Digital Sanskrit Buddhist Canon

अष्टमं कोशस्थानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Aṣṭamaṁ kośasthānam

अष्टमं कोशस्थानम्



ओं नमो बुद्धाय॥



द्विधा ध्यानानि चत्वारि प्रोक्तास्तदुपपत्तयः।

समापत्तिः शुभैकाग्य्रं पञ्चस्कन्धास्तु सानुगम्॥१॥



विचारप्रीतिसुखवत् पूर्वपूर्वाङ्गवर्जितम्।

तथारूप्याः चतुस्कन्धाः अधोभूमिविवेकजाः॥२॥



विभूतरूपसंज्ञाख्याः सह सामन्तकैस्त्रिभिः।

नारूप्ये रूपसद्भावः रूपोत्पत्तिस्तु चित्ततः॥३॥



आकाशानन्त्यविज्ञाननत्याकिंचन्यसंज्ञकाः।

तथाप्रयोगात् मान्द्यात्तु नसंज्ञानाप्यसंज्ञकः॥४॥



इति मौलं समापत्तिद्रव्यमष्टविधं त्रिधा।

सप्त आस्वादनवच्छुद्धानास्रवाणि अष्टमं द्विधा॥५॥



आस्वादनासंप्रयुक्तं सतृष्णं लौकिकं शुभम्।

शुद्धकं तत्तदास्वाद्यं लोकत्तरमनास्रवम्॥६॥



पञ्चाद्ये तर्कचारौ च प्रीतिसौख्यसमाधयः।

प्रीत्यादयः प्रसादश्च द्वितीयेऽङ्गचतुष्टयम्॥७॥



तृतीये पञ्च तूपेक्षा स्मृतिः प्रज्ञा सुखं स्थितिः।

चत्वार्यन्तेऽसुखादुःखोपेक्षास्मृतिसमाधयः॥८॥



द्रव्यतो दश चैकं च प्रस्रब्धि सुखमाद्ययोः।

श्रद्धा प्रसादः प्रीतिस्तु सौमनस्यं द्विधागमात्॥९॥



क्लिष्टेष्व सत्प्रीतिसुखं प्रसादः संप्रधीः स्मृतिः।

उपेक्षास्मृतिशुद्धिश्च केचित् प्रस्रब्ध्युपेक्षणे॥१०॥



अष्टापक्षालमुक्तत्वादानिञ्जं तु चतुर्थकम्।

वितर्कचारौ श्वासौ च सुखादि च चतुष्टयम्॥११॥



सौमनस्यसुखोपेक्षा उपेक्षासुमनस्कते।

सुखोपेक्षे उपेक्षा प्रविदो ध्यानोपपत्तिषु॥१२॥



कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत्।

द्वितीयादौ तदाद्याप्तं अक्लिष्टाव्याकृतं च तत्॥१३॥



अतद्वान् लभते शुद्धं वैराग्येणोपपत्तितः।

अनास्रवं तु वैराग्यात् क्लिष्टं हान्युपपत्तितः॥१४॥



तृतीयाद्यावदूर्ध्वाधो ऽनास्रवानन्तरं शुभम्।

उत्पद्यते तथा शुद्धात् क्लिटं चापि स्वभूमिकम्॥१५॥



क्लिष्टात् स्वं शुद्दकं क्लिष्टं एवं चाधरशुद्धकम्।

च्युतौ तु शुद्धकात् क्लिष्टं सर्वं क्लिष्टात्तु नोत्तरम्॥१६॥



चतुर्धा शुद्धकं हानभागीयादि यथाक्रमम्।

क्लेशोत्पत्तिस्वभूम्यूर्ध्वानास्रवानुगुणं हि तत्॥१७॥



द्वे त्रीणि त्रीणि चैकं च हान भागाद्यनन्तरम्।

गत्वागम्य द्विधा भूमीरष्टौ श्लिष्टै कलङ्घिताः॥१८॥



व्युत्क्रान्तकसमापत्तिर्विसभागतृतीयगा।

स्वाधोभूम्याश्रया एव ध्यानारूप्याः वृथाऽधरम्॥१९॥



आर्याकिंचन्यसांमुख्यात् भवाग्रे त्वास्रवक्षयः।

सतृष्णाः स्वभवालम्बाः ध्यानं सद्विषयं शुभम्॥२०॥



न मौलाः कुशलारूप्याः सास्रवाधरगोचराः।

अनास्रवेण हीयन्ते क्लेशाः सामन्तकेन च॥२१॥



अष्टौ सामन्तकान्येषां शुद्धादुःखासुखानि हि।

आर्य चाद्यं त्रिधा केचित् अतर्क ध्यानमन्तरम्॥२२॥



त्रिधा अदुःखासुखंतच्च महाब्रह्मफलं च तत्।

सवितर्कविचारोऽधःसमाधिः परतोऽद्वयः॥२३॥



आनिमित्तः समाकारैः शून्यतानात्मशून्यतः।

प्रवर्तते अप्रणिहितः सत्याकारैरतः परैः॥२४॥



शुद्धामलाः निर्मलास्तु ते विमोक्षमुखत्रयम्।

शून्यताशुन्यताद्याख्यास्त्रयोऽपरसमाधयः॥२५॥



आलम्बेते अशैक्षं द्वौ शून्यतश्चाप्यनित्यतः।

आनिमित्तानिमित्तस्तु शान्ततोऽसंख्यया क्षयम्॥२६॥



सास्रवाः नृषु अकोप्यस्य सप्तसामन्तवर्जिताः।

समाधिभावना ध्यानं सुभमाद्यं सुखाय हि॥२७॥



दर्शनायाक्ष्यभिज्ञेष्टा धीभेदाय प्रयोगजाः।

वज्रोपमोऽन्त्ये यो ध्याने सास्रवक्षयभावना॥२८॥



अप्रमाणानि चत्वारि व्यापादादिविपक्षतः।

मैत्र्यद्वेषः अपि करुणा मुदिता सुमनस्कता॥२९॥



उपेक्षाऽलोभः आकारः सुखिता दुःखिता वत।

मोदन्तामिति सत्त्वाच्च कामसत्त्वास्तु गोचरः॥३०॥



ध्यानयोर्मुदिता अन्यानि षट् सु केचित्तु पञ्चसु।

न तैः प्रहाणं नृष्वेव जन्यन्ते त्र्यन्वितो ध्रुवम्॥३१॥



अष्टौ विमोक्षाः प्रथमावशुभा ध्यानयोर्द्वयोः।

तृतीयोऽन्त्ये स चालोभः शुभारूप्याः समाहिताः॥३२॥



निरोधस्तु समापत्तिः सूक्ष्मसूक्ष्मादनन्तरम्।

स्वशुद्धकाधरार्येण व्युत्थानं चेतसा ततः॥३३॥



कामाप्तदृश्यविषयाः प्रथमाः ये त्वरूपिणः।

तेऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः॥३४॥



अभिभ्वायतनान्यष्टौ द्वयमाद्यविमोक्षवत्।

द्वे द्वितीयवत् अन्यानि पुनः शुभविमोक्षवत्॥३५॥



दश कृत्स्नानि अलोभाष्टौ ध्यानेऽन्त्ये गोचरः पुनः।

कामाः द्वे शुद्धाकारूप्ये स्वचतुःस्कन्धगोचरे॥३६॥



निरोध उक्तः वैराग्यप्रयोगाप्तं तु शेषितम्।

त्रिधात्वाश्रयमारूप्यसंज्ञं शेषं मनुष्यजम्॥३७॥



हेतुकर्मबालाद्धात्वोरारुप्योत्पादनं द्वयोः।

ध्यानानां रूपधातौ तु ताभ्यां धर्मतयापि च॥३८॥



सद्धर्मो द्विविधः शास्तुरागमाधिगमात्मकः।

धातारस्तस्य वक्तारः प्रतिपत्तार एव च॥३९॥



काश्मीरवैभाषिकनीतिसिद्धः

प्रायो मयाऽयं कथितोऽभिधर्मः।

यद्‍दुर्गुहीतं तदिहास्मदागः

सद्धर्मनीतौ मुनयः प्रमाणम्॥४०॥



निमीलिते शास्तरि लोकचक्षुषि

क्षयं गते साक्षिजने च भूयसा।

अदृष्टतत्त्वैर्निरवग्रहैः कृतं

कुतार्किकैः शासनमेतदाकुलम्॥४१॥



गतेऽथ शान्तिं परमां स्वयंभुवि

स्वयंभुवः शासनधूर्धरेषु च।

जगत्यनाथे गणघातिभिर्मतैः

निरङ्‍कुशैः स्वैरमिहाद्य चर्यते॥४२॥



इति कण्ठगतप्राणं विदित्वा शासनं मुनेः।

बलकालं मलानां च न प्रमाद्यं मुमुक्षुभिः॥४३॥



॥अभिधर्मकोशे समापत्तिनिर्देर्शो नामाष्टमकोशस्थानमिति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project