Digital Sanskrit Buddhist Canon

5 कर्मवस्तु

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

5 karmavastu

कर्मवस्तु



(कर्मवस्तुनि) उद्दानम्।



काशिषु वासवग्रामकं सेनाञ्जयवस्तुकम्।

चम्पायां भगवान् बुद्धः अकर्माणि प्रतिक्षिपेत्॥१॥



काशिषु वासवग्रामके सेनांजयो नाम भिक्षुः प्रतिवसति। तमागम्य वासवग्रामका ब्राह्मणगृहपतयो बुद्धधर्मसंघेषु कारान् कुर्वन्ति। ये आगन्तुका भिक्षुवो वासवग्रामकमागच्छन्ति तानसौ प्रतिशाम्य सर्वोपकरणैः प्रवारयित्वा मार्गश्रमे प्रतिविनोदिते येषु कुलेषु पिण्डका उपनिबद्धास्तेषु भोक्तुं प्रेषयति। यावदन्यतमः सालोहितो वासवग्रामके वर्षा उषितः। त्रयाणां वार्षिकाणां मासानामत्ययात्कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं येन श्रावस्ती तेन चारिकां प्रक्रान्तोऽनुपूर्वेण चारिकां चरन् श्रावस्तीमनुप्राप्तः।



आचरितं षड्वर्गिकाणामशून्यं जेतवनद्धारमन्यतरान्यतरेण षड्वर्गिकेण। उपनन्दो जेतवनद्वारे तिष्ठति। तेनासौ दूरत एव दृष्टो बकाकारशिराः प्रलम्बभ्रूः। स संलक्षयति। कोऽप्ययं स्थविरो भिक्षुरागच्छति। प्रत्युद्गन्तव्यमिति। स् अप्रत्युद्गतः। स्वागतं स्वागतं स्थविर इति। स कथयति वन्दे आचार्य इति। स संलक्षयति। महल्लो बतायम्। नायमाचार्यं जानीते नाप्युपाध्यायमिति। सालोहित कियद्द्दूरादागच्छसि। वासवग्रामकात्। किं तत्र। विहारः। किमसौ विहारः। आहोस्विद्विघातः। कीदृशो विहारः। कीदृशो विघातः। यत्रोपकरणसंपत् स विहारः। यत्रोपकरणवैकल्यं स विघातः। यद्येवं विहारोऽसौ यत्र सेनाञ्जयो नाम भिक्षुः प्रतिवसति। तमागम्य वासवग्रामीयका ब्राह्मणगृहपतयो बुद्धधर्मसंघेषु कारान् कुर्वन्ति। इतश्च तत्रागन्तुको भिक्षुरागच्छति। तमसौ प्रतिशाम्य सर्वोपकरणैः प्रवारयित्वा मार्गश्रमे प्रतिविनोदिते येषु कुलेषु भिक्षूणां पिण्डका उपनिबद्धास्तेषु भोक्तुं प्रेषयति।



आचरितं षड्वर्गिकाणां यत्किंचिदेव शृण्वन्ति तद्रात्रौ संनिपत्य परस्परमारोचयन्ति। नन्दोपनन्द कियच्चिरमस्माभिः कृच्छ्रमुद्वोढव्यम्। अस्ति किंचिद्युष्माकं किंचिच्छ्रुतं यत्रोदारावभासो भवेदिति। उपनन्दः कथयति। अस्ति। काशिषु वासवग्रामके सेनाण्जयो नाम भिक्षुः प्रतिवसति। तमागम्य वासवग्रामीयका ब्राह्मणगृहपतयः पूर्ववद्यावद्भिक्तुं प्रेषयति। यद्यभिप्रेतं तत्र गच्छामः। ते समादाय पात्रचीवरं येन वासवग्रामकस्तेन चारिकां प्रक्रान्ताः। अनुपूर्वेण चारिकां चरन्तो वासवग्रामकमनुप्राप्ताः। ते सेनांजयेन दूरत एव दृष्टाः। स संलक्षयति। आगता ह्येते दुष्ठुलसमुदाचाराः। प्रतिशामयित्वा सर्वोपकरणैः प्रवारयितव्याः। नो तु कुलानि भोक्तुं प्रेषयितव्या इति। ते अनेन प्रतिशामयित्वा सर्वोपकरणैः प्रवारिताः। नो तु कुलानि भोक्तुं प्रेषिता इति। अपरे कथयन्ति। एकं तावत्संपन्नं कुलान्यपि प्रेषयिष्यतीति। यावन्नवको भिक्षुरागतः। स तेन प्रतिशामयित्वा सर्वोपकरणैः प्रवारितो मार्गश्रमे प्रतिविनोदिते कुलानि भोक्तुं प्रेषितः। षड्वर्गिकाः प्रकुपिताः कथयन्ति। नन्दोपनन्द कीदृशोऽयं (महल्लः) छन्दद्वेषी। यदि तावत्पूर्वमागतास्ते वयम्। (यदि वृद्धास्ते वयम्।) अथ बहुश्रुतास्ते वयम्। एष भिक्षुरचिरेणाभ्यागतो नवकह् प्रकृतिज्ञः। सोऽनेन स र्वोपकरणैः प्रवारयित्वा कुलानि भोक्तुं प्रेषितो नो तु वयम्। सतैरुपालब्धः। महल्ल ईदृशस्त्वं छन्दद्वेषी। यदि तावत्पूर्वमागतास्ते वयं पूर्ववद्यावत्। स त्वया सर्वोपकरणैः प्रवारयित्वा कुलानि भोक्तुं प्रेषितो नो तु वयम्। स्थविरा मा किंचित् परिहीयते। षड्वर्गिकाः संजातामर्षाः कथयन्ति। न तूष्णीं स्थातव्यम्। तदपरं प्रतिवदति। स तैरभ्याहतः। तूष्णीमवस्थितह्। तैस्तस्याचोदयित्वास्मारयित्वा वस्तुकर्मप्रतिज्ञाया बलादुत्क्षेपणीयं कर्म कृतम्। स संलक्ष्ःअयति। दुःखं ब्राह्मणगृहपतयः प्रसाद्यन्ते सुखमप्रसाद्यन्ते। यदि स्थास्यामि वासवग्रामीयका ब्राह्मणगृहपतयः प्रसादं प्रवेदयिष्यन्ते। सर्वदा प्रक्रमितव्यमिति। स समादाय पात्रचीवरं येन श्रावस्ती तेन चारिकां प्रक्रान्तोऽनुपूर्वेण चारिकां चरन् श्रावस्तीमनुप्राप्तः। स भिक्षुभिर्दृष्ट उक्तश्च। स्वागतं स्वागतमायुष्मन्। सेनाञ्जयिन् प्रीता वयं त्वद्दर्शनेन नो त्वागमनेन। किं कारणम्। त्वामागम्य वासवग्रामीयका ब्राःमणगृहपतयो बुद्धधर्मसंघेषु कारान् कुर्वन्ति। आगन्तुकानां गमिकानां च वासवग्रामकं प्रतिशरणम्। अस्त्येतदेवम्। मम तु षड्वर्गिकैरचोद्यित्वास्मारयित्वा वस्तुकर्मप्रतिज्ञायाम् बलादुत्क्षेपणीयं कर्म कृतम्। किं कारणम्। तेन यथावृत्तमाख्यातम्। तेऽवध्यायन्तः क्षिपन्तो विवाचयन्त एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। तस्मात्तर्हि भिक्षवो व्यग्रेण न भिक्षुभिरचोदयित्वास्मारयित्वा वस्तुकर्मप्रतिज्ञया बलादुत्क्षेपणीयं कर्म कर्तव्यम्। कुर्वन्ति। सातिसारा भवन्ति।



बुद्धो भगवान् चम्पायां विहरति गर्गायाः पुष्करिण्यास्तीरे। तेन खलु समयेन षड्वर्गिका भिक्षव इमान्येवंरूपाण्यधर्मकर्माणि कुर्वन्ति। तद्यथा अधर्मेण कुर्वन्ति व्यग्राः। अधर्मेण कुर्वन्ति समग्राः। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। तस्मान्न भिक्षुभिरिमान्येवंरूपाण्यधर्मकर्माणि करणीयानि। तद्यथा अधर्मेण व्यग्रैरधर्मेण समग्रैः धर्मेण व्यग्रैः। कुर्वन्ति। सातिसारा भवन्ति।



उद्दानम्।



न एक एकेन (न) द्वौ न संबहुलाः कृताः।

न गणो गणस्य कर्माणि पंच संघकर्मणां स्वामिनः॥२॥



बुद्धो भगवान् चम्पायाम् विहरति गर्गायाह् कुष्करिण्यास्तीरे। तेन खलु समयेन षड्गर्विका भिक्षव इमान्येवंरूपाण्यधर्मकर्माणि कुर्वन्ति। तद्यथा एकोऽप्येकस्य। एको द्वयोः। एकह् संबहुलानाम्। द्वावपि द्वयोः। द्वावेकस्य। द्वौ संबहुलानाम्। संबहुला अपि संबहुलानाम्। संबहुला एकस्य। संबहुला द्वयोः। गणो गणस्य। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। तस्मात् नैकेनैकस्य कर्म कर्तव्यम्। नैकेन द्वयोः। नैकेन संबहुलानाम्। (न) द्वाभ्यां द्वयोः। न वाभ्यामेकस्य। न द्वाभ्यां संबहुलानाम्। न संबहुलैः संबहुलानाम्। न संबहुलैरेकस्य। न संबहुलैर्द्वयोः। न गणेन गणस्य। कुर्वन्ति। सातिसारा भवन्ति।



अपि तु भिक्षवः पंच संघकर्मणां स्वामिनः। कतमे पंच। चत्वारो भिक्षवः संघह्। पञ्चापि भिक्षवः संघः। दश भिक्षवः (संघः)। विंशतिर्भिक्षवः अस्ंघः उत्तरे (च।) पंच संघाः।



तत्र भिक्षवो यत्र चत्वारो भिक्षवह् प्रतिवसन्ति। अर्हति तत्र संघो धर्मेण सर्वकर्माणि कर्तुम्। स्थापयित्वा पंचानां प्रवारणां दशानामुपसंपदं विंशतीनां चावर्हणम्।



यत्र पंच प्रतिवसन्ति। अर्हति तत्र संघो धर्मेण सर्वकर्माणि कर्तुम्। स्थापयित्वा दशानामुपसंपदं विंशतीनां चावर्हणम्।



यत्र भिक्षवो दश प्रतिवसन्ति। अर्हति तत्र संघः सर्वकर्माणि कर्तुम्। स्थापयित्वा विंशतीनामावर्हणम्।



यत्र विंशतिर्भिक्षवः प्रतिवसन्ति उत्तरे च। अर्हति तत्र संघो धर्मेण सर्वकर्माणि कर्तुम्।



उद्दानम्।



चतुर्वर्गकरणीयं पुद्गलम् ऊनकः कृतः।

न पारिवासिकचर्तुर्थेन कर्म चतुष्टयं स्मृतम्॥३॥



चतुवर्गकरणीयं भिक्शवः कर्म ऊनाश्चत्वारः कुर्वन्ति। अधर्मकर्म च तदविनयकर्म च। न तत्तथा करणीयम्। संघश्च तेन सातिसारः। चतुर्वर्गकरणीयं कर्म आगारिकचतुर्थाः कुर्वन्ति। अधर्मकर्म च तदविनयकर्म च। न च तत्तथा करणीयम्। संगह्श्च तेन सातिसारह्। एवं श्रामणेरकह् षण्ढपंडकह् भिक्षुणीदूषको मातॄघातकह् पितृघातकह् अर्हद्घातकः संघभेदकह् तथागतस्यान्तिके दुष्टचित्त्ररुधिरोत्पादकस्तीर्थ्यकस्तीर्थिकावक्रान्तिकः स्तेयासंवासिको नानासंवासिकोऽवंवासिकः पारिवासिकचतुर्थाः कर्म कुर्वन्ति। अर्धर्मकर्म च तदविनयकर्म च। (न च) तत्तथा करणीयम्। संघश्च तेन सातिसारः।



चतुर्वर्गकरणीयं कर्म पूर्णाश्चत्वारो धर्मेण कुर्वन्ति धर्मकर्म च तद्विनयकर्म च। एवं च तत्करणीयम्। संघश्च तेन (न) सातिसारः। चतुर्वर्गकरणीयं कर्म नागरिकचतुर्थो न श्रामणेरकह् पूर्ववद्यावन्त पारिवासिकचतुर्थाः कुर्वन्ति। धर्मकर्म च तद्विनयकर्म च। एवं च तत्करणीयम्। संघश्च तेन (न) सातिसारः।



पंचवर्गकरणीयं कर्म ऊनाः पंच कुर्वन्ति। अधर्मकर्म च तदविनयकर्म च। न तथा करणीयम्। संघश्च तेन सातिसारह्। पंचवर्गकरणीयं कर्म आगारिकपंचमः पूर्ववद्यावत् पारिवासिकपंचमाः कुर्वन्ति। अधर्मकर्म च तदविनयकर्म च। न च तत्तथा करणीयम्। संघश्च तेन सातिसारः।



पंचवर्गकरणीयं कर्म पूर्णाः पंचवर्गेण कुर्वन्ति। धर्मकर्म च तद्विनयकर्म च। एवं तत्करणीयम्। संघश्च तेन (न) सातिसारः। पञ्चवर्गकरणीयं कर्म नागारिकपञ्चमा न श्रामणेरकाः पूर्ववद्यावन्न पारिवासिकपञ्चमा धर्मेण कुर्वन्ति। धर्म कर्म च तद्विनय कर्म। एवं च तत्करणीयम्। संघश्च तेन (न) सातिसारः।



दशवर्गकरणीयं कर्म ऊना दशवर्गेण कुर्वन्ति। अधर्मकर्म च तदविनयकर्म च। न च तत्तथा करणीयम्। संघश्च तेन सातिसारः। दशवर्गकरणीयं कर्म आगारिकदशमाः पूर्ववद्यावत् पारिवासिकपञ्चमा धर्मेण कुर्वन्ति। धर्म कर्म च तद्विनय कर्म। एवं च तत्करणीयम्। संघश्च अतेन (न) सातिसारः।



दशवर्गकरणीयं कर्म ऊना दशवर्गेण कुर्वन्ति। अधर्मकर्म च तदविनयकर्म च। न च तत्तथा करणीयम्। संघश्च तेन सातिसारः। दशवर्गकरणीयं कर्म आगारिकदशमाः पूर्ववद्यावत् पारिवासिकदशमा कुर्वन्ति। अधर्मकर्म च तदविनयकर्म च। न च तत्तथा करणीयम्। संघश्च तेन सातिसारः।



दशवर्गकरणीयं कर्म पूर्णा दशवर्गेण कुर्वन्ति। धर्मकर्म च त द्विनयकर्म च। एवं च तत्कर्म करणीयम्। संघश्च तेन (न) सातिसारः। दशवर्गकरणीयं कर्म नागारिकःदशमाः पूर्ववद्यावन्न पारिवासिकदशमा धर्मेण कुर्वन्ति। धर्मकर्म च तद्विनयकर्म च। एवं च करणीयम्। संघश्च तेन (न) सातिसारः।



विंशतिवर्गकरणीयं कर्म ऊना विंशतिवर्गेण कुर्वन्ति। अधर्मकर्म च तदविनयकर्म च। संघश्च तेन सातिसारः। विंशतिवर्गकरणीयं कर्म आगारिकविंशतिमाः श्रामणेरकाः पूर्ववत्पारिवासिकविंशतिमाः कुर्वन्ति। अधर्मकर्म च तदविनयकर्म च। न च तत्तथा कारणीयम्। संघश्च तेन सातिसारः।



विंशतिवर्गकरणीयं कर्म पूर्णा विंशतिधर्मेण कुर्वन्ति। धर्मकर्म च तद्विनयकर्म च। एवं च तत्करणीयम्। संघश्च तेन (न) सातिसारः। विंशतिवर्गकरणीयं कर्म नागरिकविंशतिमा न श्रामणेरकाः पूर्ववद्यावन्न पारिवासिकविंशतिमा धर्मेण कुर्वन्ति। धर्मकम तद्विनयकर्म च। एवं च तत्करणीयम्। संघश्च तेन (न) सातिसारः।



उद्दानम्।



धर्माधर्मेण यत्करम यच्च ज्ञप्तितया कृतम्।

संमुखं च प्रतिज्ञा च चक्रपेयालं संकलात्॥४॥



अधर्मकर्म। धर्मकर्म। अधर्म (कर्म) कतमत्। अप्राप्ते उत्सारणे अप्राप्तमुत्सारयन्ति। यथास्योत्सार्यमाणस्यानुश्रावणं भवति। न तथोत्सारयन्ति। अधर्मकर्म। धर्मकर्म कतमत्। प्राप्ते उत्सारणे प्राप्तमुत्सारयन्ति। यथास्योत्सार्यमाणस्यानुश्रावणं भवति। तथोत्सारयन्ति। धर्मकर्म। अप्राप्ते ओसारणे अप्राप्तमोसारयन्ति। यथास्य ओसार्यमाणस्यानुश्रावणं भवति। न तथा ओसारयन्ति। अधर्मकर्म। प्राप्ते ओसारणे प्राप्तमोसारयन्ति। यथास्य ओसार्यमाणस्यानुश्रावणं भवति। तथोसारयन्ति। धर्मकर्म। ज्ञप्तिकर्म ज्ञप्तिमकृत्वा कुर्वन्ति। अधर्मकर्म। ज्ञप्तिकर्म ज्ञप्तिं कृत्वा कुर्वन्ति। धर्मकर्म। ज्ञप्तिद्वितीयं कर्म। ज्ञप्तिमकृत्वा एकं वारमनुश्रावयन्ति। अधर्मकर्म। ज्ञप्तिद्वितीयं कर्म। ज्ञप्तिं कृत्वा एकं वारमनुश्रावयन्ति। धर्मकर्म। ज्ञप्तिचतुर्थं कर्म। ज्ञप्तिं कृत्वा त्रीन् वाचाननुश्रावयन्ति। धर्मकर्म। अन्येन कर्मणा ज्ञप्तिं कृत्वा निष्ठापयन्ति। अधर्मकर्म। तेनैव कर्मणा ज्ञप्तिं कृत्वा निष्ठापयन्ति। धर्मकर्म। संमुखकरणीयं कर्मसंमुखीभूतस्य कुर्वन्ति। अधर्मकर्म। संमुखकरणीयं कर्म संमुखीभूतस्य कुर्वन्ति। धर्मकर्म। (प्रतिज्ञाकरणीयं कर्म अप्रतिज्ञया कुर्वन्ति। अधर्मकर्म) प्रतिज्ञाकरणीयं कर्म प्रत्ज्ञया कुर्वन्ति। धर्मकर्म। संमुखविनयार्हाय स्मृतिविनयं ददाति। अधर्मकर्म। अमूढविनयं तत्स्वभावैषीयं यद्भूयैषीयं प्रतिज्ञाकारकं तृणप्रस्तारकं तर्जनीयं निगर्हणीयं प्रतिसंहरणीयमदर्शनीयोत्क्षेपणयमप्रतिकर्मार्हयोत्क्षेपणीयमप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म। परिवासं मूलपरिवासं मूलापकर्षपरिवासं मानाप्यं मूलापकर्षमानाप्यमावर्हन्ति। अधर्मकर्म। संमुखविनयार्हाय तु संमुखविनयमेव ददाति न स्मृतिविनयं न यावदावर्हन्ति। धर्मकर्म। स्मृतिविनयार्हाय अमूढविनयं ददाति। अधर्मकर्म। एवं यद्भूयैषीयं पूर्ववद्यावदावर्हन्ति संमुखविनयं ददाति। अधर्मकर्म। स्मृतिविनयार्हाय तु स्मृतिविनयमेव ददाति न तत्स्वभावैषियं न यावत्संमुखविनयम्। धर्मकर्म। अमूढविनयार्हाय तत्स्वभावैषीयं ददाति। अधर्मकर्म। एवं यद्भूयैषीयं यावत्संमुखविनयं स्मृतिविनयं ददाति। अधर्मकर्म। अमूढविनयार्हाय त्वमूढविनयमेव ददाति तत्स्वभावैषीयं न यावत्संमुखविनयं स्मृतिविनयं। धर्मकर्म। तत्स्वभावैषीयार्हाय यद्भूयैषीयं ददाति। अधर्मकर्म। तर्जनीयार्हाय पूर्ववद्यावत् अमूढविनयं ददाति। अधर्मकर्म। तत्स्वभावैषीयार्हाय तु तत्स्वभावैषियमेव ददाति न यद्भूयैषियं न यावदमूढविनयम्। धर्मकर्म। यद्भूयैषीयार्हाय। तर्हनीयं कर्म कुर्वन्ति। अधर्मकर्म। निगर्हणीयार्हाय पूर्वव्द्यावत्तत्स्वभावैषियं ददाति। अधर्मकर्म। यद्भूयैषीयार्हाय यद्भूयैषीयमेव ददाति न तर्जनीयं न यावत्तत्स्वभावैषीयम्। धर्मकर्म। तर्जनीयकर्मार्हाय निगर्हणीयं कर्म कुर्वन्ति प्रतिसंहरणीयं पूर्ववद्यावद्यद्भूयैषीयं ददाति। अधर्मकर्म। तर्जनीयकर्मार्हाय तु तर्जनीयमेव कर्म कुर्वन्ति न परिशिष्टानीति। अनया वर्तन्या चक्रपेयालह् पूर्ववद्यावद्धर्मकर्म। निगर्हणीयार्हाय प्रतिसंहरणीयं कर्म कुर्वन्ति। अधर्मकर्म। पूर्ववत्। निगर्हणीयकर्मार्हाय तु निग्र्हणीयकर्मैव कुर्वन्ति। धर्मकर्म। पूर्ववत्। प्रवासनीयकर्मार्हाय प्रतिसंहरणीयं कर्म कुर्वन्ति। अधर्मकर्म पूर्ववत्। प्रवासनीयकर्मार्हाय तु प्रवासनीयमेव कर्म कुर्वन्ति। धर्मकर्म पूर्ववत्। प्रतिसंहरणीयकर्मार्हायादर्शनीयोत्क्षेपणीयं कर्म कुर्वन्ति। अधर्मकर्म पूर्ववत्। प्रतिसंहरणीयकर्मार्हाय तु प्रतिसंहरणीयमेव कर्म कुर्वन्ति। धर्मकर् पूर्ववत्। अदर्शनीयोत्क्षेपणीयकर्मार्हायाप्रतिकर्मार्हापणीयमेव कर्म कुर्वन्ति। अधर्मकर्म पूर्ववत्। अदर्शनीयोत्क्षेपणीयकर्मार्हाय त्वदर्शनीयोत्क्षेपणीयमेव कर्म कुर्वन्ति। धर्मकर्म पूर्ववत्। अप्रतिकर्मार्हायोत्क्षेपणीयकर्मार्हाय परिवासं ददाति। अधर्मकर्म पूर्ववत्। अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म कुर्वन्ति। अधर्मकर्म पूर्ववत्। अप्रतिकर्मार्हायोत्क्षेपणीयकर्मार्हाय त्वप्रति कर्मार्हायोत्क्षेपणीयमेव कर्म कुर्वन्ति। धर्मकर्म पूर्ववत्। अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीयकर्मार्हाय परिवासं ददाति। अधर्मकर्म पूर्ववत्। अप्रतिविसृष्टे पापके दृष्टिगते उत्क्षेपणीयकर्मार्हाय त्वप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्मैव कुर्वन्ति। धर्मकर्म पूर्ववत्। परिवासकर्मार्हाय मूलपरिवासं ददाति। अधर्मकर्म पूर्ववत्। परिवासकर्मार्हाय त्वपरिवासमेव तु ददाति। अदह्र्मकर्म पूर्ववत्। मूलपरिवासार्हाय मूलावकर्षपरिवासं ददाति। अधर्मकर्म पूर्ववत्। मूलपरिवासार्हाय तु मूलपरिवासमेव ददाति। धर्मकर्म पूर्ववत्। अपर्युषितपरिवासाय मानाप्यं ददाति। अधर्मकर्म पूर्ववत्। अपर्युषितपरिवासाय मानाप्यं ददाति। अधर्मकर्म पूर्ववत्। पर्युषितपरिवासाय तु मानाप्यं ददाति। धर्मकर्म पूर्ववत्। अचरितमानाप्यमावर्हन्ति। अधर्मकर्म पूर्ववत्। चरितमानाप्यमावर्हन्ति। धर्मकर्म पूर्ववत्। आवर्हणार्हाय संमुखविनयं ददाति। पूर्ववद्यावन्मानाप्यं ददाति। अधर्मकर्म पूर्ववत्। आवर्हणार्हाय त्वावर्हणमेव कुर्वन्ति न संमुखविनयं ददाति न यावन्मानाप्यम्। धर्मकर्म पूर्ववत्। एवमेव नवकेन चक्रपेयालं विस्तरेण बोद्धव्यम्।



उद्दानम्।



व्यग्राः समग्रा रोहन्ति धर्माधर्मेण बोत्क्षिपेत्।

ओसारणया एतनि कर्म वस्तुसमुद्दितम्॥५॥



व्यग्रकर्म। समग्रकर्म। व्यग्फ़कर्म कतमत्। यावन्तो भिक्षवः सीमाप्राप्ताः क्रिया प्राप्तास्ते सर्वं समवहिताः संमुखोभूताश्छन्दार्हिभ्यश्च च्छन्देनानीता भवन्ति। समवहिताश्च भिक्षवः संमुखीभूताः प्रतिवहन्ति प्रतिक्रोशन्ति। येषां प्रतिवहताम् प्रतिक्रोशतां प्रतिक्रोशो रोहति। कर्माणि च कुर्वन्ति। इदमुच्यते व्यग्रकर्म। समग्रकर्म कतमत्। यावन्तो भिक्षवः सीमाप्राप्ताः क्रियाप्राप्तास्ते स र्वे समवहिताः संमुखीभूताश्छन्दार्हिभ्यश्च छन्देनानीता भवन्ति। समवहिताश्च भिक्षवः संमुखीभूता न प्रतिवहन्ति न प्रतिक्रोशन्ति। येषां प्रतिवहतां प्रतिक्रोशतां प्रतिक्रोशो रोहति। कर्माणि च कुर्वन्ति। इदमुच्यते समग्रकर्म।



आयुष्मानुदाली बुद्धं भगवन्तं पृच्छति। कतीनां भदन्त प्रतिक्रोशो न रोहति। दशानामुदालिन्। अलज्जिन्ः सान्तरस्य बालस्य मूढस्याव्यक्तस्याकुशलस्य बहिःसीमायां स्थितस्य ईर्यापथे च्युतस्य वाचा असंव्ऱ्इतस्य। कतीनां भदन्त प्रतिक्रोशो रोहति। चतुर्णामुदालिन्। प्रकृतिस्थितस्य अन्तःसीमायां स्थितस्य ईर्यापथादच्युतस्य वा वाचा संयतस्येति। आयुष्मानुदाली बुद्धं भगवन्तं पृच्छति। कति भदन्त उत्क्षेपणीयकर्माणि। चत्वार्युदालिन्। अधर्मेणोत्क्षिपन्ति व्यग्रा अधर्मेण समग्राः। धर्मेण व्यग्राः। (धर्मेण समग्राः।) तत्रैकमुत्क्षेषणकर्मः। यदिदं धर्मेणोत्क्षिपन्ति समग्राः। कति भदन्त ओसारणकर्माणि। चत्वार्युदालिन्। अधर्मेणोसारयन्ति व्यग्राः। अधर्मेण समग्राः। धर्मेण व्यग्राः। धर्मेण समग्राः। तत्रैकमोसारणकर्म। यदिदं धर्मेण कुर्वन्ति समग्राः।



॥ कर्मवस्तु समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project