Digital Sanskrit Buddhist Canon

पञ्चमोऽध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Pañcamo'dhyāyaḥ

पञ्चमोऽध्यायः।

प्रथमः पादः

उक्तानि कर्मानि(ण)। अथ यदयं लोकः पञ्चगति चक्रावर्तपरिवर्तनिमित्तानि कर्माण्याचिनोति, कार्याणि चोत्सृज्याकार्यकर्मकारी भवति, दक्षिणं च मार्गं हित्वा वामं वर्त्माश्रयति, परमप्रशान्तं च परं ब्रह्मापास्यानेकदुःखोपद्रवनीडभूते संसारे जन्म प्रतिपद्यते तत्र को हेतुरित्यभिधीयते-

[259] अकार्यप्रवणो लोको दुःखभागी च यद्वशात्।
रागादीन् भवसंबन्धान्क्लेशान्वक्ष्यामि तानहम्॥

ते पुनः क्लेशाः

[260] स्वशक्तिजक्रियोद्‍भूतैर्विशेषैस्ते तु नामभिः।
आत्तसामान्यसंज्ञाकाश्‍चोद्यन्तेऽनुशयादिभि[:]॥

तत्र तावत्सामान्यसंज्ञा स्वक्रियानिर्जाताः क्लिश्‍नन्तीति क्लेशाः अनुशेरत इत्यनुशयाः। आभवाग्रमुपादाय यावदवीचिं स्त्रवन्ति स्रावयन्ति च चित्तसन्ततिमित्यास्रवाः। आस्रवानिति पञ्चलक्षणो(णान)त्र संयोजन्तीति संयोजनानि। ग्रन्थयन्तीति ग्रन्थाः। योजयन्तीति योगाः। अपहरन्तीत्योघाः। उपाददत इत्युपादानान्येषां सामान्यनाम क्लेश इति॥

तत्र के कियन्तो वाऽनुशयाः ? तदवद्योत्यते-

[261] रागप्रतिघसंमोहमानकाङ्क्षाकुदृष्टयः।
षडेतेऽनुशयाः प्रोक्ताः श्रेयोद्वारविबन्धिनः॥

एते खलु षडनुशयाः संसारप्रवृत्तिहेतवः श्रेयोमार्गविवन्धिनश्च शास्त्र उक्ताः। तेषां निरुक्तिः सन्तानानुगता इत्यनुशयाः धात्रोचैलमलवत्। अनुबध्नन्तीति वाऽनुशयाः, खवरजलचरवत्। त एते वृत्तितश्च द्रष्टव्याः, हिङ्ग्वादिभक्षणवत्। फलतश्च पारावतभुजङ्गसूकरजन्मापातनवत्। पुद्‍गलतश्च नन्दाङ्‍गुलिमालसुनक्षत्रादिवत्॥

अथ रागादयोऽनुशयाः कथं द्रष्टव्याः ? किं रागादय एवानुशयाः, आहोस्विद्रागादीनामनुशयाः ? किञ्चातः। रागादय एवानुशयाश्‍चेत्सूत्रविरोधः- “इहैकत्यो न कामरागपर्यवस्थितेन चेतसा बहुलं विहरत्युत्पन्नस्य कामरागपर्यवस्थाने(न)स्योत्तरे(र)णि(नि)स्सरणं यथाभूतं प्रजानाति। तस्य तत्कामरागपर्यवस्थानं स्थामशः सम्यक्सुसंवहतं सानुशयं प्रहीयते” इति। रागादीनामनुशया इति चेद्विप्रयुक्तानुशयप्रसङ्गादभिधर्मविरोधः- “कामरागानुशयस्त्रिभिरिन्द्रियैस्सप्रयुक्तः” इति। कर्मधारय एव परिगृह्यते न षष्ठीसमास इति वैभाषिकाः। ननु चोक्तं सूत्रविरोध इति। सानुशयं सानुबन्धमित्यर्थः। औपचारिको वा सूत्रेऽनुशयशब्दः प्राप्तो(प्तौ) यथा दुःखोऽग्निरिति। लाक्षणिकस्त्वभिधर्मे क्लेश एवानुशयः। तस्मासंप्रयुक्ता एवानुशयाः।

“एवं तु साधु यथा दार्ष्टान्तिकानाम्” इति कोशकारः। कथं च दार्ष्टान्तिकानाम् ? “कामरागस्यानुशयः कामरागानुशयः। न चानुशयः संप्रयुक्तो न विप्रयुक्तः; तस्याद्रव्यान्तरत्वात्। सुप्तो हि क्लेशोऽनुशय‍इत्युच्यते। प्रबुद्धः पर्यवस्थानम्। का च तस्य प्रसुप्तिः ? असंमुखीभूतस्य बीजभावानुबन्धः। कः प्रबोधः ? संमुखीभावः। कोऽयं वीजभावो नाम ? आत्मभावस्य क्लेशजं(जा) क्लेशोत्पादकशक्तिः, यथा चाङ्‍कुरादीनां शालिफलजा शालिफलोत्पादनशक्तिः” इति।

यत्तर्हि सूत्र एव क्लेशोऽनुशय उक्तः षट्‍षट्‍के-“सोऽस्य भवति सुखायां वेदनायां रागानुशयः” इति ? भवतीति वचनाददोषः। नासो तदे (दै)वानुशयः। कदा तर्हि ? यदा प्रसुप्तो भवति।। हेतौ वा फलोपचार एषः” इति।

तदेतत्सौत्रान्तिकैरन्तर्गतं बुद्धवचननीतिश्रवणकौसीद्यमाविर्भाव्यते। कथम् ? उक्तोत्तरत्वात्। उक्तमत्र कर्मचिन्तायामुत्तरं तत्त्वसप्ततौ च। तत्स्मर्यताम्। मा प्रमोषीः।

पुनश्चापदिश्यते। सौत्रान्तिकपरिकल्पिते प्रतिबीजकल्पे चित्तशक्तिबीजभावनापक्षे निवृत्त्युत्तरमन्यानन्यत्वादिदोषात्। नान्यानन्य इति बीजवासनावस्थाने चित्तविनाशाभ्युपगमे च मध्यमाप्रतिपत्सिद्धिरिति चेत्। न। चित्तस्वभावशक्तिक्रियाभावे तदन्तद्वयासिद्धौ मध्यमाप्रतिदनुपपत्तेः खपुष्पमयदण्डवत्।

ते पुनः

[262] रागद्वेधात् मताः सप्त दृष्टिभेदाद्दश स्मृताः।
भूयोऽष्टानवतिर्ज्ञेया धात्वाकारादिभेदतः॥

तत्र कायरागभवरागभेदं पुरस्ताद्वक्ष्यते। दृष्टिभेदोऽपि सत्कायदृष्ट्यादिभेदेन पञ्चधा। रागभेदं च द्विधा वक्ष्यामः। ते पुनरेते सर्व एवानुशया यथासंभवं धात्वाकारप्रकारभेदेनाष्टानवतिर्भवन्ति।

तत्र केचित्पण्डिता दर्शयन्ति। धातुभेदेन कामावचराः षड्‍त्रिंशद्दर्शण(न)भावनाहेयाः। द्वात्रिंशद्दर्शनहेयाः। रूपावचरा एकत्रिंशदुभयहेयाः, अष्टाविंशतिर्दर्शनहेयाः पञ्च प्रतिघवर्ज्याः। एवमारूप्यावचराः।

तत्र कथं कामावचराः षड्‍त्रिंशद्भवन्ति ? दर्शनभावनाहेयप्रकारणै(नै)यम्य[भेदात्]। दृष्टीनामपिधात्वाकारप्रकारभेदात् षड्‍त्रिंशत्वम्। प्रतिघस्य धातुनैयम्यात् पञ्चत्वम्। वयं पुनरेषां भेदं श्‍लोकानुगतमेव दर्शयिष्यामः।

तत्र कत्येषामष्टानवतेरनुशयाणां दुःखदर्शनहेयाः कति यावद्भावनाहेयाः ? तत्र कामधातौ तावत्। प्रतिदुःखादिसत्यं यथाक्रमं दश सप्त सप्ताष्टौ दुःखादिदर्शण(न)हेया द्वात्रिंशत्कामघातौ भवन्ति। तेषु तेषां विप्रतिपत्तेः। एवं रूपारूप्यधात्वोरभ्युह्य वक्तव्यम्॥

[263] कामरागो भवाख्यश्‍च द्विधाः रागः प्रभिद्यते।
प्रायो बहिष्प्रवृत्तत्वादन्तर्वत्त्यादिभेदतः॥

यथाक्रमम्। उक्तो रागभेदः।

दृष्टिभेदो निर्दिश्यते-

[264] सत्कायान्तद्वयग्राहौ मिथ्यादर्शण(न)मेव च।
दृष्टिशीलव्रतामर्शावित्येताः पञ्च दृष्टयः॥

ते पुनरेते प्रभिद्यमाना धातुप्रकाराकारभेदेनाष्टानवतिर्भवन्ति। षट्‍त्रिंशत्कामावचराः। एकत्रिंशद्रूपावचराः। एकत्रिंशदारूप्यावचराः। दर्शना(न)भावनाहेयप्रकारणै(नै)यम्यात्॥

कति पुनरेभ्यः कामधातौ दर्शनहेयाः कति यावद्भावनाहेयाः ? तदवद्योत्यते-

[265] दशेह दुःखदृग्घेयाः

सर्वेऽपि दशेह कामधातौ दुःखे विप्रतिपन्नत्वाद्‍दुःखदर्शनहेयाः।

सप्त हेत्वीक्षणक्षयाः।

एभ्यो दशभ्यः सत्कायान्तर्ग्राहदृष्टिशीलव्रतपरामर्शत्रयं हित्वा।

सप्तापवर्गदृग्घेयाः

एत एव

अष्टौ मार्गेक्षणक्षयाः॥

सत्कायान्तर्ग्राहदृष्टी हित्वा। तेऽपि फलभूतेषु स्कन्धेषु विप्रतिपन्न[त्वा]द्‍दुःखदर्शनहेयैव।

[266] दृष्टिहेयावलम्बित्वात्सदाकारपरिग्रहात्।
रागादयस्तु चत्वारो ज्ञेया मार्गद्वयक्षयाः॥

ते दर्शनप्रहातव्यास्तेषां चतुर्णां रागादीनां यस्मादालम्बनमतस्तत्प्रहाणात्तेषामपि प्रहाणं स्तम्भनिपातादुपस्तम्भनिपातनवत्। ये तु रागादयश्चत्वारः स्वलक्षणक्लेशास्ते भावनाप्रहातव्या द्रष्टव्या रागप्रतिघमानाविद्याः॥

अत्र पुनः
[267] प्रतिकल्पवशोत्पत्तेर्दृष्टिकाङ्क्षे तु दृक्क्षये।

अविद्यमाने खलु वस्तुन्येते स्कन्धेषु विपरीतसंदेहाकारग्रहणं कृत्वा प्रवर्तेते। तस्मादेते दर्शण(न)हेये चेतोद्धाटनमात्रेण सारद्रव्यास्तिस्त्व(त्व)संदेवा(हा)पगमवत्।

रूपेप्येवं तथाऽरूप्ये प्रतिघानुशयादृते॥

यथा कामधातौ प्रोक्ताः, रूपारूप्यधात्वोरप्येवं द्रष्टव्याः। प्रतिघानुशयं वर्जयित्वा। तत्र हि शमथस्निग्धसन्तानत्वात्प्रतिघनिमित्ताभावाच्च प्रतिघानुशयो नास्ति।

तत्र सत्कायान्तर्ग्राहदृष्टी एकप्रकारे दुःखदर्शण (न)मात्रहेयत्वात्। मिथ्यादृष्टिदृष्टिपरामर्शविचिकित्साः प्रत्येकं चतुष्प्रकाराः, चतुस्सत्यदर्शण(न)हेयत्वात्। शीलव्रतपरामर्शो द्विप्रकारो दुःखमार्गदर्शनहेयत्वात्। रागादयः पञ्चप्रकाराः, चतुस्सत्यदर्शनभावनाहेयत्वात्। त एते कामधातौ षट्‍त्रिंशद्भवन्ति। रूपधातावेकत्रिंशदारूप्यधातावेकत्रिंशदिति समस्ता दशनभावनाहेया अष्टानवतिर्भवन्ति। तेभ्यः पुनरष्टाशीति दर्शनप्रहातव्याः। दश भावनाप्रहातव्याः॥

अथ य एतेऽष्टाशीतिरनुशया दर्शनप्रहातव्याः किमेते दर्शनमार्गेणैव प्रहीयन्ते ? नेत्याह। किं तर्हि ?

[268] भवाग्रे क्षान्तिहेया ये दृग्घेया एव ते मताः।

ते ह्येकान्तेनान्वयक्षान्तिवध्याः।

ज्ञानवध्यास्तु ये तस्मिन्नभ्यासेनैव तत्क्षयः॥

एवमन्यास्वपि भूमिषु येऽनुशया ज्ञानवध्यास्त आर्याणां पृथग्जनानां च भावनामार्गेणैव प्रहीयन्ते। शेषास्तूभयथा। यथायोगं शेषासु खलु भूमिषु यथासंभवं धर्मान्वयक्षान्तिबध्या अनुशया आर्याणां दर्शनहेयाः, पृथग्जनानां च भावनाहेया इति बोद्धव्यम्॥

अथ या इमाः पञ्च दृष्टयो धात्वाकारप्रकारभेदेन षट्‍त्रिंशद्धा भिन्नास्तासां प्रत्येकं कः स्वभावः ? तदारभ्यते -

[269] अहं ममेति या दृष्टिरसौ सत्कायदृक् स्मृता।
तदुच्छेदध्रुवग्राहौ यौ सान्तर्ग्राहदृङ्मता॥

हेतुबलसामर्थ्यादसच्छास्त्रश्रवणाच्च पृथग्जनस्याहं ममेमि पञ्चसूपादानस्कन्धेषु य आत्मग्राहः सा सत्कायदृष्टिरित्युच्यते। सति सीदति वा काये दृष्टिर्विपरीताकारा सत्कायदृष्टिरिति [नि]र्वचनम्। सैषात्मात्मीयाकारभेदा[द्]द्विप्रकारा। पुनः पञ्चस्कन्धालम्बनाः पञ्चात्मदृष्टयो भवन्ति। पञ्चदशात्मीयदृष्टयः। ताः समस्ता विंशतिकोटिका सत्कायदृष्टिरिति व्याख्यायते।

तयोर्गृहीतस्य विपर्यासेनात्माख्यस्यासद्वस्तुनोऽसत्पुरुषसंसर्गान्नित्यत्वग्राहो वा नित्यत्वग्राहेण वा साऽन्तर्ग्राहदृष्टिरिति॥

[270] फलहेत्वपवादो यः सा मिथ्यादृष्टिरुच्यते।

फलहेतुग्रहणे वस्तुक्रियाग्रहणं प्रत्येतव्यम्। अनेन शास्त्रप्रोक्तया मिथ्यादृष्टेः साकल्येन ग्रहणं प्रत्येतव्यम्।

ज्ञेयो दृष्टिपरामर्शः हीनवस्तूत्तमग्रहः॥

[271] अहेतावपथे चैव तद्धि शीलव्रताह्वयः।

सर्वं खलु सास्रवं वस्तु हीनार्हत्वाद्धीनम्। आदिग्रहणशब्दस्य चात्र लोपो द्रष्टव्यः। दृष्ट्यादिपरामर्शो दृष्टिपरामर्शः। चतस्रो दृष्टीः प्रत्यवरं च वस्त्वग्रतो गृह्णाति कथमग्र्येयं दृष्टिः ? येयमात्मदृष्टिः-आत्मानमहं पूजयिष्यामि वासुदेवोऽत्र पूजितो भविष्यतीति हीनपुरुषंपञ्चोपादानस्कन्धात्मकमग्रतः प्रतिपद्यते। नास्ति दत्तं यथासुखं प्रवर्तिष्यत इत्येवमादिः।

अकारणे कुमार्गे च कारणमार्गग्रहणं शीलव्रतपरामर्शः। तद्यथा प्रकृतीश्वरपुरुषादिहेतुकं पञ्चोपादानस्कन्धात्मकं न तृष्णाहेतुकमित्यकारणे कारणदर्शण(नम्)। कुमार्गं चाग्निजलप्रवेशादौ प्रकृतिपुरुषान्तरज्ञानादौ च स्वर्गापवर्गहेतुत्वम्।

शीलं त्वत्राग्निहोत्रानुष्ठानं प्रतिजुहोत्याद्यास्तिस्त्रोऽन्तरङ्गक्रियाः, पश्वालम्भनाद्याः बहिरङ्गाः, तदुभयस्य यावज्जीवमनुष्ठानं शीलम्। यथोक्तम्- “जरामर्यं वैतत्सत्रं यदग्निहोत्रं जुहोति” इति।

व्रतम्-आग्नेयमग्निपरिचरणं शौक्रमापो हि ष्ठाद्यनुष्ठानम् अपां शुक्रदैवत्यत्वात्। वार्हस्पत्यौपनिषदगोदानीयं जटावतारणम्। अथवा गोव्रतादीनि व्रतान्येभिः शुध्यते मुच्यत इत्याहुः।

त्रयीधर्म(र्मा)णस्त एव ते हरिहरहिरण्यगर्भादयो न कारणमुपादानस्कन्धात्मकत्वात्। न च नित्याः, न चाग्र्या इत्येतद्विस्तरेणाविष्कृतम्। पश्‍वा(श्वा)लम्भनाग्निजलप्रवेशादयश्च न स्वर्गापवर्गहै(हे)तुर्दानशीलभावनानां तद्धेतुत्वात्। इत्यतो विपरीतदर्शण(न)मेतच्छीलव्रतपरामर्शः प्रवर्तते, प्राप्तस्तर्हि समुदयदर्शनप्रहातव्यः ? नैतदस्ति। यस्मादसौ

दुःखभ्रान्त्यपथादानात्तदृष्ट्‍युत्सार्य एव सः॥

दुःखभूतेषूपादानस्कन्धेषु हरिहरहिरण्यगर्भादिष्वकारणेषु बुद्‍ध्या भ्रान्तः। तस्माद्यत्रैव भ्रान्तस्तत्रैवाविपरीतदर्शणा(न)त्प्रहीयते। कापथे च सत्पथबुद्ध्या भ्रान्त इति सम्यक्स्वमार्गदर्शणा(ना)त्प्रहीयते। इति सिद्धं द्विदर्शण(न)हेयः शीलव्रतपरामर्शः।

[272] सत्कायदृष्ट्यवच्छेदो धर्ममात्रेक्षणाद्यतः।
दुःखाभिसमये तच्च तद्दृग्घेयैव सोऽप्यतः॥

यदा खल्वस्य धर्मेषु घर्ममात्रबुद्धिरुत्पन्ना भवत्यनित्याः, दुःखाः, शून्याः, अनात्मानश्च धर्मा इति तदैव सत्कायदृष्ट्यवच्छेदो भवति, तत्प्रवर्तिता चान्तर्ग्राहदृष्टिः, तत्रोपात्तस्या अपि समुद्‍घात इति। तत्र धर्मदर्श[न]मनित्याद्यन्यतमाकारं यस्माद्‍दुःखाभिसमयमात्राद्भवत्यत एतद् दृष्टिद्वयं दुखदर्शनहेयमेवेति सिद्धम्॥

अथ य एते चत्वारो विपर्यासाः- “अनित्ये नित्यम्” एवमादयस्ते किं स्वभावाः ? तदारभ्यते-

[273] द्वयं दृष्टिपरामर्शादेकः सत्कायदृष्टितः।
अन्तर्ग्राहार्धमन्यस्तु विपर्यासः प्रकल्प्यते॥

तत्र तवत्। दृष्टिपरामर्शात्सुखशुचिविपर्यासौ प्रकल्प्य(ल्प्ये)ते। सत्कायदृष्टेरात्मदृष्टिविपर्यासः, अन्तर्ग्राहदृष्ट्यर्धा[त्]नित्यविपर्यासः प्रकल्प्यत इति। ननु सत्कायदृष्टेरर्धात्प्राप्नोति ? न। दृष्ट्यन्तरत्वात्। शाश्‍वतदृष्टेरुच्छेददृष्टिर्दृष्ट्यन्तरम्। पुरुषमेव त (तु) स्वतन्त्रं कर्तारं वशिनमात्मवादी मन्यमानो ममेदमित्यभ्युपगच्छति तस्मादात्मदृष्टिरेवासौ। यदि च ममेत्येतद् दृष्ट्यन्तरं स्यान्मया मह्यमित्येवमाद्यपि दृष्ट्यन्तरं स्या[त्]। तस्मादहंकारपर्याया एवैते द्रष्टव्याः।

ननु च सर्वे क्लेशा विपर्यासाः विपरीतप्रवृतत्वात् ? तत्किमुच्यते चत्वार इति ? नैष दोषः। यस्मात्

[274] नितीरणसमारोपविपरीतप्रवृत्तितः।
विपर्यासोक्तिरेष्वेव दृग्वषा(शात्) चित्तसंज्ञयोः॥

विपरीततो नितीरणात्समारोपादेकान्तविपर्यासाच्च। न ह्येतदन्येषां क्लेशानां समस्तमस्ति। मिथ्यादृष्ट्‍युच्छेददृष्टी यद्यपि नितीरयतः, एकान्तविपर्यस्ते च, न तु समारोपिके द्रव्यनाशप्रवृत्तत्वात्। शीलव्रतपरामर्शो नैकान्तविपरीतः कामवैराग्यादिसंभवात्। अन्ये क्लेशा न सन्तीरकाः। इति चत्वार एव।

ननु च सूत्र उक्तम्-“आनित्ये नित्यमिति संज्ञाविपर्यासः, चित्तविपर्यासो दृष्टिविपर्यास एवं यावदात्मनि” इति द्वादश भवन्ति। नैष दोषः। नहि संज्ञाचित्ते नितीरके। तस्माच्चतुर्ष्वेव दृष्टिस्वभावेषु विपर्यासोक्तिः। ‘दृग्वशात् चित्तसंज्ञयोः’ तदुक्तिरिति। संज्ञा हि लोककार्यव्यवहारपतिता दर्शण(न)वशाद्विपर्यस्तमालम्बननिमित्तमुद्‍गृह्णाति। चित्तं च तद्वशानुवर्तीति तयोरेव ग्रहणम्। लोकेऽपि विपर्यस्तसंज्ञो विपर्यस्तचित्तश्‍चोच्यते न विपर्यस्तवेदनो विपर्यस्तचेतन इति॥

अथ किं दृष्ट्यनुशयवत् मानानुशयस्यापि कश्‍चिद्भेदोऽस्ति ? विद्यत इत्याह। कथमित्यादर्श्यते-

[275] सप्त मानविधास्त्रिभ्यो नव मानविधास्त्रिधा।
त्रिधाऽत्युन्नमनादिभ्यः स्वोत्कर्षाद्यस्ति नास्तिता॥

तदस्य श्‍लोकस्य संक्षेपविस्तारव्याख्याप्रभेदोऽयमादर्यते। तत्र तावत्कर्मस्वकतासामर्थ्यसंमुग्धस्य येन केनचिद्वस्तुना चित्तस्योन्नतिर्मानः। प्रतिद्यमानः सप्तधा भवति मानः, अतिमानः, मानातिमानः, अस्मिमानः, अभिमानः, ऊनमानः, मिथ्यामानश्च। एतेषां प्रपञ्चो यथा प्रकरणेषु।

न[नु] पुनर्ज्ञानप्रस्थाने नवमानविधा उक्तास्तद्यथा-“श्रेयानहमस्मीति मानविधा। सदृशोऽहमस्मीति तद्‍दृष्टिसंनिश्रितैव मानविधा। सदृशाद्धीनोऽहमस्मीति मानविधा। अस्ति मे श्रेयानस्ति मे सदृशोऽस्ति मे हीनः, नास्ति मे श्रेयो नास्ति मे सदृशो नास्ति मे हीनः” इति।

तत्र श्रेयानहमस्मीति सत्कायदृष्टिसनि(न्न)श्रिता अतिमानविधा। सदृशोऽहमस्मीति तद्‍दृष्टिसन्निश्रिते(तै)व मानविधा। हीनोऽहमस्मीति तद्‍दृष्टिसन्निश्रितैवोनमानविधा। अस्ति मे श्रेयानित्यूनमानविधा। अस्ति मे सदृश इति मानविधा। अस्ति मे मान इति मानातिमानविधा। नास्ति मे श्रेयानिति मानविधा। नास्ति मे सदृश इत्यतिमानविधा। नास्ति मे हीन इत्यूनमानविधा। इति एवमेता नवमानविधास्त्रिभ्यो मानेभ्यो व्यवस्थाप्यन्ते मानामिमानोनमानेभ्यः।

त एते सप्तमानाः सर्वेऽपि दर्शण(न)भावनाहेयाः स्थविरक्षेमकसूत्रोक्तेः-“अस्ति मे एषु पञ्चसूपादानस्कन्धेष्वस्मीति मानोऽप्रहीनः(णः)” इति॥

किं पुनर्यद्भावनाहेयमप्रहीणं सर्वं तदार्यस्य समुदाचरति ? नेत्याह। प्रहीणमपि हि किञ्चित्समुदाचरति। तद्यथा श्रद्धादीनि पञ्चेन्द्रियाणि मिद्धं दुःखेन्द्रियं चक्षुराद्यष्टकं चेति। अप्रहीन(ण)मपि खलु किञ्चिन्न समुदाचरति। तद्यथा

[276] वधादिपर्यवस्थानं कौकृत्यमशुभं विधाः।
विभवेच्छा च नार्यस्य जायन्ते हेत्वभावतः॥

येन खलु क्लेशपर्यवस्थानेन संचित्य प्राणिवधादत्तादानकाममिथ्याचारमृषावादानध्यापद्येतैतद्वधाद्यप्रहीन(ण)मपि न समुदाचरति भावनाहेयत्वात्। कौकृत्यं चाकुशलं न समुदाचरति। मानविधाश्च नव न समुदाचरन्ति। विभवतृष्णापि भावनाप्रहातव्यापि सती न समुदाचरति। ‘च’शब्दाद्भवतृष्णायाश्च कश्चित्प्रदेशः। अहो वताहमैरावणः स्यां नागराजः(जा) अहो वताहमसुरेन्द्रः स्यां वैमचित्रादिः। अहो वताहमुत्तरेषु कुरुषु जन्म लभेयेत्येवमादि।

किं पुनरत्र कारणं यदेते[ऽ]प्रहीणाः खल्वपि सन्तो नार्यस्य समुदाचरन्ति ? शून्यतायाः सुभावितत्वात्कर्मफलसंबन्धयुक्तेश्‍च विदितत्वात्, दृष्टिपुष्टत्वाच्च॥

तत्र मानविधा अस्मिमानश्‍च सत्कायदृष्टिपुष्टाः। वधादिपर्यवस्थानं मिथ्यादृष्टिपुष्टम्। विभवतृष्णोच्छेददृष्टिपुष्टा। भवतृष्णाप्रदेशः शाश्‍वतदृष्टिपुष्टः। इति विधादयस्तत्पोषा(ष)कक्लेशाभावादार्यस्य नोत्सहन्ते सन्तानमध्यारोढुम्। कौकृत्यमपि चाकुशलमवीतरागस्यार्यस्याप्रहीणं न चास्य तत्संभवति चिकित्सासमुत्थितत्वादिति॥

अथानुशयाः सर्वत्रगाः कस्मात्क्लेशनिकाया व्यवस्थाप्यन्ते ? तदारभ्यते-

[277] दुःखात्समुदयाच्चैव सर्वगानां व्यवस्थितिः।

दुःखसमुदयदर्शण(न)प्रहातव्याः खल्वनुशयाः सर्वगाः। यस्मात्

तद्‍दृष्टिहेयजातीनां सर्वासां द्विपदस्थितेः॥

द्वयोः खलु निकाययोः दुःखसमुदयाख्ययोस्तद्‍दर्शण(न)हेयाना(णां)वक्ष्यमाना(णा)नां क्लेशानामुभयत्र लब्धप्रतिष्ठत्वात्॥

किं पुनः सर्वे दुःखसमुदयहेयाः न हेयाः सर्वत्रगाः ? नेत्याह। किं तर्हि ?

[278] काङ्क्षा पञ्च दृशोऽविद्या तद्व्यामिश्राऽथ केवलाः।
सप्त सर्वत्रगा दुःखाद्धेनोरेभ्यश्‍चतुष्टयम्॥

सप्तदृष्टयो द्वे विचिकित्से ताभिश्‍च संयुक्ताऽविद्या आवेणिकी च द्विप्रकारा इत्येकादशानुशया धातौ धातौ स्वधातुभूमिसर्वत्रगा ज्ञेयाः। सकलस्वधातुभूम्यालम्बनत्वात्। एते च परिपिण्ड्य त्रयस्त्रिंशत्सर्वत्रगा भवन्ति॥

एते पुनः सर्वत्रगाः

[279] द्रव्यतो दश चैकश्‍च नाम्ना सप्त तु ते मताः।

तिसृणामप्यविद्यानां द्वयोश्च विचिकित्सयोरेकणा(ना)मत्वात्।
अथ कस्माद्रागप्रतिघमाना न सर्वत्रगाः ? तदुच्यते-

रागप्रतिघमानास्तु परिच्छेदप्रवर्तिणः(नः)॥

एते खलु स्वलक्षणक्लेशाः प्रतिक्लेशमनवयवं चालम्ब्योत्पद्यते। तस्मान्न सर्वगाः॥

विचिकित्साद्यास्तु
[280] प्रकारान्तरवर्तित्वात्सकृत्सर्वस्वभूगतिः।
धात्वन्तरावलम्बित्वात्पूर्वोक्ता एव सर्वगाः॥

अत्र पुनः
[281] नवोर्ध्वधातुकास्तेषामाद्या दृष्टिद्वयादृते।

सत्कायान्तर्ग्राहदृष्टी हित्वाऽन्ये नव विसभागधातुसर्वत्रगाः।
किं पुनरणु(नु)शया एव सर्वत्रगाः ? नेत्याह। किं तर्हि ?

तेषां सहभुवो धर्माः प्राप्तिवर्ज्याश्च सर्वगाः॥

ये सर्वत्रगानुशयसहभुवो वेदनादयो धर्माः, जात्यादयश्च तेहि(ऽपि) सर्वत्रगास्तदेकफलत्वात्॥

तेषां पुनरष्टानवतीनामनुशयानां कति सास्रवालम्बनाः कत्यनास्रवालम्बनाः ? तदारभ्यते-

[282] काङ्क्षामिथ्यादृगाभ्यां च मिश्राऽविद्याथ केवला।
निरोधमार्गदृग्घेयाः षडेते निर्मलेक्षिणः॥

निरोधमार्गदर्शनहेया मिथ्यादृष्टिविचिकित्सा तत्संप्रयुक्ता चाविद्या सहावेणिक्याऽविद्यया। इत्येते धातौ धातौ षडनुशया अनास्रवालम्बनाः। शेषाः सास्रवालम्बनाः॥

अथैते निर्मलालम्बनाः कति कत्युपरममालम्ब्यन्ते, कति भूमिप्रतिपक्षं च ? तदुच्यते-

[283] स्वभूमेरेव निर्वाणं मार्गस्थ(र्गः ष)न्न(ण्ण)वभूमिकः।
तद्‍दृश्यविश(ष)योऽन्योऽन्यो हेतुत्वाद्धेतुभावतः॥

स्वभूमिनिरोध एव निरोधालम्बनानां मिथ्यादृष्ट्यादीनामालम्बनम्। कामावचराणां कामावचरणि(नि)रोधः। एवं यावद्भवाग्रभूमिकानां भवाग्रस्यैव। मार्गालम्बनानां तु कामावचराणां सर्व एव स्वभूमिकाः क्लेशाः मार्ग आलम्बनम्। योऽप्यसौ रूपारूप्यप्रतिपक्षः, रूपारूप्यावचराणामप्यष्टमूमिकाणां(नां) मिथ्यादृष्ट्यादीनां नवभूमि-कोऽन्वयज्ञानपक्ष्यो मार्ग आलम्बनः। किं पुनः कारणं मिथ्यादृष्ट्या निरोधः परिच्छिन्न आलम्ब्यते, न मार्गेण ? तदुच्यते। ‘हेतुत्वाद्धेतुभावतश्च।’ मार्गो हि परस्परहेतुकः, न तु निरोध इत्यस्ति विशेषः॥

अथ कस्माद्रागप्रतिघमाना दृष्टिशीलव्रतपरामर्शो च नानास्रवालम्बना इष्यन्ते ? तत्रापदिष्यते-

[284] न रागः शक्त्यहेतुत्वान्न द्वेषो[ऽ]नपराधतः।
नमानोऽतिप्रशान्तत्वान्न भावत्वाद् दृशोऽपराः॥

तत्र रागस्तावद्यद्यनास्रवालम्बनः स्यान्निर्वाणाभिलाषप्रवृत्तत्वात्कुशलधर्मच्छन्दवत्, न योगिणां(नां) वर्जनीयः स्यात्। द्वेषोऽप्यपकारवस्तुन्युत्पद्यते, मोक्षस्तु सर्वदुःखोपरमादुपकारी। मानोऽप्यप्रशान्तत्वादुन्नतिलक्षणः, निर्मलास्तु धर्मास्तदपघातिनः। परामर्शी च यद्यनास्रवालम्बनौ स्यातां सम्यग्दृष्टित्वं प्रतिपद्येयाताम्। तस्मात्पूर्वोक्ता एवानुशया निर्मलगोचराः॥

अथैतेषामष्टानवतेरनुशयानां कत्यालम्बनतोऽनुशेरते कति संप्रयोगतः ?

[285] सर्वगोऽनुशयः कृत्स्नामनुशेते स्वधातुगः।
स्वामालम्बनतो भूमिं स्वनिकायं त्वसर्वगः॥

द्विविधाः खलु सर्वगाः। स्वधातुभूमिसर्वगाः, विसभागधातुभूमिसर्वगाश्‍च। असर्वगा अपि द्विविधाः। सास्रवालम्बनाः, अनास्रवालम्बनाश्‍च। तत्र ते येऽनुशयाः स्वधातुभूमिसर्वत्रगास्ते सकलामेव पञ्चप्रकारां स्वधातुभूमिमालम्बनतोऽनुशेरते। ये त्वसर्वत्रगाः सास्रवालम्बनास्ते स्वभूमौ स्वनिकायमालम्बनतोऽनुशेरते। दुःखदर्शण(न)प्रहातव्याः दुःखदर्शण(न) प्रहातव्यमेव निकायं यावद्भावनाप्रहातव्या भावनाप्रहातव्यमेवेति॥

आलम्बनतश्‍च
[286] अस्वीकाराद्विपक्षत्वान्नोर्ध्वभूमार्गगोचरः।

आलम्बनतोऽनुशेरत इति वर्तते। किं कारणम् ? अन्यभूमिकस्यानास्रवस्य च वस्तुनः ‘अस्वीकाराद्विपक्षत्वा’च्च। आत्मदृष्टितृष्णाभ्यां हि स्वीकृते वस्तुन्यनुशयोऽनुशयितुमुत्सहते। अनास्रवे तु वस्तुन्यूर्ध्वभूमिक(के) च प्रवृत्तिरेव सत्कायदृष्टितृष्णयोर्नास्तीति न्न(न) तत्रानुशेरते।

संप्रयोगिनि(णि) तु स्वस्मिन्नहीने संप्रयोगतः॥

अनुशेरत इत्यधिकृतम्। यो येन धर्मेणानुशयः संप्रयुक्तः स तस्मिन्संप्रयोगिणि संप्रयोगतोऽनुशेरते यावदप्रहीणो भवतीति ‘तु’ शब्दो विशिनष्टि। ततश्‍चेदमपि सिद्धं भवति-अनास्रवालम्बना विसभागधातुभूम्यालम्बनाश्‍च संप्रयोगत एवानुशेरते। सास्रवालम्बनाः स्वभूमावालम्बनतः संप्रयोगतश्‍चेति॥

कुतः पुनरेतेऽनुशया उच्यन्ते ? तदुच्यते। प्रागाविष्कृतमेतत्प्रसङ्गागतं न तु सूत्रितमित(ति)। तदिदानीं सूत्रगतं प्रदर्श्यते।

[287] धात्रीवस्त्रमलन्यायैः खचराम्बुचरक्रमैः।
एतेऽनुशेरते यस्मात्तस्मादनुशयाः स्मृताः॥

इतश्‍च,
[288] स्वैरिष्टादिभिना(रा)कारैः परमाणुक्षणेष्वपि।
यतोऽनुशेरते चैति(ते) ततश्चानुशया मताः॥

तत्र रागस्तावदिष्टाकारेण खण्डक्षीरभक्षणवत्। द्वेषस्त्वनिष्टाकारेण काञ्जिककोद्रवौदनभक्षणवदित्येवमादि। परमानु(णु)षु क्षणेषु च सूक्ष्मेष्वेकेष्वप्यनुशेरत इत्यनुशयाः। निरुक्तन्यायेन पूर्वं वा प्राप्तिमुत्सृज्य पश्‍चात्समुदाचारतोऽनुशेरत इत्यनुशयाः। अन्य[त्] पूर्वमेव व्याख्यातमिति॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः॥

पञ्चमाध्याये

द्वितीयपादः।

अथैषामष्टानवतेरनुशयानां कत्यकुशलाः कत्यव्याकृताः ? तदारभ्यते-

[289] आद्यं दृष्टिद्वयं कामे निवृताव्याकृतं मतम्।
धातुद्वये तु सर्वेऽपि निवृताव्याकृता मलाः॥

कामधातौ तावत्। सत्कायान्तर्ग्राहदृष्टी तत्संप्रयुक्ताविद्ये निवृताव्याकृते। सत्कायदृष्टिस्तावद्दानशीलभावनाभिरविरुद्धत्वात्कुशलमूलसमुच्छेदवैरोधिकत्वाच्च नाकुशला। विपरीताकारत्वान्न कुशला। तृष्णावदकुशलेति चेत्। न। तृष्णाप्रकर्षे सर्वाकार्यप्रवृत्तिदर्शणा(ना) त्। अन्तर्ग्राहदृष्टिरपि जन्मोच्छेदप्रवृत्तत्वान्निर्वाणविरोधिनी संवेगानुकूला चेति नाकुशला। यथोक्तं भगवता-“येयं दृष्टिः सर्वं मे न क्षमत इतीयं दृष्टिरसंरागाय न संरागाय” इति। तथोक्तम्-इदमग्र्यं बाह्यकानां दृष्टिकृतानां यदुत नो च स्यान्न च मे स्यान्न भविष्यामि न मे भविष्यति” इति। रूपारूप्यधात्वोः ‘सर्वेऽपि निवृताव्याकृता मलाः।” समाधिसमापत्त्युपहतत्वा[त्] न शक्नुवन्ति निवर्तयितुम्। कुशलास्तु धर्मा अव्याबाधफलत्वाद्विपाकं जनयितुमुत्सहन्ते॥

[290] कामेष्वकुशलाः शेषाः

सत्कायान्तर्ग्राहदृष्टितत्संप्रयुक्ताऽविद्यावर्जिताः क्लेशाः कामधातावकुशलाः, सव्याबाधफलनिर्वर्तकत्वात्।

एभ्यः पुनः कत्यकुशलमूलानि कति नेति ? तदुच्यते-

रागद्वेषतमांस्यतः।
त्रीण्येवाशुभमूलानि पञ्चकारणयोगतः॥

ये धर्मा अकुशलाश्‍चाकुशलमूलं च दर्शनभावनाहेयाश्‍च पञ्चप्रकाराश्‍च षड्‍विज्ञानकायिकाश्‍च त एवाकुशलमूलानीष्यन्ते॥

किं पुनर्यथा[ऽ]कुशलं(लानि) अनुशयानां मूलानि सन्त्येवमव्याकृतानामपि सन्तीति ?

[291] अव्याकृतद्वयस्यापि त्रीणि मूलानि तत्समाः।
अविद्या धीश्च तृष्णा च न काङ्क्षामानदृष्टयः।

“त्रीणि खल्वव्याकृतमूलानि, अव्याकृताऽविद्या तृष्णा प्रज्ञा” इति काश्मीराः। हेत्वर्थो हि मूलार्थः। अनिवृताव्याकृता च प्रज्ञा हेतुत्वेन वर्तत इत्यसावप्यव्याकृतमूलम्। विचिकित्सा नाव्याकृतमलम्। न च मानः॥

[292] चलत्वादूर्ध्ववृत्तित्वादव्यापित्वाद्यथाक्रमम्।

चला हि विचिकित्सा प्रतिष्ठार्थश्‍चमूलार्थः। ऊर्ध्ववृत्तिरुन्नतलक्षणो मानः, अधोगमनवृत्तीनि च मूलानि। न चैतौ क्लेशौ षड्‍विज्ञानकायिकौ। तस्मादव्यापित्वान्न मूलेषु व्यवस्थाप्येते।

अव्याकृता[:] तृष्णादृष्टिमानाविद्या इति बहिर्देशीयकाः, ध्यायिसूत्रोक्तेः। त्रयो हि ध्यायिनः-तृष्णादृष्टिमानोत्तरध्यायिभेदात्। सर्वे च तेऽविद्यावशाद्भवन्तीति चत्वार्येव इति।

एतच्च न ते। कस्मा[त्] ?

सूत्रस्यार्थापरिज्ञानादहेतुर्ध्यायिचोदनात्॥

न खल्वेषा ध्यायित्रित्वचोदनाऽव्याकृतमूलनिर्देशपराः (रा)। किं परा तर्ह्येषाः(षा) ? योगिनां विपत्तिध्यानाधिमोक्षव्यावृत्तिपरेति पूर्वोक्तमेव साधुः॥

अथ यानि सूत्रे चतुर्दशाव्याकृतवस्तून्युक्तानि, किं तानि कुशलाकुशलपक्षाव्याकरणादव्याकृतवस्तूनि ? नेत्याह। किं तर्हि ? स्थापनीयत्वात्।

[293] प्रश्‍नव्याकरणान्याख्यच्चत्वारि वदतां वरः।
शिष्यानां(णां) वादशिक्षार्थं स्थितीनां च चतुष्टयीम्॥

त्रीणि खलु कथावस्तून्यारभ्य चत्वारि व्याकरणान्यावबुध्य चतस्रश्‍च स्थितीरवगम्य विगृह्य सभायां पञ्चभिरवयवैः स्वपक्षं प्रतिष्ठाप्य वादः करणीयो नातोऽन्यथा इत्यत्र विनिश्‍चयात्॥

कानि पुनस्तानि चत्वारि व्याकरणानि ? काश्‍च ताश्‍चतस्रः स्थितयः ? तदवद्योत्यते-

[294] एकांशाख्यं विभज्याख्यं पृच्छाख्यं स्थाप्यमेव च।
मरणप्रसवोत्कर्षजीवद्रव्यान्यतादिवत्॥

तत्रैकांशव्याकरणम्-कि(किं) यः कश्‍चिज्जायते सर्वोसौ मृ(म्रि)यते? ओमिति वाच्यम्। अथ यः कश्‍चिन्म्रियते सर्वोसौ जायत इति ? विभज्य व्याकर्तव्यम्-क्षीणास्रवो न जायतेऽन्यः सर्वों जायते। किं मनुष्यो विशिष्टोऽथ हीन इति ? परिपृच्छ्य व्याकर्तव्यम्-कानधिकृत्य पृच्छसि ? देवांस्तिर्यगादीन्वा ? यदि देवानारभ्य हीन इति वाच्यम्। अथ तिरश्‍चः श्रेष्ठ इति व्याकर्तव्यम्। किमन्यः स्कन्धेभ्यः पुरुषो वाऽनन्य इति ? एष प्रश्‍नः स्थापनीयः, सदसतोरन्यानन्यत्वव्याकरणायोगात्, खपुष्पसौगन्ध्यदौर्गन्ध्यव्याकरणवत्॥

स्थितयश्‍चतस्रो निर्दिश्यन्ते।

[295] स्थानवादित्वसंज्ञैका परिकल्पाह्वया परा।
अन्या प्रतिपदाख्याऽन्या ज्ञानवादित्वसंज्ञिता॥

कश्‍चिद्धि वादी स्थानास्थाने संभवासंभवाख्ये संतिष्ठते कश्‍चिन्न संतिष्ठते। प्रथमः कत्थ्यः(थ्यः), द्वितीयस्त्वकथ्यः। परिकल्पे संतिष्ठते, यः परिकल्पिते दृष्टान्ते दार्ष्टान्तिकार्थं(र्थे) प्रसाधके संतिष्ठते, स च कथ्यो यो न सन्तिष्ठते सोऽकथ्यः। एवं प्रतिपदि ज्ञानवादितायां यः सन्तिष्ठते स कथ्यते। यस्तु न संतिष्ठते स दुर्मतिरकथ्यते।

इदमिदानीं वक्तव्यम्। अथ केनानुशयेन कस्मिन्वस्तुनि संयुक्तः ? तत्र तावद्वस्तु क्षेत्रवस्त्वादिपञ्चप्रकारम्। तदिह संयोगवस्त्वधिकृतं वेदितव्यम्। त[द्] द्विविधमाश्रयालम्बननैयम्येन प्रकारनैयम्येन च।

तत्राश्रयालम्बननैयम्येन तावच्चक्षुर्विज्ञानकायिकैरनुशयैः, रूपेष्वालम्बनतः संयुक्तः। तत्संप्रयुक्तेषु संप्रयोगतः। ते च मनोधर्मायतने। एवं यावत्कायविज्ञानिकैर्यथाविषयमालम्बनतः, तत्संप्रयुक्तेषु संप्रयोगतः। मनोविज्ञानकायिकैर्द्वादशस्वायतनेष्वालम्बनतः। संप्रयुक्तेषु संप्रयोगतः। इत्याश्रयालम्बननियमः।

प्रकारनैयम्येन तु दुःखदर्शनप्रहातव्यैः सर्वत्रगैः पञ्चसु निकायेष्वालम्बनतः संयुक्तः। तत्संप्रयुक्तेषु संप्रयोगतः। असर्वत्रगैस्तु स्वनैकायिकेष्वालम्बनतः। संप्रयुक्तेषु संप्रयोगतः। इत्येवं सर्वत्र यथासंभवं वक्तव्यम्॥

अथेदानीमतीतानागतप्रत्युत्पन्ननैयम्येन कः पुद्‍गलः कस्मिन्वस्तुनि कतमेनानुशयेण(न) संयुक्तः ? तदिदमुद्भाव्यते-

[296] मानप्रतिघसंरागैर्वर्तमानोऽज्झितक्रियैः।
जाता यत्राप्रहीणाश्च संयुक्तस्तत्र वस्तुनि॥

एते हि मानप्रतिघरागाः स्वलक्षणक्लेशाः सद्वस्तुविषयत्वात्। सामान्यलक्षणक्लेशास्तु दृष्टिविचिकित्साद्याः। अत एते मानादयोऽतीताः प्रत्युत्पन्नाश्‍च यस्मिन्वस्तुन्युत्पन्ना न च प्रहीणास्तस्मिन्वस्तुनि तैः संप्रयुक्तो वेदितव्यः। नह्येते सर्वस्य सर्वत्रोत्पद्यन्ते स्वलक्षणक्लेशत्वात्॥

[297] अजातैर्माण(न)सैरेतैः सर्वत्रान्यैः स्वकाध्विकैः।
सर्वत्राजैस्तथा शेषैः संयुक्ता स्कन्धसन्ततिः॥

यथा(त्रा)प्रहीणा इति वर्तत(ते)। यस्य खलु योऽतीतः क्लेशप्रकारः प्रहीणोऽनागतोऽपि। अतो ये मानरागदयो नागता न प्रहीणास्तैः सर्वस्मिंस्त्रैयध्विके वस्तुनि संयुक्तः। तदालम्बनानामुत्पत्तिसंभवान्मानसानां च त्रैयध्वविषयत्वात्। अतोऽन्यै रागादिभिरनागतैरणा(ना)गत एव वस्तुनि संयुक्तोऽतीतैरतीत एव प्रत्युत्पन्नैः प्रत्युत्पन्न एव। मानसेभ्यो ह्यन्ये पञ्चविज्ञानकायिकाः। ततः सिद्धं भवत्यतीतप्रत्युत्पन्नैरपि मानसैरस्वाध्विकेऽपि वस्तुन्यप्रहीणैः संयुक्तः स्यान्न च केवलं मानसैरेवानागतैरेभिः सर्वत्र। किं तर्हि ? पञ्चविज्ञानकायिकैरपि। अनुत्पत्तिधर्मिकैस्तु पञ्चविज्ञानकायिकैः सर्वत्र त्रैयध्विकैर्वस्तुनि संयुक्तः, तद्विषयस्यातीतानागतप्रत्युत्पन्नत्वात्। सामान्यक्लेशैस्तु दृष्टिविचिकित्साऽविद्याख्यैस्त्रैयध्विकैरपि सर्वस्मिंस्त्रैयघ्विके वस्तुनि संयुक्तः, तेषां सामान्यक्लेशत्वाद्यावदप्रहीणा इत्यनुवर्तते।

कथं पुनर्गम्यतेऽतीतादिषु वस्तुषु रागादय उत्पद्यन्ते तैश्‍च तत्र संयुक्तो भवतीति ? सूत्रादेव हि। भगवतोक्तम्-“त्रयश्छन्दरागस्थानीया धर्माः। अतीताश्छन्दरागस्थानीया धर्माः, अनागतप्रत्युत्पन्नाः। अतीतांश्छन्दरागस्थानीयान्धर्मान्प्रतीत्योत्पद्यते च्छन्दः। उत्पन्ने च्छन्दे संप्रयुक्तस्तैर्धर्मैर्वक्तव्यो न विसंयुक्तः।” तथा-“यस्मिन् रूपेऽतीतानागतप्रत्युत्पन्ने उत्पद्यतेऽनुनयो वा प्रतिघो वा।” इत्येवमादि।

कः पुनरत्र संयुज्यते ? यदा शून्याः सर्वसंस्काराः, नित्येन ध्रुवेन(ण) शाश्वतेनाविपरिणामधर्म(र्मे)णात्मनाऽत्मीयेन वा ? यथोक्तम्-“अस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्‍च स्कन्धान् प्रतिनिक्षिप्यान्यान् स्कन्धान् प्रतिसंदधातीत्यन्यत्र धर्मसंकेतात्” इति विस्तरः।

तत्र प्रतिसमाधानम्-‘संयुक्ता स्कन्धसन्ततिः।’ स्कन्धसन्ततौ हि स्कन्धलक्षणसन्तानैकत्वाभिमानात्, संषृत्या सत्त्वसंज्ञप्तिरित्यदोषः॥

त्रयात्पुनरेतस्मात्-
[298] द्वयमेवात्र निष्पन्नं तृतीयं तूपचारतः।

वस्तुसंयो नाख्यं द्वयं परमार्थतो विद्यते सत्त्वाख्यस्तु तृतीयोऽर्थः संवृत्या विद्यत इति।

कुतः पुनरेतद् द्वयं परमार्थतो विद्यते ? तदुच्यते-

सदसद्धेतुनो(ता) यस्मान्मध्यस्थैश्च परिग्रहात्॥

शुभाशुभफलं कर्मनैयम्याद् गुणदोषफलनियम्यताः(ता)। किञ्च, ‘मध्यस्थैश्‍च परिग्रहात्।’ मध्यस्था उच्यन्ते वीतक्लेशाः। तैः शुभं च शुभतोऽशुभं चाशुभतः, गुणाश्‍च गुणतः दोषाश्‍च दोषतः परिगृहीतः। तत्फलं चेष्टमिष्टतः परिगृहीतमनिष्टं चानिष्टतः। इति सिद्धं द्वयं परिनिष्पन्नं तृतीयं तूपचारत इति।

युक्तं तावदिदम्। यदिदं प्रत्युक्तं वस्तुहेतुप्रत्ययात्प्रतीत्योत्पन्नं परमार्थतो विद्यते प्रत्यात्मवेदनीयत्वात्, तदालम्बनाश्‍च रागादयः द्रव्यतः सन्तीति। यत्पुनरिदमुक्तमतीतानागते वस्तुनि त्रैयध्विकैरनुशयैः संयुक्त इति तदेतत्साहसमाहोपुरुषिकमात्रम्। कः पुनरेतदतीतानागतादि द्रव्यतोऽभिवाञ्च्छतीत्याहाभिधार्मिकाः॥

चत्वारः खल्विह प्रवचने वादिनः। कतमे चत्वारः ? तदपदिश्यते-

[299] सर्वमस्ति प्रदेशोऽस्ति सर्वं नास्तीति चापरः।
अव्याकृतास्तिवादीति चत्वारो वादिनः स्मृताः॥

तत्र सर्वास्तिवादा(द)स्याध्वत्रयमस्ति स ध्रुवत्रयमिति। विभज्यवादिनस्तु दार्ष्टान्तिकस्य च प्रदेशो वर्तमानाध्वसंज्ञकः। वैतुलिकस्य अयोगशून्यतावादिनः सर्वं नास्तीति। पौद्‍गलिकस्यापि अव्याकृतवस्तुवादिनः पुद्‍गलोऽपि द्रव्यतोऽस्तीति।

अत्र पुनः
[300] एभ्यो यः प्रथमो वादी भजते साधुतामसौ।
तर्काभिमानिनस्त्वन्येयुक्त्यागमबहिष्कृताः॥

यः खल्वेष प्रथमो वादी सर्वास्तिवादाख्यः, एष खलु युक्त्यागमोपपन्नाभिधायित्वात्सद्वादी। तदन्ये बादिनो दार्ष्टान्तिकवैतुलिकपौद्‍गलिकाः न युक्त्यागमाभिधायिनः, तर्काभिमानिनस्ते। मिथ्यावादित्वादेते लोकायतिकवैनाशिकनग्नाटपक्षे प्रक्षेप्तव्याः। इत्यतश्‍च सर्वं सर्वगतमुपदर्ष(र्श)यिष्यामीति॥

कः पुनरयं सर्वास्तिवादी साधुता(तां) भजते ? तदिदमवद्योत्यते। एष खलु वादी

[301] इच्छत्यध्वत्रयं यस्मा[त्] कृत्यतश्‍च ध्रुवत्रयम्।
सर्वास्तिवाद इत्युक्तस्तस्मादाद्यश्‍चतुर्विधः॥

खल्वेष सर्वास्तिवादश्‍चतुर्धा भेदं प्रतिपन्नः। कथम् ? तदारभ्यते-

[302] भा[वाङ्काऽ]न्यथिकाख्यौ द्वाव[व]स्थाऽन्यथिको परः।
अन्यथाऽन्यथिकश्‍चान्यः, तृतीयो युक्तिवाद्यतः॥

तत्र भावान्या(न्य)थिको भदन्तधर्मत्रातः। स ह्येवमाह-धर्मस्याध्वसु प्रवर्तमानस्यानागतादिभावमात्रमन्यथा भवति। न द्रव्यान्यथात्वम्। यथा सुवर्णस्य कटकादिसंस्थानान्तरेण कृ(क्रि)यमान(ण)स्य पूर्वसंस्थाननाशे सुवर्णनाशः। क्षीरस्य वा दधित्वेन परिणमतो यथा रसवीर्यविपाकपरित्यागो न वर्णस्येति। तदेष वार्षगण्यपक्षभजमानत्वात्तद्वर्ग्य एव द्रष्टव्यः। यस्मात् एषोऽवस्थितस्य द्रव्यस्य जातिलक्षणस्य समुदायरूपस्य वाऽन्यथाऽन्यथावस्थानलक्षणं परिणाममिच्छति।

लक्षणान्यथिको भदन्तघोषक इह पश्यत्यतीतो धर्मोऽतीतलक्षणेन युक्तोऽनागतप्रत्युत्पन्नलक्षणाभ्यामवियुक्तः, एवमनागतप्रत्युत्पन्नावपि। यथा पुरुषः एकस्यां स्त्रियां रक्तोऽन्यास्वविरक्तः। तदस्याप्यध्वसंकरो भवत्येकस्य धर्मस्य त्रिलक्षणयोगाभ्युपगमात्। एषोऽपि पुरुषकारणि(?)वागुरायां प्रवेशयितव्यः।

अवस्थाऽन्यथिको भदन्तवसुमित्रः। स खल्वाह-धर्मोऽध्वसु प्रवर्तमानोऽवस्थामवस्थां प्राप्याऽन्यथाऽन्यथाऽस्तीति निर्दिश्यते। अवस्थान्तरविशेषविकारात्स्वभावापरित्यागाच्च। यथा निक्षेपवर्तिकैकाङ्कविन्यस्तैकेत्युच्यते, सैव शताङ्के शतं सहस्राङ्के सहस्रमिति।

अन्यथाऽन्यथिको भदन्तबुद्धदेवः। स ब्रूते। धर्मोऽध्वसु प्रवर्तमानस्या(-मानः) पूर्वापरमवेक्ष्यान्यथा चान्यथा चोच्यते। नैवास्य भावान्यथात्वं भवति द्रव्यान्यथात्वं वा। अथैका स्त्री पूर्वापरमपेक्ष्य माता चोच्यते दुहिता च। तद्वद्धर्मोऽनागतप्रत्युत्पन्नमवे(पे)क्ष्यातीत इत्युच्यते। तथेतरोऽपीतरद्वयमपेक्ष्येति।

अस्याप्येकस्यातीतस्याध्वनः पूर्वोत्तरक्षणत्र(द्व)यमपेक्ष्याध्वत्रित्वापत्तिदोषप्रसङ्गः।

तदेभ्यश्‍चतुर्भ्यः सर्वास्तिवादेभ्यस्तृतीयः स्थविरवसुमित्रः पञ्चविंशतितत्त्वनिरासी परमानु(णु)संचयवादोन्माथीच। इत्यतोऽसावेव युक्त्यागमानुसारि[त्वा]दाप्तः प्रामाणिक इत्यध्यवसेयम्।

भदन्तबुद्धदेवोऽपि तीर्थ्यपक्ष्यभजमानत्वान्न परिगृह्यते।

भदन्तघोषकोऽप्यध्वसंकरवादित्वादेकैकस्याध्वनोऽध्वत्रयलक्षणभाग्भवति।

इत्यतस्तृतीय एवापदोषः। यस्मात्-

[303] कारित्रेणाध्वनामेप व्यवस्थामभिवाञ्छति।
तत्कुर्वन्वर्तमानोऽध्वा कृतेऽतीतोऽकृते परः॥

ये खलु भगवतोक्ताः स्वभावसिद्धास्त्रैयाध्विका धर्मा अतीतानागतप्रत्युत्पन्नास्तेषामयमाचार्यः क्रियाद्वारेणावस्थाभेदमिच्छत्यजहत्स्वरूपो हेतुसामग्रीसन्निधानप्रबोधितशक्तिः। क्रियावा[न्] हि संस्कारो वर्तमान इत्युच्यते। स एव त्यक्तक्रियोऽतीतोऽनुपात्तक्रियोऽनागतः। इत्येवं च सति कालत्रयस्यैकाधिकरण्यमेकाधिष्ठानव्यापारपरिच्छेद्यत्वं चोपपन्नम्। अन्यथैकः (क)द्रव्यजातिनिमित्ताभावे वैयधिकरण्ये सति कालत्रयसंबन्धाभावः प्राप्नुयादिति।

अत्राह चोदकः-न, अतीतानागतस्यार्थस्य प्रज्ञप्त्या व्यपदेशसिद्धेः। न, परमार्थद्रव्याभावे निरधिष्ठानप्रज्ञप्तिव्यपदेशानुपपत्तेः। वर्तमानापेक्ष्यस्तद्व्यपदेश इति चेत्। न। वर्तमानस्वरूपस्थितिशक्तिक्रियाभावे सत्त्वानुपपत्तेः, सदसतोरपेक्षासंबन्धाभावाच्च। सत्त्वलक्षणमिदानीमेव द्योत्यते अतीतादीनां पदार्थानाम्-

[304] बुद्ध्या यस्येक्ष्यते चिह्नं तत्संज्ञेयं चतुर्विधम्।
परमार्थेन संवृत्या द्वयेनापेक्षयाऽपि च॥

यस्य खल्वर्थवस्तुन(नः) स्वभावसिद्धस्वरूपस्याविपरीताकारया धर्मोपलक्षणया परिच्छिन्नं लक्षणमुपलक्ष्यते तत्स[द्]द्रव्यमित्युच्यते। तत्पुनः सत् प्रतिभिद्यमान(नं) चतुर्विधं भवति।

परमार्थेन यन्नित्यं स्वभावेन संगृहीतं न कदाचित्स्वमात्मानं जहाति, विशिष्टज्ञानाभिधानापौरुषेयविषयिसंबन्धं तत्परमार्थसदित्युच्यते।

यत्पुनरणे(ने)कपरमार्थसत्यपृष्ठेन ब्यवहारार्थं प्रज्ञप्तिरूपतया निर्दिश्यते तत्संवृतिसत्। तद्यथा धटपटवनपुग्दलादिक[म्]।

किञ्चिदुभयथा। तद्यथा पृथिव्यादि। किञ्चित्सत्त्वा पेक्षया पितृपुत्रगुरुशिष्यकर्तृक्रियादि॥

अथ यदिदमुक्तं द्रव्यसन्तोऽतोतानागताऽध्वस्था धर्मा इति तदागमयुक्त्यनभिधानादभिधानमात्रम्। तस्मादागमयुक्तिभ्यामुपपाद्योऽयमर्थ इत्यत इदं प्रतिज्ञायते-

[305] सदतीतासमुत्पन्नं बुद्धोक्तेर्वर्तमानवत्।
धीनामगोचरत्वच्च तत्सत्त्वं वर्तमानवत्॥

उक्तं हि भगवता-“अस्ति भिक्षवोऽतीतं रूपं नोचेदतीतं रूपं अभविष्यन्नेमे सत्त्वा अतीते रूपे समरञ्ज्यन्तः। यस्मात्तर्ह्यस्त्यतीतं रूपं तस्मादिमे सत्त्वा अतीते रूपे संरञ्ज्यन्ते।” एवमनागतप्रत्युत्पन्न(न्नं) चेति वाच्यम्। विभक्तिप्रतिरूपकोऽयं निपात इति चेत्। न। वर्तमानेऽपि तत्प्रसङ्गात्। क्रियावचनेन चोत्तरपदेन पूर्वस्य क्रियावचनस्यैव पदस्य सामानाधिकरण्यात्।

पुनश्चोक्तं भगवता-“रूपमनित्यमतीतानागतम्, कः पुनर्वादः प्रत्युत्पन्नस्य ? एवंदर्शी श्रुतवानार्यश्रावकोऽतीते रूपेऽनपेक्षो भवत्यनागतं रूपं नाभिनन्दति। प्रत्युत्पन्नस्य रूपस्य निर्विदे विरागाय निरोधाय प्रतिपन्नो भवति। अतीतं चेद्रूपं नाभविष्यन्न श्रुतवानार्यश्रावकोऽतीते रूपेऽनपेक्षोऽभविष्यत्; यस्मात्तर्ह्यस्त्यतीतं रूपं तस्माच्छ्रुतवानार्यश्रावकः अतीते रूपेऽनपेक्षो भवति” इति विस्तरः।

तथोक्तम्-यच्छारिपुत्र कर्माभ्यतीतं क्षीणंनिरुद्धं विगतं विपरिणतं तदस्तीति। तच्चेत् कर्म शारिपुत्र नाभविष्यन्नेहैकतीयस्तद्धेतोः तत्प्रत्ययादपाय दुर्गतिविनिपातं कायस्य भेदान्नरकेषूपपत्स्यते” इति विस्तरः। तदाहितचित्तभावनां सन्धाय वचनाददोष इति चे[त्]। न। उक्तोत्तरत्वात्। उक्तोत्तरो ह्येष वादः। किं तिलपीडकवत्पुनरावर्तसे ?

किञ्च, भावनाभाव्यमानचित्तयोः स्वरूपशक्तिक्रियानुपपत्तेः पुष्टवासिततैलवत्, अन्यानन्यत्वादिवक्ष्यमान(ण)दोषाच्च।

परमार्थशून्यतासूत्रादसदिति चेत्। न। तदर्थापरिज्ञानात्। तत एवानागताद्यस्तित्वसिद्धेश्‍च। तत्रैतत् स्यात्-परमार्थशून्यता सूत्रे भगवता विस्पष्टमनागतादिनास्तित्वं प्रदर्शितम्। तत्र ह्यक्तम्-“चक्षुरूत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचित्संनिचयं गच्छति” इति विस्तरः। अतीतानागतसद्भावे चागतिगतिदोषो(षा)भ्युपगमः प्राप्नोतीति।

एतच्च न। कुतः ? सूत्रार्थापरिज्ञानात्। अत एवानागताद्यस्तित्वसिद्धेश्‍च।

सूत्रस्य तावदयमर्थः। यदुक्तम्-“चक्षुरुत्पद्यमानं न कुतश्‍चिदागच्छति, निरुध्यमानं न क्वचित्संनिचयं गच्छति” इति तद्वेदोक्तवादविधिप्रतिषेधार्थं सांख्यमतव्युदासार्थं च।

वेदे ह्यक्तम्-“पञ्चत्वमापद्यमानस्य चक्षुरादित्यादागतं पुनस्तत्रैव प्रतिविगच्छति। श्रोत्रमाकाशम्। घ्राणं पृथिवीम्। जिह्वा आपः। कायो वायुम्। मनः सलिलं सोममित्यर्थः।” तत्प्रतिषेधार्थं भगवानवोचत्- “चक्षुरुत्पद्यमानं न कुतश्‍चिदागच्छति” इति विस्तरः।

सांख्याः खल्वप्याचक्षते-“चक्षुष्प्रधानादागच्छति तत्रैव च पुनर्विगच्छति” इति। तन्निरासार्थ च भगवानवोचत्-“चक्षरुत्पद्यमानं न कुतश्‍चिदागच्छति।” अदेशप्रदेशस्थाः खल्वनागतातीतपरमाण्वविज्ञप्तिसंज्ञिता धर्मः(र्माः) इति तदागमनगमनानुपपत्तिः।

कस्तर्हि वाक्यार्थ।-“अभूत्वा भवति। भूत्वा च प्रतिविगच्छति” इति ? द्विविधं हि चक्षुर्द्रव्यसदेव परमार्थसतो यदप्रबुद्धमुभयम् (?)। अन्यत्प्रबुद्धमनु(-द्धमु ?)पात्तक्रियम्। पूर्वं तद्धेतून्प्रतीत्य क्रियामुपादत्ते प्रबुध्यत इत्यर्थः। उपात्तक्रियं च द्वितीयम्। तद्धि क्रियामुज्झत्प्रतिविगच्छतीत्युक्तं भवति।

सांख्यमतनिषेधार्थं वा। सांख्यानां खल्वेकं कारणं नित्यं स्वां जातिमजहत्तेन तेन विकारविशेषात्मना भूत्वा भूत्वाऽन्येनान्येन कार्यविशेषात्मना परिणमतीति। तत्प्रतिषेधार्थं भगवानवोचत्-“चक्षुरुत्पद्यमानं न कुतश्‍चिदागच्छति निरुध्यमानं न क्वचित्संनिचयं गच्छति” इति। चक्षुरभूत्वा वर्तमानेऽध्वनि क्षणमात्रं क्रियारूपमादय त्यक्त्वा पुनरदर्शनं गच्छति।

किञ्चान्यत्, अत एवानागतास्तित्वसिद्धेः। यदुक्तमस्मिन्नेव सूत्रे चक्षुरुत्पद्यमानं न कुतश्‍चिदागच्छति” इत्यत्रैतदादर्शितम्। सदिदं चक्षुरन्तरङ्गबहिरङ्गकारणसामग्रीसन्निधानोपाधिवशेन क्रियामुपाददानं न कुतश्‍चिदागच्छति। कुतः पुनस्तत्सत्त्वमिति चेत्। मुख्यसत्ताविष्टे कर्तरि शानचोविधानान्निरुध्यमानवदिति। तस्मा[द्] दुर्विहितवेताडोत्थानवत् सौत्रान्तिकैः स्वपक्षोपघाताय सूत्रमेतदाश्रीयते।

एवं तावदागमात्सिद्धमध्वत्रयास्तित्वम्।

युक्तितोऽपि-‘धीनामगोचरत्वाच्च तत्सत्त्वं वर्तमानवत्।’ तदाकारया खलु बुद्ध्या यस्यार्थस्य स्वसामान्यलक्षणं परिच्छिद्यते, यश्‍च बुद्धोक्तनामकायधर्मकायाभ्यां(भ्या)मभिद्योत्यते स परमार्थतो विद्यते। कथम् ? वर्तमानचक्षूरूपादिवत्। ज्ञानज्ञेयाभिधानाभिधेयसंबन्ध[:] खल्वकृतक‍इति शिष्टात्(:) प्रतिपद्यन्ते॥

असदालम्बनाऽपि बुद्धिरस्तीति चेत्। अत्रापदिश्यते-

[306] नासदालम्बना बुद्धिरागमादुपपत्तितः।

आगमस्तावत्-“चक्षुः प्रतीत्य रूपं चोत्पद्यते चक्षुर्विज्ञानं यावन्मनः प्रतीत्य धर्मांश्‍चोत्पद्यते मनोविज्ञानम्। एतावच्चैतत्सर्वमस्ति” इत्युक्तं भगवता। तत्र मनोविज्ञानं त्रैयध्विकासंस्कृतधर्मविषया[यम], पञ्चविज्ञानकायाः प्रत्युत्पन्नपञ्चविषयालम्बनाः। न तु क्वचिदसा(स) [दा]लम्बनमुक्तं नापि तदस्तीति तद्विषयबुद्ध्यभावः।

तथोक्तम्-“यद्व(दु)त लोके नास्ति तदहं द्रक्ष्यामि” इति विस्तरः।

तथा-“त्रयाणां सन्निपातः स्पर्शः। सहजाता वेदना” इति विस्तरः। एतेनाभिधानाभिधेयसंबन्धः प्रत्युक्तः। तदेवं सति सूत्रेऽस्मिन्मघ्यमाप्रतिपत्प्रदर्शिता। यदुत-केनचित्प्रकारेण शून्याः संस्काराः मिथ्यापरिकल्पितेन पुरुषालयविज्ञानाभूतपरिकल्पादिना। केनचिदशून्याः, यदुत-स्वलक्षणसामान्यलक्षणाभ्यामिति। यथा कात्यायत(-य)न सूत्रे-“लोकसमुदयं ज्ञात्वा या लोके नास्ति ता सा न भवति। लोकनिरोधं ज्ञात्वा या लोकेऽस्ति ता सा न भवति इतीमौ द्वावन्तौ परित्यज्य मघ्यमया प्रतिपदा तथागतो धर्मं देशयति।” न चैतद् द्व [यम]स्तिनास्तित्वाख्यमेकाधिकरणं विरोधादुपपद्यते न च निरधिष्ठानम्। नापि खपुष्पशून्याधिष्ठितम्।

युक्तिरपि। ज्ञानज्ञेयाभिधानाभिघेयसंबन्धस्याकृतकत्वात्। नास्तिशशविषान(ण)मित्यस्य ज्ञानस्याभिधानस्य चासद्विषयत्वमिति चेत्। तत्र ब्रूमः-

अन्यापेक्ष्येऽथ संबन्धप्र्‍तिषेधोऽश्वशृङ्गयोः॥

योऽयं नास्ति शशविषाणादिप्रतिषेधोऽस्य तर्हि किं प्रतिषेध्यम् ? यद्यसदालम्बना बुद्धिर्नास्त्यभिधानं वा निरभेधेयमिति ? अत्रापदिश्यते। ‘अन्यापेक्ष्येऽथ संबन्धप्रतिषेधः।’ कार्यकारणादिस्त्रिविधः संबन्धोऽत्र गोविषाणादिषु पूर्वदृष्टः शशविषाणादिषु प्रतिषिद्ध्यते। शशषि(शि)रोमात्रकाकाशधातुसंबन्धदर्शणा(ना)द्यदि शशशिरस्या(स्य)पि विषाणम विष्यत्तद्वदेवोपलप्स्यत। न चोपलभ्यते। तस्मात्संबन्धान्तरापेक्षं शशविषाणशब्दगडुमात्रं नञा संबन्ध्यन्तरसंबन्धबुद्ध्यपेक्षेणावद्योत्यते, न तु किञ्चिदभिधानमभिधेयं वा प्रतिषेध्यात्मनः(ना) श्रीयत इति सिद्धं सर्वा बुद्धिः सद्विषयेति।

एतेनाजातं घ्वस्तं च गोविषाणं प्रत्युक्तम्। गोशिरसा(शिरो)मात्रमाकाशधातुवेष्टित(तं) दृष्ट्वाः(ष्ट्वा) जनिष्यते ध्वस्तं वा गोविषाणमिति द्रष्टव्यम्।

त्रयोदशायतनप्रतिषेधबुद्धिविषयाद् अस्तित्वादसदालम्बना बुद्धिरस्तीति चेत्। न। भगवतैव वाग्वस्तुमात्रमेतदिति निर्णीतत्वात्। उक्तं हि भगवता हस्तताडो(लो)पमे सूत्रे-“एतावत्सर्वं यदुत चक्षू रूपं च यावन्मनो घर्मांश्च। यः कश्चिदेतद् द्वय प्रत्याख्याया[न्य]द् द्वयं ज्ञेयमभिधेयं वा कल्पयेत् वाग्वस्तुमात्रमेवास्य स्यात्। पृष्टो वा न संप्रजानीयादुत्तरे वा संमोहमापद्येत। यथापि तदविषयत्वात्।” इति।

किञ्च, अस्तिशशविषाणाभिधानाभिधेयवन्नास्त्युक्तिरपि वाग्वस्तुमात्रं विषाणाख्याभिधेयार्थसंबन्धविहीनम्। एतेन षष्ठः स्कन्धः प्रत्युक्तः। किञ्च, पञ्चस्कन्धविषयविपरीतज्ञानप्रतिषेधात्। अलातचक्रबुद्धिप्रतिषेधवत्, द्विचन्द्रबुद्धिप्रतिषेधवच्च। उक्तं हि भगवता-“ये केचिदात्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धान्समनुपश्यन्तः समनुपश्यन्ति” इति स्कन्धविषये चैषा नित्यात्मद्रव्यभ्रान्तिरित्यवद्योत्यते।

किञ्च, नञः सदसत्प्रतिषेध्यविषयत्वानुपपत्तेश्च। सन्तं तावदर्थं न प्रतिषेद्‍धुम(म्) समर्थः। यदि हि सन्तमर्थं शक्नुयात्प्रतिषेद्‍धुं न राजानो हस्त्यश्वं वि(बि)भृयुर्ण(र्न) सन्ति दस्यव इत्येवं ब्रूयुः। इत्युक्ते दस्यूनामभाव[:] स्यात्। न चैतदस्ति। अथासन्तं प्रतिषेधयति, तेनाभावप्रतिषेधाद्भाव एव स्यादिति। तस्मान्नञो न गोविषाणादि[:] नापि शशः(श) [विषाणादिः] प्रतिषिध्यते। किं तर्हि। शशाकाशधातुसंबन्धबुद्ध्यपेक्षेण गोविषाणादिद्रव्यासंबन्धबुद्धयोऽवद्योत्यन्ते। सिद्धा सदालम्बनैव बुद्धिः। एवमन्यत्रापि।

[307] रूपादौ वस्तुनि क्षीणे सत्येवोत्पद्यते मतिः।
सा ज्ञानस्यासनाकारा शास्तुस्तथान्यचित्तवत्॥

रूपादौ खल्वपिवस्तुन्यभ्यतीते सत्येव बुद्धिरुत्पद्यते। न ह्यसदालम्बना बुद्धिरुत्पद्यते। सदालम्बना बुद्धिरस्तीत्युपपादितम्। न च नो द्रव्यं विनश्यतीत्युक्तम्। यदेतद रूपादिद्रव्यं पूर्वानुभूतं तदेव तत्स्मृत्या गृह्यत इत्युपरिष्टादपि साधयिष्यामः।

या तर्हि निरुद्धदेवदत्तानुस्मृतिर्धटानुस्मृतिर्वा सा कथं जायते ? अतीतानाग तयोर्देवदत्तघटप्रज्ञप्त्युपादानयोरिति। अत्र ब्रूमः। सापि खलु साविद्यास्यासदाकारोत्पद्यते स्थान्वा(ण्वा)दौ पुरुषादिबुद्धिवत्। निरविद्यस्य तु शास्तुस्तत्त्वाकारा भवति रूपादिधर्ममात्रबुद्धिरेव। तद्यथा परचित्तविदः स्वलक्षणाकारा बुद्धिरुत्पद्यते। तत्सामर्थ्योपाधि[व]शेनान्यथापि जानीते। तद्वत्तत्सामर्थ्येण भाविनीं भूतां च संज्ञा(ज्ञां) रूपादिषु देवदत्तघटलक्षणां प्रतिपद्यत इति॥

इतश्‍च सदतीतानागतम्-
[308] हर्षोत्पादभयोद्वेगस्मृत्युत्पत्य(त्त्य)ङ्गभावतः।

अतीतानागतं हि मित्रममित्रौ(त्रं) वा मनसि कृत्वा हर्षोत्पादभयादयोऽभ्युपजायन्ते। ते चानिमित्ता न भवितुमर्हन्ति। कथम् ? वर्तमानवत्।। तद्यथा सति वर्तमाने मित्रेऽमित्रे वा हर्षभयादयो भवन्ति नासतीति तद्वत्।

किञ्च,
साङ्गस्य शक्त्यभिव्यक्तेः सदीपघटरूपवत्॥

विद्यमानस्य खल्वनागतस्य वस्तुनोऽतीतप्रत्युत्पन्नसहकारिकारणसामग्रीगृहीतस्य शक्तिमात्रमाविर्भवति। कथम् ? ‘सदीपघटरूपवत्।’ तद्यथा तमसि विद्यमानस्य घटरूपस्य स्वात्मोद्भावनशक्तिः प्रदीपादिकारणसामग्रीसन्निधाने सति भवति तद्वदिति। इतश्‍चास्त्यनागतम्॥

[309] जनीहाकर्तृ साध्यत्वात्पञ्चभावविकारवत्।

तद्यथा अस्ति विपरिणमते वर्धते क्षीयते विनश्यतीति सति मुख्यसत्ताविष्टे कर्तरि एते पञ्च भावविकारा भवन्ति। तद्वज्जायत इत्ययमपि षष्ठः भावविकारः सति मुख्याविष्टे कर्तरि भवितुमर्हतीति। किञ्च जायमानता सत्ता नश्यता नासामानाघिकरण्ये सत्यनन्यतापत्तिसङ्करदोषप्रसङ्गात्। वैयधिकरण्याभ्युपगमे संबन्धाभावादेकत्र तद्‍व्यपदेशानुपपत्तिः। किञ्च, जायमानतादिक्रियाभावेऽस्तित्वायोगात्। कथम् ? शशविषाणवदिति। उपचारसत्तेति चेत्। न। मुख्यसत्तायां सत्यामुपचारसद्भावात्, वक्ष्यमान(ण)दोषाच्च।

इतश्चास्ति-
सतः कृ(क्रि)याङ्गतादृष्टेर्विकार्यप्राप्यकर्मवत्॥

तद्यथा विकार्ये कर्मणि सति करणं दृष्टं काशात्कटी करोति। प्राप्ये च कर्मणि सति ग्रामं गच्छति देवदत्तः सूर्यं च पश्यतीति गमनदृशिक्रिये सति कर्मणि भवतः। तद्वन्निर्वर्त्येऽपि कर्मणि मुख्यद्रव्यास्तित्वे सति देवदत्तकर्तृका घटक्रियोपपद्यत इति॥

सांख्यः पश्यति-विद्यमानमेव जायते। तद्यथा क्षीरे विद्यमानं दधि, कार्यकारणयोरेकत्वात्। तं प्रत्यपदिश्यते-

[310] द्वितीयं जन्म जातस्य वस्तुनो नोपपद्यते॥

यदि खलु क्षीरे दध्यादयो विकाराः सन्ति बीजे चाङ्कुरादयः शुक्रशोनि(णि)ते च कललादयः, तेषां जातानां क्षीरादिवज्जन्म पुनर्ण(र्न) युज्यते। यथा च न युज्यते तथा पूर्वमेवाविष्कृतम्।

वैशेषिको मन्यते-कपालेष्वविद्यमानं घटद्रव्यं तन्तुषु चाविद्यमानं पटद्रव्यं कपालतन्तुसंयोगादुत्पद्यते। गौण्या च कल्पनया विप्रकृता(ष्टा ?)वस्थाविषया जनिकर्तृ सत्ता व्यपदिश्यत इति। अस्याप्यवयविद्रव्यं सहावयवैः पूर्वमेव विहितोत्तरम्। यत्पुनरुक्तमुपचारसत्तया जनिकर्त्तोपदिश्यत इत्यत्र ब्रूमः-

मुख्यसत्ता गुणाभावाद्‍गौनी(णी) सत्ता न विद्यते॥

न हि मुख्यसत्ता[यां] गुणाभावेऽवयवाभावे वा कारणेषु प्रागुत्पत्त्यभावे वा कार्यसत्तोपचारो युज्यते॥

कस्मात् ?
[311] साधर्म्ये सति तद्‍वृत्तेर्व्याहारं मधुरोक्तिवत्।

तद्यथा मधुरवाग्देवदत्त इति वाचि माधुर्यगुणयुक्तस्य गुडद्रव्यस्य मधुनो वा साधर्म्यमभिलषणीयता विद्यते इत्यतो वाचि माधुर्यशब्दः प्रयुज्यते। कन्यामुखे च चन्द्रकान्तिसादृश्यं दृष्ट्वा चन्द्रशब्दः प्रयुज्यते। वाहीके च जाड्यसाधर्म्याद्‍गोशब्दः प्रयुज्यते-गौरयं वाहीक इत्येवमादि। न च तथा कश्चिदगुणावयवगन्धोऽपि तन्तुषु तत्संयोगे वा प्रागुत्पत्त्यभावे निरात्मनः कार्यस्यास्तीति। न च कार्यं किञ्चिदीषत्कृतमुपपद्यते। निष्ठासत्तैककालाभ्युपगमात्। प्रागव्यपदेश्यं वस्तुमात्रं विप्रकृतं जायत इति चेत्। न। उक्तोत्तरत्वात्। मम तु चन्द्रकोटीप्रकाशलक्षणो दृष्टान्तो विद्यते।

आविष्टलिङ्गमुख्यस्य जन्मेष्टं दारकादिवत्।

अयं हि जनिरभिनिष्क्रमणादिवचनो नासत्प्रादुर्भाववचनः। कथम् ? ‘दारि(र)कादिवत्’। तद्यथा दारको मुख्यसत्ताविष्टो मातृकुक्षेर्निष्क्रमने(णे) जायत इत्युच्यते। तद्वदत्रापीति।

दार्ष्टान्तिकः खलु ब्रूते-कारणशक्तिषु निरात्मकजनिकर्त्रुपचारः प्रवर्तते। तं प्रति ब्रूमः-

[312] स्यात्खपुष्पैः खमुत्फुल्लं स्याञ्जटालश्‍च दर्दुरः।
स्वभावो यदि भावनां प्रागभूत्वा समुद्भवेत्॥

न ह्यसतः कस्यचिच्छशविषाणादेरुत्पादो भवति नैरात्म्याविशेषसर्वासदुत्पत्तिप्रसङ्गात्। तद्धेतुकानां च जायमानजातनश्यत्कालेष्वात्मास्तित्वस्थितशक्तीनामनुपपत्तेः। कारणानां च कार्यात्मकत्वा[त्] प्रागुत्पत्तेरसत्त्वम्, असत्त्वादनुपपत्तिदोषापत्तिः। कुतश्‍च नाभावो भावीभवति ? स्थितिशक्तिक्रिया[ऽ]योगात्॥

कथमयोग इति चेत्। तदाविष्क्रियते-
[313] स्थितिशक्तिपरित्यक्तान्धर्मान्नाशान्वितोदयान्।
वद सोम्य कथं याति प्रतीत्या वस्तु वस्तुताम्॥

इह खलु भवतामहेतुको विनाशः सर्वोत्पत्तिमतां नित्यसंनिहितः। तस्मिंश्‍च सति जन्मस्थितिशक्तिक्रिया न विद्यन्ते, विरोधात्। तास्वसतीषु कारणमपि चे(चै)व विनष्टम्। तदस्मिन्नसति किं प्रतीत्य असन्निरात्मकं वस्तु वस्तुतां यातीत्याचक्ष्व। कथं ते कार्यं कारणं वोपपद्यते ? सतां हि संज्ञासंज्ञिज्ञानज्ञेयक्रियाकारणहेतुफलादीनामन्योन्यापेक्षप्रज्ञप्तेः। अथ तवाभावो न कश्‍चिदस्ति भावविरोधी, कथं तर्हि स भावो नष्ट इत्युच्यते ? तस्माद्भवतो वाङ्मात्रमेतत्, मम तु विद्यमानयोरेवोपकार्युपकार[क]भावो युक्तः।

यस्मात्-

[314] लोके दृष्टः सतोरेव परस्परमनुग्रहः।
तद्वदेवोपघातोऽपि नाश्‍वशृङ्गाहिवा(पा)दयोः॥

अनुग्रहोपघातयोश्च कार्यकारणसंबन्धोपचारश्च सतोरेव भवतीत्यास्तनन्धयेभ्यः प्रसिद्धमेतत्, नासतोः न च सदसतोरिति॥

वैतुलिकः कल्पयति-
[315] यत्प्रतीत्यसमुत्पन्नं तत्स्वभावान्न विद्यते।

यत्खलु निस्वभावं निरात्मकं हेतून्प्रतीत्य जायते तस्य खलु स्वभावो नास्ति। न हि तत्कारणेषु प्रत्येकमवस्थितं नापि भागशो नाप्यन्यत्र क्वचित्। नापि हेतुसमुदाये तद्‍रूपाभावात्। यच्च न क्वचिदस्ति तत्कतमेन स्वभावेनोत्पत्स्यत इति नास्ति स्वभावः। यस्य च नास्ति स्वभावः तत्कथमस्तीत्युच्यते ? तस्मादलातचक्रवन्निस्वभावत्वात् सर्वधर्मा निरात्मान इति।

तं प्रत्यपदिश्यते-
न विद्यते स्वभावाद्यद्विद्यते तत्ततोऽन्यथा॥

ब्रह्मोद्यमेतत्-यत्प्रतीत्यसमुत्पन्नं तत्संवृत्यात्मना विद्यते वनसंघादिवत्। यत्परमार्थतो विद्यते तरय प्रतीत्यावस्थाशक्तिमूर्तिक्रियादिमात्रमुत्पद्यत इति॥

तस्य तर्हि हेतवो विद्यमानस्य कमुपकारं कुर्वन्तीति ? अत्राभिधीयते। न खलु द्रव्यस्वभावास्तित्वं प्रति कञ्चिदुपकारं कुर्वन्ति। न च स्वभावस्यापेक्ष्य प्रज्ञप्तिः। किं तर्हि ?

[316] प्रकुर्वन्ति दशामात्रं हेतवो वस्तुनः सतः।
राजत्वं राजपुत्रस्य सात्मकस्यैव मन्त्रिणः॥

तद्यथाऽभिजातस्य राजपुत्रस्य विद्यमानस्य मन्त्रिणः सबलसमुदयाः परिग्रहानुग्रहमात्रेणोपकुर्वन्तो राजत्वं कुर्वन्त्येवमनागतस्य वस्तुनः सतो हेतुप्रत्ययाः समेत्य लक्षणमात्र(त्रं) [वर्त]मानाख्यमैश्वर्याधिपत्यं कुर्वन्तीत्यवबोद्धव्यम्॥

अन्ये पुनर्वर्णयन्ति-
[317] धर्माणां सति सामग्र्‍ये सामर्थ्यमुपजायते।
चितानां परमानू(णू)नां यद्वदात्मोपलम्भने॥

यथा खलु परमानु(णु)संचयश्चक्षुषा गृह्यते, प्रत्येकं परमान(ण)वो न गृह्यन्ते, तथा कारणसामग्र्ये सति धर्माणां क्रियासामर्थ्यमुपजायत इति द्रष्टव्यम्।

भदन्तकुमारलातः पश्यति-वातायनप्रविष्टस्यां(स्या)न्तःपार्श्‍वद्वयेऽपि त्रुटयः सन्ति। रश्मिगतस्य तु दर्शनमस्य त्रुटे रश्मिपार्श्‍वगास्त्वनुमेयाः। एतेन व्याख्यातं धर्माणामध्वयोर्द्वयोरस्तित्वम्। प्राप्य ज्ञानातिशयं मुनयः पश्यन्ति, तास्तु धीर्हि त्रिकजा॥

यस्तु मन्यतेऽतीतं कर्माभावीभवत्यनागतं च न विद्यते तं प्रत्यपदिश्यते-

[318] कर्मातीतमसद्यस्य फलं भावि करोत्यसत्।
व्यक्तं वन्ध्यासुतस्तस्य जायते व्यन्तरात्मजात्॥

न हि भवतो वर्तमानकालास्तित्वमुपपद्यते, अतीतानागतहेतुफलाभावात्, वन्ध्याव्यन्तरपुत्रजन्मवत्॥

अत्र प्रत्यवतिष्ठन्ते दार्ष्टान्तिकाः-न ब्रूमः सर्वथाऽतीतं न विद्यते। किं तर्हि ? द्रव्यात्मना न विद्यते प्रज्ञप्त्यात्मना तु सदिति। तत्र प्रतिसमाधीयते-

[319] नामसल्लक्षणाभावाद् द्रव्यसत्याङ्कसिद्धितः।
अनागताभ्यतीतस्य नास्ति प्रज्ञप्तिसत्यता॥

सोपादानं हि सर्वं प्रज्ञप्तिसत्। न च वर्तमानमुपादानमुपपद्यते। अनागताभ्यतीतस्य तस्मान्निरुपादानस्य प्रज्ञप्त्यभावादसदेतत्।

यदि तर्ह्यनागतं चक्षुरादिद्रव्यं विद्यते कस्मान्न पश्यति न दृश्यते न विजानाति ? न व्यक्तं कारित्राभावादी(दि)ति॥

तदत्र कोशकारः प्रश्‍नयति-
[320] को विघ्नः

यदि चक्षुर्विद्यते किं न पश्यति ? वयं ब्रूमः-
अङ्गवैकल्यम्

दृष्टं हि प्रदीपाद्यङ्गवैकल्ये वर्तमानस्यापि चक्षुषो रूपादर्शनम्।
स प्रत्याचष्टे-सर्वस्य सदास्तित्वे कुतोऽङ्गवैकल्यम् ? वयमाचक्ष्महे-

न तत्सर्वास्तिता सदा।

त्रैयध्विकानि खल्वत्राङ्गानि विवक्षितानि। तत्र केषाञ्चिदसांनिध्यं भवति तद्वैकल्यात्कारित्रं न करोतीति।

स प्रत्याचष्टे-
तत्कथं

किं लक्षणात्कारित्रं ततो वा द्रव्यात्, किमन्यदाहोस्विदनन्यदिति ? तत्र वयं प्रतिवद्मः-

श्रूयतां सद्‍भ्यः

छात्रासनमध्यास्य न हि सर्वज्ञप्रवचनगाम्भीर्यं सदेवकेनापि लोकेन शक्यं तर्कमात्रेणावबोद्धुम्। यस्मात्सोम्य-

दुर्बोधा खलु धर्मता॥

तथापि तु श्रूयताम्॥

[321] वर्तमानाध्वसंपातात् सामग्र्याऽङ्गपरिग्रहात्।
लब्धशक्तेः फलाक्षेपः कारित्रमभिधीयते॥

अनागतस्य खलु धर्मस्य वर्तमानाध्वसंपातादन्तरङ्गवहिरङ्गसामग्र्‍याङ्गपरिग्रहात् लब्धसामर्थ्यस्य धर्मस्य यः फलाक्षेपस्तत्कारित्रमित्युच्यते। सा च वर्तमानकाला वृत्तिः कारित्रमित्याख्यायते। तत्र यो ब्रूतेऽनन्यत्कारित्रमिति तस्य द्रव्यस्वभावपरित्यागः प्रसज्यते॥

शास्त्रे तु खलु-
[322] न वर्तमानता रूपमतीताजान(त)ता न च।
यतोऽतो नाध्वसंचाराद् रूपात्मान्यथतेष्यते॥

यदि द्रव्यात्मनो नान्यथात्वं किं तर्हि हेतू[न्] प्रतीत्य जायते ? ब्रूमः-
[323] अवस्था जायते काचिद्विद्यमानस्य वस्तुनः।
तथा शक्तिस्तथा वेला तथा सत्ता तथा क्रिया॥

तत्रावस्थाशक्तिप्रचयक्रियापेक्षा द्रव्यवशा शक्तिः क्रियापेक्षाकृतं सामर्थ्यम्। क्रियाणा(ना)गतफला। द्रव्यवृत्तिवे(र्वे)ला कालो वर्तमानाख्ये(ख्यः)। मूर्तिः परमानु(णु)प्रचयविशेषः। सत्ता प्रबोधाख्यं प्रज्ञप्तिसत्यम्। इति सर्वमेतदन्तरङ्गबहिरङ्गकारणसामग्रीसन्निधानापेक्षासक्तस्वरूपम्॥

अत्र सर्वास्तिवादविभ्रष्टिर्वैतुलिको निराहः (ह)-वयमपि त्रीन् स्वभावान् कल्पयिष्यामः। तस्मै प्रतिवक्तव्यम्-

[324] परिकल्पैर्जगद्व्याप्तं मूर्खचित्तानुरञ्जिभिः।
यस्तु विद्वन्मनोग्राही परिकल्पः स दुर्लभः॥

ते खल्वेते भवत्कल्पितास्त्रयः स्वभावाः पूर्वमेव प्रत्यूढाः। एवमन्येऽप्यसत्परिकल्पाः प्रोत्सारयितव्याः। इत्येतदपरमध्वस(सं)मोहाङ्कनास्थानं कोशकारकस्येति।

गतमेतत्प्रासङ्गिकं प्रकरणम्। शास्त्रमेवानुवर्तताम्॥

व्याख्यातमिदं यस्मिन्वस्तुनि यैः क्लेशैर्यदवस्थैर्यः संयुक्तः। इदमिदानीं वक्तव्यम्। यद्वस्त्वप्रहीणं संयुक्तः स तस्मिन्वस्तुनि ? यस्मि वा वस्तुनि संयुक्तोऽप्रहीणं तस्य तद्वस्तु ? यत्तावद्वस्त्वप्रहीणं संयुक्तः स तस्मिन्वस्तुनि। स्याद्वस्तुनि संयुक्तो न च तद्वस्त्वप्रहीणं यथा तावद्दर्शनमार्गे।

[325] अन्यसर्वत्रगैर्बद्धः प्रहीणे दुःखदृक्क्षये।

दुःखज्ञाने उत्पन्ने समुदयज्ञाने चानुत्पन्ने दुःखदर्शनप्रहातव्यं वस्तु प्रहीणं भवति। तस्मिन्प्रहीणेऽपि समुदयदर्शण(न)प्रहातव्योऽप्रहीणः, तदालम्बनैः सर्वत्रगैः संयुक्तः।

भावनामार्गेऽपि-
प्रहीणे प्राक्प्रकारेऽपि शेषैस्तदवलम्बिभिः॥

नवानां प्रकाराणां यो यः प्रकारः पूर्व प्रहीणस्तस्मिन्प्रहीणेऽपि शेषैस्तदवलम्बिभिः क्लेशैः संयुक्तो विज्ञातव्यः॥

अथ कस्मिन्वस्तुनि कत्यनुशया अनुशेरते ? अत्र चालम्बननियम एव तावद्‍दर्शयितव्यः। कतमो धर्मः कतमस्य विज्ञानस्यालम्बन[म्] ? तत एव [त]द्विस्पष्टं गम्यते-अमुष्मिन्वस्तुनि इयन्तोऽनुशया अनुशेरत इति। तदिदमभिधर्मगह्वरं प्रतार्य(य)ते-

[326] धर्माः षोडष(श) विज्ञेयाः प्रत्येकं त्रिभवात्मकाः।
पञ्चधा निर्मलाश्‍चैव विज्ञानानि तथैव च॥

धर्मास्तावत् कामरूपारूप्यधातुषु प्रत्येकं पञ्चप्रकारा दुःखादिदर्शनहेया अप्रहेयाश्च निर्मला इति षोडश भवन्ति। एवं विज्ञानानि द्रष्टव्यानि॥

तत्र तावदाभिधार्मिकोऽन्यैः पृष्टः-
[327] धात्वायतनसत्येषु प्रकारेषु च लक्षयेत्।
धर्मसंग्रहविज्ञानज्ञानानुशयचोदितः॥

धर्मसंग्रहविज्ञाने वा पृष्टो धात्वायतनस्कन्धेषु पाद(त)यित्वा लक्षयेत्। ज्ञानेषु पृष्टः सत्येषु पातयित्वा लक्षयेत्। अनुशयेषु पृष्टः प्रकारेषु पातयित्वा निर्दे(र्दि)शेत्। एवमसंमूढो व्याकरोतीति॥

तत्र तावत्। विज्ञानेषु षोडशधर्माश्चोद्यन्ते। कस्य विज्ञानस्य कतमे धर्मा गोचरा इति ? तदाविष्क्रियते-

[328] सदुःखहेतुदृग्घेयाः कामाप्ता भावनाक्षयाः।
स्वकत्रयैकरूपाप्तिविरजाश्‍चित्तगोचराः॥

कामावचराः खलु दुःखसमुदयदर्शनभावनाप्रहातव्या धर्माः प्रत्येकं पञ्चानां विज्ञानानां गोचरीभवन्ति। कतमेषां पञ्चानाम् ? स्वेषां त्रयाणां कामावचरस्य दुःखदर्शण(न)प्रहातव्यस्य विज्ञानस्यालम्बनम्। समुदयदर्शण(न)प्रहातव्यस्य सर्वत्रगसंप्रयुक्तस्य। भावनाप्रहातव्यस्य कुशलस्य। एकस्य च रूपाप्तस्य भावनाप्रहातव्यस्य कुशलस्यानास्रवस्य चेति। एवं समुदयदर्शण(न)भावनाप्रहातव्यावपि वक्तव्यौ॥

एत एव त्रयो धर्माः
[329] आत्मीयाधस्त्रयैकोर्ध्वनिर्मलानां तु रूपजाः।

रुपावचरो हि दुःखदर्श[न]प्रहातव्यो धर्मः अष्टानां विज्ञानानामालम्बनम्। स्वकत्रयस्याधरत्रयस्योर्ध्वैकस्यामलस्य च। स्वधातुकस्य त्रयस्य पूर्ववत्। अधरधातुकस्य तु कामावचरयोर्दुःखसमुदयदर्शण(न)प्रहातव्यविसभागधात्वालम्बनयोः। भावनाप्रहातव्यस्य च कुशलस्य ऊर्ध्वैकस्यारूप्यावचरस्य भावनाप्रहातव्यस्य कुशलस्यानास्रवस्य च। एवं समुदयदर्शनभावनाप्रहातव्यौ वाच्यौ।

आरूप्याप्तास्त्रिधात्वाप्तत्रिकनिर्मलगोचराः॥

आरूप्यावचरास्त एव त्रयो धर्माः, दशानां विज्ञानानामालम्बनम्। त्रैधातुकानां प्रत्येकं त्रयाणाम्, एषामेवानास्रवस्य च। इत्येवं त्ता(ता)वत् त्रैधातुकाः दुःखसमुदयदर्शण(न)हेयाभावनाहेयाश्च धर्मा उक्ताः॥

[330] सर्वे स्वाधिकविज्ञेयाः समनिर्याणदृक्‍क्षयाः।

सर्व एव त्रैधातुकाः निरोधमार्गदर्शनहेयाः स्वनैकायिकाधिकश्चि(चि)त्तगोचरा विज्ञातव्याः। कामावचरो हि निरोधदर्शण(न)प्रहातव्यो धर्मो दुःखदर्शनप्रहातव्यादिवत् पञ्चानां विज्ञानानामालम्बनम्। स्वनैकायिकस्य चानिरोधदर्शनप्रहातव्यस्येति षण्णाम्। एवं मार्गदर्शण(न)प्रहातव्योऽपि वेदितव्यः। रूपावचरौ निरोधमार्गदर्शण(न)प्रहातव्यौ पूर्ववदष्टाणां(नां) विज्ञानानां प्रत्येकमालम्बनं स्वनैकायिकस्य चाधिकस्येति नवानाम्। एवमारूप्यावचरौ पूर्ववद्‍दशानां स्वनैकायिकस्य चाधिकस्येत्येकादशानामालम्बनं भवतः। उक्ताः पञ्चदशधर्माः।

निष्क्लेशास्त्रिभवाप्तान्त्यत्रयनिर्मलगोचराः॥

त्रैधातुकानां पञ्चानां प्रकाराणां प्रत्येकं येऽन्त्यास्त्रयः प्रकारा णि(नि)रोधमार्गदर्शण(न)भावनाहेयाख्याः, तेषां नवानामनास्रवस्य चेति। एवमनास्रवा धर्मा दशानां विज्ञानानामालम्बनं भवन्ति॥

पुनरष्येष एवार्थपिण्डः श्‍लोकेनावद्योत्यते-
[331] कामाप्त(प्तं) पञ्चविषयो रूपाप्तं त्वष्टगोचरः।
आरुप्याप्तं दशानां तु दशानामेव चामलम्॥

दुःखसमुदयदर्शण(न)भावनाहेयानुशयसंप्रयुक्तं विज्ञानं त्रैधातुकमनास्रवं च पञ्चाष्टदशदशविज्ञानगोचरम्। एवमेषां षोडशानां धर्माणामेतानि षोडशचित्तानि त्रैधातुकानि पञ्चप्रकारान्य(ण्य)नास्रवं च व्यवस्थाप्यानुशयकार्यं योजयितव्यम्।

तत्र तावत्कामावचरदुःखदर्शनप्रहातव्या धर्मा दशानुशयाः, तत्संप्रयुक्ताश्‍च चित्तचैतसिका धर्माः सलक्षणानुलक्षणः(णाः) अप्राप्तिप्राप्तिप्राप्तयः। एते धर्मा विषयः पञ्चानां विज्ञानानाम्, दुःखदर्शनप्रहातव्यस्य सर्वस्य विज्ञानस्य, समुदयदर्शण(न)हेयस्य सर्वत्रगसंप्रयुक्तस्य, भावनाहेयस्य कुशलस्याक्लिष्टस्य, द्विविधस्य कुशलसास्रवस्याव्याकृतस्य च, रूपावचरस्याक्लिष्टस्य कुशलसास्रवस्य, अक्लिष्टस्याव्याकृतस्य च कुशलस्योष्मगतादिविमोक्षाप्रहा(मा)णादिसंप्रयुक्तस्य। अव्याकृतस्य तु विपाकजस्य मनोभौमस्य सुखसौमनस्योपेक्षासंप्रयुक्तस्यानास्रवस्य च दुःखधर्मज्ञानसमुदयधर्मज्ञानतत्क्षान्तिसंप्रयुक्तस्य विज्ञानस्य।

तत्रानास्रवे विज्ञाने न केचिदनुशया अनुशेरते। सास्रवे तु तत्र तावत्-
[332] कामाप्तमूर्ध्वधर्मार्थे विज्ञाने स्वभुवस्त्रयः।
रूपाप्ता भावनाहेयाः सर्वगाश्‍चानुशेरते॥

कामाप्तदुःखदर्शण(न)प्रहातव्ये विज्ञाने कामावचरा दुःखसमुदयभावनाहेयाः सर्वेऽनुशेरते। रूपावचरे त्वक्लिष्टे कामावचरधर्म गोचरा एव रूपावचराः सर्वत्रगाः, भावनाहेयाश्‍चानुशेरते॥

[333] चत्वारः परिवृत्ते स्वे रूपाप्ताः खल्वपि त्रयः।
आरूप्यावचराः सार्धं सर्वगैर्भावनाक्षयाः॥

परिवृत्ते तु खल्वालम्बनालम्बने विज्ञान इत्यर्थः। पूर्वकाः कामावचररूपावचरा यथोक्ताः। [केना]धिकीभवन्ति ? कामावचरस्तावच(च्च)तुर्थो निकायो मार्गदर्शनप्रहातव्यः। कथं कृत्वा ? यत्तद्‍दुःखसमुदयज्ञानं तत्क्षान्तिसंप्रयुक्तं विज्ञानं कामावचरदुःखदर्शण(न)हेयधर्मालम्बनम्। तत्खल्वालम्बनं मार्गदर्शण(न)हेयमिथ्यादृष्टिविचिकित्साऽविद्यासंप्रयुक्तस्य विज्ञानस्य। तस्मिन्विज्ञाने ते[ऽ]नास्रवालम्बनाः संप्रयोगतोऽनुशेरते। सास्रवालम्बनाः आलम्बनतः। एवं कामावचराश्चत्वारो निकाया भवन्ति।

रूपावचरे विज्ञाने सर्वत्रगसंप्रयुक्ते त्वसर्वत्रगालम्बते (?)। एवं रूपावचरास्त्रि(स्त्र)यो निकाया भवन्ति। तस्य तु चतुर्थध्यानभौमस्याक्लिष्टस्य विज्ञानस्य कामधात्वालम्बनस्योष्मगतविमोक्षाप्रमाना(णा) शुभादिसंप्रयुक्तस्योपेक्षोपविचारसंयुक्तस्य विज्ञानस्यालम्बनम्। तत्पुनराकाशानन्त्यायतनसामन्तकेन कुशलेनालम्ब्यते। अतस्तत्रारूप्याः सर्वत्रगा भावनाहेयाश्चानुशेरते। उक्तं दुःखदर्शनप्रहातव्यम्।

[334] तद्वदेव द्वितीयेऽपि पञ्चमेऽपि तथैव च।

एवं समुदयदर्शनभावनाप्रहातव्ययोरपि विज्ञानयोर्थथोक्तयोर्द्रष्टव्यम्। अयं तु विशेषः। दुःखे दुःखदर्शण(न)हेयाः सर्वे, समुदयसर्वत्रगाश्‍च। समुदये तु समुदयदर्शनहेयाः सर्वे, दुःखदर्शनहेयाश्‍च सर्वत्रगाः। अन्यत्सर्वं समानम्।

सास्रवालम्बनाः स्वे च तृतीयेऽप्यनुशेरते॥

निरोधदर्शनप्रहातव्यं तृतीयं विज्ञानम्। तत्राप्येते च त्रयो निरोधदर्शनहेयाश्‍च सास्रवालम्बनाः॥

[335] परिवृत्ते तु कामाप्ताः संस्कृतार्थावलम्बिनः।

परिवृत्ते तु विज्ञाने कामावचराश्‍चत्वारो णि(नि)कायाः, निरोधदर्शण(न)हेयालम्बनाश्‍च सास्रवालम्बनाः। ये ह्यणा(ना)स्रवालम्बनास्ते निर्वाना(णा)लम्बने विज्ञानेऽनुशेरते, न विज्ञानालम्बने।

शेषं पूर्ववदाख्येयम्

पूर्वे चत्वारो णि(नि)कायाः, दुःखसमुदयमार्गभावनाहेयाश्‍चानुशेरत इत्यर्थः।

चतुर्थेऽपि तृतीयवत्॥

चतुर्थेऽपि खलु मार्गदर्शनहेये विज्ञाने कामावचरास्त्रयो मार्गदर्शण(न)हेयाश्‍च सास्रवालम्बना रूपावचराः सवत्रगा भावनाहेयाश्‍च॥

[336] परिवृत्ते तु कामाप्ताश्‍चत्वारोऽन्यत्र पूर्ववत्।

परिवृत्ते तु खलु विज्ञाने कामावचराश्‍चत्वारो णि(नि)रोधदर्शण(न)हेयं मुक्त्वा। रूपावचरास्त्रयो दुःखसमुदयदर्शनभावनाहेयाः। आरूप्याः सर्वत्रगाः भावनाहेयाश्‍च। समाप्तं कामावचरं विज्ञानम्॥

रूपाप्ते प्रथमेऽधस्तात् त्रयः स्वे खल्वपि त्रयः॥

[337] आरूप्याः सर्वगाः सार्घं भावनापथसंक्षयै[:]

रूपावचरे प्रथमे खलु विज्ञाने कामावचरास्त्रयो दुःखसमुदयविसभागधात्वालम्बनाः संप्रयोगतः। असर्वत्रगास्त्वालम्बनतो भावनाहेयाश्‍च स्वे च त्रयः। एत एवारूप्याः सर्वत्रगा भावनाहेयाश्‍च।

परिवृत्ते त्रयोऽधस्तात्

दुःखसमुदयदर्शण(न)भावनाहेयाः।

चत्वारश्‍च स्वधातुतः॥

मार्गदर्शण(न)हेयाश्‍च दुःखसमुदयान्वयज्ञानक्षान्तिसंप्रयुक्ते विज्ञाने॥

[338] आरूप्याप्ताश्‍च चत्वारो णि(नि)काया अनुशेरते।

दुःखसमुदययोः मार्गदर्शण(न)मिथ्यादि(दृ)ष्ट्यादिसंप्रयुक्तचित्तालम्बनत्वात्।

तद्वदेव द्वितीयेऽपि पञ्चमेऽपि तथैव च॥

द्वितीयेऽपि खलु कामावचररूपावचरास्त्रयो दुःखसमुदयभावनाहेयाः। आरूप्याः सर्वगा भावनाहेयाश्‍च॥

[339] सास्रवालम्बनाः स्वे च तृतीयेऽप्यनु[शेर]ते।

यथा निर्दिष्ट इति।

परिवृत्ते तु रूपाप्ताः संस्कृतार्थावलम्बिनः॥

निरोधदर्शनहेया असंस्कृतालम्बनान् मुक्त्वा॥

[340] अन्यत्तु पूर्ववज्ज्ञेयं चतुर्थेऽपि तृतीयवत्।

कामावचराः त्रयो दुःखसमुदयभावनाहेयाख्याः, आरूप्यावचराश्‍चत्वारः, निरोधाख्यं मुक्त्वा। ‘चतुर्थेऽपि’ मार्गदर्शण(न)हेये ‘तृतीयवत्’ द्रष्टव्यम्। यथा तृतीये सास्रवालम्बनाः स्वनैकायिका अधिकीभवन्ति, तथा चतुर्थेऽपि स्वे सास्रवालम्बना अधिकीभवन्ति।

चत्वारो दुःखसमुदयमार्गदर्शनभावनाहेयाख्याः रूपावचराः, कामावचरास्रयः, आरूप्यावचराश्‍चत्वारो निरोधदर्शनहेय(यं) मुक्त्वा। मार्गाच्च त्रयः। समाप्तं रूपावचरम्।

तृतीयवत्परावृत्ते आरूप्याद्ये निबोधये[त्]॥

[341] स्वे त्रयः कामधात्वाप्ता रूपाप्ताश्‍च त्रयस्त्रयः।

स्वे त्रयो दुःखसमुदयदर्शण(न)भावनाहेयाः कामाप्ताः एत एव। रूपाप्ताश्‍च एत एव त्रयः।

रूपाप्तवत्परावृत्ते द्वितीये पञ्चमे तथा॥

परावृत्तेऽपि त्रयो णि(नि)रोधमार्गदर्शनहेयौ हित्वा। रूप्यारूप्याश्‍चत्वारो निरोधदर्शनहेयं मुक्त्वा॥

यथा प्रथमे द्वितीये पञ्चमे च,

[342] तृतीये खल्वपि स्वे च सास्रवार्थावलम्बिनः।

तृतीयेऽपि खल्वेत एव ‘स्वे च सास्रवार्थावलम्बिनः’।

परावृत्ते स्वधात्वाप्ताः संस्कृतार्थावलम्बिनः॥

परावृत्ते खलु सर्वेऽऽरूप्यावचरा असंस्कृतालम्बनान्मुक्त्वा॥

[343] अन्यत्त्वाद्यवदाख्येयं चतुर्थेऽपि तृतीयवत्।

कामावचररूपावचराः पूर्ववदाख्यातव्याः। ‘चतुर्थेऽपि तृतीयवत्।’ स्वे सास्रवालम्बनास्त्वत्राधिकी भवन्ति।

आद्यवत्तु परावृत्ते विज्ञाने निर्दिशेद् बुधः॥

परावृत्ते खलु विज्ञाने आद्यवत्कामावचरास्त्रयः, निरोधमार्गदृग्घेयौ हित्वा। रूपावचराश्‍चत्वारः, निरोधदर्शनहेयं मुक्त्वा। अप्रहातव्यधर्मालम्बने विज्ञाने निरोधमार्गदर्शनहेयानास्रवालम्बनसंप्रयुक्तम्(क्ते)। तत्र त्रैधातुकास्त्रयोऽनुशेरते। आलम्बनालम्बनं तु दुःखसमुदयमार्गदर्शनभावनाहेयेत निकायेनालम्बते। निरोधदर्शनहेयेण(न) च सास्रवालम्बनेनालम्ब्यते। तत्र संस्कृतालम्बनाश्‍चत्वारो निकायाः, निरोधालम्बनं मुक्त्वा। ते हि निर्वाणालम्बने विज्ञाने नाऽनुशेरते, विज्ञानालम्बने तु॥

समाप्तानि षोडशचित्तानि। तेषु चानुशयनिदशः कृतः। अधुना चक्षुरिन्द्रियादीनां वक्तव्यः। सोऽयमुपदिश्यते-

[344] भावनापथहातव्यो निकायः सर्वगैः सह।
अनुशेते द्विधात्वाप्तो व्यारूप्याश्‍चक्षुरिन्द्रिये॥

चक्षुरिन्द्रिये खलु भावनाहेयाः सर्वत्रगाश्‍चानुशयाः कामावचररूपावचरा अनुशेरते। एवं यावत्कायेन्द्रिये चक्षुर्धातौ रूपधातौ चक्षुर्विज्ञानधातौ यावद्विस्तरेण कायविज्ञानधातौ यावद्रूपस्कन्धे वाच्यम्॥

अधुना चक्षुरिन्द्रियालम्बने विज्ञाने वक्तव्याः-

[345] निकायाः कामरूपाप्ताश्‍चक्षुरिन्द्रियगोचरे।
दुःखहेतुदृगभ्यासप्रहातव्यास्त्रयस्त्रयः॥

[346] आरूप्या भावनाहेयाः सर्वगाश्‍चानुशेरते।

चक्षुरिन्द्रियालम्बने खलु विज्ञाने कामावचररूपावचराः दुःखसमुदयदर्शनभावनाप्रहातव्याः, आरूप्यावचराश्‍च भावनाप्रहातव्याः, सर्वत्रगाश्‍चानुशेरते।

परिवृत्ते तु चत्वारः समदृक्‍क्षयवर्जिताः॥

चक्षुरिन्द्रियालम्बनालम्बने तु विज्ञाने चत्वारो णि(नि)काया अनुशेरते। निरोधदर्शनहेयं हित्वा। तद्धि चक्षुरिन्द्रियालम्बनं विज्ञानं सर्वत्र संप्रयुक्तम्। तदप्यालम्बनं सर्वत्रगाणाम्। एवं त्रयः परावृत्ते।

द्विष्परावृत्ते तु चक्षुरिन्द्रियं खल्वालम्बनं दुःखसमुदयधर्मज्ञानक्षान्तिसंप्रयुक्तस्य चित्तस्य। तत्पुनरालम्बनं कामावचरमार्गदर्शनप्रहातव्यम्। मिथ्यादृष्टिविचिकित्साऽविद्या[त]त्संप्रयुक्तानां विज्ञानानाम्। तेषु विज्ञानेष्वनास्रवालम्बनाः संप्रयोगतः, सास्रवालम्बनास्त्वालम्बनतोऽनुशेरते। एवं चतुर्थो निकायो वर्धते मार्गदर्शनहेयः। तदेवं सति कामावचराश्‍चत्वारः, आरूप्यावचराश्‍चत्वारः, सर्वेऽभिसमस्य त्रैधातुकाश्‍चत्वारो भवन्ति।

आकाशानन्त्यायतनस्य खलु कुशलस्य चक्षुरिन्द्रियमालम्बनम्। तत्रारूप्याः सर्वत्रगा भावनाहेयाश्‍चानुशेरते। तत्रापि सर्वत्रगसंप्रयुक्ते चेतसि असर्वत्रगा वर्धन्त इति त्रयो भवन्ति। दुःखसमुदयालम्बनज्ञानक्षान्तिसंप्रयुक्तस्य च विज्ञानस्य चक्षुरिन्द्रियमालम्बनम्। तदारुप्यमार्गदर्शनप्रहातव्यस्य मिथ्यादष्ट्यादिसंप्रयुक्‍त्तस्य विज्ञानस्यालम्बनम्। तत्र तेऽनास्रवालम्बनाः संप्रयोगतः, सास्रवालम्बनाः आलम्बनतः। एवमारूप्यावचरा अपि चत्वारो निकाया भवन्तीति॥

[347] दुःखेन्द्रिये तु कामाप्तः स्वैरेव सह सर्वगैः।
तद्‍गोचरे तु विज्ञाने निकाया अनुशेरते॥

[348] कामापन्नास्त्रयो रूपा[:] सर्वगाभ्याससंक्षयाः।
परवृत्ते तु चत्वारः कामाप्ता अनुशेरते॥

[349] त्रयो रूपभवादन्त्याद्भावनाहेयसर्वगाः।
सकला द्विष्परावृत्तेश्‍चत्वारश्‍चानुशेरते॥

[350] सुखेन्द्रिये तदालम्बे चित्ते तद्‍गोचरेऽपि च।
कामाद्याप्ताः यथायोगं सर्वगाश्‍चानुशेरते॥

तत्र तावत्। सुखेन्द्रियं सप्तविधम्। कामावचरं भावनाप्रहातव्यम्, रूपावचरं पञ्चप्रकारम्, अनास्रवं चेति। तदेतत्समासतो द्वादशविधस्य विज्ञानस्यालम्बनं भवति। कामावचरस्य चतुष्प्रकारस्य अन्यत्र निरोधदर्शनहेयात्, रूपावचरस्य पञ्चप्रकारस्य, आरूप्यावचरस्य द्विप्रकारस्य मार्गदर्शनभावनाहेयस्य [अ]नास्रवस्य च। इदं द्वादशविधं सुखेन्द्रियालम्बनं विज्ञानम्। तत्र यथायोगं कामावचराश्चत्वारो निकायाः रूपावचराः संस्कृतावलम्बनाः, आरूप्यावचरौ द्वौ निकायौ, सर्वत्रगाश्‍चानुशया अनुशेरत इति।

तत्पुनः सुखेन्द्रियालम्बनं विज्ञानं यस्य चित्तस्यालम्बनं तच्चित्तं सुखेन्द्रिया लम्बनालम्बनम्। तस्मिन् कत्यनुशयाऽनुशेरते ? तत्खलु सुखेन्द्रियालम्बनं द्वादशविधं चित्तं कतमस्य विज्ञानस्यालम्बनम् ? तस्यैव च द्वादशविधस्यारूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदय[दर्शन] प्रहातव्यस्य। इदं चतुर्दशविधं सुखेन्द्रियालम्बनं विज्ञानम्। तत्रारूप्यावचरौ दुःखसमुदयदर्शनहेयौ वर्धयित्वा कामावचरा आरूप्यावचराश्‍च चत्वारो निकायाः, रूपावचराश्च संस्कृतालम्बना अनुशयाऽनुशेरत इति ‘यथायोग’-वचनात्, ‘अपि’शब्दाच्च द्रष्टव्यम्॥

[351] त्रिधातुसंगृहीतास्तु सकला मन‍इन्द्रिये।
तदालम्बिनि विज्ञाने सर्वसंस्कृतगोचराः॥

मन‍इन्द्रिये खलु सर्वत्रैधातुकाः येऽपि ते निर्वाणालम्बनास्तेऽपि संप्रयोगतः। मन‍इन्द्रियालम्बनं खलु विज्ञानं संस्कृतालम्बनम्। अतस्तत्रा(त्र) संस्कृतालम्बनास्तेऽनुशया अनुशेरते।

[352] संस्कृतालम्बना एव परिवृत्तेऽनुशेरते।
विशेषो द्विःपरावृत्तौ विद्यतेऽत्र न कश्‍चन॥

पूर्वनीत्य(त्या) वाऽत्र परिवृत्ते[ऽनुश]यकार्यं बोद्धव्यम्। द्विष्परावृत्तेऽप्यत्र न कश्‍चिद्विशेष इति द्रष्टव्यम्॥

अधुना षोडशानां चित्तानां कस्य चित्तस्य समनन्तरं कति चित्तान्युत्पद्यन्त इत्युपदिश्यन्ते(ते)।

[353] दुःखं दर्शनहेयादेश्‍चित्ताच्चित्तानि कामिनः।
भवत्यनन्तरं षड् वा तस्योर्द्‍ध्वं पञ्च पञ्च वा॥

कामधातूपपन्नस्य दुःखदर्शनहेयादेश्चित्तादनन्तरं स्वभूमिकानि पञ्च, षष्ठं च भावनाप्रहातव्यं प्रथमध्यानसामन्तकात्। स यदा कामधातौ(तो)श्‍च्युत्वा रूपधातावुपपद्यते तस्य तत्रत्यानि पञ्च भवन्ति। एवमारूप्येषूपपद्यमानस्यारूप्यानि(णि) पञ्च भवन्तीति॥

[354] रूपधातूपपन्नस्य चित्तानि तु विनिर्दिशेत्।
एकं वा पञ्च वा षड् वा सप्त वा यदि वा दश॥

तत्र ‘एकम्’ वीतरागस्योपरिसामन्तकाद्भावनामयम्। ‘षड्’ वीतरागस्य कामावचरं भावनाप्रहातव्यं निर्माणचित्तं प्रथमध्यानफलम्। ‘पञ्च’ स्वभौमानि। ‘सप्त वा’ उपरिसामन्तकाद्भावनाप्रहातव्यं कुशलं सास्रवम्। ‘दश वा’ रूपेभ्यः प्रच्युतस्य कामरूपेषूपपद्यमानस्येति॥

[355] आरूप्यधातुजातस्य चित्तानीमानि लक्षयेत्।
स्वधातुकानि पञ्चैव च्युतिकाले दशान्यतः॥

रूपकामेषूपपद्यमानस्य तत्रत्यानि दश भवन्ति। स्वानि पञ्च पञ्चान्यतः। गतमेतत्॥

इदानीं वक्तव्यम्। अथ यदिदं सानुशयं चित्तमुक्तं तत्कथम् ? इत्यत्राभिधीयते-

[356] साचिव्यादनुशायित्वाच्चित्तं सानुशयं मतम्।
द्विधा वा क्लिष्टमक्लिष्टमेकधैवापदिश्यते॥

द्वाभ्यां खलु प्रकाराभ्यां चित्तं सानुशयमुच्यते। साचिव्यभावेनानुशायित्वेन च। तत्र क्लिष्टं द्वाभ्यां कारणाभ्यां सानुशयं यदप्रहीन(ण)क्लेशम्। अक्लिष्टं पुनरेकधा साचिव्यभावनैवेति। तत्र क्लिष्टं चित्तमनुशयैः संप्रयुक्तैरप्रहीणैः सानुशयं तदालम्बनैश्‍चाप्रहीणैः।

कथमिह योऽनुशयो येन चित्तेन संप्रयुक्तः स खल्वप्रहीन(ण)स्तस्मिंश्‍चित्तेऽनुशेते ? यावद्धि तदनुशयानुप्राप्तिविशेषेण सा चित्तसन्ततिरवष्टब्धा चाधिष्ठिता च भवति, निष्यन्दफलस्य चानागतस्य तस्यां चित्तसन्ततौ सभागहेतुरुत्पत्तये कृतास्पदो भवति, तावदसावनुशयस्तश्मिंश्‍चेतस्यनुशेत इत्युच्यते। तस्य पुनः क्लेशाशीविषस्य प्राप्तिद्रंष्ट्रावभङ्गे कृते विद्यमानोऽपि सन् क्लेशस्तस्मिंश्‍चेतस्यनर्थानुत्पादनात् सन्नपि संप्रयोगतः नानुशेत इत्युच्यते। नित्यं च तदालम्बनतो कारित्राकरणात्, तस्मिन्नालम्बने मार्गविदूषणाकारदूषिते आलम्बनतोऽपि नानुशेत इत्युच्यते। न तु कदाचिन्मुञ्जेशीकावदुद्‍धृत्य शक्यते तस्मात् क्लेशः चित्तात्पृथक्कर्तुं निर्नाशयितुं वा स्वालम्बनाद्वा विमुखीकर्तुम्। उक्तं हि- “यो धर्मो यस्य धर्मस्यालम्बनं कदाचित्स धर्मस्तस्य धर्मस्य नालम्बनम् ? आह-न कदाचित्” इति। अतस्तच्चित्तं सहायभावेन सानुशयं सहायभावस्यापरित्यागात्। न त्वनुशयभावेन सानुशयं तत्रानर्थानुत्पादनात्।

कतरत्पुनश्‍चित्तं सानुशयम् ? त्रैधातुकं प्रत्येकं पञ्चप्रकारम्। पुनः प्रत्येकं द्विधा भिद्यते। सर्वत्रगासर्वत्रगसास्रवा नास्रवालम्बना(न)क्लिष्टाक्लिष्टभेदैः।

तत्र दुःखदर्शनप्रहातव्यं सत्कायदृष्टिसंप्रयुक्तम्। तया च सत्कायदृष्ट्या तत्संप्रयुक्तया चाविद्यया सहायभावेन चानुशयाने च सानुशयम्। शेषैः स्वनिकायिकैः समुदयदर्शनप्रहातव्यैश्‍च सर्वत्रगैरनुशयभावेनैव। शेषर्नोभयथा। एवं सर्वैः दुःखदर्शनप्रहातव्यंः समुदयदर्शण(न)प्रहातव्यैश्‍च संप्रयुक्तं चित्तं यथायोगमभ्यूहितव्यम्।

निरोधदर्शण(न)प्रहातव्यं मिथ्यादृष्टिसंप्रयुक्तम्। तथैव तत्संप्रयुक्तया चाविद्ययोभयथा। शेषैः स्वानिकायिकसास्रवालम्बनैः सर्वत्रगैश्‍चानुशयभावेनैव। स्वानिकायिकानास्रवालम्बनैस्तदन्यैश्‍च नोभयथा। एवमन्यैर्णि(र्नि)रोधदर्शनप्रहातव्यैः मार्गदर्शनप्रहातव्यैश्‍च यथासंभवं वक्तव्यम्।

भावनाप्रहातव्यं रागसंप्रयुक्तम्। तेनैव तत्संप्रयुक्तया चाविद्ययोभयथा। शेषैर्भावनाप्रहातव्यैः सर्वत्रगैश्‍चानुशयैर्भावनैर्वा। अन्यैर्नोभयथा। एवमन्यद्भावनाहेयसंप्रयुक्तमपि यथायोगं वाच्यम्।

अक्लिष्टन्तु स्वानिकायिकैः सर्वत्रगैश्‍चानुशया(य)भावेनैव सानुशयमिति॥

कः पुनरेषामनुष(श)यानां प्रवृत्त्यनुक्रमः ? तदुच्यते। मोहस्तावत् सर्वक्लेशाग्रणी, तस्मात्क्लेशपुरोयायिनः।

[357] मोहात्सत्कायदृक्तस्या अन्तग्राहेक्षणं ततः।
काङ्क्षामिथ्येक्षणं तस्याः शीलामर्शस्ततो दृशः॥

[358] रागः सु(स्व)दृशि मानश्‍व द्वेषोऽन्यत्र प्रतायते।
ज्ञेयः प्रवृत्तिबाहुल्यादेवमेषामनुक्रमः॥

इह तावद् बालस्य पञ्चोपादानस्कन्धात्मके दुःखे संमुग्धस्य फलभूता[न्] पञ्चोपादानस्कन्धानजानतः सत्कायदृष्टिरूपजायते। सत्त्वजीवपुद्‍गलात्मग्राहयोगेन। ततोऽस्य तच्छाश्वतोच्छेदान्तग्राहलक्षणाऽन्तग्राहदृष्टिः। तस्यैवं भवति-यदि तावदयं नित्योऽविकारी पुरुषः किं धर्मेण यः सुखेन नानुगृह्यते, दुःखेन वा नोत्पीड्यते। अथायमुच्छेदधर्माऽनित्यस्तथापि किं धर्मि(र्मे)णेति विचारयतः कांक्‍षो(काङ्क्षो)त्पद्यते। कांक्‍षा(काङ्क्षा)प्रवृद्ध्या मिथ्यादर्शण(न)मावहति। तदकारणे कारणाभिनिवेशान्निहीनं चाग्रतो ग्रहणात् शीलव्रतदृष्टिपरामर्शावाकर्षति। ततोऽस्य ‘रागः स्वदृशि मानश्‍च द्वेषोऽन्यत्र प्रतायते।’ तस्य खलु मिथ्यादर्शनभूतग्रहावेध शादश्रेयसि श्रेयोबुद्ध्या प्रवृत्तस्यानग्र(ग्रे) चाग्र्यबुद्ध्यभिनिविष्टस्य स्वपक्षे रागो भवति परपक्षे च द्वेषः प्रवर्तते। इत्यतः त्य(तत्) ‘ज्ञेयः प्रवृत्तिबाहुल्यादेवमेषामनुक्रमः’॥

वयं तु पश्यामः
[359] सदसन्मित्रयोगात्तु तद्‍वृत्त्यनियमो मतः।

कल्याणमित्रपापमित्रसंसर्गाद्धि प्रायेण श्रद्धादीनां गुणानामेषां च क्लेशानां समु[दा]चारप्रवृत्तिः आचार्याणामभिमतेति। स पुनरेषः-

क्लेश उत्पद्यते कश्‍चित्संपूर्णैः कारणैस्त्रिभिः॥

हेतुप्रयोगविषयबलैः कश्‍चित् त्रिभिरुत्पद्यते। कश्‍चिद् द्वाभ्यामिति। तत्र हेतुबलं सभागसर्वत्रगादिहेतुभावनाऽगतोत्पत्तये वर्तमानप्राप्त्युत्सर्गे मेघिकादिनिदर्शणा(ना)त्। प्रयोगबलमप्ययोणि(नि)शो मनस्कारादिसंनिधानम्। प्रत्ययबलमपरिज्ञातविषयाभासगमनं निदर्शण(न)मर्हत्परिहाणिसूत्रमिति॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ
पञ्चमस्याध्यायस्य द्वितीयः पादः॥

पञ्चमाध्याये

तृतीयपादः।

अथ य इमे भगवता त्रय आस्रवा आख्याताः- “कामास्रवो भवास्रवोऽविद्यास्रवश्‍च।” एषां कः स्वभावः ? तदिदमारभ्यते-

[360] व्यविद्याः सकलाः क्लेशाः कामे कामास्रवो मतः।
स्त्यानौद्धत्ये च हित्वोर्ध्वं समानत्वाद्‍भवास्त्रवः॥

सर्वे ह्ये[ते स]माना निवृताव्याकृतत्वादन्तर्मुखप्रवृत्तत्वाच्च।ः
[361] अविद्याख्यस्तु मूलत्वादविद्या सार्वधातुकी।

अविद्या खलु संसारमूलम्। उक्तं हि भगवता-“अविद्याप्रत्ययाः संस्काराः।” तथा-“याः काश्‍चन दुर्गतयोऽस्मिल्लोके परत्र च।

सर्वास्ता अविद्यामूलिकाः ” इति।

तत्र तावत्कामास्रवः एकचत्वारिंशद् द्रव्यानि(णि)। रागप्रतिघमानाः प्रत्येकं पञ्चप्रकारत्वात् पञ्चदश भवन्ति। विचिकित्साः चतस्रः। दृष्टयो द्वादश। दश पर्यवस्थानानि। इत्येतान्येकचत्वारिंशद् द्रव्यानि(ण) कामास्रव इत्याख्यायते।

भवास्रवः चतुष्पञ्चाशद् द्रव्यानि(णि)। रागमानौ विंशतिः। अष्टौ विचिकित्साः। चतुर्विंशति दृष्टयोऽविद्या(द्यां) हित्वा। द्वे च पर्यवस्थाने स्त्यानौद्धत्याख्ये, परतन्त्रत्वात्।

अविद्यास्रवः पञ्चदशद्रव्यानि। तानि पिण्डेनाष्टोत्तरं द्रव्यशतमास्रवाणां स्वभावः।

तथौघयोगा दृग्वर्ज्जं तत्पृथक्त्वन्तु पाटवात्॥

कामास्रव एव खलु कामौघः कामयोगश्‍च। दृष्टी वर्जयित्वा। दृष्टयस्तु पटुत्वात्पृथगोघेषु योगेषु च व्यवस्थाप्यन्ते। हरणश्‍लेषणकार्यप्रधानभूता हि दृष्टयः। यथा हि सर्वे क्लेशाः दृष्टिवर्ज्याः, अपहरन्ति श्‍लेषयन्ति च तथैवैकाकिन्योऽपि दृष्टय इति। तदेवं सति कामौघ एकान्नत्रिंशत् द्रव्याणि। रागप्रतिघमानाः पञ्चदश। विचिकित्साश्‍चतस्रः। दश पर्यवस्थानानीति।

भवौघोऽष्टाविंशतिर्द्रव्याणि। रागमाना विंशतिः। विचिकित्सा अष्टौ। दृष्ट्योघः षट्‍त्रिंशद् द्रव्याणि। अविद्यौघः पञ्चदशद्रव्याणि। एवमेव योगा द्रष्टव्याः॥

[362] साऽविद्या द्वे उपादाने यथाक्तो(क्तौ) द्वे तु दृङ्मये।
चतस्रोऽप्येकमन्त्यैकं कुमार्गादिसमाश्रयात्॥

[363] शेषास्त्रैधातुकास्त्वन्त्ये सात्मभावप्रवृत्तितः।

तत्र कामयोग एव सहाऽविद्यया कामोपादानं चतुस्त्रिंशद् द्रव्याणि। रागप्रतिघमानाविद्या विंशतिः। विचिकित्साश्‍चतस्रः। दशपर्यवस्थानानि।

भवयोग एव सहाविद्यया आत्मवादोपादानम्, अष्टात्रिंशद् द्रव्याणि। रागमानाविद्यास्त्रिंशत्। विचिकित्सा अष्टौ।

दृष्टियोगाच्छीलव्रतं निष्कृष्य दृष्ट्युपादानं त्रिशद् द्रव्याणि। शीलव्रतोपादानं षड्‍द्रव्याणि। कस्मात्पुनरेते(त)द् द्रि(दृ)ष्टिभ्यो निष्कृष्टम् ? ‘कुमार्गादिसमाश्रयात्।’ मार्गप्रतिद्वन्द्वभूतं ह्येतदुभयपक्षविप्रलभ्भकं च। गृहिनो(णो)ऽपि ह्यनेन विप्रलब्धाः अनशनादिभिः स्वर्गमार्गसंज्ञया। प्रव्रजिता अपीष्टविषयविवर्जने शुद्धिप्रत्यागमनादिति।

‘शेषास्त्रैधातुकाः।’ दृष्टयो दृष्ट्युपादानम्। त्रैधातुकाश्‍च शीलव्रतपरामर्शाः परामर्शोपादानम्। कामास्रवस्तु एकधातुकः। भवास्रवस्तु द्विधातुकः। तस्मादेव तत् ‘अन्त्यम्’ द्वयं सार्वधातुकमेव। ‘आत्मभावप्रवृत्तितः।’ आत्मभावालम्बनप्रवृत्तं खल्वेतदिति।

ते खल्वेते अनुशयाः

संयोजनादिभिः शब्दैर्दर्शिताः पञ्चधा पुनः॥

संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानभेदेन पञ्चधा भित्त्वोक्ताः।

[364] नव संयोजनान्यस्मिन्नीर्ष्यामात्सर्यमेव च।
द्रव्यामर्षणसामान्याद् दृशः संयोजनद्वयम्॥

[365] शेषान्य(ण्य)नुशयाः पञ्च

नव खलु सयोजनानि सूत्र उक्तानि-अनुनयप्रतिघमानाविद्यादृष्टिपरामर्शविचिकित्सेर्ष्यामात्सर्यसंयोजनानि।

तत्रानुनयसंयोजनं त्रैधातुको रागः। एवमन्यानि यथायोगं वक्तव्यानि। दृष्टिसंयोजनं तिस्रो दृष्टयः परामर्शसंयोजनं द्वे दृष्टी।

किं पुनः कारणं संयोजनेषु तिस्रो दृष्टयो दृष्टिसंयोजनं पृथगुक्तम् ? द्वे पुनर्दृष्टी परामर्शसंयोजनं पृथगिति ? तदुच्यते-‘द्रव्यामर्षणसामान्याद् दृशः संयोजनद्वयम्।’ अष्टादशद्रव्यानि(णि) खलु तिस्रो दृष्टयः। अष्टादशैव द्वे परामर्शदृष्टी। द्वयोश्‍च नामसामान्यम्। तस्मादेतद् द्वयमेकं संयोजनमुक्तमिति।

पुनरप्यन्यत्र भगवान्संयोजनम्

पञ्चधा पञ्चधा पुनः।
जगादावरभागीयमूर्ध्वभागीयमेव च॥

[366] आद्यन्त्ये द्वे दृशौ कांक्‍षा(काङ्क्षा)कामच्छन्दो द्विरेव यः।

तत्र पञ्च संयोजनान्यवरभागीयानि। तद्यथा-सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति। एते हि कामधातुहितत्वादवरभागीया इत्युच्यते(न्ते)। अवरा हि कामधातूरेतानि च तदनुगुणानि। यस्मात्

द्वाभ्यां कामानतिक्रान्तिः पुनराण(न)यनं त्रिभिः॥

कामच्छन्दव्यापादाभ्यां कामधातुं नातिक्रामति। सत्कायदृष्ट्यादिभिस्त्रिभिरतिक्रान्तोऽपि पुनरावर्तते दौवारिकानुचरसाधर्म्यात्।

अन्ये पुनराहुः-त्रिभिः सत्त्वावरतां नातिक्रामति पृथग्जनत्वम्, द्वाभ्यां धात्ववरतां कामधातुमिति।

यदा खलु स्त्रोतआपन्नस्य पर्यादाय त्रिसंयोजनप्रहाणे षट् क्लेशाः प्रहीणाः किमर्थं तिस्रो दृष्टीरपहाय त्रयाना(-त्रय)मेवाह सत्कायदृष्टी(ष्टिं) शीलव्रतपरामर्शं विचिकित्सां च ? तदुच्यते-

[367] द्व्येकदृग्घेयकार्योक्तेर्दृष्टिहेयमुखग्रहात्।
सर्वदृग्घेयभाक्त्वेऽपि त्रयमेतदुदाहृतम्॥

प्रवर्तकग्रहणे खलु प्रवर्त्यमपि गहीतं भवति प्रदीपालोकवत्। तत्र सत्कायदृष्ट्या तत्प्रवर्तिताऽन्तग्राहदृष्टिर्गृहीता। शीलव्रतपरामर्शेण दृष्टिपरामर्शः प्रवर्तितः। विचिकित्सया मिथ्यादृष्टिः प्रवर्तिता। अतो हेतुग्रहणात्कार्यग्रहणं वेदितव्यम्।

अथवा त्रिविधा क्लेशाः-एकप्रकाराः, द्विप्रकाराः, चतुष्प्रकाराश्‍च। तत्र सत्कायदृष्ट्या एकप्रकारा गृहीताः। शीलव्रतपरामर्शेन द्विप्रकाराः। विचिकित्सया चतुष्प्रकाराः गृहीता भवती(न्ती) ति॥

वयं ब्रूमः-
[368] सर्वानर्थनिदानत्वान्मार्गप्रत्यर्थिभावतः।
तथ्योहाविधुरत्वाच्च त्रिसंयोजनदेशना॥

सत्कायदृष्टिः खलु सर्वानर्थमलानां क्लेशस्य च भवत्रयस्य च मूलम्। अतस्तयोत्खातया सर्वानर्थवृक्षस्योत्सादनं भवति। मार्गस्य च सद्‍भूतस्य प्रत्यर्थिभूतः कुमार्गावलम्बी शीलव्रतपरामर्शः। तेन प्रहीणेन सन्मार्गेण मोक्षपुरप्रवेशो भवति। सम्यग्दृष्ट्यादिमार्गप्रतिपत्तिप्रतिबन्धभूता च विचिकित्सा। तया प्रहीन(ण)या सम्यग्दृष्टिसंकल्पपुरःसरो मार्गो निर्विबन्धः प्रवर्तते। इत्यष्टाशीत्यनुशयप्रहाणेऽपि सति त्रयाणामेव ग्रहणम्।

वैभाषाः पुनः पश्यन्ति-मोक्षान्तराय(याः)त्रयोद्‍भावनाः। यथा खलु त्रयोऽन्तराया मार्गगमने भवन्त्यगन्तुकामताऽन्यमार्गग्रहणं मार्गबहुत्वसंदेहाच्च मार्गगमनाप्रतिपत्तिः। एवं मोक्षगमने त्रयोऽन्तराया भवन्ति। सत्कायदृष्ट्या मोक्षादुत्रा(त्त्रा)सं गतस्यागन्तुकामता भवति। शीलव्रतपरामर्शेनान्यमार्गग्रहणात् मार्गविभ्रान्तिः। विचिकित्सा मार्गसंशये सति मार्गाप्रतिपत्ति[रित्ये]षां मोक्षगमनान्तरायाणां प्रहाणं स्त्रोतआपन्नस्य द्योतयद्‍भगवान्‍क्लेशत्रयस्यैव ग्रहणमकार्षीदिति॥

यथा च पञ्चविधमप(व)रभागीयं संयोजनमुक्तवांस्तथा पञ्चोर्ध्वभागीयाणि(नि)संयोजनान्याख्यातवां(वान्) सूत्रे।

[369] द्वौ रूपारूपजौ रागौ मानमोहोद्धवास्त्रयः।

पञ्च खलुर्ध्वभागीयाणि(नि) संयोजनानि। तद्यथा-रूपरागः, आरूप्यरागः, औद्धत्यम्, मानोऽविद्या च। एषामप्रहीणानां ऊर्ध्वधातुद्वयं नातिक्रामन्ति सत्त्वाः। समाप्तः संयोजनाधिकारः।

बन्धनानीदानीमुच्यन्ते। त्रीणि बन्धनानि। रागो बन्धनं द्वेषो मोहो बन्धनम्। एभिस्त्रैधातुकाः सत्त्वाः संसारचारके बद्धाः यथायोगम्। कस्मात्पुनरेतानि बन्धनानीत्युक्तानि ? तदुच्यते-

त्रिवेदनानुशायित्वाद् दृढत्वाद्‍बन्धनत्रयम्॥

त्रिवेदनावशात्खलु बन्धनत्रयमुक्तम्। तत्र सुखायां वेदनायां रागोऽनुशेरते। दुःखायां द्वेषः। अदुःखासुखायां मोहः। एते च त्रयो मूलक्लेशाः षड्‍विज्ञानभौमाः पञ्चप्रकाराः। तस्मादेते दृढत्वाद् बन्धनशब्देनोक्ताः॥

पुनरन्ये भगवता सूत्रे-
[370] द्विपक्षग्रन्थनाद् ग्रन्थाश्‍चत्वारः समुदाहृताः।
अभिध्याख्यास्तथा द्वेषः परामर्शद्वयं तथा॥

तत्र गृही अभिध्यया विषयेषु ग्रथितस्तद्व्याघातकर्तृषु विवादमारभमानो द्वेषेणानुबध्यते। प्रव्रजितः शीलव्रतपरामर्शग्रथितस्तदपवादश्रवणादिदमेव सत्यमिति सत्याभिनिवेशपरामर्शेन दृष्टिपरामर्शाख्येन बध्यते। इति चत्वारो भवन्ति॥

उक्ताः क्लेशाः।
[371] उपक्लेशास्तु विज्ञेयाः संरम्भाद्या यथोदिताः।
सर्वे वा चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः॥

ये तावत्खलु क्लेशा उपक्लेशा अपि ते चित्तोपक्लेशनात्। इह तु पर्यवस्थानक्लेशमलसंगृहीताः क्षुद्रकवस्तुकोद्दिष्टा वेदितव्याः। येऽपि चान्ये चैतसिकाः संस्कारस्कन्धसंगृहीताः तेऽप्युपक्लेशा इत्याख्यायन्ते॥

के पुनस्ते क्लेशमलाः कानि वा पर्यवस्थानानि ? तत्र तावत्-

[372] मूलक्लेशमलास्त्वन्ये षडुपक्लेशसंज्ञिताः॥

त इमे उच्यन्ते-
शाठ्योपनाहप्रदाशमायामदविहेठनाः॥

तत्र चित्तकौटिल्यं शाठ्‍यं चित्तस्यानृजुता वक्रीभावः। उपनाहः प्रतिघनिष्यन्दो वैरानुबन्धकृद्रन्ध्रावधानता। सन्तोष्यमानस्याप्यधर्मदृढग्राहिता प्रदाशः। पराभिसन्धानाय मिथ्योपदर्शनकारी परवञ्चनामायाः(या)। चित्तस्मयो मदः। सतुरूपकुलबलभोगयौवनारोग्यपरिजनसंपत्तिसंरागजः प्रमादास्पदं विविधेन्द्रियविभ्रमोत्पादजनकः। सत्त्वव्यापादो विहिंसा विहेठनेत्यर्थान्तरम्। उक्ताः षट् क्लेशमलाः॥

दश पर्यवस्थानान्युच्यन्ते।
[373] म्रर्क्ष्येर्ष्याह्र्यनपत्राप्यस्त्यानमिद्धोद्धवक्रुधः।
मात्सर्यं कुकृतत्वं च दशधा पर्यवस्थितिः॥

एते ह्यनुबन्धादार्ढ्‍यान्नानुशयाः। न ह्येषामनुबन्धदार्ढ्‍यमस्त्यनुशयास्तु दृढानुबन्धाः। तस्मादेतानि कालान्तरमात्रं चित्तपर्यवस्थापनात् पर्यवस्थानानीत्युच्यन्ते।

अवद्यं छादयते(तः) चित्तापलेपो म्रक्षः, चित्तं म्रक्षयतीति म्रक्षः। परसम्पत्त्यमर्षणमीर्ष्या। अकार्यं कुर्वतः स्वात्मानमवेक्ष्यालज्जनाऽह्रीः। परमपेक्ष्यालज्जनाऽनपत्राप्यम्। कायाकर्मण्यता स्त्यानं तन्द्रीपर्यायवचनम्। कायचित्ताकर्मन्य(ण्य)ता मिद्धं चित्ताभिसंक्षेपः स्वप्नाख्यः, स तु क्लिष्ट एव पर्यवस्थानम्। चित्ताव्युपशान्तिरौद्धत्यम्। परापकारनिमित्तोद्भवोऽपरित्यागयोगेण(न) चण्डीभावः क्रोधः। स्ववस्तुन्याग्रहो मात्सर्यम्, मत्तो मा सरेदेतदिति निरुक्तिः। कुकृतभावः कौकृत्यम्। इत्येनानि दश पर्यवस्थानानि॥

अथैषामुपक्लेशमलपर्यवस्थानानां कः कस्य रागादेर्मूलक्लेशस्य निष्यन्दः ? तदिदमारभ्यते॥

[374] एभ्योऽनुनयनिष्यन्दा आह्रीक्यौद्धततादयः।
इमे खलूपक्लेशाः रागणि(नि)ष्यन्दाः। यदुत-अह्रीक्यौद्धत्यमदमात्सर्यकुहनालपनानैमित्तिकतानैष्पेशिकता लाभेन लाभस्य निश्‍चिकीर्षता पापेच्छता महेच्छतेच्छस्विता कामज्ञातिजनपदवितर्कपापमित्रतादयः।

तत्राह्रीक्यानपत्राप्यमदा व्याख्यातलक्षणाः। लाभसत्कारयशोलोभादभूतगुणदर्शनार्थमीर्यापथविकल्पकृच्चैत्तविशेषः कुहना। लाभाद्यर्थमेव गुणपृ(प्रि)यालपनकृल्लपनाः(ना)। उपकरणार्थित्वनिमित्तदर्शनकृच्चैत्तविशेषो नैमित्तकता। परगुणवद्दोषवचननिष्पेषणकृदेव चैतसिको नैष्पेषिकता। लब्धलाभख्यापनेनान्यलाभनिश्‍चकीर्षणता [लाभेन लाभस्य निश्‍चिकीर्षता]। परैरभूतगुणसम्भावनेच्छा पापेच्छता। लाभसत्कारपरिवारप्रार्थना महेच्छता।

लोभात्परैर्भूतगुणसम्भावनेच्छा इच्छस्विता। कामरागप्रतिसंयुक्तो वितर्कः कामवितर्कः। ज्ञातिस्नेहपरीतस्य तदावाहविवाहकृषिवणिग्राजसेवादीनां गृहसन्धारन(ण)मुपजीवनोपायानां राजतस्करादिभयप्रशमनोपायानां च वितर्काणां [वितर्कः] ज्ञातिवितर्कः। पर्याप्तजीवितोपकरणापरितुष्टस्य लोकचि(मि)त्रता, छन्दरागापहृतचेतसस्तेषां जनपदानां भूमिरमनी(णी)यतासुभिक्षक्षेमताप्रचुरगोरसेक्षुविकारगोधूमशाल्यादीनां वितर्कणाज्जनपदवितर्कः शीलदृष्ट्याचारविपन्नानां रतिकृता संसेवा पापमित्रता।

म्रक्षानपत्रपास्त्यानमिद्धाद्या मोहसंभवाः॥

तत(त्र) ‘म्रक्षाण(न)पत्रपास्त्यानमिद्धाः’। ‘आदि’ग्रहणाल्लयः, अमनसिकारा(रो)द(ऽ)नादरता, दौर्वचस्यं तन्त्री(न्द्री) भक्तासमतेत्येवमादयः।

तत्र लयोनाम दोषगुणत्यागार्जनं प्रति आत्मपरिभवजश्चित्तसंकोचः। कुशलासमन्वाहार औदासीन्ययोगेणामनसिकारः। गुणेषु गुणवत्सु चाबहुमानवृत्तिरणा(ना)दरता। धर्मानुशास्तृषु सासूयितप्रतिमन्त्रकृद्‍दौर्वचस्यम्। जृम्भिकोद्‍गम(मा)दक्षिवर्त्मस्तम्भनिद्रास्पदः चैत्तविशेषः स्त्यानाख्या तन्द्री। कुशलपक्षानुकूलभोजनसमताप्रतिवेधश्‍चेतसो भक्तासमता॥

[375] कौकृत्यं विचिकित्सोत्थं क्रोधाद्या द्वेषसम्भवाः।

कौकृत्यं खलु यथोक्तलक्षणं विचिकित्सासमुत्थितम्। क्रोधाद्या द्वेषनिष्यन्दाः। ‘आदि’शब्दादीर्ष्या[ऽ]क्षान्त्युपनाहप्रदाशसंरम्भादयः।

तत्रेर्ष्या पूर्वोक्तलक्षणा। सह्यासहिष्णुताऽक्षान्तिः। रन्ध्रावधानानिवृत्तिरुपनाहः। संतोषमानस्याप्यदृढग्राहिता प्रदाशः। परान्विमर्दिषतः पाणिपादौष्ठकपोलशरीरकम्पयोनिर्भ्रान्तमनसः क्षोभः संरम्भः। निमित्तमात्रेण सातत्यविहेठनकृच्छृङ्गी। निस्तनतोऽभीक्ष्णविवाच(द)कृत्तंस्तत्त(कृत्यं स्त)म्भनता। काम्यान्विषयाननुस्मरतो रतिविपरीतमनसः प्रवृत्तिररतिः। चित्तापैशल्यमनार्जवता। व्यापादार्थ प्रयुक्तो वितर्को व्यापादवितर्कः। विहिंसासंप्रयुक्तो वितर्कः [विहिंसावितर्कः]।

प्र[मा]दस्तम्भमार्द्व(?)क्ष्य मायाशाठ्‍यविजृम्भिकाः॥

[376] कायदुष्ठूलताद्याश्च ज्ञेया व्यामिश्रसम्भवाः॥

तत्र दोषप्रवणस्य गुणानभिसंमुख्यं प्रमादः। पूजार्हेष्वसंन्न(न)तिः स्तम्भः। परानुरोधात्पापानुवृत्तिकृ[च्चै]तो(त्तो) मार्द्वक्ष्यम् (?)। पराभिसन्धानाय मिथ्योपदर्शण(न)कृच्चैत्तो म(मा)या। चित्तकौटिल्यं शाठ्यम्। क्लेशसमुत्थितः कायस्यानमनविनमनकृच्चैत्तो विजम्भिका। क्लेशकृता विविधालम्बनं(न)संज्ञा नानात्वसंज्ञाः। अतिवीर्यभक्तासमतानिर्ज(र्जा)तकायवैषम्याबाध(धः) कायदौष्ठुल्यम्। कल्याणमित्राणां गुणेष्वननुशिक्षा असभागानुवर्तनता। क्लेशसमुत्था परसम्पद्वितर्कणा, परोदयप्रतिसंयुक्तो वितर्कः। इत्येवमादयो व्यामिश्रसमुत्थिता द्रष्टव्याः।

प्रदाशो दृक्परामर्शनिष्यन्दः शठता दृशः॥

पूर्वोक्तलक्षणः प्रदाशः परामर्शनिष्यन्दः। शाठ्‍यं दृष्टिसमुत्थितमिति॥
अथ कः क्लेशः कया वेदनया संप्रयुज्यते ? तदिदमारभ्यते-

[377] सौमनस्येन रागस्य संप्रयोगः सुखेन च।

रागः खलु सुखसौमनस्याभ्यां संप्रयुक्तः।

द्वेषस्य दौर्मण(न)स्येन दुःखेन च निगद्यते॥

संयोग इति वर्तते। प्रतिघः खलु दुःखदौर्मण(न)स्याभ्यां संप्रयुक्तः॥

[378] सर्वैर्मोहस्य

मोहस्य तु पञ्चभिरपीन्द्रियैः संप्रयोगः।

वित्तिभ्यां चैतसीभ्यामसद्‍दृशः।

मिथ्यादृष्टिर्हि दौर्मण(न)स्यसौमनस्याभ्यां संप्रयुज्यते, पापकर्मणां पुण्यकर्मणां च यथाक्रमम्।

काङ्क्षा च दौर्मण(न)स्येन

सांशयितो हि निश्चि(श्च)याकांक्‍षी (काङ्क्षी) दौर्मण(न)स्येन संबध्यते।

शेषाणां सुमनस्तया।

शेषास्त्वनुशयाः-चतस्रो दृष्टयः, मानश्च। पार्षाक(हर्षाका)रवृत्तित्वात्सौमनस्येन संप्रयुक्ताः॥

[379] उपेक्षया तु सर्वेषाम्

सर्वेऽप्यविशेषेणानुशया उपेक्षया संप्रयुज्यन्ते। प्रवाहच्छेदकाले खलु क्लेशानामवश्यमुपेक्षा संमुखीभवति।

कामाप्तानामयं विधिः।

कामावचराणां खल्वनुशयानामेष विधिः द्रष्टव्यः।

इतोऽन्यधातुजानां तु प्रतिभूम्यन्तरं स्वकैः॥

यस्यां यस्यां भूमौ यावदि(न्ती)न्द्रियाणि सन्ति तत्रापि चातुर्विज्ञानकायिकाश्चातुर्विज्ञानकायिकैर्मनोभूमिका मनोभूमिकैरेव यथासंभवम्॥

उक्ताः क्लेशानामिन्द्रियसंप्रयोगः। उपक्लेशानामुच्यते-

[380] ईर्ष्यया दौर्मण(न)स्येण(न) कौकृत्यस्य तथा क्रुधः।
प्रदष्टेश्‍चोपनद्धेश्‍च विहिंसायास्तथैव च॥

दौर्मण(न)स्येन खल्वीर्ष्याकौकृत्यक्रोधप्रदाशोपनाहविहिंसाः संप्रयुज्यन्ते॥

[381] मात्सर्यं दौर्मण(न)स्येन सौमनस्येन कस्यचित्।

प्रार्थ्यमानो ह्यप्रयच्छन् परस्य जह्रीयमानो दुर्मणा(ना)यते। केचित्पुनः व्याचक्षते-सौमनस्येन संप्रयुज्यते लोभान्वयत्वेन हर्षाकारवर्तित्वात्।

द्वाभ्यां माया तथा शाठ्यं म्रक्षो मिद्धं तथैव च॥

दौर्मण(न)स्यसौमनस्याभ्यां मायाशाठ्‍यमिद्धानि संप्रयुज्यन्ते। कदाचिद्धि सुमनाः परं वञ्चयते। कदाचिद्‍दुर्मनाः। एवं यावत्स्वपि(पी)ति॥

[382] मदस्तु सुमन[:]स्कन्धसुखाभ्यां संप्रयुज्यते।

तृतीये ध्याने सुखेनाधस्तात्सौमनस्येनोर्ध्वं चोपेक्षया। ‘तु’शब्दस्य विशेषणत्वादयं विशेषो लभ्यते।

आह्रीक्यमनपत्राप्य(प्यं) स्त्यानौद्धत्ये च पञ्चभिः॥

पञ्चभिरपीन्द्रियैः आह्रीक्यानपत्राप्यस्त्यानौद्धत्यानि संप्रयुज्यन्ते। एषां चतुर्णां पर्यवस्थानानामकुशलमहाभूमिकत्वात् क्लेशमहाभौमिकत्वाच्च॥

इदमिदानीं वक्तव्यम्। क एषां किं प्रहातव्यः ? यानि तावद्दश पर्यवस्थानानि तेभ्यः-

[383] आह्रीक्यमनपत्राप्यं स्त्यानमिद्धं तथोद्धवः॥

..........[अभिधर्मदीपे विभाषाप्रभायां वृत्तौ पञ्चमाध्यायस्य तृतीयः पादः॥]
..........[पञ्चमोध्यायः समाप्तः॥]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project