Digital Sanskrit Buddhist Canon

चतुर्थोऽध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Caturtho'dhyāyaḥ

चतुर्थोऽध्यायः।



प्रथमः पादः।



[154] सत्त्वोपपत्तिहेतूनां [विपत्संप]द्विधायिणा [ना]म्।

लोकवचित्र्यकर्तॄणां कर्म हेतुरितीष्यते॥]



[155] कायिकं वाङ्मयं चैव चेतनाख्यं च मानसम्।

कर्माण्येतानि लोकस्य कारणं नेश्‍वरादयः।



[156] वैश्‍वरूप्यात्क्रमोत्पादात्तद्वदन्यत्प्रसङ्गतः।

नान्यापेक्षा तपोयोगो पक्षहान्यादिदोषतः।



[157] कर्मणां बोध्यते शक्तिर्विधिकालग्रहादिभिः।

यतोऽतस्तेषु ताच्छब्द्‍यं गौन्या(ण्या) वृत्त्या प्रयुज्यते॥



[158 ab.] पूर्वे विज्ञप्त्यविज्ञप्ती चेतना मानसी क्रिया।



[अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः]



चतुर्थाध्याये



द्वितीयपादः।



[159] अन्नमत्यग्निणि(नि)र्दग्धं यथा स्थाली च संस्कृता।

पापदृष्टेस्तथा शीलं शाठ्‍येर्ष्यादिक्षतात्मनः॥



[160] संवृत्सद्‍दृष्ट्‍युपेतातो भिक्षुत्वं परमार्थतः।

एकसम्पत्तु संवृत्या द्वयाभावे द्विधाऽपि न॥



[161] विगतावणे ज्ञाने बुद्धोक्तेर्मुख्यकल्पना।

तदाश्रये फले चापि विज्ञेया गुणकल्पना॥



[162] शाश्‍वतत्वशुभत्वाभ्यां सर्वाण (न)र्थनिवृत्तितः।

मुख्यकल्पनया तद्वद्धर्मो निर्वाणमुच्यते॥



[163] आर्याः शिष्यगुणाः संघस्तथैव परमार्थतः।

एतान्यो याति शरणं स याति शरणत्रयम्॥



[164] मिथ्याचारः सतां गर्ह्यात्परत्राकरणाप्तितः।

पापिष्ठत्वान्मृषावादो मद्यपाणं(नं) स्मृतिक्षयातू॥



[165] सर्वेभ्यो वर्तमानेभ्यो द्विविधेभ्योऽपि कामजः।

त्रिकालेभ्यस्तु मौलेभ्यो लभ्येते भावनामयौ॥



[166] सर्वेभ्यः सत्त्वजातिभ्यः संवरो वाङ्गकारणैः।

सर्वेभ्यो संवराङ्‍गेभ्यः सत्त्वेभ्यश्‍च न कारणैः॥



[167] क्रियया[ऽ]संवरप्रप्तिः स हाभ्युपगमेन वा।

अविज्ञप्तिरतोऽन्यस्याः क्षेत्राङ्गादिविशेषतः॥



[168] कामाप्तसंवरत्यागः शिक्षाणि(नि) क्षेपणादिभिः।

पतनीयरपीत्येके तन्नेत्यन्ये त्वयोगतः॥



[169] अयोगा(गो) नांशुविध्वंसात्पटद्रव्यं विनश्यति।

सूत्रे ध्वंसोक्तिरन्यार्था यथेर्ष्याशठनादिषु॥



[170] सद्धर्मान्तर्द्धितोऽन्येऽन्ये नापूर्वाप्रतिलम्भतः।

भूसंचारेण हान्या च त्यज्यते ध्यानजं शुभम्॥



[171] तथाऽऽरूप्याप्तमार्यन्तु फलाप्त्यक्षविहानिभिः।

असंवरो दमप्राप्तिर्जीवितोत्सर्जणा(ना) दिभिः॥



[172] चित्तवेगादिविच्छेदैरविज्ञप्तिस्तु मध्यमा।

कामाप्तं कुशलं नाम त्रिभिर्मूलच्छिदादिभिः॥



[173] प्रतिपक्षोदयात्क्लिष्टं त्रिधात्वाप्तं विहीयते।

सर्वे कामेषु रूपे द्वाधे(वे)कोऽरूपिषु लाभतः॥



[174] यदिष्टफलदं कर्म कुशलं तदुदाहृतम्।

विपर्ययेणाकुशलमव्याकृतमतोऽन्यथा॥



[175] कामाप्तं प्रथमं पुण्यमपुण्यमशुभात्मकम्।

ऊर्ध्वभूमिकमानेज्यं विपाकं प्रत्यनेजनात्॥



[176] सुखवेद्यं शुभ(भं) कर्म ध्यानादर्वाक्तुरीयकात्।

उपेक्षावेद्यमन्यत्र दुःखवेद्यन्तु पापकम्॥



[177] अधोऽपि मध्यमं कर्म ध्यानेना न्त्येपि निर्वृतेः।

युगपत्त्रिविपाकेष्टेर्ध्यानान्तरविपाकतः॥



[178] पुनश्‍चतुर्विधं कर्म दृष्टवेद्यादिभेदतः।

जन्मनस्त्रिभिराक्षेपो दृष्टधर्माह्वयादृते॥



[179] चतुर्णामपि चाक्षेपः सर्वत्र नरकादृते।

न तत्रेष्टफलाभावाच्छुभं यस्माद्विपच्यते॥



[180] नोत्पद्यवेद्यकृत्तत्र यद्विरक्तः पृथग्जनः।

स्थिरो नापरकृच्चार्यश्‍चलोऽपि भवमूलयोः॥



[181] यदार्त्ररौद्रचित्तेन कर्माभीक्ष्णं निषेव्यते।

सत्क्षेत्रे क्रियते यच्च फलं तस्य नियम्यते॥



[182] क्षेत्राशयविशेषाच्च फलं सद्यो विपच्यते।

निरोधव्युत्थितादौ च सद्यः कालफलक्रिया॥



[183] तद्‍भूम्यपुनरुत्पत्तेः विपाकनियतं च यत्।

तच्च दृष्टफलं विद्यात् कर्मादः परिपूरकम्॥



[184] कुशलस्याविचारस्य चैतसिक्येव वेदना।

विपाकः कायिकी त्विष्टा दुःखवेद्यस्य कर्मणः॥



[185] सपाकमशुभं कृष्णं सपाकं रूपजं सितम्।

शुभाशुभं द्विधा काये(मे) निर्मलं तत्प्रहाणकृत्॥



[186] चसस्रो दृक्पथा दृष्टौ चेतनाभावनापथात्।

आनन्तर्यपथाः कामे कर्मैतत्कृष्णनाशकृत्॥



[187] नवमे चेतना या तु सा कृष्णाकृष्णया [घा]तिनी।

अन्तानन्तर्यमार्गस्था ध्याने ध्याने सितस्य तु॥



[188] कायाद्यकुशलं कर्म सर्वं दुश्‍चरितं मतम्।

अभिध्यादीन्यपि त्रीणि मनोदुश्‍चरितत्रयम्॥



[189] शुभं तत्साऽनभिध्यादि प्रोक्तं सुचरितत्रयम्।

द्वयंमौलमदः कर्म मार्गा दश शुभाशुभाः॥



[ अभिधर्मदीपे विभाषाप्रभायां [वृत्तौ] चतुर्थाध्यायस्य द्वितीयः पादः।



चतुर्थाध्याये



तृतीयपादः।



[190] कारिताः षडविज्ञप्तिद्वर्यात्मैकस्तेऽपि षट् कृताः।

शुभाः सप्त द्विधा ज्ञेया एकवै(धै)ते समाहिताः॥



[191] या सामन्तेष्वविज्ञप्तिः पृष्ठेषु तु विपर्ययः।

प्रयोगस्तु त्रिमूलोत्थः [अभिध्याद्यास्त्रिमूलजाः]॥



[192] [कुशलाः प्रयोगपृष्ठाश्‍च कुशलत्रयमूलजाः]।

द्वेषेण वधपारुष्यव्यापत्तीनां समापनम्॥



[193] स्तेयस्यान्याङ्गनायातेरभिध्यायाश्‍च लोभतः।

मिथ्यादृशस्तु मोहेन तदन्येषां त्रिभिर्मतम्॥



[194] चतुर्णामप्यधिष्ठानं ज्ञेयमेषां यथाक्रमम्।

प्राणिनश्‍चाथ भोगाश्‍च नामरूपं च नाम च॥



[195] प्राणातिपातो धीपूर्वमभ्रान्त्या परमारणम्।

अत्यक्ताऽन्यधनादानमदत्तादानमुच्यते॥



[196] परस्त्रीगमनं काममिथ्याचारो विकल्पवान्।

अर्थज्ञायाऽन्यथावादो द्रोहबुद्ध्‍या मृषावचः॥



[197] दृष्ट्या श्रुत्यादिभिश्‍चाक्षैर्मण(न)सा यच्च गृह्यते।

दृष्टं श्रुतं मतं ज्ञातमित्युक्तं तद्यथाक्रमम्॥



[198] पैशुन्यं भेदकृद्वाक्यं पारुष्यं तु यदप्रियम्।

क्लिष्टं संभिन्नलापित्वमन्ये गीतकथादिवत्॥



[199] परस्वासत्स्पृहाऽभिध्या व्यापा[दः] सत्त्वगोचरः।

विद्वेषानाऽनन्तदृष्टिस्तु मिथ्यादृष्टि [रहेतुका]॥



[200] चेतना न क्रियामार्गस्तैस्तु सत्ता प्रवर्तते।

युगपद्याव[दष्टा] भिरशुभैश्‍चेतनैः सह॥



[201] [शुभैस्तु] दशभिर्यावत्सार्वं(र्धं) नैकाष्टपञ्चभिः।

विलापद्वेषपारुष्याण्यु(णि)ष (स)न्ति नरके द्विधा॥



[202] तद्वदेव मताऽभिध्या मिथ्यादृष्टिस्तथैव च।

अभिध्यादित्रयं तद्वत्कुरौ प्रलपनं द्विधा॥



[203] अशुभास्तु दशान्यत्र सर्वत्र कुशलास्त्रयः।

आरूप्याऽर्याऽसंज्ञिनां च रूपिणः सप्त लाभतः॥



[204] कुरून्सनरकान्हित्वा सर्वत्रान्यत्र ते द्विधा।

सर्वे विपाकनिष्यन्दाधिपत्यफलदा दश॥



[205] दुःखोपसंहृतेर्दुःखमल्पायुष्ट्‍वन्तु मारणात्।

तेजोनाशात्कृशौजस्त्वमिदं तत्त्रिविधं फलम्॥



[206] आनन्तर्यपथे कर्म फलवत्पञ्चभिः फलैः।

चतुर्भिस्त्वमलेनार्यं तद्वदन्यच्छभाशुभम्॥



[207] ततोऽन्यन्निर्मलं ज्ञेयं त्रिभिरव्याकृतं तथा।

फलं शुभस्य चत्वारि द्वेत्रीणि च शुभादयः॥



[208] शुभाद्यास्त्वशुभस्य द्वे त्रीणि चत्वारि च क्रमात्।

अव्याकृतस्य ते तु द्वे त्रीणि त्रीणि शुभादयः॥



[209] सर्वे चत्वार्यतीतस्य मध्यमस्य च भाविनः।

मध्यमा द्वे स्वकस्यैव त्रीण्यनागामिजन्मनः॥



[210] चत्वार्येकभुवो द्वे वा त्रीणि चापरभूमिकाः।

शैक्षाद्यास्त्रीणि शैक्षस्य त एवाशैक्षकर्मणः॥



[211] एकं त्रीणि द्वयं चैव शैक्षाद्याः पश्‍चिमस्य तु।

द्वे द्वे पञ्च यथासंख्यं दृग्घेयस्य तु कर्मणः॥



[212] त्रीणि चत्वारि चैकं च दृष्टिहेयादयः स्मृताः।

ते त्वभ्यासप्रहेयस्य द्वे चत्वारि त्रिधा मताः॥



[213] क्रमादेकद्विचत्वारि ते त्वहेयस्य कर्मणः।

एकेनाक्षिप्यते[जन्म] भूरिभिः परिपूर्यते॥



[214] कुशलं वाऽथवा पापं यदतीतं ददत्फलम्।

स्वं कायवाङ्मनस्कर्म सा कर्मस्वकता मता॥



[215] संवृत्या स्कन्धसन्ताने तत्क्रियाफलदर्शणा(ना)त्।

कर्त्तृता भोक्तृता चोक्ता निषिद्धा शाश्‍वतस्य तु॥



[216] स्यात्कर्मस्वकता नास्ति तस्य चेति चतुष्किका।

प्रथमा तत्फलस्थस्य विहाणा(ना)त्तस्य कर्मणः॥



[217] द्वितीया तत्फलस्थस्य कर्मणा तेन चान्वयात्।

तृतीयोभययुक्तस्य चतुर्थ्यनुभयस्य तु॥



[218] स्यात्कर्मस्वकता नापि तत्फलं वेदयिष्यति।

तत्फलावस्थितस्याद्या ज्ञेया तच्चरमे फले॥



[219] द्वितीया ध्रुवपाकस्य तद्विपाकानवस्थिते।

तृतीया द्वयसद्भावा चतुर्थी तूभयं विना॥



[220] स्यात्कर्मणान्वितश्‍चैव नो च तत्फलवेदनम्।

आद्या दत्तविपाकेन निरुद्धानागतादिना॥



[221] द्वितीया तु विहीणे(ने)न ध्रुवपाकेन कर्मणा।

तृतीया द्वयमुक्तस्य चतुर्थी तु द्वयादृते॥



[222] अयुक्तविहितं कर्म क्लेशोपक्लेशदूषितम्।

शिक्षालिङ्गाद्यपेतं च केचिदाहुर्विपश्‍चितः॥



अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थस्याध्यायस्य तृतीयः पादः॥



चतुर्थाऽध्याये



चतुर्थपादः।



[223] बोधिसत्त्वः कुतो यावदविवर्त्यमना यतः।

बघ्नाति बोधिसन्नाहमङ्गीकृत्वा जगद्धितम्॥



[224] यदा लाक्षणिकं कर्म प्रकरोत्यनपायगः।

महाकुलः समग्राक्षः स्वपर्षत्संग्रहे रतः॥



[225] पुमाञ्जातिस्मरो वाग्मी प्रज्ञावीर्यक्रियान्वितः।

तदा देवमनुष्याणामभिव्यक्तिं निगच्छति॥



[226] स हि त्रिभिरसंख्येयैर्धर्मकायगुणार्णवम्।

प्रचिनोति तदाधारं कायं कल्पशतेन तु॥



[227] द्वात्रिंशल्लक्षणोपेतमशीतिव्यञ्ज नोज्ज्वलम्।

द्विषतामपि यं दृष्ट्वा मनः सद्यः प्रसीदति॥



[228] युगान्तवायुणा(ना) मेरुः वह्निणा(ना) वरुणालयः।

वज्रेण ध्वस्यते वज्रमविकारि तु तन्मनः॥



[229] कामाप्तं षष्ठजं त्रेधा कृपाश्रद्धापरम्परम्।

बुद्धोत्पादे नरः स्त्री वा तदाद्यं चित्तमश्‍नुते॥



[230] सर्वेभ्यः सर्वदा सर्वं वदतो दानपूरणम्।

मरणेऽपि दमात्यागः शीलस्योत्कृष्टिरुच्यते॥



[231] वीर्यस्य तिष्यसंस्तुत्या धियो वज्रोपमात्परम्।

'सर्वासां तु क्षयज्ञाने परिपूरिर्विधीयते॥'



[232] त्रिपुण्यकृतिवस्त्वाद्यास्तल्लाभोपायदेशनाः।

तथा चतुरधिष्ठानं सप्तसद्धर्मशासनम्॥



[233] सप्तयोगास्त्रयःस्कन्धा स्त्रिशिक्षाद्याश्‍च देशिताः।

तथा पारमिताश्‍चापि चतस्रो विनयोदिताः॥



[234] बोधिपक्ष्याश्‍च कण्ठोक्ताः सप्तत्रिंशत्स्वयंभुवा।

हेतवः सर्वबोधिनां त्रिविधा मृदुतादिभिः॥



[235] तस्मान्न बोधिमार्गोऽन्यः सूत्रादिपिटकत्रयात्।

अतोऽव्यमिह यो ब्रूयात्स भवेन्मारभाषितः॥



[236] कल्पानां महतामेतदसंख्येयत्रयं मतम्।

स्थानान्तरमसंख्याख्यमदःसंख्योपरि स्थितम्॥



[237] अपकर्षे जिनोत्पत्तिर्यावच्छतसमायुषः।

द्वयोः प्रत्येकबुद्धानामुत्कर्षे चक्रवर्ति णा(ना)म्॥



[238] नाधोऽशीतिसहस्त्रासौ (यो) स्तत्समुत्पत्तिरिष्यते।

ते हेमरूप्यताम्रायश्‍चक्राः पुण्यप्रभावतः॥



[239] तुल्येऽपि साधनोपाये तद्भेदोऽक्षादिभेदतः।

भवमोक्षार्थिनोर्मात्रोः प्रदानफलभेदवत्॥



[240] करुणाभावनोद्रेकात्स्वसंविच्चित्तयोस्तथा।

परसंविद्‍गुरोस्तद्वत्तद्विशेषो विधीयते॥



[241] हेतुतत्त्वफलोद्‍भूतं महत्त्वं शासितुस्त्रिधा।

विमुक्तावपि तुल्यायां त्रयाणां बोधि लम्भनात्॥



[242] बुद्धस्य संमुखीनस्य बौद्धमाक्षिप्यते वपुः।

सैकपुण्यशतोद्‍भूतमेकैकं लक्षणं मुनेः॥



[243] यथाकर्मपथास्तद्वत्पुण्यादित्रयमिष्यते।

दानं हि दीयते येन स्वपरार्थाद्यपेक्षया॥



[244] कायादिकर्म तत्तत्त्वमविज्ञप्तिः क्वचित्पुनः।

प्राधान्यान्मुनिना प्रोक्तं महाभोगफलं हि तत्॥



[245] स्वान्योभयार्थसिद्ध्यर्थं दानं ददति केचन।

साधुवृत्त्यनुवृत्यर्थं नोभयार्थाय चापरे॥



[246] दातृवस्त्वादिवैशिष्ट्यात्तत्फलातिशयः स्मृतः।

श्रद्धादिभिर्गुणैर्दाता दत्तेऽतः सत्क्रियादिभिः॥



[247] सत्कारादिगुणोपेतं फलं तस्मादवाप्नुते।

वस्तु वर्णादिसंपन्नं सौरूप्यादि फलप्रदम्॥



[248] गुणदुःखोपकाराख्यर्ंधर्मैः क्षेत्रं विशिष्यते।

आशयादि मृदुत्वादेर्मृदुत्वादीनि कर्मणः॥



[249] धर्मदात्रेऽपि बालाय पित्रे मात्रेऽथ रोगिणे।

अमेयं बोधिसत्त्वाय दानमन्यभवाय च।



[250] बोधिसत्त्वस्य यद्दान्न(न)मन्यस्यापि यदष्टमम्।

विपश्चिद्भिस्तदाख्यातं श्रेष्ठं यच्चार्हतोऽर्हते॥



[251] संप्रधार्य यदाक्षिप्तं पूरणादिदृढीकृतम्।

विगतप्रतिपक्षं च तत्कर्मोपचितं मतम्॥



[252] स्वस्मात्त्यागगुणापेक्षाश्‍चैत्ताश्‍चैत्यार्चतादिषु।

विना प्रतिगृहीत्रापि फलं मैत्रीविहारवत्॥



[253] धर्मदानस्वभावो वाक्तत्त्वनामादिगोचरः।

अव्याकृतस्वभावत्वान्न नामाद्यन्नदानवत्॥



[254] शीलं शुभमयं रूपं व्याख्यातं तत्प्रभेदतः।

शास्त्रे तु तप्प्रधा नत्वात्प्रोक्तं स्वर्गोपपत्तये॥



[255] दौःशील्याशुभमूलाद्यैर्दोषैर्यन्न विदूषितम्।

तद्विपक्षशमाङ्गं च यत्तच्छद्धमिहोच्यते॥



[256] पुण्यं समाहितं त्वत्र भावना चित्तभावनात्।

प्रधान्यादपवर्गाय तदुक्तं सर्वदर्शिना॥



[257] पुण्यनिर्वाणभागीयं निर्वेधानुगुणं तथा।

शासनेऽस्मिन्समासेन शुभमूलं त्रिधेष्यते॥



[258] लिपिमुद्राऽथ गणना कायवाक्कर्मलक्षणा।

संख्या खल्वपि विज्ञेया मनस्कर्मस्वभाविका॥



अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायस्समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project