगवतोद्भाविता। पूर्वेण ज्ञानसम्पत्। द्वितीयेण(न) प्रहाणसम्पत्। द्वाभ्यामन्याभ्यां परार्थसम्पदा दर्शिता व्यवदानसंक्लेलोद्भावनात्।

कतरत्पुनर्वैशारद्यं कति ज्ञानात्मकम् ? तदुच्यते। स्थानास्थानबलरूपमाद्यम्। आस्रवक्षयज्ञानरूपं द्वितीयम्। कर्मस्वकज्ञानबलं तृतीयम्। सर्वत्रगामिनीप्रतिप[त्]ज्ञानबलं चतुर्थं वैशारद्यम्। तद्यावज्ज्ञानस्वभावान्येतानि वलानि तावत्स्वभावानि यथाक्रमं चत्वारि वैशारद्यानि बोद्धव्यानि।

सूत्र उक्तम्-“त्रीणीमानि स्मृत्युपस्थानानि यान्यार्यः सेवते” इति विस्तरः। तेषां पुण(न)रिदं लक्षणम्-

[507] श्रोतृसम्पत्त्रयापेक्षा त्रिविधा स्मृत्युपस्थितिः।
संस्माराहितसामर्थ्यसंप्रजन्यस्वलक्षणा॥

शुश्रूषकाशुश्रूषकादिभेदाद्विनेयाणां(नां) त्रैविध्येन व्यवस्थानम्। शुश्रूषकादिवर्गत्रयाभिसन्धेः। स्वभावः पुनः स्मृतिविशिष्टसंप्रजन्यत्रयस्वभावानि त्रीणि स्मृत्युपस्थानानि। स्मृतिविशिष्टसंप्रजन्यतो हि भगवतः शुश्रूषमाना(णा)शुश्रषमान(ण)तदुभययुक्तेषु विनेयसमूहेषु नानन्दो भवत्याघातो वा॥

महाकरुणा पुनः

[508] संवृतिज्ञानरूपत्वाद्दीर्घकालानुसारतः।
सर्वत्र समवृत्त्यादेर्बद्धस्यैव महाकृपा॥

यदा श्रावकस्यापि करूणा विद्यते प्रत्येकबुद्धस्यापि कस्माद् बुद्धस्यैव महाकृपेत्युच्यते ? यस्मादियं संवृतिज्ञानस्वभावा श्रावकादीनामद्वेषस्वभावा बुद्धस्य च दीर्घकालानुगता सूक्ष्मानुगता सर्वसत्त्वसमग्रहप्रवृत्ता सर्वत्रानुगता च द्वात्रिंशन्महापुरुष[लक्षण]विद्योतितशरीराध्यासिनी दशबलपरिगृहीता च। तस्माद् बुद्धस्यैव भगवतो महाकृपेत्युच्यते। उक्ता असाधारणगुणाः॥

श्रावकसाधारणा उच्यन्ते-

[509] अरणा प्रणिधिज्ञानं चतस्रः प्रतिसंविदः।
अर्हत्सान्तानिका ह्येते पञ्च तु प्रान्तकोटिकाः॥

[510] इतरैरपि सामान्या अप्रमादादयो गुणाः।
एषां यथोपदिष्टाणां(नां) शृणु वक्ष्यामि लक्षणम्॥

तत्र तावत्।
[511] अरणा संवृतिज्ञानं नृजाऽन्त्यध्याननिश्रयात्।
आर्यसन्तानिका जाता सवस्तुकमलेक्षिणी॥

इह कश्‍चिदर्हन्नकोप्यधर्मा सर्वक्लेशप्रहाणात्परमामृतसुखमनुभवत्येवं चित्तमुत्पादयति-कथं नाम परेऽपि [इ]मे सन्तानालम्बनाद् क्लेशान् नोत्पादयेयुः कथञ्च तमनिष्टफलं नानुभवेयुः। चतुर्थं ध्यानं विवृद्धिकाष्ठागतं समापद्य तथा करोति यथाऽस्य चारविहारगतस्य सन्ताने न कश्‍चित्क्लेशमुत्पादयति।

[512] प्रणिधिज्ञानमप्येवं सर्वधर्मावलम्बि तु।
अकोप्यधर्मनो(णो) ख्याते तथैव प्रतिसंविदः॥

प्रणिधिज्ञानमपि संवृतिज्ञानस्वभावं प्रान्तकोटिक चतुर्थध्यानलाभात्, अर्हद्यद्यत्प्रणिधत्ते तत्तज्जानीते प्रणिधिज्ञानस्य सर्वधर्मालम्बनत्वात्॥

प्रतिसंविदः खल्वपि

[513] विवक्षितार्थसम्बन्धिनामसंमोहभेदिनी।
आद्याऽन्या तदभिव्यङ्ग्या ज्ञेया ज्ञानविचारिणी॥

[514] तृतीया शब्दसंस्कारा ज्ञानसंमोहघातिनी।
तुरीया तु प्रबन्धोक्तिर्ध्यानाद्युत्पादनोन्मुखी॥

तत्र द्वादशाङ्गप्रवचनसंगृहीतेषु वक्ष्यमाना(णा)र्थसम्बन्धिषु विवक्षितेषु नामकायादिषु यदविवर्त्यं ज्ञानं सा धर्मप्रतिसंवित्। तदवद्योत्येषु पौरूषेयापौरुषेयसम्बन्धेषु परार्थसंवृत्यर्थराशिषु यदविवर्त्त्यं ज्ञानं साऽर्थप्रतिसंवित्। नामकायादिवाचक एव वाक्छब्देष्वरूपद्रव्यलिङ्गसंख्यासाधनक्रियाकालपुरुषो पग्रहसम्बन्धिनि यदविवर्त्त्यं ज्ञानं सा निरुक्तिप्रतिसंवित्। धर्मार्थनिरुक्तिषु घ्यानविमोक्षसमाधिसमापत्तिवशित्वसंप्रख्याने यदविवर्त्यं ज्ञानं सा प्रतिभान[प्रति]संवित्।

त एते षड्‍गुणाः प्रान्तकोटिकमित्युच्यन्ते॥

का कति भूमिकाः पुनरासां प्रतिसंविदां का वा कति ज्ञानमयी ? तदवद्योत्यते-

[515] अर्थाख्या खलु सर्वत्र षड्ज्ञानान्यथवा नव।

अर्थप्रतिसंवित् सर्वासु भूमिषु कामधातौ यावद्भवाग्रे ण(न)वज्ञानस्वभावा णि(नि)रोधज्ञानं वर्जयित्वा षड्‍ज्ञाना[नि] निर्वाणस्ये(स्यै)व परमार्थत्वात्, परचित्तदुःखसमुदयमार्गज्ञानानि वर्जयित्वा।

प्रतिभानाह्वयाप्येवं दशज्ञानमयी त्वसौ॥

प्रतिभानप्रतिसंविदपि सर्वासु भूमिषु दशज्ञानमयी।

[तत्र]
[516] [कामे घ्यानेषु धर्माख्या] तदन्या त्वाद्यकामयोः।

धर्मप्रतिसंवित् कामधातौ चतुर्षु ध्यानेषु निरुक्तिप्रतिसंवित् कामधातौ प्रथमे च घ्याने।

संवृतिज्ञानमय्यौ तु द्वे एते प्रतिसंविदौ॥

उभे अप्येते संवृतिज्ञानस्वभावे धर्मनिरुक्तिप्रतिसंविदाविति॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य तृतीयः पादः समाप्तः॥

सप्तमाध्याये

चतुर्थपादः।

पृथग्जनसाधारणाः इदानीमभिज्ञादयो गुणा वक्तव्याः। त इम उच्यन्ते-

[517] रि(ऋ)द्धौ श्रोत्रेऽन्यचित्ते प्राग्भावे च्युत्युदये क्षये।
ज्ञानसाक्षात्क्रियाऽभिज्ञा षड्वा धी[:] मुक्तिवर्त्मनि॥

ज्ञानसाक्षात्क्रिया खलु विमुक्तिमार्गसंगृहीताऽभिज्ञेत्युच्यते। केषां पुनर्गुणानां ज्ञानसाक्षात्क्रिया ? तदपदिश्यते। रि(ऋ)द्धिपाददिव्यश्रोत्रचेतः- पर्यायपूर्वेनिवासानुस्मृतिच्युत्युपपादास्रवक्षयज्ञानानां या ज्ञानसाक्षात्क्रिया साऽभिज्ञा। अभिजानातीत्यभिज्ञायते वा तयेति अभिज्ञा।

कस्मात्पुनर्विमुक्तिमार्ग ये(ए)वाभिज्ञा श्रामन्य(ण्य)फलवत् [[न] आनन्तर्य]मार्गस्वभावाः ? परचित्तज्ञानस्यानन्तर्यमार्गप्रतिषेधादर्हतश्चास्रवक्षयानन्तर्यमार्गत्यागे कस्यचिन्निरभिज्ञत्वप्रसंगात्॥

आसां पुनः

[518] चतस्रः संवृतिज्ञानं पञ्च ज्ञानानि चित्तधीः।
सर्वास्रवक्षयाभिज्ञा षड्ज्ञानान्यथवा दश॥

चेतःपर्यायास्रवक्षयाभिज्ञे हित्वा। चेतःपर्यायाभिज्ञा पञ्चज्ञानानि धर्मान्वयमार्ग[संवृतिपर]चित्तज्ञानानि। आस्रवक्षयज्ञानसाक्षात्क्रियाऽभिज्ञा षड्‍ज्ञानानि दश वा परचित्तदुःखसमुदयमार्गज्ञानानि हित्वा ‘अथवा दशे’ति॥

[519] षष्ठी सर्वत्र पञ्चान्या मौलीषु ध्यानभूमिषु।

आस्रवक्षयज्ञानसाक्षात्क्रिया सर्वासु भूमिषु। शेषा मौलीषु चतसृषु ध्यानभूष्विति।

यत्नवैराग्यतो लभ्याः स्वभूम्यधरगोचराः॥

सर्वाः [अभिज्ञाः] यत्नतो लभ्यन्ते वैराग्यतश्च। तत्रानुचिता यत्नतः। उचिता वैराग्यतः। जन्मान्तराभ्यस्ताः खल्वभिज्ञा वैराग्यतो लभ्यन्ते। वैशेषिक्यो यत्नतः। ‘स्वभूम्यधरगोचरा’श्‍चैताः। रि(ऋ)द्ध्या स्वभूमिं गच्छत्यप(ध)रां च भूमिम्। निर्मितनिर्माणमप्येवम्। दिव्यश्रोत्राभिज्ञयापि स्वभूमिकमधो[भूमिकं] च शब्दं शृणोति। एवं परचित्तज्ञानं पूर्वेनिवासानुस्मृतिज्ञानं च। च्युत्युपपादाभिज्ञया च स्वाधोभूमिविषयं रूपं जानाति॥

कतमा पुनरासां कति स्मृत्युपस्थानानि ?

[520] स्मृत्युपस्थितयस्तिस्त्रश्‍चेतःपर्यायधीर्मता।
ऋद्धिश्रोत्राक्ष्यभिज्ञास्नु प्रथमा स्मृत्युपस्थितिः॥

परचित्ताभिज्ञा त्रीणि स्मृत्युपस्थानानि कायस्मृत्युपस्थानं हित्वा। चित्तचैत्तालम्बना खल्वेषा। ऋद्धिश्रोत्रचक्षुरभिज्ञाः कायस्मृत्युपस्थानं रूपालम्बनत्वात्। ऋद्धिः खलु चतुर्बाह्यायतनालम्बना। दिव्यश्रोत्रचक्षुषी यथाक्रमं शब्दरूपायतनालम्बने।

कुशलादिभेदेन तु

[521] दिव्यमव्याकृतं श्रोत्रं नेत्रं चान्या शुभा मताः।

दिव्यश्रोत्रचक्षुषी किलाव्याकृते। तच्च न। अभिज्ञानां विमुक्तिमार्गस्वभा[व्याच्चक्षुःश्रोत्रविज्ञानयोश्‍चा]विकल्पत्वाद्विमुक्तिज्ञानानुत्पत्तिः। चतुर्षु ध्यानेषु तु अस्ति प्रज्ञाविशेषः स्वभूमिकभूतफलो यत्संमुखीभावात्स्वभूमिकफलमेव चक्षुःश्रोत्रं संमुखीभावं गच्छति। यत्तच्चक्षुःश्रोत्रविज्ञानयोराश्रयी भवति तस्मान्न तद्विज्ञाने संप्रयुक्ता प्रज्ञाऽभिज्ञेति।

कथं पुनरेतयोरभिज्ञाशब्दः ? तदुच्यते-

अभिज्ञाफलताऽभिज्ञा [मनोविज्ञानप्रज्ञया]॥

अभिज्ञाफलमा(म)त्राभिज्ञाशब्देनोक्तम्। मनोविज्ञानसंप्रयुक्तया तु प्रज्ञयाऽभिजानातीति। सैवाभिज्ञा निरूपकत्वात्।

कति पुनरासां विद्या ?

[522] तिस्रो विद्या मतास्‍त्र्यध्वस(सं)मोहादिव्युदस्तये।
एका स्वभावतोऽशैक्षी द्वे त्वशैक्षाश्रयोदयात्॥

पूर्वणि(नि)वासच्युत्युपपादास्रवक्षयज्ञानतत्साक्षा[त्]त्क्रियास्तिस्रः खल्वशैक्ष्यो [विद्या उच्यन्ते। कस्मादेता एव ? एत] एव तिस्रो विद्याः यस्मादाभिरविद्यात्रयं विनिवर्तते। पूर्वेनिवासाभिज्ञा[ज्ञया]पूर्वान्तसंमोहः निवर्तते। च्युत्युपपादाभिज्ञया त्वपरान्तसंमोहो निवर्तते। आस्रवक्षयाभिज्ञया मध्याध्वसंमोहः।

यद्यपि च तिस्रोऽप्यशैक्षास्तथापि ‘एका स्वभावतोऽशैक्षी द्वे त्वशैक्षाश्रयोदयात्’। अन्त्या वाऽशैक्षी स्वभावतः सन्तानतश्‍च। आद्ये द्वे त्वशैक्षसन्तानादशैक्षावित्युच्यन्ते।

कति पुनरासां प्रातिहार्याणि ?

[523] रि(ऋ)द्धिचित्तक्षयाभिज्ञा प्रतिहार्यत्रयं स्मृतम्।
हरतो द्वे कुशास्तृभ्यो मारेभ्यो हरते परम्॥

ऋद्‍ध्यादेशनाप्रातिहार्ये खलु कुशास्तृभ्यः कपिलोलूकाक्षपादादिभ्यो विनेयजनचित्तमपहृत्य बुद्धे भगवति परमार्थशास्तरि संनियोजयतः। अनुशासनाप्रतिहार्यं मारेभ्योऽपहृत्य सर्वज्ञं मार्गदेशिके प्रवरे प्रतिष्ठापयति॥

का पुनरियमृद्धिः ?

[524] समाधिरृ(धी)द्धिरित्युक्ता फलमैश्‍वर्यष्टधा।
द्विधैतद्‍गतिनिर्माणे त्रिविधा गतिरिष्यते॥

ऋद्धिः खलु समाधिरूपा तत्फलत्वात्तु प्रातिहार्यमृद्धिरत्युक्तं सूत्रे। अङ्गपरिगृहीते समाधौ सति सर्वमेतत्प्रातिहार्य मृद्‍ध्यति। तस्मात्समाधिरेव रि(ऋ)द्धिः। तस्याः फलमष्टगुणमैश्‍वर्यमनि(णि)मादि।

यच्च सूत्रेऽपदिष्टमेकानेकयथेच्छितरूपावस्थानादिस्तत्पुनरेतमृद्धिफलं द्विविधं गतिश्च निर्माणं च। गतिरपि त्रिविधा। तत्र

[525] मनोमयी गति[:] शास्तुरिच्छामात्रप्रवृत्तितः।
अधिमोक्षकृताऽन्येषां ततो देहाभिवाहिनी॥

मनोजवाःखलु ऋद्धिर्बुद्धस्यैव। मनस इव जवस्तस्याः। यावता कालेन चक्षुर्विज्ञानं नीलं प्रतिपद्यते यावता कालेन भगवाञ्च्छरीरेण सर्वलोकान्तराणि व्याप्नोत्यनन्तर्द्धिशरीरा हि बुद्धा भगबन्तो[ऽ]नाभोगेन यथेच्छिताभिप्रायसिद्धेः भगवतो बुद्धस्य। श्रावकादीनां पुनः शरीरवाहिनी गतिर्भवति यथा देवानां पक्षिणां वा। आधिमोक्षिकी च दूरमप्यासन्नमधिमुच्यास्तगमनं संपद्यते। बाहुप्रसारणमात्रेण सुमेरुमूर्द्धनि प्रादुर्भवति। व्याख्यातं समाधिफलम्॥

गमनं निर्माणमिदानीं वक्तव्म्। त[द्]द्विविधं कामावचरं रूपावचरं च। तत्र तावत्-

[526] रूपगन्धरसस्पर्शाः कामे निर्माणमिष्यते।
रूपस्पर्शौ मतौ रूपे स्वेशरीरेऽथ वा बहिः॥

कामावचरं खलु बाह्यमायतनचतुष्टयं निर्मीयते। नान्यदीश्‍वरकर्त्तृत्ववादाभ्युपगमप्रसंगात्। रूपावचरं त्वायतनद्वयं तत्र गन्धरसाभावात्। तत्पुनरेतत् स्वशरीरे परशरीरे च द्रष्टव्यम्। एतच्चतुर्विधं निर्माणं कामधातावेवं रूपधातौ द्रष्टव्यम्। इत्यष्ट[विधं निर्माणम्]।

[किं खलु निर्माणम]भिज्ञया निर्मीयते ? किं तर्हि ?

[527] अभिज्ञाफलचित्तेन तत्तानि तु चतुर्दश।
आद्यध्यानफलं द्वे ते(तै)रूर्ध्वभूम्येकवृद्धितः॥

प्रथमध्यानफले खलु निर्माणचित्ते कामावचरं प्रथमध्यानभूमिकं च, द्वितीयध्यानफलानि त्रीणि, तृतीयध्यानफलानि चत्वारि, चतुर्थध्यानफलानि पञ्च॥

कथं पुनर्निर्माणचित्तानि लभ्यन्ते ?

[528] तल्लाभो ध्यानव[त्] ज्ञेयः

यथा खलु ध्यानानि वैराग्यत उपपत्तितः प्रयोगतश्च लभ्यन्ते तथा निर्माणचित्तानि।

कथं पुनस्तदुत्पद्यते ?

शुद्धकाच्च स्वतश्च तत्।

शुद्धकाद् ध्यानादनन्तरं णि(नि)र्मान(ण)चित्तमुत्पाद्यते निर्माणचित्तादेव वा नान्यतः। ततः खल्वपि निर्माणचित्तादनन्तरं शुद्धकध्यानं निर्माणचित्तं चोत्पद्यते नान्यत्। सर्वस्य च निर्मितस्य

स्वभूमेनैव निर्माणमप(ध)रेणापि भाषणम्॥

न खल्वन्यभूमिकं निर्माणमन्यभूमिकेन निर्माणचित्तेन निर्मीयते। भाषणं तु स्वभौमेनाप(ध)रभौमेन च। कामधातुप्रथमध्यानभूमिको हि निर्मितः स्वभूमिकेनैव चित्तेन भाष्य(ष)ते। ऊर्ध्वभूमिकास्तु प्रथमध्यानभूमिकेन, तत्रैव विज्ञप्तिसमुत्थापकचित्तसद्भावात्॥

किं पुनर्निर्मितनिर्मात्रोः क्रमेन(ण) वाग्भाषणं भवत्यथ युगपत् ? तदुच्यते-

[529] निर्मात्रैव सहैतेषां भाषणं सुगतादृते।

उक्तं हि
“एकस्य भाषमाणस्य सर्वे भाषन्ति निर्मिताः।
एकस्य तूष्णीं भूतस्य सर्वे तूष्णीं भवन्ति ते॥”

भगवतस्तु इच्छातः पूर्वं पश्चाद्युगपद्वा निर्मिता भाषन्ते। तेषां पुनः

एकस्य ब्रुवतः सर्वे निर्मिता ब्रुवते समम्॥

[530] अधिष्ठाय तु निर्माणं भाषन्तेऽन्येन चेतसा।

‘अधिष्ठाय तु निर्माणं’ संस्थाप्येत्यर्थः। अन्येन चेतसा विज्ञप्तिसमुत्पादकाख्येन वाचं प्रवर्तयतीत्यतोऽपि नास्ति निर्माणान्तर्धाणो(नो) दोषः। तत्पुनरेतदधिष्ठानं न केवलं जीवत एव। किं तर्हि ?

अधिष्ठानं मृतस्यापि स्थिरस्यैव तु वस्तुनः॥

आर्यमहाकाश्यपाधिष्ठानेन तदस्थिशंकलापस्थानश्रवणात् स्थिरस्यास्थिलक्षणस्य न मांसरुधिरादीनामस्ति॥

किं पुनरेकचित्तेनैकं निर्मितं निर्मिणोत्यथ बहून् ?

[531] अजय्येकमनेकेन जयिणस्तद्विपर्ययः।

आद्याभिनिर्हारैर्बहुभिर्निर्माणचित्तैरेकं सोपादानं च निर्मितं निर्मिणोति। र्जितायां त्वभिज्ञायां निर्मातुरिच्छया बहूनप्येकचित्तेन निरूपादानमपि च निर्मिनो(णो)ति।

तत्पुतरेतन्निर्माणचित्तं द्विविधं भावनामयमुपपत्तिप्रातिलम्भिकञ्च। तत्र

अव्याकृतमभिज्ञोत्थं उपपत्त्य त्वयं त्रिधा॥

यत्खलु भावनाफलं निर्माणचित्तं तदव्याकृतं भवति। उपपत्तिप्रातिलम्भिकं तु कुशलादि[ना] त्रिप्रकारम्। [तदुपपत्तिफलं] दशातिशययुक्तम्।

[532] अर्हतां दशधा त्वेतदैश्‍वर्यमुपपद्यते।
सर्वास्रवक्षयज्ञानविमुक्तिद्वययोगतः॥

यदेततदणिमादिशैक्षान्तं दशविधमैश्‍वर्यसुखं तदतिशययुक्तमर्हतामेवोपपद्यते॥

यदि तर्हि त्रयाणामर्हतामेतदैश्‍वर्यं समानमस्ति कस्तर्हि विशेषः शास्तृशिष्ययोः ? तत्रेदमुपदिश्यते-

[533] ऐश्‍वर्य[पि स]मानेस्मिन्यथोक्ते शास्तृशिष्ययोः।
अन्तरं सुमहच्छास्तुर्यत्तत्पूर्वमुदाहृतम्॥

दशबलाद्यावेणिकबुद्धगुणचिन्तायां चतुष्प्रत्ययता नद्युत्तरणे गन्धहस्त्य श्‍वशशकदृष्टान्तैश्च विशेषान्तरं बोद्धव्यमिति॥

अभिधर्मप्रदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य चतुर्थः पादः॥
समाप्तश्‍च ज्ञानविभागो नाम सप्तमोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project