Digital Sanskrit Buddhist Canon

द्वितीयं कोशस्थानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dvitīyaṁ kośasthānam

द्वितीयं कोशस्थानम्



चतुर्ष्वर्थेषु पञ्चानामाधिपत्यं द्वयोः किल।

चतुर्ण्णां पञ्चकाष्टानां संक्लेशव्यवदानयोः॥१॥



स्वार्थोपलब्ध्याधिपत्यात् सर्वस्य च षडिन्द्रियम्।

स्त्रीत्वपुंस्त्वाधिपत्यात्तु कायात् स्त्रीपुरुषेन्द्रिये॥२॥



निकायस्थितिसंक्लेशव्यवदानाधिपत्यतः।

जीवितं वेदनाः पञ्च श्रद्धाद्याश्चेन्द्रियं मताः॥३॥



आज्ञास्याम्याख्यमाज्ञाख्यमाज्ञातावीन्द्रियं तथा।

उत्तरोत्तरसंप्राप्तिनिर्वाणाद्याधिपत्यतः॥४॥



चित्ताश्रयस्तद्विकल्पः स्थितिः संक्लेश एव च।

संभारो व्यवदानं च यावता तावदिन्द्रियम्॥५॥



प्रवृत्तेराश्रयोत्पत्तिस्थितिप्रत्युपभोगतः।

चतुर्दश तथाऽन्यानि निवृत्तेरिन्द्रियाणि वा॥६॥



दुःखेन्द्रियमशाता या कायिकी वेदना सुखम्।

शाता ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम्॥७॥



अन्यत्र सा सौमनस्यं अशाता चैतसी पुनः।

दौर्मनस्यमुपेक्षा तु मध्या उभयी अविकल्पनात्॥८॥



दृग्भावनाऽशैक्षपथे नव त्रीणि अमलं त्रयम्।

रूपीणि जीवितं दुःखे सास्रवाणि द्विधा नव॥९॥



विपाको जीवितं द्वेधा द्वादश अन्त्याष्टकादृते।

दौर्मनस्याच्च तत्त्वेकं सविपाकं दश द्विधा॥१०॥



मनोऽन्यवित्तिश्रद्धादीनि अष्टकं कुशलं द्विधा।

दौर्मनस्यं मनोऽन्या च वित्तिस्त्रेधा अन्यदेकधा॥११॥



कामाप्तममलं हित्वा रूपाप्तं स्त्रीपुमिन्द्रिये।

दुःखे च हित्वा आरूप्याप्तं सुखे चापोह्य रूपि च॥१२॥



मनोवित्तित्रयं त्रेधा द्विहेया दुर्मनस्कता।

नव भवनया पञ्च त्वहेयान्यपि न त्रयम्॥१३॥



कामेष्वादौ विपाको द्वे लभ्यते नोपपादुकैः।

तेः षड् वा सप्त वा अष्टौ वा षड् रूपेषु एकमुत्तरे॥१४॥



निरोधयत्युपरमान्नारूप्ये जीवितं मनः।

उपेक्षां चैव रूपेऽष्टौ कामे दश नवाष्टौ वा॥१५॥



क्रममृत्यौ तु चत्वारि शुभे सर्वत्र पञ्च च।

नवाप्तिरन्त्यफलयोः सप्ताष्टनवभिर्द्वयोः॥१६॥



एकादशभिरर्हत्त्वमुक्तं त्वेकस्य संभवात्।

उपेक्षजीवितमनोयुक्तोऽवश्यं त्रयान्वितः॥१७॥



चतुर्भिः सुखकायाभ्यां पञ्चभिश्चक्षुरादिमान्।

सौमनस्यी च दुःखी तु सप्तभिः स्त्रीन्द्रियादिमान्॥१८॥



अष्टाभिः एकादशभिस्त्वाज्ञाज्ञाते न्द्रियान्वितः।

आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वितः॥१९॥



सर्वाल्पैर्निःशुभोऽष्टाभिर्विन्मनःकायजीवितैः।

युक्तः बालस्तथारूप्ये उपेक्षायुर्मनःशुभैः॥२०॥



बहुभिर्युक्त एकान्नविंशत्याऽमलवर्जितैः।

द्विलिङ्गः आर्यो रागी एकलिङ्गद्वयमलवर्जितैः॥२१॥



कामेऽष्टद्रव्यकोऽशब्दः परमाणुरनिन्द्रियः।

कायेन्द्रियी नवद्रव्यः दशद्रव्योऽपरेन्द्रियः॥२२॥



चित्तं चैत्ताः सहावश्यं सर्व संस्कृतलक्षणैः।

प्राप्त्या वा पञ्चधा चैत्ता महाभूम्यादिभेदतः॥२३॥



वेदना चेतना संज्ञा च्छन्दः स्पर्शो मतिः स्मृतिः।

मनस्कारोऽधिमोक्षश्च समाधिः सर्वचेतसि॥२४॥



श्रद्धाऽप्रमादः प्रश्रब्धिरुपेक्षा ह्रीरपत्रपा।

मूलद्वयमहिंसा च वीर्यं च कुशले सदा॥२५॥



मोहः प्रमादः कौशीद्यमाश्रद्धयं स्त्यानमुद्धवः।

क्लिष्टे सदैव अकुशले त्वाह्रीक्यमनपत्रपा॥२६॥



क्रोधोपनाहशाठ्येर्ष्याप्रदासम्रक्षमत्सराः।

मायामदविहिंसाश्च परीत्तक्लेशभूमिकाः॥२७॥



सवितर्कविचारत्वात् कुशले कामचेतसि।

द्वांविंशतिश्चैतसिकाः कौकृत्यमधिकं क्वचित्॥२८॥



आवेणिके त्वकुशले दृष्टियुक्ते च विंशतिः।

क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः॥२९॥



निवृतेऽष्टादश अन्यत्र द्वादशाव्याकृते मताः।

मिद्धं सर्वाविरोधित्वाद्यत्र स्यादधिकं हि तत्॥३०॥



कौकृत्यमिद्धाकुशलान्याद्ये ध्याने न सन्त्यतः।

ध्यानान्तरे वितर्कश्च विचारश्चाप्यतः परम्॥३१॥



अह्रीरगुरुता अवद्ये भयादर्शित्व मत्रपा।

प्रेम श्रद्धा गुरुत्वं ह्रीः ते पुनः कामरूपयोः॥३३॥



वितर्कचारा वौदार्यसूक्ष्मते मान उन्नतिः।

मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतसः॥३३॥



चित्तं मनोऽथ विज्ञानमेकार्थं चित्तचैतसाः।

साश्रया लम्बनाकाराः संप्रयुक्ताश्च पञ्चधा॥३४॥



विप्रयुक्तास्तु संस्काराः प्राप्त्यप्राप्ती सभागता।

आसंज्ञिकं समापत्ती जीवितं लक्षणानि च॥३५॥



नामकायादयश्चेति प्राप्तिर्लाभः समन्वयः।

प्राप्त्यप्राप्ती स्वसंतान पतितानां निरोधयोः॥३६॥



त्रैयध्विकानां त्रिविधा शुभादीनां शुभादिका।

स्वधातुका तदाप्तानां अनाप्तानां चतुर्विधा॥३७॥



त्रिधा नशैक्षाऽशैक्षाणां अहेयानां द्विधा मता।

अव्याकृताप्तिः सहजा अभिज्ञानैर्माणिकादृते॥३८॥



निवृतस्य च रूपस्य कामे रूपस्य नाग्रजा।

अक्लिष्टाव्याकृताऽप्राप्तिः साऽतीताजातयोस्त्रिधा॥३९॥



कामाद्याप्तामलानां च मार्गस्याप्राप्तिरिष्यते।

पृथग्जनत्वम् तत्प्राप्तिभूसंचाराद् विहीयते॥४०॥



सभागता सत्त्वसाम्यं आसंज्ञिकमसंज्ञिषु।

निरोधश्चित्तचैत्तानां विपाकः ते बृहत्फलाः॥४१॥



तथाऽसंज्ञिसमापत्तिः ध्यानेऽन्त्ये निःसृतीच्छया।

शुभा उपपद्यवेद्यैव नार्यस्य एकाध्विकाप्यते॥४२॥



निरोधाख्या तथैवेयं विहारार्थं भवाग्रजा।

शुभा द्विवेद्याऽनियता च आर्यस्य आप्या प्रयोगतः॥४३॥



बोधिलभ्या मुनेः न प्राक् चतुस्त्रिंशत्‍क्षणाप्तितः।

कामरूपाश्रये भूते निरोधाख्यादितो नृषु॥४४॥



आयुर्जीवितम् आधार ऊष्मविज्ञायोर्हि यः।

लक्षणानि पुनर्जातिर्जरा स्थितिरनित्यता॥४५॥



जातिजात्यादयस्तेषां तेऽष्टधर्मैकवृत्तयः।

जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना॥४६॥



नामकायादयः संज्ञावाक्याक्षरसमुक्तयः।

कामरूपाप्तसत्त्वाख्या निःष्यन्दाव्याकृताः तथा॥४७॥



सभागता सा तु पुनर्विपाकोऽपि आप्तयो द्विधा।

लक्षणानि च निःष्यन्दाः समापत्त्य समन्वयाः॥४८॥



कारणं सहभूश्चैव सभागः संप्रयुक्तकः।

सर्वत्रगो विपाकाख्यः षड्‍विधो हेतुरिष्यते॥४९॥



स्वतोऽन्ये कारणं हेतुः सहभूर्ये मिथःफलाः।

भूतवच्चित्तचित्तानुवर्तिलक्षणलक्ष्यवत्॥५०॥



चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च।

चित्तानुवर्त्तिनः कालफलादिशुभतादिभिः॥५१॥



सभागहेतुः सदृशाः स्वनिकायभुवः अग्रजाः।

अन्योऽन्यं नवभूमिस्तु मार्गः समविशिष्टयोः॥५२॥



प्रयोगजास्तयोरेव श्रुतचिन्तामयादिकाः।

संप्रयुक्तकहेतुस्तु चित्तचैत्ताः समाश्रयाः॥५३॥



सर्वत्रगाख्यः क्लिष्टानां स्वभूमौ पूर्वसर्वगाः।

विपाकहेतुरशुभाः कुशलाश्चैव सास्रवाः॥५४॥



सर्वत्रगः सभागश्च द्वयध्वगौ त्र्यध्वगास्त्रयः।

संस्कृतं सविसंयोग फलं नासंस्कृतस्य ते॥५५॥



विपाकफलमन्त्यस्य पूर्वस्याधिपतं फलम्।

सभाग सर्वत्रगयोर्निष्यन्दः पौरुषं द्वयोः॥५६॥



विपाकोऽव्याकृतो धर्मः सत्त्वाख्यः व्याकृतोद्भवः।

निःष्यन्दो हेतुसदृशः विसंयोगः क्षयो धिया॥५७॥



यद्वलाज्जायते यत्तत्फलं पुरुषकारजम्।

अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम्॥५८॥



वर्त्तमानाः फलं पञ्च गृण्हन्ति द्वौ प्रयच्छतः।

वर्त्तमानाभ्यतीतौ द्वौ एकोऽतीतः प्रयच्छति॥५९॥



क्लिष्टा विपाकजाः शेषाः प्रथमार्या यथाक्रमम्।

विपाकं सर्वगं हित्वा तौ सभागं च शेषजाः॥६०॥



चित्तचैताः तथाऽन्येऽपि संप्रयुक्तकवर्जिताः।

चत्वारः प्रत्यया उक्ताः हेत्वाख्यः पञ्च हेतवः॥६१॥



चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः।

आलम्बनं सर्वधर्माः कारणाख्योऽधिपः स्मृतः॥६२॥



निरुध्यमाने कारित्रं द्वौ हेतू कुरुतः त्रयः।

जायमाने ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययात्॥६३॥



चतुर्भिश्चत्तचैत्ता हि समापत्तिद्वयं त्रिभिः।

द्वाभ्यामन्ये तु जायन्ते नेश्वरादेः क्रमादिभिः॥६४॥



द्विधा भूतानि तद्धेतुः भौतिकस्य तु पञ्चधा।

त्रिधा भौतिकमन्योन्यं भूतानामेकधैव तत्॥६५॥



कुशलाकुशलं कामे निवृतानिवृतं मनः।

रूपारूप्येष्वकुशलादन्यत्र अनास्रवं द्विधा॥६६॥



कामे नव शुभाच्चित्ताच्चित्तानि अष्टाभ्य एव तत्।

दशभ्योऽकुशलं तस्माच्चत्वारि निवृतं तथा॥६७॥



पञ्चभ्योऽनिवृतं तस्मात्सप्त चित्तान्यनन्तरम्।

रूपे दशैकं च शुभात् नवभ्यस्तदनन्तरम्॥६८॥



अष्टाभ्यो निवृतं तस्मात् षट् त्रिभ्योऽनिवृतं पुनः।

तस्मात् षट् एवामारूप्ये तस्य नीतिः शुभात्पुनः॥६९॥



नव चित्तानि तत् षण्णां निवृतात्सप्त तत्तथा।

चतुर्भ्यः शैक्षम् अस्मात्तु पञ्च अशैक्षं तु पञ्चकात्॥७०॥



तस्माच्चत्वारि चित्तानि द्वादशैतानि विंशतिः।

प्रायोगिकोपपत्त्याप्तं शुभं भित्त्वा त्रिषु द्विधा॥७१॥



विपाकजैर्यापथिकशैल्पस्थानिकनैर्मितम्।

चतुर्धाऽव्याकृतं कामे रूपे शिल्पविवर्जितम्॥७२॥



क्लिष्टे त्रैधातुके लाभः षण्णां षण्णां द्वयोः शुभे।

त्रयाणां रूपजे शैक्षे चतुर्णां तस्य शेषिते॥७३॥



अभिधर्मकोशे इन्द्रियनिर्द्देशो नाम

द्वितीयं कोशस्थानं

समाप्तमिति।

श्रीलामावाकस्य
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project