Digital Sanskrit Buddhist Canon

तृतीयं कोशस्थानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Tṛtīyaṁ kośasthānam

तृतीयं कोशस्थानम्



ओं नमो बुद्धाय।



नरकप्रेततिर्यञ्चो मनुष्याः षड् दिवौकसः।

कामधातुः स नरकद्वीपभेदेन विंशतिः॥१॥



ऊर्ध्वं सप्तदशस्थानो रूपधातुः पृथक् पृथक्।

ध्यानं त्रिभूमिकं तत्र चतुर्थं त्वष्टभूमिकम्॥२॥



आरूप्यधातुरस्थानः उपपत्त्या चतुर्विधः।

निकायं जीवितं चात्र निश्रिता चित्तसन्ततिः॥३॥



नरकादिस्वनामोक्ता गतयः पञ्च तेषु ताः।

अक्लिष्टाव्याकृता एव सत्त्वाख्या नान्तराभवः॥४॥



नानात्वकायसंज्ञाश्च नानाकायैकसंज्ञिनः।

विपर्ययाच्चैककायसंज्ञाश्चारूपिणस्रयः॥५॥



विज्ञानस्थितयः सप्त शेषं तत्परिभेदवत्।

भवाग्रासंज्ञिसत्त्वाश्च सत्त्वावासा नव स्मृताः॥६॥



अनिच्छावसनान्नान्ये चतस्रः स्थितयः पुनः।

चत्वारः सास्रवाः स्कन्धाः स्वभूमावेव केवलम्॥७॥



विज्ञानं न स्थितिः प्रोक्तं चतुष्कोटि तु संग्रहे।

चतस्रो योनयस्तत्र सत्त्वानामण्डजादयः॥८॥



चतुर्धा नर तिर्यञ्चः नारका उपपादुकाः।

अन्तराभवदेवाश्च प्रेता अपि जरायुजाः॥९॥



मृत्युपपत्तिभवयोरन्तरा भवतीह यः।

गम्यदेशानुपेतत्वान्नोपपन्नोऽन्तराभवः॥१०॥



व्रीहिसन्तानसाधर्म्यादविच्छिन्नभवोद्भवः।

प्रतिबिम्बमसिद्धत्वादसाम्याच्चानिदर्शनम्॥११॥



सहैकत्र द्वयाभावात् असन्तानाद् द्वयोदयात्।

कण्ठोक्तेश्चास्ति गन्धर्वात् पञ्चोक्तेः गतिसूत्रतः॥१२॥



एकाक्षेपादसावैष्यत्पूर्वकालभवाकृतिः।

स पुनर्मरणात्पूर्व उपपत्तिक्षणात्परः॥१३॥



सजातिशुद्धदिव्याक्षिदृश्यः कर्मर्द्धिवेगवान्।

सकलाक्षः अप्रतिघवान् अनिवर्त्यः स गन्धभुक्॥१४॥



विपर्यस्तमतिर्याति गतिदेशं रिरंसया।

गन्धस्थानाभिकामोऽन्यः ऊर्ध्वपादस्तु नारकः॥१५॥



संप्रजानन् विशत्येकः तिष्ठत्यप्यपरः अपरः।

निष्क्रामत्यपि सर्वाणि मूढोऽन्यः नित्यमण्डजः॥१६॥



गर्भावक्रान्तयस्तिस्रश्चक्रवर्त्तिस्वयंभुवाम्।

कर्मज्ञानोभयेषां वा विशदत्वाद् यथाक्रमम्॥१७॥



नात्मास्ति स्कन्धमात्रं तु क्लेशकर्माभिसंस्कृतम्।

अन्तराभवसंतत्या कुक्षिमेति प्रदीपवत्॥१८॥



यथाक्षेपं क्रमाद्‍वृद्धः सन्तानः क्लेशकर्मभिः।

परलोकं पुनर्याति इत्यनादिभवचक्रकम्॥१९॥



स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः।

पूर्वापरान्तयोर्द्वे द्वे मध्येऽष्टौ परिपूरिणः॥२०॥



पूर्वक्लेशा दशाऽविद्या संस्काराः पूर्वकर्मणः।

संधिस्कन्धास्तु विज्ञानं नामरूपमतः परम्॥२१॥



प्राक् षडायतनोत्पादात् तत्पूर्वं त्रिकसंगमात्।

स्पर्शः प्राक्‍सुखदुःखादिकारणज्ञानशक्तितः॥२२॥



वित्तिः प्राक् मैथुनात् तृष्णा भोगमैथुनरागिणः।

उपादानं तु भोगानां प्राप्तये परिधावतः॥२३॥



स भविष्यत् भवफलं कुरुते कर्म तत् भवः।

प्रतिसंधिः पुनर्जातिः जरामरणमा विदः॥२४॥



आवस्थिकः किलेष्टोऽयं प्राधान्या त्त्वङ्गकीर्तनम्।

पूर्वापरान्तमध्येषु संमोहविनिवृत्तये॥२५॥



क्लेशास्त्रीणि द्वयं कर्म सप्त वस्तु फलं तथा।

फलहेत्वभिसंक्षेपो द्वयोर्मध्यानुमानतः॥२६॥



क्लेशात् क्लेशः क्रिया चैव ततो वस्तु ततः पुनः।

वस्तु क्लेशाश्च जायन्ते भवाङ्गानामयं नयः॥२७॥



हेतुरत्र समुत्पादः समुत्पन्नः फलं मतम्।

विद्याविपक्षो धर्मोऽन्योऽविद्याऽमित्रानृतादिवत्॥२८॥



संयोजनादिवचनात् कुप्रज्ञा चेन्न दर्शनात्।

दृष्टेस्तत्संप्रयुक्तत्वात् प्रज्ञोपक्लेशदेशनात्॥२९॥



नाम त्वरूपिणः स्कन्धाः स्पर्शाः षट् संनिपातजाः।

पञ्चप्रतिघसंस्पर्शः षष्ठोऽधिवचनाव्हय॥३०॥



विद्याविद्येतरस्पर्शाः अमलक्लिष्टशेषिताः।

व्यापादानुनयस्पर्शौ सुखवेद्यादयस्त्रयः॥३१॥



तज्जाः षड्‍वेदनाः पञ्च कायिकी चैतसी परा।

पुनश्चाष्टादशविधा सा मनोपविचारतः॥३२॥



कामे स्वालम्बनाः सर्वे रूपी द्वादशगोचरः।

त्रयाणामुत्तरः ध्यानद्वये द्वादश कामगाः॥३३॥



स्वोऽष्टालम्बनम् आरूप्यो द्वयोः ध्यानद्वये तु षट्।

कामाः षण्णां चतुर्णा स्वः एकस्यालम्बनं परः॥३४॥



चत्वारोऽरूपिसामन्ते रूपगाः एक ऊर्ध्वगः।

एको मौले स्वविषयः सर्वेऽष्टादश सास्रवाः॥३५॥



उक्तं च वक्ष्यते चान्यत् अत्र तु क्लेशा इष्यते।

बीजवन्नागवन्मूलवृक्षवत्तुषवत्तथा॥३६॥



तुषितण्डुलवत् कर्म तथैवौषधि पुष्पवत्।

सिद्धान्नपानवद्वस्तु तस्मिन् भवचतुष्टये॥३७॥



उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैः।

त्रिधाऽन्ये त्रय आरूप्ये आहारस्थितिकं जगत्॥३८॥



कवडीकार आहारः कामे त्र्यायतनात्मकः।

न रूपायतनं तेन स्वाक्षमुक्ताननुग्रहात्॥३९॥



स्पर्शंचेतनाविज्ञा आहाराः सास्रवास्त्रिषु।

मनोमयः संभवैषी गन्धर्वश्चान्तराभवः॥४०॥



निर्वृत्तिश्च इह पुष्ट्यर्थमाश्रयाश्रितयोर्द्वयम्।

द्वयमन्यभवाक्षेपनिवृत्त्यर्थ यथाक्रमम्॥४१॥



छेदसंधान वैराग्यहानिच्युत्युपपत्तयः।

मनोविज्ञान एवेष्टाः उपेक्षायां च्युतोद्भवौ॥४२॥



नैकाग्राचित्तयोरेतौ निर्वात्यव्याकृतद्वये।

क्रमच्युतौ पादनाभिहृदयेषु मनश्च्युतिः॥४३॥



अधोनृसुरगाजानां मर्मच्छेदस्त्वबादिभिः।

सम्यङ् मिथ्यात्वनियता आर्यानन्तर्यकारिणः॥४४॥



तत्र भाजनलोकस्य संनिवेशमुशन्त्यधः।

लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम्॥४५॥



अपामेकादशोद्वेधं सहस्राणि च विंशतिः।

अष्टलक्षौच्छ्रयं पश्चाच्छेषं भवति काञ्चनम्॥४६॥



तिर्यक् त्रीणि सहस्राणि सार्धं शतचतुष्टयम्।

लक्षद्वादशकं चैव जलकाञ्चनमण्डलम्॥४७॥



समन्ततस्तु त्रिगुणं तत्र मेरूर्युगन्धरः।

ईशाधारः खदिरकः सुदर्शनगिरिस्तथा॥४८॥



अश्वकर्णो विनितको निमिन्धरगिरिः ततः।

द्वीपाः बहिश्चक्रवाडः सप्त हैमाः स आयसः॥४९॥



चतूरत्नमयो मेरुः जलेऽशीतिसहस्रके।

मग्नाः ऊर्ध्व जलात् मेरुर्भूयोऽशीतिसहस्रकः॥५०॥



अर्धार्धहानिरष्टासु समोच्छ्रायघनाश्च ते।

शीताः सप्तान्तराण्येषां आद्याशीतिसहस्रिका॥५१॥



आभ्यन्तरः समुद्रोऽसौ त्रिगुणः स तु पार्श्वतः।

अर्धार्धेनापराः शीताः शेषं बाह्यो महोदधेः॥५२॥



लक्षत्रयं सहस्राणि विंशतिर्द्वे च तत्र तु।

जम्बूद्वीपो द्विसाहस्रस्त्रिपार्श्वः शकटाकृतिः॥५३॥



सार्धत्रियोजनं त्वेकं प्राग्विदेहोऽर्धचन्द्रवत्।

पार्श्वत्रयं तथाऽस्य एकं सार्धं त्रिशतयोजनम्॥५४॥



गोदानीयः सहस्राणि सप्त सार्धानि मण्डलः।

सार्धे द्वे मध्यमस्य अष्टौ चतुरस्रः कुरुः समः॥५५॥



देहा विदेहाः कुरवः कौरवाश्चामरावराः।

अष्टौ तदन्तरद्वीपा गाठा उत्तरमन्त्रिणः॥५६॥



इहोत्तरेण कीटाद्रि नवकाद्धिमवान् ततः।

पञ्चाशद्विस्तृतायामं सरोऽर्वाग्गन्धमादनात्॥५७॥



अधः सहस्रैर्विशत्या तन्मात्रोऽवीचिरस्य हि।

तदूर्ध्वं सप्त नरकाः सर्वेऽष्टौ षोडशोत्सदाः॥५८॥



कुकूलं कुणपं चाथ क्षुरमार्गादिकं नदी।

तेषां चतुर्दिशं शीता अन्येऽष्टावर्वुदादयः॥५९॥



अर्धेन मेरोश्चन्द्रार्कौ पञ्चाशत्सैकयोजनौ।

अर्धरात्रो ऽस्तंगमनं मध्यान्ह उदयः सकृत॥६०॥



प्रावृण्मासे द्वितीयेऽन्त्यनवम्यां वर्धते निशा।

हेमन्तानां चतुर्थे तु हीयते अहर्विपर्ययात्॥६१॥



लवशो रात्र्यहर्वृद्धी दक्षिणोत्तरगे रवौ।

स्वच्छाययाऽर्कसामीप्याद्विकलेन्दुसमीक्षणम्॥६२॥



परिषण्डाश्चतस्रोऽस्य दशसाहस्रिकान्तराः।

षोडशाष्टौ सहस्राणि चत्वारि द्वे च निर्गताः॥६३॥



करोटपाणयस्तासु मालाधारास्सदामदाः।

महाराजिकदेवाश्च पर्वतेष्वपि सप्तसु॥६४॥



मेरुमूर्ध्नि त्रयस्त्रिंशाः स चाशीतिसहस्रदिक्।

विदिक्षु कूटाश्चत्वार उषिता वज्रपाणिभिः॥६५॥



मध्ये सार्धद्विसाहस्रपार्श्वमध्यर्धयोजनम्।

पुरं सुदर्शनं नाम हैमं चित्रतलं मृदु॥६६॥



सार्धद्विशतपार्श्वोऽत्र वैजयन्तः बहिः पुनः।

तच्चैत्ररथपारुष्यमिश्रनन्दनभूषितम्॥६७॥



विंशत्यन्तरितान्येषां सुभूमीनि चतुर्दिशम्।

पूर्वोत्तरे पारिजातः सुधर्मा दक्षिणावरे॥६८॥



तत ऊर्ध्व विमानेषु देवाः कामभुजस्तु षट्।

द्वंद्वालिंङ्गनपाण्याप्तिवसितेक्षितमैथुनाः॥६९॥



पञ्चवर्षोपमो यावत् दशवर्षोपमः शिशुः।

संभवत्येषु संपूर्णाः सवस्त्राश्चैव रूपिणः॥७०॥



कामोपपत्तयस्तिस्त्रः कामदेवाः समानुषाः।

सुखोपपत्तयस्तिस्त्रो नवत्रिध्यानभूमयः॥७१॥



स्थानात् स्थानदधो यावत्तावदूर्ध्वं ततस्ततः।

नोर्ध्व दर्शनमस्त्येषामन्यत्रर्द्धिपराश्रयात्॥७२॥



चतुर्द्वीपकचन्द्रार्कमेरुकामदिवौकसाम्।

ब्रह्मलोकसहस्रं च साहस्रश्चूडिको मतः॥७३॥



तत्सहस्रं द्विसाहस्रो लोकधातुस्तु मध्यमः।

तत्सहस्रं त्रिसाहस्रः समसंवर्तसंभवः॥७४॥



जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तकाः।

द्विगुणोत्तरवृद्धया तु पुर्वगोदोत्तराव्हयाः॥७५॥



पादबृद्धया तनुर्याव त्सार्धक्रोशो दिवौकसाम्।

कामिनां रूपिणां त्वादौ योजनार्धं ततः परम्॥७६॥



अर्धार्धवृद्धि ऊर्ध्व तु परीत्ताभेभ्य आश्रयः।

द्विगुणद्विगुणा हित्वाऽनभ्रकेभ्य स्त्रियोजनम्॥७७॥



सहस्रामायुः कुरुषु द्वयोरर्धार्धवर्जितम्।

इहानियतम् अन्ते तु दशाब्दाः आदितोऽमितम्॥७८॥



नृणां वर्षाणि पञ्चाशदहोरात्रो दिवौकसाम्।

कामेऽधराणां तेनायुः पञ्चवर्षशतानि तु॥७९॥



द्विगुणोत्तरमुर्ध्वानामुभयं रूपिणां पुनः।

नास्त्यहोरात्रमायुस्तु कल्पैः स्वाश्रयसंमितैः॥८०॥



आरूप्ये विंशतिः कल्पसहस्राण्य धिकाधिकम्।

महाकल्पः परीत्ताभात् प्रभृत्यधर्मधस्ततः॥८१॥



कामेदेवायुषा तुल्या अहोरात्रा यथाक्रमम्।

संजीवादिषु षट्‍सु आयुस्तैस्तेषां कामदेववत्॥८२॥



अर्धं प्रतापने अवीचावन्तःकल्पं परं पुनः।

कल्पं तिरश्चां प्रेतानां मासान्हा शतपञ्चकम्॥८३॥



वाहाद्वर्षशतेनैकतिलोद्धारक्षयायुषः।

अर्वुदा द्विंशतिगुणप्रतिवृद्धयायुषः परे॥८४॥



कुरुबाह्योऽन्तरामृत्युः परमाण्वक्षरक्षणाः।

रूपनामाध्वपर्यन्ताः परमाणुरणुस्तथा॥८५॥



लोहाप्‍शशा विगोच्छिद्ररजोलिक्षास्तदुद्‍भवाः।

यवस्तथाङ्‍गुलीपर्व ज्ञेयं सप्तगुणोत्तरम्॥८६॥



चतुर्विशतिरङ्‍गुल्यो हस्तो हस्तचतुष्टयम्।

धनुः पञ्चशतान्येषां क्रोशो रण्यं च तन्मतम्॥८७॥



तेऽष्टौ योजनमित्याहुः विंशं क्षणशतं पुनः।

तत्क्षणः ते पुनः षष्टिर्लवः त्रिंशद् गुणोत्तराः॥८८॥



त्रयो मुहूर्त्ताहोरात्रमासाः द्वादशमासकः।

संवत्सरः सोनरात्रः कल्पो बहुविधः स्मृतः॥८९॥



संवर्त्तकल्पो नरकसंभवात् भाजनक्षयः।

विवर्तकल्पः प्राग्वायोर्यावन्नरक संभवः॥९०॥



अन्तः कल्पोऽमितात् यवद्दशवर्षायुषः ततः।

उत्कर्षा अपकर्षाश्च कल्पा अष्टा दशापरे॥९१॥



उत्कर्ष एकः तेऽशीतिसहस्राद्यावदायुषः।

इति लोको विवृत्तोऽयं कल्पाँस्तिष्ठति विंशतिम्॥९२॥



विवर्ततेऽथ संवृत्त आस्ते संवर्तते समम्।

ते ह्यशीतिर्महाकल्पः तदसंख्यत्रयोद्भवम्॥९३॥



बुद्धत्वम् अपकर्षे हि शताद्यावत्तदुद्भवः।

द्वयोः प्रत्येकबुद्धानां खड्गः कल्पशतान्वयः॥९४॥



चक्रवर्तिसमुत्पत्तिर्नाधोऽशीतिसहस्रकात्।

सुवर्णरूप्यताम्रायश्चक्रिणः तेऽधरक्रमात्॥९५॥



एकद्वित्रिचतुर्द्वीपाः न च द्वौ सह बुद्धवत्।

प्रत्युद्यानस्वयंयान कलहास्त्रजितः अवधाः॥९६॥



देशस्थोत्तप्तपूर्णत्वैर्लक्षणातिशयो मुनेः।

प्रागासन् रूपिवत् सत्त्वाः रसरागात्ततः शनैः॥९७॥



आलस्यात्संनिधिं कृत्वा साग्रहैः क्षेत्रपो भृतः।

ततः कर्मपथाधिक्यादपह्रासे दशायुषः॥९८॥



कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमः।

दिवसान् सप्त मासांश्च वर्षाणि च यथाक्रमम्॥९९॥



संवर्तन्यः पुनस्तिस्त्रो भवन्त्यग्न्यम्बुवायुभिः।

ध्यानत्रयं द्वितीयादि शीर्ष तासां यथाक्रमम्॥१००॥



तदपक्षालसाधर्म्यात् न चतुर्थेऽस्त्यनिञ्जनात्।

न नित्यं सह सत्त्वेन तद्विमानोदयव्ययात्॥१०१॥



सप्ताग्निना अद्भिरेका एवं गतेऽभ्दिः सप्तके पुनः।

तेजसा सप्तकः पश्चाद्वायुसंवर्तनी ततः॥१०२॥



अभिधर्मकोशभाष्ये लोकनिर्देशो नाम

तृतीयं कोशस्थानम्

समाप्तमिति।



श्रीलामावाकस्य

यदत्र पुण्यम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project