Digital Sanskrit Buddhist Canon

चतुर्थं कोशस्थानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Caturthaṁ kośasthānam

चतुर्थं कोशस्थानम्



ओं नमो बुद्धाय।



कर्मजं लोकवैचित्र्यं चेतना तत्कृतं च तत्।

चेतना मानसं कर्म तज्जं वाक्कायकर्मणी॥१॥



ते तु विज्ञप्त्यविज्ञप्ती कायविज्ञप्तिरिष्यते।

संस्थानं न गतिर्यस्मात्संस्कृतं क्षणिकं व्ययात्॥२॥



न कस्यचिदहेतोः स्यात् हेतुः स्याच्च विनाशकः।

द्विग्राह्यं स्यात् न चाणौ तत् वाग्विज्ञप्तिस्तु वाग्ध्वनिः॥३॥



त्रिविधामलरूपोक्तिवृद्धयकुर्वत्पथादिभिः।

क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजा॥४॥



स्वानि भूतान्युपादाय कायवाक्कर्म सास्रवम्।

अनास्रवं यत्र जातः अविज्ञप्तिरनुपात्तिका॥५॥



नैःष्यन्दिकी च सत्त्वाख्या निष्यन्दोपात्तभूतजा।

समाधिजौ पचयिकानुपात्ताभिन्नभूतजा॥६॥



नाव्याकृतास्त्यविज्ञप्तिः त्रिधाऽन्व्यत् अशुभं पुनः।

कामे रूपेऽप्यविज्ञप्तिः विज्ञप्तिः सविचारयोः॥७॥



कामेऽपि निवृता नास्ति समुत्थानमसद्यतः।

परमार्थशुभो मोक्षः स्वतो मूलह्य्रपत्रपाः॥८॥



संप्रयोगेण तद्युक्ताः समुत्था नात् क्रियादयः।

विपर्ययेणाकुशलं परमाव्याकृते ध्रुवे॥९॥



समुत्थानं द्विधा हेतुतत्‍क्षणोत्थानसंज्ञितम्।

प्रवर्तकं तयोराद्यं द्वितीयमनुवर्तकम्॥१०॥



प्रवर्तकं दृष्टिहेयं विज्ञानम् उभयं पुनः।

मानसं भावनाहेयं पञ्चकं त्वनुवर्तकम्॥११॥



प्रवर्तके शुभादौ हि स्यात्त्रिधाऽप्यनुवर्तकम्।

तुल्यं मुनेः शुभं यावत् नोभयं तु विपाकजम्॥१२॥



अविज्ञप्तिस्त्रिधा ज्ञेया संवरासंवरेतरा।

संवरः प्रातिमोक्षाख्यो ध्यानजोऽनास्रवस्तथा॥१३॥



अष्टधा प्रातिमोक्षाख्यः द्रव्यतस्तु चतुर्विधः।

लिङ्गतो नामसंचारात् पृथक् ते चाविरोधिनः॥१४॥



पञ्चाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात्।

उपासकोपवासस्थश्रमणोद्देशभिक्षुता॥१५॥



शीलं सुचरितं कर्म संवरश्चोच्यते पुनः।

आद्ये विज्ञप्त्यविज्ञप्तो प्रातिमोक्षक्रियापथः॥१६॥



प्रातिमोक्षान्विता अष्टौ ध्यानजेन तदन्वितः।

अनास्रवेणार्यसत्त्वाः अन्त्यौ चित्तानुवर्तिनौ॥१७॥



अनागम्ये प्रहाणाख्यौ तावानन्तर्यमार्गजौ।

संप्रज्ञानस्मृती द्वे तु मन‍इन्द्रियसंवरौ॥१८॥



प्रातिमोक्षस्थितो नित्यमत्यागा द्वर्तमानया।

अविज्ञप्त्याऽन्वितः पूर्वात् क्षणादूर्ध्वमतीतया॥१९॥



तथैवासंवरस्थोऽपि ध्यानसंवरवान् सदा।

अतीताजातया आर्यस्तु प्रथमे नाभ्यतीतया॥२०॥



समाहीतार्यमार्गस्थौ तौ युक्तौ वर्तमानया।

मध्यस्थस्यास्ति चेदादौ मध्यया ऊर्ध्वं द्विकालया॥२१॥



असंवरस्थः शुभयाऽशुभया संवरे स्थितः।

अविज्ञप्त्यान्वितो यावत् प्रसादक्लेशवेगवान्॥२२॥



विज्ञप्त्या तु पुनः सर्वे कुर्वन्तो मध्ययान्विताः।

अतीतया क्षणादूर्ध्वमात्यागात् नास्त्यजातया॥२३॥



निवृतानिवृताभ्यां च नातीताभ्यां समन्वितः।

असंवरो दुश्चरितं दौःशील्यं कर्म तत्पथः॥२४॥



विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतनः।

त्यक्तानुत्पन्नविज्ञप्तिरविज्ञप्त्यार्यपुद्‍गलः॥२५॥



ध्यानजो ध्यानभूम्यैव लभ्यते अनास्रवस्तया।

आर्यया प्रातिमोक्षाख्यः परविज्ञपनादिभिः॥२६॥



यावज्जीवं समादानमहोरात्रं च संवृतेः।

नासंवरोऽस्त्यहोरात्रं न किलैवं प्रगृह्यते॥२७॥



काल्यं ग्राह्योऽन्यतो नीचैः स्थितेनोक्तानुवादिता।

उपवासः समग्राङ्गो निर्भूषेणानिशाक्षयात्॥२८॥



शीलाङ्गान्यप्रमादाङ्गं व्रताङ्गानि यथाक्रमम्।

चत्वार्येकं तथा त्रीणि स्मृतिनाशो मदश्च तैः॥२९॥



अन्यस्याप्युपवासोऽस्ति शरणं त्वगतस्य न।

उपासकत्वोपगमात्संवृत् उक्तिस्तु भिक्षुवत्॥३०॥



सर्वे चेत् संवृता एकदेशकार्यादयः कथम्।

तत्‍पलनात् किल प्रोक्ताः मृद्वादित्वं यथा मनः॥३१॥



बुद्धसंघकरान्धर्मानशैक्षानुभयांश्च सः।

निर्वाणं चेति शरणं यो याति शरणत्रयम्॥३२॥



मिथ्याचारातिगर्ह्यत्वात्सौकर्यादाक्रियाप्तितः।

यथाभ्युपगमं लाभः संवरस्य न संतते॥३३॥



मृषावादप्रसङ्गाच्च सर्वशिक्षाव्यतिक्रमे।

प्रतिक्षेपणसावद्यान्मद्यादेव अन्युगुप्तये॥३४॥



सर्वोभयेभ्यः कामाप्तो वर्तमानेभ्य आप्यते।

मौलेभ्यः सर्वकालेभ्यो ध्यानानास्रव संवरौ॥३५॥



संवरः सर्वसत्त्वेभ्यो विभाषा त्वङ्गकारणैः।

असंवरस्तु सर्वेभ्यः सर्वाङ्गेभ्यो न कारणैः॥३६॥



असंवरस्य क्रियया लाभोऽभ्युपगमेन वा।

शेषाविज्ञप्तिलाभस्तु क्षेत्रादानादरेहनात्॥३७॥



प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच्च्युतेः।

उभयव्यञ्जनोत्पत्तेर्मूलच्छेदान्निशात्ययात्॥३८॥



पतनीयेन चेत्येके सद्धर्मान्तधितोऽपरे।

धनर्णवत्तु काश्मीरैरापन्नस्येष्यते द्वयम्॥३९॥



भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभम्।

तथारूप्याप्तमार्यं तु फलाप्त्युत्तप्तिहानिभिः॥४०॥



असंवरः संवराप्तिमृत्युद्विव्यञ्जनोदयैः।

वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यमा॥४१॥



कामाप्तं कुशलारूपं मूलच्छेदोर्ध्वजन्मतः।

प्रतिपक्षोदयात् क्लिष्टमरूपं तु विहीयते॥४२॥



नृणामसंवरो हित्वा शण्ढ पण्डद्विधाकृतीन्।

कुरूंश्च संवरोऽप्येवं देवानां च नृणां त्रयः॥४३॥



कामरूपजदेवानां ध्यानजः अनास्रवः पुनः।

ध्यानान्तरासंज्ञिसत्त्ववर्ज्यानामप्यरूपिणाम्॥४४॥



क्षेमाक्षेमेतरत्कर्म कुशलाकुशलेतरत्।

पुण्यापुण्यमनिञ्जं च सुखेवेद्यादि च त्रयम्॥४५॥



कामधातौ शुभं कर्म पुण्यमानेञ्जमूर्ध्वजम्।

तद्‍भूमिषु यतः कर्मविपाकं प्रति नेञ्जति॥४६॥



सुखवेद्यं शुभं ध्यानादातृतीयात् अतः परम्।

अदुःखासुखवेद्यं तु दुःखवेद्यमिहाशुभम्॥४७॥



अधोऽपि मध्यमस्त्येके ध्यानान्तरविपाकतः।

अपूर्वाचरमः पाकस्त्रयाणां चेष्यते यतः॥४८॥



स्वभावसंप्रयोगाभ्यामालम्बनविपाकतः।

संमुखीभावतश्चेति पञ्चधा वेदनीयता॥४९॥



नियतानियतं तच्च नियतं त्रिविधं पुनः।

दृष्टधर्मादिवेद्यत्वात् पञ्चधा कर्म केचन॥५०॥



चतुष्कोटिकमित्यन्ये निकायाक्षेपणं त्रिभिः।

सर्वत्र चतुराक्षेपः शुभस्य नरके त्रिधा॥५१॥



यद्विरक्तः स्थिरो बालस्तत्र नोत्पद्यवेद्यकृत्।

नान्यवेद्यकृदप्यार्यः कामेऽग्रे वाऽस्थिरोऽपि न॥५२॥



द्वाविंशतिविधं कामेष्वाक्षिपत्यन्तराभवः।

दृष्टधर्मफलं तच्च निकायो ह्येक एव सः॥५३॥



तीव्रक्लेशप्रसादेन सातत्येन च यत्कृतम्।

गुणक्षेत्रे च नियतं तत्पित्रोर्घातकं च यत्॥५४॥



दृष्टधर्मफलं कर्म क्षेत्राशयविशेषतः।

तद्‍भूम्यत्यन्तवैराग्यात् विपाके नियतं हि यत्॥५५॥



ये निरोधारणामैत्रीदर्शनार्हत्फलोत्थिताः।

तेषु कारापकारास्य फलं सद्योऽनुभूयते॥५६॥



कुशलस्यावितर्कस्य कर्मणो वेदना मता।

विपाकश्चैतसिक्येव कायिक्येवाशुभस्य तु॥५७॥



चित्तक्षेपो मनश्चित्ते स च कर्मविपाकजः।

भयोपघातवैषम्यशोकैश्च अकुरुकामिनाम्॥५८॥



वङ्कदोषकषायोक्तिः शाठ्‍यद्वेषजरागजे।

कृष्णशुक्लादिभेदेन पुनः कर्म चतुर्विधम्॥५९॥



अशुभं रूपकामाप्तं शुभं चैव यथाक्रमम्।

कृष्णशुक्लोभयं कर्म तत्क्षयाय निरास्रवम्॥६०॥



धर्मक्षान्तिषु वैराग्ये चानन्तर्यपथाष्टके।

या चेतना द्वादशधा कर्म कृष्णक्षयाय तत्॥६१॥



नवमे चेतना या सा कृष्णशुक्लक्षयाय च।

शुक्लस्य ध्यानवैराग्येष्वन्त्यानन्तर्यमार्गजा॥६२॥



अन्ये नरकवेद्यान्यकामवेद्यं द्वयं विदुः।

दृग्धेयं कृष्णमन्ये अन्यत्कृष्णशुक्लं तु कामजम्॥६३॥



अशैक्षं कायवाक्कर्म मनश्चैव यथाक्रमम्।

मौनत्रयम् त्रिधा शौचं सर्व सुचरितत्रयम्॥६४॥



अशुभं कायकर्मादि मतं दुश्चरित त्रयम्।

अकर्मापि त्वभिध्यादिमनोदुश्चरितं त्रिधा॥६५॥



विपर्ययात्सुचरितम् तदौदारिकसंग्रहात्।

दश कर्मपथा उक्ता यथायोगं शुभाशुभाः॥६६॥



अशुभाः षडविज्ञप्तिः द्विधैकः तेऽपि कुर्वतः।

द्विविधाः सप्त कुशलाः अविज्ञप्तिः समाधिजाः॥६७॥



सामन्तकास्तु विज्ञप्तिः अविज्ञप्तिर्भवेन्न वा।

विपर्ययेण पृष्ठानि प्रयोगस्तु त्रिमूलजः॥६८॥



तदनन्तरसंभूतेरभिध्याद्यास्त्रिमूलजाः।

कुशलाः सप्रयोगान्ता अलोभद्वेषमोहजाः॥६९॥



वधव्यापादपारुष्यनिष्ठा द्वेषेण लोभतः।

परस्त्रीगमनाभिध्याऽदत्तादानसमापनम्॥७०॥



मिथ्यादृष्टेस्तु मोहेन शेषाणां त्रिभिरिष्यते।

सत्त्वभोगावधिष्ठानं नामरूपं च नाम च॥७१॥



समं प्राक् च मृतस्यास्ति न मौलः अन्याश्रयोदयात्।

सेनादिष्वेककार्यत्वात् सर्वे कर्त्तृवदन्विताः॥७२॥



प्राणातिपातः संचिन्त्य परस्याभ्रान्तिमारणम्।

अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः॥७३॥



अगम्यगमनं काममिथ्याचारश्चतुर्विधः।

अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः॥७४॥



चक्षुः श्रोतमनश्चित्तैरनुभूतं त्रिभिश्च यत्।

तद्दष्टश्रुतविज्ञातं मतं चोक्तं यथाक्रमम्॥७५॥



पैशुन्यं क्लिष्टचित्तस्य वचनं परभेदने।

पारूष्यमप्रियं सर्व क्लिष्टं भिन्न प्रलापिता॥७६॥



अतोऽन्यत् क्लिष्टमित्यन्ये लपनागीतनाट्यवत्।

कुशास्तवच्च अभिध्या तु परस्वविषमस्पृहा॥७७॥



व्यापादः सत्त्वविद्वेषः नास्तिदृष्टिः शुभाशुभे।

मिथ्यादृष्टिः त्रयो ह्यत्र पन्थानः सप्त कर्म च॥७८॥



मूलच्छेदस्त्वसद्‍दृष्टया कामाप्तोत्पत्तिलाभिनाम्।

फलहेत्वपवादिन्या सर्वथा क्रमशः नृषु॥७९॥



छिनत्ति स्त्री पुमान् दृष्टिचरितः सोऽसमन्वयः।

संधिः काङ्क्षास्तिदृष्टिभ्यां नेहानन्तर्यकारिणः॥८०॥



युगपद्यावदष्टाभिरशुभैः सह वर्तते।

चेतना दशभिर्यावच्छुभैः नैकाष्टपञ्चभिः॥८१॥



भिन्नप्रलापपारूष्यव्यापादा नरके द्विधा।

समन्वागमतोऽभिध्यामिथ्यादृष्टी कुरौ त्रयः॥८२॥



सप्तमः स्वयमप्यत्र कामेऽन्यत्र दशाशुभाः।

शुभास्त्रयस्तु सर्वत्र संमुखीभावलाभतः॥८३॥



आरूप्यासंज्ञिसत्त्वेषु लाभतः सप्त शेषिते।

संमुखीभावतश्चापि हित्वा सनरकान् कुरून्॥८४॥



सर्वेऽधिपतिनिष्यन्दविपाकफलदा मताः।

दुःखनान्मारणादोजोनाशनात्त्रिविधं फलम्॥८५॥



लोभजं कायवाक्कर्म मिथ्याजीवः पृथक् कृतः।

दुःशोधत्वात् परिष्कारलोभोत्थं चेत् न सूत्रतः॥८६॥



प्रहाणमार्गे समले सफलं कर्म पञ्चभिः।

चतुर्भिरमले अन्यच्च सास्रवं यच्छुभाशुभम्॥८७॥



अनास्रवं पुनः शेषं त्रिभिरव्याकृतं च यत्।

चत्वारि द्वे तथा त्रीणि कुशलस्य शुभादयः॥८८॥



अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्यनुक्रमम्।

अव्याकृतस्य द्वे त्रीणि त्रीणी चैते शुभादयः॥८९॥



सर्वेऽतीतस्य चत्वारि मध्यमस्याप्यनागताः।

मध्यमा द्वे अजातस्य फलानि त्रीण्यनागताः॥९०॥



स्वभूमिधर्माश्चत्वारि त्रीणि द्वे वाऽन्यभूमिकाः।

शैक्षस्य त्रीणि शैक्षाद्याः अशैक्षस्य तु कर्मणः॥९१॥



धर्माः शैक्षादिका एकं फलं त्रीण्यपि च द्वयम्।

ताभ्यामन्यस्य शैक्षाद्या द्वे द्वे पञ्च फलानि च॥९२॥



त्रीणि चत्वारि चैकं च दृग्घेयस्य तदादयः।

ते द्वे चत्वार्यथ त्रीणि भावनाहेयकर्मणः॥९३॥



अप्रहेयस्य ते त्वेकं द्वे चत्वारि यथाक्रमम्।

अयोगविहितं क्लिष्टं विधिभ्रष्टं च केचन॥९४॥



एकं जन्माक्षिपत्येकम् अनेकं परिपूरकम्।

नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च॥९५॥



आनन्तर्याणि कर्माणि तीव्रक्लेशोऽथ दुर्गतिः।

कौरवासंज्ञित्त्वाश्च मतमावरणत्रयम्॥९६॥



त्रिषु द्विपेष्वानन्तर्य शण्ढा दीनां तु नेष्यते।

अल्पोपकारालज्जित्वात् शेषे गतिषु पञ्चसु॥९७॥



संघभेदस्त्वसामग्रीस्वभावो विप्रयुक्तकः।

अक्लिष्टाव्याकृतो धर्मः संघस्तेन समन्वितः॥९८॥



तदवद्य मृषावादस्तेन भेत्ता समन्वितः।

अवीचौ पच्यते कल्पम् अधिकैरधिका रुजः॥९९॥



भिक्षुर्दृक् चरितो वृत्ती भिनत्ति अन्यत्र बालिशान्।

शास्तृमार्गान्तरक्षान्तौ भिन्नः न विवसत्यसौ॥१००॥



चक्रभेदः स च मतः जम्बूद्वीपे नवादिभिः।

कर्मभेदस्त्रिषु द्विपेषु अष्टभिरधिकैश्च सः॥१०१॥



आदावन्तेऽर्बुदात् पूर्वं युगाच्चोपरते मुनौ।

सीमायां चाप्यबद्धायां चक्रभेदो न जायते॥१०२॥



उपकारिगुणक्षेत्रनिराकृतिविपादनात्।

व्यञ्जनान्तरितोऽपि स्यात् माता यच्छोणितोभ्दवः॥१०३॥



बुद्धे न ताडनेच्छस्य प्रहारान्नोर्ध्वमर्हति।

नानन्तर्यप्रयुक्तस्य वैराग्यफलसंभवः॥१०४॥



संघभेदे मृषावादो महावद्यतमो मतः।

भवाग्रचेतना लोके महाफलतमा शुभे॥१०५॥



दूषणं मातुरर्हन्त्या नियतिस्थस्य मारणम्।

बोधिसत्त्वस्य शैक्षस्य संघायद्वारहारिका॥१०६॥



आनन्तर्यसभागानि पञ्चमं स्तूपभेदनम्।

क्षान्त्यनागामितार्हत्त्वप्राप्तौ कर्मातिविघ्नकृत्॥१०७॥



बोधिसत्त्वः कुतो यावत् यतो लक्षण कर्मकृत्।

सुगतिः कुलजोऽव्यक्षः पुमान् जातिस्मरोऽनिवृत्॥१०८॥



जम्बूद्वीपे पुमानेव संमुखं बुद्धचेतनः।

चिन्तामयं कल्पशते शेष आक्षिपते हि तत्॥१०९॥



एकैकं पुण्यशतजम् असंख्येयत्रयान्त्यजाः।

विपश्यी दीपकृदत्नशिखी शाक्यमुनिः पुरा॥११०॥



सर्वत्र सर्व ददतः कारूण्याद्दानपूरणम्।

अङ्गच्छेदेऽप्यकोपात्तु रागिणः क्षान्तिशीलयोः॥१११॥



तिष्यस्तोत्रेण वीर्यस्य धीसमाध्योरनन्तरम्।

पुण्यं क्रियाऽथ तद्वस्तु त्रयं कर्मपथा यथा॥११२॥



दीयते येन तद्दानं पूजानुग्रहकाम्यया।

कायवाक्कर्म सोत्थानं महाभोग्यफलं च तत्॥११३॥



स्वपरार्थोभयार्थाय नोभयार्थाय दीयते।

तद्विशेषः पुनर्दातृवस्तुक्षेत्रविशेषतः॥११४॥



दाता विशिष्टः श्रद्धाद्यैः सत्‍कृत्यादि ददाति अतः।

सत्कारोदाररुचिता कालानाच्छेद्यलाभिता॥११५॥



वर्णादिसम्पदा वस्तु सुरूपत्वं यशस्वि वा।

प्रियता सुकुमारर्तुसुखस्पर्शाङ्गता ततः॥११६॥



गतिदुःखोपकारित्वगुणैः क्षेत्रं विशिष्यते।

अग्रं मुक्तस्य मुक्ताय बोधिसत्त्वस्य च अष्टमम्॥११७॥



मातृपितृग्लानधार्मकथिकेभ्योऽन्त्यजन्मने।

बोधिसत्त्वाय चामेया अनार्येभ्योऽपि दक्षिणा॥११८॥



पृष्ठं क्षेत्रमधिष्ठानं प्रयोगश्चेतनाशयः।

एषां मृद्वधिमात्रत्वात् कर्ममृद्वधिमात्रता॥११९॥



संचेतनसमाप्तिभ्यां निष्क्रौकृत्य विपक्षतः।

परिवाराद्विपाकाच्च कर्मोपचित्तमुच्यते॥१२०॥



चैत्ये त्यागान्वयं पुण्यं मैत्र्यादिवदगृण्हति।

कुक्षेत्रेऽपीष्टफलता फलबीजाविपर्ययात्॥१२१॥



दौःशील्यमशुभं रूपं शीलं तद्विरतिः द्विधा।

प्रतिक्षिप्ताच्च बुद्धेन विशुद्धं तु चतुर्गुणम्॥१२२॥



दौःशील्यतद्धेत्वहतं तद्विपक्षशमाश्रितम्।

समाहितं तु कुशलं भावना चित्तवासनात्॥१२३॥



स्वर्गाय शीलं प्राधान्यात् विसंयोगाय भावना।

चतुर्णां ब्राह्मपुण्यत्वं कल्पं स्वर्गेषु मोदनात्॥१२४॥



धर्मदानं यथाभूत सूत्राद्यक्लिष्टदेशना।

पुण्यनिर्वाणनिर्वेधभागीयं कुशलं त्रिधा॥१२५॥



योगप्रवर्तितं कर्म ससमुत्थापकं त्रिधा।

लिपिमुद्रे सगणनं काव्यं संख्या यथाक्रमम्॥१२६॥



सावद्या निवृता हीनाः क्लिष्टाः धर्माः शुभामलाः।

प्रणीताः संस्कृतशुभा सेव्याः मोक्षस्त्वनुत्तरः॥१२७॥



अभिधर्मकोशे कर्मनिर्द्देशो नाम

चतुर्थ कोशस्थानमिति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project