Digital Sanskrit Buddhist Canon

सेकोद्देशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Sekoddeśaḥ

सेकोद्देशः


ॐ नमः कालचक्राय


सुचन्द्र आह-

सेकः सप्तविधः शास्तस्त्रिविधोऽनुत्तरस्तथा।

लौकिकोत्तरसिद्ध्यर्थं संक्षेपात् कथयस्व मे॥१॥



भगवानाह-

शृणु सुचन्द्र सेकार्थं सप्तधा त्रिविधं परम्।

नाडीसंचारमायाममुद्देशात् कथयामि ते॥२॥



उद्देशस्त्रिविधस्तन्त्रे निर्देशस्त्रिविधो भवेत्।

प्रत्युद्देशो महोद्देशः प्रतिनिर्देशकोऽपरः॥३॥



उद्देश एव निर्देशस्तन्त्रसंगीतिरुच्यते।

प्रत्युद्देशश्च निर्देशः पञ्जिका पदभञ्जिका॥४॥



महोद्देशश्च निर्देशष्टीका सर्वार्थसूचिका।

अभिज्ञालाभिभिः सा तु कर्तव्या नैव पण्डितैः॥५॥



एवं षट्कोटिभिः शुद्धं वज्रयोगैश्चतुर्विधैः।

चतुःसम्बोधिभिः स्कन्धधात्वायतनषट्कुलैः॥६॥



पटलैः पञ्चभिः शुद्धं लोकधात्वादिकैर्मतैः।

सत्याभ्यामादिबुद्धं स्यात् कालचक्राभिधानकम्॥७॥



आदौ सप्ताभिषेको यो बालानामवतारणम्।

त्रिविधो लोकसंवृत्या चतुर्थः परमार्थतः॥८॥



सत्यद्वयेन धर्माणां देशना वज्रिणो मम।

लोकसंवृतिसत्येन सत्येन परमार्थतः॥९॥



उदकं मुकुटः पट्टो वज्रघण्टा महाव्रतम्।

नामानुज्ञासमायुक्तः सेकः सप्तविधो नृप॥१०॥



कायवाक्चित्तसंशुद्धिरभिषेकद्वयं द्वयम्।

अनुज्ञा ज्ञानशुद्धिः स्यादन्या धात्वादिशुद्धितः॥११॥



उदकं धातुसंशुद्धिर्मौली स्कन्धविशोधनम्।

पट्टः पारमिताशुद्धिर्वज्रघण्टा महाक्षरम्॥१२॥



बुद्धभाषा न विच्छिन्ना अर्केन्द्वेकत्रशोधनम्।

विषयेन्द्रियसंशुद्धिः स्याद्वज्रव्रतमच्युतम्॥१३॥



नाम मैत्र्यादिशुद्धिः स्यादनुज्ञा बुद्धशोधनम्।

एते सप्त सेका देया वर्तयित्वा तु मण्डलम्॥१४॥



कुम्भो गुह्याभिषेकश्च प्रज्ञाज्ञानाभिधानकः।

पुनरेव महाप्रज्ञा तस्या ज्ञानाभिधानकः॥१५॥



क्षरः क्षरस्ततः स्पन्दो निःस्पन्दश्च ततोऽपरः।

कायवाक्चित्तसंशुद्ध्या अभिषेकत्रयं क्रमात्॥१६॥



चतुर्थो ज्ञानसंशुद्धिः कायवाक्चित्तशोधकः।

बालः प्रौढस्तथा वृद्धश्चतुर्थस्तु प्रजापतिः॥१७॥



प्रज्ञास्तनाङ्गसंस्पर्शाद् बोधिचित्तच्युतं सुखम्।

पयोधराभिषिक्तः स बालः प्राप्तं यतः सुखम्॥१८॥



गुह्यास्फालाच्चिराज्जातं बोधिचित्तच्युतं सुखम्।

प्रौढो गुह्याभिषिक्तः स गुह्यात् प्राप्तं यतः सुखम्॥१९॥



गुह्यास्फालाच्चिराज्जातं वज्राग्रे स्पन्दतः सुखम्।

प्रज्ञाज्ञानाभिषिक्तः स वृद्धः स्पन्दं गतो यतः॥२०॥



महामुद्रानुरागाद्यज्जातं निःस्पन्दतः सुखम्।

महाप्रज्ञाभिषिक्तः स यतो निःस्पन्दतां गतः॥२१॥



प्रजापतिः स विज्ञेयो जनकः सर्वतायिनाम्।

वज्रसत्त्वो महासत्त्वो बोधिसत्त्वोऽद्वयोऽक्षरः॥२२॥



असौ समयसत्त्वः स्याद्वज्रयोगश्चतुर्विधः।

कालचक्र इह ख्यातो योगिनां मुक्तिदायकः॥२३॥



अस्यैव साधनं कुर्यात् प्रतिभासैरचिन्तितैः।

धूमादिभिर्निमित्तैस्तैः प्रज्ञाबिम्बैर्नभःसमैः॥२४॥



अस्तिनास्तिव्यतिक्रान्तैः प्रत्ययार्थैः स्वचेतसः।

परमाणुरजःसंदोहैः सर्वतः परिवर्जितैः॥२५॥



धूममरीचिखद्योतदीपज्वालेन्दुभास्करैः।

तमः कला महाबिन्दुर्विश्वबिम्बं प्रभास्वरम्॥२६॥



पिहितापिहितनेत्राभ्यां शून्ये यन्नानुकल्पितम्।

दृश्यते स्वप्नवद् बिम्बं तद् बिम्बं भावयेत् सदा॥२७॥



अभावे भावना बिम्बे योगिनां सा न भावना।

भावोऽभावो न चित्तस्य बिम्बेऽकल्पितदर्शनात्॥२८॥



प्रतिसेनां यथादर्शे कुमारी पश्येदवस्तुजाम्।

अतीतानागतं धर्मं तत्त्वयोग्यम्बरे तथा॥२९॥



अस्या भावो न भावः स्याद्वस्तुशून्यार्थदर्शनात्।

वस्तुनोऽभावतोऽर्थोऽस्ति मायास्वप्नेन्द्रजालवत्॥३०॥



असति धर्मिणि ह्येष धर्मोत्पादः प्रदृश्यते।

चिन्तामणिरिवानन्तसत्त्वाशापरिपूरकः॥३१॥



अदृष्टं प्रतिसेनायां कुमारी चौरादि पश्यति।

तत् प्रादेशिकनेत्राभ्यां गत्वा पश्यन्ति साधकाः॥३२॥



यदि पश्यति सद्रूपं स्वमुखं किं न पश्यति।

यदि पश्यत्यसद्रूपं शशशृङ्गं कथं न च॥३३॥



न पश्यत्यन्यचक्षुर्भ्यां स्वचक्षुर्भ्यां न पश्यति।

दृश्यमानमजातं तत् कुमार्या जातकं यथा॥३४॥



दृष्टे बिम्बे ततः कुर्यात् प्राणायामं निरन्तरम्।

उर्ध्वाधस्त्रिषु नाडीषु कायवाक्चित्तरोधनात्॥३५॥



चन्द्रार्कराहुविण्मूत्रशुक्रमार्गप्रवाहिषु।

तोयाग्निशून्यभूवायुज्ञानधातुकजातिषु॥३६॥



चन्द्रसूर्यतमिन्यो याः कायवाक्चित्तनाडिकाः।

विण्मूत्रशुक्रवाहिन्यः प्राणेऽपाने क्रमेण ताः॥३७॥



[चन्द्रः काय] उपायस्य प्रज्ञाया वाग्दिवाकरः।

प्रज्ञाकायस्तु विण्[नाडी विर्भोर्वाङ्मूत्रवा]हिनी॥३८॥



उर्ध्वाधश्चित्तनाड्यौ द्वे तमिनीशुक्रवाहिन्यौ।

तमिनी चित्तमुपायस्य प्रज्ञायाः शुक्रवाहिनी॥३९॥



ऊर्ध्वाधः षट्कुलं ह्येतत् कायवाक्चित्तयोगतः।

प्रज्ञोपायाङ्गभावेन संस्थितं सर्वदेहिनाम्॥४०॥



अरिष्टं कायवाङ्नाड्योरूर्ध्वा[धोऽ]धिकमारुतैः।

तमिनीशुक्रवाहिन्योरुत्पत्तिमरणस्थितिः॥४१॥



उत्पादे मृत्युकाले च मैथुने शुक्रवाहिनी।

तमिनी च वहत्यूर्ध्वे संक्रान्तौ विषुवे रवेः॥४२॥



लग्नोदयाभिसंधौ च विषुवं वहति मध्ये।

[षट्पञ्चाशत्] सपादञ्च श्वासोच्छ्वासं नराधिप॥४३॥



अधिकान् पञ्चसप्तत्या षट्शतांश्च दिवानिशम्।

एकविंशत्सहस्रांश्च षट्शतैरधिकांश्च यान्॥४४॥



वामा च दक्षिणा नाडी वहत्यूनाननेन तान्।

सत्रिपक्षित्रिवर्षाणि शतवर्षे हि मध्यमा॥४५॥



वामा सव्योर्ध्वे चन्द्रार्कौ ललनेडा पिङ्गलापरा।

तोयतेजःस्वभाविन्यौ पद्मधृग्रत्नधृङ्मते॥४६॥



अधो विण्मूत्रवाहिन्यौ पृथ्वीवायुस्वरूपके।

मध्यनाडी च वामा च [चक्रधृक् खड्गधृङ्मते]॥४७॥



ऊर्ध्वाधो मध्यमा सव्या राहुशुक्रप्रवाहिनी।

शून्य[ज्ञानस्वभा]विन्यौ वज्रधृग्वज्रधृङ्मते॥४८॥



विण्नाडी चन्द्रमार्गेण रविणा मूत्रवाहिनी।

जातौ मृत्यौ विषुवे रागे राहुणा शुक्रवाहिनी॥४९॥



या नाभ्यूर्ध्वेऽवधूती सा सुषुम्ना तमोवाहिनी।

याऽधः खगमुखा सा च शङ्खिनी शुक्रवाहिनी॥५०॥



नाभ्यब्जे हृदये कण्ठे ललाटोष्णीषपङ्कजे।

भूतोयाग्निमरुच्छून्यं संहारेण प्रवाहिनी॥५१॥



निर्गच्छन्ती विशन्ती [सा] सृष्टिना विशति क्षितौ।

कर्णिकात् कर्णिकामध्येऽवधूत्या गतिरागतिः॥५२॥



नाभौ गुह्ये च मण्यब्जे कायवाक्चित्तवाहिनी।

निर्गच्छन्ती विशन्ती सा संहारसृष्टिरूपिणी॥५३॥



शङ्खिनी सर्वजन्तूनामपानानिलवाहिका।

एषा स्त्रीणां सुखाच्छुक्रं ऋतौ रक्तप्रवाहिनी॥५४॥



प्रज्ञोपायाङ्गभावेन ऊर्ध्वे सव्यावसव्ययोः।

अधो विण्मूत्रवाहस्य रजःशुक्र[प्रवाहयोः]॥५५॥



चण्डाली रजसो वाहात् खगमुखा शुक्रवाहतः।

ऊध्वे ऋतौ स्मृ[ता स्त्रीणां डोम्बी पुं]सोऽवधूतिका॥५६॥



विज्ञानाद्यं सदा वामे नाड्यां मण्डल[पञ्चकम्।

भूम्यादि]दक्षिणे नाड्यां मध्ये वहति षष्ठमम्॥५७॥



नाभिपद्मदले षष्टि मण्डलानि यथाक्रमम्।

वामे च दक्षिणे लग्ने मेषाद्ये वृषभादिके॥५८॥



मूले व्[आमे ततः सव्य ऊर्ध्वे] मध्ये[ऽ]निलः क्रमात्।

एकैकमण्डलं दण्डाद्भूम्याद्यं नासरन्ध्रयोः॥५९॥



नाडिका वहति श्वासान् सषष्टित्रिशतान् क्रमात्।

अष्टादशशतश्वासान्नाड्यः पञ्च वहन्ति तान्॥६०॥



षष्टि नाड्यो दिवारात्रं मण्डलानीति देहतः।

दलमध्ये ततः पूर्वे सव्ये वामेऽपरे क्रमात्॥६१॥



आकाशाद्यं सदा वामे भूम्याद्यं दक्षिणेऽपरात्।

विज्ञानादिभवो वामे संहारः क्ष्मादि दक्षिणे॥६२॥



अपरे पूर्वे धरा वायुः प्रज्ञोपायः परस्परम्।

अङ्गुष्ठानामिकाद्वाभ्यां यतो वक्त्रेऽभिषिञ्चनम्॥६३॥



सव्ये वामे हविस्तोयं प्रज्ञोपायः परस्परम्।

मध्यमातर्जनीद्वाभ्यां यतः खड्गो भविष्यति॥६४॥



अर्धचन्द्राकृतिर्मुद्रा दंष्ट्रा कर्ती कनीयसी।

शून्यमक्षरमूर्ध्वाधः प्रज्ञोपायः परस्परम्॥६५॥



दशमण्डलसंयोगे अङ्गुलीनां परस्परम्।

करतले पुटिते मूर्ध्नि एकशूकं सकर्तिकम्॥६६॥



विषुवत्तन्मध्ये नाड्यां सृष्टिसंहारकारकम्।

स्कन्धधातुत्रिवज्राणामेकत्वं मध्यमागतौ॥६७॥



चन्द्रार्कनाडिकारुद्धे रुद्धा विण्मूत्रनाडिकाः।

राहुनाडीवि(नि)रुद्धे स्याद्रुद्धाऽधः शुक्रवाहिनी॥६८॥



मुक्ते मुक्ता भवन्त्येताः सृष्टिसंहारकारिकाः।

संचार एष नाडीनां प्राणापानत्रिमार्गतः॥६९॥



वामायां दक्षिणायां वा प्रवहत्यधिको[ऽ]निलः।

एकरात्रं तथा पञ्च त्रिवर्षैर्मर[णं] ततः॥७०॥



पञ्च दिक्तिथयो विंशति तत्त्वान्येकोत्तरं क्रमात्।

त्रयस्त्रिंशद्दिनारोहः अरिष्टं दक्षिणे रवौ॥७१॥



त्रिद्व्येकसमकैर्मासैः षट्त्रियुग्मेन्दुभिर्दिनैः।

तिथिदिक्पञ्चगुणद्व्येकैरायुर्गच्छति देहिनाम्॥७२॥



मूलादेकोत्तरेण स्याद्वामे चन्द्रस्य रोहणम्।

[दिनैर्मासैर्दिनैर्मासैस्] त्रिदिनानि द्विमासकौ॥७३॥



दिनेऽरिष्टं शुभे मासे वृद्धिहानिस्ततस्तयोः।

मध्यमारोहणं मृत्योः शताब्दपरिपूर्णतः॥७४॥



समविषमदिनैस्तस्य जन्मजातोऽथ मण्डलैः।

रोहणं सव्यवामे च पक्षद्वयविनाशनात्॥७५॥



अन्यथा मरणं न स्या [त् पक्षद्वयस्य] संस्थितेः।

सव्यावसव्यसंचारा [त] पञ्चमण्डलवाहतः॥७६॥



अरिष्टलक्षणं ज्ञात्वा प्राणं बिन्दौ निवेशयेत्।

अवधूतीपदमाश्रित्य [भावयेत्] परमाक्षरम्॥७७॥



वज्रोत्थानं सदा कुर्याच्चन्द्रार्कगतिभञ्जनात्।

अन्यथा नावधूत्यङ्गे विशति प्राणमारुतः॥७८॥



अपानोऽधश्च शङ्खिन्यां मरणं तदवेशतः।

अरिष्टवञ्चनं ह्येतदानन्दैर्योगिनां भवेत्॥७९॥



शुक्रागमनमानन्दमुष्णीषादूर्ण्णापङ्कजे।

कण्ठे हृदि परमानन्दं विरमानन्दं ततो भवेत्॥८०॥



विविधं रमणं नाभौ गुह्यपद्मे यदागतम्।

गुह्याद्वज्रमणिं यावत् सहजानन्दमच्युतम्॥८१॥



अप्रतिष्ठितनिर्वाणं महारागोऽक्षरः प्रभुः।

विरागाद्यच्च्युतं सौख्यं तन्निर्वाणं प्रतिष्ठितम्॥८२॥



शुक्रेन्दूदय उष्णीषे पूर्णा गुह्ये सरोरुहे।

कला षोडशमा या सा मणिपद्मे वज्रमूर्धगा॥८३॥



तदूर्ध्वं च्युतिकालः स्यात् कृष्णप्रतिपदागमे।

रविस्तूर्णापदं याति अमावस्यां विरागतः॥८४॥



कला षोडशमा तस्य उष्णीषकमले गता।

नष्टचन्द्र इहाख्यातो विरक्ती रागसौख्यतः॥८५॥



अधश्चन्द्रामृतं याति मरणे सर्वदेहिनाम्।

ऊर्ध्वे सूर्यरजो राहुविज्ञानं भावलक्षणे॥८६॥



अतश्चन्द्रामृतस्योर्ध्वे कर्तव्यं गमनं नृप।

अधोऽर्करजसो राहुविज्ञानस्याक्षरे सुखे॥८७॥



ऊर्ण्णाब्जे सर्वबुद्धानां चन्द्रामृतस्य पूर्णिमा।

अमाऽर्करजसो गुह्ये कलोष्णीषे मणौ तयोः॥८८॥



इति वज्रपदं शास्तुर्विपरीतं सर्वदेहिनाम्।

अप्रतिष्ठितनिर्वाणाद्विपरीतं यान्ति धातवः॥८९॥



मणौ चित्तं [च] गुह्ये वाक्कायो नाभौ महासुखात्।

धर्मसम्भोगनिर्माणाः शुद्धकायात् स्फरन्त्यमी॥९०॥



अधोपायस्य राजेन्द्र प्रज्ञा[या] ऊर्ध्वतो भवेत्।

ललाटे कायवज्रमस्या ग्रीवहृन्नाभिपङ्कजे॥९१॥



वाक्चित्तज्ञानवज्राणि निर्माणाद्यात् स्फरन्त्यमी।

स्फरणं स्कन्धधातूनां निरावरणतः सुखात्॥९२॥



कर्ममुद्रासमापत्त्या ज्ञानमुद्रावलम्बनैः।

महामुद्रैकयोगेन वृद्धिं याति तदक्षरम्॥९३॥



वृद्धस्य न च स्यात् वृद्धिः क्षीणस्य क्षीणता न च।

अस्तंगतस्य नास्तमनमुदितस्योदयं न हि॥९४॥



न प्रकाशः प्रकाशस्य पिहितं पिहितस्य न।

जातस्यैव न जन्म स्यान् मृतस्य मरणं न च॥९५॥



मुक्तस्य न च मुक्तिः स्यादस्थितस्य च चास्थितिः।

अभावो न ह्यभावस्य भावो भावस्य नैव च॥९६॥



क्षरस्यापि क्षरो न स्यादक्षरस्य न चाक्षरः।

स्वभावाभावधर्माणां मायोत्पादः क्षयस्तथा॥९७॥



न क्षयं यान्ति भूतानि न जायन्ते स्वभावतः।

निःस्वभावमिदं विश्वं भावाभावैकलक्षणम्॥९८॥



स्वप्रज्ञालिङ्गितं चित्तं पद्मे वज्रमणौ गतम्।

तत्र चन्द्रगतस्पन्दो निःस्पन्दाक्षरभावना॥९९॥



कायवाक्चित्तनाडीषु कायवाक्चित्तभावना।

समाहारस्त्रिवज्राणां शङ्खिन्यां ज्ञानभावना॥१००॥



प्रज्ञारागद्रुतानां च बिन्दूनां शिरसः क्रमात्।

पूर्णापदं प्रविष्टानां बन्धनं परमार्थतः॥१०१॥



यथोदितः क्रमाच्चन्द्रः कलाभिर्याति पूर्णताम्।

वासनाहरणं पूर्णा [न] चन्द्रच्छेदो न पूरणम्॥१०२॥



तथोदितं क्रमाज्ज्ञानं भूमिभिर्याति पूर्णताम्।

क्लेशाद्याहरणं पूर्णा [न] ज्ञानच्छेदो न पूरणम्॥१०३॥



यथा मध्यशशाङ्केन पूर्णायां न स्थिरः शशी।

संसारवासनाङ्केन तथा चित्तं सुखेऽक्षरे॥१०४॥



उत्पत्तिः प्रलयः पक्षः [शुक्लः] कृष्णः प्रतिष्ठितः।

तयोर्मध्ये तु या पूर्णा सा पूर्णा न प्रतिष्ठिता॥१०५॥



एकक्षणाभिसम्बुद्धं पूर्णायां निश्चलं भवेत्।

यदा वज्रमणौ चितं तत् सर्वक्षणपूरकम्॥१०६॥



न स्थितिः शुक्लपक्षेऽस्य गमनं नासिते क्वचित्।

पक्षद्वयस्य मध्यस्थं पूर्णायां गतमद्वयम्॥१०७॥



उष्णीषादुदयं तस्य पूर्णा वज्रमणौ भवेत्।

सविरागात् कलाहानि [ र् ] वज्राद्धानेः प्रपूर्णता॥१०८॥



उष्णीसे ह्युदयो भूयः पूर्णा वज्रमणौ पुनः।

सविरागात् कलाहानिर्ज्ञानहानिर्न देहिनाम्॥१०९॥



महासुखस्वभावो[ऽ]स्य पूर्णाशब्देन गीयते।

अन्यभावान्तरं सर्वं सृष्टिसंहारहेतुकम्॥११०॥



भवाद्गच्छति निर्वाणं तस्मादेति पुनर्भवम्।

स्वपक्षाभ्यां यथां चन्द्रोऽयनाभ्यां भास्करो यथा॥१११॥



पूर्णायां निश्चलस्यास्य भूमिभिः परिपूर्णता।

द्व्ययुतद्व्यष्टशतैः श्वासैरक्षरक्षणभक्षितैः॥११२॥



पक्षद्वयं व्यतिक्रम्य भूमिभिः परिपूरितम्।

द्वादशाकारसत्यार्थं षोडशाकारमक्षरम्॥११३॥



भूमिभिर्द्वादशाकारं पूरितं परमाद्वयम्।

कलाभिः पूरितं चित्तं षोडशाकारमक्षरम्॥११४॥



एकार्थमद्वयं धर्मं परमार्थमविनश्वरम्।

पूर्णावस्थां गतं चित्तं आसमन्तात् प्रपूरितम्॥११५॥



विरागादिमहारागं वज्रानङ्गं महाक्षरम्।

परिपूर्णमसंक्लिष्टं पक्षद्वय[स्य] वासनैः॥११६॥



यथा नद्युदकं विष्टं समुद्रे तत्पयःसमम्।

तथा भावसमूहोऽयमक्षरे तत्समो[ऽ]क्षरः॥११७॥



यथा धातुसमूहो[ऽ]यं रसत्वं याति भक्षितः।

बीजैर्बीजस्व भावं च फलकाले मानवर्जितम्॥११८॥



एवं भावसमूहोऽपि परमाक्षरभक्षितः।

परमाक्षरतां याति सर्वाकारस्वरूपधृक्॥११९॥



न दंशे वेदनां वेत्ति नान्यत्र चापि दष्टकः।

न विषयानिन्द्रियद्वारैः पूर्णावस्थां विषे गते॥१२०॥



एवं न च मणौ योगी नान्यत्र वेत्ति सत्सुखम्।

न विषयानिन्द्रियद्वारैश्चित्ते पूर्णकलां गते॥१२१॥



यथा लोहैकदेशेऽपि संस्थितो हि महारसः।

लोहं तीव्राग्निसंतप्तं वेधयेदासमन्ततः॥१२२॥



तेथैवैकप्रदेशेऽपि संस्थितं सुखमक्षरम्।

चित्तं कामाग्निसंतप्तं वेधयेदासमन्ततः॥१२३॥



यथा च विद्धलोहानां नैव मलो भवेत् क्वचित्।

तथा च विद्धचित्तानां न वासना भवेत् क्वचित्॥१२४॥



हेमत्वं हि गतं लोहमग्निना निर्मलं भवेत्।

भूयो भूयस्तथा चित्तं निर्मलं रागवह्निना॥१२५॥



यथा महामणिस्पर्शाद्याति शीला प्रदीप्तताम्।

तथाक्षरसुखस्पर्शात् सुखतां चित्तमेति वै॥१२६॥



किमत्र बहुनोक्तेन लोकसंवृतिसत्यतः।

अवितर्क्यो रससद्भावो लोहस्यावेधनं प्रति॥१२७॥



वितर्क्यो ज्ञानसद्भावः किं पुनः परमार्थतः।

मलागन्तुकलिप्तस्य चित्तस्यावेधनं प्रति॥१२८॥



नागन्तुको मलश्चित्ते न चित्ताच्चिरकालिकः।

न चित्तेन विना जातो न चित्ते संस्थितोऽव्ययः॥१२९॥



यद्यागन्तुक एव स्याच्चित्तं प्रागमलं तदा।

चिरकाली यदा चित्तात्तस्यैव सम्भवः कुतः॥१३०॥



यदि चित्तं विना जातस्तदा खकुसुमं यथा।

यदि स्थितः सदा चित्ते न नश्येत् सर्वतस्तदा॥१३१॥



ताम्रस्य कालिमा यद्वद्रसयोगेन नश्यति।

न तस्य सत्त्वता नश्येन्निर्मलत्वेन या स्थिता॥१३२॥



तद्वच्चित्तमलः शून्यतायोगेन प्रणश्यति।

न तस्य ज्ञानता नश्येन्निर्मलत्वेन या स्थिता॥१३३॥



रसविद्धो यथा लोहो न पुनर्लोहतां व्रजेत्।

सुखविद्धं तथा चित्तं न पुनर्दुःखतां व्रजेत्॥१३४॥



न विरागात् परं पापं न पुण्यं सुखतः परम्।

अतोऽक्षरसुखे चित्तं वेशनीयं सदा नृप॥१३५॥



वक्तुं न शक्यते सौख्यं कुमार्या सुरतं विना।

यौवने सुरतं प्राप्य स्वतो वेत्ति महासुखम्॥१३६॥



एवं न शक्यते वक्तुं समाधिरहितैः सुखम्।

समाधावक्षरं प्राप्य स्वतो विन्दन्ति योगिनः॥१३७॥



अक्षरजसुखज्ञाने सर्वज्ञैरपि शंक्यते।

तथा क्वचिन्न कर्तव्यो विरागो मनसोऽसुखात्॥१३८॥



च्युतेर्विरागसंभूतिर्विरागाद्दुःखसंभवः।

दुःखाद्धातुक्षयः पुंसां क्षयान् मृत्युरिति स्मृतः॥१३९॥



मृत्योः पुनर्भवस्तेषां भवान् मृत्युश्च्युतिः पुनः।

एवं विरागसंभूतेः सत्त्वानां नान्यथा भवः॥१४०॥



तस्मात् सर्वप्रयत्नेन च्युतिरागं विवर्जयेत्।

येनाक्षरसुखं याति योगी संसारबन्धनात्॥१४१॥



कामुकोऽपि विरागान्न कामशास्त्रं समीहते।

मयोक्ते किं पुनस्तन्त्रे योगी दुःखं समीहते॥१४२॥



शुक्राक्षरस्वभावेन साधयेत् परमाक्षरम्।

आधारे च्युतिमापन्ने आधेयस्य विरागता॥१४३॥



आधाराधेयसंबन्धो यावन्नाक्षरतां व्रजेत्।

चित्तमक्षरताप्राप्तं नाधाराधेयलक्षणम्॥१४४॥



अक्षरोद्भवकायस्य ऊर्ण्णाचक्रगतस्य तु।

आलिकालिसमायोगो हूंकारो नेष्यते नृप॥१४५॥



बिम्बं शून्योद्भवं हेतुः फलमक्षरजं सुखम्।

फलेन मुद्रितो हेतुर्हेतुना मुद्रितं फलम्॥१४६॥



शून्यता बिम्बधृग्घेतुः करुणाक्षरधृक् फलम्।

शून्यताकरुणाभिन्नं बोधिचित्तं तदच्युतम्॥१४७॥



निर्वाणरहितं बिम्बं संसारातीतमक्षरम्।

शाश्चतोच्छेदनिर्मुत्तस्ततोर्योगोऽद्वयोऽपरः॥१४८॥



अभावो नास्ति बिम्बस्य अभावोद्भूतलक्षणात्।

भावो नास्त्यक्षरस्यापि भावसम्भूतलक्षणात्॥१४९॥



भावाभावसमायोगो वज्रयोगोऽद्वयोऽपरः।

रूपारूपविनिर्मुक्तः प्रतिसेनेव दर्पणे॥१५०॥



बिम्बं न भवमायाति नापि निर्वाणमक्षरम्।

अन्योन्यालिङ्गितं शान्तं नपुंसकपदं परम्॥१५१॥



प्रज्ञाहेतोरजातत्वात् प्रज्ञाहेतूद्भवं फलम्।

प्रज्ञाहेतोरजातत्वात् प्रज्ञाजातं न हेतुजम्॥१५२॥



अतो न हेतुजं ज्ञानं प्रज्ञाज्ञानमनुत्तरम्।

फलेन हेतुनान्योन्यं न परस्परमुद्रणम्॥१५३॥



हेतुः फलं च यत् सर्वं तत् प्रतीत्यसमुद्भवम्।

अन्योन्यमुद्रितं बिम्बं नोत्पन्नं न च निर्वृतम्॥१५४॥



प्रज्ञा चात्यन्तनिर्वृता उत्पन्नश्च परोऽक्षरः।

हेतुफलविनिर्मुक्तिर्न परस्परमुद्रणम्॥१५५॥



अजातस्यानिरुद्धस्य यज्ज्ञेयस्येह दर्शनम्।

तत् स्वचित्तस्य नान्यस्य बाह्यज्ञेयविभागतः॥१५६॥



अतो न चात्मनात्मानं मुद्रितुं शक्यते क्वचित्।

किं छिनत्ति महाखड्ग आत्मानमात्मधारया॥१५७॥



बन्ध्यादुहितृसंगेन स्वप्ने सौख्यं यथा भवेत्।

गगनोद्भवबिम्बेन सेवितेन तथात्मनः॥१५८॥



न प्रज्ञा नाप्युपायोऽसौ सहजः प्रज्ञया सह।

आपूर्णश्चैव सौख्येन सर्वावरणवर्जितः॥१५९॥



आकाशवन्निरावरणो विषयेन्द्रियवर्जितः।

सर्वतः सर्वभूतस्थ अच्छेद्यो भेदवर्जितः॥१६०॥



स्वयम्भूर्वज्रसत्त्वोऽसौ महार्थः परमाक्षरः।

महारागो महासत्त्वः सर्वसत्त्वरतिंकरः॥१६१॥



बोधिसत्त्वो महाद्वेषः क्लेशक्षयी महारिपुः।

समयसत्त्वो महामोहो मूढधीमोहसूदनः॥१६२॥



वज्रयोगो महाक्रोधः क्रुद्धमारमहारिपुः।

कालचक्रो महालोभः क्षरलोभनिषूदनः॥१६३॥



वज्रमभेद्यमित्याह महार्थं भगवानिह।

सत्त्वं त्रिभवस्यैकता तदुक्तं परमाक्षरम्॥१६४॥



परमाक्षरसुखापूर्णो भूमिभिः परिपूरितः।

महारागो महासत्त्वः सर्वसत्त्वरतिंकरः॥१६५॥



बोधौ व्यवस्थितः सत्त्वो बोधिसत्त्वस्ततोऽचलः।

क्लेशादिद्वेषसंघानां महाद्वेषो महारिपुः॥१६६॥



समयश्चन्द्रामृतं शुक्रमच्युतिस्तस्य भक्षणम्।

समयसत्त्वोऽनया वृत्त्या मूढधीमोहसूदनः॥१६७॥



एकत्वं सर्ववज्राणां प्रज्ञाकायाक्षरैः सह।

महाक्रोधो महाशत्रुर्माराणां क्रोधरूपिणाम्॥१६८॥



महाक्षरसुखोपायात् सत्त्वार्थं न त्यजेत् क्वचित्।

सत्त्वान् मोक्तुं महालोभः क्षरलोभनिषूदनः॥१६९॥



एते ह्युक्ताः षडाकारा अक्षरज्ञानवेदना।

विज्ञानरूपसंस्कारसंज्ञाः स्कन्धकुलानि ते॥१७०॥



ज्ञानाग्न्यम्बरपृथिवीवायूदका यथाक्रमम्।

मनश्चक्षुःश्रुतिकायनासजिह्वास्तथैव च॥१७१॥



शब्दरसधर्मधातुकगन्धस्प्रष्टव्यरूपिणः।

क्रोधराट् षण्मुखो भीमः षट्कुलैः परिशोधितः॥१७२॥



कायगुह्येन्द्रियचित्तं त्रिविधं मण्डलं सदा।

प्रज्ञोपायत्रिवज्राणां जायते वज्रसत्त्वता॥१७३॥



इदं सेकस्य साधनं परमाक्षरसाधनम्।

नाडीकुलसमायुक्तमुद्देशाच्चन्द्र भाषितम्॥१७४॥



[इति श्रीसेकोद्देशः समाप्तः]
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project