Digital Sanskrit Buddhist Canon

सेकोद्देशपञ्जिका

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June 18, 2014
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
सेकोद्देशपञ्जिका

नमः श्रीपरमादिबुद्धाय॥
नत्वादिबुद्धं त्रिभवैकनाथं
संबोधिसत्त्वं सहधर्मसंघम्।
श्रीमद्गुरोः पादकृतोपदेशात्
सेकादिकोद्देशपदं तनोमि॥
अथ वज्रपाणिनिर्माणकायः सुचन्द्रो राजा परमादिबुद्धतन्त्रराजे सेकार्थं भगवन्तं पृच्छति। सुचन्द्र आहेति हे शास्तः सेकः सप्तविध उदकाद्यनुज्ञावसानः। अपरस् त्रिविधः
कलशदिप्रज्ञाज्ञानान्तः। अनुत्तरस् तथेति महामुद्राज्ञानलक्षणम्। लौकिकलोकोत्तरसिद्ध्यर्थम् इति लौकिकसिद्धिर् अकनिष्ठभुवनपर्यन्तम्। लोकोत्तरं च बुद्धत्वं महामुद्राक्षरज्ञानम्।
एतदर्थं संक्षेपात् कथयस्व मे ममेति।
शृण्व् इत्यादि भगवतो वाक्यम् उद्देशसमाप्तिं यावत्। परम् इति महामुद्राक्षरज्ञानम्। नाडीनां वामदक्षिणमध्यमा-

(३७)

दीनाम् संचारो वामदक्षिणमध्यरन्ध्रेषु गमनागमनम्। नाडिसंचारम् आयामम् इति प्राणायामम्। उद्देशात् ते तव कथयामि॥

इदानीम् उद्देशादेः प्रभेदम् आह। उद्देशस् त्रिविधस् तन्त्रे सर्वस्मिन्। तथा निर्देशस् त्रिविधो भवेत्। तदुद्देशनिर्देशयोः प्रभेदम् आह। प्रत्युद्देशो महोद्देश इत्य् उद्देशस्य प्रभेदः। प्रतिनिर्देशकोऽपर इति महानिर्देश आक्षिप्तह्। एतौ च निर्देशस्य प्रभेदौ।

एषां व्यापारम् आह। उद्देश एवेत्यादि। य एवोद्देशः स एव निर्देशः। स च तन्त्रसंगीतिर् उच्यते। अत्र हि निर्देशशब्देन बृहत्तन्त्रसंगीतिर् उच्यते। बृहत्तन्त्रान्त्रर्भृतश् चोद्देशः। स एव हि संगीतिकारकैः पृथक् क्रियते तदान्यतन्त्रो भवति। यथा लक्षाभिधानाद् निर्गतम् अन्यतन्त्राभिधानम्। प्रत्युद्देशश् चेति चकारात्

(३८)

प्रतिशब्दाक्षेपे प्रतिनिर्देश उचयते। द्वयम् एतद् यथाक्रमम् अल्पपञ्जिका बृहत्पञ्जिक। सा च पदमात्रभञ्जिका न सर्वार्थसूचिका।

यतश् तीका सर्वार्थसूचिकेति वक्ष्यते। महोद्देशश् चेति चक्राराद् महच्छब्दाक्षेपे महानिर्देश उच्यते। द्वयम् एतद् यथासंख्यम् अल्पटीका बृहट्टीका चोच्यते।

एवम् इत्य् उक्तक्रमेण षट्कोटिभिः षड्विधैर् अल्पतन्त्रबृहत्तन्त्रसंगीत्यादिकैः शुद्धं परिशुद्धम् आदिबुद्धं कालचक्राभिधानकं स्याद् इति वक्ष्यमाणेन संबन्धः। एवम् वज्रयोगैश् चतुर्विधैर् इति मन्त्रसंस्थानाद्वयलक्षणैः।

(३९)

चतुःसंबोधिभिर् इत्य् एकक्षणाभिसंबोधिभिः पञ्चाकारविंशत्याकारमायाजालाभिसंबोधिलक्षनैः। स्कन्धै रूपवेदनासंज्ञासंस्कारविज्ञानलक्षणैः। धातुभिः पृथिव्यप्तेजोवाय्वाकाशधर्मधातुलक्षणैः। आयतनैर् विषयविषयिभावेन द्वादशभिः। रूपशब्दगन्धरसस्पर्शधर्मधातुलक्षणैः। षट्कुलैश् चक्षुःश्रोत्रघ्राणजिह्वाकायमनोलक्षनैः।
सत्याभ्यां लौकिकलोकोत्तराभ्याम्। कायवाक्चित्तसंशुद्ध्या अभिषेकद्वयं द्वयम् इत्य् उदकमुकुटाभ्यां कायशुद्धम्। पट्टवज्रघण्टाभ्यां वाक्शुद्धम्। माहव्रतनामाभ्यां चित्तशुद्धम्। अनुज्ञया ज्ञानशुद्धिः। अन्यैर् अपरा या शुद्धिः सा धात्वादिशुद्धितः।

(४०)

तद् आह। उदकम् इत्यादि। वज्रघण्टा महाक्षरम् इति वज्रं महाक्षरशुद्धम्। घण्टा बुद्धभाषानवच्छिन्ना। सैवार्केन्द्वेकत्र तयोः शोधनं मध्यमाप्रवाहलक्षणं। कुम्भादयस् तु सेका मण्डलवर्तनम् अन्तरेणापि देयाः। यतः स्तनाङ्गसंस्पर्शात् सुखप्राप्तोपलब्धः।

जनकः सर्वतायिनाम् इति तायिनां पञ्चतथागतानां निरावरणत्वेन जनकः। प्रज्ञा बुद्धिस् तस्या बिम्बैर् ग्राह्यग्राहकाकाररहितमायास्वप्नाभिलाषलक्षणैह्।

अत एवाह। अस्तिनास्तिव्यतिक्रान्तैर् इत्य् अभाव इत्यादि। इह ह्य् आलम्बनं द्विविधम्। प्रत्यक्षपूर्वकं भवेत्। अनुमानपूर्वकं चेत्। तत्र प्रत्यक्षपूर्वकं तद् व्यपगतसकलकल्पनाकलङ्कं सद्गुरुमार्गोपदेशजाततत्त्वयोगाद् गगनेताराचक्रवद् अनेकसंभोगकायं मांसचक्षुर्ग्राह्यम्। प्रथमं मांसचक्षुषादिकर्मियोगि विश्वम् अभिज्ञाम् अन्तरेण पश्यति।

(४१)

ततो दिव्यचक्षुषाभिज्ञावधिवशात्। ततो बुद्धचक्षुषा वीतरागावधिवशात्। ततः प्रज्ञाचक्षुषा बोधिसत्त्वावधिवशात्। ततो ज्ञानचक्षुषा सम्यक्संबुद्धावधिवशात्। सर्वोपधिविनिर्मुक्तितः। एवं तथागतस्य पञ्चचक्षूंषि मांसादीनि शून्यतादर्शनं प्रत्य् उक्तानि। अनुमानपूर्वकम् आलम्बनार्थं तत्त्वतः कल्पनं चित्रादोपदर्शितं बालयोगिनां शून्यतामार्गावतारनार्थम्।

तस्माद् अभावे बिम्बे स्वप्नादिसदृशे या भावनालम्बनं सा योगिनां भावना कल्पना न भवत्य् अकलितहेतूद्भूतत्वात्। अत एव भावो वस्तुरूपः। अभावश् च सर्वोपाख्याविरहलक्षणः। चित्तस्य यतः प्रतिभासमानम् अपह्नोतुं न शक्यते। अणुसंदोहा भावाश् च न गृह्यते प्रतिबिम्बवत्।

एतद् एव दृष्टान्तेनाचष्टे। प्रतिसेनाम् इत्यादि। प्रतिसेनाशब्देन परचिन्तितार्थोऽभिधीयते। ताम् आदर्शे दर्पणेऽवस्तुजां परमाणुसंदोहरहितं पश्येत्। प्रतिसेनावतारतन्त्रे किलदर्पणखड्गाङ्गुष्ठप्रदीपचन्द्रसूर्योदककुण्डनेत्रेष्व् अष्टसु प्रतिसेनावतार उक्तः। तथातीतानागतं धर्मं परिचिन्तितम् अम्बरे

(४२)

शून्ये सर्वाकारबिम्बे तत्त्वयोगी लब्धनिर्विकल्पमार्गः पश्यति।

अस्याः प्रतिसेनाया दृश्यमानाया यो भावः प्रतिभासलक्षणः स न भावः स्यात् तद् वस्तु न भवति। कुत इत्य् आह। वस्तुशून्यार्थदर्शनाद् इति वस्तुना परमाणुसंदोहात्मना शून्योव्यपगतः। स च तस्यार्थः प्रतिभासलक्षणः। तस्य दर्शनाद् निर्विकल्पप्रत्यक्षोपलम्भात्। वस्तुनोऽणुसंदोहात्मकस्याभावतोऽर्थः प्रतिभासलक्षणेऽस्ति। कथं यथा मायास्वप्नेन्द्रजालवत्।

अमुम् एवार्थम् आह। असतीत्यादि। चिन्तामणिर् इवेत्यादि कल्पनापोढत्वम् अभ्रान्तत्वं च ज्ञानस्याह। ननु यद् अनालम्बनं तत् कथं जगदर्थकारि विषयेण विनोत्पत्तिर् इत्य् आह। अदृष्टिम् इत्यादि। साधकाः प्रतिसेनावतारकाः।

(४३)

सद्रूपं पश्यतीत्य् अपि नेत्य् आह। असद्रूपं पश्यतीत्य् अपि नेत्य् आह। यद् अपीत्यादि। अन्यचक्षुर्भ्यां पश्यतीत्य् अपि नेत्य् आह। न पश्यतीत्यादि। स्वचक्षुर्भ्यां तर्हि पश्यतीत्य् आह। स्वचक्षुर्भ्याम् इत्यादि। कुमार्या यद् दृश्यमानम् अजातम् अनुत्पन्नं तत् तस्या जातकं यथोत्पन्नम् इत्य् अर्थः।

प्राणायामम् आह। दृष्ट इति। ईदृशे स्वप्नमायासदृशे बिम्बे दृष्टे सति ततस् तदनन्तरं प्राणायामं पूरककुम्भकरेचकं निरन्तरम् अनवच्छिन्नं कुर्यात्। कास्व् इत्य् आह। ऊर्ध्वेत्यादि। ऊर्ध्वे त्रिनाडी कायवाक्चित्तधर्मिणी। एवम् अधश् च।

तत्र वामे चन्द्रनाडी कायधर्मिणी। दक्षिणेऽर्कनाडी वाग्धर्मिणी। मध्ये राहुनाडी चित्तधर्मिणी। विड्नाडी कायधर्मिणी। मुत्रनाडी वाग्धर्मिणी। शुक्रनाडी चित्तधर्मिणी। चन्द्रनाडी तोयस्वभावा। अर्कनाडी वह्निस्वभावा। राहुनाडी शुन्यस्वभावा। विड्नाडी भूस्वभावा। मूत्रनाडी वायुस्वभावा। शुक्रनाडी ज्ञानस्वभावा।

(४४)

एतद् आह। चन्द्रेत्यादि। प्राणेऽपाने क्रमेण ता इति। प्राणे चन्द्रसूर्यतमिन्यः। अपाने चावशिष्टाः।

आसां षट्कुलकल्पनाम् आह। चन्द्रेत्यादि। चन्द्रस् तोयधातुर् उपायस्य शुक्रधातोः कायो भवति। प्रज्ञाया रजोधातोर् दिवाकरस् तेजोधातुर् वाग् भवति। एवं वक्ष्यमाणेऽपि प्रज्ञोपाययोर् अपरम् एवार्थः। विभोः शुक्रधातोः प्रज्ञोपायाङ्गभावेनेति विषमकुलालिङ्गनेन। प्रज्ञाङ्गभावो ह्य् उपाये भवति सुरतकाले चित्तस्य तदाकारत्वात्। उपायाङ्गभावः प्रज्ञायाम् अप्य् एवम्।

अरिष्टम् अकालमरणलक्षणम् अधिकमारुतैर् भवति। ऊर्ध्वेऽधश् च कयोर् इत्य् आह। कायवाग्नाड्योर् यथायोगं ललनारसनयोः। यदाधो विड्नाडी निरुद्धा भवति तदोर्ध्वे वामनाड्याम् अरिष्टं भवति। यदा मूत्रनाडी निरुद्धा भवति तोदोर्ध्वे दक्षिणनाड्याम् अरिष्टं भवति। एतच् च प्रपञ्चेन वक्ष्यते। तमिनीशुक्रवाहिण्योश् चारिष्टं नास्ति। तमिनीशुक्रवाहिण्योर् मारुत उत्पत्तिर् गर्भाद् निर्गमः। मरणं स्थितिः स्वस्थिता।

एतद् आह। उत्पादेत्यादि। लग्नोदयाभिसंधौ चेति। वाम-

(४५)

लग्नाद् दक्षिणलग्नसंक्रान्तिसंधौ मध्यमा विषुवं वहति। कति श्वासोच्छ्वासान् इत्य् आह। षट्पञ्चाशद् इत्यादि।

दिवानिशम् अहोरात्रे द्वादशसंक्रान्तौ पञ्चसप्तत्यधिकषट्शतश्वासान् मध्यमा वहति। वामा दक्षिना च नाडी पञ्चसप्तत्यधिकषट्शतश्वासोनान् यान् एकविंशतिसहस्रान् षट्शतैर् अधिकांस् तान् वहति। त्रिपक्ष्यधिकत्रिवर्षाणि च शतवर्षे पूर्णे वहति मध्यमा।

वामा सव्या दक्षिणोर्ध्वे प्राणे यथाक्रमेण संज्ञा चन्द्रोऽर्कश् च। ललनेडा चापि पिङ्गलापरेति रसना। तोयतेजःस्वभाविन्याव् इति पूर्ववद् यथाक्रमं पद्मधृग्रत्नधृग्मतेऽमिताभरत्नसंभवाधिदैवते।

अध इत्य् अपाने मध्यमा नाडी चेत्यादिना। विड्मूत्रवाहिन्योर् उपर्य् ऊर्ध्वनाडीद्वयसंचारेण स्वभावम् आह। अयम् अर्थः। ऊर्ध्वे या वामनाडी साधो मध्या विड्नाडी। ऊर्ध्वे या दक्षिणा साधो वामा मूत्रवाहिणी। एते द्वे यथाक्रमं चक्रधृक्खड्गधृग्मते। वैरोचनामोघसिद्धिस्वभावे। ऊर्ध्वे या मध्यमा

(४६)

साधः सव्या शुक्रवाहिणी। एतेऽपि शून्यज्ञानस्वरूपे। अक्षोभ्यवज्रसत्त्वाधिदैवते।

नाभ्यब्जे भुवः पञ्चगुणो गन्धरूपरसस्पर्शशब्दलक्षणः। हृदयाब्जे तोयस्य चतुर्गुणो रूपरसस्पर्शशब्दलक्षणः। कण्ठाब्जेऽग्नेस् त्रिगुणो रूपस्पर्शशब्दलक्षणः। ललाटाब्जे मरुतो द्विगुणः स्पर्शशब्दलक्षणः। उष्णीषाब्जे शून्यस्य शब्दमात्रगुणः।

एतान् गृहीत्वा संहारक्रमेणावधूती निर्गच्छति। सृष्ट्या च शून्यादिना च। क्षितौ नाभिमण्डले विशति।

अधो नाभौ गुह्ये च मण्यब्जे शङ्खिनी कायवाक्चित्तवाहिणी सत्त्वरजस्तमोभेदेन त्रिद्व्येकगुणात्मिका संहारक्रमेण निर्गच्छति। षृष्ट्या विशति। एषा शङ्खिनी स्त्रीणां सुखात् सुरते शुक्रं वहति। ऋतौ रज-उद्भवे रक्तवाहिणी।

प्राणापाननाड्योः प्रज्ञोपायाङ्गभावम् आह। ऊर्ध्व इत्यादि। ऊर्ध्वे प्राणे सव्यावसव्ययोर् वामदक्षिणयोः प्रज्ञोपायाङ्गभावोऽधोऽपाने। ऊर्ध्वाधो रजःशुक्रप्रवाहयोः।

(४७)

याधः स्त्रीणां खगमुखा शुक्रवाहतः सैव यदा रजो वहति तदा चण्डाली भवति। तस्मिन्न् एव चर्तुकाले स्त्रीणाम् ऊर्ध्वनाडी डोम्बी भवति। अत्रोभयथापि स्त्रियोऽस्पृश्याः। पुंसः पुरुषस्य त्व् ऋतुकाले शुक्रागमनकाले सैव डोम्ब्य् अवधूती स्यात्।

वामदक्षिणनासापुटयोर् मण्डलोदयम् आह। विज्ञानाद्यम् इत्यादि। विज्ञानाद्यम् आकाशाद्यं सृष्टिक्रमेण। भूम्याद्यं संहारक्रमेण। मध्ये मध्यमामार्गे षष्ठं ज्ञानमण्डलम् आकाशादिपञ्चमण्डलात् प्रत्येकमण्डलस्य सपादैकादशश्वासान् गृहीत्वा सपादषट्पञ्चाशतश्वासात्मकं वहति।

आसां वामदक्षिणमध्यनाडीनाम् अहोरात्रेण यथाक्रमं नाभिपद्मे द्वादशदलात्मके षष्टिमण्डलानि। वामे च लग्ने विषमे मेषाद्ये दक्षिणलग्ने समे वृषभाद्ये।

तत्र दक्षिणे वृषलग्ने यदा वहति वायुस् तदा मूले नासापुटस्याधोभागे भूमिमण्डलं दण्डैकं वहति। एवं तस्यैव वामभागे तोयमण्डलम्। सव्ये दक्षिणभागे तेजोमण्डलम्। ऊर्ध्वभागे वायुमण्डलम्। मध्ये शून्यमण्डलम्। एवम्

(४८)

उभयोर् नासारन्ध्रयोर् एकैकमण्डलं दण्डाद् वहति। पञ्चभिर् दण्डैः पञ्चमण्डलं वहतीत्य् अर्थः। भूम्याद्यम् इति चोपलक्षणमात्रत्वात्। आकाशाद्यम् अपि गृह्यते।

एका नाडी कति श्वासान् वहतीत्य् आह। नाडिकेत्यादि। क्रमाद् इति क्षामादिना। आकाशादिनायम्। पञ्चभिर् गणिता अष्टादशशतश्वासा भवन्ति। तांश् च पञ्चनाड्यो वहन्ति। अष्टादशशतश्वासांश् च द्वादशसंक्रान्तिभिर् गणिता अहोरात्रेण षट्शताधिकैकविंशतिसहस्रश्वासा भवन्ति।

एतद् आह। षष्टीत्यादि। वामनाड्यां लग्नोदयम् आह। दलमध्य इति यदा वामनाड्यां मेषादिना नासापुटमध्ये शून्यमण्डलं वहति तदाभ्यन्तरेऽपि दलमध्ये वहतीति वक्ष्यते। ततः पूर्व इत्य् ऊर्ध्वे वायुमण्डलं सव्येऽग्निमण्डलम्। वामे तोयमण्डलम्। अपर इत्य् अधोभागे पृथिवीमण्डलम्। क्रमाद् इत्य् आकाशादिक्रमात्। आकाशाद्यम् इत्यादिना पूर्वोक्तम् एवं प्रज्ञपयति।

पञ्चमण्डलानां परस्परं प्रज्ञोपायभेदेनाह। अपर इत्य् अधोमण्डले। पूर्व इत्य् ऊर्ध्वमण्डले यथाक्रमं धरा पृथिवी वायुश् च। अनयोः परस्परं प्रज्ञोपायकारणम् आह।

(४९)

अङ्गुष्ठेत्यादि। आङ्गुष्ठः पृथिवीस्वरूपोऽनामिका वायुस्वरूपा। एताभ्यां परस्परं प्रज्ञोपायत्वं ग्राह्यग्राहकभावेन। तथा हि परकुलालिङ्गनेन कार्योदयो न स्वकुलालिङ्गनेन स्वात्मनि क्रिया विरोधात्। पृथिवीधातूद्भूते हि कायेन्द्रियम्। वायुधातूद्भूतं हि स्पर्श्येन्द्रियं विषयं गृह्णाति। अत उच्यते। अङ्गुष्ठानामिकाभ्याम् इत्यादि।

एवं सव्यवामयोर् अग्नितोययोः प्रज्ञोपायकारणम् आह। सव्येत्यादि। अत्रापि वह्निधातुजनितं रसविषयम्। तोयोधातूद्भूतं रसनेन्द्रियं गृह्णाति। अतो मध्यमातर्जनीद्वाभ्यां खड्गो भविष्यति।

दंष्ट्रा मुद्रा पक्षमुद्रा कृतिः। कर्तरीति कर्तरिका मुद्रा कनीयसी। ते परस्परान्ये। शुन्यमण्डलसंयोग इति वामदक्षिणवाहिनां दशमण्डलानां संयोग एकत्वं मध्यमा-

(५०)

प्रवाहः। ततोऽङ्गुलीनां पृथिव्यादिस्वरूपिणीनां परस्परम्। करतले पुटिते मूर्ध्नि शिरसि कृत एकमुखं वज्रं भवति। अनेनैतद् उपलक्षितम्। मध्यमाप्रवाह योगेनाच्युतसुखेन बोधिचित्तोद्धारितेण सा वज्रशिखायां कर्तव्या। तद् एव कर्तरिकम्। अज्ञानस्य च्छेदनरूपत्वात्।

स्कन्धादि विज्ञानादयः। धातवः पृथिव्यादयः। त्रिवज्राणि कायवाक्चित्तानि। एवम् एकत्वं भवति मध्यमागतौ सत्या। अरिष्टलक्षणम् आह। वामायाम् इत्यादि। वामायां दक्षिणायां वा यथाक्रमेणाधिको वायुर् एकरात्रम्।

सत्त्वक्षयतो वर्षम् एकं न भवति। पुनर् अपरवर्षदशदिनं भवति रजःक्षयार्थम्। पुनर् न वहति। पुनर् अपरवर्षपञ्चदशदिनं भवति तमस्क्षयान्तम्। विंशतिदिनारोहम् आयुर्मासाः षट्। पञ्चविंशतिदिनारोहम् आयुर्मासाः त्रयः। अत्र

(५१)

हि सूर्यश् चन्द्रगुणाञ् शब्दस्पर्शरसरूपगन्धान् गृहीत्वारिष्टदिनानि दर्शयति। ते पञ्च पञ्चकेन पञ्चमी यावद् वृद्धिः। ततः षष्ठसप्तमराशाव् एकोत्तरेण क्रमाद् वृद्धिर् इति। सप्तमे राशौ पौष्णकालः। यत्र प्राणस्य निवृत्तिः कैश्चिद् अपि कर्तुं न शक्यते। शुक्रधाताव् अरिष्टवायुप्रवेशात्। ततः पौष्णकालात् शुक्रधातुक्षयार्थम्। अष्टमपत्रादिषु क्रमेण त्रयस्त्रिंशद्दिनारोहः।

अत्र द्वादशराशिचक्रम्। अविद्याद्वादशाङ्गस्वरूपः पुटो भूम्यादौ लिखित्वा प्रथमपुटे पूर्वादिषु मकरादिजन्मराशिप्रभृताव् अरिष्टदिनावशेषायुषो वर्षमासदिनभेदेन यथाक्रमन्यासम् आह। त्रिद्वीत्यादि। समकैर् वर्षैर् मासैः षट्त्रियुग्मेन्दुभिः। दिनैस् तिथिदिक्पञ्चगुणद्व्येकैश् चैवं देहिनाम् आयुर् गच्छति। द्वितीयपुटं चोद्देशमात्रेणानुगतत्वाद् दिनत्याग उच्यते। पूर्वे जन्मलग्नपत्रे त्रिवर्षाद् अशीत्युत्तरसहस्रदिनगणाद् मकरात् पञ्चत्रिंशदधिकशतदिनगणं त्यजति। ततस् तद् अपत्रं शून्यीकृत्य द्वितीयपत्रेऽवशेषदिनगणं गृहीत्वा प्राणशक्तिः प्रविशति। तत्राप्य् आरोहदिनदिनैः सह पञ्चचत्वारिंशदधिकत्रिशतदिनं त्यजति। ततो द्वितीयपत्रं शून्यीकृत्यावशेषदिनं

(५२)

गृहीत्वा चतुर्थे प्रविशति। तत्राप्य् आरोहणदिनैः सह द्व्यशीतिदिनं त्यजति। ततः पत्रं शून्यीकृत्यावशेषदिनं गृहीत्वा पञ्चमे प्रविशति। तत्राप्य् आरोहणदिनैः सह सप्तपञ्चाशद्दिनं त्यजति। ततः षष्ठेऽवशेषदिनं गृहीत्वा प्रविशति। तत्राप्य् आरोहणदिनैः सहाष्टाविंशद्दिनं त्यजति। ततः षष्ठं शून्यीकृत्य सप्तमे प्रविशति। तत्राप्य् आरोहणदिनैः सह सप्तविंशद्दिनं त्यजति। सप्तमं शून्यीकृत्यावशेषं षड्विंशतिदिनगणं गृहीत्वाष्टमे प्रविशति। तत्र पञ्चदशदिनं त्यजति। अष्टमं शून्यीकृत्यावशेषम् एकविंशतिदिनं गृहीत्वा नवमे प्रविशति। तत्र दशदिनं त्यजति। अवशेषम् एकादशदिनं गृहीत्वा दशमे प्रविशति नवमं शून्यीकृत्य। दशमे पञ्चदिनं त्यक्त्वावशेषदिनं गृहीत्वैकादशमे प्रविशति। तत्र दिनत्रयं त्यजति। तत एकादशमं शून्यीकृत्यावशेषदिनत्रयं गृहीत्वा द्वादशमे प्रविशति। तत्र दिनत्रयं त्यजति। अवशेषं दिनम् एकं गृहीत्वा कर्णिकां प्रविशति। एवम् अशीत्युत्तरसहस्रसंख्यैः

(५३)

सर्वस्य मध्यस्य त्रिवर्षदिनैः प्राणशक्तिर् द्वादशराशिचक्रं त्यजति। ततो विज्ञानम् अपि त्यक्त्वा श्वासचक्रधर्मप्रेरितप्राणवायुर् नासारन्ध्रगत्यन्तरे संभ्रमति।

वामनाड्याम् अरिष्टं दर्शयति। मूलाद् इत्यादि। मूलाद् इति प्राणस्य जन्मराशिदिनाद् एकोत्तरेण चन्द्रस्यारोहणक्रमेण चतुर्मासपक्षभेदादिना। तत्रापि पूर्ववद् द्वादशचक्रं लिखित्वा प्रथमपुटेऽरिष्टदिनं षट्त्रिंशदायुर्मासास् तु द्वितीयपुटे स्थापनीयाः। ततो मासम् एकं न वहति। अरिष्टवृद्धिद्वितीयमासान्ते तृतीयमासप्रवेशे तस्मिन्न् एव पत्रे दिनद्वयं वहति। ततस् तृतीयमासे न वहति। चतुर्थमासान्ते पञ्चममासप्रवेशे दिनत्रयं वहति। एवं षड्मासैर् अरिष्टदिनानि त्रीणि। सामान्यदिनादौ त्रीणि रत्नसव्यवामारिष्टधर्मिणि। एव षट्त्रिंशद्मासेभ्योऽरिष्टदिनसहितेभ्यो जीवितस्य षड्मासा गताः। तस्मिन् पत्रे प्राणवायुर् असंचारः। एवम् अहोरात्रेणैकादशसंक्रान्तिभिः करोति। द्व्ययुतद्वाष्टशतश्वासैः पत्रपरित्यागेऽपि श्वासचक्रस्योनता नास्ति।

(५४)

ततो द्वितीये पुनः सप्ताष्टनवमे च मासे यथासंख्यं चतुष्पञ्चषड्दिनानि वहन्ति। ततस् त्रिंशद्मासराशेर् अपरमास्त्रयं जीवितस्य गतम्। ततः सप्ताविंशतिमासान् गृहीत्वा तृतीयपत्रे संचरति। दशपत्रेषु दशसंक्रान्तिभिर् अहोरात्रं करोति। प्रत्येकमासे यथाक्रमेण सप्ताष्टनवदिनानि वहन्ति। सप्ताविंशतिमासेभ्यो मासत्रयम् ऊनं भवति। एवं यथोक्तविधिना तृतीयराशिपत्रं त्यजति। नवपत्रेषु संक्रमणं करोति। एवं दशदिनम् एकादशदिनं द्वादशदिनं वहति। चतुर्थपत्रं त्यजति। चतुर्विंशतिमासेभ्यो मासत्रयम् ऊनं भवति जीवितस्य। एवं त्रयोदशदिनं चतुर्दशदिनं। ततः पञ्चमं पत्रं त्यजति। सप्तपत्रेषु संक्रान्तिं करोति। एकविंशतिमासेभ्यो मासत्रयम् ऊनं भवति। तथा षोडशसप्तदशाष्टादशदिनानि त्रिमासं यथाक्रमं वहति। षष्ठपत्रं त्यज्य षट्पत्रेषु संक्रान्तिं करोति। अष्टादशमासेभ्यो मासत्रयम् ऊनं जीवितस्य। एकोनविंशत्येकविंशतिदिनानि प्रतिमासं यथाक्रमं वहति। सप्तमराशिं त्यजति। पञ्चराशिषु संक्रान्तिं करोति।

(५५)

पञ्चदशमासेभ्यो मासत्रयम् ऊनं जीवितस्य। एवं द्वाविंशतित्रयोविंशतिचतुर्विंशतिदिनानि यथाक्रमं वहति। अष्टमपत्रं त्यक्त्वा चतुष्पत्रेषु संक्रान्तिं करोति। द्वादशमासेभ्यो मासत्रयम् ऊनं जीवितस्य। एवं पञ्चविंशतिषड्विंशतिसप्तविंशद्दिनानि यदा वहति तदा नवमं पत्रं त्यजति। पत्रत्रयं संक्रान्तिं करोति। नवमासेभ्यो मास्त्रयम् ऊनं जीवितस्य। एवम् अष्टाविंशतित्रिंशतिदिनानि यदा वहति तदा दशमपत्रं त्यजति। पत्रद्वये संक्रान्तिं करोति। षड्मासेभ्यो मासत्रयम् ऊनं जीवितस्य। एकत्रिंशद्दिनं द्वात्रिंशद्दिनं यदा वहति तदैकादशमपत्रं त्यजति। एकपत्रे संक्रान्तिं करोति। त्रिमासेभ्यो नवतिदिनान्य् ऊनीभवन्ति जीवितस्य। ततः पूर्वपत्रेऽवाहितदिनत्रयाद् द्वादशमे पत्रे दिनद्वयं वहति। ततो द्वादशमं पत्रं त्यजति। ततः कर्णिकायाम् एकदिनं वहति। यावत् प्राणस्य स चक्रविच्छेदो भवति वामारिष्टेण मरणम् अयोगिनो यान्ति।

(५६)

मध्यमेत्यादि। मृत्योः कालस्य शतवर्षे पूर्णे मध्यमारोहणं समविषमदिनैर् वृषादिमेषाद्यैर् जन्मजातैश् च मण्डलैः पृथिव्यादिकैः। पक्षद्वयविनाशनाद् दक्षिणवामपक्षक्षयात्। अन्यथेत्यादि सुगमम्।

अरिष्टवञ्चनार्थम् आह। अरिष्टलक्षणम् इत्यादि। प्राणं प्राणवायुं ललाटे न्यसेत्। अवधूतीपदं मध्यमाप्रवाहित्वम्।

अन्यथेत्यादि। यदि तत् प्रकर्शति न भिद्यते। वज्रोत्थानद्वारेणावधूतिमार्गे प्राणमारुतो न विशति।

अधश् चापानवायुः शङ्खिन्यां न विशति। किम् एवं स्याद् इत्य् आह। मरणं तदवेशतस् तयोः प्राणापानवाय्वोर् अवधूत्यां

(५७)

शङ्खिन्यां वाप्रवेशतः। मरणम् एव। आनन्दानां भेदम् आह। शुक्रेत्यादि। उष्णीषात् सकाशाद् ऊर्णापङ्कजे भ्रूमध्ये शुक्रस्यागमनम् आनन्दं प्रथमम्। तस्मात् कण्ठे हृदि परमानन्दं द्वितीयम्। ततो विविधं रमणं क्रीडनगाढालिङ्गनशीत्कार कण्ठकूजनादिलक्षणं नाभौ

(५८)

गुह्ये च गतं बोधिचित्तं विरमानन्दं तृतीयम्। गुह्याद् वज्रमणिपर्यन्तम् अच्युतं बोधिचित्तं सहजानन्दं चतुर्थम्।

तत्र तथाप्रतिष्ठितनिर्वाणं प्रतिष्टितयो रागविरागयोर् अभावात्। सांसारिकरागक्षयार्थम्। महारागो वज्रानञ्गोऽक्षरः प्रभुस् त्रैधातुके विभुः। सर्वेषां तत्पदवाञ्छयाभिमतत्वात्। किं पुनः प्रतिष्ठितनिर्वाणम् इत्य् आह। विरागाद् यद् इत्यादि सुगमम्।

एतद् एव प्रपञ्चेनाह। शुक्रम् एवेन्दुर् अमृतत्वात्। तस्योदय

(५९)

उष्णीषे ललाटे पूर्णा प्रथमानन्दादिभेदेन शुक्रप्रतिपद् द्वितीया तृतीया चतुर्थी पञ्चमी लक्षणा। उद्देशमात्रेणानूक्तत्वात्। कण्ठे हृदये च षष्ठी सप्तम्य् अष्टमी नवमी दशम्य् अपरा पूर्णा। नाभौ गुह्य एकादशी द्वादशी त्रयोदशी चतुर्दशी पञ्चदशी तृतीया पूर्णा। अथेत्य् आनन्दादिभेदेन त्रिपूर्णा गते बोधिचित्ते। गुह्यपद्मा तया बोधिचित्ते गुह्ये गते परमानन्दाद् या षोडशी कला सा मणिपद्मे वज्रमूर्ध्निगा भवति।

तस्माद् ऊर्ध्वं कृष्णप्रतिपदागमे विरागप्रवेशकाले च्युतिकालः स्यात्। ततो विरागतो रविर् ऊर्णास्थानं याति।

अस्य सूर्यस्य षोडशी कलोष्णीषकमले गता सैव नष्टचन्द्र इत्य् आख्यातः। सूर्येण रजोरूपेणाच्छादितत्वात्। अतो रागसौख्यतो विरक्तिर् भवति। अतस् तद् वर्जनीयम्।

मरणे मरणकाले सर्वदेहिनां देवासुरमनुष्याणां

(६०)

चन्द्रामृतं बोधिचित्तम्। अधः शुक्रमार्गेण याति। सूर्य एव रजो रजोधर्मित्वाद् ऊर्ध्वे याति। राहुविज्ञानम् अविद्याप्राणसवलितविज्ञानं भावलक्षणे सुखदुःखादिकर्मलक्षणे।

यत एवम् अतोऽस्मात् कारणाच् चन्द्रामृतस्य शुक्रधातोर् ऊर्ध्वम् उपरि गमनम् उपदेशतः। अधश् चार्करजसो गमनं राहुलक्षणस्य विज्ञानस्याक्षरसुखं गमनं कर्तव्यम् इति।

एतच् च भगवताचरितम् इत्य् आदर्शयति। ऊर्णेत्यादि। चन्द्रामृतस्य शुक्रधातोः पूर्णिमा पूर्णत्वं बुद्धानाम् ऊर्णाब्जे भवति। अर्करजसोऽमावासी गुह्ये भवति। तयोः पूर्णिमामावास्योः कला यथाक्रमेणोष्णीषे वज्रमणौ च बुद्धानाम् इति।

(६१)

तद् उक्तं नामसंगीत्याम्।
एकपादतलाक्रान्तो महीमण्डतले स्थितः।
ब्रह्माण्डशिखराक्रान्तः पादाङ्गुष्ठनखे स्थितः॥ इति।

वज्रपदं ज्ञानपदं विपरीतम् इति प्रतिष्ठितम् इत्य् अर्थः। अप्रतिष्ठितं पुनर् एदृशम् इत्य् आह। अप्रतिष्ठेत्यादि। धातवः पृथिव्यादयोऽविपरीतम् निरावरणत्वं यान्ति। अन्ये ते धातवोऽभेद्याः।

शिरसो लम्बिकानां कायवाक्चित्तज्ञानबिन्दूनाम् ऊर्ध्वे क्रमेणाक्षरसुखपूरितानां चतुष्कायविशुद्धिम् आह। मणाव् इत्यादि। महासुखाद् इति वज्राग्राद् विपरीतेण यः कायबिन्दुः स तुर्याक्षयतः शुद्धकायः। स च वज्राग्रे स्थितः। तस्माद् मणौ चित्तं सुषुप्तक्षयतः। गुह्ये वाक् स्वप्नक्षयतः। नाभौ कायो जाग्रदवस्थाक्षयत इति। एते च धर्मसंभोगनिर्माणकायाः शुद्धकायात् स्फरन्ति।

(६२)

अध-उपायस्येत्य् अधो वज्राग्राद् यत् स्फरणं कायानां तद् उपायश् च प्रज्ञायाः पुनर् ऊर्ध्वतो भवेत्। तद् दर्शयति। ललाट इत्यादि। अस्याः प्रज्ञायाः कायवज्रो ललाटे पूर्ववद् विपरीतेण। एवं कण्ठे हृद्नाभिपङ्कजे यथाक्रमेण वाक्चित्तज्ञानवज्राणि। एतेन निर्माणाद्याः स्फरन्तीति।

अक्षरसुखवृद्ध्यर्थम् आह। कर्मेत्यादि। ननु चन्द्रस्य सर्वदा वृद्ध्या भवितव्यम् इत्य् आह। न हि वृद्धिः स्याद् इति। तथा हि यो वृद्धस् तेनावश्यं क्षयिणा भवितव्यम् अन्यथा नित्यताप्रसङ्गः। न च नित्योऽर्थः कश्चिद् अस्ति येन तस्य नित्यत्वं परिकल्पनीयम्। उत्पादव्ययधर्मित्वात् सर्वधर्माणाम्। तथाप्य् उत्पादव्यय एव तस्य स्वभावो भवतु।

को दोष इत्य् आशङ्क्याह। स्वभावाभावधर्माणाम् इति स्वभावस्याभावो येषां धर्माणां यः क्षयोत्पादः सा माया।

(६३)

अत एव न क्षयं यान्ति भूतानि न जायन्त इति संयोगवियोगमात्रत्वात्।

स्पन्दादिभावनाम् आह। स्वप्रज्ञेत्यादि। स्वप्रज्ञाया विविधलक्षणयालिङ्गितं चित्तं पद्मे गुह्ये गतं यद् मणौ वज्रमणौ तच् चन्द्रगतस्पन्दरूपेण स्पन्दभावना। तत्रैव मणौ यदा निष्पन्दता तदाक्षरभावना।

कायवाक्चित्तनाडीषु वामदक्षिणमध्यनाडीषु कायवाक्चित्तैर् भावना इति। यदा हि गुरूपदेशेन प्रविष्टे मरीचिकादिमार्गे तदा तिस्रो नाड्यः परिशुद्धा भवन्ति। तासु परिशुद्धासु यदि कायनाड्यां प्राणो वहति तथापि प्राणायामः कर्तव्यः स च कायभावना। एवं वाग्नाड्यां वाग्भावना। चित्तनाड्यां मध्यमायां चित्तभावनेति। यदा शङ्खिनीनाड्यां शुक्रनाड्यां ज्ञानभावनाक्षरभावना भवति तदा समाहार एकत्वं त्रिवज्राणां त्रिनाडीनाम्।

चतुर्बिन्दूनां बन्धनम् आह। प्रज्ञेत्यादि। प्रज्ञारागद्रुताणाम् इति चण्डालीज्वालेन द्रुताणाम्। शिरसो ललाटात् पूर्णापदं गुह्यस्थानं बन्धनं परमार्थत इति प्राणबन्धनेनाक्षरसुखेन।

वासनेत्य् आवरणं तस्या हरणम् अपनयनम्। तत् पूर्ण-

(६४)

चन्द्रस्य न च्छेदो न च तस्य पूरणम्।

तथोदितं ज्ञानं क्रमात् स्पन्दादिभेदेन भूमिभिर् मुदिताद्याभिर् ऊर्ध्वम् उष्णीषे पूर्णतां याति। क्लेशादीनाम् आहरणम् अपनयनं पूर्णः। न ज्ञानच्छेदो न च तस्य पूरणम् इति।

शशाङ्कस्याङ्कं शशाङ्कं मध्ये शशाङ्कस्य मध्यशशाङ्कः। तेन पूर्णायां न शशी स्थिरः प्रतिपत्प्रवेशकालक्षयत्वात्। तथाक्षरे सुखे चित्तम् अस्थिरम्। संसारवासना क्षरसुखलक्षणाद्यालिङ्गितत्वात्।

जगतां रागविरागाभ्यां पूर्णा न प्रतिष्ठितेत्य् आह। उत्पत्तीत्यादि। एकक्षणाभिसंबुद्धं यदा पूर्णायां गुह्यपद्मे निश्चलं चित्तं भवेत् तदा तच्चित्तं वज्रं वज्रमणौ निष्पन्देन सर्वक्षणपूरकं द्व्ययुतद्व्यष्टशतश्वासलक्षणम्।

(६५)

एवम् अस्य चित्तस्य न शुक्लपक्षे रागे स्थितिः। न च गमनम् असिते पक्षे विरागे। अते एव पक्षद्वयमध्यस्थं पूर्णायां गतम् अद्वयम् अप्रतिष्ठितम्।

तद् उक्तं नामसंगीत्याम्।

एकक्षणाभिसंबुद्धः सर्वक्षणविभावकः।
अकलः कलनातीतश् चतुर्थध्यानकोटिधृक्॥ इति।

सांसारिकक्रमम् आह। उष्णीषेत्यादि। तस्य बोधिसत्त्वस्योष्णीषाद् उदयं पूर्णा वज्रमणौ भवेत्। स विरागात् कलाहानिः कलाय चयो वज्रात् सकाशाद् भवति। ततो हानिर् विरागस्य प्रपूर्णता।

पुनर् अप्य् एवम् उदयः पुनर् मणौ पूर्णता। स विरागात् कलाहानिर् न देहिनां ज्ञानहानिर् इति। ज्ञानहान्या मरणम् आह।

(६६)

पूर्णाशब्दस्यार्थम् आह। अस्य बोधिचित्तस्य महासुखस्वभावः स पूर्णाशब्देन भण्यते। महासुखस्वभावं विहायान्यभावान्तरं विषयेन्द्रियलक्षणं सृष्टिसंहारकारकम् उत्पादव्ययलक्षणम्।

एतद् एव स्पष्टयति। भावाद् इत्यादि। स्वपक्षाभ्यां शुक्लकृष्णाभ्याम् अयनाभ्याम् उत्तरदक्षिणाभ्याम्।

अस्य बोधिचित्तस्य निश्चलस्य पूर्णायां गुह्यपद्म ऊर्ध्वम् भूमिभिः परिपूर्णता। द्व्ययुतेत्यादि व्याख्यातार्थम्। पक्षद्वयं वामदक्षिणं मेषवृषादिद्वादशराशिलक्षणम् आक्रम्य निरुध्य द्वादशाकारसत्यार्थं द्वादशभूमिलाभतः। षोडशाकारम् अक्षरं सांसारिकषोडशकलाक्षयतः।

परमाद्वयं कर्मवातनिर्मितकल्पनाभावात्। एकार्थम् अद्वयम् इति यद् अद्वयधर्मं तद् एकार्थम् उभयप-

(६७)

क्षाभावात्। विरागादिमहारागम् इति सेकक्षणश् चतुर्थः। तद् उक्तं नामसंगीत्याम्।

विरागादिमहारागो विश्ववर्णो ज्वलप्रभः।
संबुद्धवज्रपर्यङ्को बुद्धसंगीतिधर्मधृक्॥ इति।

असंक्लिष्टम् अनाविलम् उभयपक्षाभावात्। ग्राह्यचित्तग्राहकचित्तयोर् ऐक्यं दर्शयति। यथेत्य् उपदर्शने। नदीनाम् उदकं प्रविष्टं तत् समुद्रे समत्वं याति। तथायं भावसमूहः स्थिरचलात्मकोऽक्षरे सर्वाकारबिम्बे समस् तुल्योऽक्षरो भवति।

एतद् एव पुनर् दृष्टान्तेनाह। अयं धातुसमूहो लोहादिको रसेण पारदेण भक्षितो यथा रसत्वं याति तत् समो भवति। यथा वा बीजैः काद्रवादिकैः क्षित्यादिको धातुसमूहो भक्षितो बीजस्वभावत्वं याति। स एव फलकाले फलोदयकाले मानवर्जितः संख्यारहितो भवति।

(६८)

एवं भावसमूहोऽपि स्थिरचलात्मकः परमाक्षरभक्षितः सर्वाकारबिम्बेन निरावरणीकृतः परमाक्षरत्वम् आयाति। सर्वाकारस्वरूपधृग् भवतीत्य् अर्थः।

विषदृष्टान्ते सुखस्य व्यापित्वम् आह। न दंश इत्यादि। पूर्णावस्थां व्यापित्वं गते विषे दष्टको दंशस्थाने वेदनादुःखं न वेत्ति। न चान्यत्रापि कुत्रचित् कायस्थाने वेत्ति। न च विषयान् रूपादीन् इन्द्रियद्वारैश् चक्षुरादिभिर् वेत्ति।

एवं चित्ते पूर्णकलां गते व्यापित्वं गते न योगी वज्रमणौ वेत्ति सत्सुखं नान्यत्रापि न विषयान् इन्द्रियद्वारैर् इति।
उक्तश् चक्रसंवरे।

सर्वतः पाणिपादाद्यं सर्वातोऽक्षिशिरोमुखम्।
सर्वतः स्मृतिमाल् लोके सर्वम् आवृत्य तिष्ठति॥ इति।

एकदेशे स्थितम् अपि रोमकूपसंधिपर्यन्तं क्रामतीति।

(६९)

रसलोहदृष्टान्तेनाह। यथेत्यादि। एकप्रदेशे वज्रमणौ। कामाग्निसंतप्तं चण्डालीज्वलनसंतप्तम्। वासना रागादिलक्षणा।

यथा शिला महामणिस्पर्शात् तप्ततां प्रभास्वरतां याति तथाक्षरसुखस्पर्शात् सुखताम् एति याति वै निश्चितम्।

किं पुनः परमार्थतः परमार्थसत्यतो ज्ञानसद्भावः प्रभावो वितर्कः। किं तर्कणीयश् चित्तस्यावेधनं प्रति मलागन्तुकलिप्तस्य नैवेत्य् अर्थः।

अयम् आगन्तुको मलो न चित्ते। अथ चित्त उत्पन्ने सति पश्चाद् उत्पन्नस् तदर्थम् आह। न चित्तात् सकाशाच् चिरकालिकः पश्चाद् उत्पन्न इत्य् अर्थः। अथ चित्तं विना जातस् तदर्थम् आह। न चित्तेन विना जात इति। किं चित्तेऽव्ययत्वेन संस्थित इत्य् आह। न चित्ते संस्थितोऽव्यय इति।

यदीत्यादिनैतद् एव विचारयति। सुगमं श्लोकद्वयम्। अत्र ताम्रदृष्टान्ते बोधयति। यद्य् अयम् आगन्तुको मलस् ताम्रे तदा पूर्वं ताम्रं कालिकारहितम्। यदा चिरकाली मलः पश्चात् ताम्रस्य सद्भावस् तदा तस्य मलस्य कुतः कस्मात् संभवः।

अथ ताम्रेण विना जातस् तदाकाशकुसुमस्यापि सं-

(७०)

भवः। अथ ताम्रेऽव्ययत्वेन संस्थितस् तदा सिद्धरसेणाप्य् अपनेतुं न शक्यते। तस्मात् सर्वम् एतद् युक्त्या न संगच्छति।

तस्माद् इदम् अत्रार्थसत्यम्। ताम्रेण सहोत्पन्नोऽप्य् अयं कालिको रसयोगाद् नश्यति न पश्चाद् न पूर्वं न तद्रहित इति।

एवं चित्तस्यापि दर्शयति। तद्वद् इत्यादि। आगन्तुकशब्दः कथं बोद्धव्य इति चेद् उच्यते। आ समन्ताद् गमनशील आगन्तुकः।

वाक्पथातीतत्वम् अक्षरस्याह। वक्तुं नेत्यादि। यौवने सुरते प्राप्ता स्वयम् एव वेत्ति। समाधिरहितैः शून्यतासमाधिरहितैः। असुखाद् धेतोः।

च्युतिर् एव संसारहेतुर् इति प्रतिपादयति। च्युतैर् इत्यादि। एवम् इत्य् उक्तक्रमेण सत्त्वानां विरागसंभूतिः। नान्यथेत्यादि। यदि तेषां विरागसंभूतिर् न भवति तदा नान्यप्रकारेण

(७१)

तेषां भवः संसारः।

तस्मात् सैव कारणम् इत्य् अर्थः। येनेति च्युतिसुखविवर्जनेण। कामुक इत्यादिनाक्षरसुखे यत्नम् आह। दुःखं रागविरागलक्षणम्। आधारे च्युतिम् आपन्न आधेयस्य विरागता भवति। अतश् च्युतिरागं विवर्जयेद् इत्य् उक्तेन संबन्धः।

वैमल्यस्यावस्थाम् आह। अक्षरेत्यादि। अक्षरोद्भवकायस्य चित्तस्योर्णाचक्रमध्यगतस्यालिकाल्योर् वामदक्षिणयोः समायोगो मीलनं मध्यमाप्रवाहित्वं हूंकाराद्यं च मध्यमाप्रवाहनिबन्धनं नेष्यते। एतच् च परमाक्षरज्ञानसिद्धाव् एवार्यपुण्डरीकपादैः प्रपाञ्चितम् इति न विस्तार्यते।

इदानीं प्रतीत्यहेतुफलं भावम् आह। बिम्बम् इत्यादि। शून्याद् आकाशाद् उद्भवं बिम्बं सर्वाका....

(७२)
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project