Digital Sanskrit Buddhist Canon

प्रथमं कोशस्थानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Prathamaṁ kośasthānam

अभिधर्मकोशकारिका



प्रथमं कोशस्थानम्



ॐ नमो बुद्धाय



यः सर्वथासर्वहतान्धकारः

संसारपङ्काज्जगदुज्जहार।

तस्मै नमस्कृत्य यथार्थशास्त्रे

शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम्॥१॥



प्रज्ञाऽमला सानुचराऽभिधर्मः

तत्प्राप्तये यापि च यच्च शास्त्रम्।

तस्यार्थतोऽस्मिन् समनुप्रवेशात्

स चा श्रयोऽस्येत्यभिधर्मकोशम्॥२॥



धर्माणां प्रविचयमन्तरेण नास्ति

क्लेशानां यत उपशान्तयेऽभ्युपायः।

क्लेशैश्च भ्रमति भवार्णवेऽत्र लोक-

स्तद्धेतोरत उदितः किलैष शास्त्रा॥३॥



सास्रवाऽनास्रवा धर्माः संस्कृता मार्गवर्जिताः।

सास्रवाः आस्रवास्तेषु यस्मात्समनुशेरते॥४॥



अनास्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम्।

आकाशं द्वौ निरोधौ च तत्राकाशमनावृतिः॥५॥



प्रतिसंख्यानिरोधो यो विसंयोगः पृथक् पृथक्।

उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसंख्यया॥६॥



ते पुनः संस्कृता धर्मा रूपादिस्कन्धपञ्चकम्।

स एवाध्वा कथावस्तु सनिःसाराः सवस्तुकाः॥७॥



ये सास्रवा उपादानस्कन्धास्ते सरणा अपि।

दुःखं समुदयो लोको दृष्टिस्थानं भवश्च ते॥८॥



रूपं पञ्चेन्द्रियाण्यर्थाः पञ्चाविज्ञप्तिरेव च।

तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः॥९॥



रूपं द्विधा विंशतिधा शब्दस्त्वष्टविधः रसः।

षोढा चतुर्विधो गन्धः स्पृश्यमेकादशात्मकम्॥१०॥



विक्षिप्ताचित्तकस्यापि योऽनुबन्धः शुभाशुभः।

महाभूतान्युपादाय स ह्यविज्ञप्तिरुच्यते॥११॥



भूतानि पृथिविधातुरप्तेजोवायुधातवः।

धृत्यादिकर्मसंसिद्धा खरस्नेहोष्णतेरणाः॥१२॥



पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया।

आपस्तेजश्च वायुस्तु धातुरेव तथापि च॥१३॥



इन्द्रियार्थास्त एवेष्टा दशायतनधातवः।

वेदनाऽनुभवः संज्ञा निमित्तोद्‍ग्रहणात्मिका॥१४॥



चतुर्भ्योऽन्ये तु संस्कारस्कन्धः एते पुनस्त्रयः।

धर्मायतनधात्वाख्याः सहाविज्ञप्त्यसंस्कृतै॥१५॥



विज्ञानं प्रतिविज्ञप्तिः मन आयतनं च तत्।

धातवः सप्त च मताः षड् विज्ञानान्यथो महः॥१६॥



षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः।

षष्ठाश्रयप्रसिद्धयर्थं धतवोऽष्टादश स्मृताः॥१७॥



सर्वसंग्रह एकेन स्कन्धेनायतनेन च

धातुना च स्वभावेन परभाववियोगतः॥१८॥



जातिगोचरविज्ञानसामान्यादेकधातुता।

द्वित्वेऽपि चक्षुरादीनां शोभार्थ तु द्वयोभ्दवः॥१९॥



राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातवः।

मोहेन्द्रियरूचित्रैधात्तिस्त्रः स्कन्धादिदेशनाः॥२०॥



विवादमूलसंसारहेतुत्वात् क्रमकारणात्।

चैत्तेभ्यो वेदनासंज्ञे पृथक्‍स्कन्धौ निवेशितौ॥२१॥



स्कन्धेष्व संस्कृतं नोक्तमर्थायोगात् क्रमः पुनः।

यथौदारिकसंक्लेसभाजनाद्यर्थधातुतः॥२२॥



प्राक् पञ्च वार्त्तमानार्थ्यात् भौतिकार्थ्याच्चतुष्टयम्।

दूराशुतरवृत्त्याऽन्यत् यथास्थानं क्रमोऽथवा॥२३॥



विशेषणार्थं प्राधान्यब्दहुधर्माग्रसंग्रहात्।

एकमायतनं रूपमेकं धर्माख्यमुच्यते॥२४॥



धर्मस्कन्धसहस्राणि यान्यशीतिं जगौ मुनिः।

तानि वाङ्नाम वेत्येषां रूपसंस्कारसंग्रहः॥२५॥



शास्त्रप्रमाणा इत्येके स्कन्धादीनां कथैकशः।

चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णितः॥२६॥



तथाऽन्येऽपि यथायोगं स्कन्धायतनधातवः।

प्रतिपाद्या यथोक्तेषु संप्रधार्य स्वलक्षणम्॥२७॥



छिद्रमाकाशधात्वाख्यम् आलोकतमसी किल।

विज्ञानधातुर्विज्ञानं सास्रवं जन्मनिश्रयाः॥२८॥



सनिदर्शन एकोऽत्र रूपं सप्रतिघा दश।

रूपिणः अव्याकृता अष्टौ त एवारूपशब्दकाः॥२९॥



त्रिधाऽन्ये कामधात्वाप्ताः सर्वे रूपे चतुर्दश।

विना गन्धरसघ्राणजिव्हाविज्ञानधातुभिः॥३०॥



आरूप्याप्ता मनोधर्ममनोविज्ञानधातवः।

सास्रवानास्रवा एते त्रयः शेषास्तु सास्रवाः॥३१॥



सवितर्कविचारा हि पञ्च विज्ञानधातवः।

अन्त्यास्त्रयस्त्रिप्रकाराः शेषा उभयवर्जिताः॥३२॥



निरूपणानुस्मरणविकल्पेनाविकल्पकाः।

तौ प्रज्ञामानसी व्यग्रा स्मृतिः सर्वैव मानसी॥३३॥



सप्त सालम्बनाश्चित्तधातवः अर्धं च धर्मतः।

नवानुपात्ता ते चाष्टौ शब्दश्च अन्ये नव द्विधा॥३४॥



स्प्रष्टव्यं द्विविधं शेषा रूपिणो नव भौतिकाः।

धर्मधात्वेकदेशश्च संचिता दश रूपिणः॥३५॥



छिनत्ति छिद्यते चैव बाह्यं धातु चतुष्टयम्।

दह्यते तुलयत्येवं विवादो दग्‍धृतुल्ययोः॥३६॥



विपाकजौपचयिकाः पञ्चाध्यात्मं विपाकजः।

न शब्दः अप्रतिघा अष्टौ नैःष्यन्दिक विपाकजाः॥३७॥



त्रिधाऽन्ये द्रव्यवानेकः क्षणिकाः पश्चिमास्त्रयः।

चक्षुर्विज्ञानधात्वोः स्यात् पृथक् लाभः सहापि च॥३८॥



द्वादशाध्यात्मिकाः हित्वा रूपादीन् धर्मसंज्ञकः।

सभागः तत्सभागाश्च शेषाः यो न स्वकर्मकृत्॥३९॥



दश भावनया हेयाः पञ्च च अन्त्यास्त्रयस्त्रिधा।

न दृष्टिहेयमक्लिष्टं न रूपं नाप्यषष्ठजम्॥४०॥



चक्षुश्च धर्मधातोश्च प्रदेशौ दृष्टिः अष्टधा।

पञ्चविज्ञानसहजा धीर्न दृष्टिरतीरणात्॥४१॥



चक्षुः पश्यति रूपाणि सभागं न तदाश्रितम्।

विज्ञानं दृश्यते रूपं न किलान्तरितं यतः॥४२॥



उभाभ्यामपि चक्षुर्भ्यां पश्यति व्यक्तदर्शनात्।

चक्षुःश्रोत्रमनोऽप्राप्तविषयं त्रयमन्यथा॥४३॥



त्रिभिर्घ्राणादिभिस्तुल्यविषयग्रहणं मतम्।

चरमस्याश्रयोऽतीतः पञ्चानां सहजश्च तैः॥४४॥



तद्विकारविकारित्वादाश्रयाश्चक्षुरादयः।

अतोऽसाधारणत्वाद्धि विज्ञानं तैर्निरुच्यते॥४५॥



न कायस्याधरं चक्षुः ऊर्ध्वं रूपं न चक्षुषः।

विज्ञानं च अस्य रूपं तु कायस्योभे च सर्वतः॥४६॥



तथा श्रोत्रं त्रयाणां तु सर्वमेव स्वभूमिकम्।

कायविज्ञानमधरस्वभूमि अनियतं मनः॥४७॥



पञ्च बाह्या दिविज्ञेयाः नित्या धर्मा असंस्कृताः।

धर्मार्धमिन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृताः॥४८॥



अभिधर्मकोशभाष्ये धातुनिर्देशो नाम

प्रथमं कोशस्थानं समाप्तमिति।



ये धर्मा हेतुप्रभवा हेतुस्तेषां तथागतो ह्यवदत्।

तेषां च यो निरोध एवंवादी महाश्रमणः॥

लिखापितमिदं श्रीलामावाकेनेति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project