Digital Sanskrit Buddhist Canon

षष्ठोऽध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ṣaṣṭho'dhyāyaḥ
षष्ठोऽध्यायः

प्रथमः पादः.....

..............र्वौदारिकम्। अतस्तुत्पूर्वम्। ततो वेदनास्मृत्युपस्थानं द्वाभ्यां स्थूलतरं वेदनास्कन्धवत्। ततः चित्तस्मृत्युपस्थानं रूपादिप्रतिविज्ञप्तिस्वाभाव्यात्सुलक्षम्। धर्मास्तु संज्ञाचेतनाद्या संप्रयुक्ताः, प्राप्त्यादयः विप्रयुक्ताः, संस्कृताश्च परमसूक्ष्मास्तस्मादन्ते धर्मस्मृत्युपस्थानम्। अत एवोत्पत्तिक्रमोपि तथैव।

प्रायेण हि सत्त्वाः रूपाद्युपभोगरतत्वात् मोक्षविमुखा भवन्ति वेदनाभिनन्दित्वात्, सा चाभिनन्दना चित्तस्यादान्तत्वात्। तच्चादान्तत्वं रागादिभिः। श्रद्धादिभिश्च दान्तत्वं भवति।

चतुष्ट्‍वमपि चतुर्विपर्यासप्रतिपक्षत्वात्। अशुचौ शुचिसंज्ञाविपर्यासप्रतिपक्षो हि कायपरीक्षा। दुःखे सुखसंज्ञाविपर्यासप्रतिपक्षो वेदनापरीक्षा। अनित्ये नित्यसंज्ञाविपर्यासप्रतिपक्षश्चित्तपरीक्षा, चित्तस्य लघुपरिवर्तित्वात्। अनात्मन्यात्मसंज्ञाविपर्यासप्रतिपक्षो धर्मपरीक्षा। धर्मस्मृत्युपस्थानस्य वैचित्र्यादेकात्मसंज्ञाविपर्यासो निवर्तते। ‘आदि’शब्दाच्चतुराहारपञ्चस्कन्धप्रतिपक्षत्वाद्यथायोगम्॥

स तदानीं योगाचारः
[384] समस्तालम्बिनान्त्येन तान्वेत्य(त्त्य)ध्रुवतादिभिः।

सम्भिन्नालम्बनं हि धर्मस्मृत्युपस्थानं त्रिचतुष्पञ्चस्कन्धालम्बनत्वात्। पञ्चस्कन्धालम्बनमेव तु सामान्यालम्बनमिति निर्दिश्यते। तेन तु चत्वार्यपि स्मृत्युपस्थानान्यभिसमस्यानित्यतो दुःखतः शून्यतोऽनात्मतश्‍चेति चतुर्भिराकारैः प्रत्यवेक्षते। ततः पुनर्योगी कायं परमाणुसंघातक्षणसन्ताना(न)भेदेन प्रभिद्य परमाणुशः क्षणशश्च निरीक्षते। कललादीनां वा बीजाद्यशुध्य(च्य)ङ्गाणि(नि) पृथङ्‍मिश्रीभूतानि च योगी रूपानि(णि) निमित्तेषु पश्यति। तदूर्ध्वं तस्यानित्यत्वादिभिः सामान्यलक्षणेन यथायोगं सर्वधर्मकजातीयत्वाधिमोक्षे सत्यहंकारममकारविष्कम्भनप्रहानं(णं) भवति। तन्प्रहाणाद्रागादयोपि दोषाः श्रुतचिन्तामयाभ्यां ज्ञानाभ्यां विष्कम्भ्यते(न्ते)।

कतमेन पुनरत्र स्मृत्युपस्थानेन क्लेशात्यन्तक्षयो भवति ? ब्रूमः।

क्लेशात्यन्तक्षयोऽन्त्येन संभिन्नालम्बनेन वा॥

संसर्गस्मृत्युपस्थानेन खलु ‘संभिन्नालम्बनेन अत्यन्तक्लेशप्रहाणं क्रियते। ‘वा’ शब्दो विकल्पार्थः॥

यस्मात्-
[385] असंभिन्नार्थ विषयं त्रयमेतद् द्विधेष्यते।

सास्रवानास्रवभेदात्। ततः पुनः स्कन्धाननित्यादिना

तस्यैवं पश्यतः साक्षादुदयव्ययदर्शण(न)म्॥

[386] स्कन्धेषु जायते पश्‍चाच्चक्रभ्रमरिकादिवत्।

एषा च स्मृत्युपस्थानकुशलमूलनिष्ठा। तस्य खल्वनित्याकारमभ्यस्यतः सर्वसंस्कारेषु प्रतिक्षणमुदयव्ययदर्शण(न)मुत्पद्यते, ‘चक्रभ्रमरिकादि[वदि]’ति।

स प्रतीत्यसमुत्पादं स्कन्धानां प्रत्यवेक्षते॥

तस्य प्रतिक्षण(णं) उत्पादव्ययं पश्यतः एवं भवति-कथं चैते संस्काराः सन्तानेन प्रवर्तन्ते नोच्छिद्यन्ते। स प्रतीत्यसमुत्पादं पश्यति त्रैयध्विकानां संस्काराणां हेतुफलसम्बन्धनियमावस्थितानाम्। ततः पुनः प्रतीत्यसमुत्पादम्॥

[387] सत्येषु पातयित्वतं तदा कश्‍चित्परीक्षते।
तदनित्यत्वदुःखत्वे समवेत्य ततः पुनः॥

एकैकमङ्गं सत्येषु पातयित्वाऽनित्यतो दुःखतश्‍च प्रत्यवेक्ष्य

[388] अकर्तृकान्निरीहांश्‍च प्रत्ययाधीनसंभवान्।
दृष्ट्वा सर्वेष्वनात्मेति तत्त्वाकारं णि(नि)षेवते॥

तत्र स्वतन्त्रकर्तृविरहित्वाच्छून्यान्पश्यति स्ववशेन विना सहकारिभिः प्रत्ययैः क्रियाकरणात्, पराधीनजन्मत्वाच्चा[ना]त्मानं पश्यति ‘दृष्ट्‍वा सर्वेष्वनात्मेति तत्त्वाकारं णि(नि)षेवते’॥

तदभ्यस्यतः
[389] अनधिष्ठातृकत्वं च पारतन्त्र्यं च पश्य[तः]।

न ह्यत्र कश्‍चित्पुरुषो वा परमेष्ठी वेश्वरः स्वतन्त्रश्‍चैकश्‍च विद्यते, परतन्त्रजन्मप्रसरा एव सर्वसंस्काराः स्वसामान्यलक्षणाधिष्ठितस्वभावाः, इति परीक्ष्यमाणस्य

सर्वधर्मे[षु नै]रात्म्ये स्थिरा बुद्धिः प्रवर्तते॥

यथोक्तम्-
“सर्वधर्मा अनात्मानः पश्यति प्रज्ञया यदा।
तदा निर्विद्यते दुःखादेष मार्गो विशुद्धये॥”

अथ कस्मादिह शून्याकारो न देशितः ? तदुच्यते-

[390] स्वभावेनाविशून्यत्वा[द्] धर्ममुद्रा नु(उ)दाहृते(ता)।
तदुक्त्या च तदुक्तत्वाच्छून्याकारो ण(न) देशितः॥

न खलु संस्काराः स्वभावेन शून्याः पृथिव्यप्तेजोवायुप्रभृतीनां काठिन्यादिलक्षणस्य धृत्यादिक्रियायाश्‍च प्रत्यक्षत्वात्। रागादीनां दोषाणां श्रद्धादीनां च गुणानां चित्तमाल्यशुद्धिकरणसामर्थ्यात्। तेषां च सामर्थ्यं यथा द्रव्याणां हरीतकीचित्रकदन्तीप्रभृतीनां रसवीर्यविपाकप्रभावादिदर्शणा(ना)त सस्वभावप्रभावाः सर्वधर्माः धर्ममुद्रायाश्‍च ‘शून्याकारो’ णो(नो)क्तः। तस्मादिहापि नोच्यते। अथवा ‘तदुक्त्या च तदुक्तेः।’ अनात्माकारोक्त्या च शून्यताप्युक्ता भवति॥

तदेवं नैरात्म्ये स्थिरमतिः

[391] गोत्रद्वारसमूहादीन् धात्वादीनां यथायथम्।
स्वसाधारणचिह्नाभ्यां सदतोपपरीक्षते॥

धात्वायतनस्कन्धेषु स्वसामान्यलक्षणपरिच्छिन्नेषु

[392]प्रतिस्कन्धं ततस्तस्य स्वाभाव्यादिषु तत्त्वतः।
क्रमेण जायते पश्‍चात्कौशलं स्थानसप्तके॥

“रूपं यथाभूतं प्रजानाति रूपसमुदयं रूपनिरोधं रूपनिरोधगामिनीं प्रतिपदं रूपस्यास्वादं रूपस्यादीनवं रूपस्य निःसरणमेवं यावद्विज्ञानस्य।” उक्तं हि भगवता-‘सप्तस्थाने कुशलो भिक्षुः त्रिविधार्थोपपरीक्षी क्षिप्रमेवास्रवक्षयं करोति” इति॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ षष्ठस्याध्यायस्य प्रथमः पादः॥

षष्ठाध्याये

द्वितीयपादः।

तस्येदानीं योगिनः स्मृत्युपस्थानादिषु कुशलमूलेषु दृष्टपूर्वं ज्ञेयं सत्याकारव्यवस्थानेनानुचितश्रुतचिन्तामयाकारसमुदाचारण्या(न्या) येण(न)

[393] निर्मथ्नतः क्रमेना(णा)स्य दुःखसत्यभवारणिम्।
श्रद्धावीर्यसहायस्य तत्त्वज्ञानानलार्थिनः॥

[394] आकारपतितं ज्ञानं ततः शमनियामकम्।
भावनामयमूष्माख्यं जायते सानुवर्तकम्॥

तत्खलूष्मगतं प्रकर्षितत्वात् षोडशाकारम्, प्रतिसत्यं चतुराकारत्वात्, सामान्यं धर्मस्मृत्युपस्थानं भविष्यस्यार्यमार्गाग्नेर्निमित्तभूतं धूमाग्निवत्। तस्मिंश्‍च लब्धे शमः प्रत्यासन्नीभवति। अतस्तत् ‘शमनियामकं भावनामयम्’ इति। ध्यानसंवराश्रितसमाधिबलेन दृढीभावाच्चित्तं भावयति चम्पकपुष्पतिलतैलवदिति। ‘सानुवर्तकं’ च पञ्चस्कन्धस्वभावं नैरात्म्यबुद्धिपरितोषाच्चानुस्कन्धशः प्रसाद उत्पद्यते-स्कन्धमात्रकमेवेदं सत्कायदृष्टेर्वस्तुभूतं नात्रात्मास्त्यात्मीयं वा॥

[395] ततस्तथैव मूर्धानो मिथ्यादृष्ट्‍युपघातिनः।
ऊष्मभ्योऽधिकसामर्थ्याद्रत्नश्रद्धाविवर्धिनः॥

तदूर्ध्वं ततो मूर्धानस्तथैव षोडशाकाराः। तेषां पुनरयं विशेषः। मिथ्यादृष्टिशक्त्युपघातित्वम्, तदुपघातात् कुशलमूलानि न समुच्छिन्दन्ति। ऊष्मभ्योऽधिको विशेषः रत्नत्रयश्रद्धाविवर्धिनश्‍च। तेषु खल्वधिमात्रेण बुद्धादिषु रत्नेषु त्रिष्वाकारतः प्रसादोऽभिवर्धते, न स्कन्धशः, प्रागेवोष्मगतेषु तद्‍बुद्धिपरितोषात्। मूर्धसू..............

[396d.] ........नेत्वस्मिन्नुभयत्रापि पश्‍चिमा॥

विन्यासे विवर्धने चैव धर्मस्मृत्युपस्थानां(नं) प्रत्युत्पन्नं तदेव चानागतं भाव्यते॥

[397] भाव्यते स्कन्धदृक्त्वादौ न्न(न) तन्निर्वाणदर्शिनः।

न खलु स्कन्धोपरमदर्शिनः स्कन्धमतिर्भाव्यते।

आकारांस्तुल्यजातीयात्(न्) सर्वत्रात्र तु निर्दिशेत्॥

यादृशाः प्रत्युत्पन्नास्तादृशा एवानागता भाव्यन्ते॥

[398] द्रष्टव्याऽन्यतरा ताभ्यः प्रत्युत्पन्ना विवर्धने।
चतसृभ्योश्च(भ्यस्त्व)न्यतमा प्रत्युत्पन्ना विवर्धते(ने)॥

[399] अनागतास्तु भाव्यन्ते चतस्रोऽप्यत्र निश्‍चयात्।
मोक्षेऽन्त्ये संमुखीभूता[:]समग्राः खल्वनागताः॥

निरोधे तु प्रत्युत्पन्नं धर्मस्मृत्युपस्थानं चत्वारि त्वनागतानि भाव्यन्ते॥

[400] आकाराः खलु सर्वेपि भाव्यन्ते गोत्रलाभतः।

गोत्रानि(णि) खलु लब्धानि निरोधसत्यतोऽत्र षोडशाप्याकारा भाव्यन्ते।

गोत्रलाभे तु विज्ञेया सभागाकारभावना॥

प्रथमयोः सत्ययोः गोत्राणि आलम्बनानि। तेनात्र न विसभागाकारभावना॥

[401] सर्वत्राकिरणे मूर्ध्नो निरोधाकिरणैधने।
धर्माख्याः संमुखीभूताश्‍चतस्रः खल्वनागताः॥

मूर्धाकारविन्यासे ‘निरोधाकिरणैधने’ च धर्मस्मृत्युपस्थानं प्रत्युत्पन्नम्, चत्वार्यनागतानि भाव्यन्ते॥

[402] आकाराः सकलास्तत्र भाव्यन्ते गोत्रलाभतः।
सर्वाभ्योऽन्यतरोत्पन्नाः[:] सत्यत्रयविवर्धने॥

[403] अनागताश्‍चतस्रस्तु भाव्यन्ते तत्र निश्‍चयात्।
आकाराः सकला ज्ञेयाः क्षान्तिविन्यसने श्रि(शृ)णु॥

[404] सर्वत्रान्त्याः समुत्पन्नाश्‍चतस्रः खल्वनागताः।
आकाराः सकलास्तत्र भाव्यन्ते चाप्यनागताः॥

[405] प्रत्युत्पन्नाग्र्‍यधर्मेषु धर्माख्या स्मृत्युपस्थितिः।
अनागतास्तु भाव्यन्ते चतस्त्रस्तेषु निश्‍चयात्॥

[406] आकाराः खलुः चत्वारो दृङ्मार्गसदृशत्वतः।
यथोष्मकिरणे तद्वद् द्रष्टव्यं दृष्टिवर्त्मनि॥

[407]अन्त्यां मार्गान्वयज्ञाने प्रत्युत्पन्नां विनिर्दिशेत्।
चतस्रोऽनागतास्तद्वत् षोडशाकारभावनात्(ः)॥

[408] तदूर्ध्वमपि चार्यस्य सर्वापूर्वगुणोदये।
श्रुतचिन्तामयं हित्वा सूक्ष्मसूक्ष्मं व्यपोह्य च॥

एवं तावदार्यस्य स्मृत्युपस्थानभावना द्रष्टव्या॥

[409] बालस्यारम्भमार्गे तु चतुर्भूमिविनिर्जयैः।
भूतामन्यतरां ताभ्यश्‍चतस्रः खल्वनागताः॥

[410] आनन्तर्यपथे मुक्तावन्त्यां सर्वास्त्वनागताः।
अन्त्ये ध्याने प्रयोगादिमार्गेष्वष्टासु पूर्ववत्॥

[411] तिस्रस्तु नवमे विद्यात् मौलभूमिप्रवेशतः।
सामन्तकप्रयोगे तु चतस्रोऽन्त्याथवा भवेत्॥

[412] दिव्याक्षिश्रुत्यभिज्ञायां विमोक्षादौ तथैव चः(च)।
प्रथमां संमुखीभूतां चतस्रः खल्वनागताः॥

[413] परि(र)चित्ते तृतीयास्तु(या तु) चतस्रश्‍चाप्यनागताः।
प्राङ्‍निवासाप्रमाना(णा)नामन्त्यां सर्वास्त्वनागताः॥

[414] आरूप्यानां(णां) विमोक्षाणां तिसृभ्योऽन्यतमां वदेत्।
संमुखे नाम जातास्तु तिस्र एव विनिर्दिशेत्॥

[415] आरूप्यकृत्स्नयोस्त्वन्त्यां प्रत्युपन्नामुदाहरेत्।
तिस्रः खल्वसमुत्पन्नाः कथयन्नियमेन तु॥

[416] आर्यस्य खलु वैराग्यप्रयोगे क्षेपने(णे)पि च।
सर्वेभ्योऽन्यतराभूताश्‍चतस्रश्‍चाप्यनागताः॥

[417] आनन्तर्यपथे मुक्तावन्त्याः सर्वास्त्वनागताः।
रि(ऋ)ध्यादौ तु गुणाः सर्वमनार्यस्यैव निर्दिशेत्॥

[418] अन्त्यपूर्वनिवासादौ स(च) धर्मप्रतिसंविदि।
तथापरसमाध्यादावरणायां तथैव च॥

[419] आरूप्याख्यविमोक्षादौ संज्ञासूक्ष्मोदये तथा।
सर्वाभ्योऽन्यतराभूताश्‍चतस्रः खल्वनागताः॥

[420] ब्रूयात्तु सूक्ष्मसूक्ष्मेऽन्त्यां भूतां तिस्रस्त्वनागताः।
समासेनेयमाख्याता स्मृत्युपस्थानभावना॥

निर्वेधभागीयानधिकृत्य

[421] एतन्निर्वेधभागीयं चतुर्धा भावनामयम्।

परमार्थदक्षिणीयभिक्षुसङ्घप्रवेशद्वारभूतत्वात् भावनामयं न श्रुतमयं चिन्तामयम्। कुतः पुनरुपपत्तिप्रातिलम्भिकं भविष्यतीत्येतच्च सन्धाय भगवतोक्तम्-“च्युतौ बतेमौ मोहपुरुषावस्माद्धर्मवि[न]याद्यत्र नामानयोः मोहपुरुषयोरूष्मगतमपि नास्ति” इति। तच्चैतत्सर्वम्

षड्भौमं षोडशाकारं पञ्चस्कन्धा विनाप्तिभिः॥

‘षड्‍भौमं’ दर्शनमार्गवतो, ‘षोडशाकारं’ दर्शनमार्गवत् सानुपरिवर्तकं। ‘पञ्चस्कन्धं विनाप्तिभिः।’ प्राप्तयः खलु नोष्मागतादिस्वभावाः। तत्स्वाभाव्ये हि तासामार्यस्योष्मगतादिसंमुखीभावः स्यात्। न चेष्यते। सत्यदर्शनसमङ्गिनो दृष्टसत्यस्य वा सत्यदर्शनप्रयोगसंमुखीभावे प्रयोजनाभावादिति।

आह। के पुनस्ते षोडशाकाराः येषां भावनेन(नया) स्त्रोतआपन्नो भवति ? तदुच्यते। चतुर्भिराकारैरणि(नि)त्यदुःखशून्यानात्माकारैः दुःखं परीक्षते। तत्र बोधिसत्त्वादृते तृष्णाचरितः प्रायोऽणि(नि)त्याकारेण, कौसीद्याधिको दुःखाकारेण, आत्मीयदृष्टिचरितः शून्याकारेण, आत्मदृष्टिचरितोऽनात्माकारेण।

हेतुसमुदयप्रभवप्रत्ययतः समुदयम्। हेतुतः अहेतुदृष्टिचरितः। समुदयतः एककारणदृष्टिचरितः प्रभवतो नित्यकारणदृष्टिचरितः। प्रत्ययतोऽबुद्धिपूर्वकृतदृष्टिचरितः।

निरोधशान्तप्रणीतनिःसरणतो निरोधम्। एभिश्‍चतुर्भिर्निरोधः। नास्ति मोक्ष इत्येवं दृष्टिचरितो निरोधतः शरीरादिमत इत्येवं चरितः शान्ततः। विषयसुखचरितः प्र[णीत]तः। ध्यानादिसुखचरितो निःसरणतः।

मार्गन्यायप्रतिपन्नैर्यानि(णि)कतो मार्गः(र्गम्)। एभिश्‍चतुर्भिर्मार्गः। नास्ति मोक्षमार्ग इत्येवं दृष्टिचरितो मार्गतः। कष्टतपोभिरित्येवं दृष्टिचरितो न्यायतः। लौकिकवैराग्यमार्गचरितः प्रतिपत्तितः। असकृल्लौकिकमार्गपरिहाणितो(को) नैर्याणिकतः। इत्येवमादिते(के?) समये व्यभिचरणकाले त्वेकोपि सर्वैः परीक्षते। रोगगण्डशल्याघाताकारादिभिर्ण(र्न) तु तैरत्यन्तप्रहाणमित्यतः षोडशैवार्याकारा इत्युच्यन्ते। पुरस्ताच्चैतच्छ्लोकानुगतमेवोपदर्शयिष्यामि॥

निर्वेधभागीयेभ्यः पुनः

[422] पश्‍चात्तु खलुनिर्वेध आर्यमार्गाह्वयस्ततः।
स यस्मान्निश्‍चितो वेधस्तस्मान्निर्वेध उच्यते॥

इति प्रागाविष्कृतमेतत्॥

[423] धर्मज्ञानरुचिर्दुःखे निर्मलं धर्मदर्शनम्।
ततस्तत्रैवावधृतिः धर्मज्ञानमनन्तरम्॥

लौकिकेभ्यः खल्वग्रधर्मेभ्यो निरास्रवा लोकोत्तराः(रा) धर्ममात्रेक्षणदृष्टिरुत्पद्यते। सूत्र उक्तम् “लौकिकाग्रधर्मानन्तरं समं नियाममवक्रामति यदवक्रान्तौ पृथग्जनभूमिं समतिक्रामति” इति। तदनन्तरं दुःखे धर्मज्ञानं निश्‍चयात्मकम्। क्षान्त्या वा संयोगप्राप्तिं छिनत्ति ज्ञानेन विसंयोगप्राप्तिमावहतीति विशेषः।

[424] एवं त्रिष्वपि सत्येषु तथैवान्वयधीर्द्विधा।

द्वाभ्यां धर्मज्ञानक्षान्तिधर्मज्ञानेक्षणाभ्यां समनन्तरं रूपारूप्यावचरे दुःखेऽन्वयज्ञानक्षान्त्यन्वयज्ञानेक्षणमुत्पद्यते। एवं त्रिष्वपि सत्येषु द्रष्टव्यम्। अत्र पुनः

अनन्त्यास्तत्र दृङ्मार्गाः ज्ञेयाः पञ्चदशक्षणाः।

अन्त्यक्षणं मुक्त्वा पञ्चदशस्वभावो दर्शनमार्गः यस्त्वसौ स्थापितः स खलु

[425 ab.] क्षणोऽन्त्यो भावनामार्गात् फलमेषोऽर्थसिद्धितः॥

योगाचार्यस्य खल्वभि...............
................... स्त्रोताश्‍चेति पञ्चभवन्ति॥

अत्र पुनर्य एष पञ्चमः स खलु

[426] ध्यानानि व्यवकीर्यातः पञ्चमस्त्वकनिष्ठगः।

शुद्धावासोपपत्तिः खलु ध्यानव्यवक(कि)रणफला।

चतुर्धाऽऽरूप्यगाम्यन्यो दृष्टनिर्वायकोऽपरः॥

ऊर्ध्वगस्यानागामिनः पञ्चधा भेद उक्तः। [आ]रूप्यगामी तु चतुर्धा निर्दिश्यते पूर्वोक्तेभ्यः अन्तरापरिणि(नि)र्वायिणमपास्य। इत्येते षड् भवन्ति। दृष्टधर्मनिर्वायकः सप्तम इहैव जन्मनि यः परिणि(नि)र्वाति॥

[427] पुनस्त्रिधा त्रिधा कृत्वा त्रीनतो रूपगा नव।

एते खलु रूपोपगाः पञ्चानागामिनस्त्रयो भवन्ति। अन्तरोप[प]द्यपरिणि(नि)र्वायिणमू(न्नू ?)र्ध्वस्त्रोताश्‍च। द्वितीयाद्या हि त्रयोऽणा(ना)गामिनः सर्व एवोपपद्य परिणि(नि)र्वायिणो भवन्ति। अनुपपन्नानां परिणि(नि)र्वाणात्। तेषां प्रत्येकं तृ(त्रि)धा भेदान्नवानागामिनो भवन्ति। कथमिति ? अन्तरापरिणि(नि)र्वायिणस्तावदुत्पतत एवादूरं गत्वोपपत्त्यासन्नीभूतस्य च परिणि(नि)र्वानि(ण) भेदात्। उपपद्यपरिणि(नि)र्वायिणः उपपद्य साभिसंस्काराण(न)भिसंस्कारभेदादूर्ध्वस्त्रोतसः प्लुतादिभेदात्।

तद्विशेषः पुनर्ज्ञेयः कर्मक्लेशाक्षभेदतः॥

तेषां पुनस्त्रयाणां नवानां वा अनागामिनां कर्मक्लेशेन्द्रियभेदाद्यथायोगं विशेषो बोद्धव्यः। त्रयाणां तावत्कर्मतः, अभिनिर्वृत्युपपत्त्यपरपर्यायवेदनीयकर्मोपचितत्वात्। क्लेशतः मृदुमध्याधिमात्रक्लेशसमुदाचारात्। इन्द्रियतोऽधिमात्रमध्यमृद्विन्द्रियभेदात्॥

यदि तर्हि क्लेशेन्द्रियभेदान्नवानागामिनो भवन्ति, कथं सूत्रे सप्त सत्पुरुषगतयो देशिताः ? तदपदिश्यते-

[428] षड्‍धोर्ध्वस्त्रोतसा सार्धं सप्तधा सद्‍गतिर्मता।

द्वौ खल्वत्रानागामिनौ त्रिघा त्रिधा भि(त्त्वा) षड्‍धा व्यवस्थापितौ। तृतीयस्तूर्ध्वस्त्रोताऽनाकुलीकरणार्थमभेदेनैवोक्तः। इति सप्तधा देशिता सत्पुरुषगतिः।

कस्मात् पुनः स्त्रोतआपन्नसकृदागामिनोः सत्पुरुषगतिर्न देशिता सत्पु[रु]षसूत्रोद्देशे लक्षणेपि सति तदुच्यते-

सति वृत्तेरणे(नै)र्याणादुक्तैषामेव सद्‍गतिः॥

यस्मादनागामिनः सत्येव वृत्तिर्भवति नासती। इतरयोस्तु कुशलाकुशले वृत्तिः। यस्माच्चानागामी यतो गतस्तत्र न पुनरागच्छति, तौ तु गतागती कुर्वाते तस्मात्तस्यैव स(सा) गतिर्देशिता नेतरयोरिति॥

किं पुनः परावृत्तजन्माप्यनागामी सत्पुरुषगतौ व्यवस्थापितः ? नेत्याह। यस्मात्-

[429] परावृत्तभवो ह्यार्यो नेह धात्वन्तरोपगः।

रूपधातौ हि परावृत्तजन्मनः आर्यस्य धात्वन्तरगमनेऽस्ति संभवः। कामधातौ तु परावृत्तजन्माऽऽर्यो न धात्वन्तरं गच्छति तत्रव जन्मनि परिणि(नि)र्वाणात्।

यश्‍चैष कामधातौ परिवृत्तजन्माऽऽर्य उक्तः

एष चोर्ध्वगतिश्‍चैव नाक्षमं चारहाणि(नि)भाक्॥

ऊर्ध्वधातूपपन्नः ऊर्ध्वगतिरार्य इत्यपि कृतं द्वयोरप्यण(न)योर्णा(र्ना)स्तीन्द्रियसंचारो न परिहाणिः। जन्मान्तरपरिवासेनार्यमार्गस्य सन्ततौ दृढतरणि(नि)वेशात्, आश्रयविशेषलाभादार्यस्य जन्मान्तरे रूपारूप्यप्रवेशेन्द्रियसंचारपरिहाणयो न सन्ति॥

अथ यदुक्तं घ्यानव्यवकिरणादिति तत्र कतमद्ध्यानमादौ व्यवकीर्यते ?

[430] अन्त्यकामीर्यते पूर्वं सिद्धिर्द्विक्षणमिश्रणात्।

चतुर्थे हि प्रश्रब्धिसुखोत्कटः समाधिः सर्वकर्मण्यो यतस्तत्संमुखीभावात्, आश्रयस्योपचये सत्यामृताभिवृद्धिः येन शक्नोति ध्यानानि व्यवकरितुम्।

कथं पुनर्ध्यानानि व्यकीर्यन्ते ? आदौ तावदनास्रवं प्रवाहयुक्तं चतुर्थं ध्यानं समापद्यते। तस्माद्व्युत्थाय तदेव सास्रवं प्रवाहयुक्तं समापद्यते।

पुनश्‍च तदुत्थितः अनास्रवं तथैव स तान् प्रवाहान्ह्रसित्वा याव[त्क्षण] द्वये तिष्ठतीत्येष प्रयोगः।

सिद्धिस्तु क्षणद्वयमिस्रणात्। यदा तु शक्नोत्येकेनास्रवक्षणानन्तरमेकं लौकिकं संमुखीकर्तुम्, एकलौकिकक्षणान्तरं चैकमनास्रवमयत्नेन, एवमनास्रवाभ्यां सास्रवस्य मिश्रीकरणान्निष्पन्ना भवति ध्यानव्यवकिरणा।

किमर्थं पुनर्ध्यानव्यवकिरणम् ? तदुच्यते-

उद्भवार्थं सुखार्थं च क्लेशाशङ्कार्थमेव च॥

त्रिभिः कारणैर्ध्यानानि व्यवकीर्यन्ते। उपपत्त्यर्थं सुखविहारार्थं क्लेशपरिहाणिभीरुतया च। तत्र दृष्टिप्राप्तः उपपत्त्यभिलाषसमापत्तिप्रियताभ्याम्। श्रद्धाधिमुक्तस्तु पूर्वाभ्यां च कारणाभ्यां क्लेशभीरूतया च। असमयविमुक्तोऽप्यर्हन् द्रि(दृ)ष्टधर्मसुखविहारार्थम्। समयविमुक्तश्‍च क्लेशभीरुतया चेति॥

यच्चैतद्व्यवकिरणमुक्तम्,

[431] तत्पाञ्चविध्यतः पञ्च शुद्धावासभुवः स्मृताः।

तद्धि चतुर्थध्यानव्यवकिरणं पञ्चप्रकारं मृदुमध्याधिमात्रतर मधिमात्रतमभेदात्। अतो हेतुपाञ्चविध्यात् फलमपि पञ्चविधं भवति।

एताः पुनः शुद्धावासभूमयः

न जातु दृष्टपूर्वास्ताः सर्वैरपि पृथग्जनैः॥

भवाग्रमुपादाय ब्रह्मलोकमिन्द्रलोकं यावदवीचिमुपादाय सर्वबालपृथग्जनैर्दृ (रदृ)ष्टपूर्वमन्यत्र शुद्धावासेभ्य इति।

अभिधर्मप्रदीपे विभाषाप्रभायां वृत्तौ षष्ठस्याध्यायस्य द्वितीयः पादः॥

षष्ठाध्याये

तृतीयपादः।

[432] यो निरोधसमापत्तिमश्‍नुते कायसाक्ष्यसौ।

यः खलु निरोधसमापत्तिलाभ्यनागामी स कायसाक्षीत्युच्यते। निर्वाणसदृशस्य धर्मस्य कायेण(न) साक्षात्करणात्। स खलु धर्मः कायाश्रयेणोपजायते। तत्प्राप्तिलाभादपि निरोधलाभीत्युच्यते।

भवाग्राष्टांशहा यावदर्हत्त्वप्रतिपन्नकः॥

प्रथमघ्यानवैराग्यादेकप्रकारमारभ्य यावद्भवाग्राष्टप्रकारप्रहाणादर्हत्त्वप्रतिपन्नकोद्रष्टव्यः॥

[433] यश्चानन्तर्यमार्गेऽन्त्ये वज्रौपम्याह्वयेस्थितः।

नवमस्यापि भावाग्रिकस्य प्रकारस्य प्रहाणायानन्तर्यमार्गेऽन्त्येऽन्त्यफलप्रतिपन्नकः एवावगन्तव्यः।

तत्फलार्थं क्षयज्ञानं तदेकालम्बनं न वा॥

तस्य वज्रोपमस्य समाधेर्बलादुत्थितं तद्‍बलोत्थमन्त्यविमुक्तिमार्गाख्यं तेन सहैकालम्बनं भवति न वा। क्षयज्ञानस्य चतुःसत्यालम्बनत्वात्॥

[434] तदवाप्तेरशैक्षोऽसावर्हंस्त्रैलोक्यसत्कृतः।
सर्वक्लेशविसंयुक्तः शिक्षात्रितयपारगः॥

स खलु त्रयाणामास्रवाणां निरवशेषप्रहाणात्तिसृणां च शिक्षाणां पारगमनात् सब्रह्मकस्यापि लोकस्य पूजामर्हतीत्यर्हन्निरुच्यते॥

एषां पुनस्त्रयाणां मार्गाणां कतमः सास्रवो कतमो निरास्रवः ? तदुच्यते-

[435] भावनाख्यो द्विधा मार्गः समलामलभेदतः।
दर्शणा(ना)ख्यस्तु विज्ञेयः सर्वस्यैव निरास्रवः॥

[436] आनुपूर्विकयद्‍भूयोवीतरागावीतरागाणाम्। (-वीतावीतरागिणाम्)
अशैक्षाख्योपि बोद्धव्यो नित्यमेवामलीमसः॥

कतमत्पुनः कतमां भूमिमत्येति ? तदपदिश्यते-

[437 a] भवाग्रं निर्मलोऽत्येति........

..........तत्र तावदशैक्षस्य चत्वारि ध्यानानि त्रीण्यारूप्याण्यनागम्यध्यानान्तरं च। शैक्षस्य तु षडारूप्यत्रयं हित्वा। किं पुनरत्र कारणम् ?

[438] सविशेषं यतस्त्यक्त्वा फलं परमुपाश्‍नुते।

इह खलु यः फलविशिष्टमार्गस्थः इन्द्रियाणि संचरति सफलं फल[वि]शिष्टं च मृद्विन्द्रियमार्गं त्यक्त्वा तीक्ष्णेन्द्रियमार्गसंगृहीतं फलमात्रमेव प्रतिलभते। यश्चाशैक्षः आरूप्यभूमिं निःश्रित्येन्द्रियानि(णि) संचरति नियतमनागामिफलविशेषमार्गस्थस्य न चास्त्यनागामिफलमारूप्यभूमिसंगृहीतम्। इत्येतत् कारणम्।

यदुक्तं भगवता- “क्लेशात्(न्) प्रहायेह हि यस्तु पञ्चाहार्यधर्मा परिपूर्णशैक्षः” इति। कियता परिपूर्णशैक्षो भवति ?

शैक्षस्य त्रिभिरक्षाद्यैर्द्वाभ्यां संपूर्णंतार्हतः॥

शैक्षस्य खलु त्रिभिः कारणैः परिपूर्णता भवति। समापत्तीन्द्रियफलैः। तद्यथा दृष्टिप्राप्तस्य कामसाक्षिणः अन्यतरवैकल्यात्तु न परिपूर्णता स्यात्प्रागेव सर्ववैकल्यात्। तद्यथा कामावीतरागस्य श्रद्धाधिमुक्तस्यैवं तावच्छैक्षस्य।

अशैक्षस्य द्वाभ्यामिन्द्रियसमापत्तिभ्याम्। तद्यथोभयभागविमुक्तस्य असमयविमुक्तस्येति॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ षष्ठस्याध्यायस्य तृतीयः पादः॥

षष्ठाध्याये

चतुर्थपादः।

लौकिकलोकोत्तरदर्शण(न)भावनाशैक्षा[शैक्ष]मार्गभेदेनानेकविधो मार्ग उक्तः। स तु

[439] विज्ञातव्यः समासेन पुनमार्गश्‍चतुर्विधः।
आनन्तर्यविमुक्त्याख्यौ प्रारम्भोत्कर्षलक्षणौ॥

तत्र प्रयोगमार्गः कुशलमूलफलस्यारम्भ इत्यर्थः। तस्यानन्तरमानन्तर्यमार्गः येन क्लेशाञ्जहाति। विमुक्तिमार्गो यः तत्प्रहेयावरणविमुक्ते सन्ताने विसंयोगप्राप्तिसहायोत्पद्यते। विशेषमार्गो यस्तदूर्घ्वमन्यकुशलमूलप्राप्त्यर्थमुत्कर्षगमनलक्षणः॥

पुनर्मार्गो भगवता मोक्षपुरप्रतिपादनात् प्रतिपच्छब्देनोक्तः “चतस्रः प्रतिपदः। अस्ति प्रतिपत्सुखा धन्धाभिज्ञा। अस्ति सुखा क्षिप्राभिज्ञा। अस्ति दुःखा धन्धाभिज्ञा। अस्ति दुःखा क्षिप्राभिज्ञा।” तासां पुनरिन्द्रियतो भूमितश्च व्यवस्थानं तदिदं प्रदर्श्यते-

[440] तीक्ष्णेन्द्रियस्य मौलेषु ध्यानेषु प्रतिपत्सुखा।
क्षिप्राभिज्ञाल्पबुद्धेस्तु धन्धान्यत्र विपर्ययात्॥

मौलेषु खलु चतुर्षु ध्यानेषु यो मार्गः सा सुखाप्रतिपत्। सा च तीक्ष्णेन्द्रियस्य क्षिप्राभिज्ञा तत्रायत्नवाहित्वात्। नैर्याणवत्सुखा तत्रायत्नवाहित्वा[त्] शमथविदर्शण(न)योः साम्यात्। तत्रैव सा मृद्विन्द्रियस्य धन्धाभिज्ञा। अन्यासु तु पञ्चसु भूमिष्वनागम्यध्यानान्तरिकारूप्यत्रयसंगृहीतास्वनङ्गपरिगृहीतत्वात्। शमथविदर्शनान्यूनत्वात् अनागम्यध्यानान्तरिकयोरारूप्यत्रये चानास्रवो मार्गः तीक्ष्णेन्द्रियस्य प्रतिपत्, दुःखा क्षिप्राभिज्ञा। मृद्विन्द्रियस्य दुःखा धन्धाभिज्ञा।

कथं पुनरार्यमार्गो दुःखो भवति ? नासौ दुःखात्मकः न दुःखसंप्रयुक्तः ? नैष दोषः। यत्नवाहित्वाभिसन्धेर्विवक्षितत्वात्॥

पुनरप्येष मार्गो बोधिपक्ष्यशब्देनोच्यते “सप्तत्रिंशद्‍बोधिपक्ष्या धर्माः। चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाना(णा)नि चत्वारो ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलाणि(नि) सप्तबोध्यङ्गान्यष्टाङ्गो मार्गः” इति।

का पुनरियं बोधिः ?

[441] क्षयज्ञानं मता बोधिस्तथाऽनुत्पादधीरपि।
दश चैकश्च तत्पक्ष्याः सप्तत्रिंशत्तु नामतः॥

सा पुनरेषा बोधिः क्षयानुत्पादज्ञानरूपासती पुद्‍गलभेदेन त्रिधा भिद्यते। तिस्रो बोधयः। बुद्धप्रत्येकबुद्धश्रावकबोधयः। उत्तमनिर्वाणाङ्गभूता तद्धि तिसृणामपि बोधीनां पुरुषकारफलं तत्प्राधान्यत्वात्। मृदुमध्याधिमात्राः सप्तत्रिंशद्‍बोधिपक्ष्या धर्माः मृदुमध्याधिमात्रभेदभिन्ना महायाण(न)म्। मृदुमध्याधिमात्रभेदभिन्नं बुद्धप्रत्येकबुद्धश्रावकयाण(न) मित्युच्यते।

तस्याः पुनस्त्रिप्रकाराया बोधेरनुकूलधर्माः स्मृत्युपस्थानादयः ‘सप्तत्रिंशन्नामतः’। द्रव्यतस्त्वेकादश। श्रद्धादीनि पञ्च बलानि प्रीतिप्रस्रब्ध्युपेक्षासम्यक्संकल्पवाक्कर्मान्ताश्च षडिति। अत इदमुच्यते-

[442] सोपेक्षाप्रीतिसंकल्पं श्रद्धादीन्द्रियपञ्चकम्।
सप्रस्रब्धिर्द्विरूपोत्थं नामभेदस्त्वपेक्षया॥

[443] बलान्यत्रेन्द्रियाण्येव प्रज्ञैव स्मृत्युपस्थितिः।
वीर्यं सम्यक्प्रधानाख्यं रि(ऋ)द्धिपादा मनस्थितिः॥

कथं पुनरेकं वीर्यं चतुर्धा निर्दिश्यते ? तदपदिश्ते-

[444] दोषहाणमनुत्पादं गुणोत्पादं विवर्धनम्।
सकृत्करोति यत्तद्धि स प्रहाणचतुष्टयम्॥

उत्पन्नानां रागादीनां खलु दोषाणां प्रहाणायानुत्पन्नानां चानुत्पादाय यद्वीर्यम्, गुणानां च स्मृत्युपस्थानर्धिपादादीनामनुत्पन्नानामुत्पादाय, उत्पन्नानां च स्थितये यद्वीर्यं, तत्प्रयोजननिष्पत्तिभेदाच्चत्वारि सम्यक्प्रहाणानि भवन्ति॥

[445] छन्दव्यायाममीमांसा चित्ताकृष्टाः समाधयः।
रि(ऋ)द्धिपादास्तु चत्वारो गुणसम्पत्तियोण(न)यः॥

छन्दमधिपतिं कृत्वा यो णि(नि)ष्पद्यते समाधिः स छन्दसमाधिः। कुशलमूलच्छन्दमूलकत्वात् समाध्यादिगुणनिष्पत्तेः, तस्मादसौ छन्दसमाधिरित्युच्यते। तत्प्रभवाः सर्वा गुणर्धयः। एवं वीर्यं चित्तं मीमांसामधिपतिं कृत्वा निष्पन्नः समाधिः स एष च्छन्दवीर्यचित्तमीमांसासमाधिश्चतुर्विधः। प्रहाणसंस्कारैः च्छन्दवीर्यस्मृतिबुद्धिश्रद्धाप्रस्रब्धिचेतनोपेक्षाभिः प्रत्येकं समन्वागतः सर्वगुणसमृद्धिनिष्पादको भवति छन्दवीर्यचित्तमीमांसापरिग्रहः सामर्थ्यात्। कुशलधर्मच्छन्दे ह्यसति कुतस्तत् प्राप्त्यारम्भः ? आरब्धेपि च वीर्ये यदि न तत्प्रगुणमेव चित्तं भवति न कार्याभिनिष्पत्तिर्भवति। यथाऽरणीमभिनिर्मथ्याप्यन्तरायव्युपरमो भवति पुनः शैत्यमापद्यते तद्वदिति। वीर्यानुवृत्तये चित्तमधिपतिमिष्यते। तत्प्रवणेपि चित्ते यदि सूक्ष्मान् समाध्युपक्लेशान्नोपलक्ष्य परिवर्जयति यदि समाध्यनुगुणान्, गुणांस्तु सामान्यलक्षणशक्तिक्रियानुत्तमार्थाङ्गभूतानुपलक्ष्य, प्रज्ञया नोपचिनोति तस्यान्यायारब्धवीर्ये त्रयमप्येतन्न प्रयोजननिष्पत्तये भवति। एवं छन्दवीर्यश्रद्धास्मृतिबुद्धिप्रस्रब्धिचेतनोपेक्षाख्यानामष्टाणां प्रहाणसंस्काराणां समाधिपरिग्रहसामर्थ्यं यथायोगमवगन्तव्यम्॥

[446] प्रोक्तं बोधित्रयेशित्वाच्छ्रद्धादीन्द्रियपञ्चकम्।
कथितं बलशब्देन तदेवानभिभूतितः॥

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञारूपाणि खलु पञ्चेन्द्रियाणि बोधिपक्ष्येषु व्यवस्थाप्यन्ते। बोधित्रयाधिगमे श्रद्धादीनां पञ्चानामैश्वर्याधिक्यात्, सर्वभूमीषूपलब्धेश्च। एतेषां चाधिमात्रमध्यमृदुतरतमविशेषादर्हत्प्रभृतीनां व्यवस्थानं भवति। तान्येव बोधिपक्ष्येष्विन्द्रियाण्युक्तानि, न चक्षुरादीन्याज्ञातवतेन्द्रियपर्यवसानानि। एषामेवै[श्वर्य]र्द्धिलिङ्गत्वात्। इहेन्द्राः द्विविधाः। चित्तेश्वराश्च धनेश्वराश्‍चेत्यतः इन्द्रलिङ्गमिन्द्रियम(मि)तिकृत्वेन्द्रियाणि। यथा पृथिवीश्‍वराणां पट्टादीनि लिङ्गानि भवन्ति यैः पृथिवीश्‍वरोयमिति प्रज्ञायते। यथा च पृथिवीश्‍वराः विभूषणोपभोगैः परिज्ञायन्ते तथा चित्तेश्‍वराणामार्यधनसमृद्धानां च श्रद्धादीनि विष्कम्भितप्रहीणविपक्षाणि निर्मलानि लिङ्गानि भवन्ति।

तत्र तावच्छ्रद्धायाः स्वलक्षणं बुद्धधर्मसङ्घान् सम्भावयतश्‍चित्तं प्रसादमुपयाति सद्‍भूतगुणयोगादपेतदोषत्वाच्च, तद्धर्मेषु च प्रसादात्मकमेवार्थित्वमुत्पद्यते। प्रतीत्यसमुत्पादादीनां वा यथाभूतप्रत्यवेक्षणात् कर्मफलादिषु तत्र संभावना भवति। तथा च संभावयतो यश्‍चेतसः प्रसादः सा श्रद्धा नाम धर्मश्‍चित्तेन संप्रयुक्तः। यदा(थाऽऽ)दर्शादौ धर्मसमूहे, धर्मान्तरमादर्शप्रसादादयः, एवमरूपिणि चित्तादिधर्मसमुदया धर्मान्तरं श्रद्धादयः, चित्तस्याश्रयभावात् प्राधान्यात् सन्तानानुवृत्तेश्च चित्तव्यपदेशः।

वीर्यं णा(ना)म चेतसोप्यु(भ्यु)त्साहलक्षणं प्रयोजन(ने) वार्थिशक्यतां संभाव्य विविधमीर्यत इति वीर्यम्।

स्मृतीन्द्रियं नाम कायादिषु प्रज्ञयोपलक्षितेषु या खल्वविपरीताभिलपना प्रत्यभिज्ञानम्, येनावधारिते विषयसंमोषश्‍चेतसि न भवति स खल्वसंमोषः स्मृतीन्द्रियम्।

चेतस एकाग्रलक्षणं समाधीन्द्रियम्। विषयग्राहिविषयिणो धर्मास्तदेकालम्बनं चित्तमेकाग्रमित्युच्यते। विचित्रविषयप्रद्युते ह्यनवस्थिते चेतसि तत्त्वावधारणं न भवति। यथा खलु विद्रुतजवनाश्‍वारूढः पुरुषः प्रतिमुखमागच्छतां दृष्टपूर्वाणामपि मनुष्यादीनां न शक्नोति व्यक्तिमुपलक्षयितुमेवमनेकविषयप्रद्रुते लघुपरिवर्तिनि चित्ते न कायादिविषयतत्त्वोपलक्षणा भवति। यदा तु सुसारथिनेव समाधिनैकस्मिन् विषये चिरं चित्तमाधार्यते तदा धर्मतत्त्वमुपलक्षयति। तस्मात् कुड्य इव रङ्गस्य श्‍लेषः समाधिरालम्बने चित्तस्याधारः।

प्रज्ञेन्द्रिसं यत् स्वसामान्यलक्षणमुपलक्षयति। यच्च कायदीनां तत्त्वमभिमुखवदवस्थितं प्राप्तमिव श्‍लष्टमिव पृष्ठे(ष्ठ इ)व च लक्षयति सोपलक्षणात् प्रज्ञेन्द्रियम्। यद्यपि सर्वचित्तेषु यथाविषये प्रत्युपलक्षणा विद्यते न तु सा यथार्थप्रवृत्तेति न सेन्द्रियम्।

एतान्येवेन्द्रियाणि श्रद्धादीनि यस्माद्योगिणः(नः) क्लेशसंग्रामावतीर्णाः (र्णस्य) क्लेशानीकविजये प्रधानाङ्गभूतानि राज्ञ इव हस्त्यादयस्तस्माद्‍बलानीत्युच्यन्ते।

[447] बोधनार्थेन निर्दिष्टं शास्त्रा बोघ्यङ्गसप्तकम्।
प्रतीत्यादि(-त्या) परमार्थेण(न) प्रज्ञेत्यन्तमनुग्रहात्॥

समानेपि बोधिपाक्षिकत्वे विशेषेणैते सप्तधर्मा बोध्यङ्गानि भवन्ति। भावनामार्गे खल्वेतेषां प्राधान्यं दृष्टसत्यस्था[न]त एव। धर्मोपलक्षणोपलक्षितस्वरूपादिषु गुणदोषेषु स्मृतिप्रमोषदोषापनयनार्थमादौ स्मृतिसंबोध्यङ्गमुक्तम्।

ह्लादः प्रस्रब्धिः। रागजादिपरिदाहप्रतप्तचित्तशरीरस्य ग्रीष्मार्कप्रतप्तस्येव शीतोदकह्रदावगाहनादनास्रवज्ञानसंमुखीभावा द्यत् कायचित्तप्रह्लादः स धर्मः प्रस्रब्धिः।

उपेक्षा नाम रागद्वेषपक्षपातविपक्षेण यथाभूतज्ञेयमवेक्षमानस्य यच्चित्तसमतान्यतरपक्षाभिसंस्कारविपक्षो निर्वाणाशया सोपेक्षा बोध्यङ्गमित्युच्यते।

अत्र पुनः प्रीत्यादीनि त्रीण्यपि कृता[वशे]षाणि चत्वारि पूर्वमेव व्याख्यातानि। तेषां पुनः सप्तानां बुद्धिर्धर्मप्रविचयलक्षणा बोधिश्च बोध्यङ्गं च। ज्ञानं हि बोधिः ज्ञानं च प्रज्ञा शेषाण्यङ्गान्येव॥

तेषामपि च

[448] प्रीतिप्रस्रब्ध्युपेक्षाणामुक्ताद्धेतोस्तदङ्गता।

निरामिषप्रीतिप्रस्रब्ध्युपेक्षाभिः प्रीणितेन्द्रियग्रामः सुखमनुद्विग्नो बोधिमधिगच्छति। याणि(नि) चैषां लक्षणनिर्देशकारणान्युक्तानि ततश्च बोध्यङ्गत्वमिति।

संकल्पादेश्‍चतुष्कस्य पथो ज्ञेयानुकूल्यतः॥

अङ्गतेति वर्तते। सम्यक्‍संकल्पसम्यग्वाक्कर्मान्ताजीवानां सम्यग्दृष्टिसम्यग्व्यायामसम्यक्‍स्मृतिसम्यक्‍समाधीनामिव मार्गानुकूल्यादङ्गत्वम्॥

अयं पुनरार्यमार्गसतत्त्वपिण्डार्थः-

[449] विद्याप्रभः श्लक्ष्णविकल्पभूमिः शीलानुयात्रः स्मृतिवीर्यमित्रः।
समाधिसर्वाधिसुखोपभोगो मार्गो विमुक्तिद्वयधिष्ण्यगोऽयम्॥

[450] प्राधान्यं सप्तवर्गस्य प्राग(र)म्भोष्मगतादिषु।

अत्र पुनः
यथाक्रमं विबोद्धव्यं भावनादृष्टिमार्गयोः॥

तत्र स्मृत्युपस्थानान्यादिकर्मिकावस्थाप्रभावितानि कायादिस्वभावोपलक्षणात्। सम्यक्प्रहाणान्यूष्मगतेषु। तत्र संसारणि(नि)र्वाणयोरादीनवानुशंसदर्शने बलवद्वीर्याश्रयणात् संसारपारमुत्तरति। मूर्धावस्थायामृद्धिपादाः प्रभाव्यन्ते तेषु समाधिबललाभाच्चित्तनिग्रहे सति परिहाण्यभावान्न कदाचिद् गुणधनदरिद्रो भवति। इन्द्रियाणि क्‍षा(क्षा)न्तिष्वपायात्यन्तनिवृत्तौ तदाधिपत्यात्। बलान्यत्र(ग्र)धर्मेषु क्लेशानवमर्दनीयत्वात्। बोध्यङ्गानां भावनामार्गे प्राधान्यं वासीदण्डोपमया मार्गभावण(न)या निरवशेषक्लेशप्रहाणात्। नवप्रकारतया वा मलप्रहाणे सति बोधेरासन्नीभावात्। दर्शण(न)मार्गे मार्गाङ्गानि दर्शनहेयक्लेशप्रहाणार्थमाशु त्रैधातुकातिक्रमनो(णो)त्पादा[त्। आ] नुपूर्वीव्यतिक्रमस्तु देशनानुकूल्यात्॥

अथ कस्माच्चैतसिकधर्मधर्मिभूतं चित्तं बोधिपक्ष्येषु ण(न) व्यवस्थापितम् ? संज्ञाचेतनामनस्कारच्छन्दाधिमोक्षादयश्च धर्मा बोधिपक्ष्येषु ण(न) व्यवस्थाप्यन्ते ? तदिदमनुवर्ण्यते-

[451] न चित्तं राजकल्पत्वाद् गुणदोषानुवर्तनात्।

राजस्थानीयं खलु चित्तं तद्‍बोधिपक्ष्यैर्धर्मैर्विशोध्य मोक्षसुखमुपलभ्यते। यथैव च गुणानुवर्ति चित्तं तथैव दोषानुवर्ति। यथोक्तम्-“चित्तसंक्लेशात्सत्त्वा संक्लिष्यन्ते। चित्तव्यवदानहेतोश्च विशुद्‍ध्यन्ते।” तस्य रागादयः संक्लेशकराः, श्रद्धादयो व्यवदानाधायिनस्तस्माच्चित्तं न व्यवस्थापितम्।

व्यवहारानुकूल्यत्वात् संज्ञा ह्येतेषु नेष्यते॥

प्रायो हि व्यवहारानुपतिता संज्ञा बोधिपक्ष्यास्त्वेकान्तेन परमार्थपक्षभजमानाः॥

[452] विपाकफलनिम्नत्वान्मार्गोक्तेश्‍च न चेतना।

चेतना खल्विष्टानिष्टविपाकनिर्वर्तण(न)त्वात् मार्गशब्देनाभिधानाच्च नोच्यते।

नाप्राधान्यान्मनस्कारो विद्याऽविद्याप्रवर्तणा(ना)त्॥

मनस्कारोपि सम्यग्दृष्टेरङ्गभूतत्वादप्रधानं विद्याऽविद्याप्रवर्तणा(न) च्च॥

[453] क्रियारम्भप्रधानत्वान(न्न)च्छन्दो वीर्यबृंहणात्।

छन्दः खलु कर्त्तुकामतारूपः क्रियारम्भः प्रभाव्यते। वीर्य चानुबृंहयति। तद्वीर्यं बोधिप्रतिलम्भकर्तव्यतापरिसमाप्तेरूर्घ्वं यावदनुवर्तते।

नाधिमोक्षः समारोपान्न स्पर्शो दौर्विभाव्यतः॥

प्रायेण खल्वधिमोक्षोऽधिमुक्तमनस्कारेषु वर्तते। स्पर्शोपि त्रिसन्निपातमात्रविप्रतिपत्तेर्दुरवधारवृत्तिः। तस्मान्नोक्तः॥

[454] नार्यवंश ह्र्यपत्राप्यार्यो(-प्या) [अ]विशारदवृत्तितः।

चत्वारः खल्वार्यवंशाः ह्र्यपत्राप्ये च। नवप्रव्रजितभिक्षुवदविशारदवृत्तित्वान्न बोधिपक्ष्यात्(क्ष्याः)।

न्ना(ना)प्रमादः पराङ्गत्वान्नाविहिंसाऽविहेठनात्॥

वीर्यभाण्डागारिकः खल्वप्रमादः। अविहिंसा च विहेठनामात्रप्रतिपक्षत्वान्नोक्ता॥

[455] सत्त्वाधिष्ठानवृत्तित्वान्न मैत्रीकरुणादयः।

धर्माघिष्ठानाः खलु बोधिपक्ष्याः मैत्र्यादयस्त्वेकान्तेन सत्त्वाधिष्ठानाः।

मार्गाङ्गाक्षैकदेशत्वान्नाप्यवेत्यप्रसत्तयः॥

अवेत्यप्रसादाः खलु मार्गाङ्गैकदेशस्वभावत्वादक्षैकदेशरूपत्वाच्च न पुनर्बोधिपक्ष्येषूक्ताः।

[456] नाद्वेषः शुभमूलेभ्यः सत्त्वगोचरभावतः।

सत्त्वाधिष्ठानप्रवृत्तो हि अद्वेषः। तस्मान्न बोधिपक्ष्यः।

औदासीन्यान्न निर्वाणं दविष्ठ्यान्न परध्वनिः॥

निष्क्रियं खलु निर्वाणं क्रियावन्तस्तु बोधिपक्ष्या धर्माः। परतो घोषः खल्वपि बोधिपक्ष्याङ्गभावा(वो) बोधेर्बहिरङ्गभावाद्विप्रकृष्यते। तस्मात् सप्तत्रिंशदेव धर्मा बोधिपक्ष्याः॥

कति पुनर्बोधिपक्ष्याः सास्रवाः कत्यनास्रवाः ? तदिदं प्रदर्श्यते-

[457] बोध्यङ्गान्यरजस्कानि बोधि(धे)र्नेदिष्टभावतः।
तदन्यान्यवबोध्यानि समलान्यमलान्यपि॥

बोध्यङ्गानि खलु बोधेरासन्नतमत्वादेकान्तानास्रवाणि। तदन्ये तु सास्रवानास्रवाः सर्वे हि कुशला धर्मा आर्यमार्गावाहका निर्वाना(णा)शयाश्‍च। बोधित्रयसंनिकृष्टविप्रकृष्टाङ्गभावा बोधिपक्ष्या इत्युच्यन्ते। उक्तं हि भगवता- “अधिगतो मे पौराणो मार्गः” इति वचनात्। शास्त्रे तु बोध्यङ्गोपरि ये पठ्‍यन्ते सम्यग्दृष्ट्यादयो धर्मास्तेऽनास्रवा इति॥

कस्यां पुनर्भूमौ कियन्तो बोधिपक्ष्या विद्यन्ते ?

[458] आद्ये ध्यानेऽखिला मौलेऽनागम्ये प्रीत्यपाकृताः।
द्वितीयेऽप्यपसंकल्पा द्वयोश्‍चास्मात् द्वयादृते॥

[459] शीलाङ्गेभ्यश्‍च ताभ्यां च द्रष्टव्या त्रिष्वरूपिषु।
बोध्यङ्‍गेभ्यश्‍च सर्वा(र्वे)भ्यो कामे बोध्यङ्गवर्जिताः॥

तत्र तावन्मौले ध्याने सर्वेपि सप्ततृ(त्रिं)शद्‍बोधिपक्ष्या विद्यन्ते। अनागम्ये तु प्रीतिवर्जिताः। तत्र प्रीतेरभावात्। वीतरागावीतरागसाधारणैषा भूमिरिति नास्ति प्रीतिः। द्वितीये तु ध्याने संकल्पवर्जिताः सर्वे विद्यन्ते। तृतीयचतुर्थयोस्तु ध्यानयोः संकल्पप्रीतिवर्ज्याः पञ्चत्रिंशत्। ‘च’शब्दाद् ध्यानान्तरेपि पञ्चत्रिंशत् संकल्पप्रीतिवर्जिताः। त्रिष्वारूप्येषु सम्यग्वाक्कर्मान्ताजीवैस्त्रिभिः प्रीतिसंकल्पाभ्यां च। भवाग्रेपि शीलाङ्गत्रयप्रीतिसंकल्पबोध्यङ्गवर्जिताः पञ्चविंशतिः। कामधातावपि बोध्यङ्गवर्जितास्त्रिंशद्विद्यन्त इति। ये पुनरणा(ना)स्त्रवाण्येव मार्गाङ्गानीच्छन्ति तेषां तैरपि वर्जिताः शेषा बोधिपक्ष्या विद्यन्त इति। गतमेतत्॥

इदं तु वक्तव्यम्। बोधिप(पा)क्षिकाधिकारे-

[460] यस्तत्प्रथमताः प्रोक्ताश्‍चतस्रस्तत्र कोविदैः।
न्यामावक्रान्तिवैराग्यफलाप्त्यक्षविवृद्धिषु॥

न्यामावक्रान्तितत्प्रथमता, वैराग्यतत्प्रथमता, फलप्राप्तितत्प्रथमता, इर्न्द्रियान्तरविवृद्धितत्प्रथमता तासु खल्वेतासु चतसृषु तत्प्र[थ]मतासु-

[461] अष्टानां नीरजस्कानां मार्गाङ्गाणां(नां) यथायथम्।
तास्वेकस्याध्वसु ज्ञेयौ लाभालाभौ नवाश्रयौ॥

बोघिपक्ष्यभावनाप्रयुक्तस्यावेत्यप्रसादप्रतिलम्भोऽवश्यम्भावीत्यतो वक्तव्यं कस्मिन् सत्ये दृश्यमाने कस्यावेत्यप्रसादस्य लाभः ? तदिदं निर्दिश्यते-

[462] त्रिसत्याधिगमे लाभः शीलधर्मप्रसादयोः।
मार्गसत्येक्षणे बुद्धसङ्घगोचरयोरपि॥

दुःखसत्यमभिसमागच्छन्नार्यकान्तानि च शीलानि प्रतिलभते धर्मे चावेत्यप्रसादः। कतरस्मिन् धर्मे ? तस्मिन्नेव दुःखसत्ये। धर्ममात्रमिदं सर्वं द्वादशायतनमात्रमित्यर्थः। नात्र कश्‍चिदेकः सर्वभेदान्वयी जातिद्रव्याख्यो धर्मी विद्यते। न चात्र सन्ति पुरुषजीवपुग्दला भूतकोटयः शशविषाणकल्पा निरात्मान इति। एवं समुदयमभिसमागच्छतो द्वयोरेव लाभः। तद्विन्निरोधं समागच्छतो द्रष्टव्यम्। मार्गसत्येक्षणे तु बुद्धे भगवति प्रसादो लभ्यते तत्सङ्घे च। सद्‍भूतमार्गाख्यायी भगवान्मार्गज्ञो मार्गदेशिक[:]। येपि च तं मार्गं प्रतिपन्नाः श्रावकाः शैक्षाशैक्षाः पुरुषवृषभाः ये च सप्तसद्धर्मादिप्रदीपप्रकाशितबुद्‍ध्याशयसा(?)च बोधिसत्त्वसिंहाः दर्शनमार्गगुहाध्यासिनः तेषु च प्रसादो भवति द्व्याकारश्रद्धास्वरूपः। सोऽयं विस्तरेणोच्यते॥

स पुनर्धर्मो निर्वाणं बोधिसत्त्वसन्तानिकश्‍च मार्गः॥

कः पुनरेष बुद्धः को वा तत्प्रसाद इत्यपदिश्यते-

[463] बौद्धात्सङ्घादृते मार्गाद्या श्रद्धा सत्यगोचरा।
धर्मावेत्यप्रसादोसौ संप्रतीत्यप्रभावतः॥

[464] मोहनिद्रातमोनाशाद्धीनेत्रोन्मीलना[त्] स्वयम्।
बुद्धो यस्तद्‍गुणे श्रद्धा प्रसादः स जिने मतः॥

द्विप्रकारो हि बुद्धशब्दस्यार्थो मुख्यो गौन(ण)श्‍च। तत्राद्यो बुद्धक(का)रका बुद्धस्याशैक्षा धर्माः। गौन(ण)स्तु तदाधारेपि शरीरे तत्फलभूतेषु चाष्टादशस्वावेणिकेषु बुद्धगुणेषु बुद्धशब्दसाधुत्वं पूर्वमेव प्रदर्शितम्॥

[465] शैक्षाशैक्षगुणाढ्यानां पुद्‍गलानां य आकरः।
तद्‍गुणालम्बना श्रद्धा प्रसादः सङ्खगोचरः॥

उक्तं हि सूत्रे-“कति भदन्त लोके दक्षिणीयाः ? द्वौ गृहपते शैक्षा अशैक्षाश्‍च। तत्राष्टादश शैक्षाः नव शैक्षाः।” इति विस्तरः॥

[466] शीलानां यत्तु वैमल्यं तत्प्रसादस्तथैव तु।

कति पुनरेषां द्रव्यतः कति नामतः ?

द्रव्यतो द्वयमेवैतन्नामतस्तु चतुष्टयम्॥

श्रद्धा रत्नत्रयालम्बनभेदेन त्रिधा भित्वार्यकान्तानि च शीलान्येकधा कृत्वा तत्रापि वैमल्यप्रसादोक्तिः। यद्धि निर्मलं तत् प्रसन्नमित्युच्यते॥

इदमिदानीं वाच्यम्। अथ कस्मात्समन्वागतोपि शैक्षः सम्यग्ज्ञानेन सम्यग्विमुक्त्या चाष्टाभिरङ्गैः समन्वागतः शैक्षः प्रातिपद इत्युक्तं दशभिरर्हन् क्षीणास्रव इति ? तदुच्यते-

[467] शैक्षस्य बन्धशेषत्वाद्विमुक्तिर्णा(र्ना)ङ्गमिष्यते।

शैक्षस्य विद्यमानापि अनाकारित्वान्नाङ्गमुच्यते। सत्यामपि हि तस्यां क्लेशबन्धनबद्धः शैक्षो ण(न) च विमोक्षो युज्यते।

का पुनरियं विमुक्तिः कतिधा च ? तदपदिश्यते-

मोक्षाधिमोक्षरूपत्वान्नित्यानित्यत्वतो द्विधा॥

स्वरूपभेदादपि द्विधा प्रकारभेदादपीति। स्वभावभेदात् मोक्षाधिमोक्षस्वभावा। प्रकारभेदोपि क्षराक्षरभेदात्, सामयिकी कान्ताऽकोप्यभेदाद्वा रा[ग]विरागाविद्याविरागभेदाच्च॥

अथ सम्यग्ज्ञानं कतमत्तदुच्यते-

[468] पूर्वोक्तैव हि या बोधिः सा सम्यग्ज्ञानमुच्यते।

क्षयानुत्पादज्ञाने बोधिरित्युक्तम्। ते एव सम्यग्ज्ञानं वेदितव्यम्।

कतरत् पुन[श्चित्तं] विमुच्यते ? किं जातनिरुद्धमथाजातनिरुद्धमथ जातमेव ?

मुच्यते(ऽ)नागतं चित्तमशैक्षं क्लेशरोधतः॥

कश्‍चित् खल्वाह-अनागतं खलु चित्तमुत्पाद्यमानं विमुच्यतेऽध्वविमुक्त्या सर्वमेव त्वनागतं विमुच्यते। क्लेशावरणात् सन्तानविमुक्त्याः(क्त्या)। तत्पुनरशैक्षमेव क्लेशोपक्लेशप्राप्तिविबन्धादा(प)गमा[त्]। यदपि तद्रूपारूप्यप्रतिसंयुक्तं कर्मोपपत्तिफलं तदप्यर्हत्त्वप्राप्तिविबन्धकरं तच्च सर्वं वज्रोपमेन प्रहीयत इत्यावरणविगमात् सर्वमेवानागतमशैक्षं चित्तं विमुच्यते॥

धर्मा एव तु परमार्थतः शिक्षन्ते। यस्मात्-

[469] धर्मव्यापारतो लोके धर्म्यपि व्यावृ(पृ)तो मतः।

औष्ण्याख्यस्य धर्मस्येन्धनादिदहनव्यापारे सत्यग्नेरपि धर्मिणो व्यापार उच्यते। अग्निना काष्ठं दग्धमित्यग्निदहनव्यापारे च देवदत्तेन दग्धोस्मीत्युपचर्यते। तथा धर्माणां क्लेशप्रहाणशिक्षणे सति तत्सम्बन्धापेक्षया भिक्षुरशैक्ष इत्युच्यते।

मार्गस्तूपात्तकारित्रो निरस्यति तदावृतिम्॥

‘तु’शब्दान्निरुध्यमान एवेत्यर्थः, वर्तमानस्य हि क्रियाबन्धात् सामर्थ्योपपत्तेः।

अथ येयमसंस्कृता विमुक्तिः ये च त्रयो धातवः प्रहाणधात्वादयः, ते ततः किमन्येऽथानन्ये ? ब्रूमः-

[470] विमुक्ति[:] शाश्वती यैव सा विरागादयस्त्रयः।
आख्याता धातवः सूत्रे त्रिधा भेदो ह्यपेक्षया॥

प्रज्ञप्तिविशेषापेक्षया खल्वेषां त्रैविध्यमुक्तम्। कथम् ?

[471] विरागो रागनिर्मोक्षः प्रहाणाख्योऽन्यसंक्षयः।
निरोधधातुरन्यस्य सोपादानस्य वस्तुनः॥

रागप्रहाणं खलु विरागधातुरित्युच्यते। तदन्येषां क्लेशोपक्लेष(शा) णां(नां) प्रहाणधातुः। तदन्यस्य सोपादानस्य वस्तुनः निरोधो निरोधधातुराख्यायते॥

येण(न) वस्तुना निर्विद्यते विरज्यतेऽपि तेन वस्तुना ? चतुष्कोटिकः प्रश्‍नः। कथम् ?

[472] दुःखहेत्ववलम्बिन्या योगी निर्विद्यते धिया।
विरज्यते तु संरक्तस्ततः कोटिचतुष्टयी॥

दुःखसमुदयक्षान्तिभिः तज्ज्ञानैश्‍च निर्विद्यते, नान्यैः। विरज्यते तु यः संरक्तः स च सर्वैरपि दुःखसमुदयनिरोधमार्गक्षान्तिज्ञानैर्विरज्यते यैः क्लेशान् प्रजहाति। एवं चतुष्कोटिको भवति।

तत्र विर्विद्यत एवं कामवीतरागो नियाममवक्रामन् दुःखसमुदयधर्मक्षान्तिभ्यां तद्धर्मज्ञानाभ्यां च पूर्वप्रहीणत्वान्न क्षान्तिभ्यां जहात्यप्रतिपक्षत्वान्न ज्ञानाभ्यामतो न विरज्यते। भावनामार्गेपि प्रयोगविमुक्तिविशेषा[त्] मार्गसंगृहीताभ्यां दुःखसमुदयज्ञानाभ्यां न विरज्यते विमुक्तत्वान्निर्विद्धवस्त्वालम्बनत्वात्तु निर्विद्यते।

द्वितीयो(या) कोटिः-विरज्यते एवावीतरागः कामेभ्यो नियाममवक्रामन्निरोधमार्गधर्मान्वयक्षान्तिभिः भावनामार्गे च निरोधमार्गज्ञानैस्त्रैधातुकाद्वैराग्यं गच्छन्न निर्विद्यते।

प्रामोद्यवस्त्वालम्बनत्वादुभयम्। वीतरागः कामेभ्यो नियाममवक्रामन् दुःखसमुदयधर्मान्वयक्षान्तिभिर्भावनामार्गे च दुःखसमुदयज्ञानैस्त्रैधातुकाद्वैराग्यं गच्छन्।

नोभयम्-कामवीतरागो नियाममवक्रामन्निरोधमार्गधर्मज्ञानक्षान्तिभ्यां तद्धर्मज्ञानाभ्यां च भावनामार्गे चानन्तर्यमार्गेतराभ्यां निरोधमार्गधर्मज्ञानाभ्याम्॥

य एते त्रयो धातवस्ता एव तिस्रः संज्ञाः प्रहाणविरागनिरोधसंज्ञाः। विस्तरेण तु

[473] संज्ञा अनित्यसंज्ञाद्या दश ताभ्योऽशुभादयः।
तिस्रो मार्गविधिर्मार्ग[श्चत]स्त्रोऽन्त्यास्त्रयी फलम्॥

अशुभसंज्ञा मरणसंज्ञा सर्वलोकेऽनभिरतिसंज्ञा। मार्गप्रयोगस्तिसृभिराभिरुक्तः। चतसृभिश्‍च मार्गोऽनित्यदुःखशून्यानात्मसंज्ञाभिः। प्रहाणविरागनिरोधसंज्ञाभिः फलमाख्यातमिति॥

कति पुनरासां सास्रवाः कत्यनास्रवाः ?

[474] त्रितय्यशुभसंज्ञाद्या ज्ञेया तत्खलु सास्रवाः।
समला निर्मलास्त्वन्या बोध्या नव भुवो[ऽ]मलाः॥

अशुभा मरणसर्वलोकानभिरतिसंज्ञास्तिस्रः समलाः। शेषास्तु सास्रवानास्रवाः, नवभूमिका आ(अ) [ना]स्रवा अवबोद्धव्याः॥

[475] भूमिष्वेकादशस्वन्त्या ध्यानाद्यासूपलक्षयेत्।
चतुर्थी पञ्चमी षष्ठी विद्या[त्] सप्तसु भूमिषु॥

अभिधर्मदीपे विभाषाप्रभाणं वृत्तौ षष्ठस्याध्यायस्य चतुर्थः पादः॥
समाप्तश्‍च षष्ठोऽध्यायः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project