Digital Sanskrit Buddhist Canon

सप्तमं कोशस्थानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Saptamaṁ kośasthānam

सप्तमं कोशस्थानम्



नमो बुद्धाय॥



नामला क्षान्तयो ज्ञानं क्षयानुत्पादधीर्न दक्।

तदन्योभयथार्या धीः अन्या ज्ञानं दृशश्च षट्॥१॥



सास्रवानास्रवं ज्ञानं आद्यं संवृतिज्ञापकम्।

अनास्रवं द्विधा धर्मज्ञानमन्वयमेव च॥२॥



सांवृतं सर्वविषयं कामदुःखादिगोचरम्।

धर्माख्यम् अन्वयज्ञानं तूर्ध्वदुःखादिगोचरम्॥३॥



ते एव सत्यभेदेन चत्वारि एते चतुर्विधे।

अनुत्पादक्षयज्ञाने ते पुनः प्रथमोदिते॥४॥



दुःखहेत्वन्वयज्ञाने चतुर्भ्यः परचित्तवित्।

भूम्यक्षपुद्‍गलोत्क्रान्तं नष्टाजातं न वेत्ति तत्॥५॥



त धर्मान्वयधीपक्ष्यमन्योऽन्यं दर्शनक्षणौ।

श्रावको वेत्ति खङ्गस्त्रीन् सर्वान्बुद्धोऽप्रयोगतः॥६॥



क्षयज्ञानं हि सत्येषु परिज्ञातादिनिश्चयः।

न परिज्ञेयमित्यादिरनुत्पादमतिर्मता॥७॥



स्वभावप्रतिपक्षाभ्यामाकाराकारगोचरात्।

प्रयोगकृतकृत्यत्वहेतूपचयतो दश॥८॥



धर्मज्ञाननिरोधे यन्मार्गे वा भावनापथे।

त्रिधातुप्रतिपक्षस्तत् कामधातोऽस्तु नान्वयम्॥९॥



धर्मज्ञानान्वयज्ञानं षोडशाकारम् अन्यथा।

तथा च सांवृतं स्वैः स्वैः सत्याकारैश्चतुष्टयम्॥१०॥



तथा परमनोज्ञानं निर्मलं समलं पुनः।

ज्ञेयस्वलक्षणाकारं एकैकद्रव्यगोचरम्॥११॥



शेषे चतुर्दशाकारे शून्यानात्मविवर्जिते।

नामलः षोडशभ्योऽन्य आकारः अन्येऽस्ति शास्त्रतः॥१२॥



द्रव्यतः षोडशाकाराः प्रज्ञाकारः तया सह।

आकारयन्ति सालम्बाः सर्वमाकार्यते तु सत्॥१३॥



त्रिधाद्यं कुशलान्यन्यानि आद्यं सर्वासु भूमिषु।

धर्माख्यं षट्सु नवसु त्वन्वयाख्यं तथैव षट्॥१४॥



ध्यानेष्वन्यमनोज्ञानं कामरूपाश्रयं च तत्।

कामाश्रयं तु धर्माख्यम् अन्यत्त्रैधातुकाश्रयम्॥१५॥



स्मृत्युपस्थानमेकं धीर्निरोधे परचित्तधीः।

त्रीणि चत्वारि शेषाणि धर्मधीगोचरो नव॥१६॥



नव मार्गान्वयधियोः दुःखहेतुधियोर्द्वयम्।

चतुर्णां दश नैकस्य योज्या धर्माः पुनर्दश॥१७॥



त्रैधातुकामला धर्मा अकृताश्च द्विधा द्विधा।

सांवृतं स्वकलापान्यदेकं विद्यादनात्मतः॥१८॥



एकज्ञानान्वितो रागी प्रथमेऽनास्रवक्षणे।

द्वितीये त्रिभिः ऊर्ध्वस्तु चतुर्ष्वेकैकवृद्धिमान्॥१९॥



यथोत्पन्नानि भाव्यन्ते क्षान्तिज्ञानानि दर्शने।

अनागतानि तत्रैव सांवृतं चान्वयत्रये॥२०॥



अतोऽभिसमयान्त्याख्यं तदानुत्पत्तिधर्मकम्।

स्वाधोभूमि निरोधेऽन्त्यं स्वसत्याकारं यात्निकम्॥२१॥



षोडशे षट् सरागस्य वीतरागस्य सप्त तु।

सरागभावना मार्गे तदूर्ध्वं सप्तभावना॥२२॥



सप्तभूमिजयाऽभिज्ञाकोप्याप्त्याकीर्णभाविते

आनन्तर्यपथेषूर्ध्वं मुक्तिमार्गाष्टकेऽपि च॥२३॥



शैक्षोत्तापनमुक्तौ वा षट् सप्तज्ञानभावना।

आनन्तर्यपथे षण्णां भवाग्रविजये तथा॥२४॥



नवानां तु क्षयज्ञाने अकोप्यस्य दश भावना।

तत्संचरेऽन्त्यमुक्तौ च प्रोक्तशेषेऽष्टभावना॥२५॥



यद्वैराग्याय यल्लाभस्तत्र चाधश्च भाव्यते।

सास्रवाश्च क्षयज्ञाने लब्धपूर्वं न भाव्यते॥२६॥



प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने।

प्रतिपक्षविनिर्धावभावने सास्रवस्य तु॥२७॥



अष्टादशावेणिकास्तु बुद्धधर्मा बलादयः।

स्थानास्थाने दश ज्ञानानि अष्टौ कर्मफले नव॥२८॥



ध्यानाद्यक्षाधिमोक्षेषु धातौ च प्रतिपत्सु तु।

दश वा संवृतिज्ञानं द्वयोः षट् दश वा क्षये॥२९॥



प्राङिनविसच्युतोत्पादबलध्यानेषु शेषितम्।

सर्वभूमिषु केनास्य बलमव्याहतं यतः॥३०॥



नारायणबलं काये संधिष्वन्ये दशाधिकम्।

हस्त्यादिसप्तकबलम् स्प्रष्टव्यायतनं च तत्॥३१॥



वैशारद्यं चतुर्धा तु यथाद्यदशमे बले।

द्वितीयसप्तमे चैव स्मृतिप्रज्ञात्मकं त्रयम्॥३२॥



महाकृपा संवृतिधीः संभाराकारगोचरैः।

समत्वादाधिमात्र्याच्च नानाकरणमष्टधा॥३३॥



संभारधर्मकायाभ्यां जगतश्चार्थचर्यया।

समता सर्वबुद्धानां नायुर्जातिप्रमाणतः॥३४॥



शिष्यसाधारणा अन्ये धर्माः केचित् पृथग्जनैः।

अरणाप्रणिधिज्ञानप्रतिसंविद्‍गुणादयः॥३५॥



संवृतिज्ञानमरणा ध्यानेऽन्त्ये अकोप्यधर्मणः।

नृजा अनुत्पन्नकामाप्तसवस्तुक्लेशगोचराः॥३६॥



तथैव प्रणिधिज्ञानं सर्वालम्बं तु तत् तथा।

धर्मार्थयोर्निरुक्तौ च प्रतिभाने च संविदः॥३७॥



तिस्रो नामाथवाग्ज्ञानमविवर्त्यं यथाक्रमम्।

चतुर्थीयुक्तमुक्ताभिलापमार्गवशित्वयोः॥३८॥



वाङ्मार्गालम्बना चासौ नव ज्ञानानि सर्वभूः।

दश षड्वाऽर्थसंवित् सा सर्वत्र अन्ये तु सांवृतम्॥३९॥



कामध्यानेषु धर्मे वित् वाचि प्रथमकामयोः।

विकलाभिर्न तल्लाभी षडेते प्रान्तकोटिकाः॥४०॥



तत्षड् विधं सर्वभूम्यनुलोमितम्।

वृद्धिकाष्ठागतं तच्च बुद्धान्यस्य प्रयोगजाः॥४१॥



ऋद्धिश्रोत्रमनःपूर्वजन्मच्युत्युदयक्षये।

ज्ञात साक्षीक्रियाऽभिज्ञा षड् विधा मुक्तिमार्गधीः॥४२॥



चतस्रः संवृतिज्ञानं चेतसि ज्ञानपञ्चकम्।

क्षयाभिज्ञा बलं यद्वत् पञ्च ध्यानचतुष्टये॥४३॥



स्वाधोभूविषयाः लभ्या उचितास्तु विरागतः।

तृतीया त्रीप्युपस्थानानि आद्यं श्रोत्रद्धिर्चक्षुषि॥४४॥



अव्याकृते श्रोत्रचक्षुरभिज्ञे इतराः शुभाः।

तिस्रो विद्याः अविद्यायाः पूर्वान्तादौ निवर्त्तनात्॥४५॥



अशैक्ष्यन्त्या तदाख्ये द्वे तत्संतानमुद्भवात्।

इष्टे शैक्षस्य नोक्ते तु विद्ये साविद्यसंततेः॥४६॥



आद्या तृतीया षष्ठी च प्रातिहार्याणि शासनम्।

अग्य्रम् अव्यभिचारित्वाद्धितेष्टफलयोजनात्॥४७॥



ऋद्धिः समाधिः गमनं निर्माणं च गतिस्त्रिधा।

शास्तुर्मनोजवा अन्येषां वाहिन्यप्याधिमोक्षिकी॥४८॥



कामाप्तं निर्मितं बाह्यं चतुरायतनं द्विधा।

रूपाप्तं द्वे तु निर्माणचित्तैस्तानि चतुर्दश॥४९॥



यथाक्रमं ध्यानफलं द्वे यावत् पञ्च नोर्ध्वजम्।

तल्लाभो ध्यानवत् शुद्धात्तत्स्वतश्च ततोऽपि ते॥५०॥



स्वभूमिकेन निर्माणं भाषणं त्वधरेण च।

निर्मात्रैव सहाशास्तुः अधिष्ठायान्यवर्त्तनात्॥५१॥



मृतस्याप्यस्त्यधिष्ठानं नास्थिरस्य अपरे तु न।

आदावेकमनेकेन जितायां तु विपर्ययात्॥५२॥



अव्याकृतं भावनाजं त्रिविधं तूपपत्तिजम्।

ऋद्धिर्मन्त्रौषधाभ्यां च कर्मजा चेति पञ्चधा॥५३॥



दिव्यश्रोत्राक्षिणी रूपप्रसादौ ध्यानभूमिकौ।

सभागाविकले नित्यं दूरसूक्ष्मादिगोचरे॥५४॥



दुरस्थमावृतं सूक्ष्मं सर्वतश्च न पश्यति।

मांसचक्षुर्यतो रूपमतो दिव्यं दृगिष्यते॥



द्वित्रिसाहस्रकासंख्यदृशोऽर्हत्‍खड्गदैशिकाः।

अन्यदप्युपपत्त्याप्तं तद्‍दृश्यो नान्तरीभवः॥५५॥



चेतोज्ञानं तु तत्त्रेधा तर्कविद्याकृतं च यत्।

जानते नारका आदौ नृणां नोत्पत्तिलभिकम्॥५६॥



॥अभिधर्मकोशे ज्ञाननिर्देशो नाम सप्तमं कोशस्थानम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project