Digital Sanskrit Buddhist Canon

चतुर्थोऽध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Caturtho'dhyāyaḥ

चतुर्थोऽध्यायः।

प्रथमः पादः।

अथ यदुक्तं [“सत्त्वकर्मद्विधाख्येन पूरितं वायुमण्डलम्”] इत्येतदुच्यताम्। कानि तानि कियन्ति वा कर्माणीत्यतः कर्माणि प्रस्तूयन्ते।

[154] सत्त्वोपपत्तिहेतूनां [विपत्संप]द्विधायिणा(ना)म्।
लोकवचित्र्यकर्तॄणां कर्म हेतुरितीष्यते॥]

[दृश्यते] खलु सत्त्वानां हीनमध्योप्कृष्टजातिपरिग्रहायामाश्रयभोगादिसम्पद्विपत्तिश्च। यच्च द्विविधस्य लोकस्य विचित्रता तत्र कर्माणि हेतुः। अतस्तेषां तत्त्वानि वक्ष्यामि। यदप्युक्तं कानि कियन्ति वेति तदुपव्याख्यायते॥

सूत्रे द्वे कर्म[णी] निदि[श्योक्तम्-“द्वे कर्मणी चेतना कर्म चेतयित्वा] च” इति। तानि पुनस्त्रीण्युक्तानि। कथम् ?

[155] कायिकं वाङ्मयं चैव चेतनाख्यं च मानसम्।
कर्माण्येतानि लोकस्य कारणं नेश्‍वरादयः।

एतानि खलु त्रीणि कर्माणि शुभाशुभानि द्विविधस्यापि सत्त्वभाजनलोकस्य हिताहितनिमित्तान्युत्पत्तौ च सम्पत्तौ च वैचित्र्यस्य च कारणम्। नेश्‍वरकालपुरुषप्रधानादयः॥

तत्र तावद्यथा नेश्‍वरः कारणं तथा पूर्वमुल्लिखितम्, इदानीं तु विस्पष्टतरमाविष्क्रियते-

[156] वैश्‍वरूप्यात्क्रमोत्पादात्तद्वदन्यत्प्रसङ्गतः।

यदि खल्वेको नित्यश्‍चेश्वरो लोकस्योत्पत्तिस्थितिप्रलयकारणं स्यात्, तेन खलु कारणानुविधायित्वात्कार्यस्यैतत् त्रयं विरुद्धं युगपत् स्यात्। न चैतद् दृष्टमिष्टं वेत्यसदेतत्। किञ्च लोकश्चाप्यविचित्रः स्यात्। युगपच्चोत्पद्येत नग्नः कपालपाणिश्च पर्यटेत्तदिच्छानुविधायी च स्यात्। न चैतदेवम्। तस्मान्नेश्वरः कारणम्।

ग्रामाद्यधिपतिविशेषोत्कर्षावस्थानादीश्‍वरप्रसिद्धिरिति चेत्। न। ग्रामाधिकृतादिह परतन्त्रत्वानित्यत्वकार्यान्तरशक्तिविघातादिदर्शणा(ना)त्, गोमयपिण्डोपमसूत्रोक्तेश्च।

भागवतादितन्निन्दादर्शणा(ना)च्च। भागवताद्या हि महेश्वरं णि(नि)न्द्यन्तो दृश्यन्ते। माहेश्‍वराश्‍च विष्णुमिति।

कारणसापेक्षं तपःसामर्थ्यादुत्पादयतीति चेत्। तत्रापदिश्यते।

नान्यापेक्षा तपोयोगो पक्षहान्यादिदोषतः।

यदि खलु सहकारिकारणापेक्षः तपोबललब्ध्यैश्‍वर्यश्च लोकं सृजति कुम्भकारबद्धटादीन्। न। चै(ए)वं सति पूर्वपक्षोत्सर्गः कृतो भवति। यदुक्तं नित्यश्‍चैकश्‍च स्वतन्त्रः कारणमिति तद्धीनम्। तपोबलसामर्थ्याभ्युपगमे चानित्यत्वं पारतन्त्र्यं चाभ्युपगतं भवति। तदभ्युपगमाच्चानैश्‍वर्यमिति। एतेन कालपुरुषप्रधानादिकारणपरिग्रहाः प्रत्यूढा वेदितव्याः।

यदि खलु कर्म कारणं नेश्‍वरादयः कथं तर्हि लोकस्तत्कारणपरिग्रहं करोतीति ? अत्र ब्रूमः-

[157] कर्मणां बोध्यते शक्तिर्विधिकालग्रहादिभिः।
यतोऽतस्तेषु ताच्छब्द्‍यं गौन्या(ण्या) वृत्त्या प्रयुज्यते॥

यथोक्तम्-
“विधिर्विधानं नियतिः स्वभावः
कालो ग्रहा ईश्‍वरकर्मदैवम्।
पुण्यानि भा[ग्या]णि(इ) कृतान्तयोगः
पर्यायनामाणि(नि) पुराकृतस्य॥”

किञ्च, यतश्‍च
“ग्रहयोगो भुजास्पन्दः स्वप्नः पूर्णघटादयः।
सूचयन्ति नृणामेते वृत्तिलाभं स्वकर्मणः॥”

इत्यतोऽपि तेषु ताच्छब्द्‍यं प्रयुज्यत इति॥

कथं पुण(न)रेषां त्रयाणां कर्मणां व्यवस्थानम् ? यद्याश्रयतः, सर्वेषां कायाश्रितत्वादेकत्वम्। स्वभाव[तश्‍चे]त्, वाक्कर्मैवैकं प्राप्तम्। समुत्थानतश्‍चेत्, मनःकर्मैकं प्राप्तम्। सर्वेषां मनसोत्थापितत्वात्। त्रिभिरपीति वैभाषिकाः॥

ते पुण(न)रेते प्रथमे द्वे कर्मणी प्रत्येकं द्विप्रभेदे। कथम् ? तदपदिश्यते-

[158 ab.] पूर्वे विज्ञप्त्यविज्ञप्ती

कायकर्म खलु कायविज्ञप्तिः कायाविज्ञप्तिश्‍च। वाक्कर्मापि वाग्विज्ञप्तिर्वागविज्ञप्तिश्‍च। तृतीयं तु कर्म-

चेतना मानसी क्रिया।

उक्तं हि भगवता-“चेतना कर्म चेतयित्वा।” तत्पुनस्त्रिधोक्तम्- “कायकर्म वाक्कर्म मनस्कर्म च” इति।

किं स्वभावं पुनरिदं कायकर्म किं तावत्कायस्वभावम् ? यथा वाक्कर्म वाक्स्वभावम्, आहोस्वित्कायादन्यद्यथा मनस्कर्म मनसोन्यदित्येतदा[ह]। ..............

[अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः]

चतुर्थाध्याये

द्वितीयपादः।

..................पराभवन्तीत्यपदिश्यते।

[159] अन्नमत्यग्निणि(नि)र्दग्धं यथा स्थाली च संस्कृता।
पापदृष्टेस्तथा शीलं शाठ्‍येर्ष्यादिक्षतात्मनः॥

[160] संवृत्सद्‍दृष्ट्‍युपेतातो भिक्षुत्वं परमार्थतः।
एकसम्पत्तु संवृत्या द्वयाभावे द्विधाऽपि न॥

दृष्टिसम्पद्विशुद्धा खलु श[ईल]सम्पत् ‘भिक्षुत्वं परमार्थतः। अन्यतरविकलस्तु संवृत्या भिक्षुर्भवति। द्व्यङ्गविकलस्तु नापि संवृत्या नानि परमार्थत इति।

यदि खलु विना संवरेणाष्टौ निकाया न व्यवस्थाप्यन्ते कथं तर्हि भगवतोक्तैः-“एकदेशकारी, प्रदेशकारी, यद्‍भूयस्कारी, परिपूर्णकारी” इत्यत्राप्ययमर्थो दृश्यते ? कश्‍चित्खल्वकार्यैकदेशविरतिक्षमो भवति। कश्‍चिद्यावत्समग्रः (ग्र) दौःशील्यविरतिक्षमः। इत्यतो भगवानकार्यैकदेशविरत्याऽप्युपासकत्वं शास्ति। न हि सर्वशीलविकलः कश्‍चिच्छरणगमनेच्छामात्रकेणोपासको भवति षडङ्गोषधैकद्व्यङ्गवैकल्योपयोगवदिति।

अथ यदुक्तम्-“बुद्धं धर्मं संघं शरणं गच्छति” इति तत्क एते बुद्धादयः ? तदिदमभिधीयते-

[161] विगतावणे ज्ञाने बुद्धोक्तेर्मुख्यकल्पना।
तदाश्रये फले चापि विज्ञेया गुणकल्पना॥

द्विविध[:] खलु बुद्धः संवृत्या परमार्थतश्‍च। तत्र परमार्थतो यथोक्तं शास्त्रे-“यो बुद्धं शरणं गच्छति किमसौ शरणं गच्छति ? तानेवासौ बुद्धक[आ]रकानशैक्षान्धर्माञ्छरणं गच्छति। ते हि बुद्धशब्दप्रवृत्तिनिमित्तचिह्नम्।” इति। तेभ्योऽपि निरावरणं ज्ञानं प्रधानं सर्वज्ञ इति लोकप्रसिद्ध एष तावत् पारमार्थिको बुद्धः। संवृत्यापि ‘तदाश्रये’ द्वात्रिशता लक्षणैरशीत्या चानुव्यञ्जनैर्विराजिते रूपकायेऽपि बुद्धाख्येति। तत्फले च बलवैशारद्यमहाकरुणादिषु बुद्धोक्तिरिति।

[162] शाश्‍वतत्वशुभत्वाभ्यां सर्वाण(न)र्थनिवृत्तितः।
मुख्यकल्पनया तद्वद्धर्मो निर्वाणमुच्यते॥

नित्याविकृतस्वलक्षणे(ण)धारणात्तत्प्राप्तानां चात्यन्तधारणे निर्वाणं पारमार्थिको धर्मः। गुणकल्पनथा तु प्रत्येकबुद्धबोधिसत्त्वसन्तानिको मार्गः। त्रीणि च पिटकानि धर्मो निर्वाणप्रापकत्वात्॥

[163] आर्याः शिष्यगुणाः संघस्तथैव परमार्थतः।

नवानामशैक्षाणामष्टादशानां च शैक्षाणां शिष्याणां सन्ताने यो मार्गः स पारमार्थिकः संघ इत्युच्यते। संवृत्या तु पृथग्जनकल्याणकभिक्षुसंघ इत्यपदिश्यते।

एतान्यो याति शरणं स याति शरणत्रयम्॥

एतान्यथोक्तलक्षणान् बुद्धधर्मसंधान् शरणं गच्छति ‘यो याति शरणत्रयम्’ इति॥

किं स्वभावानि पुनः शरणगमनानि ? वाग्विज्ञप्तितत्समुत्थधर्मस्वभावानि॥

कः पुनः शरणार्थः ? त्राणार्थः शरणार्थः। तदाश्रयेण सर्वदुःखात्यन्तविमोक्षात्। उक्तं हि भगवता-

“बहवः शरणं यान्ति पर्वतांश्च वनानि च।
आरामांश्‍चैत्यवृक्षांश्च मनुष्या भयतर्जिताः॥
न चैतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम्।
नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते॥
यस्तु बुद्धं च धर्मं च संघं च शरणं गतः।
चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा॥
दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम्।
आर्यं चाष्टांगिकं मार्गं क्षेमं निर्वाणगामिनम्॥
एतद्धि शरणं श्रेष्ठमेतच्छरणमुत्तमम्।
एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते॥” इति।

अत एव शरणगमनानि सर्वसंवरसमादानेषु द्वारभूतानि, दृष्टिसंपन्नस्य तेषां प्ररोहात्।

किं पुनः कारणं काममिथ्याचारादेवोपासकस्य विरतिः शिक्षापदेषु व्यवस्थापिता न सर्वस्मादब्रह्मचर्यात् ? अन्येभ्यश्च प्रकृतिसावद्येभ्यो मृषावाद एव शिक्षापदेषु व्यवस्थाप्यते, न पारुष्यादि ? सर्वेभ्यश्च प्रतिपक्षे(क्षप)णसावद्येभ्यः मद्यपानादेव विरतिः शिक्षापदं व्यवस्थापितम् ? तदुच्यते-

[164] मिथ्याचारः सतां गर्ह्यात्परत्राकरणाप्तितः।
पापिष्ठत्वान्मृषावादो मद्यपाणं(नं) स्मृतिक्षयातू॥

काममिथ्याचारो हि लोकेऽत्यर्थं गर्हितः। परेषां दारोपघातादापायिकत्वाच्च। न तथाऽब्रह्मचर्यम्। सुकरा च गृहस्थस्य काममिथ्याचारवि रतिः, दुष्करा त्वब्रह्मचर्यात्। आर्यश्‍चाकरणसंवरं काममिथ्याचारादेव जन्मान्तरितोऽपि लभते न त्वब्रह्मचर्यात्।

मृषावादोऽपि भगवता पापिष्ठत्वाद्राहुलमुद्दिष्य परमेनादरेणोक्तः-“यस्य राहुल मृषावादे नास्ति लज्जा नास्ति कौकृत्यं नाहं तस्य किञ्चिदकरणीयं वदामि” इति।

मद्यपानेऽपि स्मृतिलोपो भवति, सर्वशिक्षापदक्षोभो भवतीत्यतः प्रतिक्षेपणसावद्यमपि सन्मद्यपाणं(नं) कुशाग्रेणापि भगवता नाभ्यनुज्ञातम्॥

इदमिदानीमुच्यताम्। य एते त्रयः प्रातिमोक्षध्यानानास्रवसंवराः किमेषां यत एको लभ्यते ततः शेषा अपीति ? ब्रूमः-

[165] सर्वेभ्यो वर्तमानेभ्यो द्विविधेभ्योऽपि कामजः।

प्रातिमोक्षसंवरः खलु सर्वेभ्यो मौलप्रयोगपृष्ठेभ्यो वर्तमानेभ्यः स्कन्धायतनधातुभ्यः सत्त्वाधिष्ठानप्रवत्तत्वात्, नातीतानागतेभ्यस्तेषामसत्त्वसंख्यातत्वाल्लभ्यते। ‘द्विविधेभ्योऽपि’ सत्त्वासत्त्वाख्येभ्यः, प्रकृतिप्रतिक्षेपणसावद्येभ्यश्‍च।

त्रिकालेभ्यस्तु मौलेभ्यो लभ्येते भावनामयौ॥

एतौ हि मौलेभ्य एव कर्मपथेभ्यो लभ्येते न प्रयोगपृष्ठेभ्यो नापि प्रज्ञप्तिसावद्येभ्यः, सर्वकालेभ्यश्‍च स्कन्धायतनधातुभ्यो लभ्येतेऽतीतानागतेभ्योऽपि।

चतुष्कोटिका चात्र भवति। “सन्ति ते स्कन्धायतनधातवो येभ्यः प्रातिमोक्षसंवरो लभ्यते न ध्यानानास्रवसंवरौ” इति विस्तरः। प्रथमा कोटि(टिः)-प्रत्युत्पन्नेभ्यः सामन्तकपृष्ठेभ्यः प्रतिक्षेपणसावद्याच्च। द्वितीया‍अतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः। तृतीया-प्रत्युत्पन्नेभ्यः मौलेभ्यः कर्मपथेभ्यः। चतुर्थी-अतीतानागतेभ्यः सामन्तकपृष्ठेभ्य इति॥

किं पुनरिमौ संवरासंवरौ सर्वसत्त्वेभ्य एव लभ्येते ? सर्वाङ्गेभ्यः सर्वकारणैश्‍च ? अथास्ति कश्‍चिद्भेदः ? तत्र तावदवश्यं लभ(भ्य)ते-

[166] सर्वेभ्यः सत्त्वजातिभ्यः संवरो वाङ्गकारणैः।
सर्वेभ्यो संवराङ्‍गेभ्यः सत्त्वेभ्यश्‍च न कारणैः॥

सर्वसत्त्वेभ्यः खलु संवरो लभ्यते न केभ्यश्‍चित्। अङ्गेभ्यस्तु विभाषा कश्‍चित्सर्वेभ्यो लभ्यते भिक्षुसंवरः। कश्‍चिच्‍चतुर्भ्यः। ततोऽन्यः। कर्मपथा हि संवराभ्याङ्गानि। कारणैरपि केनचित्पर्यायेण सर्वैः, केण(न)चिदेकेन।

कथं तावत्सर्वैर्यद्यलोभाद्वेषामोहाः कारणानीष्यन्ते ? कथमेकेन यदि मृदुमध्याधिमात्राणि चित्तानि कारणानीष्यन्ते ? पश्‍चिमेन पर्यायेण नियमोच्यते। अस्थि(स्ति) संवरस्थायो सर्वसत्त्वेषु संवृतो न सर्वाङ्गैर्न सर्वकारणैर्यो मृदुना चित्तेन मध्येनाधिमात्रेण वा उपासकोपवासश्रामने(णे)रसंवरं समादत्ते। अस्ति सर्वसत्त्वेषु संवृतः सर्वाङ्गैश्‍च, न तु सर्वकारणैर्यो मृदुना चित्तेन मध्येनाधिमात्रेण वा भिक्षुसंवरं समादत्ते। अस्ति सर्वसत्त्वेषु सर्वाङ्गैः सर्वकारणैश्‍च यस्त्रिविधेन चित्तेन त्रीन्संवरान् समादत्ते। अस्ति सर्वसत्त्वेषु सर्वकारणैश्‍च न तु सर्वाङ्गैर्य उपासकोपवासश्रामने(णे)रसवरान्मृदुमध्याधिमात्रैश्‍चित्तैः समादत्ते। यस्तु न सर्वसत्त्वेषु स्यादीदृशो नास्ति यस्मात्सर्वसत्त्वानुगतकल्याणाशये स्थितः संवरं प्रतिलभते नान्यथा, पापाशयस्यानुपरतत्वात्।

पञ्चनियमान(न्) कुर्वन् प्रातिमोक्षसंवरं लभते। सत्त्वाङ्गदेष(श)कालसमयमियमान्(:)-अमुष्मात्सत्त्वाद्विरमामीति सत्त्वनियमः। अमुष्मादङ्गादित्यङ्गनियमः। अमुष्मिन्देश इति देशनियमः। मासाद्यावदिति कालनियमः। अन्यत्र युद्धादिति समयनियमः। सुचरितमात्रं तु तत्स्यादेवं गृह्णतो न संवरः।

कथमशक्येभ्यः संवरलाभः ? सर्वसत्त्वजीवितानुपघाताध्याशयेण(ना)भ्युपगमात्। उक्तं यथा संवरो लभ्यते॥

असंवरोऽपि सर्वसत्त्वेभ्यः सर्वकर्मपथेभ्यश्‍च न तु [सर्व]कारणैः, युगपन्मृद्वादिचित्ताभावात्।

के पुनरसांवरिकाः ? औरभ्रिकाः कौक्कुटिकाः सौकरिकाः शाकुन्तिका मात्सिका मृगलुब्धकाश्चौराः वध्यघातका बन्धनपालका नागबन्धाश्‍वपाका वागुरिकाश्च। राजानो दण्डनेतारो व्यावहारिकाश्‍च नीतिचलिता असावरिकाः। असंवरे भा(भ)वाः, असंवरो वा एषां विद्यत इत्यसांवरिकाः॥

उक्तमिदं येभ्यः [अ]संवरो लभ्यते। कथं तु तल्लाभ इति नोक्तं तदा रभ्यते-

[167] क्रियया[ऽ]संवरप्रप्तिः स हाभ्युपगमेन वा।
अविज्ञप्तिरतोऽन्यस्याः क्षेत्राङ्गादिविशेषतः॥

द्वाभ्यां कारणाभ्यामसंवरो लभ्यते। क्रिययाऽभ्युपगमेन वा। क्रियया तत्कुलीनतत्कर्माभ्युपगमात्। अतत्कुलीनैर्वयमप्यनया जीविकया जीविष्याम इति। शेषाऽविज्ञप्तिलाभस्तु क्षेत्राङ्गविशेषादिति। क्षेत्रं वा तद्रूपं भवति यथारामादिप्रनानमात्रेणाविज्ञप्तिरुत्पद्यते। यथौपधिकेषु पुण्यक्रियावस्तुषु। आदरेण वा समादत्ते। बुद्धमवन्दित्वा न भोक्ष्य इति। मासार्धमासभक्तानि वा नित्यं करिष्यामीत्येवमादि। आदरेण वा तद्रूपेण क्रियामीहते कुशलामकुशलां वा यतोऽस्या विज्ञप्तिरुत्पद्यते।

उक्तमेतद्यथा संवरासंवराणां प्रतिलम्भः॥

त्याग इदानीं वक्तव्यः। तत्र तावत्-

[168] कामाप्तसंवरत्यागः शिक्षाणि(नि)क्षेपणादिभिः।
पतनीयरपीत्येके तन्नेत्यन्ये त्वयोगतः॥

कामाप्तस्याष्टप्रकारसंवरस्य पञ्चभिः कारणैस्त्यागः। शिक्षानिक्षेपणनिकायसभागत्यागोभयव्यञ्जनोत्पादकुशलसमुच्छेदेभ्यो निशात्ययेणा(ना)ष्टमस्य। तान्येतान्यभिसमस्य पञ्च भवन्ति।

किं पुनः कारणमेभिस्त्यागो भवति ? समा[दा]नविरुद्धविज्ञप्त्युत्पादादाश्रयत्यागादाश्रयकोपनान्निदानच्छेदात्तावदेवाक्षेपाच्च।

अन्ये पुनराहुः-चतुर्णां पतनीयाणा(ना)मन्यतमेन भिक्षुश्रामणेरसंवरत्यागः।“ ‘तन्न’ इति, ‘अयोगतः’।

कः पुनरयोगः ?

[169] अयोगा(गो) नांशुविध्वंसात्पटद्रव्यं विनश्यति।

न ह्यवयवनाशादवयविविनाशो भवति। अवयविरूपश्‍च प्रातिमोक्षसंवरः। तस्यावयवक्षोभाच्छिद्रत्वं भवति मालिन्यं च। यथोक्तं भगवता-“दुःशीलो भवति पापधर्मा।”

सूत्रविरोघादयुक्तमिति चे[दत्रोप]दिशन्ति-

सूत्रे ध्वंसोक्तिरन्यार्था यथेर्ष्याशठनादिषु॥

भगवतात्र“अभिक्षुर्भवति” इति शासनस्थित्यर्थं दुर्वृत्तविनेयावसादनार्थं चोक्तम्। यथा-“ईर्ष्यिको भवति मत्सरी शठो मायावी मिथ्यादृष्टिरित्येवमादिदोषयुक्तः कशम्बकजातीयः पापभिक्षुर्णि(र्नि)र्वासयितव्यः।” न च चित्ताविदूषणादभिक्षुत्वं भवति विनेयशासनार्थतत्त्व[विद्]भिरित्युक्तम्। तद्वदत्रापि द्रष्टव्यमिति।

तस्मात्पूर्वोक्तलक्षण एव भिक्षुर्ण(र्न) यथाह कोशकारः।

[170] सद्धर्मान्तर्द्धितोऽन्येऽन्ये नापूर्वाप्रतिलम्भतः।

अन्ये पुनर्ब्रूवते-सद्धर्मान्तर्धानेऽपि संवरत्यागो भवति। तत्तु नैवम्। यस्मादपूर्वस्तदा नोत्पद्यते। उत्पन्नस्तु यथोक्तै रेव कारणैर्विनश्यति॥

अथ ध्यानानास्रवसंवरयोस्त्यागः कथम् ? तदिदमपदिश्यते-

भूसंचारेण हान्या च त्यज्यते ध्यानजं शुभम्॥

सर्वमेव खलु ध्यानाप्तं कुशलं द्व्याभ्यां कारणाभ्यां त्यज्यते। उपपत्तित्तो वा भूमिसंचारादर्ध्वं वाऽधो वा। परिहाणितो वा। समापत्तेर्निकायसभागत्यागाच्चेति॥

[171] तथाऽऽरूप्याप्तमार्यन्तु फलाप्त्यक्षविहानिभिः।

यथैव रूपाप्तं कुशलं भूमिसंचारहाणि(नि)भ्यां त्यज्यते तथैवारूप्याप्तम्। आर्यं तु कुशलं त्रिभिः कारणस्त्यज्यते। फलप्राप्तितः पूर्वको मार्गस्त्यज्यते। अक्षोत्तापनेन मृद्विन्द्रियमार्गः। परिहाणित उत्तरो मार्गः। फलं फलविशिष्टो वा। एवं तावत्संवरस्त्यज्यते।

असंवरो दमप्राप्तिर्जीवितोत्सर्जणा(ना) दिभिः॥

त्रिभिः कारणैरसंवरच्छेदः। संवरप्राप्तितः। यदि संवरं समापद्यते घ्यानसंवरं वा प्रतिलभते हेतुप्रत्ययबलेनसमाधिलाभात्तेनासंवरस्त्याज्यते। प्रतिद्वन्द्वबलीयस्त्वात्। मरणेन चाश्रयत्यागात्। द्विव्यञ्जनोत्पादेन चाश्रयविकोपनात्। शस्त्रजलत्यागेऽप्यकरणाशयतः संवरमन्तरेणासंवरच्छेदो नास्ति। निदानपरिवर्जणे (ने) न प्रवृद्धरोगानिवृत्तिवत्॥

अथ संवरासंवरविनिर्मुक्ता कथमविज्ञप्तिस्त्यज्यते ? तदुच्यते-

[172] चित्तवेगादिविच्छेदैरविज्ञप्तिस्तु मध्यमा।

येण(न)खल्वसौ प्रसादक्लेशवेगेणा(ना)विज्ञप्तिराक्षिप्ता तस्य विच्छेदात्सापि विच्छिद्यन्ते (ते), कुम्भकारचक्रगतिवत्। समादानत्यागादपि विच्छिद्यते। क्रियाविच्छेदादपि विच्छिद्यते। चैत्यविहारक्षेत्रादेरप्यर्थस्य विच्छेदाद्विच्छिद्यते। आयुषोऽपि कुशलमूलानामपि विच्छेदाद्विच्छिद्यते।

कामाप्तं कुशलं नाम त्रिभिर्मूलच्छिदादिभिः॥

कामावचरं पुनः कुशलमरूपस्वभावं द्वाभ्यां कारणाभ्यां त्यज्यते। कुशलमूलसमुच्छेदात्, रूपारूप्यधातूपपत्तितश्‍च।

[173] प्रतिपक्षोदयात्क्लिष्टं त्रिधात्वाप्तं विहीयते।

क्लिष्टं त्वरूपस्वभावं सर्वमेव प्रतिपक्षोदयाद्विहीयते। यस्योपक्लेशप्रकारस्य यः प्रहाणमार्गः, तेनासौ सपरिवारः परित्यज्यते। नान्यथा॥

अथ केषां सत्त्वानामसंवरो भवति केषां संवरः ? तदपदिश्यते-

सर्वे कामेषु रूपे द्वाधे(वे)कोऽरूपिषु लाभतः॥

कामेषु खलु सर्वशण्ढपण्डक दीनि हित्वा कुरूंश्‍च हित्वा। देवानामपि संवरः। इत्यतो गतिद्वये संवरासंवरौ विद्येते। नान्यत्रेति॥

कर्माधिकारादिदानीं सू त्रोक्तोद्दिष्टानां कर्मा(र्म)णां निर्देशं करिष्यामः। उक्तं हि सूत्रे-“त्रीणि कर्माणि कुशलमकुशलमव्याकृतं च।” तेषां लक्षणमिदमुच्यते-

[174] यदिष्टफलदं कर्म कुशलं तदुदाहृतम्।
विपर्ययेणाकुशलमव्याकृतमतोऽन्यथा॥

यत्खल्विष्टविपाकं णि(नि)र्वाणप्रा[पकं] चे(च) दुःखपरित्राणात्, तत्कालमत्यन्तं वा, तत्कुशलम्। निरुक्तिरपीयम्। निरवद्यदेवमनुष्यस्त्रीरूपनिर्वर्तणा(ना)च्छिक्षितचित्रकररूपनिर्वर्तण(न)वत्। कुशलमिव कुशलमौपमिकोऽयं शब्दनिवेशः। तद्यथा शिक्षितः पुरुषः कुशानक्षतहस्तो लुनाति स कुशल इति निरुच्यते, तद्वदन्यामपि क्रियामविकृतां संपादयन् कुशल इत्युच्यते। ‘विपर्ययेणाकुशलम्’ उष्ट्रोलूकादिवत्। ‘अव्याकृतमतोऽन्यथा’ उभयविपाकानिर्वर्तणा(ना)त्॥

अन्यान्यपि त्रीणि कर्माण्युक्तानि। पुण्यमपुण्यमानेज्यं च। तत्र तावत्

[175] कामाप्तं प्रथमं पुण्यमपुण्यमशुभात्मकम्।
ऊर्ध्वभूमिकमानेज्यं विपाकं प्रत्यनेजनात्॥

कामावचरं हि कुशलं कर्म पुण्यमकुशलमपुण्यमित्युच्यते। ऊर्ध्वभूमिकमानेज्यम्।’ तदूर्ध्वं धातुद्वये शुभं कर्मानेज्यमित्युच्यते। कस्मात्पुनरेतदानेज्यमित्युक्तम् ? ‘विपाकं प्रत्यनेजनात्।’ कामावचरं हि कर्म विपाकं प्रति कम्पते लवणोपमसूत्रण्य(न्या)येन। कथम् ? अव्यवस्थानात्। अन्यगतिकमपि ह्यन्यस्यां गतौ विपच्यते। तदन्यदेवनैकायिकं चान्यत्र देवनिकाये। यदेव हि प्रमान(ण)बलवर्णसुखभोगादिसंवर्तनीयं कर्म देवेषु विपच्येत तदेव कदाचिदन्यप्रत्ययवशान्मनुष्यतिर्यक्प्रेतेषु विपच्यते। कर्मजातिचोदनेयं भगवतो विवक्षिता न द्रव्यचोदनेति।

अत्राह। ननु च त्रीणि घ्यानानि सेञ्जितान्युक्तानि भगवता-“यदत्र वितर्कितं विचारितमिदमत्रार्या इञ्जितमित्याहुः” इत्येवमादि ? समाध्यपक्षालांस्तेषां सन्धायैवमुक्तम्। आनेज्यान्यपि तु तान्युक्तान्यानेज्यसूत्रे, आनेज्यसंप्रेयगामिनीं प्रतिपदमारभ्य॥

पुनरण्या(न्या)नि त्रीणि कर्माण्युक्तानि-“सुखवेदनीयं दुःखवेदनीयं, अदुःखासुखवेदनीयं च।” तत्र

[176] सुखवेद्यं शुभ(भं) कर्म ध्यानादर्वाक्तुरीयकात्।
उपेक्षावेद्यमन्यत्र दुःखवेद्यन्तु पापकम्॥

तत्र शुभं कर्म यावत्तृतीये घ्याने सुखवेद्यमित्युच्यते। एतावती खलु भूमिः सुखाया वेदनायाः। तदेव चतुर्थध्यानात्प्रभृत्युपेक्षावेदनीयमित्युच्यते। अकुशलं तु कर्म दुःखवेदनीयमित्युच्यते।

किं पुण(न)र्वेदनैव विपाकः ? नेत्याह। प्राधानिकोऽयं र्निर्देशं(शः)। सचतुस्कन्धसम्भारं हि सुखमभिप्रेतम्। दार्ष्टान्तिकानां तु सुखैव वेदना विपाकः चेतनैव च कर्म। आभिधार्मिकानां तु पञ्चस्कन्धो विपाकहेतुः पञ्चस्कन्धाश्‍च विपाक इति।

कथं पुनरवेदनास्वभावं कर्म सुखवेदनीयमित्युच्यते ? सुखाया वेदनाया हितं सुखवेदनीयम्। सुखाऽस्या वेदनीयो विपाक इति वा।

किं पुनरदुःखासुखा वेदना चतुर्थध्यानादधो न विद्यते ? न खलु न विद्यते। किं तर्हि?

[177] अधोऽपि मध्यमं कर्म ध्यानेनान्त्येपि निर्वृतेः।
युगपत्त्रिविपाकेष्टेर्ध्यानान्तरविपाकतः॥

अदुःखासुखवेदनीयं खलु कर्म चतुर्थध्यानादधोऽप्यस्ति तृतीये द्वितीये प्रथमे च ध्याने। परिनिर्वृते उपेक्षायां च स्थितः परिनिर्वाति। किञ्च, ‘युगपत् त्रिविपाकेष्टेः।’ उक्तं हि-“स्यात् त्रयाणां कर्मा(र्म)णामपूर्वाचरमो विपाको विपच्येत। स्यात्सुखवेदनीयस्य रूपं, दुःखवेदनीयस्य चित्तचैतसिका धर्माः, अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ताः” इति। अतोऽप्यस्त्यधस्ताददुःखासुखवेदनीयं कर्म। किञ्च, ‘ध्यानान्तरविपाकतः।’ नहि ध्यानान्तरे उपेक्षामन्तरेण विपाकोऽन्या वेदना विपच्यते। तत्र सुखदुःखयोरभावात्॥

[178] पुनश्‍चतुर्विधं कर्म दृष्टवेद्यादिभेदतः।

तदेतत्कर्म समासतो द्विविधं, नियतवेदनीयमनियतवेदनीयं च। तत्र नियतवेदनीयं त्रिविधम्। दृष्टधर्मवेदनीयमुपपद्यवेदनीयमपरपर्यायवेदनीयं च-इत्येतत् त्रिविधं कर्म नियतवेदनीयम्। चतुर्थमनियतवेदनीयम्।

तत्र दृष्टधर्मवेदनीयं यत्रैव जन्मनि कृतं तत्रैव विपच्यते। उपपद्यवेदनीयं यद् द्वितीये जन्मनि। अपरपर्यायवेदनीयं तस्मात्परेण।

अतः पुनश्‍चतुर्विधात्कर्मणः कतमेन जन्माक्षिप्यते?
जन्मनस्त्रिभिराक्षेपो दृष्टधर्माह्वयादृते॥

न खलु दृष्टधर्मवेदनीयेन कर्मणा निकायसभाग आक्षिप्यते॥
अथ कस्मिन्धातौ कस्यां वां गतौ कतिविधं कर्माक्षिप्यते ?

[179] चतुर्णामपि चाक्षेपः सर्वत्र नरकादृते।
न तत्रेष्टफलाभावाच्छुभं यस्माद्विपच्यते॥

सर्वेषु खलु त्रिषु धातुषु सर्वासु च पञ्चसु गतिषु चतुर्णामपि कर्मणामाक्षेपः कुशलानामकुशलानां च। नरकान्वर्जयित्वा। नरकेषु हि दृष्ट[धर्म]वेदनीयं कुशलं नाक्षिप्यते। तत्रेष्टविपाकाभावादन्यत् त्रिविधमाक्षिप्यते। किञ्च,

[180] नोत्पद्यवेद्यकृत्तत्र यद्विरक्तः पृथग्जनः।
स्थिरो नापरकृच्चार्यश्‍चलोऽपि भवमूलयोः॥

यतः खलु भूमेर्विरक्तः पृथग्जनः स च स्थिरो भवत्यपरिहाणधर्मा स ध(त)त्रोपपद्यवेद्यं कर्म नाक्षिपति। त्रिविधमन्यत्करोति। आर्यपुद्‍गलस्तु वीतरागो न च परिहाणधर्मा तत्रोपपद्यवेद्यमपरपर्यायवेदनीयं च कर्म न करोति। न ह्यसौ भव्यः पुनरधरिमं भूमिमायातुम्। अनियतं तु कुर्याद् दृष्टधर्मवेदनीयं यत्रोपपन्नः कामधातौ भवाग्रे च। परिहाणधर्मापि त्वार्यः कामधातौ वीतरागः, भवाग्राद्वा, तयोरुपपद्यापरपर्यायवेदनीयं कर्मकर्मा(-नीयं कर्मा) भव्यः कर्तुम्। किं कारणम् ? फलाद्ध्यसौ परिहीणो भवति। न चास्ति फलपरिहीणस्य कालक्रियेति।

अथ किमन्तराभविकः कर्माक्षिपति नाक्षिपति ? आक्षिपतीत्याह। तत्र कामावचरोऽन्तराभवः द्वाविंशतिविधं कर्माक्षिपति। पञ्च गर्भावस्थाः कललार्बुदघनपेशीप्रशाखावस्थाः। पञ्च जातावस्थाः। बाल्यकौमारयुवमध्यमस्थविरावस्थाः। ता एता नियतानियतभेदेन विंशतिराक्षिप्यन्ते, एकनिकायत्वात्। अत एवान्तराभववेदनीयं कर्म नोक्तम्। उपपद्यवेदनीयेनैव तस्याक्षेपात्॥

कीदृशं पुनः कर्म नियतं भवत्यनियतं वा ?

[181] यदार्त्ररौद्रचित्तेन कर्माभीक्ष्णं निषेव्यते।
सत्क्षेत्रे क्रियते यच्च फलं तस्य नियम्यते॥

यदि कर्म रौद्रेण तीव्रक्लेशानुगतेन चित्तेन कृतं भवति,यच्च घनश्रद्धासलिलाभ्युक्षितेन क्रियते, यच्च मृद्वप्यभीक्ष्णं निषेव्यते, यच्च किञ्चिद्‍गुणवति क्षेत्रे क्रियते शुभमशुभं वा फलं तस्य कर्मणो नियम्यते॥

अथ दृष्टधर्मवेदनीयं कर्म कीदृशमित्युच्यते-

[182] क्षेत्राशयविशेषाच्च फलं सद्यो विपच्यते।
निरोधव्युत्थितादौ च सद्यः कालफलक्रिया॥

तत्र क्षेत्रविशेषाद्यथा द(?) क्षजातकादिषु। आशयविशेषाद्यथा बकलात(?) स्योक्षणि(नि)र्मोचनादिषु।

कीदृशे पुनस्तत् क्षेत्रे विशिष्टं भवति यत्र दृष्टे धर्मे विपाको विपच्यते ? बुद्धप्रमुखस्तावद्भिक्षुसंघो। ‘निरोधव्युत्थितादौ च सद्यः कालफलक्रिया।’ पञ्चसु च पुद्‍गलेषु कृतं निरोधसमापत्त्य रणामैत्रीदर्शनमार्गादर्हत्फलाद्व्‍युत्थितेषु कारापकारा दृष्टधर्मवेदनीयफला भवन्ति। निरोधसमापत्तेः खलु व्युत्थितः परां शान्तिं लभते। निर्वाणसदृशधर्मानुभवनात्। अरणाव्युत्थितस्याप्यप्रमाणसत्त्वहिताध्याशयप्रवृत्ता सन्ततिर्वर्तते। एवं[मैत्री]व्युत्थितस्य। स्त्रौतआपन्नस्यापि निर्मलज्ञानलाभात्। अर्हतोऽपि सर्वक्लेशप्रहाणान्निर्मला वर्तन्ते॥

नियतविपाकस्य च कर्मणः शुभाशुभस्य या भूमिस्तदत्यन्तवैराग्यात्तत्कर्म दृष्टे धर्मे विपच्यत इत्यतः

[183] तद्‍भूम्यपुनरुत्पत्तेः

दृष्टधर्मवेदनीयं संगृहीतं भवति। कीदृशं पुनरेतत्कर्म ?

विपाकनियतं च यत्।

तच्चैतत्कर्म विपाकनियतं द्रष्टव्यम्।

तच्च दृष्टफलं विद्यात्

दृष्टे धर्मे खलु तस्य विपाको विपच्यते। कतरत्पुनरेतत् ?

कर्मादः परिपूरकम्॥

नाक्षेपकमिति॥

विपाकः खलु वेदनाप्रधान इत्यत इदं विचार्यते। स्यात्कर्मणश्‍चैतसिक्येव वेदना विपाको न कायिकी ? स्यात्कायिक्येव न चैतसिकी स्यादित्याह-

[184] कुशलस्याविचारस्य चैतसिक्येव वेदना।
विपाकः कायिकी त्विष्टा दुःखवेद्यस्य कर्मणः॥

कुशलं खल्वविचारं कर्म ध्यानान्तरात्प्रभृति यावद्भवाग्रम्। तस्याविचारस्य कुशलस्य कर्म[ण]श्‍चैतसिक्येव वेदना विपाकः। कस्मान्न कायिकी ? तस्याः अवश्यं सवितर्कविचारत्वात्। कायिक्येव त्वशुभस्य दुःखवेदनायस्य कायिक्येव वेदना विपाकः। कस्मान्न चैतसिकी ? चैतसिकं हि दौर्मण(न) स्यं न विपाकः।

यस्त(त्त)र्हि कर्मवशात्सत्त्वानां चित्तक्षेपः तत्संप्रयुक्ता वेदना कथं न विपाकः ? न हि तत्र चित्तं कर्मणो विपाकः। किं तर्हि ? यो महाभूतातां प्रकोपः स विपाकः। ततस्तज्जातं चित्तं विपाकशब्देनोपचर्यते॥

पुनश्चतुर्विधं कर्मोक्तम्-“अस्ति कर्म कृष्णं कृष्णविपाकम्। अस्ति शुक्लं शुक्लविपाकम्। अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम्। अस्त्यकृष्णमशुक्लमविपाकं कर्म कर्मक्षयाय संवर्तते’ इति। तत्र

[185] सपाकमशुभं कृष्णं सपाकं रूपजं सितम्।
शुभाशुभं द्विधा काये(मे) निर्मलं तत्प्रहाणकृत्॥

अशुभं खलु कर्म एकान्तेन कृष्णं क्लिष्टत्वात्। कृष्णविपाकं चामनोज्ञविपाकत्वात्। रूपाप्तन्तु शुभमेकान्तेन शुक्लम्, अकुशलेनाव्यवकीर्णत्वात्। शुक्लविपाकं च मनोज्ञविपाकत्वात्।

आरूप्याप्तं कस्मान्नोच्यते ? यत्र हि द्विविधोऽस्ति विपाकः-अन्तराभविकश्चोपपत्तिभविकश्च; त्रिविधस्य च कायवाङ्मनस्कर्मणस्तत्रैवोक्तमिति।

“कामाप्तं शुक्लं कुष्णशुक्लमकुशलव्यवकीर्णत्वात्, कृष्णशुक्लविपाकं व्यवकीर्णविपाकत्वात्।” सन्तानत एतद्‍व्यवस्थापितं न स्वभावतो न ह्येवंजातीयकमेवं कर्मास्ति विपाको वा यत्कृष्णं च स्याच्छुक्लं च, अन्योन्यविरोधात्। ननु चैवमकुशलस्यापि कर्मणः कुशलव्यवकीर्णत्वात्कृष्णशुक्लत्वं प्राप्नोति ? नावश्यमकुशलं कुशलेन व्यवकीर्यते। कामधातौ त्वस्य बलवत्वात्कुशलन्तु व्यवकीर्यते दुर्बलत्वादिति।

अनास्रवं कर्मैषां त्रयाणां कर्मणां क्षयाय प्रहाणाय संवर्तते। तद्‍ध्यकृष्णमक्लिष्टत्वादशुक्लं विपाकशुक्लताऽभावात्। आभिप्रायिकोऽप्येश(ष) [ऽ]शुक्लशब्दः। उक्तं तु भगवता महत्यां शून्यतायामशैक्षधर्माणा(ना)रभ्य-“इमे ते आनन्द, धर्मा एकान्तशुक्ला एकान्तानवद्याः” इति। शास्त्रे च-“शुक्लधर्माः कतमे ? कुशला धर्मा अनिवृताव्याकृताश्‍च।” इति। अविपाकं धात्वपतितत्वात् प्रवृत्तिविरोधाच्च।

किं पुनः सर्वमनास्रवं कर्म सर्वस्यास्य त्रिविधस्य कर्मणः क्षयाय संवर्तते ? नेच्यु(त्युच्य)ते। किं तर्हि ?

[186] चसस्रो दृक्पथा दृष्टौ चेतनाभावनापथात्।
आनन्तर्यपथाः कामे कर्मैतत्कृष्णनाशकृत्॥

[187] नवमे चेतना या तु सा कृष्णाकृष्णया[घा]तिनी।
अन्तानन्तर्यमार्गस्था ध्याने ध्याने सितस्य तु॥

तत्र दर्शण(न)मार्गे तावच्चतसृषु धर्मज्ञानक्षान्तिषु कामवैराग्ये चाष्टास्वानन्तर्यमार्गेषु या चेतना द्वादशप्रकारा सा कृष्णस्य कर्मणः प्रहाणकारी। कामवैराग्यानन्तर्यमार्गेण(णा)वसेया चेतना सा कृष्णशुक्लकर्मक्षयकारी। ध्याने ध्याने त्वानन्तर्यमार्गे पश्‍चिमे या चेतना चतुर्विधा सा शुक्लकर्मापहन्त्री।

किं पुणः(नः) कारणमन्त्येनैवानन्तर्यमार्गेण कुशलस्य कर्मणः प्रहाणं नान्येन ? न हि तस्य स्वभावप्रहाणं प्रहीणस्यापि संमुखीभावात्। किं तर्हि ? तदालम्बनक्लेशप्रहाणात्। अतो यावदेकोऽपि तदालम्बनः क्लेशप्रकारोऽस्ति तावदस्य प्रहाणं नोपलभ्यते। तच्चैतदसत्। प्रहीणं हि तत्, न तु विहीनम्। अतः समुदाचरतीति। गतमेतत्॥

सूत्र उक्तम्-“त्रीणि दुश्‍चरितानि। कायदुश्‍चरितं वाङ्मनोदुश्‍चरितम्। एवं सुचरितानि” इति। तेषां कः स्वभावः ? तत्र तावत्-

[188] कायाद्यकुशलं कर्म सर्वं दुश्‍चरितं मतम्।

सर्वमिति ससामन्तकमौलपृष्ठमित्यर्थः।

अभिध्यादीन्यपि त्रीणि मनोदुश्‍चरितत्रयम्॥

सर्वमेवाकुशलं कायकर्म कायदुश्‍चरितम्। एवं वाङ्‍मनोदुश्‍चरितम्। अकर्मस्वभावान्यपि त्वभिध्यादीनि मनोदुश्‍चरितस्वभावानि।

“अभिघ्यादय एव कर्मस्वभावानि” इति स्थितिभागीयाः। तच्च न, कर्मक्लेशैकत्वदोषात्। स्थितिभागीया णा(ना)म शाक्याः स्व(श्‍व?) लांगूलिकद्वितीयनामानः। ते खल्वभिध्यादीनि मनस्कर्मस्वभावानीच्छन्ति। तेषां कर्मक्लेशैकत्वसङ्करः प्राप्नोति। कोशकारः-“कोऽत्र दोषः” ? यदि कश्‍चित्क्लेशः कर्मापि स्याद्वायसः सारसः स्यात्। कर्मक्लेशानां चात्यन्तस्वभावप्रभावक्रियाफलभेदभिन्नानामेकत्वपरिकल्पैः सांख्यीयादिदर्शण(न)मभ्युपगतं स्यात्।

‘अपि’ शब्दात्पुनरत्र सूत्रोक्तास्त्रयो वङ्कास्त्रयो दोषास्त्रयः कषाया आकृष्यन्ते। तेषां पुनरिदं लक्षणं यथाक्रमेण। शाठ्यजं कायकर्म कायवङ्क इत्युच्यते। कुटिलान्वयत्वात्। एवं शाठ्यजं वाङ्मनस्कर्म वाङ्मनोवङ्क इत्युच्यते। द्वेषजाः पुनस्त एव त्रयो दोषा इत्याख्यायन्ते, चित्तप्रदोषान्वयत्वात्। रागजं पुनः कायकर्म कायकषाय इत्युक्तं रञ्जनात्मकत्वात्। एवं वाङ्मनःकषायौ द्रष्टव्यौ। तानि पुनः कुशलानि कायवाङ्मण(न)स्कर्माणि त्रीणि सुचरितानि बोद्धव्यानि। एतान्येव त्रीणि शौचेयाण्यु(न्यु)क्तानि।

अशैक्षसन्ताने त्रीणि मौनेयान्युच्यन्ते। तत्र कायसुचरितं कायमौनेयं वाक्सुचरितं वाङ्मौनेयं मन एव तु मिथ्यासंकल्पोपरमान्मुनिरित्याख्यायते। तदुपरमाद्धि कायवाग्जल्पोपरमो भवति। मुनेरिदं मौनेयमिति निरुक्तिः।
कस्मात्पुनरर्हत एव मौनेयाणि(नि) ? तस्य परमार्थमुनित्वात्। स खलु सर्वक्लेशजल्पोपरमान्मुनिरित्युच्यते।

एषा पुनर्मौणे(ने)यशौचेयदेशना मिथ्यामौनशौचाभियुक्तानधिकृत्यदेशितेति तदेतत्सह मौनेयशौचेयर्निर्दिष्यते॥

[189] शुभं तत्साऽनभिध्यादि प्रोक्तं सुचरितत्रयम्।
द्वयंमौलमदः कर्म मार्गा दश शुभाशुभाः॥

द्वयं पुनरेतत्सुचरितदुश्चरिताख्यं यन्मौलं ते दश शुभाश्चाशुभाश्च कर्मपथा भवन्ति प्रयोगपृष्ठवर्ज्याः।

तत्र कायसुचरितस्य प्रदेशः पृयोगपृष्ठाख्यो मद्यादिविरतिदानेज्यादिकः। वाक्सुचरितस्य पृ(प्रि)यवचनादिकः। मनःसुचरितस्य शुभा चेतना।

कायदुश्चरितस्यापि परेषां जीवितभोगदाराऽ[पहार]प्रयोगपृष्ठाख्यः। वाग्दुश्चरितस्याप्यपृ(प्रि)यवचनाद्याख्यः। मनोदुश्‍चरितस्याप्यकुशलं मनस्कर्मै..................स्तेषां नात्यौदारिकत्वात्।

यस्तु प्राणातिपातादत्तादानकाममिथ्याचारविरत्याख्यौ(ख्यो) मौलः स कुशलः कर्मपथः, तस्यौदारिकत्वेन महानुशंसतमफलत्वात्। यस्तु परेषां जीवितभोगपरदारापहारकायपरिस्पन्दः स मौलः स चाकुशलः कर्मपथः। एवं यथासंभवमन्येषां द्रष्टव्यमिति॥

[ अभिधर्मदीपे विभाषाप्रभायां [वृत्तौ] चतुर्थाध्यायस्य द्वितीयः पादः।

चतुर्थाध्याये

तृतीयपादः।

इदमिदानीं वक्तव्यम्। ये एते दशकर्मपथा एषां कति विज्ञप्तिस्वभावाः कत्यविज्ञप्तिस्वभावाः कत्युभयस्वभावाः ?

तत्राकुशलानां तावत्-

[190] कारिताः षडविज्ञप्तिर्द्व्‍यात्मैकस्तेऽपि षट् कृताः।

तत्र प्राणातिपातादत्तादानमृषावादपैशून्यपारुष्यसंभिन्नप्रलापाः। एते नावश्यं विज्ञप्तिस्वभावाः। परेण कारयतो मौलीविज्ञप्त्यभावात्। काममिथ्याचारस्तु नित्यं द्व्यात्मकः, तस्य परेणाशक्यत्वात्। तेऽपि ‘षट् कृताः, यदा स्वयमेव प्राणातिपातादीन् षट् कर्मपथान् करोति तदा द्व्यात्मानो भवन्ति। विज्ञप्त्यविज्ञप्तिस्वभावत्वात्।

कुशलानां पुनः
शुभाः सप्त द्विधा ज्ञेया एकवै(धै)ते समाहिताः॥

सप्त खलु रूपिणः कुशलाः कर्मपथाः द्विधा भवन्ति। विज्ञप्त्यधीनत्वात् समाहितशीलस्य। ध्यानानास्रवसंवरसंगृहीतास्त्वविज्ञप्तिस्वभावा एव। समाहितस्य विज्ञप्त्यभावात्।

[191] या सामन्तेष्वविज्ञप्तिः पृष्ठेषु तु विपर्ययः।

सामन्तकः खलु यदा तीव्रेण पर्यवस्थानेन प्रयोगमारभते, प्रसादेन वा घनरसेन तदा द्विस्वभावा। यदा मृदुना तदा विज्ञप्तिरेव। विपर्ययेण तु पृष्ठेष्ववश्यमविज्ञप्तिः। यदि पुनः कर्मपथं कृत्वा पुनस्तत्रवानुचेष्टते स्याद्विज्ञप्तिरपीति। तीव्रेण तु प्रहारेण जीविताद्व्यपरोपयति। तत्र या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिः स मौलः कर्मपथः। द्वाभ्यां हि कारणाभ्यां प्राणातिपातावद्येन स्पृश्यते। प्रयोगतः फलपरिपूरितश्च। तत ऊर्ध्वमविज्ञप्तिक्षणः(णाः) पृष्ठीभवन्ति। यावद्धतं पशुं कृष्णाति शोधयति विक्रीणाति पचति खादति कीर्तयति। यदि तावदस्य विज्ञप्तिक्षणा अपि पृष्ठं भवन्ति। एवमन्येष्वपि यथासंभवं योज्यम्।

अभिध्यादीनां नास्ति प्रयोगो न पृष्ठं संमुखीभावमात्रादेव कर्मपथाः।

सूत्रे भगवतोक्तम्-“प्राणातिपातो भिक्षवस्त्रिविधः। लोभजो द्वेषज मोहजः, यावन्मिथ्यादृष्टिः” इति। तत्रैषां कर्मपथानां केषाञ्चिल्लोभेन निष्ठा, केषाञ्चिद् द्वेषेण, केषाञ्चिन्मोहेन। सर्वेषामपि

प्रयोगस्तु त्रिमूलोत्थः

प्रयोगस्तेषामकुशलमूलत्रयाज्जातः। तत्र लोभजः प्राणातिपातस्तच्छरीरावयवार्थं मृगलुब्धानामौरभ्रिकमात्सिकशाकुन्तकादीनां च। द्वेषजो यथा वैरणि(नि)र्यातनार्थम्। मोहजो याज्ञिकाणां(नां) धर्मबुद्ध्या राज्ञां च धर्मपाठकप्रामान्या(ण्या)द्धिंसताम्। पारसीकादीनां च धर्मबुद्ध्या मातरं पितरमभिघ्‍नताम्।

लोभजमदत्तादानं यस्तेनार्थी तद्धरति। द्वेषजं वैरनिर्यातनार्थम्। मोहजं यथा राज्ञां धर्मपाठकप्रामाण्याद् दृष्टणि(नि)ग्रहार्थम्। यथा च दुष्टब्राह्मणा आहुः-“सर्वमिदं प्रजापतिना ब्राह्मणेभ्यो दत्तं ब्राह्मणानां दौर्बल्याद्‍वृषलाः परिभुञ्जन्ते। तस्मादपहरन् ब्राह्मणः स्वमादत्ते स्वमेव तु कोष्ठं वस्ते स्वं ददाति” इति।

लोभजः काममिथ्याचारः परदारादिषु तत्संरागादब्रह्मचर्यम्। द्वेषजो वैरणि(नि)र्यातनार्थम्। मोहजो यथा पारसीकानां मात्रादिगमनम्। गोसवे च यज्ञे “उपहा उदकं चूषयति, तृणानि च्छिनत्ति, उपैति मातरमुपस्वसारमुपस[गोत्रा]दि(मि)ति।”

मृषावादादयो लोभजा द्वेषजाश्‍च यथा पूर्वमुक्तम्। मोहजो मृषावादो यथाह-

“न नर्मयुक्तमनृतं हिनस्ति
न स्त्रीषु राजन्न विवाहकाले।

प्राणात्यये त्स(स)र्वधनापहारे
पञ्चानृतान्याहुरपातकानि॥” इति।

पैशून्यादयस्तु मिथ्यादृष्टिप्रवर्तिता मोहजा यश्‍च वेदाद्यसच्छास्त्रप्रलापः।

[अभिध्याद्यास्त्रिमूलजाः]॥

अभिध्यादयस्तु लोभादनन्तरसंभूतत्वात् त्रिमूलजाः।
उक्ताः[अ]कुशलाः कर्मपथाः।

[192] [कुशलाः प्रयोगपृष्ठाश्‍च कुशलत्रयमूलजाः]।

कुशलानां तु प्रयोगः पृष्ठं च त्रिमूलोत्थम्। तेषां कुशलचित्तसमुत्थितत्वात्, तत्र च तद्भावात्।

केन पुनरेषां कर्मपथानां समाप्तिर्भवति ? तदिदमपदिश्यते-

द्वेषेण वधपारुष्यव्यापत्तीनां समापनम्॥

प्राणातिपातपारुष्यव्यापादानां खलु द्वेषेण निष्ठा भवति। परित्यागपरुषचित्तसंमुखीभावात्॥

[193] स्तेयस्यान्याङ्गनायातेरभिध्यायाश्‍च लोभतः।

अदत्तादानपरस्त्रीगमनाभिध्यानां लोभेन निष्ठा।

मिथ्यादृशस्तु मोहेन

मिथ्यादृष्टेः खलु मोहेन समाप्तिर्भवति। अधिमात्रमूढाभिहितां निष्ठापयति।

तदन्येषां त्रिभिर्मतम्॥

के पुनरन्ये ? मृषावादपैशुन्यसंभिन्नप्रलापाः। तेषां त्रिभिरपि निष्ठा लोभेन द्वेषेण मोहेण(न) वा॥

अथैषां चतुर्णां काण्डानां किमधिष्ठाणां(नम्) ? तदुच्यते-

[194] चतुर्णामप्यधिष्ठानं ज्ञेयमेषां यथाक्रमम्।
प्राणिनश्‍चाथ भोगाश्‍च नामरूपं च नाम च॥

तत्र सत्त्वाधिष्ठाना वधादयः। भोगाधिष्ठाणाः(नाः) परस्त्रीगमनादयः। नामरूपाधिष्ठाना मिथ्यादृष्टिः। नामकायाधिष्ठाणा(ना) मृषावादादयः॥

कथं पुनः प्राणातिपातं स्वयं कुर्वतः कर्मपथो भवति कथं यावन्मिथ्यादृष्टिरिति ? लक्षणं कर्मपथानां वक्तव्यम्। तदारभ्यते-

[195] प्राणातिपातो धीपूर्वमभ्रान्त्या परमारणम्।

यदि खलु हनिष्यामि हन्म्येनमिति संचिन्त्याभ्रान्तचित्तः परं जीविताद्व्यपरोपयति, एवं प्राणातिपातो भवति। प्राणो वा वायुः कायचित्ताश्रितो वर्तते। तमतिपातयतीति प्राणातिपातः।

न, अनुपपत्तेः। विनाशानुषक्ता खलु संस्काराः प्रतिक्षणविनश्वराश्चाभ्युपगम्यन्ते। तेषामित्थंभूतानां स्थितिशक्तिक्रियाऽभावे सत्यनागतानां च तुल्यातुल्यजातीयानां निरात्मकत्वाविशेषे केन हन्त्रा किमापद्यते ?

अत्र सौत्रान्तिकाः परिहारमाहुः- “न। प्रदीपणि(नि)र्वापण(न)घण्टशब्दनिरोधवत्तत्सिद्धेः।”

न, समानत्वात्। अयं त्वत्र परिहारः-हन्तुर्हेतुसामर्थ्योपघातकरणे सत्यनागतसंस्कारशक्तिक्रियाधानविधानविघ्नकरणात् प्राणातिपातोपपत्तिः। कस्य पुनस्तज्जीवितं यस्तेन वियोज्यते, ते वा प्राणा इति ? प्रसिद्धस्य पुद्‍गलस्य योऽसावेवं नामैवं गोत्र इति विस्तरः।

अबुद्धिपूर्वादपि प्राणिवधात्कर्तुरधर्मो भवति यथाऽग्निस्पर्शाद्दाह इति नग्नाटाः। तेषां परदारदर्शण(न)स्पर्शनेऽप्येष प्रसंगः। तुष्टरुष्टनग्नाटवाह्लीकनिर्ग्रन्थशिरोलुञ्चने च।

बुद्धिपूर्वात्प्रानि(णि)वधाद्धर्मोऽपि भवतीति याज्ञिकाः। कथम् विषभक्षणवत्। तद्यथा किञ्चिद्विषभक्षणं मन्त्रपूर्वं हिताय भवति। किञ्चिदहिताय यदमन्त्रपूर्वं तद्वदिति। न। गलाम्रेडनशस्त्रनिपातमन्तरेण मन्त्रमात्रकेन पशुवधसामर्थ्यादर्शणा(ना)त्। पिष्टमयच्छागा हुतिमात्रेण पशुवधादियज्ञधर्मोत्पत्त्यसामर्थ्याच्च। किञ्च, विषस्य मारणजीवितशक्तिद्वयसामर्थ्यदर्शणा(ना)त्। तत्र मन्त्रपूर्वकं किञ्चिज्जीवयति किञ्चिद्‍दुर्गतारिष्टेषु न जीवयति। अमन्त्रपूर्वकमपि किञ्चीज्जीवयति किञ्चिन्न जीवयति। [भुक्त]विषस्यापेक्षि[क]त्वात्। किञ्च, शबरादिमन्त्राणां विषमारणाशक्त्युपघातेऽपि पापप्रणाशनशक्त्यदर्शणा(ना)त्। किञ्च, हिंसाहिंसयोर्धर्माधर्मस्वालक्षण्यापरित्यागभूतत्वात्। जुहोत्यादिक्रियाव्यङ्ग्यो धर्मः इति चेत्। न। तद्रूपासिद्धत्वात्, अभिव्यक्त्यनुपपत्तेश्‍च। क्रियामात्रमपूर्वमिति चेत्। न। क्रियाया नित्यत्वानुपपत्तेर्निरुक्त्यनुपपत्तेश्‍च॥

अत्यक्ताऽन्यधनादानमदत्तादानमुच्यते॥

अभ्रान्त्येति वर्तते। यदि बलचौर्यबुद्‍ध्या परद्रव्यं स्वीकरोति॥

[196] परस्त्रीगमनं काममिथ्याचारो विकल्पवान्।

अगम्यगमनं खल्वपि काममिथ्याचारः। स च बहुप्रकारविकल्पो भवति। अगम्यां गच्छति मातरं वा दुहितरं वा परपरिगृहीतं(तां) वा स्वामप्यनङ्गे गच्छत्यदेशे च। नियमस्थां वा। अभ्रान्त्येत्युक्तम्।

अर्थज्ञायाऽन्यथावादो द्रोहबुद्ध्‍या मृषावचः॥

वक्तृं(क्तृ)श्रोतृबुद्‍ध्यपेक्षया खलु मृषावादो भवति। यदि वक्ताऽर्थानामभिज्ञो भवति स तं विगोप्य द्रोहबुद्‍ध्याऽन्यथा ब्रूते। श्रोता च तथैवावगच्छति। तदास्य मृषावादः कमपथो भवति॥

ये खल्विमे माहकीमातृसूत्रा दिष्वष्टावनार्या व्यवहाराः प्रोक्ताः, अष्टौ चार्याः-“अदृष्टे दृष्टवादिताऽनार्यो व्यवहारः। अश्रुते, अमते, अविज्ञाते, श्रुतमतविज्ञातवादिताऽनार्यो व्यवहारः। दृष्टश्रुतमतविज्ञाते चादृष्टादिवादिताऽनार्यो व्यवहारः। विपर्ययेण त्वष्टावेवार्या व्यवहाराः।” तेषां पुनरिदं लक्षणं व्याख्यायते-

[197] दृष्टया श्रुत्यादिभिश्‍चाक्षैर्मण(न)सा यच्च गृह्यते।
दृष्टं श्रुतं मतं ज्ञातमित्युक्तं तद्यथाक्रमम्॥

यत्खलु चक्षुषाऽलोचितं चक्षुर्विज्ञानमनोविज्ञानाभ्यां चानुभूतं तद्‍दृष्टमित्युच्यते। यच्छ्रोत्रेण श्रोत्रमनोविज्ञानाभ्यां चानुभूतं तच्छ्रुतम्। यत् त्रिभिर्घ्राणजिह्वाकायैस्तद्विज्ञानमनोविज्ञानैश्‍चानुभूतं तन्मतमित्युच्यते। तेषां प्राप्यविषयग्राहित्वात्, कबडिंकाराहारविषयत्वाच्च। तत्रेष्टपर्यायवाची मतशब्दः। यत्पुनर्मनोविज्ञानेनानुभूतं तद्विज्ञातं तदध्यवसाये निश्‍चयपरिसमाप्तेः।

गतमेतत्। प्रकृतमेवानुवर्तताम्॥

यः कायेनान्यथात्वं प्रापयेत्, स्यान्मृषावादः ? स्यात्। तदपदिश्यते-स्यान्न कायेन्न(न) पराक्रमेत प्राणातिपातावद्येन च स्पृश्येत। स्याद्वाचा पराक्रमेत स्यान्न वाचा पराक्रमेत मृषावादावद्येन च स्पृश्येत। स्यात्कायेन पराक्रमेत, स्यान्न कायेन वाचा पराक्रमेत, उभयावद्येन च स्पृश्येत। स्यादृषीणां मनःप्रदोषेण प्रोषधनिदर्शणं(नं) चात्र इति।

कथं पुनर्विज्ञप्त्या विना तत्राविज्ञप्तिः कामावचरी कर्मपथो योक्ष्यते। सति हि चित्तपरिस्पन्दे महाभूततज्जकायपरिस्पन्दोऽवश्यं भावीति कर्तव्योऽत्र यत्नः।

उक्तो मृषावादः॥

[198] पैशुन्यं भेदकृद्वाक्यं

यत्खलु क्लिष्टचित्तस्य परभेदाय वचनमभ्रान्त्या तत्पैशुन्यमित्युच्यते।

पारुष्यं तु यदप्रियम्।

अभ्रान्त्या क्लिष्टचित्तस्य यद्वचनं तत्पारूष्यमिति।

क्लिष्टं संभिन्नलापित्वमन्ये गीतकथादिवत्॥

क्लिष्टं खलु सर्वं वचनं संभिन्नप्रलापित्वम्। यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तभिधाने त्वतलौ। कश्‍चासौ गुणः ? संभिन्नप्रलाप एव। स यस्यास्ति स संभिन्नप्रलापी। तद्भावः संभिन्नप्रलापित्वम्।

अन्ये पुनर्ब्रुवते। यदेतन्मृषावादादित्रिबिधं वचनं ततो यदन्यत्क्लिष्टं लपनगीतनाट्यतीर्थशास्त्रादि तत्सर्वं सभिन्नप्रलापः॥

[199] परस्वासत्स्पृहाऽभिध्या व्यापा[दः] सत्त्वगोचरः।
विद्वेषानाऽनन्तदृष्टिस्तु मिथ्यादृष्टि[रहेतुका]॥

अभिध्या तावद् द्विषतः स्पृहा। अहो बत यत्परेषां तन्मम स्यादित्येषा विषयप्रार्थणा(ना) विषमलोभाख्या अभिध्येत्युच्यते।

व्यापादः खल्वपि सत्त्वपरित्यागबुध्या प्रतिघः।

मिथ्यादृष्टिरपि हेतुं वा फलं वा क्रियां वा सद्वा वस्तु नाशयतः या दृष्टिर्मतिरित्येवमादि सा मिथ्यादृष्टिरित्युच्यते।

तया पुनर्मिथ्यादृष्ट्या प्रकर्षप्राप्तया नवप्रकारया नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते। भावनाहेयक्लेशप्रहाणवत्।

यत्तर्हि शास्त्र उक्तम्-“कतमान्यधिमात्राण्यकुशलमूलानि यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्ति ? कामवैराग्यं चानुप्राप्नुवन् यानि तत्प्रथमत उपलिखति ?” नैष दोषः। अकुशलमूलाध्याहृतत्वात्। मिथ्यादृष्टेस्तेष्वेव तत्कर्मोपचर्यते। तद्यथाऽग्निरेव ग्रामस्य दग्धा चौरास्तु तस्याध्याहारकास्तद्वदिति।

कामावचराण्युपपत्तिलम्भिकान्येव च समुच्छिद्यन्ते, प्रायोगिकेभ्यः पूर्व(र्वं) परिहीणत्वात्।

एवं ह्यूक्तं भगवता-“समन्वागतोऽयं पुरुषः कुशलैरपि धर्मैरकुशलैरपि धर्मैः” इति विस्तरः। तत्र समन्वागतोऽयं पुद्‍गलः कुशलैरपि धर्मैरविशेषेण द्विविधैः-प्रायोगिकैरुपपत्तिलाभिकैश्‍च। तेऽस्य पुद्‍गलस्य कुशला धर्मा अन्तर्धास्यन्ति, प्रायोगिकाः अनुपूर्वसमुच्छेदे, पूर्वं तद्विहानेः। अस्ति चास्य कुशलमूलमनुसहगतमनुपच्छिन्नमुपपत्तिलाभिकम्। तदप्यपरेण समयेण सर्वेण सर्वं समुच्छेत्स्यते। यस्य समुच्छेदात्समुच्छिन्नकुशलमूल इति संख्यां गमिष्यतीति। अतः सर्वाकुशलमूलभूता मिथ्यादृष्टिरिति सौगताः।

“सूक्ष्मं कुशलधर्मबीजं तस्मिन्नकुशले चेतस्यवस्थितं यतः पुनः प्रत्ययसामग्रीसन्निधाने सति कुशलं चित्तमुत्पद्यते” इति कोशकारः।

युक्त्यागमविरोधात्तन्नेति दीपकारः।

तत्र युक्तिविरोधस्तावद्विजातीयाद्धेतोर्विजातीय फलानुत्पत्तिदर्शणा(ना)द्यवबीजाच्छालिफलवद्योनिशो मनसिकारपरतः सद्‍घोषाभ्यां मिथ्यादृष्टिवच्च। चक्षूरूपाभ्यां विज्ञानवदिति चेत्। न। सभागहेतौ सति चक्षूरूपयोर्निमित्तकारणमात्रत्वा[त्], दध्युत्पत्तावातञ्चनवत्। किञ्च, विरुद्धानामन्यतरोपपत्तेश्च। न हि विरुद्धानां सुखदुःखालोकतमःप्रभृतीनां चैकत्र [संभवद]वस्थानं दृष्टम्। नापि परस्परं बीजफलाभिसंबन्धः। किञ्च, चित्तबीजैकत्वाभ्युपगमाच्च। अकुशलमेव हि चित्तं भवतां जीव(बीज)मिष्टम्। तस्य कुशले चित्तक्षणे विरुद्धक्रिये च चित्तान्तरे बीजलेशानुपपत्तिः। उक्तोत्तरत्वाच्च। विस्तरेण ह्यत्रोत्तरमुक्तम्। तत्स्मर्यतामिति।

आगमविरोधोऽपि, “सर्वं सर्वेण च्छे[त्स्य ते” इति ...........च्य]मानं बीजमवस्थितं गंस्यते। इति।

व्याख्याताः सलक्षणाः कर्मपथाः॥

कः पुनः सलक्षणः कर्मपथार्थः ? कर्म च कर्मणश्च चेतनाख्यस्य पन्थान इति कर्मपथाः। तत्र सप्त कर्म च कर्मणश्च पन्था[इ]ति कर्मपथाः, त्रयस्त्वभिध्यादयः कर्मणः पन्थानो न कर्म। चेतना [हि तत् संप्रयोगिणी भवति।] संप्रयुक्ता[तद्वषे(शे)ण(न)गच्छ]त्यभिसंस्करोतीत्यर्थः। सा तु कर्मैव न कर्मपथः। न ह्यसौ त्रयाणां वशेन वर्तते। इदमुच्यते-

[200] चेतना न क्रियामार्गस्तैस्तु सत्ता प्रवर्तते।

कतिभिः पुनः कर्मपथैः सार्धं चेतना युगपदुत्पन्ना वर्तते ? तदारभ्यते-

युगपद्याव[दष्टा]भिरशुभैश्‍चेतनैः सह॥

[एकेन तावत्सह वर्तते। विनान्येनाभिध्यादिसंमुखीभावे अक्लिष्टचेतसो वा तत्प्रयोगेण रूपिणामन्यतमनिष्ठागमने।

द्वाभ्यां सह वर्तते। व्यापन्नचित्तस्य प्राणिवद्ये। अभिध्याविष्टस्य चादत्तादाने काममिथ्याचारे संभिन्नप्रलापे वा।

त्रिभिः सह। व्यापन्नचित्तस्य परकीयप्राणिमारणापहरणे युगपत्। अभिध्याविष्टस्य तत्प्रयोगेण रूपि[द्वयनिष्ठागमने त्रिभिरेव]।

[चतुर्भिः सह वर्तते। भेदा]भिप्रायस्य नन्दनवचने परुषवचने वा। तत्र हि मानस एको भवति वाचिकास्त्रयः। अभिध्यादिगतस्य वा तत्प्रयोगेऽण्य(न्य)त्रयन्नि(नि)ष्ठागमने।

एवं पञ्चषटि(ट्)सप्तभिर्योज्यम्।

अष्टाभिः सह वर्ते(र्त)त(ते)। षट्‍सु प्रयोगं कृत्वा परे संप्रेषणेन स्वयं काममिथ्याचारं कुर्वतः समनिष्ठागमने। एवं [तावदकुशलः]॥

[201] [शुभैस्तु] दशभिर्यावत्सार्वं(र्धं) नैकाष्टपञ्चभिः।

शुभैः खलु कर्मपथैर्यावद्दशभिः सह वर्तत इत्युत्सृष्टिः। तदपवादोयम्-‘नैकाष्टपञ्चभिः’। न खल्वेकेन पञ्चभिरष्टाभिर्वा सह वर्तते।

तत्र द्वाभ्यां सह वर्तते। कुशलेषु पञ्चसु विज्ञानेषु स्थितस्यारूप्यसमापत्तिसंगृहीते च क्षयानुत्पादज्ञानसंप्रयुक्ताविज्ञानं तत्सं[प्रयुक्ता च] प्रज्ञानदृष्टिरिति।

त्रिभिः सह वर्तते। सम्यग्दृष्टिसंप्रयुक्ते मनोविज्ञाने। यत्र संवरो णा(ना)स्ति।

चतुर्भिरकुशलाव्याकृतचित्तस्योपासकस्य श्रामणेरसंवरसमादाने।

षड्‍भिः कुशलेषु पञ्चसु विज्ञानेषु तत्समादाने।

सप्तभिः कुशले मनोविज्ञाने तत्समादान एव। अकुशलाव्याकृतचित्तस्य [च भिक्षु]संवरसमादाने।

[नवभिः] कुशलेषु पञ्चसु विज्ञानेषु तत्समादाने, क्षयानुत्पादज्ञानसंप्रयुक्ते च मनोविज्ञाने तस्मिन्नेव च ध्यानसंगृहीते।

दशभिस्ततोऽन्यत्र कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव। सर्वा च ध्यानानास्रवसंवरसमावर्तिनी चेतनाऽन्यत्र क्षयानुत्पादज्ञानाभ्याम्। संवर[निर्मुक्तेन त्वेकेनापि सह स्यादन्यचित्तस्यै] काङ्गविरतिसमादाने। पञ्चाष्टाभिरपि स्यात्। कुशलमनोविज्ञानस्य द्विपञ्चाङ्गसमादाने युगपत्।

कस्यां पुनर्गतौ कति कुशलाश्चाकुशलाश्च कर्मपथाः संमुखीभावतः समन्वागतो वा सन्तीति ?

विलापद्वेषपारुष्याण्यु(णि)ष (स)न्ति नरके द्विधा॥

एते त्रयः संभिन्नप्रलापपारूष्यव्यापादा नारके [संमुखीभाव] तः समन्वागमतश्च विद्यन्ते।

[202] तद्वदेव मताऽभिध्या मिथ्यादृष्टिस्तथैव च।

केचित्खलु ब्रुवते-अभिघ्या मिथ्यादृष्टिश्‍चापि द्वाभ्यां प्रकाराभ्यां विद्येते।

अन्ये पुनराहुः- समन्वागमत एवाभिध्यामिथ्यादृष्टी विद्येते। रञ्जनीयवस्त्वभावात्, कर्मफलप्रत्यक्षत्वाच्च।

तच्चैतदकारणम्। तत्र तावत्तृष्णाऽविद्याऽधिमात्रतमत्वादिति [पूर्व]मपाक्षिकः।

अभिध्यादित्रयं तद्वत्कुरौ प्रलपनं द्विधा॥

कुरौ खल्वेवमेव त्रयोऽभिध्याव्यापादमिथ्यादृष्टयः।

अन्ये पुनराहुः-समान्वागमत एव न संमुखीभावतः अममापरिग्रहत्वात्, स्निग्धसन्तानत्वादाघातवस्त्वभावादपापाशयत्वाच्च॥

[203] अशुभास्तु दशान्यत्र

नरकोत्तरकुरुभ्यां कामधातौ द्वाभ्यां प्रकाराभ्यां दशाशुभा विद्यन्ते।

सर्वत्र कुशलास्त्रयः।

शुभास्तु ‘त्रयः’। त्रयोऽनभिध्याऽव्यापादसम्यग्दृष्टयः सर्वत्र त्रैधातुके पञ्चस्वपि गतिषु द्वाभ्यां प्रकाराभ्यां सन्तीति।

आरूप्याऽर्याऽसंज्ञिनां च रूपिणः सप्त लाभतः॥

आरूप्येषु खल्वार्याणामेवातीतानागतेनानास्रवसंवरेण समन्वागमोऽस्त्यसंज्ञिनां च। ध्यानसंवरेण यावद्‍भूभ्याश्रयं ह्यनास्रवशीलमार्य उत्पादितनिरोधितं कृत्वा आरूप्येषूपपन्नो भवति तेनातीतेन समन्वागतो भवति। षड्भूभ्याश्रयेणानागतेनापि, न तु संमुखीभावतः, आरूप्याणां चतुस्कन्धात्मकत्वादसंज्ञिसत्त्वाणां(नां) चाचित्तकत्वात्। भूतचित्तप्रतिबद्धो हि तत्संवरसंमुखीभावः॥

[204] कुरून्सनरकान्हित्वा सर्वत्रान्यत्र ते द्विधा।

कुरून् हित्वा नरकांश्च। अन्यत्र गतौ संमुखीभावतो ह्येते सप्त कुशलाः कर्मपथा विद्यन्ते। संवरनिर्मुक्ता एव तु तिर्यक्प्रेतेषु। संवरसंगृहीता एव रूपधातावन्यत्रोभयथा।

ते खल्वेते द्विविधा कर्मपथाः

सर्वे विपाकनिष्यन्दाधिपत्यफलदा दश॥

तत्राकुशलैः सर्वैरासेवितैर्भावितैर्बहुलीकृतैर्नरकेषूपपद्यते तदेषां विपाकफलम्। सचेदित्थत्वमागच्छति स मनुष्याणां सभागताम्, प्राणातिपातेनाल्पायुष्को भवति। अदत्तादानेन भोगव्यसनी। काममिथ्याचारेण सपत्नदारः। मृषावादेनाभ्याख्यानबहुलः। पैशून्येनादृढमित्रः। पारुष्येना(णा)मनोज्ञशब्दश्रावी। संभिन्नप्रलापेनानादेयवाक्यः। अभिघ्यया तीव्ररागः। व्यापादेन तीव्रद्वेषः। मिथ्यादृष्ट्या तीव्रमोहः। इतीदमेषां णि(नि)ष्यन्दफलम्।

प्राणातिपातेनात्यासेवितेन बाह्या भावा अल्पौजस्का भवन्ति। अदत्तादानेन परीत्तफला अल्पसस्या अशनिबहुलाः। काममिथ्याचारेण रजोऽवकीर्णाः। मृषावादेन दुर्गन्धाः। पैशून्येनोत्कूलनिकूलाः। पारुष्येन(ण) दुःस्पर्शाः कण्डुकप्रायाश्च। संभिन्नप्रलापेन विषमपरिणामाः। अभिध्यया पचितफलाः। व्यापादेन कटुकर्मफलाः। मिथ्यादृष्ट्या बीजादपकृष्टफला अफला वा। इदमेषामाधिपत्यफलम्।

तत्पुनरेतत्

[205] दुःखोपसंहृतेर्दुःखमल्पायुष्ट्‍वन्तु मारणात्।
तेजोनाशात्कृशौजस्त्वमिदं तत्त्रिविधं फलम्॥

यत्तेन परस्य दुःखा वेदना जनिता ततोनरकेषूपपद्यते। यदिष्टं जीवितमुपच्छिन्नं ततोऽल्पायुः। यत्तेजो नाशितं तेन बाह्या भावाः कृशौजसः। एवमन्येषामपि योज्यम्।

कुशलानामपि कर्मपथानामेवमेव तत्फलत्रयं विपर्ययेण लक्षयितव्यम्। प्राणिवधविरत्या सेवितया देवेषूपपद्यते। सचेदित्थत्वमागच्छति मनुष्याणां सभागतां दीर्घायुर्भवति। तदाधिपत्येनैव बाह्या भावा महोजसो भवन्तीति। सर्वं विपर्ययेण द्रष्टव्यम्॥

अत्र पूर्वं याणि(नि) पञ्च फलान्युक्तानि तेषां कतरत्कर्म कतिभिः फलैः सफलम् ?

[206] आनन्तर्यपथे कर्म फलवत्पञ्चभिः फलैः।
चतुर्भिस्त्वमलेनार्यं तद्वदन्यच्छभाशुभम्॥

प्रहाणमार्गे समले पञ्चभिः फलैः कर्म सफलं भवति। तुल्या अधिका अपि तस्य पश्चादुत्पन्नाः सदशा धर्मा णि(नि)ष्यन्दफलम्। विपाकफलं स्वभूमिनियतो विपाकः। विसंयोगफलं यत्क्लेशप्रहाणम्। पुरुषकारफलं ये तद्‍बलसमुत्पन्ना धर्माः। न तथा सहभुवः। यच्चानन्तरोत्पन्नो विमुक्तिमार्गः, यच्चानागतं भाव्यते, यच्च तत्प्रहाणं तद्‍बलेन हि तत्प्राप्त्यु पत्तिः। अधिपतिफलं स्वभावादन्ये सर्वसंस्काराः पूर्वोत्पन्न वर्ज्जा इति द्रष्टव्यम्। प्रहाणमपि तन्मार्गस्याधिपतिफलं युज्यते। तदाधिपत्येन तत्साक्षात्करणादित्यन्ये। यत्तु निर्मलप्रहाणमार्गे कर्म तच्चतुर्भिः फलैः सफलं विपाकफलं मुक्त्वा। ‘तद्वदन्यच्छुभाशुभम्।’ अन्यदपि सास्रवं यच्छुभाशुभम्, यच्च प्रहाणमार्गादन्यत्कुशलसास्रवं[कर्मं] यच्चाकुशलं तदपि चतुर्भिरेव फलैः सफलं विसंयोगफलं त्यक्त्वा॥

[207] ततोऽन्यन्निर्मलं ज्ञेयं त्रिभिरव्याकृतं तथा।

शेषं पुनरणा(ना)स्रवं यत्प्रहाणमार्गादन्यत्, यच्चाव्याकृतं तत्त्रिभिर्विपाक[वि]संयोगफलं मुक्त्वा।

फलं शुभस्य चत्वारि द्वे त्रीणि च शुभादयः॥

कुशलस्य कर्मणः कुशला धर्माश्चत्वारि फलानि विपाकफलं हित्वा। अकुशला द्वे पुरुषकाराधिपतिफले। अव्याकृतास्त्रीणि निष्यन्दविसंयोगफले हित्वा॥

[208] शुभाद्यास्त्वशुभस्य द्वे त्रीणि चत्वारि च क्रमात्।

अकुशलस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफले। अकुशलास्त्रीणि विपाकविसंयोगफले हित्वा। अव्याकृताश्‍चत्वारि विसंयोगफलं हित्वा। अव्याकृतमपि ह्यकुशलानां निष्यन्दफलमस्ति। यथा कामावचरे सत्कायान्तर्ग्राहदृष्टी। सर्वेषां दुःखदर्शण(न)प्रहातव्याणां(नां) समुदयदर्शण(न)प्रहातव्याणां(नां) च सर्वत्रगाणा(ना)म्।

अव्याकृतस्य ते तु द्वे त्रीणि त्रीणि शुभादयः॥

अव्याकृतस्य कर्मणः कुशला धर्माः द्वे पुरुषकाराधिपतिफले। अकुशलास्त्रीणि विसंयोगफले हित्वा। अव्याकृतस्य तान्येव त्रीणि॥

[209] सर्वे चत्वार्यतीतस्य मध्यमस्य च भाविनः।
मघ्यमा द्वे स्वकस्यैव त्रीण्यनागामिजन्मनः॥

तत्र ‘सर्वे’ इति त्रैकालिकाः। अतीतस्य कर्मणोऽतीतानागतप्रत्युत्पन्ना धर्माश्‍चत्वारि फलानि विसंयोगमपास्य। प्रत्युत्पन्नस्यापि कर्मणोऽनागता धर्माश्‍चत्वारि फलान्येतान्येव। वर्तमानास्तु धर्मा वर्तमानस्य कर्मणः द्वे पुरुषकाराधिपतिफले। अजातस्य त्वजाता धर्मास्त्रीणि फलानि निष्यन्दविसंयोगफले हित्वा॥

[210] चत्वार्येकभुवो द्वे वा त्रीणि चापरभूमिकाः।

स्वभूमिका धर्माः कर्मणो यथासंभवं चत्वारि फलानि विसंयोगफलं हित्वा। अन्यभूमिका धर्माः ते चेदनास्रवास्त्रीणि, विपाकविसंयोगफले हित्वा। निष्यन्दफलं ह्यधातुपतितानामन्यभूमिकं न वार्यते। सास्रवाश्‍चेद् द्वे, पुरुषकाराधिपतिफले।

शैक्षाद्यास्त्रीणि शैक्षस्य त एवाशैक्षकर्मणः॥

शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणि फलानि, विपाकविसंयोगफले हित्वा। अशैक्षा अप्येवम्। नैवशैक्षाणा(ना)शैक्षास्त्रीण्येव निष्यन्दविपाकफले हित्वा॥

अशैक्षस्य तु कर्मणः

[211] एकं त्रीणि द्वयं चैव शैक्षाद्याः पश्‍चिमस्य तु।
द्वे द्वे पञ्च यथासंख्यं

अशैक्षस्य खलु कर्मणः शैक्षा धर्मा एकमधिपतिफलम्, अशैक्षास्त्रीणि विपाकाविसंयोगफले हित्वा। नैवशैक्षाणा(ना)शंक्षा द्वे पुरुषकाराधिपतिफले। नैवशैक्षानाशैक्षाणां पुनः शैक्षा धर्मा द्वे पुरुषाकाराधिपतिफले। एवमशैक्षाः। नैवशैक्षानाशैक्षाः पञ्चफलानि।

दृग्घेयस्य तु कर्मणः॥

[212] त्रीणि चत्वारि चैकं च दृष्टिहेयादयः स्मृताः।

दर्शण(न)हेयस्य खलु कर्मणः दर्शण(न)हेया धर्मास्त्रीणि फलानि, विपाकविसंयोगफले हित्वा। भावनाहेयाश्चत्वारि, विसंयोगफलं हित्वा। अप्रहेया एकमधिपतिफलम्।

ते त्वभ्यासप्रहेयस्य द्वे चत्वारि त्रिधा मताः॥

[213] क्रमादेकद्विचत्वारि ते त्वहेयस्य कर्मणः।

भावनाहेयस्य खलु कर्मणो दर्शण(न)हेया धर्माः द्वे, पुरुषकाराधिपतिफले। भावनाहेयाश्चत्वारि विसंयोगफलं हित्वा। अप्रहेयास्त्रीणि, विपाकनिष्यन्दफले हित्वा। अप्रहेयस्य तु कर्मणो दर्शण(न)प्रहातव्या धर्मा एकमधिपतिफलम्। भावनाहेया द्वे, पुरुषकाराधिपतिफले। अप्रहेयाश्चत्वारि विपाकफलं हित्वा॥

अथ किमेकं कर्मैकं जन्माक्षिपति, अथानेकम् ? तदादर्श्यते-

एकेनाक्षिप्यते[जन्म] भूरिभिः परिपूर्यते॥

एकेन खलु कर्मणा सकलमेकं जन्माक्षिप्यते। बहुभिस्तु परिपूर्यते। तद्यथा चित्रकर एकया वर्त्या कत्स्नं रूपमाक्षिपति, बह्वीभिः परिपूरयति तद्वदिति।

अथ यदुक्तं भगवता-“कर्मस्वकोऽयं भिक्षवो लोकः” इति। तत्केयं कर्मस्वकता नाम ? तदारभ्यते-

[214] कुशलं वाऽथवा पापं यदतीतं ददत्फलम्।
स्वं कायवाङ्मनस्कर्म सा कर्मस्वकता मता॥

यत्खलु कायवाङ्मनस्कर्म स्वयं कृतं कुशलाकुशलमभ्यतीतं ददत्फलं सा कर्मस्वकता द्रष्टव्या॥

कथं पुनः प्रतिक्षणभिदुरेषु संस्कारेषु परस्पराकृतसङ्केतेषु सत्सु, असति च नित्ये कर्त्तरि भोक्तरि च कर्मस्वकताऽभिधीयते ? तदत्र प्रतिसमाधीयते-

[215] संवृत्या स्कन्धसन्ताने तत्क्रियाफलदर्शणा(ना)त्।
कर्त्तृता भोक्तृता चोक्ता निषिद्धा शाश्‍वतस्य तु॥

स्वात्माभ्युदयविशेषार्थः खलु कर्मारभ्यते। कश्चिदहं विशिष्टज्ञानविज्ञानसौख्यरूपकान्तिलावण्य(ण्य)सौष्ठवयुक्तं जन्म प्रतिलभेयेति। शाश्वते त्वात्मनि निष्क्रिये पूर्वपश्चाद्विशेषाभावात् कर्त्तृत्वं चात्यन्तापध्वस्तयुक्तिविधानम्। स्कन्धसन्ताने तु विशिष्टस्कन्धान्तरोत्पत्तौ सत्यां बीजजलाभिषेकाद्यनुग्रहा[द्] विशिष्टफलोत्पत्तिवदिति। पूर्वमेवाविष्कृतमेतदिति॥

इदमिदानीं वक्तव्यम्।

[216] स्यात्कर्मस्वकता नास्ति तस्य चेति चतुष्किका।

स्यात्खलु कर्मस्वकता नापि च तस्य कर्मणो विपाकेऽवस्थित इति चतुष्कोटिका।

प्रथमा तत्फलस्थस्य विहाणा(ना)त्तस्य कर्मणः॥

यदि तस्य कर्मणः फलेऽवस्थितस्तच्च कर्म विहीनं भवति॥

[217] द्वितीया तत्फलस्थस्य कर्मणा तेन चान्वयात्।
तृतीयोभययुक्तस्य चतुर्थ्यनुभयस्य तु॥

[218] स्यात्कर्मस्वकता नापि तत्फलं वेदयिष्यति।

द्वितीया चतुष्कोटिका। तत्र प्रथमा कोटिः-

तत्फलावस्थितस्याद्या ज्ञेया तच्चरमे फले॥

[219] द्वितीया ध्रुवपाकस्य तद्विपाकानवस्थिते।
तृतीया द्वयसद्भावा चतुर्थी तूभयं विना॥

तृतीया चतुष्कोटिका-

[220] स्यात्कर्मणान्वितश्‍चैव नो च तत्फलवेदनम्।

स्यात्खलु कर्मणा समन्वागतो न च तस्य कर्मणः फलं वेदयते। चतुष्कोटिका।

आद्या दत्तविपाकेन निरुद्धानागतादिना॥

[221] द्वितीया तु विहीणे(ने)न ध्रुवपाकेन कर्मणा।
तृतीया द्वयमुक्तस्य चतुर्थी तु द्वयादृते॥

अथ यदिदं शास्त्रि(स्त्रे) योगविहितमयोगविहितं च कर्मोक्तं तस्य किं लक्षणम् ? तदभिधीयते-

[222] अयुक्तविहितं कर्म क्लेशोपक्लेशदूषितम्।
शिक्षालिङ्गाद्यपेतं च केचिदाहुर्विपश्‍चितः॥

यत्किञ्चित्खलु क्लिष्टं कायवाङ्मनस्कर्म क्लेशोपक्लेशदूषितं सर्वं तदयोगविहितम, अयोनिशोमनस्कारसमुत्थापितत्वात्। अन्ये पुनर्ब्रुवते-यत्खलु शिक्षाव्यपेतं यथा गन्तव्यं स्थातव्यमित्येवमादि, यत्तु लिङ्गवचनहीनमसंबद्धं निरर्थकं च वाक्कर्म तदयोगविहितम्। विधिभ्रष्टत्वादिति। विपर्ययाद्योगविहितं द्रष्टव्यमिति॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थस्याध्यायस्य तृतीयः पादः॥

चतुर्थाऽध्याये

चतुर्थपादः।

अथैतां परमगम्भीरां दुरवबोधां प्रकृतिपुरुषेश्‍वरादिकुदर्शण(न)तिमिरोत्सादनकरीं कर्मस्वकतां कः स्वयमभिसंबुद्ध्य लोकानुग्रहाय प्रदर्शयतीति ? ब्रूमः। पुरुषो(षः) तु सो बोधिसत्त्वः।

स पुनः किं चित्तोत्पादात्प्रभृति बोधिसत्त्वो भवति ? अथ लाक्षणिककर्माक्षेपेण, आहोस्विच्चरमभविक इति ? अत इदं प्रस्तूयते-

[223] बोधिसत्त्वः कुतो यावदविवर्त्यमना यतः।
बघ्नाति बोधिसन्नाहमङ्गीकृत्वा जगद्धितम्॥

यतः प्रभृति कल्याणमित्रं भगवन्तं सम्यक्संबुद्ध[माप]द्य तदुपदर्शितदक्षिणमार्गः योनिशो मनसिकाराधिष्ठितबुद्धिः कृत्स्नं लोकमत्राणमशरणमपरायणं पञ्चगतिमहावर्ते जातिजराव्याधिमरणादिदुःखक्षाराम्भसि, कर्मराक्षसाधिष्ठिततीरे, पापमित्रकुम्भीरानुबद्धबेले, रूपादिविषयविकल्पपवनोद्धततृष्णातरङ्गे, मोहकर्णधारपरिभ्रामितबुद्धिनौके संसारमहासमुद्रे निमग्नमवलोक्य कृपाविष्टचेतास्तदभ्युद्धरणाय वीर्यबाहुमभिप्रसार्य, अविवर्त्यं चित्तमेवमुत्पादयति-अविद्यान्ध[:]कारोपहतबुद्धिनयनोऽयं लोकः स मया सम्यग्दृष्टिप्रभावभासितेन शीलसंक्रमेणोत्तारयितव्यः। प्रतिघभुजङ्गदंष्ट्रा विषदूषितोऽयं लोकः स मया मैत्र्यागदेन प्रशमितव्यः। तृष्णापिशाचीललिताभिभूतमतिरयं लोकः स मया शमथबलेन तृष्णानिरोधसुखं लम्भयितव्यः। परामर्शभूतग्रहाविष्टोऽयं लोकः स मया विमोक्षसुखस्वस्त्ययनेन निर्भयममृतपदं प्रवेशयितव्यः। मानगिरिशिखराधिरूढबुद्धिरयं लोकः स मया कर्मस्वकताज्ञानवज्रेण मानगिरीन्विचूर्ण्य प्रशान्तमानमदामर्शशान्तिपदे स्थापयितव्यः। विचिकित्साकथंकथीभावशल्यविद्धहृदयोऽयं लोकः स मया प्रतीत्यसमुत्पादप्रविचयशलाकया काङ्क्षाशल्यमुत्पाट्यामृतरसं पाययितव्यः। जराव्याधिमरणमकरदंष्ट्रान्तर्गतोऽयं लोकः स मया सर्वानर्थवियुक्तं निर्वृतिसुखं प्रापयितव्यः। श्रद्धादिगुणधनदरिद्रोऽयं लोकः स मया बोध्यङ्गरत्नखचिते महति गुणैश्‍वर्यपदे सन्निवेशयितव्यः। इत्येतस्मादविवर्त्याद् बोधिचित्तोत्पादात्प्रभृति बौधिसत्त्वो वक्तव्य इत्याचार्यकम्॥

यत्तर्हि शास्त्र उक्तम्-“बोधिसत्त्वः कुतः प्रभृति ? यतो लक्षणवैपाक्यं कर्म करोति” इति। नैष दोषः। यस्मादसौ-

[224] यदा लाक्षणिकं कर्म प्रकरोत्यनपायगः।
महाकुलः समग्राक्षः स्वपर्षत्संग्रहे रतः॥

[225] पुमाञ्जातिस्मरो वाग्मी प्रज्ञावीर्यक्रियान्वितः।

यदा खल्वयं पुरुषत्वजातिस्मरत्वादिषु पदस्थानेषु नियतीभतो भवति-

तदा देवमनुष्याणामभिव्यक्तिं निगच्छति॥

अतो ज्ञानप्रस्थानेऽस्मादवघेः प्रभृति बोधिसत्त्वः अनेनाभिप्रायेण पठितः।

[226] स हि त्रिभिरसंख्येयैर्धर्मकायगुणार्णवम्।
प्रचिनोति तदाधारं कायं कल्पशतेन तु॥

[227] द्वात्रिंशल्लक्षणोपेतमशीतिव्यञ्ज नोज्ज्वलम्।
द्विषतामपि यं दृष्ट्वा मनः सद्यः प्रसीदति॥

एषा खलु धर्मता यत्त्रिभिः कल्पासंख्येयैरणि(नि)रस्तश्रद्धाशीलश्रुतत्यागप्रज्ञादिगुणधनैश्‍वर्यप्रयोगाणां(नां) भगवतां सम्यक्संबुद्धानां पुरुषोत्तमानां धर्मकायचरणपरिसमाप्तिर्भवति। कल्पशतेन खड्‍गविषाणकल्पानां प्रत्येकबुद्धानाम्। षष्ठ्या कल्पैः प्रज्ञावतामग्र्याणाम्। चत्वारिंशद्भिः ऋद्धिमच्छ्रेष्ठानाम्। विंशतिभिः कल्पैः श्रुतधरप्रवराणां धर्मकायचरणपरिपूरिर्भवति।

यत्पुनर्जन्मशरीरं भगवतां सम्यक्संबुद्धानां बोधेराश्रयभूतं द्वात्रिंशता महापुरुषलक्षणैः खचितमशीत्यानुव्यञ्जनैर्विराजितम्, यत्खलु दृष्ट्वा स्वविकल्पसमुत्थितप्रतिघदूषितबुद्धी नामपि मारपक्ष्याणां तीर्थ्याणां च मनः प्रसीदति।

कानि पुनस्तानि द्वात्रिंशन्महापुरुषलक्षणानि ? कानि वाशीत्यनुव्यञ्जनानि ? तदिदं प्रदर्श्यते-

तत्र तावदमूनि द्वात्रिंशन्महापुरुषलक्षणानि-

बुद्धा हि भगवन्तः सममहीतलाक्रमणात् सुप्रतिष्ठित[पा]दाः॥१॥
सहस्रारसनाभिकसनेमिकसर्वाकारपरिपूर्णचक्राङ्कितपाणिपादत्वाच्चक्राङ्कहस्तपादाः॥२॥
आयतहस्तपादाङ्‍गुलित्वाद्दीर्घाङ्‍गुलयः॥३॥
दीर्घायतत्वादायतपार्ष्णिपादाः॥४॥
तूलपिचुतरुणसुकुमारोपमकोमलकरचरणत्वान्मृदुतरुणपाणिपादाः॥५॥
अभिताम्राष्टापदविचित्रतनुजालावनद्धत्वादभिजातहंसराजवज्जालावनद्धपादाः॥६॥
उच्चैः सुजातगुल्फत्वादुच्छङ्कुचरणाः॥७॥
अनुपूर्वोपचितवृत्ततरगर्भैणेयमृगजङ्घत्वादैणेयजङ्घाः॥८॥
प्रांशुबाहुत्वादनवनतकायजानुमण्डलस्पर्शिनः॥९॥
परमाभिरूपनिर्गूढपुरुषनिमित्तत्वादभिजातहस्त्यश्‍वाजानेयवत्कोशगतवस्तिगुह्याः॥१०॥
कायव्यामसमायामत्वान्न्यग्रोधपरिमण्डलाः॥११॥
अनुपूर्वोर्ध(र्ध्व)मुखजातत्वादूर्ध्वाङ्गरोमाणः॥१२॥
सुविभक्ताद्वितीयनीलजातरोमत्वादेकैकाभिनीलप्रदक्षिणावर्तरोमानः(णः)॥१३॥
उत्तप्तहाटकसन्निभदृग्व्याममात्रप्रभावभासनात् सुवर्णवर्णाः॥१४॥
सुपरिकर्मीकृतरजतजातरूपश्‍लक्ष्णच्छवित्वाद्रजोमलानुपक्लेशनाच्च सूक्ष्मच्छवयः॥१५॥
समुपचितहस्तपादांसग्रीवत्वात्सप्तोत्सदकायाः॥१६॥
काञ्चनशिलातलश्‍लक्ष्णोपचितोरस्कन्धाच्चितान्तरांसाः॥१७॥
सिंहवद्विस्तीर्णसंहतोर्ध्वाङ्गत्वात्सिंहपूर्वार्धकायाः॥१८॥
अवक्रोपचितदशतालसमुच्छ्रितत्वाद् बृहदृजुगात्राः॥१९॥
समन्तोपचितमांसनिर्गूढजत्रुदेशत्वात्सुसंवृत्तस्कन्धाः॥२०॥
अधस्तादुपरिष्टाच्च समदन्तविंशतित्वाच्चत्वारिंशद्दन्ताः॥२१॥
अनुन्नतावनतसमप्रमान(ण)त्वात्समदन्ताः॥२२॥
निरन्तरावस्थितत्वादविरलदन्ताः॥२३॥
कुन्देन्दुशङ्खावभेदसितत्वाच्छक्लदन्ताः॥२४॥
श्‍लक्ष्णवृत्तोपचितदर्शणी(नी)यमहाहनुत्वात्सिंहहनवः॥२५॥
वातपित्तश्‍लेष्माऽण(न)भिभूतरसहरणिरसारसप्रविभावनासदृशविज्ञानत्वाद्रसनरसाग्रप्राप्ताः॥२६॥
विस्तीर्णपेशलत्वाज्जिह्वायाः सर्वमुखमण्डलप्रतिच्छादनात्प्रभूततनुजिह्वाः॥२७॥
गम्भीरवल्गुहृदयङ्गमविस्पष्टश्रवणीयपञ्चाङ्गोपेतस्वरत्वाद्‍ब्रह्मस्वराः॥२८॥
कलविङ्कमनोज्ञभाषिणो दुन्दुभिस्वरणि(नि)र्घोषाः॥२९॥
शुक्लकृष्णप्रदेशानुपक्लिष्टलोहितराज्यविनद्धनीलोत्पलसमानवर्णत्वादभिनीलनेत्राः॥३०॥
अधरोर्ध्वावस्थितानां सम्यगवनतासंलुडितदीर्घत्वादक्षिपक्ष्माणां गोपक्ष्माणः॥३१॥
वृत्तपरिमण्डलसमानुपूर्वोपचितदर्शणी(नी)यास्थिवज्रजातमूर्धत्वादुष्णीषालङ्‍कृतशिरसः शङ्खावदातप्रदक्षिणावर्तोर्णाविद्योतितभ्रूविनतत्वादूर्णाङ्कितमुखाः॥३२॥

एतानि द्वात्रिंशन्महापुरुषलक्षणानि बुद्धानां भगवतामिति॥

अशीत्यनुव्यञ्जनान्यप्युच्यन्ते। बुद्धा हि भगवन्तः
अपृथुप्रमाणमृदुताम्रतुङ्गस्निग्धनखाः॥१॥
वृत्तनिरन्तरानुपूर्वोपचिताङ्गुलयः॥२॥
निर्ग्रन्थिनिर्गूढाल्पतनुशिराप्रतानाः॥३॥
निर्गूढसमातीक्ष्णगुल्फाः॥४॥
अविश(ष)मावक्ररक्तस्निग्धपादाः॥५॥
[मृग]पतिद्विरदवृषभहंसराजप्रदक्षिणावर्तचारुगतयः॥६॥
अलोमसाश्‍लेषसमप्रमाणोभयजङ्घाः॥७॥
सुवृतसमसंहतनिर्गूढजानवः॥८॥
कदलीस्कन्धोपमपी[ननिबि]डाविषमानुपूर्वोपचितचारूरवः॥९॥
अर्धचन्द्राकृतिविस्तीर्णसमुन्नतापगतरोमवक्षाणाः (णः)॥१०॥
श्‍लक्ष्णसुसंहतचतुरस्त्रणा(ना)भ्यायतकुकुन्दरसुन्दरकटीदेशाः॥११॥
गम्भीराच्छिद्ररक्तप्रदक्षिणावर्तणा(ना)भयः॥१२॥
श्‍लक्ष्णालोमशाश्‍लथानुक्रमक्षामोदराः॥१३॥
अनाभुग्नानिभुग्नसुवत्तपष्ठकुक्षयः॥१४॥
समवतीर्णोपचितनातिदीर्घश्‍लक्ष्णपार्श्वाः॥१५॥
अनिम्नोपचितह्रस्ववज्रसंस्थानोपपन्नसूक्ष्मदीर्घलेखाङ्कितादृश्यारिथसन्धिचारुपृष्ठाः॥१६॥
विस्तीर्णोपचितदृढसन्धिहृदयाः॥१७॥
अविषमोन्नतविस्तीर्णोरसः॥१८॥
अनतिस्थूलोन्नतशङ्खावर्तनिभसूक्ष्मलेखापरिक्षिप्तसमरक्तस्तनाः॥१९॥
हृदयविप्रकृष्टदेशजातत्वाद्विस्तीर्णस्तनान्तराः॥२०॥
मांसोपचितानतिविस्तीर्णत्वादुन्नतकक्षाः॥२१॥
स्थूलदृढसुबद्धनिमग्नसमाक्षकाः॥२२॥
अश्‍लक्ष्णपृथुमांसनिमग्नाविषमप्रमाणस्फिजः॥२३॥
करिकरणि(नि)भनिर्गूढसन्धिपीनकठिनश्‍लक्ष्णसमबाहवः॥२४॥
वर्तितश्‍लक्ष्णरोमशसिंहोपमदृढप्रकोष्ठाः॥२५॥
समताम्रदीर्घपाणयः॥२६॥
गम्भीराच्छिद्रासंकीर्णवक्रायतस्निग्धतनुताम्रपाणिलेखाः॥२७॥
सूक्ष्मयमलीकृताध्याकुलारक्ताङ्‍गुलिपर्वाणः॥२८॥
अनामिकापर्वाधिकप्रमान(ण)कनीनिकाङ्‍गुलयः॥२९॥
अनतिबहुतनुमृदुस्निग्धसुबद्धमूलसमरोमाणः॥३०॥
स्निग्धासंकुचितानुपहतसारच्छवयः॥३१॥
शोतोष्णस्पर्शाव्यकच्छवीव वर्णाः॥३२॥
स्थिरनिबिडानतिस्थूलानतिकृशमांसाः॥३३॥
जवापुष्पाभिताम्रस्वच्छस्निग्धमधुरचन्दनगन्धिरुधिराः॥३४॥
मांसोपगूढस्थूलदृढसुशिरास्थिकाः॥३५॥
नागग्रन्थ्यवस्थितनिर्गूढास्थिसन्धयः॥३६॥
वज्रवदभेद्यशरीरत्वात्सुसंहननाः।३७॥
चारुसुविभक्ताङ्गप्रत्यङ्गाः॥३८॥
अनुपूर्वोपचितसुपरिमृष्टसुकुमारादीन्न(प्त)स्वच्छशरीराः॥३९॥
निर्मशकतिलकालपिल्याः॥४०॥
जरादौर्बल्यकृतापगतवलयः॥४१॥
सिंहशय्यानुष्ठाण(न)व्यपगतकायविक्षेपाः॥४२॥
स्वेदमलानुपक्लिष्टशुचिसौम्यच्छायाः॥४३॥
ज्वलनमनि(णि)महौषधिशशाङ्कसवितृसमतेजसः॥४४॥
महीधरवरगुरुत्वोपेताः॥४५॥
ऋतुसुखकालिन्दिकसुखसंस्पर्षाः॥४६॥
मधुरमृदुसुरभिकुसुमचन्दनसमानरोमकूपगन्धाः॥४७॥
अभिनवनीलोत्पलतुल्यसार्वकालिकमुखगन्धाः॥४८॥
अद्‍भुतमृदुदीर्घस्निग्धपिण्डितव्यपगतशब्दनिश्‍वासाः॥४९॥
अनशनकदन्नाशन(ना)तङ्कात्तु विपरिणामानुपरतधर्मदेशनाभिरप्यसञ्जितस्वरभेदाः॥५०॥
नातिसंकुचितविदारितरक्तास्याः॥५१॥
शुचिसमाचाराः॥५२॥
देशस्थ त्तप्तविस्पष्टपरिपूर्णव्यञ्जनाः॥५३॥
समन्तप्रासादिकत्वादसेचनकदर्शणाः(नाः)॥५४॥
अनतिह्रस्वानतिदीर्घवृत्तोपचितत्रिवलिविभूषितकम्बुग्रीवाः॥५५॥
समप्रमान(ण)दृढावक्रह्रस्वविपुलचिबुकाः॥५६॥
बिम्बफलाताम्रनात्यायतसमस्निग्धरुचिरौष्ठाः॥५७॥
बन्धूकपुष्पोपमश्‍लक्ष्णदशनमांसाः॥५८॥
शुचिस्निग्धस्पष्टरचनाक्षीणदन्ताः॥५९॥
अनुपूर्ववृत्तस्निग्धतीक्ष्णसमसितदंष्ट्राः॥६०॥
सप्रयोजनदक्षिणदन्तरश्मिप्रदर्शितमुहूर्तस्मिताः॥६१॥
अपमलमृदुताम्रस्निग्धजिह्वाः॥६२॥
नित्योष्णश्‍लक्ष्णमांसजालगजतालुसमवर्णतालवः॥६३॥
धुरोच्चायतसंगततुङ्गनासाः॥६४॥
अघनमृदुदृढमूलस्निग्धतनुनीलकुण्डलितस्मश्रुवः॥६५॥
अनुन्नतातीक्ष्णमांसलमार्ष्टिपिण्डितगण्डाः॥६६॥
आदर्शसमोपचिताश्‍लथरुचिरकपोलाः॥६७॥
पीनायतसमानु(नो)पहतचारुकर्णाः॥६८॥
ललाटकर्णगण्डसन्धिश्‍लेषाणि(नि)म्नपूर्णचन्द्राकृतिशङ्खाः॥६९॥
विशालायतस्निग्धमधुरप्रसन्नसमनेत्राः॥७०॥
प्रहसिताञ्चिताग्रपक्ष्माणः॥७१॥
सोम्यभ्राजिष्णुस्थिरविसन्धिदृष्टयः॥७२॥
अपरिमितबलत्वादपगतोन्मेषनिमेषाः॥७३॥
दीर्घासितश्‍लक्ष्णानुपूर्ववर्तितस्निग्धतनुभ्रुवः॥७४॥
काञ्चनपट्टश्‍लक्ष्णार्धचन्द्राकृतिविपुलललाटाः॥७५॥
परिपूर्णचन्द्रमण्डलसमवदनाः॥७६॥
एकघनवज्रसंहतशिरस्कपालाः॥७७॥
सुपरिपूर्णच्छत्राकृतिशिरसः॥७८॥
श्‍लक्ष्णचितासंलुडितपलितदोषापनतभ्रमराभस्निग्धमृदुसुबद्धमूलसुरभि स्वस्तिकनन्द्यावर्ताकृतिकेशरचणाः(नाः)॥७९॥
ससुरासुरमनुजादिलोकानवलोकितमूर्धानः॥८०॥
अथ तदाद्यं बोधिचित्तं बोधिसत्त्वानां दाढर्येण कथमिव द्रष्टव्यम् ? नैतल्लौकिकेन वस्तुनोपपादयितुं शक्यम्। कस्मात् ? यतः

[228] युगान्तवायुणा(ना) मेरुः वह्निणा(ना) वरुणालयः।
वज्रेण ध्वस्यते वज्रमविकारि तु तन्मनः॥

किं पर्यापन्नम्, कतरत्, कति प्रकारम्, किं पुरस्सरम्, कस्मिन्वा काले को वा तदुत्पादयति ? इत्येतदपदिश्यते -

[229] कामाप्तं षष्ठजं त्रेधा कृपाश्रद्धापरम्परम्।
बुद्धोत्पादे नरः स्त्री वा तदाद्यं चित्तमश्‍नुते॥

तत्खलु बोधिचित्तमाद्यं कामधातुपर्यापन्नमेव। षष्ठजं मनोधातुजमित्यर्थः। त्रिप्रकारमुपपत्तिलाभिकं श्रुतमयं चिन्तामयं चेति। कृपापुरस्सरेण श्रद्धाबहुलेन च मनस्कारेण संप्रयुक्तम्। बुद्धोत्पाद एव नासति बुद्धशासने। मनुष्यो वा स्त्री वोत्पादयति नान्य इति।

तस्यास्य बोधिबीजस्थानीयस्य चित्तरत्नस्य सर्वधातुगतिव्यापिबुद्धत्वमहावृक्षाङ्‍कुराभिवृद्धये भूमिजलसेकादिहेतुप्रत्ययस्थानीयान प्रज्ञादिचतुरधिष्ठानपरिवारान्पारमिताद्यान्गुणान्वक्ष्यमान(ण)स्वरूपान्बोधिसत्त्वः क्रमेणाभ्यस्यति।

कथं पुनः क्रमेन(ण) दानादिपारमितानां परिपूरिर्भवति ? तत्र तावत्-

[230] सर्वेभ्यः सर्वदा सर्वं वदतो दानपूरणम्।

प्रथमे खल्वसंख्येये वर्तमानो बोधिसत्त्वः न सर्वस्मै नापि सर्वं न सर्वदा ददाति। द्वितीये सर्वस्मै सर्वदा नतु सर्वम्। तृतीये सर्वै सर्वस्मै सर्वदा च प्रयच्छति। इयता दानपारमिता परिपूर्णा भवति।

मरणेऽपि दमात्यागः शीलस्योत्कृष्टिरुच्यते॥

यदा पुनः प्राणपरित्यागेनापि प्राणातिपातादिशिक्षापदं न क्षोभयति, इयता शीलपारमिता परिपूर्णा वेदितव्या। क्रौञ्चादिराजदुहिताभिक्षुदृष्टान्ताश्चात्रोदाहार्याः।

[231] वीर्यस्य तिष्यसंस्तुत्या धियो वज्रोपमात्परम्।

भगवन्तं खलु तिष्यं सम्यक्संबुद्धं एकया गाथया एकपादेन स्थित्वा सप्ताहमभिष्ठुवतः शाक्यमुनेर्वीयपारमिता परिपूर्णा नव च कल्पाः प्रत्युदावर्तिताः।

प्रज्ञापारमितायास्तु वज्रोपमात्समाधेरुर्ध्वं क्षयज्ञाने परिपूरिर्भवति।

‘सर्वासां तु क्षयज्ञाने परिपूरिर्विधीयते॥’

इत्यागमः।
अत्र पुनः “क्षान्तिघ्यानपारमिते शीलप्रज्ञापरिवारत्वान्नार्थान्तरम्” इति वैभाषिकाः। विनयधरवैभाषिकास्तु विनये चतस्रः पारमिताः पठन्ति।

अत्र पुनः केचिद् बुद्धवचने (ब)हिष्कृतबुद्धयः प्राहुः- “न हि पिटकत्रये भगवता बोधिसत्त्वमार्ग उपदिष्टः।” त एवं व्याहर्तव्याः। भ्रान्ता ह्यत्र भवन्तः। यस्मात्

[232] त्रिपुण्यकृतिवस्त्वाद्यास्तल्लाभोपायदेशनाः।
तथा चतुरधिष्ठानं सप्तसद्धर्मशासनम्॥

[233] सप्तयोगास्त्रयःस्कन्धास्त्रिशिक्षाद्याश्‍च देशिताः।
तथा पारमिताश्‍चापि चतस्रो विनयोदिताः॥

[234] बोधिपक्ष्याश्‍च कण्ठोक्ताः सप्तत्रिंशत्स्वयंभुवा।
हेतवः सर्वबोधिनां त्रिविधा मृदुतादिभिः॥

[235] तस्मान्न बोधिमार्गोऽन्यः सूत्रादिपिटकत्रयात्।
अतोऽन्यमिह यो ब्रूयात्स भवेन्मारभाषितः॥

उक्तं हि भगवता-“यद्भिक्षवः सूत्रे णा(ना)वतरति, विनये ण(न) दृश्यते, धर्मतां च विलोमयति नेदं शास्तुः शासनम्” इति कृष्णापदेशः। शुक्लापदेशोविपर्ययेण। यत्खलु सूत्रं भगवता बुद्धेन भाषितं तच्चतुर्ष्वागमेषु स्थविरमहाकाश्यपस्थविराण(न)न्दादिभिः संगीतिकर्तृभिरूद्दानगाथाभिर्निबद्धं तदेव ग्राह्यम्। गतमेतत्।

इदमिदानीं वक्तव्यम्। कतमेषां कल्पाणा(ना)मसंख्येयत्रयेण बुद्धत्वं प्राप्यते ?

[236] कल्पानां महतामेतदसंख्येयत्रयं मतम्।

कल्पाणां(नां) यदि संख्या न विद्यते कथं तर्हि त्रयमिति निर्धार्यते ? न खलु संख्या न विद्यते। किं तर्हि ?

स्थानान्तरमसंख्याख्यमदःसंख्योपरि स्थितम्॥

स्थानान्तरविशेषस्य खल्वेतन्नाम(मा)संख्येयमिति। न तु न संख्या विद्यत इत्येतद्विवक्षितम्।

अथ यं शाक्यमुनिर्भगवान्सम्यक्संबुद्धो बोधिसत्त्वचर्यायामेषु त्रिष्वसंख्येयेषु कियतो(तां) बुद्धानां पर्युपासां चक्रे ? तदत्र वर्णयन्ति। प्रथमेऽसंख्येये पञ्चसप्ततिसहस्राणि। द्वितीये षट्सप्ततिम्। तृतीये सप्तसप्ततिम्।

कस्य पुनः कल्पासंख्येयस्यावसाने कतमो बुद्धो बभूव ? अत्रापि वर्णयन्ति। रत्नशिखिनि सम्यक्संबुद्धे प्रथमोऽसंख्येयः समाप्तः। भगवति दीपङ्करे द्वितीयः। भगवति विपश्यिनि तृतीयः समाप्तः।

कस्मिन्पुनः सम्यक्संबुद्धे बुद्धत्वे प्रथमं चित्तमुत्पादितम् ? शाक्यमुनी। शाक्यमुनिर्नाम प्रथमस्यासंख्येयस्यादौ बभूव यत्र भगवता भार्गवभूतेन सुखोदकेनाङ्गपरिचर्याभिरुपस्थानं कृत्वा प्रथमं बोधिचित्तमुत्पादितमहमप्येवं प्रकारो भूयासमिति।

प्रभासेतुराजनि तदेव पुनर्द्रढिमानमापादितमिति॥
कस्मिन्पुनः काले बुद्धा भगवन्तो बुद्धादित्याः प्रादुर्भवन्ति ? तदारभ्यते-

[237] अपकर्षे जिनोत्पत्तिर्यावच्छतसमायुषः।
द्वयोः प्रत्येकबुद्धानामुत्कर्षे चक्रवर्तिणा(ना)म्॥

कल्पापकर्षे खलु बुद्धानामुत्पत्तिर्भवति। उत्कर्षे चापकर्षे च प्रत्येकजिनानाम्। उत्कर्ष एव चक्रवर्तिणा(ना)म्॥

चक्रवर्तिणां(नां) पुनरयं णि(नि)यमः-

[238] नाधोऽशीतिसहस्त्रासौ(यो)स्तत्समुत्पत्तिरिष्यते।

अशीतिबर्षसहस्रायुर्भ्यश्चक्रवर्तिणा(ना)मूर्ध्वमुत्पत्तिर्भवति नाध इति।

ते हेमरूप्यताम्रायश्‍चक्राः पुण्यप्रभावतः॥

चतुर्विधाः खलु चक्रवर्तिणः(न)ः-सौवर्णचक्राः, रूप्यचक्राः, ताम्रचक्राः, लोहितचक्राश्‍च स्वपुण्यप्रकर्षादिति। यथाक्रमं चैते चतुस्त्रिद्व्येकद्वीपेश्‍वराः॥

अथ यदुक्तम्-‘तस्मान्न बोधिमार्गोऽन्यः सूत्रादिपिटकत्रयात्।’ इति। यदि तर्हि मार्गभेदो नास्ति बुद्धप्रत्येकबुद्धश्रावकाणां(नां) फलभेदेनापि तर्हि न भवितव्यम्। नैष दोषः। यस्मात्-

[239] तुल्येऽपि साधनोपाये तद्भेदोऽक्षादिभेदतः।
भवमोक्षार्थिनोर्मात्रोः प्रदानफलभेदवत्॥

यावत्खलु कश्‍चिद्‍गुणः सम्यक्संबोधिमभिसंबुध्य भगवता देशितो विनिर्मुक्त(क्ति)द्वयप्राप्तिहेतुभूतः सर्वोऽसौ पिटकत्रयानुवर्तीः(र्ती)। तत्पुनर्विमुक्तिद्वयं त्रिभिः पुद्‍गलैः प्राप्यते। भगवता सम्यक्संबुद्धेन प्रत्येकजिनेनार्यश्रावकेण च। तेषां पुण(न)स्तुल्ये बोधिवर्त्मनि पतितानामिन्द्रियप्रणिधानावरणभेदाद्भेदः। तद्यथा द्वयोर्मात्रोस्तुल्यं वस्तु तुल्ये क्षेत्रे प्रतिपादयतोश्‍चेतनाविशेषादतुल्यं फलं भवति, तद्वदुत्तमार्थं प्रार्थयमानानां त्रयाणामपि पुद्‍गलानां प्रणिधानेन्द्रियसततघननिरन्तरभावनाप्रयोगपटुत्वाभ्यासादिविशेषात्तुल्येऽपि मार्गे पतितानां कश्‍चित्फलविशेषो भवति।

इतश्‍च

[240] करुणाभावनोद्रेकात्स्वसंविच्चित्तयोस्तथा।
परसंविद्‍गुरोस्तद्वत्तद्विशेषो विधीयते॥

तत्र भगवतो बुद्धस्य करुणाभावना चोद्रेकेन वर्तते भगवान्बुद्धः। स्वसंविच्चिन्ता च प्रत्येकबुद्धस्याधिक्येन वर्तते। परसंवित्परतो घोषश्‍च श्रावकस्य। किञ्च, परतो घोषमन्तरेणापि चरमे जन्मनि सुयोनिषो(शो)मनस्कारबलेन हेतुप्रत्ययफलावबोधोपलम्भात्, हेतुप्रत्ययबलैरशेषप्रनष्टं निश्रेयसं मार्गं प्रथममधिगम्य परत्रोपदेशादित्येवमादि॥

अथ तुल्यायां विमुक्तौ स्थितानां त्रयाणामभिसमेतृणां को विशेषः ? तदुच्यते-

[241] हेतुतत्त्वफलोद्‍भूतं महत्त्वं शासितुस्त्रिधा।
विमुक्तावपि तुल्यायां त्रयाणां बोधिलम्भनात्॥

तत्र हेतुकृतं तावद्‍भगवतो बुद्धस्य महत्त्वं(त्त्वं) त्रिषु कल्पासंख्येयेषु सूत्रविनयाभिधर्मालोकेन विनेयजनमनोग्रहेष्वज्ञानतिमिरोत्सादनात्। स्वभावकृतमपि बलवैशारद्यस्मृत्युपस्थानमहाकरुणादिस्वरूपत्वात्। फलकृतमपि सदेवकेषु लोकेष्वप्रतिहतशासनप्रतिष्ठाणा (ना)न्मारचतुष्टयनिर्जयनाच्चेति॥

अथ यदेतत्सर्वसत्त्वप्रतिविशिष्टं पुरुषोत्तमस्य जन्मशरीरं तत्किमनियतकालाक्षेपम्, आहोस्विन्नियतकालाक्षेपमिति ? तदभिधीयते-

[242] बुद्धस्य संमुखीनस्य बौद्धमाक्षिप्यते वपुः।

नान्यस्मिन्काले। चिन्तामयेन ज्ञानेन विशिष्टतमत्वात्। तत्र पुनः-

सैकपुण्यशतोद्‍भूतमेकैकं लक्षणं मुनेः॥

तत्र पञ्चाशच्चेतनाः प्रयोगभूताः पञ्चाशत्पृष्ठभूताः, एकया तल्लक्षणमाक्षिपति॥

ता पुनः पञ्चाशच्चेतनाः कतमाः ? तदुच्यते-

[243] यथाकर्मपथास्तद्वत्पुण्यादित्रयमिष्यते।

प्रतिकर्मपथं पञ्च, मौलकर्मपथपरिशुद्धिः सामन्तकस्यवितर्कानुपघातः स्मृत्यनुपरिग्रहः, निर्वाणपरिणामनं च। ताः सर्वास्तदालम्वनाः पञ्चाशत्प्रयोगभूताः। पृष्ठेऽप्येतावत्य एव।

अन्ये तु ब्रुवते-बुद्धा द्विशरीराधिष्ठानाः। जन्मशरीराधिष्ठानाः, द्वात्रिंशन्महापुरुषलक्षणालम्बनाः। धर्मशरीराधिष्ठानाश्‍चाष्टादशावेनि(णि)कबुद्धगुणालम्बनाः सामन्तकपृष्ठसंगृहीताः।

अन्ये पुनराहुः-प्राणिवधविरतिचेतना मृदुमध्याधिमात्राधिमात्रतरतमभेदाद्देवमनुष्येषु योज्यं(ज्या)।

केचिन्मन्त्रयन्ते-द्विधा समुद्राश्‍चत्वारो द्वीपाः षोडशनरकाः, तिर्यक्प्रेतौ षट्‍कामावचराविंशतीरूपारूप्यान्(:)देवान्(वाः)। एतान्सर्वान् भगवान् करुणायते।

एवन्तु वर्णयन्ति-सन्निकृष्टं बोधिसत्त्वं स्थापयित्वा यत्सर्वसत्त्वानां भोगैश्‍वर्याधिपत्यफलमियदेकस्य पुण्यस्य प्रमाणम्॥

अथ यदुक्तम्-‘दानपारमिता’ इति। तत्र कः समासः किं साधनो वा दानशब्दः, को वा स्वभावो दानस्य इति ? तदपदिश्यते। दानस्य पारमिताया निश्‍चयबुद्धिः सा दानपारमिता। एवं शेषास्वपि वाच्यम्।

यत्पुनरुच्यते-‘किं साधनो वायं दानशब्दः, को वा दानस्य स्वभावः’ इति तत्रापदिश्यते-

दानं हि दीयते येन स्वपरार्थाद्यपेक्षया॥

[244] कायादिकर्म तत्तत्त्वमविज्ञप्तिः क्वचित्पुनः।

करणसाधनोऽयं दानशब्द। दीयते तेनेति दानं मानवत्। हस्तादिषु तर्हि दानप्रसंगः। अस्तु तर्हि कर्मसाधनो दीयते तदिति दानम्। सुवर्णादिषु दानप्रसंगः। भवतु को दोषः। विपाकफलाभावः, सुवर्णादीनामव्याकृतत्वात्। भवतु तर्हि करणसाधन एव। ननूक्तं हस्तादिषु प्रसंगः ? नैष दोषः। कुशलकर्मत्रयपरिग्रहात्। स्पर्धायशोगुप्तिसेवादिव्युदासार्थमिदमारभ्यते। ‘स्वपरार्थाद्यपेक्षया’-स्वात्मपरार्थानुग्रहाद्यपेक्षया। स्वात्मानुग्रहाय परानुग्रहाय उभयानुग्रहा[य।आ]दिशब्दात् पूजाकाम्यया चेति। स्वभावोऽपि ‘कायादिकर्माविज्ञप्तिः’। क्वचित्पुनः कायवाङ्मनः कर्म। ससंप्रयोगं सपरिवारं चात्र मनस्कर्म दृष्टव्यम्। तत्पुनरेतद्दानम्-

प्राधान्यान्मुनिना प्रोक्तं महाभोगफलं हि तत्॥

स्वर्गावपर्गहेतुत्वेऽपि प्राधान्यान्महाभोगतायां तद्विनियोगः। तत्पुनरेतद्दानम्-

[245] स्वान्योभयार्थसिद्ध्यर्थं दानं ददति केचन।
साधुवृत्त्यनुवृत्यर्थं नोभयार्थाय चापरे॥

द्वाभ्यां खलु कारणाभ्यां स्वान्यात्महितचिकीर्षुश्‍च, उभयहितप्रतिपन्नश्‍च स एवंगुणयुक्तं दानं दीयते (ददाति)। आत्मनश्‍च कुशलमूलोपचयार्थं परस्य चेन्द्रियमहाभूतोपचयार्थम्। तत्र स्वहितायैव यथा पृथग्जनः परिनिर्वते भगवति चैत्याय ददाति परार्थमेव यथा अर्हन् संघाय ददाति, न चेष्टधर्मवेदनीयं भवति। उभयार्थं यदवीतरागः संघाय ददाति। नोभयार्थं यदर्हंश्‍चैत्याय ददाति तच्चेन्न(तच्च न) दृष्टधर्मवेदनीयं भवति केवलं तु सत्पुरुषप्रशस्तमार्गावस्थानप्रदर्शणा(ना)र्थम्॥

तत्पुनरेतद्दानं कथं फलतो विशिष्यते ? तदुच्यते-

[246] दातृवस्त्वादिवैशिष्ट्यात्तत्फलातिशयः स्मृतः।

तत्र कथं दातृविशेषः कथं वस्तुविशेषः कथं क्षेत्रविशेषः ?

श्रद्धादिभिर्गुणैर्दाता दत्तेऽतः सत्क्रियादिभिः॥

यदा दाता हेतुफलसंबद्ध(न्ध)निश्‍चय(ये) श्रद्दधानो ददाति शीलवान् कल्याणधर्मा बुद्धवचनबहुश्रुतश्‍च भवति निर्मत्सरी मुक्तहस्तश्‍च भवति निर्वाणानुशंसः सत्कृत्य स्वहस्तं कालेन पराननुपहत्य ददाति, स खलु

[247] सत्कारादिगुणोपेतं फलं तस्मादवाप्नुते।

अतः सत्कृत्य दानात्सत्कारलाभी भवति। स्वहस्तदानादुदारेषु भोगपरिभोगेषु रुचिं लभते। कालदानात्कालभोगा[न] लभते। परानुपघातादनाच्छेद्यांल्लभते निरपक्षालमग्न्या(न्या)दिभिरसाधारणान्। एतावद्दाता विशिष्यते।

कथं वस्तु ?

वस्तु वर्णादिसंपन्नं सौरूप्यादि फलप्रदम्॥

यदि वस्तु वर्णगन्धरसस्पर्शसम्पन्नं भवति तदा विशिष्यते। ततः सुरुपित्वं यशस्विता पृ(प्रि)यता सुकुमारत्वं सुखस्पर्शाङ्गता भवति यथाक्रमम्। एवं वस्तु विशिष्ट भवति॥

[248] गुणदुःखोपकाराख्यर्धर्मैः क्षेत्रं विशिष्यते।

गुणाधिकं क्षेत्रं भवति। [ति]र्यञ्चमुपादाय यावन्मनुष्याणां गुणास्तरतमक्रमेण यावद्‍बुद्धस्य। यथोक्तम्-“तिर्यग्योणि(नि)गताय दानं दत्वा शतगुणो विपाकः प्रतिकाङ्क्षि[तव्यः स्यात्]। दुःशीलाय मनुष्यभूताय दत्वा सहस्रगुणः।” दुःखविशेषात्क्षेत्रं विशिष्यते। यथो(थौ)पधिकेषु पुण्यक्रियावस्तुषु। “ग्लानाय दानं ग्लानोपस्थाय कायदानं शीतलिकावर्दलिकादिषु च दानम्” इति विस्तरः। उपकारित्वविशेषात्। यथा मातापित्रोरण्ये(न्ये)षां चोपकारिणां ये अटवीदुर्गकान्तारे भूतव्यसनेभ्यो निस्तारयन्ति।

यदुक्तम्-‘चेतनाविशेषात्फलविशेषः’ इति। अथ कथं चेतनायाः विशेषो भवति ? ब्रूमः-

आशयादि मृदुत्वादेर्मृदुत्वादीनि कर्मणः॥

पन्नां(ण्यां) खलु कारणानां मृदुत्वादिविशेषात्कर्म विशिष्यते। आशयचेतनाप्रयोगाधिष्ठानक्षेत्रपृष्ठानां मृदुत्वादेः कर्मविशेषः।

तत्राशयाभिप्रायः यथा-एवं चैवं च कुर्यां करिष्यामीति वा चेतनाया कर्मपथं समाक्षिपति। प्रयोगस्तदधिष्ठानं कायवाक्कर्म। अधिष्ठानं कर्मपथः। क्षेत्रं यस्मै वस्तु प्रतिपाद्यते। पृष्ठं नाम यत्कृत्वा पुनः सकृदसकृद्वानुकरोति॥

यदुक्तम्-‘आर्येभ्यो दानमप्रमेयफलम्’ इति। अथ किमनार्येभ्यः सर्वेभ्यः प्रमेयम् ? नेत्याह-

[249] धर्मदात्रेऽपि बालाय पित्रे मात्रेऽथ रोगिणे।
अमेयं बोधिसत्त्वाय दानमन्यभवाय च।

एभ्यः पञ्चभ्यः पृथग्जनेभ्योऽपि दानमप्रमेयं भवति॥
अथ कस्य कस्मै दत्वा दानमग्र्यफलं भवति ? तदभिधीयते-

[250] बोधिसत्त्वस्य यद्दान्न(न)मन्यस्यापि यदष्टमम्।
विपश्चिद्भिस्तदाख्यातं श्रेष्ठं यच्चार्हतोऽर्हते॥

यत्खलु बोधिसत्त्वः सर्वसत्त्वहिताध्याशयेण दानं ददाति तदग्र्‍यमुत्तमार्थफलत्वात् भगवताऽष्टौ खलु दानान्युक्तानि सूत्रे “आसाद्य दानम्। भयदानम्। अदात् मे दानम्। दास्यति मे दानम्। दत्तपूर्वं मे पितृभिर्दानम्। ददाति स्वर्गार्थम्। कीत्यर्थम्। यावदुत्तामार्थस्य प्राप्तये ददात्येतदग्र्‍यम्। यच्च त्रैधातुकवीतरागोऽर्हन्नर्हते ददाति दानमिदमग्र्यम्” इति।

सूत्र उक्तम्-“सांचेतनिकस्याहं कर्मणः कृतोपचितस्य नाप्रतिसंवेद्यफल वदामि” इति। अथ किमिदं कृतमुपचितं वा ? तदुच्यते-

[251] संप्रधार्य यदाक्षिप्तं पूरणादिदृढीकृतम्।
विगतप्रतिपक्षं च तत्कर्मोपचितं मतम्॥

तत्र संप्रधार्याक्षिप्तं नाबुद्धिपूर्वं यदृच्छाय(च्छया) यच्च कृत्वा परिपूरिकाभिश्‍चेतनाभिः परिपूरितं भवति। पृष्ठतश्‍च दृढीकृतं भवयि। निष्कौकृत्यादिप्रतिपक्षं च भवति। तत्कर्मोपचितमुच्यते॥

कथं चैत्तादिष्वसति प्रतिगृहीतरि पुण्योपजातिर्भवति ? ब्रूमः।

[252] स्वस्मात्त्यागगुणापेक्षाश्‍चैत्ताश्‍चैत्यार्चतादिषु।
विना प्रतिगृहीत्रापि फलं मैत्रीविहारवत्॥

तद्यथा मैत्रीविहारिणो महर्षयो न च लोकं सुखेन योजयन्त्यथ चापरिमितं पुण्यं प्रतिगृह्णन्त्येवं चैत्यादिषु तद्‍गुणाधिमुक्तिवशेण(न) स्वचित्तप्रसादादेव पुण्यप्रसूतिमिच्छति(न्ति)॥

सूत्र उक्तम्-“द्वे दाने। धर्मदानमामिषदानं च।” तत्रामिषदानमुक्तम्। धर्मदानमुच्यते-

[253] धर्मदानस्वभावो वाक्तत्त्वनामादिगोचरः।
अव्याकृतस्वभावत्वान्न नामाद्यन्नदानवत्॥

यथैव कुशलत्वात् त्रिकर्मस्वभावमामिषदानं नान्नपानम्। सुवर्णादिस्वभावं तत्, अव्याकृतत्वात्। तद्वद्वाचः कुशलत्वाद्धर्मदानं वाक्स्वभावम्। न नामकायादिस्वभावम्॥

उक्तं दानमयं पुण्यक्रियादिवस्तु। शीलमयमारभ्यते।

[254] शीलं शुभमयं रूपं व्याख्यातं तत्प्रभेदतः।

कुशलमेव रूपं शीलमयं पुण्यक्रियावस्तु। तत्पुनर्विज्ञप्त्यविज्ञप्तिरूपम्। अविज्ञप्तिरूपमपि त्रिप्रभेदं प्रातिमोक्षध्यानानास्रवसंगृहीतम्। तदपिव्याख्यातं विस्तरशः। एतदपि शीलमयं पुण्यक्रियावस्तु महाभोगताफलं मोक्षफलं च, प्रणिधिपरिणामनविशेषात्।

शास्त्रे तु तप्प्रधानत्वात्प्रोक्तं स्वर्गोपपत्तये॥

तत्पुनरेतच्छीलं विशुद्धं चाविशुद्धं च भवति। तत्र विशुद्धम्

[255] दौःशील्याशुभमूलाद्यैर्दोषैर्यन्न विदूषितम्।
तद्विपक्षशमाङ्गं च यत्तच्छद्वमिहोच्यते॥

यत्खलु शीलं दौःशील्येन न विदूषितं प्राणातिपातादिनाऽष्टप्रकारेण, तत्समुत्थापकैश्‍च क्लेशोपक्लेशैर्मिथ्यादृष्ट्यादिभिरनुपहतम्, क्लेशोपक्लेशविपक्षैश्‍च स्मृत्युपस्थानादिभिः परिगृहेतम्, निर्वाणपरिणामितं च न संसारबीजभूतं भवति।

पञ्चभिः कारणैरित्यन्ये। मौलैः कर्मपथैर्विशुद्धम्, सामन्तकैर्विशुद्धम्, वितर्कैरनुपहतम्, स्मृत्यानुपरिगृहीतम्, निर्वाणाभिमुख चेति तद्विशुद्धशीलमिष्यते। तद्विपर्ययादविशुद्धं वेदितव्यम्।

व्याख्यातं शीलमयं पुण्यक्रियावस्तु॥

भावनामयमुच्यते-

[256] पुण्यं समाहितं त्वत्र भावना चित्तभावनात्।

यत्समाधिस्वभावं समाहितं पुण्यं तद्भावनेत्युच्यते। कस्मात् ? चित्तभावनात्। यथा तैलं पुष्पैश्‍चम्पकादिभिर्वासितं तन्मयि भवति तत्समाधिसंप्रयुक्तैस्तत्सहभूकैश्‍च धर्मैश्‍चित्तं भावितं वासितमित्युच्यते, तन्मयीकरणात्। न चैवमसमाहितमिति। समाहितमेव चित्त(त्तं) भावनामयं पुण्यक्रियावस्तु मैत्र्यादिगुणसंप्रयुक्तं द्रष्टव्यम्।

कथं पुनरेतत्पुन्य(ण्य)क्रियावस्तु मन्तव्यम् ? किं पुण्यं क्रिया च वस्तु च पुण्यक्रियावस्तु, समाहारलक्षणोऽयं द्वन्द्वः समासोऽथ पुण्यक्रिययोर्वस्तु पुण्यक्रियावस्तु ? अथ पुण्यक्रियाया वस्तु पुण्यक्रियावस्त्विति ? यथा न दोषस्तथास्तु। कथं च न दोषः ? तत्र तावत्। कायवाक्कर्मस्वभावत्वात् त्रिधा कुशलत्वात्पुण्यम्। कर्मात्मकत्वात्क्रिया। तत्समुत्थापिकायाः (या)श्‍चेतनाया अधिष्ठानात्वाद्वस्तु। या तत्समुत्थापिका चेतना सा पुण्यं च क्रिया च, तत्सहभुवो धर्माः पुण्यमेव। शीलमयं तु कायवाक्कर्मैवेति त्रिधा भवति। भावनामयं मैत्रो पुण्यं च पुण्यक्रियाश्‍च वस्तु। तत्संप्रयुक्तायाश्‍चेतनाया मैत्र्यधिष्ठानेनाभिसंस्काराणां मैत्रीसहभूचेतना शीलं च पुण्यक्रिया च। अन्ये तत्सहभुवः पुण्यमेवेति।

तत्पुनरेतद्भावनामयं पुण्यक्रियावस्तु सर्वं तत्सर्वहेतुत्वेऽपि सति

प्रधान्यादपवर्गाय तदुक्तं सर्वदर्शिना॥

उत्तमार्थप्राप्तये खल्वासन्नतमो हेतुर्भावनेति कृत्वा भगवता भावनामयमेव कुशलमूलं विसंयोगाय विधियुक्तमुक्तम्। पुण्यक्रियावस्तुभेदेन त्रिप्रकारं शुभम्।

पुनरण्ये(न्ये)न प्रकारत्रयेण शुभभेदो व्याख्यायते-

[257] पुण्यनिर्वाणभागीयं निर्वेधानुगुणं तथा।
शासनेऽस्मिन्समासेन शुभमूलं त्रिधेष्यते॥

पुण्यभागीयं येन देवमनुष्योपपत्तिबीजं प्रतिगृह्णाति महेशाख्यैश्‍च कुलमहाभोगरूप्यचक्रवर्तिशक्रपुष्पकेतुब्रह्मत्वादीनां प्राप्तये फलमाक्षिपति। मोक्षभागीयं येनाविकम्प्य मोक्षाशयावस्थानादवश्यं परिणि(नि)र्वाणधर्मा भवति। निर्वेधभागीयमूष्मगतमू(ष्मं) चतुर्विधम्॥

अथ यदिदं लोक उच्यते लिपिमुद्रागणनासंख्येति एषां कः स्वभावः ? उच्यते-

[258] लिपिमुद्राऽथ गणना कायवाक्कर्मलक्षणा।
संख्या खल्वपि विज्ञेया मनस्कर्मस्वभाविका॥

तत्र तावल्लिपिमुद्रे योगप्रवर्तितं कायकर्मसमुत्थानमिति पञ्चस्कन्धात्मिका लिपिः। येण(न) तु कर्मणाऽक्षराणि निर्वर्त्यन्ते तत्कर्म लिपिरित्युच्यते। नाम यत्खन्यते दन्तविषाणसुवर्णादिषु सा मुद्रा। नतु येण(न) कर्मणा खन्यते तत्कर्मोच्यते। काव्यमपि योगप्रवर्तितं वाक्कर्मसमुत्थानं पञ्चस्कन्धाः। संख्यापि योगप्रवर्तितं मनस्कर्म। यन्मनसा संकलितं धर्माणां सा तु सपरिवारा चतुस्कन्धस्वभावेति॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project