Digital Sanskrit Buddhist Canon

डाकिनीजालसंवररहस्यम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    2015
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Ḍākinījālasaṃvararahasyam

डाकिनीजालसंवररहस्यम्
अनङ्गयोगिप्रणीतम्

ॐ नमः श्रीवज्रयोगिन्यै

प्रणीपत्य जगन्नाथं दाकिनीजालसंवरम्।
रहस्यं परमं गुह्यां लिख्यतेऽनङ्गयोगिना॥ १॥
त्रिविधा लौकिकी सिद्धिः क्षरसुखेन देशिता।
अक्षरा तु वरा सिद्धिर्ज्ञातव्य (व्या) तत्त्वकाङ्क्षिणा॥ २॥

समयसत्त्वकाङ्क्षिभिः समयसत्त्वान (नां) लौकिका (क) लोकोत्तरा (र) सिद्धिसाधनाय चत्वारीऽभिषेकाः श्रेष्ठत्वेन प्रकीर्तिताः।

कुम्भो गुह्याभिषेक श्च प्रज्ञाज्ञानाभिधानकः।
पुनरेव महाप्रज्ञा तस्या ज्ञानभिधानकः॥ ३॥

कुम्भशब्देन स्तनी उच्येते। तयोः स्पर्शनाद् यत् क्षरं क्षरसुखम् , स कलशाभिषेकः। गुह्यावज्रप्रवेशाद् यत् क्षरसुखं स गुह्याभिषेकः। पध्मे वज्रस्फरणाद् यत् क्षरसुखं स प्रज्ञाभिषेकं। महामुद्रानुरागेण यदक्षरं सुखं चतुर्थ तत्पुनस्तथाभिषेकः संवरसिद्धये सन्ध्याभाषया चोक्तं (क्तो) भगवता।

लोकोत्तरसिद्धिसाधनाथ चत्वारो ब्रह्याविहारा भावनीया मैत्र्यादिक्रमेण तु। तत्र त्रयो लोकसंवृत्याद्युक्ता भगवता। प्रेमातिशयेन कुम्भस्य स्पर्शनाद् मैत्री। गुह्यो वज्रप्रवेशात् ततः समधिकतया करुणा। मुदिता हृष्टचित्ततया पध्मे वज्रस्फारणात्। उपेक्षा इति अशेषकल्पनाकलङ्कापगमनात्। शुद्धलौकिकल्पल्या (ल्य) र्थ च तच्चतुर्थ लोकोत्तरमिति निस्पन्दसुखत्वाद् [इति] भगवतो नियमः। तथा चोक्तम्

परमाक्षरयोगेन साधयेत् सिद्धिमुत्तमाम्।
साधिते चित्तवज्रे तु तन्नास्ति यन्नि (न्न) सिद्धयति॥

द्विविधं चित्तवज्रं तु पिण्डचित्तं प्रकाशं चेति। पिण्डचित्तं कर्ममुद्राध्यानम् , प्रकाशं महामुद्रेति। एतच्च सद्गुरुपदेशतोऽवगन्तव्यमिति।

संधी (धा) र्य मूलपध्मेन्दु (न्दुं) कुण्डली महयोगतः।
चित्तं विचित्रतामेति गुरुपदप्रसादतः॥४॥

लौकिकसिद्धिसाधनाय त्रिविधा लोकसंवृत्ति (ति) रित्युक्त। भगवता एकस्मिन्नेव वज्रदेहे एकत्रैवानन्दे आनन्दाश्र्चत्वार उपदर्शिताः। तत्र कायानन्दः (न्द) वागानन्दः (न्द) चित्तानन्दः (न्द) ज्ञानानन्दः (न्द) भेदेनेति। एवंविधबिन्दवोऽपि ज्ञातव्याः।

इह त्रिविधः क्षरसुखनयो वर्णीतः। अमृतास्वादने समय सेवादिकेन च लौकिकसिद्धिसधनयेति। इति भगवतो नियमः। अत एवोक्तम् ''चतुर्थो ज्ञानसंशुद्धिः कायवक्चित्तसंशोधकः '' इति। तथ चोक्तम्

दर्शनस्पर्शनाभ्यां च श्रवणस्मरणेन च।
मुच्यते सर्वपापैस्तु एवमेव न संशयः॥

उद्घाटनीयगुह्यासंवरः सन्ध्याभाषया चोक्तं (क्तः)। दर्शनमिति चुम्बन मलिङ्गनम्। स्पर्शनमिति कमले वज्रप्रवेशनम्। श्रवणमिति कुलिशस्फालनेन यत् क्षरं सुखम्। स्मरणमिति गुरुवचनैः सह मोहितः ? अतो मुच्यते सर्व

पापैस्तु एवमेव न संशयः। समयस्याखण्डनादक्षर सुखेनेति भगवतो नियमः। तथ चोक्तमभिधानोत्तरे "समाहितो जपेन्मन्त्रं समयाचारत [त्पर]ः'' प्राणायाः स्फारणं बोधिचित्तस्य बुद्धबिम्बं (म्ब) स्फारणमिति। " तत्पुनस्तथेति , तत्पुनस्तथेति , अक्षराणि (दि)स्पन्दादि गुणैर्मुक्तश्चतुर्थ [स] तत्पुनस्तथाशब्देन सहजा (ज) मित्युक्तं भगवता। इह लौकिकी सिद्धिरिति। पाताल भूचर खेचर लौकिकशब्देन यत्किञ्चित् साध्यते, तत्सर्व लौकिकसिद्धिफलम् अधममध्यमोत्तममिति। तस्मत् कि ते [न] साधितेन , येन जातिजरामरणक्षयहेतुभूतं बुद्धत्वं न भवति योगिनाम्। अत एव कायसिद्धिर्भवतिनी यति (र्भावनीयेति ) भगवतोक्ता (क्तम्)।

अन्तर्गतेन मनसेति। इदं वज्रपदे च पञ्चविधा (दं च पञ्चविधं ) त्रिसाहस्रिके श्रीसमाजे बुद्धो भगवानाह

वज्रपर्यङ्कतश्चित्तं मण्यन्तर्गतमीक्षे (क्षये) त्।
निष्पन्दादि सुखापूर्ण वैमल्यं यावदेति तत्॥

तथा चोक्तम्

भगे लिङ्गं प्रतिष्ठाप्य बोधिचित्तं न चोत्सृजेत्।
भावयेद् बुद्धबिम्बं तु त्रैधतुकमशेषतः॥ इति॥

इहानेन गाथाद्वयेनास्य वज्रपदस्य पिण्डार्थोऽवगन्तव्य इति। वज्रपर्यङ्कशब्देन संध्याभाषया पध्ममित्युक्तं भगवता। तस्मिन् मण्यन्तर्गतमिति। वज्रस्य मणौ मध्ये चतुबिन्द्धात्मकं चित्तवज्रं यदा भवति , तदावज्रपर्यङ्कतश्चित्तं मण्यन्तर्गत मित्युच्यते। निस्पन्दादिशब्देन सन्धाभाषया स्वा॥॥।भप्रज्ञायाममृतकुण्डल्याऽऽ

श्लेषितं षोडशानन्दात्मकं सुखमय [म] अवधूत्यां संधारणेन नाभिहृत्कण्ठललाटो ष्णीषकमलपर्यन्तं याव [दे] तोति वैमल्यं यावदेति। तद (भ्य) स्यायमर्थ इति। चतुष्पीठे चोक्तम् '' मन्त्रादात्मपीठम् , आत्मपीठात्परपीठम् , आत्मपीठात्परपीठम् , परपीठात्तत्त्वपीठम् , यावदेति तदितिबोधिचित्तम् अवधूत्यां संवरेण इति पदसंचारक्रमः। '' श्रीचक्रसंवरे पुनर्गाथाद्वयेनोक्तमिति।

इह मण्यन्तन्तर्गतं त्यज्य बोधिचित्तमन्तर्गतं मन इत्युच्यते। तेनान्तर्गतेन मनसा अच्युतबोधिचित्तेन कर्ममुद्राप्रसङ्गेन ज्ञानमुद्राप्रसङ्गेन स्थिरचरस्वभावात्मकं सर्वाकरवरोपेतं भावयेदशेषतै (तो) योगी। तदेव प्रज्ञापारमिता सर्वाकारवरोपेता शुन्यता च , सा श्रीसंवरोत्तरे कामसिद्धिरित्युक्ता भगवता , प्रज्ञातन्त्रत्वादिति। अत एवोक्तं भगवता '' परमाक्षरयोगेन महामुद्रां विभावयेत् ''।

तथा चाह " कामसिधि विभावयेद योगी''। कामो महारागः। स एव वज्रसत्त्वः परमाक्षरसुख इति। तथा च वज्रपाणिं भगवानाह '' चुतिक्षरणा (ण) निरोधेन बुद्धत्वं सर्वदेहिनाम्।'' अतो जगति जरामरणनिरोध इति। तथा चोक्तं वज्रगर्भेण '' पूजाविधिर्मुलतन्त्रोक्तः यथा प्रज्ञोपायविधानेन पूजयेद् योगवित् सदा '' ( अ।सि। ५७ , हे। तं। १।५२ )। योग इति चण्डाली शुक्लयोरैक्यम्। तस्मात्तन्निवर्तते। [त] मीश्वरं ततो ब्रह्याचर्येणाक्षरसुखेन प्रज्ञोपायविधानेन पूजयेद् योगवित् सदा सर्वस्मिन्नेव कालेऽच्युत सुखेनेति। '' सेवितव्या [ः] प्रयेत्नेन यथा भेदो न जायते। '' (हे।तं। १५।३ ) भेदे नीतार्थे शुक्रच्यवनमिति समयभेदेन निरयगमनमित्युक्तं भगवता स्वयं श्रीचक्रसंवरे आदिबुद्धे च

च्युतेहि (र्वि) रागसंभूतिविरागात् दुःखसंभवः।
दुःखाद्वातुक्षयं पुंसां क्षयान्मृत्युरिति स्मृतः॥

किमतः परं निरयगमनमिति। तथा चोक्तं हगवता चक्रसंवरे '' संवृत्या सत्वा अधोरेतसः , विवृत्या ऊध्र्वरेतसः ''। ''ब्रह्या निवर्ति ( वृंति ) तो बुद्धः '' (हे। तं। १।५ १३)। धात्वाश्रावत्वात् स्वंशरीरे क्षयाद् ब्रह्यो निर्गमाभावाद् ब्रह्या वैरोचनो बुद्धो भण्यते। ''विनाशाद् (विषणाद्) विष्णुरुच्यते ''। मूत्र धातोरश्रावत्वात् स्वशरीरे विशना (षणा) द् बाह्यो निर्गमाभावाद् बुद्धो विष्णुरुच्यते। ''शिवः सदा सुकल्याणात् '' इति। कल्याणमण्डल शीलं (ल) शुक्रस्य च्यवनाभावाद् बुद्धः शिव उच्यते। ''सर्वः सर्वात्मनि स्थितिः (तः) इति। सर्वो रत्नसंभवः , स एव रक्तधातुस्तस्य च्यवनाभावाद् दुःखस्याभवः। अतः ''सुखदुःखान्तकृन्निष्ठा वैराग्यमुपधिपक्षयः ''।

सर्वात्मनि स्थितो दिव्यचक्षुषा परचित्तज्ञानव्यापकत्वाद् बुद्धः सर्व उच्यते। एतत्सर्व गुरुपादं पर्युपास्य क्रमेण ज्ञातव्यमिति भगवतो नियमः। सतत (तं) पण्डिता भिमानं त्यकत्वा सद्गु [रु] सम्प्रदायेन सन्ध्याभाषदिकं तु वेदितव्यमिति भगवतो नियमः। अतो हेवज्रोक्ता षडङ्गभावना कृष्ण रक्त पीत हरित नील शुक्लमिति '' षडङ्गभावनायोगाद् योगी विरमान्तं पुनस्तथेति '' ( हे। तं। १।८।२४ )। तथा चोक्तम् षडङ्गभावनया नूनं वज्रधरत्वं सिद्धयति। श्रीसमाजोत्तरे भगवानाह

प्रत्याहारस्तथा ध्यानं प्राणायामश्च (मोऽथ) धारणा।
अनुस्मृतिः समाधिश्च षडङ्गो योग इष्यते॥ (१८।१४०)

अत्र प्रत्याहारशब्देन त्रैधातुकबुद्धबिम्बदर्शनम्। कुण्डल्या सह योगतः। अत्रामृतकुण्डलीसंज्ञया सन्ध्याभाषान्ते वा स्वरित्युक्तो भगवता। अस्य पिण्डार्थ सद्गुरुपदेशतोऽवगन्तव्य इति। धारणादिकेन तु। ततो ध्यानं नाम शून्येषु सर्वभावेषु चित्तप्रवृत्तिः। वितर्को नाम भावग्रहणं चित्तस्य। विचारेण (रो) नाम

भावप्रकाशः। प्रितीतिर्नाम सर्वभावेषु चित्तारोपणम्। अचलं सुखं नाम सर्वभावेभ्य सुखसम्पत्तिः। चित्तस्यैकाग्रता नाम बिम्बेन स [ह] चित्तस्यैकीकरणमिति।

एवं पञ्चध्यनाङ्गमुच्यते

वितर्कश्च विचारश्च प्रीतिश्चैव सुखं तथा।
चित्तस्यैकग्रता चैत्र पञ्चैते ध्यानसंग्रहाः॥ (गु। स। १८।१४३)

ततः प्राणायामो नाम ललनावामदक्षिणमर्गनिरोधः। अयमेव वसन्त कालः। अवधूतीमध्यमाङ्गे प्राणवायोः समप्रवृत्तिरिति। तत्रनिलयोगेनावधूत्यां संचार इति। तस्य ॐकारेण उच्चा (च्छ्वा) सः , आःकारेण निःश्वासः। ॐ हुं कारेण निरोधश्चन्द्ररविराहुस्वभावेन कुरुते योगी। इति प्राणायामाङ्गमुच्यते।

ततो धारणा नाम प्राणस्य माहेन्द्रवारुणाग्निवायुमण्डला (ले) नाभौ ऱ्तिश्चैव (हृदि कण्ठे) ललाटे प्रवेशः। न बाह्यानिर्गमः। इन्दौ प्राणप्रवेशनमिति धारणाङ्गमुच्यते।

ततोऽनुस्मृतिर्नाम स्वेष्टदेवतादर्शनं प्रतिबिम्बाकारं विकल्परहितं तस्मादने करशिमस्फुरदूपाकारं प्रभामण्डलम्। ततोऽनेकाकारस्फुरद्रपां (पं) त्रैधतुकं स्म (स्फ) रणमिति , अनुस्मृत्यङ्गमुच्यते।

ततः समाधिर्नाम इष्टदेवतानुरागाद् यदक्षरसुखप्राप्तिः , तस्यामेकीकरणम्। ग्राह्याग्राहकताविरहितं चित्तं समाध्यङ्गमुच्यते तथागतेः। इह षडङ्गभावनायोगे [ने] ति संक्षेपेणोक्तम् , विस्तरेण अभिधार्नपरमाद्यतन्त्रे च सद्गुरुपदेशतोऽवगन्तव्य इति योगिनीमहामुद्रासिद्धयर्थिनेति

षडङ्गं भावयेद् योगी स्वाधिष्ठानमहनिशम्।
द्रुतं सिद्धिमवाप्नोति उक्तं वज्रभूता स्वयम्॥ (हे।त। १।८।२४)

अत्र भगवतः प्रतिज्ञा

सर्वचिन्तां परित्यज्य दिनमेकं परीक्षयेत्।
यदि न स्यात् प्रत्ययोऽत्र तदेतन्मे मृषा वचः॥ इति॥

तत्र प्रत्ययो धूमादिनिमित्तम्। प्रथमं धूमनिमित्तम् , द्वितीयं मरीचिकाकारम् , तृतीयं खद्योताकारम् , चतुर्थ प्रदीपो (प) निमित्तम् , पञ्चमं निरभ्रगगन सन्निभ [म] इति।

मायाजालसमाधिपटले प्रोक्त्तं प्रोक्तं भगवता , तद्यथा

गगनोद्भवः स्वयम्भूः प्रज्ञाज्ञानानलो महान्।
वैरोचनो महादीप्तिर्ज्ञानज्योतिविरोचनः॥

जगत्प्रदीपो ज्ञानोल्को महातेजाः प्रभास्वरः।
विद्याराजोग्रमन्त्रेशो मन्त्रराजो महार्थकृत्॥ (ना। सं , ६१-६२)

इति गाथाद्वयेनापरं निमित्तं भगवतोक्त सन्ध्याभाषया। निरभ्रगगन प्रतिभासो यो भवति स गगनोध्भवः। स्वयम्भूः सर्वविकल्परहितचित्तत्वादिति। अत्र प्रज्ञाज्ञानानलो ज्ञानप्रतिभासः। वैरोचनो महादीप्तिरिति चन्द्रप्रतिभासः। स एव ज्ञानज्योतिविरोचनश्च। जगत्प्रदीप इति सुर्यप्रतिभासः। ज्ञानोल्का इति राहुप्रतिभासः। महातेजाः प्रभास्वर इति सूर्यप्रतिभासः। ज्ञानोल्का इति राहुप्रतिभासः। महातेजाः प्रभास्वर इति विद्युत्प्रतिभासः। विद्याराजोऽग्र मन्त्रेश इति चित्तप्रतिभासो नीलवर्णचन्द्रमण्डलाकारः। मन्त्रराजो महार्थकृदिति सर्वाकार त्रैधातुकप्रतिभासो मायास्वप्नप्रतिभासेन तुल्यो दृयते योगिनी (ना) प्रत्याहारेण। आष्टौ महानिमित्तानि भगवतो नियमः। तथा चोक्तं डाकिनीजाल

संवरे भगवता

" सिध्यत् () अशेषनिः शेषत्रैधातुकस्थिताना देवदैत्यमनुष्याणां प्राणिषु सर्वेषु यावन्तो देहिनः () इति , ''षडङ्ग भावयेद् योगी '' इति च भगवतो नियमः।

पुनश्चोक्तं वज्रपञ्जरे

षडङ्गंभावयेत् तस्मत् स्वा[धि] ष्ठानसमं ततः।
सर्वाङ्गसुन्दरं रम्यं सर्वासङ्ग विवजितम्॥

रम्यं तु डाकिनीचक्रं स्वाधिष्ठानं महाद्भुतम्।
यदुदेति क्षणेनैव गुरुपादप्रसादतः॥

सर्वबुद्धसमायोगडाकिनीजालसम्वरे श्रीवज्रसत्त्व संयोगकल्प द्वितीयो (ये) ऽप्युक्तं भगवता

स्वाधिष्ठानाद् भवत्येव सर्वबुद्धसमागम इती।
बोधिचित्तं सदारक्तं दुःखनिर्वतिहेतुकम्।
अन्यथा हि न बुद्धत्वं कल्प संख्येयकोटिभिः॥
तात्त्विका दुर्लभा लोके अन्ये वाऽऽवर्ण (वरणा)थिताः (नः)।
आवरणप्रहाणाद्धि योगिनस्तेऽतिदुर्लभाः॥

तथा चोक्तमार्यवसुबन्धुपादैः

'' आवरणपरिच्छेदो हि बोधिः। त्रीण्यावरणानि कुशलानुत्पादः , अपरिपूर्णसम्भारता , अमनसिकारता च। तथ सद्धर्म अगोचरम् , लाभसत्कारपूजायां गौरवम् , सर्वेषु अकारुण्यं चेति। ''

पुनश्चोक्तम् ''अप्रतिष्ठितनिर्वाणमप्यावरनं बोधिसत्त्वगोत्राणाम् '' इति। तथा मोक्षाभिलाशो (षो)ऽपि बोधिसत्वानामावरणमिति विस्तरः। तथा रत्नचूडादिमहायानसूत्रे चोक्तं भगवता ''सर्वाकारवरोपेता शून्यता भावनीय योगिना '' इति। तस्यामपि सर्वाकारवरोपेतायां शून्यतायां यद्यभिनिवेशः स्यात् , इदमेव तत्त्वसारमित्याकारेण , सोऽपि दृष्टेर्नरकगमनहेतुरिति। तथा चोक्तम् ''यश्च शान्त मतिः सत्त्वधर्मसमतां जानाति , न स धर्मान् वा अधर्मान् व अभिनिवेश (विशे) त। अनभिनिवेशो धर्माणामर्थः। यश्चार्थमत्येते (ति) स एवास्य महानर्थः '' इति। एवं चेत् , मोक्षारम्भो व्यर्थः स्यात्। एतद् भगवतो हृदयो (यं) नाभिज्ञा (ज्ञ) स्य वचनम्। बन्धमोक्ष इत्युद्भावना संवृत्या वा तत् तत्त्वतो न मोक्ष इति। तथा चोक्तम्

बद्धो न मुच्यते लोके अबद्धो नैव मुच्यते।
बद्धाबद्धविनिर्मुक्तो नान्यो [वा] स्तोह तत्त्वतः॥

तथा चोक्तम्
तस्माद [न] न्यथाभावः स्वभावो यदि (न ) विद्यते।
कथं स्यादन्यथाभावा (वो) भावश्चेन्नैव विद्यते॥

स्वविक्रामिणः पृच्छायां चोक्तम् " ये च स्वविक्रामिनो (णो) बोधिसत्त्वा महासत्त्वा न विकल्पयन्ति , अस्त्यसौ बोधिर्नाम् पदार्थो यस्यार्थावयवमुद्युक्तो दूरे तेषां बोधिसत्त्व [ः]। विसंवादयन्ति ते सदेवमानुषासुर लोकं बोधिसत्त्वा न च विस्तरः।
इत्येवं नादरेत्। अस्ति नास्ति चोभयं प्रतिसि (षि) द्धं भगवता भावाभावविभा विना। तथा चोक्तम्

शून्यतां ये न जानन्ति न ते जानन्ति निर्वृतम्।
तस्माद्धि शुन्यता ज्ञेया भावाभावविभाविना॥

उक्तं च
शुभाशुभविकल्पानां सन्ततिच्छेदललक्षणा।
शून्यता गदिता बुद्धैनन्यित् (न्या वै) शुन्यता मता॥ इति।

तथाचोक्तम्
शून्यता सर्वदृष्टीनां प्रोक्ता निःशरण जिनैः।
येषां तु शून्यतादृष्टिस्तानसाध्यान् बभाषिरे॥ इति।
गुरुभक्ति [र] तो नित्यं नित्यं च करुणाशयः।
मन्त्रपूजाव (र) तो नित्यं सिद्धयत्येव न संशयः॥
अतो बोधिं परां यान्ति कालेनैवादिसाधनम्।
कुशलमुत्पादयितव्यं गुरुपारम्पर्यवेक्षणेन॥ इति॥

तथा चोक्तम् वज्रसत्त्वसंबुद्धै नन्यित् (न्या) शून्यता गदिता। (शुन्यता) अतो हि समन्तभद्रस्य देशना

आकाशयव योगेन गृह्लन्ति ज्ञानसागराः।
अथ वज्रधरो राजा महासुख विवर्धनम्॥
समय देशयेत् सर्व बुद्धत्वफलदायकम्।
सुखैर्हृष्टै स्तथा नृत्यैर्गीतवाद्यैविकुर्वणैः॥
गन्धमाल्यविलेपनैस्तु विद्याराजः प्रसिद्धयति।
यथा सुखं सुखं वाद्ये यथारुचितचेष्टीतम्॥
यथाहारविहारोऽपि सिद्धयते परमाक्षरम्।
खानपानप्रयोग (गै) स्तु दिव्यालङ्कारभूषणैः॥

सिद्धयते परमं तत्त्वं दिनेनैकेन चोदितः।
नित्यं स्वसमयः साध्यो नित्यं पूज्यास्तथागताः॥

नित्यं च गुरवेदेयं तस्माद् बुद्ध (त्व) समो गुरुः।
यथा वैरोचनो नाथस्तथा वज्रधरो गुरुः॥

यथाकाशो महारा (गं) जो वज्रधर्मो महामुनिः।
समन्तराजो यथा नाथस्तथाचार्यः प्रगीयते॥

तस्मात्सर्वप्रयत्नेन वज्राचार्य महागुरुम्।
प्रच्छन्नवरकान्यासं नावमन्यात् कदाचन॥

पुनरप्युक्तं वज्रपञ्जरे

गुरोश्छायां न लङ्घयेद् [गुरु] पत्नीं च पादुका [म्]।
ये लङ्घयन्ति सम्मोहात् ते नराः क्षुरधारिणः॥

स्व (सु) सिद्धोऽपि यदा शिष्यो गुरोराज्ञां न (तु) लङ्घयेत्।
इह लोके भवेत्कुष्ठः (ष्ठी) परलोके नरकं वसेत्॥

माया शाठयप्रयोगेण मिथ्याभक्तिप्रकाशनात्।
क्षयकुष्ठमहारोगी जायते नरकादिषु॥

एवं मत्वा सदा शिष्यो गुरोर्भक्तिपरायणः।
साधयेत् विपुलां सिद्धि गुरोराज्ञां प्रणयत (ज्ञाप्रपालनात्)॥

॥ इति डाकिनीजालसंवररहस्यं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project