Digital Sanskrit Buddhist Canon

प्रथमोऽध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Prathamo'dhyāyaḥ

अभिधर्मदीपः

विभाषाप्रभावृत्तिसहितः।

प्रथमोऽध्यायः।

प्रथमः पादः।

ॐ स्वस्ति। नमः सर्वज्ञाय।
[1] यो दुःखहेतुव्युपशान्तिमार्गं प्रदर्शयामास नरामरेभ्यः।

अत्र षष्ठीसमासपरिग्रहे सति मार्गसत्यं प्रधानम्। तथा चोक्तम्-“मार्गविदो(द)हं मार्गस्य...........” [इति] विस्तरः। तदुक्तं भवति-यो देवमनुष्येभ्यो मार्गं प्रदर्शितवानिति।

समाहारलक्षणद्वन्द्वपरिकल्पे [तु चतु]र्णामप्यार्यसत्यानां प्राधान्यम्। तथा चोक्तम्-“इदं दुःखसत्यमिति भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु धर्मचक्षुरुदपादि” इति विस्तरः। तदुक्तं भवति-यो देवमनुष्येभ्यश्‍चत्वार्यार्यसत्यानि प्रदर्शितवानिति।

तत्र दुःखसत्यमेकविधमभिनिर्वृत्तिस्वाभाव्यात्। तथा चोक्तम्-“दुःखा हि भिक्षवो भवाभिनिर्वृत्तिः” इति। जात्याद्यष्टप्रकारं वा फलभूता वा पञ्चोपादानस्कन्धाः। अथवा पौर्वान्तिकं पञ्चाङ्गमपरान्तिकं [द्व्यङ्गं] तदुभयमभिसमस्य सप्ताङ्गम्।

समुदयसत्यमेकविधं तृष्णानिर्देशात्। द्विविधं कर्मक्लेशात्मकत्वात्। पञ्चाङ्गानि वा पौर्वान्तिकापरान्तिकाङ्गसंग्रहात्, हेतुभूता वा पञ्चोपादानस्कन्धाः।

निरोधसत्यमेकप्रकारमप्रतिसन्धिजन्मनिरोधात्। सत्यद्वयप्रहान(ण) भेदाद् द्विविधम्, सोपधिनिरुपधिशेषधातुभेदाद्वा। तृ(त्रि)प्रकारं वा प्रहान(ण) विरागनिरोधधातुभेदात्। चतुष्प्रकारं वा चतुष्फलभेदात्।

मार्गसत्यमेकप्रकारं सम्यग्दृष्टिनिर्देशात्। द्विप्रकारं वा सास्रवानास्रभेदात्, दर्शण(न) भावनाभेदाद्वा। त्रिप्रकारं शीलसमाधिप्रज्ञास्कन्धभेदात् चतुष्प्रकारं वा प्रयोगामार्गादिभेदात्। प्रतिपद्भेदाद्वा। अष्टप्रकारं सम्यग्दृष्ट्याद्यङ्गभावात्।

इत्येतानि चत्वार्यार्यसत्यानि परिज्ञेयप्रहातव्यसाक्षात्कर्तव्यभावयितव्यानीति भगवान् प्रदर्शयामास नरामरेभ्यस्तेषां सत्यदर्शण (न) भव्यत्वात्तदर्थमुद्‍भूतत्वा[त्]। अतस्तानेव मार्गप्रदर्शण (न)कर्मणाभिप्रेता [न्]। अतस्तेषु संप्रघा(दा)नाभिधायिनी चतुर्थी।

तं सत्पथज्ञं प्रणिपत्य बुद्धं शास्त्रं करिष्याम्यभिधर्मदीपम्॥

‘तम्’ इति यः प्रतिविशिष्टविशेषणपरिछिन्नयच्छब्दचोदनयो (या) परिगृहीतः स तच्छब्देन पूर्वप्रकृतापेक्षोपजनितयच्छब्दसंबन्धेन संस्पृश्यते। संश्‍चासौ पन्थाश्‍च सत्पथः। अथवा सतां पन्थाः सत्पथः। तं सत्पथं जानीत इति सत्पथज्ञः। ‘तं सत्पथज्ञं प्रति(णि)पत्य’ इति कायवाङ्‍मनस्कर्मभिरभ्यर्थ्येत्यर्थः।

‘बुद्धम्’ इति विशिष्टविशेषणपरिच्छिन्नोऽपि बुद्धानुसारिपुद्‍गलप्रतिपत्त्यर्थं साक्षात्प्रतीतपदार्थकेन नाम्नापदिश्यते बुद्ध इति। अत्र बुद्धशब्दस्य प्रसिद्धिः बुधेरकर्मकत्वविवक्षायां कर्त्तरि क्तो भवति। सर्वे वा ज्ञानार्था गत्यर्था इति कर्मकर्त्तरि क्तविधानम्। अभिधानलक्षणत्वाच्च कृत्तद्धितसमासानामचोद्यम्। दृष्टं चेदं बुद्ध इत्यभिधानं कर्त्तरि लोके प्रयुज्यमानम्। तद्यथा निद्राविगमे पदार्थानुबोधेऽविद्यानिरासे च विबुद्धः प्रबुद्धो देवदत्त इति। एवं भगवानप्यविद्यानिद्राविगमात्, सर्वार्थावबोधाच्च बुद्धो विबुद्धः प्रबुद्ध इत्युच्यते। यथा वा परिपाकविशेषात् स्वयमेव बुद्धं पद्ममेवं भगवानपि प्रज्ञादिगुणप्रकर्षपरिपाकाद् बुद्धो विबुद्धः प्रबुद्ध इति। सर्वशिष्टप्रयोगाच्च। दृष्टो ह्यत्र शिष्टप्रयोगः। यथोक्तं व्यासेन।

“एतद्‍बुद्धा (द्‍ध्वा) भा (भ)वेद्‍ बुद्धः किमन्यद् बुद्धलक्षणम्” इति।
तस्मादशिष्टचोद्येष्वनादरः।

अत्र पुणः (नः) श्‍लोकस्य पूर्वार्धे परार्थसंपादकं वैशारद्यद्वयं प्रदर्शितम्। तृतीये पादे स्वार्थसम्प[द्]द्योतकं वैशारद्यद्वयमाविष्कृतम्। न ह्यक्षीणास्रवः शक्तो मार्गमाख्यातुमिति। न चासम्यक्संबुद्धः सर्वधर्मानभिसंबोद्‍धुमलमिति।
कथं पुण (न) रेत

दिगात्मानो वैशेषिकपरिकल्पिता असत्त्वादेव नैव नित्याः नानित्याः। असत्त्वं पूर्वमा [वि] ष्कृतम्।

सांख्यीयमपि प्रधानं न नित्यम्। कुतः ? त्रैगुण्यस्य

[2] सत्त्वाद्यनन्यथाभावे व्यक्ताभावः प्रसज्यते।
तद्विकाराद्विकारित्वं प्रकृतेस्तदभेदतः॥

यदि सत्त्वादयो [गुणाः] नान्यथा भवन्ति ह्रासवृद्धिभावेन, न तर्हि किञ्चित्तेभ्यो व्यक्तमुत्पद्यते। अथान्यथा भवन्ति, अनित्यास्तर्हि प्राप्नुवन्ति। कर्मवशाददोष इति चेत्, अत्र ब्रूमः।

[3] न कर्म स्वकतोत्सर्गात्

यदि प्रतिपुरुषं कर्माणि बुद्धिपूर्वाण्यबुद्धिकृतानि वा प्रधाने विद्यन्ते साधारणप्रधानकल्पनावैयर्थ्यं तर्हि प्राप्तमिति। किञ्च,

ज्ञव्यक्तात्मकता मलाः।
प्राक्पक्षे मुक्त्यभावश्‍च द्वितीयेऽन्येऽप्युपप्लवाः॥

यदि तानि कर्माणि पुरुषात्मकानि नत्वे(न्वे)वं सति मोक्षाभावः प्राप्नोति। पुरुषनित्यत्वे कर्मणि(नि)त्य[त्व]प्रसङ्गात्। ‘च’शब्दात् पुरुषकर्तृत्वादिदोष(षा)श्‍च। ‘द्वितीयेऽन्येऽप्युपप्लवाः।’ प्राधानात्मकपक्ष एते च दोषाः प्रसजन्त्यन्येऽपि चोपप्लवाः साधारणत्वादकृताभ्यागमानिर्मोक्षप्रसङ्गात्। तस्मात् त्रीण्येव च सर्वज्ञाभिहितान्यसंस्कृतानि नित्यानीति सिद्धम्।

व्याख्याताः अष्टौ पदार्थाः- संस्कृताः पञ्च, त्रयश्‍चासंस्कृताः। एतावच्चैतत्सर्वं यदुत संस्कृतं चासंस्कृतं चेति।

तच्चैतदायतनधातुव्यवस्थानेन व्यवस्थाप्यते।

द्वादश खल्वायतनानि। चक्षु दीनि धर्मायतनान्तानि।

अष्टादश धातवः। चक्षुर्धातू रूपधातुश्‍चक्षुर्विज्ञानधातुर्यावन्मनोधातुर्धर्मधातुर्मनोविज्ञानधातुरिति।

तत्र तावत्
[4] रूपस्कन्धो हि नेत्राद्या दशायतनधातवः।
धर्मसंज्ञे त्रयस्कन्धाः साऽविज्ञप्तिर्ध्रुवत्रयाः॥

[5] मनःसंज्ञकमन्योऽपि सप्तविज्ञानधातवः।

इति।

कः पुनरायतनधात्वर्थः ? तदुच्यते।

आयद्वारं ह्यायतनं धातुर्गोत्रं निरुच्यते॥

तदुक्तं भवति-चित्तचैतसिकाख्यमायमेतानि तन्वन्तीत्यायतनानि। यस्मात्सप्त चित्तधातवश्‍चत्वारश्‍चारूपिणः स्कन्धा एभ्यश्‍चतुष्प्रत्ययात्मकेभ्यः प्रतायन्ते तदुत्पत्तिं वा प्रत्यायन्ते तस्मादायतनानि।

धात्वर्थस्तु गोत्रार्थः। तदुक्तं भवति-एकस्मिंञ्च्छरीरपर्वतेऽष्टादश धर्मगोत्रानि (णि)-इति। ध्रुवं(व)द्वयस्याप्यत्र प्रतिनिधिस्थानीयाः प्राप्तयो गोत्रभूता विद्यन्ते। आकाशं च सर्वभूतभौमिकरूपाधारमिति तदप्यत्रास्तीति। स्वलक्षणधारणाद्वा तद्धातुत्वम्।

अथ कस्माद्‍द्वादशायतनान्यष्टादश च धातवः पृथङ्‍निरुच्यन्ते ? नत्व(न्व)न्यतरणि (नि) र्देशाद्‍गतार्थमेतदिति। अत्रोच्यते।

[6] योगरूप्यानुकूल्यादेर्द्वादशायतनीं मुनिः।
बुद्ध्याद्येकत्वधीहान्यै धातूंश्‍चाष्टादशोक्तवान्॥

स्कन्धेषु हि दृश्यमानेषु योगिनोरसर्वज्ञेयप्रतिबिम्बकान्युपतिष्ठन्ति। धातुष्वपि सप्तचित्तधातुप्रतिबिम्बकानि सादृश्याद् दुरवधाराणि भवन्ति। धातुस्कन्धव्यवस्था चायतनेषूक्तेष्वभिहितकारणा भवन्ति सुलक्षा चेति धातुदेशना। तदूर्ध्वं स्कन्धप्रज्ञप्तिः। यथोक्तम्-“चक्षुः प्रतीत्य रूपं चोत्पद्यते चक्षुर्विज्ञानम्। त्रयाणां सन्निपातात् स्पर्शः। सहजा वेदना चेति(त)ना” इति। तस्मादायतनानि धातूनां योनिः, धातवः स्कन्धानामिति।

‘बुद्ध्यादे(द्ये)कत्वधीहान्यै धातूंश्‍चाष्टादशोक्तवान्।’ सप्त विज्ञानधातवो हि देश्‍यमाना बुद्‍ध्यैकत्वग्राहं निवर्तयन्ति। पिण्डैकात्मग्राहं च निवर्तयन्ति।

वैभाषाः पुनराहुः-“रूपसंमूढानामायतनदेशना। चित्तचे(चै)त्तसंमूढानां स्कन्धदेशना। रूपचित्तसंमूढानां धातुदेशना। तीक्ष्णेन्द्रियानां (णां) वा स्कन्धदेशना। मध्येन्द्रियाना (णा) मायतनदेशना। मृद्विन्द्रियानां (णां) धातुदेशना। एवं संक्षिंप्तमप्यविस्तररुचीनाम्।”

अथवा ‘बुद्‍ध्यैकत्वादिधीहान्यै धातूंश्‍चाष्टादशोक्तवान्।’ ये खलु बुद्‍ध्यैकत्वमध्यवसिता मनसश्‍चेतनायां वा रूपचित्तैकत्वं वा तेषा(षां)ममद्(त्व) बुद्धिनिरासार्थमष्टादशधातूनुक्तवानिति।

कः पुनरयं षड्‍भ्यो विज्ञानकायेभ्योऽन्यो मनोधातुः ? न खलु कश्‍चिदन्यः। किं तर्हि ?

[7] षण्णामन्यो न्यतन्त्रत्वात्कारणं यद्धि तन्मनः।

स्वविषयालम्बनक्रियापेक्षया विज्ञानान्तरोत्पादनादिशक्त्यपेक्षया चैकस्य विज्ञानस्य त्रिधा निर्देशः क्रियते-‘मनश्‍चित्तं विज्ञानं च’ इत्यनागतस्यातीतस्यापि भूतभाविन्या संज्ञया व्यपदेशः। एवं सति “अष्टादशधातवस्त्रैयध्विकाः” इत्यभिधर्मग्रन्थोऽप्यनुलोमितो भवति। सूत्रेऽपि चोक्तम्-“यत्पुनस्तद्भवति चित्तमिति वा मन इति वा” इति विस्तरः। तदेवं व्याचक्षाणेन भवता नित्यं करणं मनो ‘नित्यश्‍चात्मा कर्ता’ इति प्रतिषिद्धं भवति।

अथ कस्मात्तदेव चक्षुर्विज्ञानादीनां पञ्चानामप्याश्रयत्वेन नोक्तमिति ?

अत्र ब्रूमः-

रूप्यरूपाश्रयास्तित्वात्पञ्चानां रूप्युदाहृतः॥

चक्षुरादीनामसाधारणत्वादिति।

अथ यदुक्तम्-‘ससंप्रयोगा सहसंग्रहेन (ण) इति। कौ पुण (न) रिमौ संग्रहसंप्रयोगावित्येतदपदिश्यते।

[8] स्कन्धायतनधातूनां स्वात्मना संग्रहः स्मृतः।

क्षणपरमानु(णु)जातिसंख्यानां प्रत्येकं यथायोगं संग्रहो वेदितव्यः। कस्मात् ?

स्वात्मना नित्यमवियोगात्

तस्माद् द्रव्यात्मसंग्रहः। सच्छब्दनिमित्तं हि सतो भावः सत्ता द्रव्यं प्रकृत्यर्थः। द्रव्यात्मसंग्रहः प्रत्ययार्थ[:], सत्कृ(त्क्रि) या वोपचारसत्तारूपा। वैशि(शेषि)कसत्ता तु नोभयमर्थान्तरत्वात्। न ह्यर्थान्तरं स्वात्मोपपद्यते। किञ्च, स्वातन्त्र्यात्। निरुक्त्यपभ्रंशाच्च। नहि घटेन सत्तोत्पाद्यते। आवरणाभावात्तनि(न्न)त्यत्वाभ्यु पगमाच्च। निरुक्त्यपि भ्रश्यते-सत्तायोगात्सन्ती [ति]। स्यान्माल्यादिवत्सत्तावान्वा क्रियावदिति। यस्त्वयं संग्रवस्त्वादिषु संग्रहः प्रोक्तः स कादाचित्कत्वाद् गौणो मन्तव्यो न मुख्यः।

संप्रयोगस्तु

समत्वं चित्तचैतसाम्॥

पञ्चभिः समालम्बने प्रयुज्यन्त इति। सम्प्रयुक्ताश्चित्तचैतसा एव धर्मा नान्य इति॥

अथ य एते सूत्रान्तरेषु स्कन्धायतनधातुसंशब्दिता धर्माः श्रूयन्ते ते किमेष्वेव संग्रहं गच्छन्ति, आहोस्विन्नेति ? अत्रोच्यते।

[9] तदाख्या येऽन्यसूत्रोक्तास्तेषामेष्वेव संग्रहम्।
ब्रूयाच्छास्त्रनयाभिज्ञो बुद्ध्यापेक्ष्य स्वलक्ष[णम्]॥

तत्र तावच्छीलस्कन्धादीनां पञ्चानां स्कन्धानां शीलस्कन्धो रूपस्कन्धेन संगृहीतः। शेषाः संस्कारस्कन्घेन। दश कृत्स्नायतनान्यप्यलोभस्वाभाव्यादष्टानां धर्मायतनेन। सपरिवाणाणि तु मनोधर्मायतनाभ्यां पञ्चस्कन्धस्वभावत्वात्। अन्त्ये द्वे कृत्स्नायतने चतुःस्कन्धस्वभावत्वात्, मनोधर्मायतनाभ्याम्।

धातूनामपि षड् धातवः। तेभ्यश्‍चत्वारः स्प्रष्टव्यधातूनाम्, पञ्चमो रूपधातूनां, षष्ठः सप्तभि [श्चित्त]धातुभिः॥

[10] अन्योन्यसंग्रहो ज्ञेयः स्कन्धादीनां यथायथम्।

रूपस्कन्धस्य दशस्वायतनधातुषु रूपिषु संग्रहो वेदितव्यः। धर्मायतनधातुप्रदेशेन [त्र]याना(णा)मपि स्कन्धानां यथायोगधर्मायतनधातुभ्याम्। अन्त्यस्य तु मनआयतनस्य सप्तभिश्चित्तधातुभिरिति॥

अथ कस्मादसंस्कृतं स्कन्धैरसंगृहीतम् ? ब्रूमः।

नाध्वस्वपतनादिभ्यो नित्यानां स्कन्धसंग्रहः॥

आदिशब्दान्निष्क्रियत्वस्कन्धलक्षणवियुक्तत्वाच्चेति॥

[11] धर्मस्कन्धसहस्त्राणामशीतेरपि संग्रहः।
ज्ञेयोऽवतरणेष्वेव तैः सन्मार्गावतारणात्॥

अशीतिः खल्ववतरणसहस्राणि यैर्विणे(ने)याः सन्मार्गमवतार्यन्ते॥

किं पुनस्तेषामेकैकस्य प्रमान(ण)म् ? ब्रूमः। अत्राचार्याणां भेदंगता बुद्धयः। केचिदाहुः

[12] धर्मस्कन्धप्रमानं (णं) तु सत्यादेरेकशः कथा।

सत्यध्यानसमाधिसमापत्तिविमोक्षप्रतीत्यसमुत्पादस्कन्धादीनामेकशः कथा धर्मस्कन्धः। रागादिचरितप्रतिपक्षो धर्मस्कन्ध इत्याचार्यकम्।

तत्सतत्त्वं तु केषाञ्चिद्वाङ्नामापीष्यते परैः॥

येषां तावद्वाक्स्वभावं बुद्धवचनं तेषामशीतिधर्मस्कन्धसहस्त्राणि रूपस्कन्घैकदेशेन संगृहीतानि। येषां पुनर्णा (र्ना) मस्वभावं तेषां संस्कारस्कन्धसंगृहीतानि। अयं त्वागमः-“जीवतो भगवतो वाङ्नाम स्वभावं बुद्धवचनं गौणमुख्यन्यायेन। परिणि(नि)र्वृतस्य तु नामस्वभावमेव, न वाक्स्वभावम्, ब्रह्मस्वरत्वान्मुनीन्द्रस्य, लोकवाचां तत्सादृश्यानुपपत्तेः॥”

कस्मात्पुनरेते षड् धातवः पृथगुच्यन्ते ? यस्मादेते

[13] सत्त्वप्रज्ञप्त्युपादानं मौलं षड्धातवो मताः।
प्रोक्तास्तद्‍भेदतो यस्मादस्मिन्मारो(स्मिमानो) निवर्तते॥

एते हि षड्धातवो गर्भावक्रान्तिकाले मौलं सत्त्वद्रव्यप्रज्ञप्त्युपादानम्। कथम् ? यस्मादयं कायाख्यः समुच्छ्रायः पृथिवीधातुना खक्खटलक्षणेन सन्धारितो भूतान्तरवृत्त्युद्रेकोऽस्थिस्नायुनखदन्तरोमादिसंचयः। अब्धातुना द्रवस्नेहलक्षणेन श्‍लेष्मरुधिरादिमयेनाभिष्यन्दितसंश्‍लेषित भूतान्तरः। तेजोधातुनोष्णस्वभावेन परिपाचितक्लेददौर्गन्धः। वायुना च प्रेरणात्मकेन संचारितभोजनरसधातुविण्मूत्रश्‍लेष्मपित्तसंचयः। नभोधातुना च मुखनासिकाकर्णादिच्छिद्रजनितभोजनपाणा(ना)दिप्रवेशनिष्क्रमणक्रियः। विज्ञानधातुना वस्तूपलब्धिलक्षणेन वायुधातुक्रियाध्यासिनोत्पादितसंजनिताङ्गप्रत्यङ्गचेष्टो मौलं सत्त्वद्रव्यमित्युपचर्यते। इन्द्रियानि (णि) चक्षुरादीनि खल्वत्र भूतग्रहणेन गृह्यन्ते, चैतसिका विज्ञानग्रहणेनेति प्राधान्याद् भूतचित्तग्रहणम्।

किमर्थं पुण (न) रेत एव धातुषट्‍कमुपदिष्टम् ? यस्मादस्य भेदात् ‘अस्मिमानो निवर्तते’। कथम् ? षड्‍धातुप्रभेदादात्मदृष्टिनिरासः। तन्निरासादस्मिमानसमुद्धातः॥

‘सत्कायदृष्टिपुष्टत्वात्’

इत्यत्र पुणः (नः)

[14] क्लिष्टमेव हि विज्ञानं

विज्ञानधातुरभिप्रेतम्। कस्मात् ?
[द्रष्टव्यं] जन्मणि (नि) श्रयात्।

यस्मादेते षड्‍धातवो जन्मनो निश्रयभूतास्तस्मात्। ‘क्लिष्टमेव विज्ञानं’ अत्र द्रष्टव्यम्।

कः पुण(न)रयमाकाशधातुरन्यः पुणः (नः) पृथगाकाशात् ? तदुच्यते।

खधातुः पृथगाकाशाद्रूपायतनसंग्रहात्।

आकाशं हि धर्मायतनसंगृहीतं नित्यं च। आकाशधातुस्तु चाक्षुषो रूपायतनसंगृहीतः, आलोकतमःस्वभावो वर्णविशेषो वातायनच्छिद्राद्यभिव्यक्तरूपः। तत्पुनः

[15] नभः खलु नभो धातोरासन्नो हेतुरेष तु।
भूतानां तानि तज्जस्य रूपस्यैतत्तु चेतसः॥

उक्तं हि भगवता-“पृथिव्यप्सु निश्रिता। आपो वायौ। वायुराकाशे। आकाशं तु नित्यत्वात्स्वप्रतिष्ठितम्” इति।

यदि खलु स्वप्रतिष्ठा(ष्ठ)माकाशं कस्मात्तर्ह्युंक्तम्-आकाशमालोके सति प्रज्ञायते।” ब्रूमः। नैष दोषः। आधेयेनाधारप्रज्ञापनात्। सर्वस्य खलु संस्कृतस्य मूर्तिक्रियाप्रतिलम्भे गगण(न)माधारः। अथवाऽऽकाशधातुरत्राकाशशब्देनोक्तः। स हि ब्राह्मणः प्रष्टा तस्मिन्नाकाशधातावाकाशसंज्ञीत्यत एवोक्तमालोके सति प्रज्ञायते। न चाकाशमालोके सति प्रज्ञायते, अनिदर्शण(न)त्वात्। एष अकाशधातुर्भूतानामासन्नो निश्रयः। तानि तु तज्जस्योपादायरूपस्य। तदपि विज्ञानस्य। विज्ञानमधिचैतसिकानां विप्रयुक्तानां च धर्माणाम्। अत आकाशं त्रैलोक्यप्रतिष्ठा। तदभावे त्रैलोक्यमप्रतिष्ठितमनाधारं, ण(न) प्रज्ञायेत। तस्मादाकाशं जगदुत्पत्तिप्रलयनिमित्तं ना(न) नारायन(ण) इति सिद्धम्। गतमेतत्॥

इदानीं वक्तव्यम्। षण्णामध्यात्मिकानां धातूनां कोऽनुक्रमः ? ब्रूमः।

[16] प्रत्यक्षवृत्तिर्यत्तत्प्रागप्राप्तग्राह्यतोऽपि यत्।
ततोऽपि यद्दवीयोऽर्थं पटिष्ठमितरादपि॥

प्रत्यक्षवृत्तीनि खलु चक्षुरादीनि पञ्च प्रागुक्तानि। तेभ्योऽप्यप्राप्तग्राहिणी द्वे प्रागुक्ते। तयोरपि यद्य (द्द)वीयोऽर्थं तत्प्रागुक्तम्। प्राप्तग्राहिनां(णां) तु ‘पटिष्ठमितरादपि’ यत्पटुतरं तत्प्रागुक्तमिति॥

अभिधर्मदीपे विमाषाप्रभायां वृत्तौ प्रथमा(मा) ध्यास्य द्वितीयः पादः॥

प्रथमाध्याये

तृतीयपादः।

इदमिदानीं वक्तव्यम्। य एतेऽष्टादशधातवः, एषां कति सनिदर्शणाः (नाः) कत्यनिदर्शणाः (नाः) ? कति सप्रतिघाः कत्य प्रतिधाः ? कति व्याकृताः कत्यव्याकृता इति ? अत इदं प्रतायते॥

[17] सनिदर्शण (न) आद्यार्थः

आद्यस्य चक्षुर्धातोर्योर्थो रूपधात्वाख्यः स सनिदर्शणः (नः)। सह निदर्शणे(ने) न निर्दिष्ट इति कृत्वा। निदर्शनं वास्य संबन्धि विद्यत इति सनिदर्शणः (नः)॥

मूर्त्ताः सप्रतिघा दश।

सप्तचित्तधातून्धर्मधातुं च हित्वा दशान्ये मूर्त्ता धातवः ‘सप्रतिघा दश’।

प्रतिघो नाम प्रतिघातः। स च त्रिविधः। आवरणविषयालम्बनप्रतिघातः। तत्रावरणप्रतिघातः स्वेदेशे परस्योत्पत्तिप्रतिबन्धः। स तु मूर्त्ताणा(ना)मेव संस्थानवतां परमाणूनां दिग्देशनिर्देश्यानां धर्माणाम्। यथा हस्तोहस्तेन प्रतिहन्यते उपलो वोपले [न]। विषयप्रतिघातश्‍चक्षुरादीनां विषयिणां रूपादिषु स्वेषु विषयेषु प्रतिघातः। यस्य यस्मिन् वृत्तिः सन्निपातलक्षणा कारित्राख्या च स तस्मिन् प्रतिहन्यते ततोऽन्यत्रावृत्तेः। आलम्बनप्रतिघातश्चित्तचैत्तानां स्वेष्वालम्बनेषु प्रतिघातः॥

कः पुनर्विषयालम्बनयोर्विशेषः ? यस्मिन्यस्य कारित्रं स तस्य विषयः। यच्चित्तचैत्तैर्गृह्यते तदालम्बनम्। तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वमन्योन्यावरणात्।

‘ये धर्मा विषयप्रतिघातेन सप्रतिघा आवरणप्रतिघातेनापि ते’ इति ? चतुष्कोटिकः। प्रथमा कोटिः-सप्तचित्तधातवोधर्मधातुप्रदेशश्च यः संप्रयुक्तः। द्वितीया-पञ्च विषयाः। तृतीया-पञ्चेन्द्रियाणि। चतुर्थी-धर्मधातुप्रदेशः संप्रयुक्तकवर्जः।

‘ये विषयप्रतिघातेन सप्रतिघा आलम्बनप्रतिघातेनापि ते’ इति पश्चात्पादकः-ये तावदालम्बनप्रतिघातेन विषयप्रतिघातेनापि ते स्युः। विषयप्रति घातेन, नालम्बनप्रतिघातेन पञ्चेन्द्रियाणि।

“यत्रोत्पित्सोर्मनसः प्रतिघातः शक्यते परैः कर्त्तुम्।
तत्सप्रतिघं ज्ञेयं विपर्ययादप्रतिघमिष्टम्॥”

इति भदन्तकुमारलातः।

उक्ताः सप्रतिघाः॥
कुशलादयोऽभिधीयन्ते।
अन्यत्र रूपशब्दाभ्यां त एवाव्याकृता मताः॥

त एव दशाव्याकृता रूपशब्दधातुवर्जाः। तौ हि त्रिप्रकारौ कुशलाकुशलाव्याकृतौ॥

[18] शेषास्त्रिधा

सप्तचित्तधातवो हि त्रिप्रकाराः। धर्मधातुश्च। संप्रयुक्तस्त्रिप्रकारः, विप्रयुक्तोऽसंस्कृतश्च। यथाशास्त्रं कश्चित् त्रिप्रकारः कश्चिदेकप्रकारः संभवतो द्रष्टव्यः।

कः पुनः कुशलार्थः ? शिक्षितार्थः कुशलार्थः प्रवीणवत्। विपाकहेतावौपमिको द्रष्टव्यः। एवमकुशलोऽपि अव्याकृतस्तूभयपक्षाव्याकरणादव्याकृत इत्यभिप्रायः॥

कति कामधातुप्रतिसंयुक्ताः कति यावदप्रतिसंयुक्ता इति। तदिदमारभ्यते।

इह सर्वेऽपि

कामधातौ सर्वेऽप्यष्टादश विद्यन्ते।

रूपधातौ चतुर्दश।
रसगन्धौ सविज्ञानौ धातू हित्वा

गन्धरसधातू तद्विज्ञानधातू च हित्वा। आरूप्ये

त्रयोन्तिमाः॥

अग्रपश्‍चान्तिम[:]स्मृतः। अन्ताश्‍चेत्युपसंख्यानम्। पश्चिमा मनोधातुमनोविज्ञानधातुधर्मधातव एवमारूप्यधातौ सन्ति॥

कति सास्रवाः कत्यनास्रवाः

[19] सास्रवाणा (ना)स्त्रवा अन्त्यास्त्रयः

अनन्तरोक्तास्तत्र सास्रवाः दुःखसमुदयसत्यसंगृहीताः। अनास्रवास्तु मार्गसत्यासंस्कृतसंगृहीताः॥

शेषास्तु सास्रवाः।

पञ्चदशधातवः सास्रवाः, आस्रवसंयोगित्वव्यवकीर्णत्वाङ्गभावेभ्यः।

कोशकारस्त्वाह-“अनुशयानुशयनात्सास्रवाः।” तदेतदब्रह्मम् (ह्म)। न। निरुक्तानुशयार्थापरिज्ञानात्। निरुक्तापरिज्ञानं तावत्। अनुशयानुशयनात् सानुशयाः।

न सास्रवा न यावदोघाः। आस्रवा हि आभवाग्राद्यावदवीचिमुपादाय चित्तसन्ततिं स्त्रावयन्ति स्वयं च स्रवन्तीत्यास्रवाः। अनुशयास्त्वनुशेरते। क्लेशाः क्लिश्‍नन्ति। ग्रन्था ग्रथ्नन्ति। संयोजनानि संयोजयन्ति। ओघाः अपहरन्ति। इति स्वक्रियाद्वारेणैतेषु वर्गेष्वेता नैरुक्त्यसंज्ञा निविशन्त इत्येषा व्याख्यानीतिर्ज्यायसी।

अनुशयार्थोऽपि यदि पुष्ट्यर्थस्तेन मार्गणि (नि)र्वाणालम्बनेषु मिथ्यादृष्ट्यादिषु पोषोत्कर्षदर्शणा(ना)त्, निर्वाणमार्गयोरपि रूपादिवत् सास्रवत्वप्रसङ्ग इति। गतमेतत्॥

कति सवितर्का[:]कति सविचारा इति विस्तरः।

सालम्बप्रथमाः पञ्च सोपचारास्त्रयस्त्रिधा॥

सालम्बनानां धातूनां ये प्रथमाः पञ्च ते सवितर्काः सविचाराः। ‘त्रयस्त्रिधा’। ये त्वन्त्यास्त्रयस्ते त्रेधा। सवितर्काः सविचाराः। विचारमात्राश्‍चावितर्काः। अविचाराश्‍च। कामधातौ प्रथमे च ध्याने वितर्को णै(नै)षु त्रिषु प्रकारेषु प्रविशति। स खल्ववितर्को विचारमात्रश्च॥

अत्राह-यदि पञ्चविज्ञानकायाः सवितर्काः सविचाराः कथं तर्हि [अ]विकल्पा इत्युच्यन्ते ? ब्रूमः

[20] निर्विकल्पगुणस्वार्थाः

गुणः स्वार्थो येषां ते भवन्ति ‘गुणस्वार्थाः’। एते हि

अस्मारादनिरूपणात्।

अविकल्पा इत्युच्यन्ते। एतौ हि प्रधानौ विकल्पौ त्रैयध्विकधर्मविषयौ। योगिणां(नां) कृताकृतकर्मान्तप्रत्यवेक्षणा चित्तरक्षणे स्मृतिः प्रधानी भवति। धर्मस्वसामान्यलक्षणहेतुफलसंबन्धादिषु प्रविचयाख्यः प्रज्ञास्वभावः प्राधान्यमनुभवति। अत्र तु

मनोभौमी स्मृतिः पूर्वो द्वितीयो धीर्णि(र्नि)रूपिका।

‘मनोभौमी’ति वर्तते। पञ्चानां विज्ञानकायानां जातिबधिरपुरुषरूपदर्शनवद्‍वृत्तिः। तत्रापि च स्मृतिः समाहिता चासमाहिता च अनुस्मृतिविकल्पः, आलम्बनाभिलपण(न)तुल्यत्वात्। प्रज्ञा त्वसमाहितैवाऽभिनिरूपणा विकल्पः, समाहितायाः प्रकारविशेषणि(नि)रूपणाभावात्, पूर्वनिरूपितोपलक्षणमात्रवृत्तित्वाच्च॥

अथैषां षण्णां विज्ञानकायानां कतरद्विज्ञानं कियद्भिः सविकल्पकम् ? तदिदमाविष्क्रियते।

[21] विज्ञानपञ्चकं कामेष्वेकेन सविकल्पकम्।

स्वभावविकल्पेन।

तस्मादन्यत् त्रिभिः

मनोविज्ञानं कामेषु त्रिभिः सविकल्पकम्।

ध्याने प्रथमे चासमाहितम्॥

प्रथमे हि ध्याने यदसमाहितं मनोविज्ञानं तत् त्रिभिरेव।

[22] द्वाभ्यामव्यग्रं

यत्पुनः समाहितं[त]द्द्वाभ्यामेवाभिनिरूपणविकल्पमपास्य।

एकेन चक्षुःश्रोत्रत्वगाश्रय[म्]।

यत्पुनश्‍चक्षुःश्रोत्रत्वगाश्रयं विज्ञानं प्रथमे ध्याने तदेकेनैव।

द्वाभ्यां तदुपरिव्यग्रं

द्वितीयादिषु ध्यानेषु द्वाभ्यां व्यग्रमिति वर्तते।

एकेनैव समाहितम्॥

अनुस्मृतिविकल्पेनैव। एवं यावद्भवाग्रम्॥

इदमिदानीं वक्तव्यम्। कुत्र कस्य षट्‍प्रकारं विज्ञानं कुशलादिविकल्पकं भवति ? तदिदमभिधर्मगह्वरं प्रस्तूयते।

[23] उच्छिन्नशुभबीजस्य दर्शणं(नं) सविकल्पकम्।
कुशलं नास्ति विज्ञानमन्यत्र प्रतिसन्धितः॥

इह तावदुच्छिन्नकुशलमूलस्य पञ्च रूपोन्द्रियाश्रयबलोत्पन्नं दर्शकं विज्ञानं कुशलं न विद्यते, अन्यत्र कुशलमूलप्रतिसन्धानात्।

[24] कामेभ्यो वीतरागस्य बालस्याहानिधर्मिणः।
द्विधाप्यकुशलं नास्ति

दर्शकं च मनोविज्ञानं च यद्यपरिहान(ण)धर्मा भवति।

क्लिष्टं चार्यस्य नोत्तमम्॥

न चार्यस्योर्ध्वभूम्यालम्बनं क्लिष्टं विज्ञानं विकल्पकमस्ति॥
किञ्च,
[25] नाक्लिष्टाव्याकृतं किञ्चिदूर्ध्वभूमिविकल्पकम्।

न चानिवृताव्याकृतं किञ्चिदूर्ध्वभूमिविकल्पकमस्ति।

क्लिष्टं विकल्पकं चापि नास्त्यधोभूमिगोचरम्॥

न च क्लिष्टं विज्ञानमधरभूम्यालम्बनं विकल्पकमस्ति।

[26] त्रिधेह द्वयमार्यस्य

इह कुशलाकुशलाव्याकृतं दर्शकं च मनोविज्ञानं च विकल्पकमस्ति।

रागिणः सशुभस्य च।

अवीतरागस्याप्यनुच्छिन्नकुशलमूलस्य पृथग्जनस्य त्रिविधं द्वयमस्ति।

न शुभं नापि च क्लिष्टं द्वितीयादिषु दर्शकम्॥

विज्ञानमस्तीति॥

इदमिदानीं वक्तव्यम्। कथमसत्यात्मनि शाश्‍वते तद्‍गुणे च संस्कारे स्मृतिहेतावसति प्रतिक्षणविनश्‍वरेषु च विज्ञानेषु च परस्पराकृतसंकेतेषु पूर्वानुभूतोऽर्थः स्मर्यते ? [तद] पदिश्यते। यद्यपि दत्तोत्तर एष वादः, तथापीदं शास्त्रानुगतमारभ्यते।

[27] प्रयोगादङ्गसान्निध्यात्सभागत्वाच्च सन्ततेः।
प्राग्विज्ञानानुभूतेऽर्थे चेतस्युत्पद्यते स्मृतिः॥

प्रणिधानानुभवज्ञानपाटवसातत्यकारित्वाभ्यामसहकारित्वाभ्यामसहकारिकारणसान्निध्ये सन्तत्यानुकूलेभ्यः पूर्वविज्ञानानुभूते रूपादौ वस्तुनि स्मृतिरुत्पद्यते।

आत्ममनःसंयोगात्संस्कारापेक्षा तदुत्पत्तिरिति चेत्। न। आत्ममनः- संयोगः संस्काराणां शशविषाणवदसिद्धत्वान्नित्यस्यास्यात्मनः संस्काराणामनुपपत्तेः। संस्कारसंयोगश्च सकलात्मव्यापित्व(त्वे) प्रदेशवृत्त्यभ्युपगमदोषाच्च। तस्मात् सुष्ठूक्तं प्रयोगादङ्गसान्निध्यादिभ्यः स्मृतिरुत्पद्यते परमार्थसंवृत्तिविषया॥

[28] एतद्विपर्ययात् मान्द्यात्क्लेशरोगाभिभूतितः।
ज्ञातपूर्वेषु विस्मृतिः संप्रजायते॥

इदमिदानीं विचार्यते। दुःखदर्शण (न) हेयादिना पञ्च प्रकारेण विज्ञानेन यदनुभूतं तत्कतमेन स्मर्यते ? तदिदं प्रस्तूयते।

[29] दृष्टं द्वित्रिचतुःपञ्चप्रकारेणापि चेतसा।
स्मर्यते सत्तदन्यैश्‍च नान्योऽन्यं व्योघदृक्क्षये॥

सर्वानि (णि) खलु दुःखदर्शणा (ना) दिहेयानि पञ्चप्रकाराणि परम्परानुभूतं स्मरति(न्ति)। अयं त्व[त्र] नियमः-‘नान्योऽन्यं व्योघदृक्क्षये।’ निरोधमार्गदर्शण(न)प्रहातव्यानुभूतं तु नान्योऽन्यं स्मृतिप्रतिनियतालम्बनत्वात्। शेषास्तु त्रयः प्रकाराः सम्भिन्नालम्बनत्वान्न प्रतिषिध्यन्ते॥

[30] विज्ञानानां तु पञ्चानां यदेकेनानुभूयते।
तत्स्मर्यतेऽपि चान्येन

मनोविज्ञानेनेत्यर्थः।
तेन खल्वितरैरपि॥

मनोविज्ञानेनापि यदनुभूतं तत् षड्‍भिरपि स्मर्यते॥

अथ द्वादशानां चित्तानां कोऽर्थः केनानुभूतः कतिभिः स्मर्यते ? द्वादशचित्तानि। कामावचराणि कुशलादीनि चत्वारि। रूपावचराणि त्रीन्य(ण्य)न्यत्राकुशलात्। एवमारूप्यावचराण्येतान्येव त्रीणि। शैक्षमशैक्षं च। स्मृतिरपि तत्संप्रयुक्ता द्वादशविधैव।

तत्र किं केनानुभूतं त[द्] द्वादशभिरपि स्मर्यते ? कामावचरकुशलानुभूतं तद् द्वादशविधया स्मरति। एवमकुशलेन। तन्निवृताव्याकृतानुभूतमष्टविधया स्मरति। कामावचर्या सर्वया। रूपारूप्यावचर्ययाऽन्यत्र निवृताव्याकृतानिवृताव्याकृतायाः शैक्षाशैक्षाभ्यां च। एवमनिवृताव्याकृतेन। रूपावचरकुशलानुभूतं सर्वाभिः स्मरति। तन्निवृताव्याकृतानुभूतं दशभिरन्यत्र कामावचरणि(नि)वृताव्याकृतानिवृताव्याकृताभ्याम्। तदनिवृताव्याकृतानुभूतं दशभिरण्य(न्य)त्रारूप्यावचरणि (नि)वृताव्याकृतानिवृताव्याकृताभ्याम्। आरूप्यावचरः कुशलानुभूतं दशभिरण्य(न्य)त्र कामावचरणि(नि)वृताव्याकृतानिवृताव्याकृताभ्याम्। तन्निवृताव्याकृतानुभूतं नवभिरण्य(न्य)त्र कामावचरं निवृताव्याकृतानिवृताव्याकृताभ्याम्। रूपावचराच्चानिवृताव्याकृतात्। एवमनिवृताव्याकृतेन। शैक्षानुभूतमेकादशभिरन्यत्रकामावचरणि(नि)वृताव्याकृतादेवमशैक्षेने(णे)ति। संक्षेपार्थस्त्वयं श्‍लोकैः प्रदर्श्यते।

[31] द्व्यव्याकृतानुभूतं यच्चित्तं द्वादशकादिह।
व्यारूप्यरूपणि(नि)वृतेः स्मर्यतेऽष्टाभिरेव तत्॥

कामधातौ निवृताव्याकृताऽनिवृताव्याकृताभ्यां यदनुभूतं तदष्टाभिः स्मर्यते। रूपारूप्यावचरे द्वे निवते हित्वा। शेक्षमशैक्षं चैवमनिवृताव्याकृतेन।

[32] रूपारूप्याप्तनिवृतशुभाभ्यां तु क्रमेन(ण) यत्।
कामाप्ताव्याकृते हित्वा स्मर्यते दशकेन तत्॥

कामावचरणि(नि)वृताव्याकृते हित्वा।

[33] रूपे त्वनिवृताख्येन दृष्टमव्याकृतेन यत्।
आरूप्याव्याकृते हित्वा तदन्यैः स्मर्यते पुनः॥

यत्खलु रूपधातौ अनिवृताव्याकृतेनानुभूतं तदारूप्याव्याकृते हित्वा तदन्यैर्दशभिः स्मर्यते॥

[34] आरूप्याव्याकृतज्ञातं यश्‍चेतो नवकेन तत्।
कामाप्ताव्याकृते हित्वा रूपाप्तानिवृतं तथा॥

गतमेतदौपोद्‍घातिकं प्रकरणम्। प्रकृतमेवाभिधीयताम्॥

य एतेऽष्टादशधातव एषां कति सालम्बनाः कत्यनालम्बनाः कत्युपात्ताः कत्यनुपात्ताः कति संचिताः कत्यसंचिताः ? तदिदमारभ्यते।

[35] चित्ताख्याः सप्त सालम्बा धर्माख्यः संप्रयुक्तकः।

सालम्बना इति वर्तते। शेषास्त्वनालम्बना विषयाग्रहणात्॥

अमूर्ता ध्वनिना सार्धमनुपात्ताः

य एते सप्तचित्तधातवो धर्मधात्वर्धेन सहोक्तास्ते शब्देन सहानुपात्ताः। अतोऽन्ये

नव द्विधा॥

ये सन्तानाधिरोहिनः(णः) प्रत्युत्पन्नाश्चक्षुरादयस्तदविनिर्भागिणश्‍च रूपादयः। शेषास्त्वनुपात्ताः। निश्‍चेतनत्वादनात्मभावपर्यापन्न[त्वा]च्च। शेषा ये बाह्याः कायेन्द्रियसंतानव्यतिरेकवर्तिनस्तेऽनुपात्ता इति सिद्धम्॥

कति भूतानि कति भौतिकाः ? तत्राप्युच्यते।

[36] स्पृश्यं द्विधा

अत्र भूतानि चत्वारि भौतिकं च गुरुत्वादिसप्तप्रकारम्।

सधर्मांशाः सह ता नव भौतिकाः।

सह धर्मधात्वंशेनाविज्ञप्त्याख्येन ‘स[ह] ता नव भौतिकाः’॥

एवं कति मूर्ताः ?

दश सावयवा मूर्ताः

शेषास्त्वमूर्ताश्‍चक्षुर्विज्ञानधात्वादयः।

त एव दश संचिताः॥

परमानु(णु)संघाता इत्यर्थः। त एवाष्टौ चक्षुर्विज्ञानधात्वादयो [हित्वा शेषा दश] संचिताः॥

कति च्छेत्तारः कति च्छेद्याः, कति दग्धारः कति दाह्याः, कति तोलयितारः कति तोल्याः ? तदिदमत्रोच्यते।

[37] रूपगन्धरसस्पर्शाश्‍च्छेतृच्छेद्यात्मका मताः।
दाहकास्तोलकाश्‍चैते दाह्यास्तोल्यास्त एव वा॥

‘वा’ शब्दो मतविकल्पार्थः। केषाञ्चित्तेजोधातुरेव दग्धा गुरुत्वमेवा(व) तोल्यम्॥

कति विपाकजाः कत्यौपचयिकाः ?
[38] पञ्च रूपीन्द्रियात्मानो विपाकोपचयात्मकाः।

विपाककारणहेत्वधीनजन्मत्वात् नैष्यन्दिकानि चक्षुरादीनि पञ्च न विद्यन्ते। मृतस्य विपाकजव्यतिरिक्ततन्निष्यन्दाभावात्। तत्र विपाकहेतोर्जाता विपाकजाः, मध्यपदलोपं कृत्वा गोरथवत्।

अमूर्त्ता नौपचयिकाः

सप्तचित्तधातवो धर्मधातुश्‍चामूर्त्ता नैष्यन्दिकविपाकजास्तु विद्यन्ते सभागविपाकहेतुबलोत्पत्तेः।

त्रिधा शेषाः

रूपधात्वाद्याश्‍चत्वारस्त्रिप्रकारा ये कायेन्द्रियसहवर्तिण(न)स्ते त्रिधा। बाह्याः ते द्विधा।

ध्वनिर्द्विधा॥

शब्दस्तु विपाकजो नास्तीत्यागमः। युक्तिरपीच्छातस्तत्प्रवृत्तेः॥

इदानोमिदमुच्यते। यश्‍चक्षुर्धातुना समन्वागतः समन्वागमं प्रतिलभते चक्षुर्विज्ञानधातुनापि सः ? यो वा चक्षुर्विज्ञानर्धातुना चक्षुधातुनापि सः ? आह। नात्रैकांशः। यस्मात्

[39] चक्षुस्तदुपलब्धिश्‍च पृथग्वा सह वाऽप्नुयात्।

चक्षुर्धातुं तावल्लभते न चक्षुर्विज्ञानधातुम्। कामधातौ क्रमेन(ण) चक्षुरिन्द्रियं प्रतिलभमानः, आरूप्यधातुच्युतश्‍च द्वितीयादिषु ध्यानेषूपपद्यमानः। स्याच्चक्षुर्विज्ञानधातुना न चक्षुर्धातुना। द्वितीयादिषु ध्यानेषूपपन्नश्‍चक्षुर्विज्ञानमसंमुखीकुर्वाणः। ततश्‍च्युतश्‍चाधस्तादुपपद्यमानः। उभाभ्यामपि-आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोपपद्यमानः। नोभाभ्याम्-एतानाकारान् स्थापयित्वा।

यश्‍च[क्षु]र्धातुना समन्वागतः चक्षुर्विज्ञानधातुनापि सः ? चतुष्कोटिकाः। प्रथमा-द्वितीयादिषु ध्यानेषूपपन्नश्‍चक्षुर्विज्ञानमसंमुखीकुर्वाणः। द्वितीया-कामधातावलब्धि(ब्ध)विहीनं (न) चक्षुः। तृतीया-कामधातौ लब्धाविहीनश्‍च (नच)क्षुः प्रथमध्यानोपपन्नो द्वितीयादिध्यानोपपन्नश्च पश्‍यन्। चतुर्थी-एतानाकारान् स्थापयित्वा॥

गतमेतत्। प्रकृतमिदानीमनुवर्त्यताम्। कत्याध्यात्मिकाः कति बाह्याः ?

द्वादशाध्यात्मिका ज्ञेयाः

पञ्चेन्द्रियात्मिकः सप्तचित्तधातु(त)वश्‍च, अहंकारसन्निश्रयत्वात्। “आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः।” इति।

बाह्याष्षड्‍विषयात्मकाः॥

कति दर्शन(न)हेयाः कति भावनाहेयाः कत्यहेयाः ? तदारभ्यते।

[40] त्रयोऽन्त्यास्त्रिविधाः

मनोधातुर्मणो(नो)विज्ञानधातुर्धर्मधातवस्त्रिप्रकाराः। अष्टाशीत्यनुशयसहचरिष्णवस्तत्प्राप्तयश्‍च दर्शण(न)हेयाः।

शेषा भावनापथसंक्षयाः॥

ये सास्रवाः। ये त्वनास्रवास्तेऽप्रहेया निर्दोषत्वात्॥

न रूपमस्ति दृग्घेयं नाक्लिष्टं नाविकल्पकम्॥

पृथग्जनत्वमिति चेत्। न। तस्यानिवृताव्याकृतत्वात, समुच्छिन्नकुशलमूलवीतरागाणामपि तत्समन्वागमात्। आपायिकं च कायवाक्कर्मरूपस्वभावं तदप्यार्यमार्गविरोधित्वाद्विहीनं न तु प्रहीनं(णं) तस्मादुभयं न दर्शण(न)हेयं सत्येष्वविप्रतिपत्तेः। दुःखधर्मज्ञानक्षान्तौ पृथग्जनत्वप्रसंगाच्च।

पञ्चविज्ञानकाया [अ] विकल्पकास्तेऽपि न दर्शण (न)हेयाः॥

कति सभागाः कति तत्सभागाः ?

[41] सभाग एव धर्माख्यः शेषास्तूभयथा स्मृताः॥

धर्मधातुवर्ज्या अन्ये धातवो द्विधा। सभागास्तत्सभागाश्‍च॥

कः पुनः सभागार्थः को वा तत्सभागार्थः ?

सभागस्तत्सभागत्वे स्वक्रियाभाक्तु तुल्यते॥

यः स्वक्रियां भजते स सभाग इत्युच्यते। यः स्वक्रियाविरहितः स तत्सादृश्यमात्रभजमानत्वात् तत्सभाग इत्याख्यायते।

अत्र सभागस्त्रिविधः। अध्वसु स्वक्रियाभेदेन वाच्यः। एवं तत्सभागः क्रियाविरहितो वाच्यः। अनुत्पत्तिधर्मकं चतुर्थमिति काश्मीराः॥

कति दृष्टिः कति न दृष्टिः ?

[42] चक्षुः सधर्मधात्वंशं नवधा दृष्टिरूच्यते।

चक्षुस्तावल्लोकेऽपि दृष्टिरिति प्रतीतम्। धर्मधातोरपि प्रदेशो दृष्टिस्वभावोऽष्टविधः क्लिष्टाक्लिटप्रज्ञात्मकः। शेषस्तु न दृष्टिः।

पाञ्चविज्ञानकी प्रज्ञा न दृष्टिरणि (ति) तीरणात्॥

नितीरिका हि दृष्टयो विचारणाश्रयात्। सा त्वविकल्पिका जडस्वभावा। अत्यल्पमिदमुच्यते। मनोविज्ञानभौम्यनिरासादिसंप्रयुक्ता न दृष्टिऋ(रि)त्युपसंख्यातव्यम्॥

कथं पुण (न) रेताः प्रज्ञाः पश्यन्ति ? तदिदमाविष्क्रियते।

[43] समेघामेघरात्र्यह्नोर्दृश्यं चक्षुर्यथेक्षते।
क्लिष्टाक्लिष्टदृशौ तद्वच्छैक्षाशैंक्षे च पश्यतः॥

यथा समेघाया(यां) तिमिरपटलावगुण्ठितचन्द्रनक्षत्रचक्रा(क्र)प्रायां रजन्यां रूपाणि दृश्यन्ते तथा क्लिष्टाः पञ्चदृष्टयो ज्ञेयं पश्यन्ति। यथा तु विगतरजांसि निशाकरकिरणांशुकावगुण्ठितायां त्रियामायां रूपाणि दृश्यन्ते, तथा लौकिकी सम्यग्दृष्टिः पश्यति। यथा तु मेघपटलावगुण्ठिते दिवाकरकिरणानुद्भासिते दिवसे रूपाणि दृश्यन्ते तद्वच्छैक्षी दृष्टिः पश्यति। यथा तु द्रव्यकनकरसावसेकपिञ्जरदिनकरकिरणप्रोत्सारिततिमिरसंचये दिवसे च्च(च)क्षुष्मतो देवदत्तस्य रूपं चक्षुरीक्षते, तथा बुद्धानामर्हतां प्रज्ञाचक्षुरविद्याक्लेशोपक्लेशमलदूषिकातिमिरपटलवर्जितं ज्ञेयं पश्यतीति।

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ प्रथमस्याध्यायस्य तृतीयः पादः॥

प्रथमाध्याये

चतुर्थपादः।

आह। यदुक्तम्-चक्षुर्दर्श(न)मष्टप्रकारा च प्रज्ञा दृष्टिरिति। अथ विज्ञानं पश्यत्यथ न पश्यति ? यदि पश्यति दशधर्मा दृष्टिस्वभावा भवन्ति। अथ न पश्यति दार्ष्टान्तिकपक्षस्तर्ह्युज्झितो भवति। देवा एनं ग्रहीष्यन्ति ग्रहीतव्यं चेन्मंस्यन्ते।

यत्तूक्तं दशधर्मा दृष्टिस्वभावाः प्राप्नुवन्तीत्यत्र विज्ञानस्य मुख्यदर्शनकल्पणा(ना)प्रतिषेधमुपरिष्टात् करिष्यामः। इदं तु वक्तव्यम्। चक्षुश्‍चक्षुर्विज्ञानप्रज्ञासामग्रीणां कः पश्यति ? कुतः संशय इति चेत्। सर्वत्र दोषदर्शणा(ना)त्। यदि तावच्चक्षुः पश्यति यावत्कायः स्पृशति ततो युगपत् सर्वविषयोपभोगप्रसंगः। अथ चक्षुर्विज्ञानं पश्यति कस्तर्हि विजानाति ? व्यवहितमपि किं न पश्यति, अप्रतिघत्वात् ? अथ प्रज्ञा पश्यति श्रोत्रविज्ञानादिष्वपि प्रज्ञा विद्यत इति तत्रापि दर्शण(न)प्रसंगः। अथ चक्षुरादिसामग्री पश्यति सापि खलु चक्षुरादिसामग्र्यङ्गव्यतिरिक्ता स्वभावक्रिया[ऽ]भावान्न विद्यते।

चक्षुरादिसामग्र्यङ्गाणा(ना)मपि प्रत्येकं दर्शण(न) शक्तिक्रियाऽभावो[ऽ]न्धशं(श)तवदित्यसत्त्वम्। सर्वसामग्रीणा(णां) सर्वकार्यकरणापत्तित्वा[त्], विशेषाभावात्।

हेतुप्रत्ययसामग्रीं प्रतीत्य क्रियामात्रं विज्ञानमुत्पद्यत इति चेत्। न। जनिकर्त्तृभावे जन्मक्रियास्वातन्त्र्यानुपपत्तेः, नश्यादिवत्। हेतुप्रत्ययानां परतन्त्राणां स्वात्मन्यवस्थितानां निरात्मकानां निरात्मककरणशक्त्ययोगात्।

किञ्च, विज्ञेयाभावे विज्ञानानुपपत्तेः, दाह्यदहनवत्।

किञ्च, विज्ञानक्रियाशृ(श्रि)ताभावे तदभावाच्चित्रकुड्यवत्। जन्मनाशयोर्द्धर्मिधर्मत्वे विरुद्धानामन्यतरोपपत्तिर्विणा(ना)शस्य वा सजातिहेतुत्वप्रसंगः। यज्जात्यनुवृत्तिस्तद्‍बीजमिति चेत्। न। कुशलाकुशलादिचित्तनिरोधे [बीज]त्वानुपपत्तेः, सामग्रीपक्षोत्सर्गात्सांख्यमताभ्युपगमदोषाच्च। तेषामपि प्रधानाख्याद्‍बीजादेकस्मान्निरपेक्षात्सर्वं संभवति। निमित्तान्तरापेक्षा शक्तशक्तेरिति चेत्। न। अक्षणिकत्वदो[षात्]। सर्वसामग्र्यङ्गबीजाभ्युपगमे कार्यस्वभावादिवैचित्र्यप्रसंगः। तस्मान्निर्दोषः पक्षो वक्तव्यः। सोऽयं प्रक्रम्यते।

[44] चक्षुः पश्यति विज्ञानं विजानाति स्वगोचरमृ।
आलोचनोपलब्धित्वाद्विशेषः सुमहांस्तयोः॥

चक्षुर्द्रव्यं हि द्रष्टृस्वभावम्। तस्य हेतुप्रत्ययसामग्रीपरिग्रहप्रबोधितशक्तेः रूपदर्शनक्रियामात्रमुत्पद्यते। द्रव्यक्रिययोश्‍चान्यत्वं सिद्धसाध्यमानरूपत्वान्निरपेक्षसापेक्षव्यपदेशित्वाच्च द्रष्टव्यम्। तत्र चक्षुर्मूर्तिक्रियावद्विज्ञानाधिष्ठितं दर्शण(न)क्रियामारभते। न विज्ञानशून्यम्। यथैव चक्षुर्विज्ञानमालोचनाधिष्ठितक्रियं विजानाति, न केवलम्, परम्परानुग्रहबलाद्ध्यनयोः प्रदीपादिप्रत्ययान्तरपरिगृहीतयोर्युगपदेकस्मिन् विषये वृत्तिलाभो भवति।

यस्त्वेतदतिपत्ये(त्यै)वं कल्पयति-‘कारणभूताभ्यां प्रागुत्पन्नाभ्यां चक्षूरूपाभ्यां कार्यभूतं विज्ञानं सहैकस्मिन् काले नावतिष्ठते’ इति तस्य सक्षाद्विषयानुभवनाभावादनुमानागमाभावप्रसंगः। अनुभवज्ञाने चासति मनोविज्ञानस्मृतिगोचराभावादनुत्पत्तिप्रसंगः। नियतविषयस्मरणाभावाच्च। तस्माद्विज्ञानं नियताश्रयालम्बनलब्धप्रतिष्ठं सहकारिकारणसामग्रीसन्निपातोपजनितक्रियं साक्षाद्विषयमुपलभते। चक्षुरप्यालोचयति प्रदीपस्तत्कालमेवावभासयति। य एते विज्ञानचक्षूरूपादयः स्वहेतुसामग्रीप्रबोधितशक्तयः [ते] विषयप्रतिविज्ञप्त्यालोचनावभासनाख्यां युगपत् सौधीं सौधीं वृत्तिं प्रतिपद्यन्त इति युक्तिमती नीतिः।

तस्मात्सत्स्वप्यन्येषु प्रत्ययेषु दर्शण(न)क्रियायाश्चक्षुषः प्राधान्यात्, तदेवाञ्जसा पश्यतीत्युच्यते। यथा वा देवदत्तः स्थालीजलज्वलनतण्डुलादिषु सत्स्वपि पाके प्रवर्तमाने स्वस्यामधिश्रयनो(णो)दकासेचनतण्डलावपनदर्वीपरिघट्टनाचामनिस्रावणक्रियायां लब्धसामर्थ्यः साधनसन्नियोगे च परप्राप्तैश्वर्यो देवदत्तः प्राधान्यात्पचतात्युच्यते। यदा पुण(न)स्तण्डुलानां विक्लेदो विवक्षितः पाको वा तदा जलानलयोः प्राधान्याद्व्यपदेशो भवत्यम्बु क्लेदयत्यग्निः पचतीति। तस्मात्सामग्र्यां सत्यां दर्शणे(ने) प्रवर्तमाने प्राधान्याच्चक्षुः पश्यतीत्युच्यते। कथं प्राधान्यमिति चेत् ? तत्प्रकर्षे दर्शण(न)प्रकर्षात्। तुल्ये हि प्रथमध्यानचक्षुर्विज्ञाने द्वितीयादिषु चक्षुष्प्रकर्षाद्दर्शनप्रकर्षो दृश्यत इति। तस्माद्युक्तम्-“चक्षुः पश्यति नयनः(नम्) पश्यति मनसि तु भक्त्या प्रज्ञावृत्तिरुपचर्यते मनसा पश्यति” इति।

तत्रयदुक्तं कोशकारेण-“किमिदमाकाशं खाद्यते। सामग्रयां हि सत्यां दृष्टमित्युपचारः प्रवर्तते। तत्र कः पश्यति ?” इति। तदत्र तेत भदन्तेन सामग्र्यङ्गक्रिया[पहरणं ?] क्रियते। अभिधर्मसंमोहाङ्कस्थानेनात्माप्यङ्कितो भवत्ययोगशून्यताप्रपाताभिमुख्यत्वं प्रदर्शितमिति॥

किं पुण(न)रेकेनापि चक्षषा पश्यति, आहोस्विद् द्वाभ्यामेवेति ? नात्र नियमः। यस्मात्

[45] एकस्य चक्षुषः कार्यं विज्ञानमथवा द्वयोः।

इति द्विचन्द्रदर्शणा(ना)देर्विज्ञानस्य ..........॥
[प्राप्तग्राही]नि(णि) आहोस्विदप्राप्तग्राहीणीति ? तदुच्यते।

अप्राप्यार्थं मनश्‍चक्षुः श्रोत्रं च त्रीण्यतोऽन्यथा॥

घ्राणरसनकायेन्द्रियानि(णि) प्राप्तग्राहीणीत्यर्थः॥

अत्र काणादः पश्यति। नाप्राप्तग्राहीनी(णी)न्द्रियाणि। चक्षुषो हि रश्मिर्गत्वा पश्यति। श्रोत्रं त्र सर्वगतं प्राप्यैव सर्वं श्रृणोति। तं प्रतीदमुच्यते।

[46] अप्राप्तग्राहिणः सिद्धा दूरासन्नसमग्रहात्।

यावता हि कालेन देवदत्तः स्वपाणितललेखां पश्यति तावतैव चन्द्रलेखाम्। न चायं गतिमतां धर्मः। गतिमन्तो हि देवदत्तादयो दूरं चिराद्‍गच्छन्त्यासन्नं क्षिप्रमिति। न। प्रदीपवत् तत्सिद्धेः।

प्रदीपादिप्रभावश्‍चेत्

यथा खलु यावता कालेन प्रदीपो नेदिष्ठं रूपमभिव्यनक्ति तावता दविष्ठं तद्वदिति। तत्र प्रत्यवस्थानम्-

न समं तत्समुद्भवात्॥

यदि प्रदीपो गच्छेत्, तत्राप्येष दोषः प्रसज्येत। प्रभादिमध्यान्तेषु च तापविशेषदर्शणा(ना)त् तदेकत्वासिद्धिः। तस्य पुण(नः) प्रतीत्य युगपत् सर्वप्रदीपप्रभो(भामु)पादाय रूपपरमाणूनामुत्पत्तिस्तस्यैष दोषो नास्ति॥

[47] सर्वग्रहप्रसंगश्‍चेन्नायस्कान्तादिदर्शणा(ना)त्।

यद्यप्राप्तग्राहि चक्षुः ब्रह्मलोके ब्रह्माणं कस्मान्न पश्यति ? तत्रेदमुच्यते। नायस्कान्तवत्तत्सिद्धेः। यथा तुल्येऽप्यप्राप्ताकर्षणे न प्राचीनोऽयस्कान्तो मणिरुदीचीनमयः समाकर्षति तद्वदिति॥

अत्र पुण(न)र्विन्ध्यवासी पश्यति सर्वगतत्वमिन्द्रियाना(णा)म्। तं प्रतीदमुच्यते।

सर्वगत्वाददोषश्‍चेन्नायोगात्तिलतैलवत्॥

को ह्यनुन्मत्तो ब्रूयात्तिलेषु तैलं सर्वगतमस्तीति ? तद्वक्चक्षुःश्रोत्राद्यधिष्ठानेभ्यो बहिरिन्द्रियाणि कः कल्पयेदमूढचेताः ?

इदं वक्तव्यम्। यत्र काये स्थितश्‍चक्षुषा रूपाणि पश्यति किं तानि कायचक्षूरूपविज्ञानानि एकभौमानि, आहोस्तिदन्यभौमिकान्यपि ? सर्वेषामनियमः। तत्र कामधातूपपन्नस्य तावत् स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभौमम्। तस्यैवास्य ध्यानचक्षुषा स्वरूपाणि पश्यतः कायरूपे स्वभूमिके द्वयं प्रथमाद्‍ध्यानात्। प्रथमध्यानभूमीनि पश्यतो रूपाण्यपि तत्रत्यानि। द्वितीयध्यानचक्षुषा समीक्षमाणस्य कायरूपे स्वभूमिके, चक्षुर्द्वितीयाद् ध्यानात्, विज्ञानं प्रथमात्। प्रथमध्यानभूमीनि पश्यतो विज्ञानरूपे प्रथमाद्‍ध्यानात्, कायः कामावचरः, चक्षुर्द्वितीयाद्‍ध्यानात्। द्वितीयध्यानभूमीनि पश्यतश्‍चक्षूरूपे द्वितीयध्यानभूमिके कायः कामावचारो विज्ञानं प्रथमध्यानात्। एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्‍भूमिकाधरभूमिकानि रूपाणि पश्यतो विज्ञातव्यम्। प्रथमध्यानोपपन्नस्य स्वेन चक्षुषा स्वाणि(न) रूपाणि पश्यतः सर्वं स्वभूमिकम्। अधराणि रूपाणि पश्यतस्त्रयं स्वभूमिकं रूपाणि कामावचराणि। द्वितीयध्यानचक्षुषा स्वानि रूपाणि पश्यतस्त्रयं स्वभूमिकं चक्षुर्द्वितीयात्। कामावचराणि पश्यतः कायविज्ञाने स्वभूमिके, कामावचराणि रूपाणि, चक्षुर्द्वितीयात्। द्वितीयध्यानभूमीनि पश्यतश्‍चक्षूरूपे तद्‍भूमिके शेषं स्वभूमिकम् एवं तृतीयादिध्यानचक्षुषा योज्यम्। द्वितीयादिध्यानोपपन्नस्य स्वपरचक्षुर्भ्यां स्वपरभूमिकानि रूपाणि पश्यतो यथासंभवं द्रष्टव्यम्॥

नियतस्त्वयम्-

[48] न ह्यूर्ध्वं चक्षुषः कायो न रूपं नाक्षिजं मनः।
विज्ञानस्य तु नेत्रार्थस्तौ च कायस्य सवंतः॥

पञ्चभौमानि कायचक्षूरूपाणि द्वयोः सवितर्कसविचारयोर्भूम्योश्चक्षुर्विज्ञानम्। तत्र यद्‍मूमिकः कायस्तद्‍भूमिकमूर्ध्वभूमिकं वा चक्षुर्भवति न त्वधोभौमिकम्। यद्‍भूमिकं चक्षुस्तद्‍भूमिकमधरभूमिकं वास्य रूपं गोचरी भवति नोर्ध्वभूमिकम्। एवं चक्षुर्विज्ञानं नाधरिमे चक्षुषि संमुखीभवति। अस्य तु चक्षुर्विज्ञानस्य रूपं सर्वतो विषयीभवति। कायस्याप्युभे रूपविज्ञाने सर्वतो भवत इति॥

एवं

[49] नोपरिष्टाच्छ्रु तेः कायो न शब्दो न स्वकं मनः।
विज्ञानस्य तु निह्रादस्तौ च कायस्य सर्वतः॥

घ्राणादीनां पुनः

[50] त्रयाणां(णां) त्रीण्यपि स्वाणि(न)

कायगन्धादिविषयविज्ञानानि स्वभूमिकान्येव। उत्सर्गस्यायमपवादः क्रियते।

तनोर्विज्ञानमप्यधः।

कायस्पृष्टव्ये स्वभूमिके एव। कायविज्ञानं तु केषाञ्चिदधरभूमिकम्। यथा द्वितीयादिध्यानोपपन्नानामिति।

मनस्त्वनियतं

समापत्त्युपपत्तिकालेषु कायस्य सर्वतो भावात्। त्रैकालिकाध्वनिर्मुक्तसर्वधर्मविषयित्वात्॥

किमर्थं पुण(न)रयमल्पार्थः सुमहाग्रन्थसन्दर्भविधिरारभ्यत इति ? कोशकृदाचष्टे-नह्यत्र किञ्चित्फलमुत्प्रेक्ष्यत इति। तं प्रतीदं फलमादर्श्यते। तत्र खलु

योगिवैश्‍वरूप्यं प्रदर्शितम्॥

एतद्वैश्‍वरूप्यं योगिणां(नां) यदन्यतः कायोऽन्यतश्चक्षुरन्यतः रूपमन्यतो विज्ञानं गृहीत्वा पश्यन्ति। विभूनि च शरीराणि निर्माय मनोजवया रि(ऋ)द्ध्या गत्वा बुद्धा भगवन्तो यथेच्छं लोकधात्वा(त्व)न्तरेषु विनेयानां बुद्धकार्यं कुर्वंति। दिव्याभ्यां चक्षुःश्रोत्राभ्यां रूपाणि दृष्ट्वा शब्दांश्‍च श्रुत्वा यथेच्छं युगपदनेकानि पाञ्चगतिकानि शरीराणि निर्मायानेकगतिधात्वा(त्व)न्तरेषु विनेयकार्यं कुर्वन्तीति।

गतमेतत् प्रासङ्गिकं प्रकरणम्॥

इदमधुना वाच्यम्। स्कन्धोपादानस्कन्धयोः कः प्रतिविशेषः ? तदुच्यते। स्कन्धास्त्रिभिः सत्यैः संगृहीताः। यस्मात्

[51] सास्रवानास्राः स्कन्धा ये तूपादानसंज्ञिताः।
सास्रवा एव ते ज्ञेयास्तत्साचिव्यक्रियादिभिः॥

कारणैरिति वाक्याध्याहारः। तस्मादुपादानस्कन्धाः सत्यद्वयसंगृहीताः। निरोधसत्यं तु स्कन्धलक्षणानुपपत्तेः स्कन्धलक्षणव्यतिरिक्तमिति द्रष्टव्यम्॥

[52] अध्वाद्याः स्कन्धपर्यायाः

अध्वानस्कन्धाः संस्कृताः कथावस्त्वित्येवमादयः।

धर्माद्या वस्तुनः सतः।

सत् वस्तु धर्मो द्रव्यमायतनं धातुरित्येवमादयः।

ये तु सास्रवसंज्ञास्ते प्रोक्ता दुःखादिनामभिः॥

दुःखं लोको भवः समुदय इत्येवमादिभिर्णा(र्ना)मभिः शब्दयन्ते॥

अथ कस्माच्चक्षुःश्रोत्रघ्राणानां द्वित्वे सत्येकधातुता ? तदारभ्यते-

[53] स्वात्म्यगोचरकार्यानां(णा)मेकत्वादेकधातुता।
चक्षुरादिद्विभावेऽपि

त्रयाना(णा)मपि खल्वेतेषामेकस्वभावत्वादेकगोचरत्वादेककार्यत्वाच्च द्वित्वेऽपि स[त्येकाधिपत्यं चैकधातुता च] निर्वर्त(र्ते)ते।

द्व्युत्पत्तिः कर्मतृ(त्रि)त्वशात्॥

ये तु कथयन्ति “शोभार्थं तु द्वयोद्भवः” इति तेषां श्‍लीपदगन्त्र (न्ड)प्रभृतीनाम् अ(ति) शोभार्थमुत्पत्तिरित्यापन्नम्॥

इदमिदानीं वाच्यम्। चक्षुरादिकारणसामग्रीसन्निधाने सति चक्षुर्विज्ञानोत्पत्तौ कस्माच्चक्षुःश्रोत्रादिविज्ञानमित्युच्यते ? तत्र [विसर्जनं क्रियते]-

[54] [असाधारण]वैशिष्ट्यादैश्‍वर्यादान्तरङ्गयतः।
सत्यप्यणे(ने)कहेतुत्वे विज्ञानं तैर्विशेष्यते॥

चक्षुरादीन्द्रियविशेषाद्विज्ञानविशेषो दृष्टः। चक्षुरादीनां च चतुर्भिः कारणैरीशित्वं दृष्टम्। असाधारणकारणत्वेन चान्तरङ्ग्‍य इति॥

अत्राह। अथ कस्मात् सर्वपदार्था[नां] द्रव्यस्वभावे(वत्वे) निर्वाणमेव परमार्थतो द्रव्यमित्युच्यते यतो धर्मधातुरेव तद्योगाद्‍द्रव्यवानित्याख्यायते। कस्माच्च सर्वसंस्कृतानां क्षणिकत्वे सति त्रय एवान्त्या धातवः क्षणिका इत्युच्यन्ते ? तदुभयं प्रदर्श्यते।

[55] नित्यत्वात्कुशलत्वाच्च निर्वाणं द्रव्यमञ्जसा।
सारद्रव्येन तेनैको धर्माख्यो द्रव्यवान्मतः॥

[56] प्रथमं निर्मलं चित्तमसाभाग्यात्क्षणः स्मृतः।
तेनाद्‍भुतक्षणेनैते क्षणिकाः पश्‍चिमास्त्रयः॥

किं पुण(न)रेते चक्षुरादयस्तुल्यं विषयं गृह्णन्ति, आहोस्विन्न्यूनमविकं वा ? तदाविष्क्रियते-

[57] घ्राणं जिह्वा च कायश्‍च तुल्यार्थग्राह्यदस्त्रयम्।

द्वयोश्‍चक्षुःश्रोत्रयोरणि(नि)यम इत्याख्यातं भवति॥

किंपुण(न)रेषां चक्षुर्विज्ञानादीनां सहज एवाश्रयः, आहोस्विदतीतोऽपि ? तदुच्यते।

पश्‍चिमस्याश्रयोऽतीतः

मनोविज्ञानस्य क्रियावतो नित्यमाश्रयोऽतीतः।

पञ्चानां तैः सहापि च॥

पञ्चानां विज्ञानकायानां तैः सहापि चातीतश्‍चेति ‘च’शब्दात्।

एवं चतुष्कोटिक आरभ्यते। ये धर्मा विज्ञाननिश्रयाः समनन्तरा अपि ते ? प्रश्‍नश्‍चतुष्कोटिकः। निश्रय एव चक्षुरादयः। समनन्तरा एव वेदनादयः। उभयं समनन्तरवि(नि)रुद्धं विज्ञानम्। नोभयमेतानाकारान् स्थापयित्वा॥

इदमिदानीमभिधर्मसर्वस्वं कोशकारकस्मृतिगोचरातीतं वक्तव्यम्। अथैषामष्टादशानां धातूनां कतमं निश्रयं निश्रृ(श्रि)त्यानास्रवेण मार्गेण कतमो धातुर्णि(र्नि)रुध्यते !

[58] निश्रित्य खल्वनागम्यं निश्रयांश्‍चतुरोऽथ वा।
अनास्रवेन(ण) मार्गेंण चक्षुर्धातुर्निरुध्यते॥

नवसु भूमिषु खल्वनास्रवो मार्गः। चक्षुर्धातुस्तु पञ्चभूमिकः। तत्र प्रज्ञाविमुक्तस्यालब्धध्यानस्यार्यस्य(स्या)नागम्यं निश्रित्य चक्षुर्धातुर्निरुध्यते। निरोधमार्गज्ञानात्मकस्य त्रिधातुप्रतिपक्षत्वाद्ध्यानलाभिनः पुण(न)श्‍चतुरो णि(नि)श्रयान्निश्रित्य ध्यानान्तरिकायाः प्रथमेन ग्रहणात्॥

[59] अनागम्यं तु निश्रित्य गन्धधातुर्णि(र्नि)रुध्यते।

ध्यानालाभिनस्तन्निरोधात्।

मनोधातुरणा(ना)गम्यं यदि वा सप्तनिश्रयात्॥

चत्वारि ध्यानानि त्रींश्‍चारूप्यान्, तस्य त्रैधातुकत्वात्॥

[60] अनागम्यं तथैवाद्यं चक्षुर्विज्ञानसंज्ञकः।

निरुध्यत इति वर्तते। तस्य कामप्रथमध्यानसमापन्नत्वात्।

धर्मधातोर्विचित्रत्वाद्यथायोगं विनिर्दिशेत्॥

धर्मधातुः खलु कश्‍चित्कामावचर एव यथा प्रतिघादयः। कश्‍चित्कामे प्रथमध्यानयोर्यथा वितर्कविचारादयः। कश्‍चित्कामे प्रथमद्वितीयध्यानयोर्यथा प्रीतिः। कश्‍चित्कामे तृतीयध्यानयोर्यथा सुखेन्द्रियम्। कश्‍चित्त्रैधातुको यथा जीवितेन्द्रियादयः। अत उच्यते ‘यथायोगं विनिर्दि शेत्। एवमन्यानपि धातूननेनैव यथोक्तेन न्यायेन ‘यथायोगं विनिर्दिशेत्’ इति॥

इदमिदानीमन्यद्वक्तव्यम्। यदा पृथग्जनश्‍चक्षुर्धातुं रूपाप्तं परिजानाति तदा कतमाद्धातोर्वैराग्यमाप्नोति ? कति च कुत्रत्याननुशयान् जहाति ? का[नि च]संयोजनानि पर्यादाय जहाति ? तदाविष्क्रियते-

[61] चक्षुर्धातुं हि रूपाप्तं परिजानन् पृथग्जनः।
कृत्स्नाद्रूपमयाद्धातोर्वैराग्यमधिगच्छति॥

[62] तस्मादनुशयान्धातोरेकत्रिंशज्जहाति च।
पर्यादत्ते न किञ्चित्तु संयोजनमसौ तदा॥

अनुशयानां हि धातुपरिच्छेदो न संयोजनानाम्।

[63] रूपवैराग्यमाप्नोति जहात्यनुशयत्रयम्।

सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्साख्यं रूपधातुपर्यापन्नम्।

तदा संयोजनं त्वार्यः पर्यादत्ते न किञ्चन॥

अनुशयत्रयं कतरदार्यो जहाति भवरागमानाविद्याख्यम् ? भावनाप्रहातव्यं संयोजनं तु न धातुपरिच्छिन्नमिति न किञ्चित्तदा जहाति॥

[64] चक्षुर्विज्ञानधातुं तु परिजानंस्तमेव च।
परिजानात्यवश्यं च ब्रह्मलोकाद्विरज्यते॥

[65] न तु संयोजनं किञ्चित्पर्यादत्ते तदा ह्यसौ।
गन्धधातुं रसाख्यं च परिजानन् पृथग्जनः॥

[66] कामवैराग्यमाप्नोति ध्रुवं ह्यनुशयानपि।
तदा जहाति षट्‍त्रिंशद्वर्तिसंयोजनत्रयम्॥

कामावचराच्छट्‍त्रिंशदनुशयाञ्जहाति। त्रीणि च संयोजनानि प्रतिघसंयोजनमीर्ष्यामात्सर्यसंयोजने च। गन्धरसधातूपरिजानन् पृथग्जनः॥

[67] आर्यस्तु कामवैराग्यं करोत्यनुशयानपि।
चतुरः परिजानाति

प्रतिघकामरागमानाविद्याख्यान(न्) भावनाहेयान्॥
पर्यादत्तेऽपि च त्रयम्॥

प्रतिघेर्ष्यामात्सर्यसंयोजनाख्यम्॥

[68] परिजानन्मनोधातुमारूप्येभ्यो विरज्यते।

आर्य इति वर्तते।

जहात्यनुशयांस्त्रींश्च

रागमानाविद्याख्यान्।

पर्यादत्ते त्रयं तथा॥

एतदेव॥

[69] परिजानन्खलु प्रीर्ति तामेव प्रजहात्यसौ।
आभास्वराच्च वैराग्यं याति हन्ति तु नास्रवान्॥

तस्यास्तदुपर्यभावात्।

[70] परिजानन्सुखं योगी प्रजहाति तदेह च।
शुभकृत्स्नाच्च वैराग़्यं याति क्लेशान्न हन्ति तु॥

सुखेन्द्रियस्य ततीयाध्यानादुपर्यभावादकृत्स्नधातून्न क्लेशाञ्जहाति॥

गमतेतत्प्रयोजनागतं प्रकरणम्। प्रकृतमेवोच्यताम्। अथैषां धातूनां के कति विज्ञानविज्ञेयाः ? तदारभ्यते-

[71] द्विविज्ञेयाः गुणाः पञ्च

पञ्चरूपादिगुणाख्या धातवश्‍चक्षुरादिविज्ञानमनोविज्ञानविज्ञेयाः। शेषा मनोविज्ञानविज्ञेयाः॥

कति हेतुः कति न हेतुः ? तदाख्यायते-

हेतुः सर्वे क्षराक्षराः।

सर्वधर्मा हि कारणहेतुस्वभावाः। क्षरास्तु यथायोगं चिन्त्याः॥

कतीन्द्रियात्मकाः ? कति नेन्द्रियस्वभावाः ? तदाविष्क्रियते-

अन्यत्र धर्मधात्वर्था(धी)च्छड्बाह्‍या नेन्द्रियात्मकाः॥

अर्थादायातमाध्यात्मिकाः सर्वे धातवः। बाह्याः पञ्चरूपशब्दगन्धरसस्पर्शधर्मधातोश्‍चार्धं नेन्द्रियस्वभावं जीवितेन्द्रियश्रद्धादिसुखादिपञ्चकवर्जमिति।

अभिधर्मदीपे विभाषा[प्रभायां वृत्तौ प्रथमोऽध्यायः।]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project