Digital Sanskrit Buddhist Canon

द्वितीयोऽध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dvitīyo'dhyāyaḥ

द्वितीयोऽध्यायः।

प्रथमः पादः।

[72] द्वाविंशतिप्रकारस्य कृत्स्नस्येन्द्रियपर्वणः।
संक्षेपेणाभिधास्यन्ते धर्मा णि(नि)र्वचनादयः॥

चक्षुरादीन्याज्ञातवतदि(आज्ञातावी)न्द्रियपर्यन्तानि खल्विन्द्रियानि(णि) एतावानिन्द्रियग्रामो न भूयान्नाल्पीयान्।

उक्तं हि भगवता-“द्वाविंशतिरिन्द्रियानि(णि) कतमानि द्वाविंशतिः ? चक्षुरिन्द्रियं श्रोत्रेन्द्रियं [यावदाज्ञातावी]न्द्रियम्” इति।

तस्येन्द्रियराशेर्निर्वचनानुक्रमधातुभूम्यादिप्रकारभेदाः संक्षेपेणाभिधायिष्यन्त इति॥

किं पुण (न)र्द्रव्यतो द्वाविंशतिरिन्द्रियाण्यथ नामतः ? तदिदमाख्यायते-

[73] नाम्ना द्वाविंशतिस्तानि द्रव्यतो दश सप्त च।
यस्मान्नान्यद्द्वयं कार्या(या)त्सुखादिनवकत्रयम्॥

कायेन्द्रियप्रदेश एव हि कश्‍चित्स्त्रीपुरुषेन्द्रियाख्यं लभते, विशिष्टक्लिष्टविज्ञानसंन्निश्रयभूतत्वात्। श्रद्धादीनां च नवानां समुदायेषु त्रिष्वनाज्ञातमाज्ञास्यामीन्द्रियादित्रयाख्याः॥

अन्ये पुणः(नः) पश्यन्ति-

[74] नामसल्लक्षणाभावात्तन्नाम्नः सार्थकत्वतः।
त्रयानां(णां) वर्गवृत्तित्वेऽप्यर्थमभ्येष्यते परैः॥

यत्खलु संवृतिसत्यस्य लक्षणं तत्तेषां नास्ति क्रियापौरुष्यद्वारेण तच्छब्दप्रवृत्तेः, लौकिकाग्रधर्मवत्। सार्थकत्वात्तन्नाम्नोऽर्थवत्तत्खल्वेतन्नाम्नेति॥

स्त्रीपुरुषेन्द्रियस्यापि-

[75] विशिष्टबुद्धिहेतुत्वादाधिपत्यविशेषतः।
कायेन्द्रियाद्विशिष्टत्वं द्वयोर्णे(र्ने)त्रेन्द्रियादिवत्॥

यथैव हि चक्षुरादीनि कायेन्द्रियविशिष्टाणि(नि) विशिष्टबुद्धिजनकत्वादाधिपत्यविशेषाच्च, तद्वदनयोरपीति॥

कः पुनरिन्द्रियार्थस्तदारभ्यते-

[76] ऐश्वर्यार्थो विपश्‍चिद्भिरिन्द्रियार्थोऽभिधीयते।

केषु पुण(न)रर्थेषु केषामीशित्वम् ? वयं तावत्पश्यामः-

स्वार्थव्यक्तिषु पञ्चानां

चक्षुरादीनां पञ्चानां स्वार्थप्रकाशनक्रियायामाधिपत्यं समविषममार्गालोचनादित्यर्थः।

चतुर्णां त्वर्थयोर्द्वयोः॥

जीवितमनस्त्रीपुरुषेन्द्रियानां(णां) प्रत्येकमर्थद्वये। तत्र तावज्जीवितेन्द्रियस्य निकायसभागसंबन्धसन्धारणयोः। मन‍इन्द्रियस्यापि संक्लेशव्यवदानयोः। यथोक्तम्-“चित्तसंक्लेशात् सत्त्वाः संक्लिश्यन्ते चित्तव्यवदानहेतोर्विशुद्ध्यन्ते” इति। पुण(न)र्भवसंबन्धवशिभावानुवर्तनयोर्वा। पुनर्भवसंबन्धे तावद्यथोक्तम्-“गन्धर्वस्य तस्मिं(स्मिन्) समये द्वयोश्चित्तयोरण्य(न्य)तरत्संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वा।” तथा “विज्ञानं चेदानन्द मातुः कुक्षिं नावक्रामेत्” इति। वशिभावानुवर्तने यथोक्तम्-“चित्तेनायं लोको नीयते” इति विस्तरः।

स्त्रीपुरूषेन्द्रिययोरपि सत्त्वोत्पत्तिविकल्पनयोराधिपत्यम्। सत्त्वोत्पत्तौ तावत्, प्रायस्तदधीनत्वात्तदुत्पत्तेः। सत्त्वविकल्पेऽपि तद्वशात्। प्राथमकल्पिकानां च सत्त्वानां चेष्टा स्त्रीपुरुषस्वराचारादिविकल्पभेदात्।

[77] स्वगोचरोपलब्ध्यादावीषि(शि)त्वमपरे विदुः।

पौराणाः पुनराचार्याः कथयन्ति-“चक्षुरादीनां पञ्चानां प्रत्येकं चतुर्ष्वर्थेष्वाधिपत्यम्। चक्षुःश्रोत्रयोस्तावदात्मभावशोभायामन्धबधिरयोरकान्तरूपत्वात्। आत्मभावपरिकर्षणे, दृष्ट्वा श्रुत्वा च विषयविवर्जणा(ना)त्। चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोरूत्पत्तौ। रूपदर्शण(न)शब्दश्रवणयोश्‍चासाधारणकारणत्वे। घ्राणजिह्वाकायानां त्वात्मभावशोभायां पूर्ववत्। आत्मभावपरिकर्षणे, तैः कबडीकाराहारपरिभोगात्। अन्यत् प्राग्वत्।

चतुर्णां पुणः (नः) स्त्रीपुरुषजीवितमन‍इन्द्रियाणां द्वयोरर्थयोः। स्त्रीपुरुषेन्द्रिययोस्तावत्-सत्त्वभेदसत्त्वविकल्पयोः। सत्त्वभेदः स्त्रीपुरुष इति। विकल्पभेदोऽपि संस्थानवचनगमनादि प्राग्वत्। संक्लेशव्यवदानयोर्वा। तद्वियुतविकला(ल्पा)नां संवरासंवरादीनि न भवन्ति। तद्वतां तु संवरफलप्राप्तिः।

जीवितेन्द्रियमन‍इन्द्रिययोरप्यर्थद्वये पूर्ववत्॥

स्वार्थविज्ञान एवान्य आहुः पण्डितमानिनः॥

कोशकारादयः पुनराहुः-"स्वार्थोपलब्धावेव चक्षुरादीनां पञ्चानामाधिपत्य[म्]।“ तदेतद्वैभाषिकीयमेव किञ्चिद्‍गृहीतम्। नात्र किञ्चित् कोशकारकस्य स्वकर्ष[स्वकं दर्श]ण(न)म्। वैभाषैरेव स्वार्थोपलब्धिरुक्तेति॥

दार्ष्टान्तिकस्य हि सर्वमप्रत्यक्षम्। पञ्चानां विज्ञानकायानामतीतविषयत्वाद्यदा खलु चक्षूरूपे विद्येते तदा विज्ञानमसत्। यदा विज्ञानं सत्, चक्षूरूपे तदासती, विज्ञानक्षणस्थित्यभावे स्वार्थोपलब्ध्यनुपपत्तेश्‍च॥

[78] क्लेशोत्पत्तौ सुखादीनां श्रद्धादीनां गुणाप्तिषु।

सुखादीनामपि पञ्चानामिन्द्रियाणां रागादिक्लेशोत्पत्तावाधिपत्यम्। यथोक्तम्-“वेदनाप्रत्यया तृष्णा” इति। “सुखायां वेदनायां रागोऽनुशेते” इति विस्तरः। श्रद्धादीनां पुण(न)रष्टानां सर्वगुणोत्पत्तौ प्रभुत्वमिति।

वैभाषाः पुण(न)राहुः “संक्लेशवेदनाभिः”। तथा ह्युक्तम्-“सुखायां वेदनायां रागोऽनुशेते” इति विस्तरः।

व्यवदाने श्रद्धादीनां पञ्चानां तैः क्लेशान् विष्कम्भ्य मार्गोत्पादनात्। यथोक्तम्-“श्रद्धेषीकासंपन्नो बलधैर्यस्मृतिदौवारिकसंपन्नः समाहितचित्तो विमुच्यते प्रज्ञाशस्त्रेणार्यश्रावकः सर्वाणि संयोजनानि संछिनत्ति” इत्यादि।

अनाज्ञातमाज्ञास्यामीन्द्रियादीनां तु त्रयाना(णा)मुत्तरोत्तराङ्गभावे णि(नि)र्वाणे चाधिपत्यमिति॥

कः पुण(न)रेषामिन्द्रियाणामनुक्रमः ? ब्रूमः-

फलसंक्लेशसंभारविशुद्धित्वादनुक्रमः॥

प्राक्कर्म फलं तावदष्टौ विपाकजत्वात्तस्मात्तानि पूर्वमुक्तानि। तस्मिन् विपाके सति संक्लेशसुखादिभिः। पञ्चभिर्मार्गसंभारश्रद्धादिभिः। विशुद्धिरणा(ना)स्रवैस्त्रिभिः॥

कस्मात् पुनर्द्वाविंशतिरेव यथा परिकीर्तितान्युक्तानि न भूयांसि नाल्पीयांसीति ? तदपदिश्यते-

[79] सत्त्वाख्या सत्त्ववैचित्र्य(त्र्‍यं)धृति(तिः) क्लेशोद्भवश्च यैः।
मार्गोपायः फलप्राप्तिस्तेषामिन्द्रियता मता॥

सत्त्वाख्या खलु प्रवर्तते चक्षुरादिषु मनःपर्यन्तेषु षट्सु। एतद्धि मौलसत्त्वद्रव्यम्। सत्त्ववैचित्र्यं द्वाभ्यां स्त्रीपुरुषेन्द्रियाभ्याम्। धृतिर्जीवितेन्द्रियेन(ण)। क्लेशोद्‍भवः पञ्चभिर्वेदनाभिः। मार्गोपायः श्रद्धादिभिः। फलप्राप्तिस्त्रिभिरन्त्यैः। इत्येतस्मादेषामिन्द्रियता मता॥

[80] स्पर्शाश्रयोद्भवाधारसंभोगत्वाच्चतुर्दश।
स्वर्गापवर्गहेतुत्वात् तदन्यद्वेन्द्रियाष्टकम्॥

तत्र स्पर्शाश्रयश्चक्षुरादीनि षडिन्द्रियानि(णि)। प्रादुर्भावः स्त्रीपुरुषेन्द्रियाम्याम्। आधारो जीवितेन्द्रियेण। संभोगो वेदनाभिः पञ्चभिः। अतस्तावच्चतुर्दशोक्ताणि(नि)। स्वर्गोपपत्तिनिमित्तानि श्रद्धादीनि पञ्च। अपवर्गकारणानि [त्रीण्यनाज्ञातमाज्ञास्यामीन्द्रियादीनि अत एतावन्त्येव॥]

यद्याधिपत्यार्थ इन्द्रियार्थः कस्माच्छन्दस्पर्शमनस्कारसंज्ञाचेतनामहाभौमानां सत्याधिपत्ये नेन्द्रियत्वम् ? उक्तं हि भगवता-“छन्दमूलकाः सर्वधर्माः स्पर्शजातीयाः मनस्कारप्रभावाः।” संज्ञाचेतनयोश्च संक्लेशव्यवदानयोराधिपत्यमुक्तमेव कुशल[चेतनायाश्च। एवं] क्लेशानामपि संसारहेतुप्रवर्तण(ने) आ[धिपत्यम्]। निर्वाणस्य च धर्माग्र्‍यत्वे कस्मान्नेन्द्रियत्वम् ? तदिदमुच्यते-
[81] छन्दं वीर्याङ्गभूतत्वात् स्पर्शो वित्त्यनुबृंहणात्।
संज्ञा प्रज्ञाभिभूतत्वान्नेन्द्रियं मुनिरभ्यधात्॥

छन्दो हि कर्त्तुकामता सा च वीर्याङ्गभूता। वीर्यं तु साक्षात् क्रिययाऽभिसंबध्यते। तदेवेन्द्रियमुक्तम्। स्पर्शोऽपि “स्पर्शप्रत्यया वेदना” इति तदुत्पत्तौ परिक्षीणशक्तिः। संज्ञापि प्रायोऽपि(प्रायो) लोकव्यवहारपतिता। सा प्रज्ञया परमार्थैकरसयाऽभिभूतेति नेन्द्रियमुक्ता॥

[82] श्रद्धादीनां विदां चैव दोषः शुद्धौ मलोदये।
प्रधानत्वान्मनस्कारो नेन्द्रियं समुदाहृतम्॥

योनिशो मनसिकारः खलु श्रद्धादीनां सङ्गीभवति। अयोनिशो मनसिकारोऽपि वेदनादीनां रागादिसंप्रयुक्तानामिति सोऽपि नेन्द्रियम्॥

[83] संभावनानुकूलत्वादधिमोक्षोऽपि नेन्द्रियम्।

अधिमोक्षोऽपि श्रद्धोपकारीति नेन्द्रियम्॥

कालान्तरफलोत्पादसंदेहाभ्यां न चेतना॥

चेतनायाः खल्वपि कालान्तरेण फलमिति तस्य नासति फले शक्तिराविर्भवति। लोकोपि तस्याः फलसत्त्वाविनाशं दृष्ट्‍वा विप्रतिपन्नः। कश्चिद् ब्रूते निर्हेतुकं फलमिति कश्चिदीश्‍वरकृतं कश्चिददृष्टादिहेतुकमिति। चेतनायाः फलमनभिव्यक्तमिति। ईशित्वं भगवता जानानेनाप्यतस्तस्यास्त्रैलोक्यकारणत्वेऽपि सति चेतना नेन्द्रियेषु व्यवस्थापिता॥

कुशलमहाभौमेभ्योऽपि

[84] नाप्रमादोऽप्यसौ वीर्यात्, न ह्रीः प्रागल्भनिग्रहात्।
नोपेक्षा नापि चालोभो वीर्यश्रद्धाभिभूतितः॥

अप्रमादस्तावद्वीर्यस्य भाण्डागारिकस्थानीयः। वीर्यं कुशलान् धर्मानुपाजेयति सतान् रक्षति। ह्रीरपि वैशारद्यसपत्नभूता नववधूरिवाप्रगल्भा। तस्याः कुत आधिपत्यम् ? उपेक्षापि श्रद्धाभिभूता। अलोभश्व वीर्यविरोधीति नेन्द्रियम्॥

[85] न प्रस्रब्धिर्विदौत्कट्‍याद्विनिन्द्यत्वाच्च नास्रवाः।

प्रस्रब्धिः खलु वेदनायाः वृत्तिप्राधान्येनाभिभूता। सापि नेन्द्रियम्। अकुशलानामपि धर्माणां विनिन्द्यत्वात्तु नास्रवाश्‍चण्डालराजवत्॥

विप्रयुक्तानामपि

जात्यादयो न पारार्थ्यात्

परतन्त्रा हि जात्यादयो धर्माः परिचारकवत् तेषां कुतः प्रभुत्वम् ?

निष्क्रियत्वान्न निर्वृतिः॥

निर्वाणमपि निष्क्रियमसत्फलं सत्क्रियाश्च धर्माः फलवन्त आधिपत्ययुक्ता इति भगवता निर्वाणं नेन्द्रियं व्यवस्थापितमिति। नात्र किञ्चिदुपसंख्येयं णा(ना)प्यपनेयमिति॥

लक्षणमिदानीमिन्द्रियाणां वक्तव्यम्। तत्र चक्षुरादीनामुक्तम्। जीवितश्रद्धादीनां संप्रयुक्तविप्रयुक्तेषूच्यमानेषु वक्ष्यते। दुःखादीनां त्वधुनोच्यते।

[86] कायस्य बाधनं दुःखं दौर्मनस्यं तु चेतसः।

बाधन[मिति वर्तते]॥

सुखं च सुमनस्ता च सातं शारीरमानसम्॥

सातमिति प्रह्लादनापर्यायः।

[87ab] वैशिष्ट्यान्मानसं सातं सुखं क्वचिदुदाहृतम्।

तृतीये ध्याने मानसं सातं सुखमित्युदाहृतं भगवता पञ्चेन्द्रियसुखातिशयत्वात्। सौमनस्यं तु प्रीतिस्वभावं सा च तृतीयध्याने नास्तीति सुखं च तत्रोक्तमिति।..........

.........भौमम् तदपदिश्यते-

[88] षट्सु भूमिषु विज्ञेयं नीरजस्काद्यमिन्द्रियम्।

अनाज्ञातमाज्ञास्यामीन्द्रियं षट्‍षु भूमिषु, चतुर्षु ध्यानेष्वनागमे(म्ये) ध्यानान्तरिकायां च।

तदन्ये निर्मले त्वक्षे द्रष्टव्ये नवभूमिके॥

आज्ञेन्द्रियमाज्ञातवत(अज्ञातावि)इन्द्रियं च नवसु भमिषु-आस्वेव षट्‍षु त्रिषु चाद्यास्वारूप्यभूमिषु॥

अथ कानि द्वाविंशतिरिन्द्रियानि(णि) कानि र्कि प्रहातव्यानि ? दुदाह्रियते-

[89] दौर्मण(न)स्यं द्विहातव्यं

दर्शनभावनाप्रहातव्यम्।

मनोवित्तित्रयं त्रिधा।

मन‍इन्द्रियं सुखसौमनस्योपेक्षाश्च दर्शण(न)भावनाहेयाश्चाहेयाश्च।

नवाभ्यासप्रहेयानि(णि)

चक्षुरादीनि जीवितावसानान्यष्टौ दुःखेन्द्रियं च।

द्विधा [पञ्च]

श्रद्धादीनि भावनाहेयान्यहेयानि च। सास्रवानास्रवात्।

न तु त्रयम्॥

त्रीण्यनास्रवाण्यप्रहेयान्येव निर्दोंषत्वात्॥

यदि तर्हि श्रद्धादीनि सास्रवानास्रवत्वात्प्रहेयानि चाप्रहेयानि च द्विधा भवन्ति, त्रयमेवानास्रवम्। इदं तर्हि सूत्रं कथं नीयते ? यदुक्तं भगवता-“तस्यैतानि (यस्येमानि) पञ्चेन्द्रियानि(णि) सर्वेण सर्वं न सन्ति तमहं बाह्यं पृथग्जनपक्षावस्थितं वदामि” इति ?

अनास्रवाधिकारादज्ञापकमेतत्। अनास्रवाणि खल्वधिकृत्यैतदुक्तम्। यस्मादार्यपुद्‍गलव्यवस्थानं कृत्वा “यस्येमानि” इति भगवानवोचत्। पृथग्जनो वा द्विविधः। आभ्यन्तरश्चासमुच्छिन्नकुशलमूलः, बाह्यश्च समुच्छिन्नकुशलमूलः। तमधिकृत्योक्तम्-“बाह्यं पृथग्जनपक्षावस्थितं वदामि” इ[ति]। “सर्वेण सर्वानि(णि)” इति वचनाद्वा ‘यस्य लौकिकान्यपि न सन्ति’ इत्याकूतम्। बाह्यमित्यशाक्यपुत्रीयं पृथग्जनपक्षावस्थितमित्यार्यधर्मविपक्षावस्थितम्। अन्यथा ह्येवमवक्ष्यत्-‘यस्येमानि पञ्चेन्द्रिया(णि) न सन्ति तमहं पृथग्जनपक्षावस्थितं वदामि’ इति। उक्तं हि- “सन्त्रसन्ति सत्त्वा लोके जाता लोके वृद्धास्तीक्ष्णेन्द्रिया अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपि” इत्यप्रवर्तित एव धर्मचक्रे। पुनश्चोक्तम्-“यावच्चाहमेषां पञ्चानामिन्द्रियानां(णां) समुदयं चास्तङ्गमं चास्वादं चादीनवं च निःसरणं च यथाभूतं नाप्यज्ञासिषं न तावदहमस्मात्सदेवकाल्लोकात्” इति विस्तरः। न चायमनास्रवानां(णां) धर्माणां परीक्षाप्रकारः।

वयं त्वत्रेममागमं ब्रूमः-“त्रीणीमानि श्राद्धस्य श्रा(श्र)द्धालिङ्गाणि(नि)” इति विस्तरः। कथं कृत्वा ज्ञापकम् ? श्रद्धायां ह्यसत्यामार्याणां दर्शण(न)कामता न भवेत्। सद्धर्मश्रोतुकामता च, विगतमात्सर्येण चेतसा अगारमध्यवस्तुकामता [च]। यस्य च पृथग्जनस्यैतानीन्द्रियाणि न सन्ति स सर्व[था बाह्यपृथग्जनो] भवति कुशलधर्मोपणि(नि)षद्धेतुवैकल्यात्। तस्मात्सास्त्रवाणीति सिद्धम्॥

उक्तः प्रकारभेदः। लाभ इदानीं वक्तव्यः। कतीन्द्रियानि(णि) कस्मिन् धातौ विपाकः प्रथमतो लभ्यते ? तदिदमारभ्यते।

[90] पूर्वं क्रमोद्भवैः कामे विपाको [लभ्य]ते द्वयम्।

कामधातौ क्र[मोद्भवैः -अण्डजजरायुजसंस्वेदजैः पूर्वं] इन्द्रियद्वयं लभ्यते। कायेन्द्रियं जीवितेन्द्रियं च। एतद्धि द्वयं तस्मिन् शुक्रशोणितबिन्दौ प्रथमं विपाकजं भवति। क्लिष्टत्वात्तु न मन‍उपेक्षेन्द्रिये विपाकः।

अन्यैः षट् सप्त वाऽष्टौ वा

औपपादुकैः पुनः षट्। चक्षु रादीनि पञ्च जीवितेन्द्रियं च। [यद्यव्यञ्जना भवन्ति यथा प्राथम]कल्पिकः। सप्त पुण(न)र्यद्येकव्यञ्जना यथा देवादिषु। अष्टौ वा यद्युभयव्यञ्जना भवन्ति यथाऽपायेषु। एवं तावत् कामधातौ।

षड् रूपे

रूपधातौ पुनः षडिन्द्रियाणि वि[पाक]ः प्रथमतो लभ्यन्ते। चक्षुरादीनि पञ्च जीवितेन्द्रियं च।

अन्त्ये तु जीवितम्॥

[आरूप्ये जीवितेन्द्रियं] विपाको लभ्यते। उक्तो लाभः॥
त्यागो वक्तव्यः। सोऽयमाविष्क्रियते-

[91] म्रियमाणै(र्नि)रोध्यन्ते त्रीण्यन्ते

जीवितम्, मनः, उपेक्षा चेति।

अष्टौ तु मध्यमे।

रूपधातौ म्रियमाणैरष्टौ निरुध्यन्ते। तानि च त्रीणि, चक्षुरादीनि च पञ्च।

दशाष्टौ नव चत्वारि कामे पञ्च शुभानि वा॥

उभयव्यञ्जनैर्दश निरोध्यन्ते। तानि चाष्टौ स्त्रीपुरुषेन्द्रिये च। एकव्यञ्जनैर्ण(र्न)व। अव्यञ्जनैरष्टौ। सकृन्मरणे खल्वेष न्यायः। क्रमेन(ण) तु म्रियमानै(णै)श्चत्वारि णि(नि)रोध्यन्ते कायजीवितमन‍उपेक्षेन्द्रियानि(णि)। न ह्येषां पृथङ्‍निरोधः। एप च विधिः क्लिष्टाव्याकृतचित्तस्य मरणे द्रष्टव्यः। कुशले तु चित्ते सर्वत्र श्रद्धादीनि पञ्चाधिकानि। एवमारूप्येष्वष्टौ, रूपेषु त्रयोदश। इत्येवं विस्तरेण गणयितव्यानि॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः॥

द्वितीयाध्याये

द्वितीयपादः।

इन्द्रियप्रस्तावे सर्व इन्द्रियधर्मा विचार्यन्त इत्यतः पृच्छति। अथैषां कुशलानामिन्द्रियानां(णां) कतरेणेन्द्रियेन(ण) कतरच्छ्रामन्य(ण्य)फलं प्राप्यत इति ? तदिदं प्रस्तूयते-

[92] आद्यन्तलाभो नवभिः सप्ताष्टाभिश्‍च मध्ययोः।

या खल्वेषा चतुष्फलमयी माला तस्याः प्रथमं स्त्रोतआपत्तिफलमन्त्यमर्हत्त्वं मध्ये सकृदागाम्यनागामिफले। तत्राद्यान्तयोः फलयोर्ण(र्न)वभिरिन्द्रियैर्लाभः। स्त्रोतआपत्तिफलस्य तावत्-श्रद्धादिभिः पञ्चभिराज्ञास्यामीन्द्रियाज्ञेन्द्रियाभ्यामेकमनयोरानन्तर्यमार्गाद्, द्वितीयं विमुक्तिमार्गाद्वेदितव्यम्। प्रथमेन क्लेशप्राप्तिच्छेदो द्वितीयेन विसंयोगप्राप्त्याकर्षणम्। मन‍उपेक्षेन्द्रियाभ्यां चेति। अर्हत्त्वस्य पुनः श्रद्धादिभिराज्ञास्यामीन्द्रियवर्ज्जैः, मन‍इन्द्रियेन(ण) सुखसौमनस्योपेक्षेन्द्रियानां(णां) चान्यतमेन।

‘सप्ताष्टाभिश्च मध्ययोः।’ सकृदागाम्यनागामिफलयोः पुनः सप्तभिरष्टाभिर्ण(र्न)वभिश्‍चेति ‘च’शब्दात्। तत्र सकृदागामिफलं तावद्यद्यानुपूर्विको लभते, स च लौकिकेन मार्गेन(ण) तस्य सप्तभिर्लाभः। पञ्चभिः श्रद्धादिभिः, मन‍उपेक्षेन्द्रिभ्यां च। अथ लोकोत्तरेण मार्गेण तस्याष्टाभिः, आज्ञेन्द्रियमष्टमं भवति। अथ [भूयो]वीतरागः प्राप्नोति, तस्य नवभिर्यैरेव स्त्रोतआपत्तिफलस्य। अनागामिफलं यद्यानुपूर्वीकः प्राप्नोति, स च लौकिकेन मार्गेण, तस्य सप्तभिर्यथा सकृदागामिफलस्य।

अथ लोकोत्तरेण, तस्याष्टाभिस्तथैव। अथ वीतरागः प्राप्नोति, तस्य नवभिर्यथा स्त्रोतआपत्तिफलस्य। तस्य तु निश्रयविशेषात् सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमद्भवति। यदाप्ययमानुपूर्विको नवमे विमुक्तिमार्गे ध्यानं प्रविशति लौकिकेन मार्गेण, तदाप्यष्टाभिरिन्द्रियैरणा(ना)गामिफलं लभते। तस्य नवमे विमुक्तिमार्गे सौमनस्यमष्टमं भवति, आनन्तर्यमार्गे तूपेक्षेन्द्रियमेव। नित्यमुभाभ्यां हि तस्य प्राप्तिः। अथ लोकोत्तरेण प्रविशति, तस्य नवभिराज्ञेन्द्रियं नवमं भवति॥

यत्तर्ह्यभिधर्मे पठ्यते-“अर्हत्फलस्यैकादशभिः” इति। तत्कथमुच्यते ‘नवभिस्तस्य प्राप्तिः’ इति ? नैव दोषः। यस्मात्-

एकादशभिराप्तिस्तु फलस्यान्त्य[स्य] हानितः॥

परिहाय परिहायाऽयं समयविमुक्तोऽर्हन्निश्रयविशेषात्पुनर्लभते। कदाचित् तृतीयं ध्यानं निश्रित्य। कदाचिद् द्वितीयं प्रथमं वा। कदाचिच्चतुर्थमनागम्यं वा। इत्यतस्तिसृणां वेदनानां संभवादेकादशभिरुक्तम्॥

अथैषां त्रयानां(णां) कामरूपारूप्यधातूनां कतरधातुभूम्यालम्बनेन मार्गेण कतरस्य धातोः परिज्ञानं भवतीति ? तदाविर्भाव्यते।

[93 ab.] स्वस्य धातोः परिज्ञानं स्वविपक्षदृशा पथा।

स्वविपक्षदृशा च मार्गणे(मार्गेणा)नास्रवेण परिज्ञानं भवति। तत्र स्वधातुदृशा तावद् दुःखसमुदयालम्बनेन, स्वविपक्षदृशा निरोधमार्गालम्बनेन त्रैधातुकपरिज्ञानं भवति। सास्रवेण त्वानन्तर्यमार्गेण संगृहीतेन सन्निकृष्टाऽधोभूमिविषयेणोर्ध्वसन्निकृष्टभूम्यालम्बनेन च विमुक्तिमार्गसंगृहीतेनाधोभूमिपरिज्ञानं भवति। आन[न्त]र्यमार्गाणामधोभूमिविषयत्वाद्विमुक्त्याख्यानामूर्ध्वभूम्यालम्बनत्वाच्च। अनास्रवानां(णां) तूभयेषामेकभूमिगोचरत्वादिति।

अथ कतिभि(भी)रिन्द्रियैः कामधातुपरिज्ञानं कतिभि(भी) रूपारूप्यधातुपरिज्ञानमिति ? तदिदं प्रतायते-

[94] कामधातुपरिज्ञानं प्रायः सप्तभिरिष्यते।
समलैर्निर्मलैस्त्वर्थैरष्टाभिरभिधीयते॥

कामधातोस्तावत्-सास्रवैः सप्तभिः परिज्ञानं भवति प्रहाणमित्यर्थः। पञ्चभिः श्रद्धादिभिः मन‍उपेक्षेन्द्रियाभ्यां च। प्रायोग्रहणात्सौमनस्येन्द्रियेना(णा)पि कस्यचित्समापत्त्यभिप्रायस्य योगिनो मौलभूमिप्रवेशात्। अनास्रवैस्त्विन्द्रियैरष्टाभिः। एभिरेव सप्तभिराज्ञेद्रियेण च। प्रायो वचनात्सौमनस्येन्द्रियेन(ण) च नवमेन॥

[95] रूपधातुपरिज्ञानमिष्टं दशभिरिन्द्रियैः।

पञ्चभिः श्रद्धादिभिः, मन इन्द्रियेन(ण), तिसृभिर्वेदनाभिः, निश्रयविशेषादाज्ञेन्द्रियेन(ण) च॥

अन्त्यधातुपरिज्ञानमेकादशभिरुच्यते॥

यथोक्तैर्दशभिराज्ञातवदिन्द्रियेन(ण) च। उभाभ्यां तस्य परिज्ञानमेकं वज्रोपमसमाधिसहचरम्, द्वितीयं क्षयज्ञानसहगतमिति॥

इदमिदानीं वक्तव्यम्-कः कतिभिरिन्द्रियैः समन्वागत इति ? तत्र तावदयं नियमः-

[96] सर्वसत्त्वास्त्रिधातुस्था उपेक्षायुर्मणो(नो)ऽन्विताः।

एभिस्त्रिभिः सर्वसत्त्वाः समन्वागताः।
त्वक्स्त्रीत्वव्यञ्जनैः कामे

कामावचराः सत्त्वाः कायपुरुषस्त्रीन्द्रियैरेभिः पूर्वाक्तश्‍च।

रूपिणश्‍चक्षुरादिभिः॥

रूपिणः खलु सत्त्वाश्‍चक्षुरादिभिस्त्रिभिश्‍चोपेक्षायुर्मनोभिः॥

[97] कामिनः खलु दुःखेन तद्रागी दुर्मण(न)स्तया।

अवीतरागः कामधातौ दुःखदौर्मण(न)स्याभ्यां समन्वागतः।

ऊर्ध्वजस्तु सुखेनार्यः शुभाह्वाधरजौ तथा॥

ऊर्ध्वजो रूपारूप्यधातुज आर्यः सुखेन समन्वागतः। अनास्रवेण शुभकृ[त्स्नपरीत्तशुभाप्रमाणशुभाः] क्लिष्टाक्लिष्टेन॥

[98] प्रतीत्या(प्रीत्या)भाह्वाधरोद्‍भूतौ

आभास्वरेषूपपन्नस्तदधरजश्‍च प्रीत्या समन्वागतः।

शुभैः स शुभमूलकः।

श्रद्धादिभिः पञ्चभिः कुशलैरणु(नु)च्छिन्नकुशलमूलः सर्वत्र समन्वागतः।

शैक्षाभ्यां मोक्षमार्गस्थौ

द्वा भ्यां शैक्षाभ्यां [इन्द्रियाभ्यां दर्शनभावनामार्गस्थौ]॥

[अशैक्षोऽर्हन्] स्वमार्गगः॥

अथ नियमेन कः कतिभिरिन्द्रियैः समन्वागत इति ? तदिदमुपदर्श्यते-

[99] उपेक्षायुर्मणो(नो)युक्तोऽवश्यं त्रयसमन्वितः।

[ए]भिरेव त्रिभिः। न ह्येषामन्योन्येन विना समन्वागतः। शेषैरणि(नि)यमः।

तत्र तावच्चक्षुरादिभिः सप्तभिरारूप्योपपन्नो न समन्वागतः। कामधातौ च येनाप्रतिलब्धविहीनानि। सुखेन्द्रियेण चतुर्थध्यानाद्युपपन्नाः पृथग्जनाः, सौमनस्येन त्रि(तृ)तीयाद्युपपन्नाः पृथग्जनाः, सुखेन्द्रियेन(ण) रूपारूप्योपपन्नाः, दौर्मण(न)स्येन कामवीतरागः, श्रद्धादिभिर्निःशुभः, अनास्रवस्त्रिभिः पृथग्जना न समन्वागताः।

चतुर्भिः कायसुखवान्

यः कायेन्द्रियेण सोऽवश्यं चतुर्भिस्तैश्च त्रिभिः कायेन्द्रियेन(ण) च। योऽपि सुखन्द्रियेण स चतुर्भिः-तैश्च त्रिभिरुपेक्षादिभिः सुखेन्द्रियेन(ण) च।

चक्षुष्मानपि पञ्चभिः॥

‘अपि’शब्दाच्छोत्रघ्राणजिह्वेन्द्रियैर्वेदितव्यम्। यश्चक्षुरिन्द्रियेण सोऽवश्यं पञ्चभिः-उपेक्षाजीवितमनोरूपेन्द्रियैश्चक्षुषा च॥

[100] स्त्रीन्द्रियाद्यन्वितोऽष्टाभिः

तैश्‍च सप्तभिः स्त्रींन्द्रियेण(ण) च। ‘आदि’ग्रहणात् पुरुषेन्द्रियदौर्मण (न)स्यश्रद्धादीनां ग्रहणं वेदितव्यम्। तद्वानपि प्रत्येकमष्टाभिः-तैश्‍च सप्तभिः पुरुषेन्द्रियेन(ण) चाष्टमेन। एभिश्‍च कायजीवितमनोभिश्‍चतसृभिर्वेदनाभिः, दौर्मण(न)स्येन्द्रियेण च। श्रद्धा दि[भि]स्तैश्‍च पञ्चभिरुपेक्षाजीवितमनोभिश्‍च।

दुःखी युक्तस्तु सप्तभिः।

यो दुःखेन स सप्तभिः-कायजीतिमनोभिश्‍चतसृभिर्वेदनेन्द्रियैर्दौर्मण(न)स्यं हित्वा, तद्वीतरागस्य नास्तीति।

एकादशभिरन्त्याभ्यां

द्वाभ्यामन्त्याभ्यां युक्तोऽवश्यमेकादशभिः, प्रत्येकं सुखसौमनस्योपेक्षाजीवितमनःश्रद्धादिभिराज्ञेन्द्रियेण च। एवमाज्ञातवदिन्द्रियेण तेन तैश्‍चेति।

सप्त षड्‍भिस्तदाद्यवान्॥

प्रथमेन त्वनास्रवेण यः समन्वागतः सोऽवश्यं त्रयोदशभिर्मनोजीवितकायेन्द्रियैश्‍चतसृभिर्वेदनाभिः श्रद्धादिभिस्तेन चेति॥

अथ सर्वबहुभिः कियद्भिः समन्वागताः ? तदुच्यते-

[101] त्रिद्वीपनरकोत्पन्ना मिथ्यात्वनियता अपि।
[बहुभिः] ह्येकान्नविंशत्या स्वल्पैरष्टाभिरन्विताः॥

[102] अन्तराभविकप्रेततिर्यक्‍श्रद्धानुसारिण [:]।
त्र्यधिकैर्दशभिर्युक्ता दशभिर्वा नवाधिकैः॥

स्वल्पैस्त्रयोदशभी रूपभिः पञ्चभिः श्रद्धादिभिश्‍च जीवितमन‍उपेक्षाभिश्‍च। णा(ना)रकस्य तूच्छिन्नशुभबीजस्य चक्षुरादीनि पञ्चैकं व्यञ्जनं वेदनाश्‍च पञ्च जीवितं मनश्च। तिरश्चां नास्त्युच्छेदः। य इहोच्छिनत्ति सोऽवश्यमवीचिं गच्छति। तेन नत्र नरके श्रद्धाद्या न सन्ति। पञ्च चक्षुरादीनि पञ्च च वेदा, एकं व्यञ्जनं जीवितं मनश्‍चेति त्रयोदश भवन्ति। स्युर्बहुभिश्‍चान्तराभविकाद्याः पृथग्जनास्त्रीण्यमलानि हित्वैकान्नविंशतिभिः, आर्यास्तु श्रद्धानुसारिणो द्वे अमले हित्वैकं च व्यञ्जनमित्येकान्नविंशतिभिरेव समन्वागताः॥

[103] सम्यक्त्वनियता ये तु ये च श्रद्धाधिमुक्तिकाः।
त एकादशभिर्युक्ता दशभिर्वा नवाधिकैः॥

तत्र सम्यक्त्वनियता आर्या इत्यर्थः। ते पञ्चभिः श्रद्धादिभिर्मनोजीविताभ्यां च तिसृभिर्वेदनाभिरेकेन चानास्रवेन(ण)। सर्वप्रभूतैः पुनरेकान्नविंशतिभिरेकलिङ्गद्व्यमलवर्जितैः॥

[104] प्रज्ञाविमुक्तनामार्हत् कायसाक्ष्युभयाह्वयाः।
अक्षैकादशकोपेता यदि वाऽष्टादशान्विताः॥

सर्वाल्पैरेकादशभिः श्रद्धादिभिः सुखसौमनस्योपेक्षाजीवितमनोभिरेकेन चानास्रवेण। बहुभिस्त्वष्टाद[श]भिः, द्वे अनास्रवे दौर्मण(न)स्यमेकं च व्यञ्जनं हित्वा॥

[105] कामदेवा मृताः स्वल्पैर्दशभिः सप्तकाधिकैः।

अनास्रवत्रयं हित्वा दौर्मण(न)स्यं च। तत्रत्यः पृथग्जनो यदि वैराग्यं गच्छति स देवर्षिर्भवति। एकं च व्यञ्जनं हित्वा परिशिष्टैः सप्तदशभिः समन्वागतः।

त एवैकोनविंशत्या युक्ता बहुभिरिन्द्रियैः॥

द्वे अनास्रवे हित्वैकं च व्यञ्जनम्। अत्रापि हि सत्यानि दृश्यन्ते॥

[106] [द्विर्ध्यान] जास्तु सर्वाल्पैर्दशभिः पञ्चकाधिकैः।

प्रथमद्वितीयध्यानोपपन्नानां पृथग्जनानां दुःखदौर्मण(न)स्ये हित्वा द्वे च व्यञ्जने त्रीणि चामलानि, पञ्चदशभिः समन्वागमः।

दशभिः सचतुष्कैस्तु शुभकृत्स्नाः समन्विताः॥

शुभकृत्स्नेषु पृथग्जनस्य सौमनस्यं च हित्वा चतुर्दशभिः समन्वागमः।

[107] बृहत्फला हि अत्यल्पैस्त्रयोदशभिरन्विताः।

बृहत्फलेषु पृथग्जनस्य सुखं च हित्वा दुःखादीनि पूर्वोक्तानि त्रयोदश भवन्ति।

युक्ताः षोडष(श)भिस्त्वेते सर्वभूरिभिन्द्रियैः॥

यद्यार्या भवन्ति तेषां सुखसौमनस्याभ्यामनास्रवाभ्यां समन्वागम इति षोडश भवन्ति॥

[108] अष्टाभिर्दशभिः सैकैरारूप्याः स्वल्पभूरिभिः।

स्वल्पैरष्टाभिः। पृथग्जनस्याष्टा [:] स्वल्पानि भवन्ति। पञ्च श्रा(श्र)द्धाद्धी(दी)नि, जीवितं मन‍उपेक्षा च। बहुभिरेकादशभिरार्यस्य समन्वागमः। पञ्चभिः श्रद्धादिभिः, द्वाभ्यां सुखसौमनस्याभ्यामनास्रवाभ्याम्, जीवितमन‍उपेक्षेन्द्रियैश्‍चतुर्भिरणा(ना)स्रवेण चैकेन।

सदेवकौरवाः सत्त्वास्त्रयोदशभिरन्विताः॥

पञ्चभिः श्रद्धादिभिः पञ्चभिः सुखादिभिः, कायमनोजीवितैश्‍च त्रिभिः॥

[109] अष्टाभिर्निःशुभो युक्तो दशभिर्वा त्रयाधिकैः।

उच्छिन्नशुभमूलो निःशुभः सर्वाल्पैरष्टाभिः समन्वागतः। सुखादिभिः पञ्चभिः कायजीवितमनोभिश्‍च। सर्वप्रभूतैस्तु त्रयोदशभिर्यथोक्तैरष्टाभिश्‍चक्षुरादिभिश्‍चतुर्भिरेकेन च व्यञ्जनेन।

द्विलिङ्गाः पश्चिमैः स्वल्पैर्विशत्याप्येकया परम्॥

उभयव्यञ्जनस्त्रयोदशभिः स्वल्पैः सुखादिभिः कायजीवितमनोभिः श्रद्धादिभिश्‍च पञ्चभिः। चक्षुरादीनामलब्धविहीनत्वादनियमः। सर्वबहुभिस्त्वेकोनविंशतिभिस्त्रीण्यमलान्यपास्य। समाप्तोऽयं मत्स्यकग्रन्थसमुद्रः।

व्याख्यात इन्द्रियानां(णां) धातुगतिप्रभेदप्रदर्शनागतानां विस्तरेण प्रभेदः। अधुना तु मोमांस्यते। किमेते संस्कृता धर्मा यथा भिन्नस्वभावाः, एवं भिन्नोत्पादा अथ नियतसहोत्पादा अपि केचिद्विद्यन्त इति ? विद्यन्त इत्याह।

तत्र संक्षेपेण पञ्चेमा धर्मजातयः-रूपं चित्तं चैतसिकाश्‍चित्तविप्रयुक्ता असंस्कृतं च।

तत्रासंस्कृतं नोदेति न च व्येति।
रूपिणां तु धर्माणामयं नियमः-

[110] सप्तद्रव्याविनिर्भागी परमाणुर्बहिर्गतः।
कामेष्वेकाधिकः काये द्व्यधिकश्‍चक्षुरादिषु॥

सर्वसूक्ष्मः खलु रूपसंस्कारोपादानसंचयभेदपर्यन्तः परमाणुरिति प्रज्ञाप्यते। स तु सप्तद्रव्याविनिर्भागी चतुर्भिर्भूतैस्त्रिभिश्‍चोपादायरूपैस्त्रिभिस्त्रिभिर्वा भूतैश्चतुर्भिश्चोपादायरूपैरविनिर्भागवर्त्यसावष्टम इति।

कोशकारस्त्वाह-“सर्वसूक्ष्मो रूपसंघातः परमानुः(णुः)” इति। तेन संघातव्यतिरिक्तं रूपमन्यद्वक्तव्यम्। यदि नास्ति संघातोऽपि नास्ति। अतः सिद्धं ‘सर्वसूक्ष्मं रूपपरमानुः(णुः)’ इति॥

कायेद्रियसहगस्त्वष्टाभिश्चक्षुरादिसहिता(तो) नवभिः॥

[111] एवं रूपेऽपि विज्ञेयो हित्वा गन्धरसद्वयम्।

रूपधातौ बहिर्गतः पञ्चद्रव्याविनिर्भागी गन्धरसौ हित्वा। कायसहगतस्तु षड्‍भिश्‍चक्षुरादिषु सप्तभिरविनिर्भागिभिः। यदा पुनस्सशब्दकः स संधातो जायते, तदा सर्वत्र यथोक्तेषु शब्दोऽधिको गणयितव्यः।

अत्र पुनर्महाभूतानि सर्वोपादायरूपाश्रयभावप्राधान्याच्चतस्रो द्रव्यजातयो विवक्ष्यन्ते। उपादायरूपधातुचतुष्टयं तु घटादिद्रव्यप्रज्ञप्तिनिमित्तत्वादायतनगणनया गण्यत इति विवक्षितापरिज्ञानान्नास्ति चोद्यावकाशः॥

अरूपिणां पुनः

चित्तं चैतसिकैः सार्धं

अविनिर्भागेन (ण) जायत इति वर्त्तते।

संस्कृतं तु स्वलक्षणैः॥

सर्व हि संस्कृतं स्वलक्षणैः सह जात्यादिभिरुत्पद्यत इति वेदितव्यम्॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्य[अध्यायस्य] द्वितीयः पादः॥

द्वितीयाध्याये

तृतीयपादः।

यदुक्तं चैतसिकास्तु सहोत्पद्यन्त इति तदभिधीयताम्। के पुनस्ते चैतसिका धर्माः ?

ते पञ्चप्रभेदाः-महाभौमाः, कुशलमहाभौमाः, क्लेशमहाभौमाः, अकुशलमहाभौमाः, परीत्तक्लेशमहाभौमिकाश्‍च। महती चित्तभूमिरेषामिति त इमे महाभौमाः। भूमिर्गतिरित्यर्थः। एव सर्वत्र विग्रहः कार्यः।

तत्र तावन्महाभौमा निर्दिश्यन्ते।

[112] दशधर्मा महाभौमा वित्संज्ञाचेतनास्मृतिः।
छन्दः स्पर्शोऽधिमोक्षश्च धीः समाधिर्मनस्कृतिः॥

एते दशधर्माः सर्वस्यां चित्तभूमौ त्रैधातुक्यामनास्रवायां च समग्रा भवन्ति।

तत्र वेदना सुखादिस्त्रिविधोऽनुभवः। त्रिविधं संवेदितमिति पर्यायः। इष्टानिष्टोभयविपरीतविषयेन्द्रियविज्ञानसन्निपातजा धर्मयोनिः कायचित्तावस्था विशेषः प्रह्लाद्युपतापी तदुभयविपरीतश्‍च तृष्णाहेतुर्वेदि(द)नेत्युच्यते।

निमित्तनामार्थैक्यज्ञा संज्ञा वितर्कयोनिः।

चित्ताभिसंस्कारश्‍चेतना।

चित्तव्यापाररूपा स्मृतिः। चित्तस्यार्थाभिलपना कृतकर्तव्यक्रियमान(ण)कर्मान्ताविप्रमोषलक्षणाः(णा)।

च्छ(छ)न्दः कर्तुकामता वीर्याङ्गभूतः।

विषयेन्द्रियविज्ञानसन्निपातजा चित्तस्य विषयस्पृष्टिः, चैतसिकधर्मो जीवनलक्षणः स्पर्शः।

चित्तस्य विषयेऽधिमुक्तिरवि(धि)मोक्षो रुचिद्वितीयनामा चित्तस्य विषयाप्रतिसंकोचलक्षणः।

धीः प्रज्ञा धर्मसंग्रहाद्युपलक्षणस्वभावा।

चित्तस्यैकाग्रता समाधिश्‍चित्तस्थितिलक्षणः।

चित्तस्याभोगो मनस्कारः पूर्वानुभूतादिसमन्वाहारस्वरूपः।

सूक्ष्मः खलु चित्तचैत्तानां विशेषो दुरवधारो रूपिनी(णी)नामेव तावदोषधीनां बहुरसानामिन्द्रियग्राह्योऽपि रसविशेषो दुरवधारः, किमङ्ग पुनरमूर्ताणां(नां) चित्तचैतसिकानां धर्माणामेककलापवर्तिनां बुद्धिगम्यः ? स तु हेतुफलस्वभावैर्मतिमद्भिरभ्यूह्य इति॥

कुशलमहाभौमे भवाः कुशलमहाभौमाः। ते पुणः(नः)

[113] श्रद्धापेक्षाऽप्रमादश्च प्रस्रब्धिर्ह्रीरपत्रपा।
मूलवीर्यमहिंसा च शुभभूका दशस्मृताः॥

तत्र श्रद्धा चेतसः प्रसादो गुणिगुणार्थित्वाभिसंप्रत्ययाकारः, चित्तकालुष्यापनायी। तद्यथोदकप्रसादको मणिः सरसि प्रक्षिप्तः सर्वं कालुष्यमपनीयाच्छतामुत्पादयति तद्वचि(च्चि)त्तसरसि जातः श्रद्धामणिरिति।

अ[प्र]मादः कुशलधर्मभावना तदवहिततेत्यर्थः।

प्रस्रब्धिश्चित्तकर्मण्यता। कायप्रस्रब्घिरप्यस्ति। सा तु तदानुकूल्याद्‍बोध्यङ्गशब्दं लभते। तद्यथा प्रीतिः। प्रीतिस्थानीयाश्‍च धर्माः प्रीतिबोध्यङ्गमुक्तं भगवता। सम्यग्दृष्टिसंकल्पव्यायामाश्‍च प्रज्ञानुकूल्यात् प्रज्ञास्कन्ध इत्युक्ताः। तद्वत्कायकर्मण्यता चित्तकर्मण्यता बोध्यङ्गावाहकत्वात्तच्छब्देनोक्ता।

उपेक्षा चित्तसमता चित्तानाभोगः संस्काराणि(नि)मित्ताभोगमध्युपेक्षानिमित्तप्रवन(ण)ता।

ह्रीः स्वात्मापेक्षा। अकार्यकरणे लज्जा।

अपत्राप्यन्तु परापेक्षाः (क्षम्)।

द्वे तु कुशलमूले अलोभाद्वेषौ। अमोहस्तु प्रज्ञास्वभावत्वान्महाभौमेषूक्त इति न गण्यते।

वीर्वं कुशलाकुशलधर्मोत्पादनिरोधाभ्युत्साहः, संसारनिमग्नस्य चेतसोऽभ्युन्नतिरित्यर्थः।

अविहिंसा सत्त्वाविहेठना।
उक्ताः कुशलमहाभौमाः॥

[114] स्त्यानं प्रमत्तिराश्रद्‍ध्यमालस्यं मूढिरुद्धति[:]।
क्लिष्टे षट्

तत्र

स्त्यानं कायचित्ताकर्मण्यता।

प्रमादः कुशलानां धर्माणामभावना। भावनाविपक्षभूतो धर्मः।

आश्रद्ध्यं चित्ताप्रसादः, चित्तकालुष्यमित्यर्थः। गुणेषु गुणवत्सु चासंप्रत्ययोऽनर्थित्वं च।

कौसीद्यं चित्तस्यानभ्युत्साहः।
मूढिरविद्यानुकाराऽसंप्रख्यानरूपा।
औद्धत्यं चित्तस्याव्युपशमः।
उक्ताः षट् क्लेशमहाभौमाः।

अभिधर्मे तु दश पठ्यन्ते-"आश्रद्धय्म्, कौसीद्यम्, मुषितस्मृतिता, चेतसो विक्षेपः, अविद्या, असंप्रजन्यम्, अयोनिशो मनसिकारः, मिथ्याधिमोक्षः, औद्धत्यम्, प्रमादश्च" इति।

तत्र मुषितस्मृतिविक्षेपासंप्रजन्यायोनिशोमनसिकारमिथ्याधिमोक्षाः पञ्चमहाभौमेषु पठिताः। क्लिष्टाऽक्लिष्टानामुभयेषां स्मृत्यादिस्वाभाव्यादितीह न पृथग्गण्यन्ते। तस्मात् षडेव क्लेशमहाभौमाः।

अशुभे तु द्वे आह्रीक्यमनपत्रपा॥

अकुशले तु चेतसि आह्रीक्यमनपत्राप्यं च द्वौ धर्मावकुशलमहाभौमिकौ भवतः। तत्राह्रीक्यं ह्रीविपक्षभूतो धर्मः। अनपत्राप्यमपत्राप्यस्येति। अकार्यं कुर्वाणस्यालज्जा स्वात्मनो[ऽ]ह्रीः। परेभ्यो[ऽ]लज्जा अनपत्राप्यमित्यपरे।

परीत्तक्लेशमहाभौमा निर्दिश्यन्ते।

[115] मायाशाठ्‍यमदक्रोधविहिंसेर्ष्याप्रदष्टयः।
सूक्ष्मोपणा(ना)हमात्सर्याण्यल्पक्लेशभुवो दश॥

एते हि क्लेशा भावनाहेयेनाविद्यामात्रेण मनोभूमिकेनैव संप्रयुज्यन्ते।
एषां तु लक्षणमुपक्लेशचिन्तायां पञ्चमेऽध्यायेऽभिधायिष्यते॥

कथं पुण(न)रिदं विज्ञायते चित्तादर्थान्तरभूताश्‍चैतसिकाः ? चित्तमेव हि तद्वेदनादिनामभिर्व्यपदिश्यत इत्येवं चेष्यमाने बुद्धसूत्रमनुलोमितं भवति। यदुक्तं भगवता-“षड्‍धातुरयं भिक्षवः पुरुषपुद्‍गलः” इत्यत्र विज्ञानधातुरेवोक्तः। तस्मान्नार्थान्तरभूताश्‍चैतसिका इति भदन्तबुद्धदेवः। तं प्रतीदमभिधीयते-

[116] पृथिव्यादि यथा द्रव्यं नीलादिगुणयोगतः।
तैस्तैर्विशेष्यते शब्दैश्‍चैत्तयोगान्मनस्तथा॥

यथा हि पृथिवीधातुरब्धातुर्वा रूपरसगन्धाद्युपादायरूपैर्विशेष्यते। नीला ग्र(ग्रा)वाणः, नीलमुदकं मधुरा द्राक्षा मधुराः खर्जूरा मधुरतरो गुड इत्येवं सुखितं चित्तं दुःखितं चित्तं समाहितं चित्तं सोत्साहं कुसीदं मूढं रक्तं द्विष्टमित्येवमादिभिः शब्दैश्‍चैतसिकैर्धर्मैर्योगाद्विशेष्यते। साध्यसमत्वादयुक्तमिति चेत्। न। उक्तोत्तरत्वात्। विहितमत्र- भूतभू(भौ)तिकान्यत्वचिन्तायामुत्तरमिति। तस्माद्विशेषप्रत्ययानामनाकस्मिकत्वात्सिद्धमन्यत्वं चैतासिकानामिति।

इतश्‍च चित्तचैतसिकान्यत्वम्-

[117] भूतभौतिकनानात्वं स्वरूपेहाकृतं यथा।
तथैव चित्तचैत्तानां पृथक्त्वमुपधार्यताम्॥

यथा खलु भूतानां भौतिकस्य च रूपस्य स्वभावभेदात्, क्रियाभेदाच्चान्यत्वम्; तथा चित्तस्य चैत्तानां च स्वभावक्रियाभेदादन्यत्वं द्रष्टव्यम्॥

[118] यथा संबन्धिसंबन्धाद्विकारोऽम्भसि लक्ष्यते।
तथा संसर्गिसंसर्गाच्चेतोविकृतिरीक्ष्यताम्॥

यथा खलु वह्निहरीतकीगुडलवणादिद्रव्यसंबन्धाद्विकारोऽम्बुनि दृश्यते, उष्णमम्ब्लं कषायं मधुरं लवन(ण)मिति। तद्वच्चैतसिकसंबन्धाच्चित्तमपि सुखितं दुःखितं प्रसन्नमभ्युन्नतं सालोकं सान्धकारमिति।

सूत्रेऽपि चान्यत्वमुक्तम्-“संज्ञा च वेदना च चैतसिक एष धर्मः” इति॥

इदमिदानीं वक्तव्यम्। युगपदुत्पन्नानां चित्तचैतसिकानां धर्माणां कथं चैतसिका धर्मा इत्युच्यन्ते ? को वा धर्मार्थः? तदपदिश्यते-

[119] गुणो विशेषणं धर्मो मात्रावृत्तिस्तथाश्रयी।
इत्येवमादयः शब्दाः प्रधानापेक्षवृत्तयः॥

प्रधानं हि द्रव्यं विशेष्यभूतमपेक्ष्यः(क्ष्य) गुणधर्मविशेषेण मात्रावृत्तयः शब्दाः प्रवर्तन्ते। कि पुण(न)रत्र प्रधानम् ?

[120] चित्तं प्रधानमेतेषां

कुत इति चेत्।

वस्तुमात्रग्रहादिभिः।

वस्तूपलब्धिमात्रं हि चित्तं तेनोपलब्धे वस्तुनि संज्ञास्मरणे लक्षणानुस्मरणाभिनिरूपणादयो विशेषाः संज्ञाप्रज्ञास्मृत्यादिभिर्गृह्यन्ते। ‘आदि’ग्रहणादत्रात्माभिनिवेशाद्राजस्थानीयत्वाच्च। किञ्च,

बीजं चैतत्प्रवृत्तीनां शुद्धिसंकरयोरपि॥

उक्तं हि भगवता-“चित्तसंक्लेशात्सत्त्वाः संक्लिश्यन्ते। चित्तव्यवदानहेतोर्विशुध्यन्ते” इति। तस्मात्प्रधानं चित्तम्। यथोक्तम्-

“दूरङ्गममेकचरमशरीरं गुहाशयम्।
ये चित्त(त्तं) दमयिष्यन्ति ते मोक्ष्यन्ते मारबन्धनात्॥”

तत्र दूरङ्गमं शास्तुः सर्वलोकधातुस्थविनेयकार्यकरणात्। एकचरं युगपद् द्वितीयचित्ताभावात्। अशरीरं मूर्त्यभावात्, क्रियामात्रानुमेयस्वभावत्वाच्च। गुहाशयं शरीरबलेन। तद्‍वृत्तिव्यक्तेरिति। तस्य धर्माः संप्रयोगिणश्‍चैतसिका इति।

व्याख्याताः पञ्चप्रकाराश्‍चैत्ताः। अन्येऽपि चानियताः पठ्‍यन्ते-वितर्कविचारकौकृत्यमिद्धादयः।

तत्रेदं वक्तव्यम्। कस्मिंश्‍चित्ते कति चैत्ता भवन्ति ?

कामावचरं तावत् पञ्चप्रकारं चित्तम्। कुशलम्, अकुशलं द्विविधमावेणिकमन्यत्क्लेशसंप्रयुक्तं च। अव्याकृतं द्विविधं निवृतानिवृताव्याकृताख्यम्॥

तत्र तावत्कामावचरं चित्तमवश्यं सवितर्कसविचारम्। अतस्तत्

[121] अभ्युद्‍गच्छति कामाप्तं धर्मैर्द्वादशभिः सह।
अक्लिष्टाव्याकृतं चित्तं रश्मिवानिव रश्मिभिः॥

कामावचरमनिवृताव्याकृतं चित्तं दशभिर्महामौमैर्वितर्कविचाराभ्यां च सहावश्यमुदेति॥

[122] तथाष्टादशभिश्‍चित्तैर्निवृतं जायते मनः।

सत्कायान्तग्राहदृष्टिसम्प्रयुक्तं चित्तं कामधातौ निवृताव्याकृतम्। तत्राष्टादश चैतसिका भवन्ति। दशमहाभौमाः[षट् क्लेशमहाभौमाः] वितर्कविचारौ च। दृष्टिर्नाधिका पूर्व[वत्]।

द्वाविंशत्या सहावश्यं शुभं भवति मानसम्॥

दशमहाभौमाः दशकुशलमहाभौमाः वितर्कविचारौ च॥

[123] चेतसोस्सह विंशत्या चित्तमुत्पद्यतेऽशुभम्।

यदकुशलं चित्तमावेनि(णि)कं तत्र विंशतिश्‍चैत्ताः-दशमहाभौमाः षड्‍ले(क्ले)शमहाभौमा द्वावकुशलमहाभौमौ वितर्को विचारश्‍च। आवेणिकं नाम चित्तं यत्राविद्यैव केवला नान्यः क्लेशोऽस्ति रागादिः।

दृङ्मोहमात्रयुक्तं यत्

दृष्टियुक्तेऽप्यकुशले विंशतिर्य एवावेनि(ण)के। ननु च दृष्टिरधिका ? नाधिका, प्रज्ञाविशेष एव हि कश्‍चिद् दृष्टिरित्युच्यते। स च महाभौमेषु पठितः।

कः पुण(न)रयं वितर्कः को वा विचारः ? वितर्को णा(ना)म चित्तौदार्यलक्षणः संकल्पद्वितीयनामा विषयनिमित्तप्रकारविकल्पी संज्ञापवनोद्धतवृत्तिः, औदारिकपञ्चविज्ञानकायप्रवृत्तिहेतुः। विचारस्तु चित्तसौक्ष्म्यलक्षणो मनोविज्ञानप्रवृत्त्यनुकूल(लः)। इत्येतौ द्वौ धर्मौ कामावचरे चेतसि सर्वस्मिन्नियमेनोत्पद्येते।

तदिदमतिसाहसं वर्तते यद्विरुद्धयोरपि द्वयोर्धर्मयोरेकत्र चित्ते समवधानं प्रतिज्ञायते। न ह्येतल्लोके दृष्टं यद्विरुद्धयोरेकत्र सहावस्थानमिति कोशकारः।

तत्र केचिदाहुः-सर्पिर्यथाऽप्सु निष्ठ्‍यूतं नातिश्यायते नातिविलीयते, एवं वितर्कविचारयोगाच्चित्तं नातिसूक्ष्मं भवति नात्युदारमित्युभयोरपि तत्र व्यापारः। एवं तर्हि णि(नि)मित्तभूतौ वितर्कविचारावौदार्यसूक्ष्मतयोः प्राप्नुतो यथाऽऽपश्‍चातश्‍च सर्पिषःश्यानत्वविलीनत्वयोर्ण(र्न) पुण(न)स्तत्स्वभावौ।

अन्ये पुण(न)राहुः-वाक्संस्कारा वितर्कविचाराः सूत्रेऽभिहिताः।

“वितर्क्य विचार्य वाचं भाषते नावितर्क्याविचार्य” इति। तत्र य औदार्यास्ते वितर्काः। ये सूक्ष्मास्ते विचाराः। यदि चैकत्र चित्तेऽन्यो धर्म औदारिकोऽन्यः सूक्ष्मः कोऽत्र विरोध इति ? न विरोधो यदि जातिभेदः स्यात्। एकस्यान्तु जातौ मृद्वधिमात्रता युगपन्न संभवति। जातिभेदोऽप्यस्ति स तर्हि वक्तव्यः। दुर्वचो ह्यसौ। अतो मृद्वधिमात्रतया व्यज्यते। नैवं व्यक्तो भवति। प्रत्येकं जातीनां मृद्वधिमात्रत्वात्।

तदिदमन्घविलासिनीकटाक्षगुणोत्कीर्तण (न)कल्पं चोद्यमारभ्यते। यदनवबुध्य तल्लक्षणं चोद्यविधिः मिथ्या प्रतार्य(य) ते। तयोर्हि यथोक्तलक्षणयोरेकस्मिंश्‍चेतसि सद्भावमात्रं प्रतिज्ञायते न युगपद् वृत्त्युद्रेकतालाभः। यथा विद्यविद्ययोः संशयनिर्णययोश्‍चेति तूष्णीमास्व। मा विद्वद्भिरवजीहसः स्वमात्मानम्।

सा पुनर्दृष्टिस्त्रिप्रकारा मिथ्यादृष्ट्याद्या वेदितव्याः।

क्रोधाद्यैस्त्वधिकं वदेत्॥

क्रोधाद्यैस्तूपक्लेशैरधिकं भवति। स च क्रोधादिरुपक्लेशोऽधिकः। क्लेशैश्‍च संप्रयुक्तं रागप्रतिघमानविचिकित्साभिश्च युक्तं चित्तं तेन च क्लेशाधिकं भवतीत्येकविंशतिर्भवन्ति॥

[124] सर्वत्र संभवान्मिद्धं यत्र स्यात्तत्र निर्दिशेत्।
तद्वदेव च कौकृत्यमधिकं गणयेत्क्वचित्॥

यत्र मिद्धं तत्र तदेवाधिकं गणयेत्। यत्रापि तदेवाधिकमिति य एष कामधातौ चैत्तानां नियम उ[क्तस्त]तः॥

[125] साशुभं मिद्धकौकृत्यं रूपधातौ न विद्यते।
ध्यानान्तरे वितर्कश्च विचारश्चापि नोपरि॥

न किञ्चिदकुशलं मिद्धं कौकृत्यं च प्रथमध्यानादौ विद्यते। तेन तत्र प्रतिघशाठ्यमदमायावर्ज्याश्च क्रोधादयः, आह्रीक्यानपत्राप्ये च न सन्ति। य एव प्रथमे ध्याने सन्ति त एव ‘ध्यानान्तरे’, ‘वितर्कश्च न विद्यते। पूर्वोक्ताश्च न सन्तीति ‘च’शब्दात्। विचारश्‍चापि नोपरि।’ ध्यानान्तरात्तूपरिविचारश्‍चापि नास्ति पूर्वोक्ताश्‍च। ‘च’शब्दात् माया शाठ्‍यं च नास्तीति गम्यते।

ब्रह्मनो(णो) हि यावच्छाठ्‍यं पठ्यते, पर्षत्संबन्धात्। स हि स्वस्यां पर्षदि अश्वजिता भिक्षुणा प्रश्‍नं पृष्टः “कुत्र तानि चत्वारि महाभूतान्यपरिशेषं निरुध्यन्ते” इत्यप्रजानन् क्षेपमकार्षीत्-“अहमस्मि ब्रह्मा महाब्रह्मा ईश्‍वरः कर्त्ता निर्माता स्रष्टा सृजः पितृभूतो भावानाम्” इति। गतमिदम्॥

इदं वक्तव्यम्। संप्रयुक्ताः संस्काराः कस्मादुच्यन्ते ? तदारभ्यते।

[126] संप्रयुक्तः संस्कारः समता यस्य पञ्चधा।
विप्रयुक्तश्‍च बोद्धव्यः समता यस्य नास्त्यसौ॥

पञ्चभिः समताभिः संप्रयुक्ताः संप्रयुक्ताः। ताः पुनराश्रयालम्बनाकारकालद्रव्यसमताख्याः। “यथैव ह्येकं चित्तमेवं चैत्ता अप्येकैकाः” इति विस्तरः। यस्य पुण(न)रेताः समता न विद्यन्ते स विप्रयुक्त इति॥

चोदकः-कश्‍चिद्रूपं तर्हि विप्रयुक्तं प्राप्नोति, असंस्कृतं चेति ? संप्रत्युच्यते।

[127] विशिष्टाणा(ना)मसद्भावात्प्रसंगो नास्ति रूपिणाम्।
संस्कारग्रहणाच्चैव खादीनां ण(न) प्रसज्यते॥

विशिष्टेन खलु निरोगेण(नियोगेन) रूपिषु संज्ञा सन्निविशन्त इति तेष्वप्रसंगः। संस्कारग्रहणाच्च खादिषु विप्रयुक्तसंज्ञा न प्रवर्तत इति सिद्धम्॥

के पुनस्ते विप्रयुक्ताः संस्काराः ? कियन्तो वेति ? नहि वयमेतेषां स्वभावमुपलभामहे। नापि कृत्यम्। नचैते धर्मा लोके प्रसिद्धा नापि बुद्धवचने। न वेदादिषु शास्त्रेष्विति। तदत्रोपव्याह्रीयते-

[128] प्राप्त्यादयस्तु संस्कारा विप्रयुक्तास्त्रयोदश।
आप्तोक्तिस्वक्रियालिङ्गा लिङ्गमेषां गदिष्यते॥

यत्तावत् स्वभावक्रियाभावादिति। तदत्रोभयमभिधायिष्यते। यदपि बुद्धवचने न पठ्यन्त इति। तत्राप्याप्तवचनं सार्वज्ञं व्याहरिष्यते। यत्त लोके न वेदादिषु पठ्यन्त इति तच्चोद्यम्। ये खलु सर्वज्ञविषया धर्माः प्रतिसंविल्लाभिनां बुद्धिवृत्तिविषयमायान्त्यार्यमैत्रेयस्थविरवसुमित्राचार्याश्वघोषप्रमुखाणां(नां) च बोधिसत्त्वानां बुद्धिप्रसादविधायिनस्तेजोल्पानां स्तनन्धयबुद्वीनामभिधर्मपरीक्षमतिवृत्तीनां च कथं सान्धकारेषु मनस्सु गोचरतामायान्तीति॥

तत्र तावत्

[129ab.] प्राप्तिः समन्वितिर्लब्धिर्धर्मवत्ता व्यवस्थितिः।

प्राप्तर्णा(र्ना)म समन्वागमो लाभ इति पर्यायः। सर्वथा भावाञ्छब्दैरेव शब्दानाचष्टे। यथैंव खलु प्राप्तिरित्येतच्छब्दगडुमात्रं श्रूयते तथैव समन्वागमो लाभ इत्येतदपि पदद्वयं वाग्वस्तुमात्रमिति न पर्यायनाम्ना लक्षणमुद्योतितं भवति। तस्मादव्यभिचारि तत्प्रसाद(ध)कं लिङ्गमुच्यताम्। इमे ब्रू मः। श्रोत(त्र)मवधत्स्व मनश्‍चैकाग्रतायां सन्नियुक्त्वा। ‘धर्मवत्ता व्यवस्थितिः।’ धर्माः खलु त्रिधा कुश[लाः].........

............रूपेऽपि कुशलया विज्ञप्त्या वर्तमानया यावद्विज्ञापयति, अतीतया च समन्वागतः।

[130cd.] श्रुतचिन्तामयानां च समापत्तिद्वयस्य च।

श्रुतचिन्तामयानामपि। सहजा पश्‍चाद् भवति द्वयोश्‍चाश्‍चि(चि)त्त समापत्त्योस्सह पश्‍चाद् भवतीति।

[131] नि[:]क्लेशसंस्कृतापूर्व(र्वं) शुभानां तु रजस्वताम्।
आदिलाभे सह प्राक्‍च तदूर्ध्वं वा त्रिधेष्यते॥

अनास्रवानां(णां) च स्कन्धानां, अनुचितानां च कुशलसास्रवानां(णां) न पूर्वजा। एषामेव यत्तोक्तानां ‘तदूर्ध्वं तु तृ(त्रि)धेष्यते।’ यदा तेन संमुखीभूता तदा द्विधैवेति वर्तते॥

[132] क्लिष्टाणां कुशलानां च तदन्येषां त्रिधा मता।

क्लिष्टाणां च स्कन्घानां त्रैयध्विकी प्राप्तिः। ‘कुशलानां च तदन्येषां’ तेभ्योऽनास्रवेभ्यस्तेभ्यश्चानुचित्तेभ्यः कुशलसास्रवेभ्योऽन्येषां कुशलसास्रवानां(णां) त्रैयध्विक्येव।

निवृताव्याकृता ज्ञाननिर्माणमनसां तथा॥

त्रैयध्विकीति वर्तते॥

[133] निर्वाणस्यादितो लाभे नित्यस्यान्यस्य सर्वदा।

निर्वाणस्य तत्प्रथमतो लाभे द्वैयध्विक्येव। अनागतवर्तमानालब्धस्यातीताऽपि। ‘नित्यस्यान्यस्य सर्वदा।’

अजा तवर्तमाना च

अप्रतिसंख्यानिरोधस्यानागतवर्तमानैव नित्यम्।

कदाचित्तु त्रिधेष्यते॥

येन लब्धस्तस्य त्रैयघ्विकीत्युक्तमेतत्।

व्याख्याते प्राप्त्यप्राप्ती॥

सभागता वक्तव्या। केयं सभागता नाम ? नहीह प्रवचने तीर्थ्यपरिकल्पितसामान्यविशेषपदार्थगन्धोऽप्यस्ति। तत्केयं तदभ्यासगतेति ? तदिदं प्रतार्य (य)ते।

[134] एकार्थरुचिहेतुर्यः सत्त्वानां स सभागता।

सभागता नाम द्रव्यम्। सत्त्वानामेकार्थरुचिः सादृश्यहेतुभूतम्। निकायसभाग इत्यस्य शास्त्रसंज्ञा। सा पुनरभिन्ना भिन्ना च। अभिन्ना सर्वसत्वानां सत्त्वसभागता। सा प्रतिसत्त्वं सर्वेष्वात्मस्नेहाहाररतिसाम्यात्। भिन्ना पुनस्तेषामेव सत्त्वानां धातुभूमिगतियोनिजातिस्त्रीपुरुषोपासकभिक्षुशैक्षाशैक्षादीनामेकार्थरुचित्वभेदप्रतिनियमहेतुः। तस्यां खल्वसत्यां सर्वार्याणा(ना)र्यलोकव्यवहारसंकरदोषः प्रसज्येत। तस्यां तु सत्यामेष दोषो न भवतीत्यस्ति सभागता नाम धर्मः, ‘एकार्थरुचिहेतुः’ इति।

स्याच्च्‍यवेतोपपद्येत न च स्व[स]भागतां विजह्यात्, न [च] प्रतिलभेतेति ? चतुष्कोटिकः। प्रथमा कौटिः-यतश्च्यवते तत्रवोप[प]द्यमानः। द्वितीया-नियाममवक्रामन्, स हि पृथग्जनसभागतां विजहात्यार्यसभागतां प्रतिलभते। तृतीया-गतिसंचारात्। चतुर्थी-एतानाकारान् स्थापयित्वा।

अथ पृथग्जण(न)त्वस्यास्याश्‍च कः प्रतिविशेषः ? पृथग्जनसभागता खलूक्तरूपा। पृथग्जनत्वं तु सर्वानर्थकरभूतमिति सुमहांस्तद्विशेषः। आप्तवचनेनापि तदन्यत्वसिद्धिः। उक्तं हि भगवता-“स चेदित्थत्वमागच्छति मनुष्यानां(णां) सभागतां प्रतिलभते” इति। न चैवं पृथग्जनत्वं प्रतिलभ्यते वा त्यज्यते वा।

सिद्धा सभागता। कोशकारः पुनस्तां वैशेषिकपरिकल्पितजातिपदार्थेण(न) समीकुर्वन् व्यक्तं पायसवायसयोर्वर्णसाधर्म्यं पश्यतीति॥

अथ किमिदमासंज्ञिकं नाम ? तदपदिश्यते।

आसंज्ञिकं विपाको यच्चित्तोपच्छेद्यसंज्ञिषु॥

असंज्ञिसत्त्वेषु देवेषूपपन्नानां यच्चित्तोपच्छे दिधर्मान्तरं विप्रयुक्तं विपाकजमुत्पद्यते तदासंज्ञिकं नाम। येन तत्रोपपन्नानां चित्तमनागत्वे(ते)ऽध्वनि कालान्तरं सन्निरुध्यते, नोत्पत्तुं लभते। तत्पुनरेकान्तेन विपाकजस्वभावम्। कस्य विपाकः ? असंज्ञिसमापत्तेः पूरकस्य कर्मणः। केषु पु[नस्तत्] ? देवनिकायेषु भवति। तदाह-“असंज्ञिषु। असंज्ञिसत्त्वा नाम देवा बृहत्फलदेवनिकायसंगृहीता ध्यानान्तरिकावत्।” किं पुनस्ते नैव कदाचित् संज्ञिनो भवन्ति ? भवन्त्युत्पत्तिकाले च्युतिकाले च। “प्रकृष्टमपि कालं [स्थित्वा सह]संज्ञोत्पादात्तेषां सत्त्वानां तस्मात् स्थानाच्च्युतिर्भवति” इति सूत्रपाठः। ते च ततो दीर्घस्वप्नव्युत्थिता इव च्युत्वा कामधातावुपपद्यन्ते, नान्यत्र। तदुपपन्नानामवश्यं कामावचराऽपरपर्यायवेदनीयकर्मसद्भावात्। यथोत्तरकौरवानां(णां) देवोपपत्तिवेदनीयं कर्मेति॥

का पुनरसावसंज्ञिसमापत्तिरिति ? तदपदिश्यते-

[135] शुभाऽसंज्ञिसमापत्तिर्ध्यानेऽन्त्ये चित्तरोधिनी।

आसंज्ञिकमव्याकृतम्। विपाकफलत्वात्। इयं तु शुभाः(भा)। सा पुनरियं ‘ध्यानेऽन्त्ये’ चतुर्थध्यानसंगृहीतेत्यर्थः। ‘चित्तरोधिनी’, यथैव तत्फलं चित्तसन्निरोधि तथैवेयमपि चित्तसंरोधिनी। चित्तग्रहणाच्च चैत्तानामनुक्तसिद्धिरादित्यास्तगमने किरणास्तगमनवत्।

किमर्थं पुण(न)रेतां योगिणः(नः) समापद्यन्ते ?

निःसृतीच्छाप्रवृत्तित्वात्

ते हि निस्सरणसंज्ञापूर्वकेण मनस्कारेण तां समापद्यन्ते मोक्षकाङ्क्षया। सा पुनरियम्-

नार्यस्य

आर्या हि तामपायस्थानमिव मन्यन्ते। पृथग्जनास्तु केचिन्मोक्षस्थानमिति।

किं पुण(न)रियमुपपत्त्या वा वैराग्येण वा लभ्यते ? नेत्याह। किं तर्हि ?

आप्या प्रयोगतः॥

यत्नेन तामुत्पादयतीति॥

[136] निरोधाख्या तु विज्ञेया विजिहीर्षोर्भवाग्रजा॥

निरोधसमापत्तिरपि चित्तचैत्तानां धर्माणां कञ्चित्कालमुत्पत्तिसन्निरोधिनी। सा पुनरियं विहारसंज्ञापूवकेन(ण) मनसिकारेण निर्वाणसदृशं सुखमनुभवितुकामैर्योगिभिः संमुखीक्रियते। ‘भवाग्रजा’ चेयं समापत्तिः।

शुभाऽर्यंस्य प्रयोगाप्या द्विवेद्याऽनियता मता॥

द्वयोः कालयोर्वेद्या ‘द्विवेद्या’। उपपद्यवेदनीया चापरपर्यायवेदनीया च। अनियतवेदनीया चेयम्। यो ह्येतामुत्पाद्य परिणि(नि)र्वाति स नास्या विपाकं प्रतिसंवेदयते। तस्या हि भवाग्रे चतुस्कन्धको विपाको विपच्यते। आर्यश्‍चैतामुत्पादयितुं शक्नोति नानार्यः। उच्छेदभीरुत्वाच्छाश्‍वतदृष्टिप्रहाना(णा)दार्यमार्गवलोत्पादनाच्च। आर्यस्यापि चेयं प्रयोगलभ्या न वैराग्यलभ्येति।

अत्र पुनः कोशकारः प्रतिजानीते-“सचित्तिकेयं समापत्तिः” इति। “समापत्तिचित्तमेव हि तच्चित्तान्तरविरुद्धमुत्पद्यते। येन कालान्तरमन्यस्य चित्तस्याप्रवृत्तिमात्रं भवति। तद्विरुद्धाश्रयापादनात् साऽसौ समापत्तिरिति प्रज्ञाप्यते।”

तदेतदबौद्धीयम्। कुतः ?

[137] चेतश्‍चतुष्टयायोगादागमादुपपत्तितः।
निर्वेदितमनोभावात्सिद्ध्यतीयमचित्तिका॥

भवाग्रे खलु चत्वारि चित्तानि विद्यन्ते। विपाकजं निवृताव्याकृतं कुशलमुपपत्तिलाभिकं प्रायोगिकं च। तेभ्यश्चतुर्भ्यः कतरच्चित्तं यन्निरोधसमापन्नस्यान्यचित्तनिरोधीत्युच्यते ?

तत्र तावद्विपाकजं तत्रत्यां .............................

“.............धर्मे प्रतिपत्त्येवाज्ञामाराधयति। नापि मरणकालसमये। भेदाच्च कायस्यातिक्रम्य देवान् कबडीकारभक्षानन्यतमस्मिन् दिव्ये मनोमये काय उपपद्यते। स तत्रोपपन्नः [अभोक्ष्णं] संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते च। अस्ति चैतत्स्थानमिति यथाभूतं प्रजानाति” इति।

अत्र स्थविर उदायी स्थविरशारि[पु]त्रमिदमवोचत्-“मा त्वमायुष्मन्नेवं वोचः।” स हि मन्यते स्म भावाग्रीकीयं समापत्तिर्दिव्यश्च मनोमयः कायश्चतुर्थघ्यानभूमिक उक्तो भगवता तत्कथमेतदुपपत्स्यते। तदेतद् भदन्तोदायिना परिहानि(णि)मजानानेनाभिधर्मसंमूढेन प्रत्युक्तः स भगवता परमाभिधा मकेणावसादनार्थमभिहितः-“त्वमपि मोहपुरुष शारिपुत्रेण भिक्षुणा सार्धं गभ्भीरेऽभिधर्मे संलपितुं मन्यसे ?” [इति]

निकायान्तरीयाश्चतुर्थघ्यानभूमिकामपि निरोधसमापत्तिमिच्छन्ति। तेषां विना परिहान्या(ण्या) सिद्धत्येतत्सूत्र[म्]। ये (ए)तदेव तु न सिद्ध्यति-चतुर्थध्यानभूमिकाप्यसावस्तीति। कथम् ? “नवानुपूर्वसमापत्तयः” इति सूत्रे वचनात्। प्राप्तकामवशित्वात्तु सन्तः पश्चाद्विलंध्यापि व्युत्क्रान्तसमापत्तिं समापद्यन्त इति॥

व्याख्याते समापत्ती।

[138] गतिप्रज्ञप्त्युपादानमायुश्‍चित्तोष्मणोः स्थितिः।
आगमाद्युक्तितश्‍चैव द्रव्यतस्तत्सदिष्यते॥

आयुर्जीवितमित्यनर्थान्तरम्। उक्तं ह्यभिधर्मे-“जीवितेन्द्रियं कतरत् ? त्रैधातुकमायुः” इति। तत्पुनः ‘गतिप्रज्ञप्त्युपादानं’ विपाकजस्वभावत्वात्। उक्तं हि सूत्रे-“निर्वृत्ते विपाके नारक इति संख्यां गच्छति। एवं यावन्नवसंज्ञानासंज्ञायतनोपगसंख्यां गच्छति” इति। न चान्यदिन्द्रियं विपाकजं त्रैधातुक व्याप्यस्ति यज्जन्मप्रबन्धाऽविच्छेदेन वर्तमानं गतिप्रज्ञप्त्युपादानं स्यात्, अन्यत्र जीवितेन्द्रियात्।

तत्पुनरस्तीति कथं गम्यते ? आगमाद्युक्तितश्च। आगमस्तावदयम्-

“आयुरुष्माथ विज्ञानं यदा कायं जहत्यमी।
अपविद्धस्तदा शेते यथा काष्ठमचेतनम्॥”

सर्वं हि जीवितेन्द्रियं कामधाताववश्यं कायेन्द्रियोष्मसहचरिष्णु। तत्त्ववश्यं विज्ञानसहवर्ति नापि चक्षुरादीन्द्रियसहवर्ति। रूपधातौ तु सर्वं कायादिपञ्चेन्द्रियसहवर्ति। न त्ववश्यं चित्तसहचरिष्ण। आरूप्यधातौ तु सर्वं विज्ञानसहवर्ति, अन्यत्र निरोधसमापत्तेः।

जीवितेन्द्रियं गतिप्रज्ञप्त्युपादानमस्तीति द्रव्यम्। अन्यथा हि कुशलनिवृत्ते चेतसि निर्मलो(ले) वाऽधोभौमे तद्‍गतिप्रज्ञप्त्युपादानविपाकजं किं कल्प्येत यत्सद्भावादसौ ततो न प्रच्युतः स्यात् ? न च शक्यं प्रतिज्ञातुमनास्रवाना(णा)[म]धोभूमिविज्ञानबीजं तद्‍गतिसंज्ञप्त्युपादानं कल्पयितुम्, अनास्रवस्य चित्तस्य समुच्छेदाय प्रवृत्तत्वात्। न चान्यद्विज्ञानं तद्भौमं शक्यं कल्पयितुं मनोविज्ञानधातुव्यतिरिक्तस्यानाकारमालम्बनस्य विज्ञानस्याप्रसिद्धत्वात्। मनोधातुरिति चेत्। न। मनोविज्ञानधातोरेवावस्थान्तरे तन्नामप्रज्ञप्तेः। युक्तिरपि-चक्षुरादिवत्तदाधिपत्यविशेषात्।

“समाधिबलेन कर्मजं जीवितावेधं निर्वर्त्यायुः संस्काराधिष्ठानजम्, आयुर्न विपाकः” इति कोशकारः। तत्र किमुत्तरमिति ? न तत्रावश्यमुत्तरं वक्तव्यं यस्मान्नैतत्सूत्रेऽवरति, विनये न संदृश्यते, धर्मतां च विलोम यति। तस्माद् बालवचनवदध्युपेक्ष्यमेतत्।

कथं तावत्सूत्रे नावतरति, विनये न संदृश्यते ? सूत्रे ह्यक्तम्- “अस्थानमनवक शो यत्प्रहान(ण)हेतोर्वा उपक्रमहेतोर्वा अपक्वं परिपाचयेत्, परिपक्वं वा अन्येन नयेन नयेत्” इति विस्तरः।

विनयेऽपि “नियतवेदनीयं त्रि[प्रका]रं कर्म सदेवकेनापि लोकेन न शक्यं व्यावर्तयितुम्” इति परिग्रहः।

अभिधर्मेऽपि सर्वापरिमितमायुराक्षिप्यते। तस्यापक्षालाः कालस्थानान्तरावस्थानादिषु नियम्यन्ते। इत्येवं तावदागमादपेतं नोत्तरार्हम्।

तथापि तु युक्तिमदुत्तरमुच्यते। यदि भगवान् समाधिबलेन स्वेच्छया[ऽ]पूर्वं सत्त्वं सविज्ञानकं सेन्द्रियमुत्पादयेत्, स्वात्मनो वा जीवितमनाक्षिप्तं प्राक्कर्मभिर्योगबलेनाक्षिपेत्, ततो बुद्धो भगवान्नारायनी(णी)कृतः स्यात् अपूर्वसत्त्वनिर्माणात्। स च कारुणिकत्वान्नेव परिणि(नि)र्वायात्, शासनं(न)सम्भेदसंदेहांश्च च्छिन्द्यात्। तस्माद्वैतुलिकशास्त्रप्रवेशद्वारमारब्धं तेन भदन्तेनेत्यध्युपेक्ष मेतत्।

अथ किमायुःक्षयादेव मरणं भवत्याहोस्विदन्यथाऽपि ? प्रज्ञप्त्यामुक्तम्-“अस्त्यायुःक्षयान्मरणं न पुण्यक्षयादिभिः? चतुष्कोटिकः। प्रथमा कोटिः-आयुविंपाकस्य कर्मणः पर्यादानात्। द्वितीया-भोगविपाकस्य। तृतीया-उभयोः। तुर्थी-विषमापरिहारेण।

ज्ञानप्रस्थान उक्तम्-“आयुः सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् ? सकृदुत्पन्नं तिष्ठतीति वक्तव्यम् ? आह-कामावचराणां सत्त्वानामसंज्ञिसमापत्तिं निरोधसमापत्तिं वा समापन्नानां सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम्। समापन्नानां सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम्। समापन्नानां रूपारुप्यावचराणां च सत्त्वानां सकृदुत्पन्नं तिष्ठतीति वक्तव्यम्॥”

कः पुण(न)रस्य भाषितस्यार्थः ? यस्याश्रयोपघातादुपधातस्तत्सन्तत्यधीनत्वात् प्रथमम्। यस्याश्रयोपघात एव नास्ति तद्यथोत्पन्नावस्थानाद् द्वितीयम्। सान्तरायं प्रथमं निरन्तरायं द्वितीयमिति काश्मीराः। तस्मादस्त्यकालमृत्युः।

सूत्र उक्तम्-“चत्वार आत्मभावप्रतिलम्भाः। अस्त्यात्मभावप्रतिलम्भो यत्रात्मसंचेतना क्रामति न परसंचेतना” इति चतुष्कोटिकः। आत्मसंचेतनावक्रामति कामधातौ क्रीडाप्रमोषकाणां देवानां मनःप्रदोषकाणां च देवानाम्। तेषां हि प्रहर्षमनःप्रदोषाभ्यां तस्मात्स्थानाच्च्युतिभंवति, नान्यथा। बुद्धानां चेति वक्तव्यम्, स्वयंमृत्युत्वात्। परसंचेतनैव क्रामति गर्भाण्डागतानाम्। उभयम्-अन्येषां कामावचराणां प्रायेण। नोभयम्-सर्वेषामन्तराभविकानां रूपारूप्यावचराणामेकतीयानां च कामावचराणाम्। तद्यथा नारकाणां च दर्शण(न)मार्गमैत्रीनिरोधसमापत्तिसमापन्नानां राजर्षिजिनदूतजिनादिष्टप्रभृतीनां सर्वेषां च चरमभविकानां बोधिसत्त्वानां मातुस्तद्‍गर्भायाश्चक्रवर्तिण(न)श्च तद्‍गर्भायाः।“

व्याख्यातं जीवितेन्द्रिम्॥

संस्कृतलक्षणानीदानीं व्याख्यायिष्यन्ते। तानि पुणः (नः) कानि कियन्ति वेति ? तदुपव्याख्यायते-

[139] जातिः स्थितिर्जराणा(ना)शः संस्कृताङ्कचष्टतुयी।

एतानि खलु चत्वारि संस्कृतलक्षणानि भगवताऽभिधर्मेऽभिहितानि। एतान्येव विनेयप्रयोजनवशात् सूत्रे स्थित्यन्यथात्वमेकीकृत्य त्रीण्युक्तानि। गाथायां त्वेभ्योऽङ्गद्वयं सामर्थ्याद्‍गम्यमानमन्तर्णीय प्रदर्श्यते। स्थितिर्हि धर्मायोगमिच्छन्ती तद्धर्ममुपगुह्यावतिष्ठते। सा च तथा प्रवर्तमाना लोकस्य चित्तोन्नतिविशेषं जनयति। ततो भगवताऽन्यथात्वाख्यया जरया सहोक्ता श्रीरिव कालकर्ण्यानुबद्धा संवेगानुकूला भविष्यतीत्येषोऽर्थ[वि]षयो दृश्यते। तस्माच्चत्वारि। इतश्च-

चत्वारि स्थितिनास्तित्वे हेतुत्वाद्यप्रसिद्धितः॥

यदि हि धर्मस्य स्थितिर्ण(र्न) स्यात्, तस्यात्मन्यवस्थितस्य हेत्वाख्यः शक्तिप्रभावविशेषो न स्यात्। अनित्यताग्र[स्त]स्य च नोत्पक्तिशक्तिरित्यतश्च क्रियां न कुर्यात्। क्रियाऽभावात्फलाभावः स्यात्। फलार्थश्चायमारम्भः। तस्मादास्तिकैर्णा(र्ना)स्तिकपक्षं विक्षिप्य स्थितिः प्रतिगृह्यत इति सिद्धम्॥

चत्वारीति न सिद्ध्यन्ति जराभावात्। भवतु स्थितिः, जरा तु सर्वथा न युज्यते। कथम् ? उक्तं हि-

”तथात्वेन जरासिद्धिरण्य(न्य)थात्वेऽन्य एव सः।
तस्मानै(न्नै)कस्य भावस्य जरा नामोपपद्यते॥”

तं प्रतीदमुच्यते-

[140] शक्तिहानेर्जरासिद्धिः

उन्मिषितो हि धर्मो जायते हृषितः फलमाक्षिपतीति। तस्य यदि जरसा शक्तिर्न विहन्येत स द्वितीयमपि फलमाक्षिपेत। न च शक्नोत्याक्षेप्तुम्। तस्माद्‍गम्यते कश्चिज्जराख्यः शत्रुस्तं जर्जरीकृत्योपहृतसामर्थ्यमनित्यतापिशाच्याः समर्पयतीति युक्तमुक्तम् ‘शक्तिहानेर्जरासिद्धिः’ इति। नैतद्युक्तमुक्तं परिणामदोषप्रसङ्गात्। एवं लघ्वाचक्षाणेन भवता सांख्यीयः परिणामोऽभ्युपगतो भवति। नाभ्युपगतः, यस्मात्-

नान्यत्वात् परिणामिता।

अन्य एव हि नो जराख्यो धर्मो, अन्यश्च धर्मी। सांख्यस्य त्ववस्थितस्य धर्मिणः स्वात्मभूतस्य धर्मान्तरस्योत्सर्गः स्वात्मभूतस्य चोत्पादः परिणाम इति।

कथं पुणः(नः) क्षणिकस्य धर्मस्य शक्तिहानिर्भवति ? एवम्-यस्मादस्याजहदात्मकस्य-

एककारित्रनाशाभ्यां शक्तिहानिः प्रसिद्ध्यति॥

येन खलु दार्ढ्येणो(नो)पेतो यमेकं फलमाक्षिपते, यदि तेनैव युक्तः स्याद् द्वितीयमप्याक्षिपेत्। न चैनं शक्तिमन्तमनित्यता हिंस्यात्। तस्माद् गम्यतेऽन्यथीभूतोऽयमनित्यताव्याघ्रीमुखं प्रविशति। इत्येकं फलमाक्षिप्य नश्यतीत्युक्तमेतत्-‘एककारित्रनाशाभ्यां शक्तिहानिः प्रसिद्‍ध्यति।’

न प्रसिद्‍ध्यति, निर्हेतुकत्वाद्विनाशस्य। ये ह्यर्थत्मानो हेतुमन्तस्ते खल्वनित्या दृष्टाः। कथम् ? अंकुरवत्। न विनाशस्य विनाशोऽस्ति, तस्मादहेतुकः। किञ्च, ये चार्थात्मानः पश्चाद्भवन्ति तेषां पूर्वहेतुरस्ति तद्यथा भस्मनो बीजादिसंयोगः। न च विनाशस्य हेतुरस्ति। तस्मादसौ न पश्‍चाद्भवतीति। तत्र यदुक्तं जातस्य स्थित्यन्यथात्वमपेक्ष्य विनाशो भवतीति तदयुक्तम्। अत्र प्रत्यवस्थानम्-

[141] सति जन्मनि तद्भावाद् द्रव्यकारित्रनाशतः।
आगमादुपपत्तेश्‍च विनाशोऽपि सहेतुकः।

सहेतुर्विनाश इति स्थापना। कुतः ? ‘सति जन्मनि तद्भावात्।’ उक्तं हि भगवता-“अस्मिन् सतीदं भवति। यावदविद्याप्रत्ययाः संस्काराः।” सति चोत्पत्तिमति विनाशो भवति। तस्मात्सहेतुकः। यस्य पुनरहेतुकस्तस्य प्रागपि जन्मनः सोऽस्तीति जन्मैव न स्यात्, विरुद्धानामन्यतरोपपत्तेः। तयोरविरोधाद्वा तद्‍व्यपदेशानुपपत्तिरताद्धर्म्यं च संस्काराणामिति।

धर्मा(र्म)णा(ना)स्तित्वमात्रं विनाश इति चेत्। न। तदस्तित्वपूर्वकत्वात्। अस्तित्वपूर्वकं हि तन्नास्तित्वमिति तदपि सहेतुकम्। नास्ति किञ्चित्तदिति चेत्। न। अस्तित्वविरोधानुपपत्तेः। किञ्च, भावविरोधित्वे सत्यभावस्य भवतापत्तेः। अवि[रोधि]त्वे भावनित्यत्वप्रसंगादुभयाभावे वाङ्मात्रत्वात्। का चैषा वाचो युक्तिः सति च भवति तद्विशेष्यश्चातद्विरोधी च। न च किञ्चिदित्येवैषा वाचोयुक्तिरसंबद्धाः(द्धा)। निरर्थिका चैषा वाचोयुक्तिः। अतस्ते भावाभावो वाग्वस्तुमात्रम्। प्रतिषेधसामर्थात्प्रतिषेघ्यो भावोऽस्तीति चेत्। नास्ति। शशविषाणवच्छब्दो गडुमात्रत्वात्प्रतिषेधद्वयार्थानुपपत्तेश्च। किञ्च, कारित्रमात्रनाशाच्च। विरुद्धप्रत्ययसान्निध्ये क्रियामात्रं हि नो[दे]ति, नश्यति। तस्मान्ना[न]र्थवान् विनाशशब्दः। कुतश्च ? आगमादुपपत्तेश्च।

उक्तं हि भगवता-“उत्पन्नानामकुशलानां धर्माणां निरोधाय” इति। तथोक्तम्-“इहैकतीयः प्राणातिपातिको भवति” इति विस्तरः। तथा-“तिस्रः संवर्तन्योऽनलजलानिलाख्या याभिः क्रमेण यावच्छुभकृत्स्ना विनश्यन्ते” इति। तथा-“जातिप्रत्ययं जरामरणम्” इति।

उपपत्तिरपि। जन्मनोऽप्यहेतुकत्वप्रसंगात्। यदि खल्वसति सद्भावेऽप्यहेतुको विनाशः, जन्माप्यहेतुकं भवत्विति। तत्समर्थहेतुसामग्रीसन्निधाने जन्मदर्शणा(ना)त्, तत्सहेतुकत्वमिति चेत्। न। तद्विनाशे तुल्यत्वात्तस्यापि समर्थहेतुसामग्र्यन्तरसन्निधानाभ्युपगमात्।

व्याख्यातानि लक्षणानि॥
नामकायादयो वक्तव्याः। न खलु वक्तव्याः। न हि ते शब्दादन्ये विद्यन्ते, स्वभावक्रियाभावादिति। तदुपदर्शनार्थमिदमारभ्यते।

[142] वाक्छब्दाधीनजन्मानः स्वार्थप्रत्यायनक्रियाः।
संज्ञाद्यपरणा(ना)मानस्त्रयो नामादयः स्मृताः॥

विप्रयुक्ताः खलु नामादयः संस्कारस्कन्धसंगृहीताः। वाक् तु रूपस्कन्धसंगृहीता वाग्गीर्निरुक्तिरित्यर्थः। ते च तदधीनोत्पत्तयो निरुक्त्यधीनार्थप्रवृत्तयश्‍च ज्ञानवदर्थस्य प्रतिनिधिस्थानीयाः। निरुक्ति[:]नाम संज्ञा। नार्थाणा(ना)मेकसंज्ञत्वात्। यथा तु चक्षुर्विज्ञानकायादयः पञ्चरूपाद्यायत्तवृत्तयः, तद्वत्तेऽपि ‘वाक्छब्दाधीनजन्मानः’। अतश्‍चोक्तम्-”वाङ् नाम्नि प्रवर्तते, नामार्थं द्योतयति।” इति। वाचा सह कचटतपादयो जायन्ते तया निधीयन्त इति। प्रतिवर्णानुवर्तिनीनां वाचां सावयवत्वेऽपि सति तदभिधानानुपपत्तिरिति चेत्। न। शब्दभेदसंचयस्य प्रत्ययत्वे तदभिधानसामर्थ्योपपत्तेः।

किञ्च, क्रियया च तदस्तित्वं निर्धार्यते। का च सेत्युच्यते। स्वार्थप्रत्यायनं क्रिया। स्वं स्वमर्थं प्रत्याययत्यपौरुषेयत्वान्नामार्थसंबन्धस्यैष तेषां कृतान्तः।

ते पुनर्नामसंज्ञाद्यपरनामानः।
तत्र नामपर्यायः संज्ञाकरणं यथा घट इति।

पदपर्यायो वाक्यम्। यथा घटो दृश्यत इति। येन क्रियागुणकालविशेषा गम्यन्त इति क्वचित्। “यावद्भिरर्थवद्भिः पदैर्विवक्षितार्थपरिपूरिर्भवति तावतां समूहः पदम्” इत्याभिधर्मिकाः।

व्यञ्जनपर्यायोऽक्षरं यथा क इत्येतदक्षरं निरवयवममूर्तमप्रतिघं रूपलक्षणविमुक्तं त्रैकालिकार्थप्रत्यायनसमर्थं मनोवद प्रतिहतगमनमिति।

न, असिद्धत्वात्। न खलु वाक्छब्दादन्ये नामादयः सिद्‍ध्यन्ति। वाक्छब्द एवार्थेषु संज्ञाकर्तृकृतावधिः स्मृत्या गृहीतावयवसमुदायः श्रोतुरर्थं प्रत्याय[य]तीति किमन्यैर्नामादिभिः परिकल्पितैः ? तत्रेदं प्रत्यवस्थीयते-

[143] अन्ये नामादयः शब्दादप्राप्तार्थप्रकाशनात्।

शब्दो हिपरमानु(णु)संचयः। स प्राप्यार्थं प्रकाशयेत्, प्रदीपवत्। नाजातध्वस्तस्वर्गादिदेशस्थाना(न)र्थ(र्था)न् प्राप्तुं शक्नोति। तस्मात्प्रतिपद्यस्व [न] शब्दोऽर्थं प्रत्यायतीति। [इ]तश्च क्रमयौगपद्यप्रत्यायनासंभवात्। कथम् ? बल्वजवत्। इह हि बहूनि बल्वजद्रव्याणि प्रत्येकमसमर्थाणि(नि) संभूय रज्वा(ज्ज्वा)त्मनावस्थितानि दार्वाद्याकर्षणक्रियासामर्थ्योपेतानि भवन्ति। न चैवं वाक्यात्मानः शब्दाः बुद्‍ध्युपगृहोतावयवसमुदायसंक्षेपाः क्रमलब्धजन्मानः प्रत्येकमर्थं(र्थ)प्रत्यायनसमर्थाः, णा(ना)पि संभूय प्रत्याययन्ति, संभूयानवस्थानाद् बल्वजवत्। तस्मात्क्रमयौगपद्यात्प्रत्यायनाऽसंभवान्न शब्दाः कञ्चिदर्थं प्रत्याययन्तीति सिद्धम्।

इतश्च, प्रत्याय्यप्रत्यायकादिसंबन्धानुपपत्तेः। कथम् ? प्रदीपवत्। तद्यथा प्रदीपस्तमसि घटादिप्रत्याय्यप्रत्यायकशक्तियुक्तो घटदर्शणा(ना)र्थिभिरुपादीयते न च कश्चिच्छब्दः कस्मिंश्चिदर्थे केनचित्संबन्धिविशेषेण नियतवृत्तिः, यस्तं गृहीत्वा प्रत्याययेमेति।

तत्र तावत्। [न] प्रदीपस्यै(स्ये)व प्रत्याय्यप्रत्यायकसंबन्धोऽस्ति। अकृतसंकेतस्याप्रत्यायनात्। नापि संयोगाख्यः संबन्धोऽस्ति सदसतोस्तदनुपपत्तेः। गुणत्वाच्चेति कस्मिश्चिन्न समवायाख्यः। अत एवाकाशगुणत्वाच्चेति कश्चित्। तस्मात्प्रत्याय्यप्रत्यायनादिसंबन्धानुपपत्तेः यदगदिष्म न शब्दोऽर्थं प्रत्याय[य]तीति तत्सम्यगभ्यधामेति।

सामयिकः शब्दोऽर्थप्रत्यायनलिङ्गमिति चेत्। न। साध्यत्वाद्वितर्कविचाराधीनजन्मनः शब्दस्य क्रमयौगपद्यप्रत्यायनानुपपत्तेश्च। प्रतिवर्णविषया स्मृतिः प्रत्याययतीति चेत्। न। तत्समानदोषत्वात्पूर्वपक्षोत्सर्गत्वाच्च। संस्कार इति चेत्। न। असिद्धत्वादुक्तोत्तरत्वाच(च्च)। यादृच्छिकसंवृत्तिशब्दमात्राभ्युपगमे वक्ष्यमान(ण)दोषप्रसंगाच्चेति।

किं पुनरेते नामकायादयो नित्या आहोस्विदनित्या इति ?

अनित्यास्ते तु विज्ञेयाः

तु शब्दो[ऽ]नित्यत्ववादविशेष। र्थो हेतुः। क इति चेत्। सोऽयमुच्यते-

सापेक्षार्थविभावनात्॥

कथम् ? ज्ञानवत्। तद्यथा ज्ञानं चक्षुरादीन् हेतूनपेक्ष्यार्थं विभावयति तद्वन्नामादयोऽपि घोषादीन् हेतूनपेक्ष्यार्थं प्रत्याययन्ति। तस्मात्सापेक्षप्रत्यायनादनित्या इति॥

यदि तर्हि नामादयोऽर्थं प्रत्याययन्ति, तत्कथमिदं सद्भिरप्युच्यते-‘शब्दोऽर्थं प्रत्याययति’ इति ? तदत्राभिधीयते-

[144] स्वरूपं वेदयंश्च्छब्दो व्यञ्जनादीनि च ध्रुवम्।
अर्थप्रत्यायकः प्राज्ञर्भक्तिकल्पनयोच्यते॥

आञ्जसा हि वाङ् नाम्नि प्रवर्तते नामाभिलपतोत्यर्थः। नाम त्वर्थं द्योतयतीति प्रतिवर्णानुवर्तिनो वाक् खलु नामाभिलपन्तो स्वञ्च रूपमुद्भावयन्ती सन्तानेन प्रवर्तमाना गुणकल्पनयाऽर्थं प्रत्याययतीत्यपदिश्यते। न त्वर्थः शब्दवाच्यो द्योत्यो वा।

इतश्च न शब्दोऽर्थं प्रत्याययति। यस्मात्-

[145] परमानु(णु)स्वभावत्वाद् घोषैकत्वं न युज्यते।

“एदैतौ कण्ठतालव्यौ” इति प्रतिज्ञायते। न चैकस्यान(णु)वचनस्य विश्‍लिष्टस्थानद्वये वृत्तिरुपपद्यते। परमाणुसंघातस्य तूपपद्यते। परमान(ण)वोऽपि प्रत्येकं[न]प्रत्याययन्ति, दिग्भागास्तित्वनास्तित्वे तदभावाच्चेति। समुदायोऽपि मध्यस्थैरप्रत्यायनानुमानादन्तद्वयेनापि न प्रत्याययतीत्यध्यवसीयते। न चार्थान्तरं समुदायिभ्यः समुदायोऽस्ति। स कथमर्थं प्रत्याययिष्यतीति। अतीतवर्णसमुदायस्त्वन्त्यवर्णापेक्षो मनोबुद्ध्योपगृहीतस्वरूपः संबन्धिन्यर्थे बुद्धिमुत्पादयन् प्रत्याययतीति युक्तरूपो व्यपदेशः।

अत्र मीमांसा(सक) वैय्याकरणौ प्रत्याचक्ष(क्षा)ते। नासिद्धत्वात्। न खलु शब्दस्य परमानु(णु)मयत्वं सिद्धम्। तस्मादनुत्तरमेतत्। तौ प्रत्यभिधीयते।

तादात्म्यं प्रतिघातित्वात्

प्रतिहन्यते खलु शब्दः प्राकारभित्त्यादिषु तस्मात्प्रतिघाती शब्द इति। न। असिद्धा(द्धम्)। सिद्धसाधनादसिद्धेः। यत्खलु भवता प्रतिघातित्वेनाप्रसिद्धं परमानु(णु)मयत्वं साध्यत इत्यसदेतत्। तत्रेदं प्रत्यवस्थीयते।

तत्सिद्धिर्वरणादिभिः॥

आलाङ्गलग्राहेभ्यः सिद्धमेतद्‍गर्भगृहान्तर्गतेन पिहिते कवाटेऽभिहन्यमानाः पटहाः ध्माप्यमानाश्च शंखा न श्रूयन्ते। हूणनाडोनिर्घोषेण च नगरप्राकाराणि पात्यन्ते। तस्मात्सिद्धेन जाल्मज(जे)नासिद्धस्य साधनमिदमाविष्क्रियते नासिद्धेनेति।

यदप्युच्यते स्फोटः शब्दो ध्वनिः शब्दगुण इति तत्रापदिश्यते-

[146] स्फोटाख्यो नापरो घोषाच्छब्दो नित्यः प्रसिद्ध्यति।

तस्माद्‍ध्धनिः शब्दः स्फोट इत्यनर्थान्तरम्। यथा हस्तः करः पाणिरिति लोकप्रसिद्धमेतत्। तस्मात्-

क्रमवृत्तेर्ण(र्न) शब्देन कश्‍चिदर्थोऽभिधीयते॥

इति प्रागाविष्कृतमेतत्। तन्मा प्रमोषीः॥

यदप्युच्यते वैयाकरणैः शब्दो बुद्धिनिर्ग्राह्य एष वैशेषिकैरपि श्रोत्रग्राह्यः, शब्दश्चा(स्या)न्यत्वेऽपि च शब्दत्वादयः श्रोत्रेण गृह्यन्त इति। तयोरिदमुच्यते-

[147] न श्रुत्या श्रूयते शब्दस्तदन्या च गतिः श्रुतेः।
यो ब्रूयात्स स्वमात्मानं विद्वद्भिरपहासयेत्॥

इति। तस्मात्प्रतीतपदार्थको लोके ध्वनिः शब्दः। ततश्चान्ये नामादयः सर्वार्थविषया इति स्थापना।

[148] प्रतिद्योत्यं यथायोगं नियतानियताश्‍च ते।

तत्र य आर्यया निरुक्त्या निरुच्यन्ते द्वादशायतनविषयास्ते नियताभिधेयं(यसं)बन्धाः, लौकिक्याश्च केचिन्नियताभिधेया निरुच्यन्ते। उभयेऽप्येते कृतसंकेतस्यार्थं प्रत्याययन्ति। ये तु यथेच्छं पित्रादिभिः क्रियन्ते नामकायादिभिस्ते ह्यनियता यदृच्छिका इत्युच्यन्ते। तद्यथा डित्थडवित्थादयः।

प्रथमास्तु बुद्धोत्पाद एव प्रवर्तन्ते नान्यदेति। उक्तं हि भगवता-“तथागतानामुत्पादान्नामपदव्यञ्जनकायानामुत्पादो भवति” इत्येतस्मात्-

नियतोद्भावनाद् बुद्धः सर्वज्ञ इति गम्यते॥

ये ह्यपौरूषेया धात्वायतनस्कन्धाद्यवद्योतकास्ते प्रथमं बुद्धविषया एव। तदवबोधाच्च भगवान्सर्वज्ञ इत्यभिधीयते। ते पुण(न)रेते-

[149] सत्त्वाख्याः कामरूपाप्ता निष्यन्दाऽव्याकृतास्तथा।

सत्त्वाख्या ह्येते। यश्च द्योतयति स तैः समन्वागतः। न यो द्योत्यते। कामाप्त[अः] रूपाप्ताश्‍चैते वाक्छब्दाधीनजन्मत्वात्। नैष्यन्दिका अनिवृताव्याकृताश्‍चैव।

यथा चैते नामादयः

तथैव च विपाकश्‍च साभाग्यं[प्राप्तयो द्विधा]।

[अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्याध्यायस्य तृतीयः पादः॥]
[द्वितीयोऽध्यायः समाप्तः॥]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project