Digital Sanskrit Buddhist Canon

पञ्चमं कोशस्थानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Pañcamaṁ kośasthānam

पञ्चमं कोशस्थानम्



ॐ नमो बुद्धाय



मूलं भवस्यानुशयाः षड्रागः प्रतिघस्तथा।

मानोऽविद्या च दृष्टिश्च विचिकित्सा च ते पुनः॥१॥



षड्रागभेदात्सप्तोक्ताः भवरागो द्विधातुजः।

अन्तर्मुखत्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः॥२॥



दृष्टयः पञ्च सत्कायमिथ्यान्तग्रहदृष्टयः।

दृष्टिशीलव्रतपरामर्शाविति पुनर्दशः॥३॥



दशैते सप्तासप्ताष्टौ त्रिद्विदृष्टिविवर्जिताः।

यथाक्रमं प्रहीयन्ते कामे दुःखादिदर्शनैः॥४॥



चत्वारो भावनाहेयाः त एवाप्रतिघाः पुनः।

रूपधातौ तथारूप्ये इत्यष्टानवतिर्मताः॥५॥



भवाग्रजाः क्षान्तिवध्य दृग्घेया एव शेषजाः।

दृग्भावनाभ्याम् अक्षान्तिवध्या भावनयैव तु॥६॥



आत्मात्मीयध्रुवोच्छेदनास्तिहीना ग्रदॄष्टयः।

अहेत्वमार्गे तद्‍दृष्टिरेतास्ताः पञ्च दृष्टयः॥७॥



ईश्वरादिषु नित्यात्मविपर्यासात् प्रवर्तते।

कारणाभिनिवेशोऽतो दूःखदृग्घेय एव सः॥८॥



दृष्टित्रयाद्विपर्यासचतुष्कं विपरीततः।

नितीरणात् समारोपात् संज्ञाचित्ते तु तद्वशात्॥९॥



सप्त मानाः नवविधास्त्रिभ्यः दृग्भावनाक्षयाः।

वधादिपर्यवस्थानं हेयं भावनया तथा॥१०॥



विभवेच्छा न चार्यस्य संभवन्ति विधादयः।

नास्मिता दृष्टिपुष्टत्वात् कौकृत्यं नापि चाशुभम्॥११॥



सर्वत्रगा दुःखहेतुदृग्घेया दृष्टयस्तथा।

विमतिः सह ताभिश्च याऽविद्याऽवेणिकी च या॥१२॥



नवोर्ध्वालम्बना एषां दृष्टिद्वयविवर्जिताः।

प्राप्तिवर्ज्याः सहभुवो येऽप्येभिस्तेऽपि सर्वगाः॥१३॥



मिथ्यादृग्विमती ताभ्यां युक्ताऽविद्याऽथ केवला।

निरोधमार्गदृग्घेयाः षडनास्रवगोचराः॥१४॥



स्वभूम्युपरमो मार्गः षड्‍भूमिनवभूमिकः।

तद्‍गोचराणां विषयो मार्गो ह्यन्योऽन्यहेतुकः॥१५॥



न रागस्तस्य वर्ज्यत्वात् न द्वेषोऽनपकारतः।

न मानो न परामर्शौ शान्तशुद्ध्यग्रभावतः॥१६॥



सर्वत्रगा अनुशयाः सकलामनुशेरते।

स्वभूमिमालम्बनतः स्वनिकायमसर्वगाः॥१७॥



नानास्रवोर्ध्वविषयाः अस्वीकाराद्विपक्षतः।

येन यः संप्रयुक्तस्तु स तस्मिन् संप्रयोगतः॥१८॥



ऊर्ध्वमव्याकृताः सर्वे कामे सत्कायदर्शनम्।

अन्तग्राहः सहाभ्यां च मोहः शेषास्त्विहाशुभाः॥१९॥



कामेऽकुशलमूलानि रागप्रतिघमूढयः।

त्रीण्यकुशलमूलानि तृष्णाऽविद्या मतिश्च सा॥२०॥



द्विधोर्ध्ववृत्तेर्नातोऽन्यौ चत्वार्येवेति बाह्यकाः।

तृष्णादृङ्मानमोहास्ते ध्यायित्रित्वादविद्यया॥२१॥



एकांशतो व्याकरणं विभज्य परिपृच्छ्य च।

स्थाप्यं च मरणोत्पत्ति विशिष्टात्माऽन्यतादिवत्॥२२॥



रागप्रतिघमानैः स्यदतीतप्रत्युपस्थितैः।

यत्रोत्पन्नाऽप्रहीणास्ते तस्मिन् वस्तुनि संयुतः॥२३॥



सर्वत्रानागतैरेभिर्मानसैः स्वाध्विके परैः।

अजैः सर्वत्र शेषैस्तु सर्वैः सर्वत्र संयुतः॥२४॥



सर्वकालास्तिता उक्तत्वात् द्वयात् सद्विषयात् फलात्।

तदस्तिवादात् सर्वास्तिवादा इष्टाः चतुर्विधाः॥२५॥



ते भावलक्षणावस्थाऽन्यथाऽन्यथिकसंज्ञिताः।

तृतीयः शोभनः अध्वानः कारित्रेण व्यवस्थिताः॥२६॥



किं विघ्नं तत्कथं नान्यत् अध्वायोगः तथा सतः।

अजातनष्टता केन गम्भीरा खलु धर्मता॥२७॥



प्रहीणे दुःखदृग्घेये संयुक्तः शेषसर्वगैः।

प्राक् प्रहीणे प्रकरे च शेषैस्तद्विषयैर्मलैः॥२८॥



दुःखहेतुदृगभ्यासप्रहेयाः कामधातुजाः।

स्वकत्रयैकरूपाप्तामलविज्ञानगोचराः॥२९॥



स्वकाधरत्रयोर्ध्वैकामलानां रूपधातुजाः।

आरूप्यजास्त्रिधात्वात्पत्रयानास्रवगोचराः॥३०॥



निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः।

अनास्रवास्त्रिधात्वन्त्यत्रयानास्रवगोचराः॥३१॥



द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशायकैः।

मोहाकाङ्क्षा ततो मिथ्यादृष्टिः सत्कायदृक्ततः॥३२॥



ततोऽन्तग्रहणं तस्माच्छीलामर्शः ततो दृशः।

रागः स्वदृष्टौ मानश्च द्वेषोऽन्यत्र इत्यनुक्रमः॥३३॥



अप्रहीणादनुशयाद्विषयात् प्रत्युपस्थितात्।

अयोनिशो मनस्कारात् क्लेशः संपूर्णकारणः॥३४॥



कामे सपर्यवस्थानाः क्लेशाः कामस्रवो विना।

मोहेन अनुशया एव रूपारूप्ये भवास्रवः॥३५॥



अव्याकृतान्तर्मुखा हि ते समाहितभूमिकाः।

अत एकीकृताः मूलमविद्येत्यास्रवः पृथक्॥३६॥



तथौघयोगा दृष्टीनां पृथग्भावस्तु पाटवात्।

नास्रवेष्वसहायानां न किलास्यानुकूलता॥३७॥



यथोक्ता एव साऽविद्या द्विधा दृष्टिविवेचनात्।

उपादानानि अविद्या तु ग्राहिका ने ति मिश्रिता॥३८॥



अणवोऽनुगताश्चैते द्विधा चाप्यनुशेरते।

अनुबध्नन्ति यस्माच्च तस्मादनुशयाः स्मृताः॥३९॥



आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ।

उपगृह्णन्ति चेत्येषामास्रवादिनिरुक्तयः॥४०॥



संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः।

द्रव्यामर्शन सामान्यद्‍दृष्टी संयोजनान्तरम्॥४१॥



एकान्ताकुशलं यस्मात् स्वतन्त्रं चोभयं यतः।

ईर्ष्यामात्सर्यमेषूक्तं पृथक् संयोजनद्वयम्॥४२॥



पञ्चधाऽवरभागीयं द्वाभ्यां कामानतिक्रमः।

त्रिभिस्तु पुनरावृत्तिः मुखमूलग्रहात्त्रयम्॥४३॥



अगन्तुकामतामार्गविभ्रमो मार्गसंशयः।

इत्यन्तराया मोक्षस्य गमनेऽतस्त्रिदेशना॥४४॥



पञ्चधैवोर्ध्वभागीयं द्वौ रागौ रूप्यरूपिजौ।

औद्धत्यमानमोहाश्च विद्वशाद् बन्धनत्रयम्॥४५॥



येऽप्यन्ये चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः।

क्लेशेभ्यस्तेऽप्युपक्लेशास्ते तु न क्लेशसंज्ञिताः॥४६॥



आह्रीक्यमनपत्रप्यमीर्ष्यामात्सर्यमुद्धवः।

कौकृत्यं स्त्यानमिद्धं च पर्यवस्थानमष्टधा॥४७॥



क्रोधम्रक्षौ च रागोत्था आह्रीक्यौद्धत्यमत्सराः।

म्रक्षे विवादः अविद्यातः स्त्यानमिद्धानपत्रपाः॥४८॥



कौकृत्यं विचिकित्सातः कोधेर्ष्ये प्रतिघान्वये।

अन्ये च षट्क्लेशमलाः माया शाठ्‍यं मदस्तथा॥४९॥



प्रदाश उपनाहश्च विहिंसा चेति रागजौ।

मायामदौ प्रतिघजे उपनाहविहिंसने॥५०॥



दृष्ट्यामर्शात् प्रदाशस्तु शाठ्‍यं दृष्टिसमुत्थितम्।

तत्राह्रीक्यानपत्राप्यस्त्यानामिद्धोद्धवा द्विधा॥५१॥



तदन्ये भावनाहेयाः स्वतन्त्राश्च तथा मलाः।

कामेऽशुभाः त्रयो द्विधा परेणाव्याकृतास्ततः॥५२॥



माया शाठ्‍यं च कामाद्यध्यानयोः ब्रह्मवञ्चनात्।

स्त्यानौद्धत्यमदा धातुत्रये अन्ये कामधातुजाः॥५३॥



समानसिद्धा दृग्घेया मनोविज्ञानभूमिकाः।

उपक्लेशाः स्वतन्त्राश्च षड् विज्ञानाश्रयाः परे॥५४॥



सुखाभ्यां संप्रयुक्तो हि रागः द्वेषो विपर्ययात्।

मोहः सर्वैः असद्‍दृष्टिर्मनोदुःखसुखेन तु॥५५॥



दौर्मनस्येन काङ्क्षा अन्ये सौमनस्येन कामजाः।

सर्वेऽप्युपेक्षया स्वैः स्वैर्यथाभूम्यूर्ध्वभूमिकाः॥५६॥



दौर्मनस्येन कौकृत्यमीर्ष्या क्रोधो विहिंसनम्।

उपनाहः प्रदाशश्च मात्सर्यं तु विपर्ययात्॥५७॥



माया शाठ्यमथो म्रक्षो मिद्धं चोभयथा मदः।

सुखाभ्याम् सर्वगोपेक्षा चत्वार्यन्यानि पञ्चभिः॥५८॥



कामे निवरणानि एकविपक्षाहारकृत्यतः।

द्वयकेता पञ्चता स्कन्धविघातविचिकित्सनात्॥५९॥



आलम्बनपरिज्ञानात्तदालम्बनसंक्षयात्।

आलम्बनप्रहाणाच्च प्रतिपक्षोदयात् क्षयः॥६०॥



प्रहाणाधारभूतत्त्व दूषणाख्यश्चतुर्विधः।

प्रतिपक्षः प्रहातव्यः क्लेश आलम्बनात् मतः॥६१॥



वैलक्षण्याद्विपक्षत्वाद्देशविच्छेदकालतः।

भूतशीलप्रदेशाध्वद्वयानामिव दूरता॥६२॥



सकृत् क्षयः विसंयोगलाभस्तेषां पुनः पूनः।

प्रतिपक्षोदयफलप्राप्तीन्द्रियविवृद्धिषु॥६३॥



परिज्ञा नव कामाद्यप्रकारद्वयसंक्षयः।

एका द्वयोः क्षये द्वे ते तथोर्ध्वं तिस्र एव ताः॥६४॥



अन्या अवरभागीयरूपसर्वास्रवक्षयाः।

तिस्रः परिज्ञाः षट् क्षान्तिफलं ज्ञानस्य शेषिताः॥६५॥



अनागम्यफलं सर्वा ध्यानानां पञ्च वाथवा।

अष्टौ सामन्तकस्यैका मौलारूप्यत्रयस्य च॥६६॥



आर्यमार्गस्य सर्वाः द्वे लौकिकस्य अन्वयस्य च।

धर्मज्ञानस्य तिस्रस्तु षट् तत्पक्षस्य पञ्च च॥६७॥



अनास्रववियोगाप्तेर्भवाग्रविकलीकृतेः।

हेतुद्वयसमुद्घातात् परिज्ञा धात्वतिक्रमात्॥६८॥



नैकया पञ्चभिर्यावद्दर्शनस्थः समन्वितः।

भावनास्थः पुनः षडिभरेकया वा द्वयेन वा॥६९॥



तासां संकलनं धातुवैराग्यफललाभतः।

एकां द्वे पञ्च षट् कश्चिज्जहात्याप्नोति पञ्च न॥७०॥



समाप्तः परिज्ञाप्रसङ्गः॥



अभिधर्मकोशेऽनुशयनिर्द्देशो नाम

पञ्चमं कोशस्थानं समाप्तमिति॥

श्रीलामावाकस्य यदत्र पुण्यम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project