Digital Sanskrit Buddhist Canon

पञ्चमोऽध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Pañcamo'dhyāyaḥ

पञ्चमोऽध्यायः।



प्रथमः पादः



[259] अकार्यप्रवणो लोको दुःखभागी च यद्वशात्।

रागादीन् भवसंबन्धान्क्लेशान्वक्ष्यामि तानहम्॥



[260] स्वशक्तिजक्रियोद्‍भूतैर्विशेषैस्ते तु नामभिः।

आत्तसामान्यसंज्ञाकाश्‍चोद्यन्तेऽनुशयादिभि[:]॥



[261] रागप्रतिघसंमोहमानकाङ्क्षाकुदृष्टयः।

षडेतेऽनुशयाः प्रोक्ताः श्रेयोद्वारविबन्धिनः॥



[262] रागद्वेधात् मताः सप्त दृष्टिभेदाद्दश स्मृताः।

भूयोऽष्टानवतिर्ज्ञेया धात्वाकारादिभेदतः॥



[263] कामरागो भवाख्यश्‍च द्विधाः रागः प्रभिद्यते।

प्रायो बहिष्प्रवृत्तत्वादन्तर्वत्त्यादिभेदतः॥



[264] सत्कायान्तद्वयग्राहौ मिथ्यादर्शण(न)मेव च।

दृष्टिशीलव्रतामर्शावित्येताः पञ्च दृष्टयः॥



[265] दशेह दुःखदृग्घेयाः सप्त हेत्वीक्षणक्षयाः।

सप्तापवर्गदृग्घेयाः अष्टौ मार्गेक्षणक्षयाः॥



[266] दृष्टिहेयावलम्बित्वात्सदाकारपरिग्रहात्।

रागादयस्तु चत्वारो ज्ञेया मार्गद्वयक्षयाः॥



[267] प्रतिकल्पवशोत्पत्तेर्दृष्टिकाङ्क्षेतु दृक्क्षये।

रूपेप्येवं तथाऽरूप्ये प्रतिघानुशयादृते॥



[268] भवाग्रे क्षान्तिहेया ये दृग्घेया एव ते मताः।

ज्ञानवध्यास्तु ये तस्मिन्नभ्यासेनैव तत्क्षयः॥



[269] अहं ममेति या दृष्टिरसौ सत्कायदृक् स्मृता।

तदुच्छेदध्रुवग्राहौ यौ सान्तर्ग्राहदृङ्मता॥



[270] फलहेत्वपवादो यः सा मिथ्यादृष्टिरुच्यते।

ज्ञेयो दृष्टिपरामर्शः हीनवस्तूत्तमग्रहः॥



[271] अहेतावपथे चैव तद्धि शीलव्रताव्हयः।

दुःखभ्रान्त्यपथादानात्तदुष्ट्‍युत्सार्य एव सं॥



[272] सत्कायदृष्ट्यवच्छेदो धर्ममात्रेक्षणाद्यतः।

दुःखाभिसमये तच्च तद्दृग्घेयैव सोऽप्यतः॥



[273] द्वयं दृष्टिपरामार्शादेकः सत्कायदृष्टितः।

अन्तर्ग्राहार्धमन्यस्तु विपर्यासः प्रकल्प्यते॥



[274] नितीरणसमारोपविपरीतप्रवृत्तितः।

विपर्यासोक्तिरेष्वेव दृग्वषा(शात्) चित्तसंज्ञयोः॥



[275] सप्त मानविधास्त्रिभ्यो नव मानविधास्त्रिधा।

त्रिधाऽत्युन्नमनादिभ्यः स्वोत्कर्षाद्यस्ति नास्तिता॥



[276] व धादिपर्यवस्थानं कौकृत्यमशुभं विधाः।

विभवेच्छा च नार्यस्य जायन्ते हेत्वभावतः॥



[277] दुःखात्समुदयाच्चैव सर्वगानां व्यवस्थितिः।

तद्‍दृष्टिहेयजातिनां सर्वासां द्विपदस्थितेः॥



[278] काङ्क्षा पञ्च दृशोऽविद्या तद्व्यामिश्राऽथ केवलाः।

सप्त सर्वत्रगा दुःखद्धेनोरेभ्यश्चतुष्टयम्॥



[279] द्रव्यतो दश चैकश्च नाम्ना सप्त तु ते मताः।

रागप्रतिघमानास्तु परिच्छेदप्रवर्तिणः (नः)॥



[280] प्रकारान्तरवर्तित्वात्सकृत्सर्वस्वभूगतिः।

धात्वन्तरावलम्बित्वात्पूर्वोक्ता एव सर्वगाः॥



[281] नवोर्ध्वधातुकास्तेषामाद्या दृष्टिद्वयादृते।

तेषां सहभुवो धर्माः प्राप्तिवर्ज्याश्च सर्वगाः॥



[282] काङ्क्षामिथ्यादृगाभ्यां च मिश्राऽविद्याथ केवला।

निरोधमार्गदृग्घेयाः षडेते निर्मलेक्षिणः॥



[283] स्वभूमेरेव निर्वाणं मार्गस्थ (र्गः ष)न्न(ण्ण)वभूमिकः।

तद्‍दृश्यविश(ष)योऽन्योऽन्यो हेतुत्वाद्धेतुभावतः॥



[284] न रागः शक्त्यहेतुत्वान्न द्वेषो[ऽ]नपराधतः।

नमानोऽतिप्रशान्तत्वान्न भावत्वाद् दृशोऽपराः॥



[285] सर्वगोऽनुशयः कृत्स्नामनुशेते स्वधातुगः।

स्वामालम्बनतो भूमिं स्वनिकायं त्वसर्वगः॥



[286] अस्वीकाराद्विपक्षत्वान्नोर्ध्वभूमार्गगोचरः।

संप्रयोगिनि(णि) तु स्वस्मिन्नहीने संप्रयोगतः॥



[287] धात्रीवस्त्रमलन्यायैः खचराम्बुचरक्रमैः।

एतेऽनुशेरते यस्मात्तस्मादनुशयाः स्मृताः॥



[288] स्वैरिष्टादिभिना (रा)कारैः परमाणुक्षणेष्वपि।

यतोऽनुशेरते चैति(ते) ततश्चानुशया मताः॥



अभिधर्मदीपे विभाषाप्रभायां वृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः॥



पञ्चमाध्याये



द्वितीयपादः।



[289] आद्यं दृष्टिद्वयं कामे निवृताव्याकृतं मतम्।

धातुद्वये तु सर्वेऽपि निवृताव्याकृता मलाः॥



[290] कामेष्वकुशलाः शेषाः रागद्वेषतमांस्यतः।

त्रीण्येवाशुभमूलानि पञ्चकारणयोगतः॥



[291] अव्याकृतद्वयस्यापि त्रीणि मूलानि तत्समाः।

अविद्या धीश्च तृष्णा च न काङ्क्षामानदृष्टयः।



[292] चलत्वादूर्ध्ववृत्तित्वादव्यापित्वाद्यथाक्रमम्।

सूत्रस्यार्थापरिज्ञानादहेतुर्ध्यायिवोदनात्॥



[293] प्रश्नव्याकरणान्याख्यच्चत्वारि वदतां वरः।

शिष्यानां(णां) वादशिक्षार्थ स्थितीनां च चतुष्टयीम्॥



[294] एकांशाख्यं विभज्याख्यं पृच्छाख्यं स्थाप्यमेव च।

मरणप्रसवोत्कर्षजीवद्रव्यान्यतादिवत्॥



[295] स्थानवादित्वसंज्ञैका परिकल्पाव्हया परा।

अन्या प्रतिपदाख्याऽन्या ज्ञानवादित्वसंज्ञिता॥



[296] मानप्रतिघसंरागैर्वर्तमानोऽज्झितक्रियैः।

जाता यत्राप्रहीणाश्च संयुक्तस्तत्र वस्तुनि॥



[297] अजातैर्माण(न)सैरेतैः सर्वत्रान्यैः स्वकाध्विकैः।

सर्वत्राजैस्तथा शेषैः संयुक्ता स्कन्धसन्ततिः॥



[298] द्वयमेवात्र निष्पन्नं तृतीयं तूपचारतः।

सदसद्धेतुनो(ता) यस्मान्मध्यस्थैश्च परिग्रहात्॥



[299] सर्वमस्ति प्रदेशोऽस्ति सर्वं नास्तीति चापरः।

अव्याकृतास्तिवादीति चत्वारो वादिनः स्मृताः॥



[300] एभ्यो यः प्रथमो वादी भजते साधुतामलौ।

तर्काभिमानिनस्त्वन्ये युक्त्यागमबहिष्कृताः॥



[301] इच्छत्यध्वत्रयं यस्मा[त्] कृत्यतश्च ध्रुवत्रयम्।

सर्वास्तिवाद इत्युक्तस्तस्मादाद्यश्चतुर्विधः॥



[302] भा[वाङ्काऽ]न्यथिकाख्यौ द्वाव[व]स्थाऽन्यथिको परः।

अन्यथाऽन्यथिकश्चान्यः तृतीयो युक्तिवाद्यतः॥



[303] कारित्रेणाध्वनामेप व्यवस्थामभिवाञ्छति।

तत्कुर्वन्वर्तमानोऽध्वा कृतेऽतीतोऽकृते परः॥



[304] बुद्ध्या यस्येक्ष्यते चिन्हं तत्संज्ञेयं चतुर्विधम्।

परमार्थेन संवृत्त्या द्वयेनापेक्षयाऽपि च॥



[305] सदतीतासमुत्पन्नं बुद्धोक्तेर्वर्तमानवत्।

धीनामगोचरत्वच्च तत्सत्त्वं वर्तमानबत्॥



[306] नासदालम्बना बुद्धिरागमादुपपत्तितः।

अन्यापेक्ष्येऽथ संबन्धप्रतिषेधोऽश्वशृङ्गयोः॥



[307] रूपादौ वस्तुनि क्षीणे सत्येवोत्पद्यते मतिः।

सा ज्ञानस्यासनाकारा शास्तुस्तथान्यचित्तवत्॥



[308] हर्षोत्पादभयोद्वेगस्मृत्युत्पत्य(त्त्य)ङ्गभावतः।

साङ्गस्य शक्त्यभिव्यक्तेः सदीपघटरूपवत्॥



[309] जनीहाकर्तु साध्वत्वात्पञ्चभावविकारवत्।

सतः कृ(क्रि)याङ्गतादृष्टेर्विकार्य प्राप्यकर्मवत्॥



[310] द्वितीयं जन्म जातस्य वस्तुनो नोपपद्यते॥

मुख्यसत्ता गुणाभावाद्गौनी(णी)सत्ता न विद्यते॥



[311] साधर्म्ये सति तद्‍वृत्तेर्व्याहारं मधुरोक्तिवत्।

आविष्टलिङ्गमुख्यस्य जन्मेष्टं दारकादिवत्।



[312] स्यात्खपुष्पैः खमुत्फुल्लं स्याञ्जटालश्च दर्दुरः।

स्वभावो यदि भावनां प्रागभूत्वा समुभ्दवेत्॥



[313] स्थितिशक्तिपरित्यक्तान्धर्मान्नाशान्वितोदयान्।

वद सोम्य कथं याति प्रतीत्या वस्तु वस्तुताम्॥



[314] लोके दृष्टः सतोरेव परस्परमनुग्रहः।

तद्वदेवोपघातोऽपि नाश्वशृङ्गाहिवा(पा)दयोः॥



[315] यत्प्रतीत्यसमुत्पन्नं तत्स्वभावान्न विद्यते।

न विद्यते स्वभावाद्यद्विद्यते तत्ततोऽन्यथा॥



[316] प्रकुर्वन्ति दशामात्रं हेतवो वस्तुनः सतः।

राजत्वं राजपुत्रस्य सात्मकस्यैव मन्त्रिणः॥



[317] धर्माणां सति सामग्र्ये सामर्थ्यमुपजायते।

चितानां परमानू(णू) नां यद्वदात्मोपलम्भने॥



[318] कर्मातीतमसद्यस्य फलं भावि करोत्यसत्।

व्यक्तं वन्ध्यासुतस्तस्य जायते व्यन्तरात्मजात्॥



[319] नामसल्लक्षणाभावाद् द्रव्यसत्याङ्कसिद्धितः।

अनागताभ्यतीतस्य नास्ति प्रज्ञप्तिसत्यता॥



[320] को विघ्नः अङ्गवैकल्यम् न तत्सर्वास्तिता सदा।

तत्कथं श्रूयतां सद्‍भ्यः दुर्बोधा खलु धर्मता॥



[321] वर्तमानाध्वसंपातात् सामग्र्याऽङ्गपरिग्रहात्।

लब्धशक्तेः फलाक्षेपः कारित्रमभिधीयते॥



[322] न वर्तमानता रूपमतीताजान(त)ता न च।

यतोऽतो नाध्वसंचाराद् रूपात्मान्यथतेष्यते॥



[323] अवस्था जायते काचिद्विद्यमानस्य वस्तुनः।

तथा शक्तिस्तथा वेला तथा सत्ता तथा क्रिया॥



[324] परिकल्पैर्जगद्व्याप्तं मूर्खचित्तानुरञ्जिभिः।

यस्तु द्विद्वन्मनोग्राही परिकल्पः स दुर्लभः॥



[325] अन्यसर्वत्रगैर्बद्धः प्रहीणे दुःखदृक्क्षये।

प्रहीणे प्राक्प्रकारेऽपि शेषैस्तदवलम्बिभिः॥



[326]धर्माः षोडाष(श) विज्ञेयाः प्रत्येकं त्रिभवात्मकाः।

पञ्चधा निर्मलाश्चैव विज्ञानानि तथैव च॥



[327] धात्वायतनसत्येषु प्रकारेषु च लक्षयेत्।

धर्मसंग्रहविज्ञानज्ञानानुशयचोदितः॥



[328] सदुःखहेतुदृग्घेयाः कामाप्ता भावनाक्षयाः।

स्वकत्रयैकरूपाप्तिविरजाश्चित्तगोचराः॥



[329] अत्मीयाधस्त्रयैकोर्ध्वनिर्मलानां तु रूपजाः।

आरूप्याप्तास्त्रिधात्वाप्तत्रिकनिर्मलगोचराः॥



[330] सर्वे स्वाधिकविज्ञेयाः समनिर्याणदृक्‍क्षयाः।

निक्लेशास्त्रिभवाप्तान्त्यत्रयनिर्मलगोचराः॥



[331] कामाप्त(प्तं) पञ्चविषयो रूपाप्तं त्वष्टगोचरः।

आरुप्याप्तं दशानां तु दशानामेव चामलम्॥



[332] कामाप्तमूर्ध्वधर्मार्थे विज्ञाने स्वभुवस्त्रयः।

रूपाप्ता भावनाहेयाः सर्वगाश्चानुशेरते॥



[333] चत्वारः परिवृत्ते स्वे रूपाप्ताः खल्वपि त्रयः।

आरूप्यावचराः सार्धं सर्वगैर्भावनाक्षयाः॥



[334] तद्वदेव द्वितीयेऽपि पञ्चमेऽपि तथैव च।

सास्रवालम्बनाः स्वे च तृतीयेऽप्यनुशेरते॥



[335] परिवृत्ते तु कामाप्ताः संस्कृतार्थावलम्बिनः।

शेषं पूर्ववदाख्येयम् चतुर्थेऽपि तृतीयवत्॥



[336] परिवृत्ते तु कामाप्ताश्चत्वारोऽन्यत्र पूर्ववत्।

रूपाप्ते प्रथमेऽधस्तात् त्रयः स्वे खल्वपि त्रयः॥



[337] आरूप्याः सर्वगाः सार्धं भावनापथसंक्षयै[:]

परिवृत्ते त्रयोऽधस्तात् चत्वारश्च स्वधातुतः॥



[338] आरूप्याप्ताश्च चत्वारो णि(नि)काया अनुशेरते।

तद्वदेव द्वितीयेऽपि पञ्चमेऽपि तथैव च॥



[339] सास्रवालम्बनाः स्वे च तृतीयेऽप्यनु[शेर]ते।

परिवृते तु रूपाप्ताः संस्कृतार्थावलम्बिनः॥



[340] अन्यत्तु पूर्ववज्ज्ञेयं चतुर्थेऽपि तृतीयवत्।

तृतीयवत्परावृत्ते आरूप्याद्ये निबोधये[त्]॥



[341] स्वे त्रयः कामधात्वाप्ता रूपाप्ताश्च त्रयस्त्रयः।

रूपाप्तवत्परावृत्ते द्वीतीये पञ्चमे तथा॥



[342] तृतीये खल्वपि स्वे च सास्रवार्थावलम्बिनः।

परावृत्ते स्वधात्वाप्ताः संस्कृतार्थावलम्बिनः॥



[343] अन्यत्त्वाद्यवदाख्येयं चतुर्थेऽपि तृतीयवत्।

आद्यवत्तु परावृत्ते विज्ञाने निर्दिशेद् बुधः॥



[344] भावनापथहातव्यो निकायः सर्वगैः सह।

अनुशेते द्विधात्वाप्तो व्यारूप्याश्चक्षुरिन्द्रिये॥



[345] निकायाः कामरूपाप्ताश्चक्षुरिन्द्रियगोचरे।

दुःखहेतुदृगभ्यासप्रहातव्यास्त्रयस्त्रयः॥



[346] आरूप्या भावनाहेयाः सर्वगाश्चानुशेरते।

परिवृत्ते तु चत्वारः समदृक्‍क्षयवर्जिताः॥



[347] दुःखेन्द्रिये तु कामाप्तः स्वैरेव सह सर्वगैः।

तद्‍गोचरे तु विज्ञाने निकाया अनुशेरते॥



[348] कामापन्नास्त्रयो रूपा[:] सर्वगाभ्याससंक्षयाः।

परवृत्ते तु चत्वारः कामाप्ता अनुशेरते॥



[349] त्रयो रूपभवादन्त्याभ्दावनाहेयसर्वगाः।

सकला द्विष्परावृत्तेश्चत्वारश्चानुशेरते॥



[350] सुखेन्द्रिये तदालम्बे चित्ते तद्‍गोचरेऽपि च।

कामाद्याप्ताः यथायोगं सर्वगाश्चानुशेरते॥



[351] त्रिधातुसंगृहीतास्तु सकला मन‍इन्द्रिये।

तदालम्बिनि विज्ञाने सर्वसंस्कृतगोचराः॥



[352] संस्कृतालम्बना एव परिवृत्तेऽनुशेरते।

विशेषो द्विःपरावृत्तौ विद्यतेऽत्र न कश्चन॥



[353] दुःखं दर्शनहेयादेश्चित्ताच्चित्तानि कामिनः।

भवत्यनन्तरं षड् वा तस्योदर्ध्वं पञ्च पञ्च वा॥



[354] रूपधातूपपन्नस्य चित्तानि तु विनिर्दिशेत्।

एकं वा पञ्च वा षड् वा सप्त वा यदि वा दश॥



[355] आरूप्यधातुजातस्य चित्तानीमानि लक्षयेत्।

स्वधातुकानि पञ्चैव च्युतिकाले दशान्यतः॥



[356] साचिव्यादनुशायित्वाच्चित्तं सानुशयं मतम्।

द्विधा वा क्लिष्टमक्लिष्टमेकधैवापदिश्यते॥



[357] मोहात्सत्कायदृक्तस्या अन्तग्राहेक्षणं ततः।

काङ्क्षामिथ्येक्षणं तस्याः शीलामर्शस्ततो दृशः॥



[358] रागः सु(स्व)दृशि मानश्व द्वेषोऽन्यत्र प्रतायते।

ज्ञेयः प्रवृत्तिबाहुल्यादेवमेषामनुक्रमः॥



[359] सदसन्मित्रयोगात्तु तद्‍वृत्त्यनियमो मतः।

क्लेश उत्पद्यते कश्चित्संपूर्णैः कारणैस्त्रिभिः॥



अभिधर्मदीपे विभाषाप्रभायां वृत्तौ

पञ्चमस्याध्यायस्य द्वितीयः पादः॥



पञ्चमाध्याये



तृतीयपादः।



[360] व्यविद्याः सकलाः क्लेशाः कामे कामास्रवो मतः।

स्त्यानौद्धत्ये च हित्वोर्ध्वं समानत्वाद्‍भवास्त्रवः॥



[361] अविद्या ख्यस्तु मूलत्वादविद्या सार्वधातुकी।

तथौघयोगा दृग्वर्ज्ज तत्पृथक्त्वन्तु पाटवात्॥



[362] साऽविद्या द्वे उपादाने यथाक्तो(क्तौ) द्वे तु दृङ्मये।

चतस्रोऽप्येकमन्त्यैकं कुमार्गादिसमाश्रयात्॥



[363] शेषास्त्रैधातुकास्त्वन्त्ये सात्मभावप्रवृत्तितः।

संयोजनादिभिः शब्दैर्दर्शिताः पञ्चधा पुनः॥



[364] नव संयोजनान्यस्मिन्नीर्ष्यामात्सर्यमेव च।

द्रव्यामर्षणसामान्याद् दृशः संयोजनद्वयम्॥



[365] शेषान्य(ण्य)नुशयाः पञ्च पञ्चधा पञ्चधा पुनः।

जगादावरभागीयमूर्ध्वभागीयमेव च॥



[366] आद्यन्त्ये द्वे दृशौ कांक्‍षा(काङ्क्षा)कामच्छन्दो द्विरेव यः।

द्वाभ्यां कामानतिक्रान्तिः पुनराण(न)यनं त्रिभिः॥



[367] द्व्येकदृग्घेयकार्योक्तेर्दृष्टिहेयमुखग्रहात्।

सर्वदृग्घेयभाक्त्वेऽपि त्रयमेतदुदाहृतम्॥



[368] सर्वानर्थनिदानत्वान्मार्गप्रत्यर्थिभावतः।

तथ्योहाविधुरत्वाच्च त्रिसंयोजनदेशना॥



[369] द्वौ रूपारूपजौ रागौ मानमोहोद्धवास्त्रयः।

त्रिवेदनानुशायित्वाद् दृढत्वाद्‍बन्धनत्रयम्॥



[370] द्विपक्षग्रन्थनाद् ग्रन्थाश्चत्वारः समुदाहृताः।

अभिध्याख्यास्तथा द्वेषः परामर्शद्वयं तथा॥



[371] उपक्लेशास्तु विज्ञेयाः संरम्भाद्या यथोदिताः।

सर्वे वा चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः॥



[372] मूलक्लेशमलास्त्वन्ये षडुपक्लेशसंज्ञिताः॥

शाठ्योपनाहप्रदाशमायामदविहेठनाः॥



[373] म्रर्क्ष्येर्ष्याह्र्यनपत्राप्यस्त्यानमिद्धोद्धवक्रुधः।

मात्सर्य कुकृतत्वं च दशधा पर्यवस्थितिः॥



[374] एभ्योऽनुनननिष्यन्दा आह्रीक्यौद्धततादयः।

म्रक्षानपत्रपास्त्यानमिद्धाद्य मोहसंभवाः॥



[375] कौकृत्यं विचिकित्सोत्थं क्रोधाद्या द्वेषसम्भवाः।

प्र[मा]दस्तम्भमार्द्व (?)क्ष्य मायाशाठ्‍यविजृम्भिकाः॥



[376] कायदुष्ठूलताद्याश्च ज्ञेया व्यामिश्रसम्भवाः॥

प्रदाशो दृक्परामर्शनिष्यन्दः शठता दृशः॥



[377] सौमनस्येन रागस्य संप्रयोगः सुखेन च।

द्वेषस्य दौर्मण(न)स्येन दुःखेन च निगद्यते॥



[378] सर्वैर्मोहस्य वित्तिभ्यां चैतसीभ्यामसद्‍दृशः।

काङ्क्षा च दौर्मण(न)स्येन शेषाणां सुमनस्तया।



[379] उपेक्षया तु सर्वेषाम् कामाप्तानामयं विधिः।

इतोऽन्यधातुजानां तु प्रतिभूम्यन्तरं स्वकैः॥



[380] ईर्ष्याया दौर्मण(न)स्येण(न) कौकृत्यस्य तथा क्रुधः।

प्रदष्टेश्चोपनद्धेश्च विहिंसायास्तथैव च॥



[381] मात्सर्य दौर्मण(न)स्येन सौमनस्येन कस्यचित्।

द्वाभ्यां माया तथा शाठ्यं म्रक्षो मिद्धं तथैव च॥



[382] मदस्तु सुमन[:]स्कन्धसुखाभ्यां संप्रयुज्यते।

आह्रीक्यमनपत्राप्य(प्यं) स्त्यानौद्धत्ये च पञ्चभिः॥



[383] आह्रीक्यमनपत्राप्यं स्त्यानमिद्धं तथोद्धवः॥



..........[अभिधर्मदीपे विभाषाप्रभायां वृत्तौ पञ्चमाध्यायस्य तृतीयः पादः॥]

..........[पञ्चमोध्यायः समाप्तः॥]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project