Digital Sanskrit Buddhist Canon

4 कोशाम्बकवस्तु

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel version

4 kośāmbakavastu

कोशाम्बकवस्तु



(कोशाम्बकवस्तुनि) उद्दानम्।



कोशाम्बकानाम् कलहो नानावादश्च भिक्षुभिः।

पाठेविवदमानानां दीर्घिकस्य च चारिका॥१॥



भृगुश्च लवणागारे रक्षितो वनषण्डहस्तिना।

अनिरुद्धश्चेति कृत्वा श्रावस्त्याम् व्युपशाम्यति॥२॥



बुद्धो भगवान् कोशाम्ब्याम् विहरति घोषिलारामे। तेन खलु समयेन कोशाम्बको भिक्षुर्वाडो विक्रान्तः सूत्रधरो विनयधरो मातृकाधरः। बहवश्चास्य भिक्षवः सहायका व्याडा विक्रान्ताः सूत्रधरा विनयधरा मातृकाधराः। वैशाल्याम् वैशालको भिक्षुर्व्याडो विक्रान्तः सूत्रधरो विनयधरो मातृकाधरः। बहवश्चास्य भिक्षवः सहायका व्याडा विक्रान्ताः सूत्रधरा निवयधरा मातृकाधराः।



अथ वैशालको भिक्षुरपरेण समयेन जनपदचारिकाम् चरन् कोशाम्बीमनुप्राप्तः। स मार्गश्रमं प्रतिविनोद्य कोशाम्बकस्य भिक्षोः सकाशमुपसंक्रान्तः। उपसंक्रम्य परस्परं प्रतिविनोद्य सूत्रविनयाभिधर्मेषु विनिश्चयं करुमारब्धौ। तत्रैकः कथयति। एवमेतत् सूत्रं पठितव्यम्। अयमस्य सूत्रस्यार्थः। द्वितीयः। कथयति। नेदं सूत्रमेवं कठितव्यम्। नास्य सूत्रस्यायमर्थः। (तव) अयुक्तम्। मम युक्तम्। तव सहितम्। ममासहितम्। तवेति। ततस्तयोः परस्परं वैरूद्ध्यमुत्पन्नम्। कोशाम्बको भिक्षुर्वैशालकस्य रन्ध्रान्वेषण तत्परस्तिष्ठते।



संघेन चायमेवंरूपः क्रियाकारः कृतः। यः पश्येद्वर्यस्कुम्भिकां रिक्तां तुच्छां निरुदकाम् तेनोदकस्य पूरयित्वा यथास्थाने स्था(परि)तव्या उपधिवारिकस्य वारोचयितव्या। वर्चुस्कुम्भिका रिक्ता तिष्ठतीति। न चेदात्मना पूरयति नाप्युपधिवारिकस्यारोचयति तस्यानादरो भवति। अनादराच्च तं वयं पायन्तिकामापत्तिं देशयिष्याम इति।



यावदन्यतमेन गृहपतिना बुद्धप्रमुखो भुक्षुसंघोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः। तत्र केचिद्भिक्षुवो भुक्तों गताः। केचिद् गन्तुकामाः। वैशालकस्तु भिक्षुर्वर्चस्कुम्भिकामादाय वर्चुस्कुटिं प्रविष्टः। तस्य सार्धं विहारी त्वरितगतिप्रचारतया शब्दयितुं गतः। उपाध्याय केचिद् भिक्षवो भोक्तुं गताः केचिद् गन्तुकामाः। आगच्छत गच्छाम इति। स तेन सार्धं वर्चस्कुम्भिकामेकस्मिन् स्थाने स्थापयित्वा संप्रस्थितः। स च कोशाम्बको भिक्षुस्तं प्रदेशमनुप्राप्तः। ततो।सौ वैशालक्प् भिक्षुः पुरस्ताद्वर्चस्कुम्भिकाम् गृहीत्वा विहारं प्रवेष्टुमारब्धः। सार्धविहारिणा उच्यते। उपाध्याय किं भूयः प्रविशसि। स कथयति। पुत्र ममायं कोशाम्बको भिक्षुरवतारप्रेक्षी। वर्चस्कुम्भिकां पूरयितुम्। प्रविशामि। किमियम् सर्वेण सर्वं रिक्ता। न् असर्वेण सर्वम्। अपि तु न लभ्यमनेनोदकेनोदककृत्यं कर्तुम्। उपाध्याय केवलं सर्वे४ण सर्वं रिक्ता भवतु। वयमुपाध्यायस्य पक्षो बलं सहायकाः। आगच्छत। गच्छामह्। स ताम् तत्रैव स्थापयित्वा तेन सार्धं गतः। कोशाम्बकेन भिक्षुणा दृष्टा सा च कुम्भिका परामृष्टा। ततः संजातामर्षो हुमिति कृत्वा वर्चस्कुम्भिकां पूरयित्वा उदककार्यं कृत्वा गतः। ततो भुक्ते भिक्षुसंघे विहारमागते भिक्षून् प्रचारयितुमारब्धः। आयुष्मन्तः अनेन भिक्षुणा वैशालकेन संघस्य क्रियाकारो भग्न इति। ततो यथावृद्धोकया सामीचीं कुर्वाणोऽनुपूर्वेण तस्य सकाशमुपसंक्रान्तः। कथयति। आयुष्मन् अवकाशं कुरु। कृतो भवतु। आपत्तिरस्यापन्ना। यथा धर्मं कुरु। न पश्याम्यापत्तिम्। ननु संघेन क्रियाकारः कृतो यः पश्येद्वर्चस्कुम्भिकां रिक्तां तुच्छां निरुदकाम् तेनात्मना उदकस्य पूरयित्वा यथास्थाने तिष्ठतीति। न चेदात्मना पूरयति। नाप्युषधिवारिकस्यारोचयति। तस्यानादरो भवति। अनादराच्च तं वयं पायन्तिकामापत्तिं देशयिष्याम इति। स कथयति। न सा रिक्ता। मा भवतु रिक्ता। न लभ्यं तेनोदकेन्प्दककार्यं कर्तुम्। स तूष्णीमवस्थितः।



कोशाम्बको भिक्षुः कोशाम्ब्यां नैवासिको बहुपरिवारश्च। तेन तस्य बलादुत्क्षेपणीयं कर्म कृतमिति। वैशालका भिक्षवः क्षुब्धा इति। तत्र कोशाम्बकानां वैशालकानां च भिक्षूणामुत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुत आपन्न इति वा अनापन्न इति वा। यत्पुनरापन्नो नानापन्नः। उत्क्षिप्तो नानित्क्षिप्तकः। यत् पुनरुत्क्षिप्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेणेति। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। ततो भगवानुत्क्षिप्तकं भिक्षुमुत्क्षिप्तकानुवर्तकं भिक्षुमत्क्षिप्तकानुवर्तका (नुवर्तकां) अह्च दूतेन प्रकोश्येदमवोचत्। सत्यं युष्माकं भिक्षव उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदु तापन्न इति पूर्ववद्यावत् कोप्येन स्थापनार्हेणेति। सत्यं भदन्त। मा भिक्षवः कलहो मा भण्डनं मा विग्रहो मा विवादः। अपि तूत्क्षिप्त (क) स्याहं भिक्षोरासमुदाचारिकान् धर्मान् प्रज्ञपयामि। उत्क्षिप्तकेन भिक्षुणा एवं चित्तमुत्पादयितव्यम्। अयमुत्क्षेपको भिक्षुर्व्याडो विक्रान्तः सूत्रधरो विनयधरो मातृकाधरः। बहवश्चास्य भिक्षवः सहायका व्याडा विकान्ताः सूत्रधरा विनयधरा मातृकाधराः। अहं चेदापत्तिं यथाधर्मं न प्रतिकुर्याम्। तेन संघः स कलहजातो विहरेद् भण्डनजातो विगृहीतो विवादमापन्नः। यत्त्वहमापत्तिं यथाधर्मं प्रतिकुर्यामिति। उत्क्षिप्तको भिक्षुर्यथाप्रज्ञप्तानासमुदाचारिकान् धर्मान्न समादाय वर्तते। सातिसारो भवति।



अथ भगवानुत्क्षिप्तकं भिक्षुमुत्क्षिप्तकानुवर्तकान् भिक्षूनुक्षिप्तकानुवर्त्अकानुवर्तकानुवर्तकांश्चोद्योज्य उत्क्षेपकं भिक्षुमुत्क्षेपकानुवर्तकान् भिक्षूनुत्क्षेपकानुवर्तकानुवर्तकांश्च दूतेन प्रक्रोश्येदमवोचत्। सत्यं युष्माकं भिक्षव उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा पूर्ववद्यावत् स्थापनार्हेणेति। सत्यं भदन्त। मा भिक्षवः कलहो मा भण्डनं मा विग्रहो मा विवादः। अपि तूत्क्षेपकस्याहं भिक्षरासमुदाचारिकान् धर्मान् प्रग़्यपयिष्यामि। उत्क्षेपकेण भिक्षुणा एवं चित्तमुत्पादयितव्यम्। अयमुत्क्षिप्तको भिक्षुर्व्याडो विक्रान्तः सूत्रधरो विनयधरो मातृकाधरह्। बहवश्चास्य भिक्षवः सहायका व्याडा विक्रान्ताः सूत्रधराः विनयधरा मातृकाधराः। अहं चेदेनमकामं चोदयेयं स्मारयेयं तेन संघः कलहजातो विहरेद् भण्डनजातो विगृहीतो विवादमापन्नः। यत्त्वहं तेनाकामकं (न) चोदयेयं (न) स्मारयेयमिति। उत्क्षिप्तको भिक्षुर्यथाप्रज्ञप्तानासमुदाचारिकान् धर्मान् (न) समादाय वर्तते। सातिसारो भवति। एवमुच्यमाना अपि ते भिक्षवो भगवता कलहजाता एव विहरन्ति भण्डनजाता विगॄहीता विवादमापन्ना। अप्येदानीं पोषधेऽप्यपोषधमागमयन्ति। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति।



अथ भगवानुत्क्षिप्तकं भिक्षुमुत्क्षिप्तकानुवर्तकांश्च भिक्षूनुत्क्षिप्तकानुवर्तकानुवर्तकांश्च दूतेन प्रक्रोश्येदमवोचत्। सत्यं यूयं भिक्षव एवमुच्यमाना अपि मया कलहजाता एव विहरथ भण्डनजाता विगृहीता विवादमापन्नाः। अप्येदानीं पोषधेऽप्यपोषधमागमयथ। सत्यं भदन्त। मा भिक्षवः कलहो मा भण्डनं मा विग्रहो मा विवादः। कलहजातानां युष्माकं भिक्षवो विहरतां भण्डनजातानाम् विगृहीतानाम् विवादमान्नानां यानि कर्माणि क्रियन्ते- पोषधः प्रवारणाज्ञप्तिर्ज्ञप्तिद्वितीयं ज्ञप्तिचतुर्थं कर्म-कृतान्यकृतानि भवन्ति कोप्यानि।



नानासंवासिका यूयं भिक्षवस्तेषांभिक्षूणाम्। ते च युष्माकम्। तत्कस्य हेतोः। द्वाविमौ भिक्षवो नानासंवासिकौ। यश्चैवात्मनि चात्मानं नाना संवासिकं स्थापयति। यो वा संघेन धर्मतया स्थाप्यते। कथमात्मनैवात्मानं नानासंवासिकं स्थापयति। यथापि तद्भिक्षुर्भिक्षूणां कलहजातानां विहरताम् भण्डनजातानां विवादमापन्नानां पक्षापतपक्षव्यवस्थितानां संचिन्त्यधर्मपक्षं संक्रामति एवमात्मनैवात्मानं नानासंवासिकं स्थापयति। कथं संघेन स्थाप्यः। यथापि तत्संघेनात्मना (दर्शना) योत्क्षिप्यते। अप्रतिकर्मणि अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्यते। एवं संघेन धर्मतया।



द्वाविमौ भिक्षवः समानसंवासिकौ। कतमौ द्वौ। यश्चैवात्मनात्मानं समानसंवासिकं स्थापयति। यो वा संघेन धर्मतया स्थाप्यते। कथमात्मनैवात्मानं संवासिकं स्थापयति। यथापि तद्भिक्षूर्भिक्षूणा कलहजातानां भण्डनजातानां विगृहीतानां विवादमापन्नानां पक्षापरपक्षव्यवस्थितानां संचिन्त्य (अ) धर्मपक्षाद् धर्मपक्षं संक्रामति। एवमात्मनैवात्मानं समानसंवासिकं स्थापयति। कथं संघेन धर्मतया स्थाप्यते। यथापि तत्संघेना दर्शनायोक्षिप्त ओसार्यते। अप्रतिकर्मणि अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्त ओसार्यते। एवं संघेनधर्मतया।



अथ भगवानुत्क्षिप्तकं भिक्षुमुत्क्षिप्तकानुवर्तकान् भिक्षूनुत्क्षिप्तकानुवर्तकानुवर्तकांश्चोद्योज्य उत्क्षेपकं भिक्षुमुत्क्षेपक्रानुवर्तकान् भिक्षूनुत्क्षेपकानुवर्तकाणुवर्तकांश्च दूतेन प्रक्रोश्येदमवोचत्। सत्यं यूयं भिक्षव एवमुत्यमाना अपि मया कलहजाता विहरथा भण्डनजाता विगृहीता विवादमापन्नाः। अपीदानीं पोषधेऽप्यपोषधमागमयथ। सत्यं भदन्त। पूर्ववद्यावदेवमुच्यमाना अपि ते भिक्षवो भगवता कलहजाता एव विहरन्ति भण्डनजाता विगृहीता विवादमापन्नाः।



अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः। भिक्षुसंघः प्रविष्टः। भगवानौपधिकेऽस्थादभिनिर्ह्नतपिण्डपातः। पञ्चभिः कारणैर्बुद्धा भगवन्त औषधिके तिष्ठन्त्यभिनिर्ह्नतपिण्डपाताः। पूर्ववद्यावदस्मिंस्त्वर्थे भगवान् श्रावकाणां विनये शिक्षापदं प्रज्ञपयितुकाम औषधिकेऽस्थादभिनिर्ह्रतपिण्डपातः। तत्र चार्थि(क) प्रत्यर्थिकानां भिक्षूणां भोक्तुं प्रविष्टानामन्तर्गृहे उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति पूर्ववद्यावत् स्थापनार्हेण। अप्येदानीं परस्परप्रहारिकामप्यागमयन्ति।



अथ पिण्डपाताभिनिर्हारको भिक्षुः पिण्डपातमादाय येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य पिण्डपातमेकान्ते स्थापयित्वा भगवतः पादौ शिरसा वन्दित्वा पुरस्तादस्थात्। धर्मता खलु बुद्धा भगवन्तः (पिण्ड) पातनिर्हारकं भिक्षुमनया प्रतिसंमोदनया प्रतिसंमोदन्ते। कच्चिद्भिक्षो प्रणीतं भक्तं सन्तर्पितो भिक्षुसंघ इति। प्रतिसंमोदते बत भगवान् पिण्डपातनिर्हारकं भिक्षुमनयाप्रतिसंमोदनया। कच्चिद्भिक्षो प्रणीतं भक्तं सन्तर्पितो भिक्षुसंघ इति। तथ्यं भदन्त। प्रणीतं भक्तं सन्तर्पितो भिक्षुसंघः। किं त्वर्थिकप्रत्यर्थिकानां भिक्षूणामन्तर्गृह उत्पनः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति पूर्वव(द् यावत्) स्थापनार्हेण। अप्येदानीं परस्परप्रहारिकामप्यागमिताः।



अथ भगवान् भक्तकृतिं कृत्वा बहिर्विहारस्य पादौ प्रक्षाल्य विहारं प्राविक्षत् पर्तिसंलयनाय। ततो भगवान् सायाह्ने प्रतिसंलयनाद् व्युत्थाय पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। निषद्य भगवान् भिक्षूनामन्त्रयते स्म। सत्यं युष्माकं भिक्षवः अन्तर्गृहे भोक्तुं प्रविष्टानामुत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा पूर्ववद्यावदप्येदानीं परस्परप्रहारिकामप्यागमिताः। सत्यं भदन्त मा भिक्षवः कलहो मा भण्डनं मा विग्रहो मा विवादः। अपि त् वर्थि (क) प्रत्यर्थिकानामहं भिक्षूणामन्तर्गृहे प्रविष्टानामासमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि। अर्थिकप्रत्यर्थिकैर्भिक्षुभिरन्तर्गृहे प्रविष्टैरासनान्तरितैर्निषत्तव्यं यत्रैवंरूपस्या (न) नुलोमिकस्य कायसमुदाचारिकस्यावकाशो न भवति। अर्थि (क) पर्त्यर्थिका भिक्षवोऽन्तर्गृहे प्रविष्टा यथाप्रज्ञप्तानासमुदाचारिकान् धर्मान्न समादाय वर्तन्ते। सातिसारा भवन्ति। एवमुच्यमाना अपि भिक्षवो भगवता कलहजाता विहरन्ति भण्डनजाता विगृहीता विवादमापन्नाः। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। तत्र भगवान् भिक्षूनामन्त्रयते स्म। मा भिक्षवः कलहो मा भण्डनं मा विग्रहो मा विवादः। कलहजाता यूयं भिक्षवो विहरन्तो भण्डनजाता विगृहीता विवादमापन्ना उत्पन्नोत्पन्नान्यधिकरणानि दमयिष्यथ व्युपशमयिष्यथ धर्मेण विनयेन शास्तुः शासनेन नेदं स्थानं विद्यते। अकल (ह) जातास्तु यूयं भिक्षवो विहरन्तः अभन्डनजाता अविगृहीता अविवादमापन्ना उत्पन्नोत्पन्नान्यधिकरणानि दमयिष्यथ शमयिष्यथ व्युपशमयिष्यथ धर्मेण विनयेन शास्तुः शासनेन स्थानमेतद्विद्यते।



भूतपूर्वं भिक्षवो ब्रह्मदत्तोनाम काशिराजो दीर्घिर्लश्च कोशलराजोऽन्योन्यं प्रति विरुद्धावभवताम्। विस्तरेण दीर्घिलसूत्रं मध्यमागमे समाधिसंयुक्तके। त एवमाहुः किं चापि। भगवानेवमाह।



दुःखं राजा ब्रह्मदत्तो भोगानां च परिक्षयः।

विदेशमरणं दुखं ज्ञातीनां चाप्यदर्शनम्॥३॥



अथ भगवास्तस्याम् वेलायाम् गाथाम् भाषते।



पृथक्‍शद्दाह् समजाना नेदं श्रेष्ठमिति मन्यतां।

संघे हि भिड्यमाने हि नाबलं किञ्चिमन्यताम्॥४॥



अस्थिच्छिदां प्राणभृतां गवाश्चधनहारिणाम्।

राष्ट्रं विलुम्पताम् चैव पुनर्भवति संगतिः।

युष्माकं न भवेत् कस्मादिमम् धर्मं विजानताम्॥५॥



परिमुष्टाः पण्डिताभासा वाणीगोचरवादिनः।

व्यायच्छतां मुखान्व्यामा यदा नीता न तं विदुः॥६॥



परेऽत्र न विजानन्ति वयमत्रोद्यमामहे।

अत्र ये तु विजानन्ति तेषाम् शाम्यन्ति मेधकाः॥७॥



आकोशन्मामविचन्मामजयन्मामहापयन्।

अत्र ये उपनह्यन्ति वैरं तेषां न शाम्यति॥८॥



आक्रोशन्मामविचन्मामजयन्मामहापयन्।

अत्र ये नोपनह्यन्ति वैरं तेषां प्रशाम्यति॥९॥



नहि वैरेण वैराणि शाम्यन्तीह कदाचन।

क्षान्त्यां वैराणि शाम्यन्ति एष धर्मः सनातनः॥१०॥



वैरं न वैरेण हि जातु शाम्यते शाम्यन्ति वैराणि अवैरिताभिः।

वैरप्रसंगे ह्यहिताय देहिनां तम्साद्धि वैरं न करोन्ति पण्डिताः॥११॥



सचेल्लभेत निपकं सहायिकं सार्धंचरं साधुविहारिधीरम्।

अभिभूय सर्वाणि पर्स्रवाणि चरेत् रेनात्तमनाह् प्रतिस्मृतः॥१२॥



नो चेल्लभेत निपकं सहायिकं सार्धंचरं साधिविहारिधीरम्।

राजेव राष्ट्रं विपुलं प्रहाय एकश्चरेन्न च पापानि कुर्यात्॥१३॥



चरंश्चेन्नाधिगच्छेत् श्रेयः सदृशमात्मनः।

एकचर्यां दृढां क्र्यान्नास्ति बाले सहायता॥१४॥



एकस्य चरितं श्रेयो न तु बालो सहायता।

अल्पोत्सुकश्चरेदेको मातङ्गारण्यनागवत्॥१५॥



एवमुक्ते कोशाम्बका भिक्षवो भगवन्तमिदमवोचन्। धर्मस्वामी भगवान् धर्मस्वामी सुगतः। एतेऽस्माकं वक्ष्यन्ति दुरुक्तानि दुर्भाषितानि। वयमेषां किमर्थं मर्षयाम इति। अथ भगवांस्तेषां भिक्षुणां तया ईर्यया विप्रतिपत्त्या अनात्तमना अनभिराद्धस्तत एव ऋद्ध्या उपरि विहायसा प्र(क्रान्तो) येन श्रावस्ती तेन चारिकां प्रक्रान्तोऽनुपूर्वेण श्रावस्तीमनुप्राप्तः। श्रावस्त्याम् विहरति जेतवनेऽनाथपिण्डदस्यारामे। तत्र स्विद्भगवति प्रक्रान्ते कोशाम्बकानां भिक्षूणां वैशालकानां च भिक्षूणामेवंरूपः ईर्यापथह् संवृत्तह्। पूर्वभक्तेऽपि पिण्डपातं प्रविशन्ति पश्चाद्भक्ते द्वारं बद्ध्वा कलहं कुर्वन्ति। तथा एषां तया ईर्यया अर्यया विप्रतिपत्त्या द्वादशवर्षाणि समतिक्रान्तानि। कोशाम्बकाब्राह्मणगृहपतयः संस्थागारे परस्परं संजल्पं कर्तुमारब्धाः। वयं भवन्तोऽत्यर्थं भगवतोऽभिप्रसन्नाश्चीवरपिण्डपातशय्नासनग्लानप्रत्ययभैषज्यपरिष्कारैः। अथ च पुनर्भगवतास्य गोचरस्य द्वादशवर्षाणि परित्यक्तस्याद्यत्वेनापि नागच्छतीति। अपरे कथयन्ति। भवन्तो भगवानिहागमिष्यतीति यत्रेदानीं कोशाम्बकानां भिक्षूणामियमेवंरूपा ईर्या चर्या विप्रतिपत्तिः। पूर्वभक्ते पिण्डपातं प्रविशन्ति पश्चाद्भक्ते द्वारं बद्ध्वा कलिं कुर्वन्तीति। अपरे त्वाहुः। नायं भवन्त एषाम् दोषः किं त्वस्माकं ये वयमेभ्यः पिण्डपातं प्रयच्छामः वाक्‍संभाषणं वा। एतं वयं क्रियाकारं व्यवस्थापयामः । नैषां केनचित्पण्डको देयो वाक्‍संभाषणम् चेति। ते क्रियाकारं कृत्वा व्यवस्थिताः। यावदपरस्मिन् दिवसे कोशाम्बका भिक्षवः पिण्डपातं प्रविष्टाः। न केनचिदाभाषिता नापि पिण्डको दत्तः। ते यथा धौतकेनैव पात्रेण पिण्डपातं प्रविष्टास्तथा धौतकेनैव निष्क्रान्ताः। अलब्ध्वैकां भिक्षामपि ततस्तैः संभूयः कोशाम्बका ब्राह्मणगृहपतय उक्ताः। भवन्तोऽयुक्तं तावद्यत्पिण्डपातं न प्रयच्छथ। अर्थपरिक्षय इति। किमस्माभिरपराद्धं यद्वाचमपि न पर्यच्छथेति। ते कथयन्ति। यूयमपि श्रमणाः शाक्यपुत्रीया इत्यात्मानः प्रतिजानीध्वे। येषां शास्ता ईर्यया विप्रतिपत्त्या अनात्तमना अनभिराद्धः। उपरि विहायसा प्रक्रान्तः। द्वादशवर्षाणि समतिक्रान्तान्यद्यत्वेनापि नागच्छतीति। ते तूष्णीमेव स्थिताः। तेषां तु सकाशमुपसंक्रम्य कथयन्ति। आयुष्मन्तः स्थाने वयमेभिरवसादिताह्। यः पृथिव्याम् स्खलति स तानेव निःशृत्योत्तिष्ठति। सर्वथा श्रावस्त्यां गच्छमः। भगवन्तं क्षमयामो भिक्षुसंघं चेति।



अथ कोशाम्बका भिक्षवस्तस्याम् एव रात्रिरत्ययात् समादाय पात्रचीवरमप्रविश्यैव कोशाम्बीं येन श्रावस्ती तेन चारिकां प्रक्रान्ताः।



अश्रौषीदायुष्मानानन्दः कोशाम्बका भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका आधिकरणीकाः। यैरवमानितो भगवाणिहागतः। तेऽस्मांश्चेदयिष्यन्ति स्मारयिष्यन्ति अलज्जितेन वा वैतरिकेण वा यत्त्वहं भगवत आरोचयेयमिति विदित्वा येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात्। एकान्तस्थित आयुष्मानानन्दो भगवन्तमिदमवोचत्। श्रुतं मया भदन्त कोशाम्बका भिक्षव इहागच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकाः। यैर्भगवानवमानित इहागतः। तेऽस्मांश्चोदयिष्यन्ति स्मारयिष्यन्ति अलज्जितेन वा वैतरेण वा। एषामस्माभिः कथं प्रतिपत्तव्यम्। ते आनन्द भिक्षुभिर्नालप्तव्या न संलप्तव्या नावलोयितव्या न विलोकयितव्या नान्यत्र हस्तव्यवहारकेण प्रत्यन्तिमानि शयनासनानि उद्देष्टव्यानि। यदि कथयन्ति वृद्धा वयं कस्मात्प्रत्यन्तानि शयनासनानि उद्दिश्यन्त इति। वक्तव्याः। यूयमपि श्रमणाः शाक्यपुत्रीया इत्यात्मानं प्रतिजानीध्वे येषां शास्ता ईर्यया चर्यया। विप्रतिपत्त्या अनात्तमना अनभिराद्धस्तत एव ऋद्धा इहागतः कारुणिकः शास्ता येनैतदनुज्ञातम्। एतदपि युष्माकं न प्रापद्यत इति।



अश्रषीन्महाप्रजापती गौतमी कोशाम्बका भिक्षव आगच्छन्ति कलहकारका भण्डकारका विग्रहकारका विवादकारका आधिकरणिका इति श्रुत्वा च पुनरस्यैतदभवत्। गच्छामि भगवन्तमवलोकयामि तेषां मया कथं प्रतिपत्तव्यमिति विदित्वा येन भगवाम्स्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः। एकान्तनिषण्णोऽनाथपिण्डदो गृहपतिर्बह्गवन्तमिदमवोचत्। श्रुतं मया भदन्त कोशाम्बका भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिका इति तेषां मया कथं प्रतिपत्तव्यमिति। कोशाम्बकास्त्वया गृहपते भिक्षवो नालप्तव्या न संलप्तव्या नालोकयितव्या न व्यवलोकयितव्या न वन्दितव्याः पिण्डपातस्तु देयो दानं न विरुध्यते इति।



कोशाम्बका भिक्षवोऽनुपूर्वेण श्रावस्तीमनुप्राप्ताः। तत्र पात्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य पृच्छन्ति। कः शयनासनोद्देशकः इति। कल्पकारकैः समाख्यातम्। आर्यानन्द इति। ते येनायुष्मानानन्दस्तेनोपसंक्रान्ताः। उपसंक्रम्यायुष्मन्तमानन्दमिदमवोचत्। आयुष्मानानन्द अस्माकं शयमासनन्युद्दिश्य इति। आयुष्मानानन्दस्तेषाम् प्रत्यन्तिमानि शयनासनानि हस्तव्यवहारेणोद्देष्टुमरब्धः। ते कथयन्ति। आयुष्मानानन्द वृद्धा वयम्। कस्मादस्माकं प्रत्यन्तिमानि शयनाशनानि उद्दिश्यन्त इति। स कथयति। यूयमपि श्रमणाः शाक्यपुत्रीया इत्यात्मानं पूर्ववद्यावदेतदपि युष्माकं न प्रापद्यत इति। ते संविग्नाः कृच्छ्रेण रात्रिमतिनामयन्ति। अथोत्क्षिप्तकस्य भिक्षो रात्र्याः प्रत्यूषसमये स्वसन्ततिं व्यवलोकयत एतदभवत्। यदस्माकमुत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा अनापन्न इति वा उत्क्षिप्तक इति वा अनुत्क्षिप्त इति वा। सोऽहमापन्नो नानापन्नः। उत्क्षिप्तो नानुत्क्षिप्तः। यत्पुनरुत्क्षिप्तो धर्मेण कर्मणा आकोप्येना स्थापनार्हेण। यत्त्वहं सन्धिं कुर्यां सामग्रीमिति विदित्वा कल्यमेवोत्थाय येनोत्क्षिप्तकानुवर्तका भिक्षव उत्क्षिप्तका(नुवर्तका) नुवर्तकाश्च तेनोपसंक्रान्तः। उपसंक्रम्योत्क्षिप्तकानुवर्तकान् भिक्षूनुत्क्षित्पकानुवर्तकानुवर्तकांश्चेदमवोचत्। इह ममायुष्मन्तो रात्र्याः प्रत्यूषसमये स्वसन्ततिं व्यवलोकयतः एतदभवत्। यन्निदानं ममोत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा अनापन्न इति वा उत्क्षिप्तक इति वा अनुत्क्षिप्तक इति। सोऽहमापन्नो नानापन्नः। उत्क्षिप्तो नानुत्क्षिप्तः। यत्पुनरुत्क्षिप्तो धर्मेण कर्मणा अकोप्येनास्थापनार्हेण। सन्धिं कुर्यां सामग्रीमिति। यूयं किं कथयथ। ते कथयन्ति। एवं भवतु। शोभनम्। अथोत्क्षिप्तको भिक्षुरुत्क्षिप्तका(नुवर्तका) भिक्षव उत्क्षिप्तकानुवर्तकानुवर्तकांश्च येनोत्क्षेपको भिक्षुरुत्क्षेपकानुवर्तका भिक्षव उत्क्षेपकानुवर्तकानुवर्तकांश्च तेनोपसंक्रान्तः। उपसंक्रम्योत्क्षेपकं भिक्षुमुत्क्षेपकानुवर्तकाननुवर्तकानुवर्तकांश्चेदमवोचत्। इह ममायुष्मन्तो रात्र्याः प्रत्यूषसमये स्वसन्ततिं व्यवलोकयत एतदबह्वत्। यन्निदानं ममोत्पन्नः कलहो भण्डनं पूर्ववद्यावत्सन्धिं कुर्यां सामग्रीमिति।यूयं किं करिष्यथ। ते कथयन्ति। एवं भवतु। शोभनमिति। स तेनोत्क्षिप्तको भिक्षुरुत्क्षिप्तकानुवर्तका भिक्षव उत्क्षिप्तकानुवर्तकानुवर्तका उत्क्षेपको भिक्षुरुत्क्षिप्तका भिक्षव उत्क्षेपकानुवर्तकानुवर्तकाश्च येन भगवांस्तेनोपसंक्रान्ताः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते तस्थुः। एकान्तस्थित उत्क्षेपको भिक्षुर्भगवन्तमिदमवोचत्। इह मम भदन्त रात्र्याः (प्रत्यूष) समये स्वसन्ततिं व्यवलोकयत एतदभ्वत्। पूर्ववत्सन्धिं कुर्यां सामग्रीमिति। तन्मया सर्व इमे भिक्षवः सामग्र्‍याद्योजिता इति। भगवानाह। साधु साधु भिक्षो बहुपुण्यं प्रसूयते अप्रमेयमसंख्येयमपरिमाणं यो भिक्षुणां कलहजातानां विहरतां भण्डनजातानाम् विगृहीतानां विवादमापन्नानां पक्षापरपक्षव्यवस्थितानां संधिं करोति सामग्रीम्। यथा हि नाम कश्चिच्छतशच्छिन्नं बालं कोट्या प्रतिसन्दध्यादेवमेव बहुपुण्यं प्रसूयते अप्रमेयमसंख्येयमपरिमाणं यो भिक्षुणां कलहजातानां विहरताम् पूर्ववद्यावत्सन्धिं करोति सामग्रीम्। अपि तूत्क्षिप्तकस्याहं भिक्षोरासमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि। उत्क्षिप्तकेन भिक्षुणा संघादोसारणा याचितव्या। एवं च पुनर्याचितव्या। शयन्नासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्शून्समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते यथावृद्धिकया सगौरवेण सामीचीं कृत्वा वृद्धान्ते उत्कृटुकेन निषद्याञ्जलिं प्रगृह्य इदं स्याद्वचनीयम्।



शृणोतु भदन्तः संघः। यन्निदानं ममोत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा अनापन्न इति वा उत्क्षिप्तक इति वा अनुत्क्षिप्तक इति वा सोहमापन्नो नानापन्नः उत्क्षिप्तो नानुत्क्षिप्तः। यत्पुनरुत्क्षिप्तो धर्मेण कर्मणा अकोप्येनास्थापनार्हेण। सोऽहमेवंनामा उत्क्षिप्तक्प् भिक्षुः संघादोसारणां याचे। ओसारयतु मां भदन्तः संघः। यथाधर्मेण यथा विनयं प्रतिकरिष्ये। अनुकम्पयानुकम्पामुपादाय। एवं द्विरपि त्रिरपि। ततः पश्चादेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्।



शृणोतु भदन्तः संघः। यन्निदानमप्यायुष्मन्त उत्पन्नः कलहो भण्डनं विग्रहो विवाद्प् यदुतापन्न इति वा। अनापन्न इति वा। उत्क्षिप्तकः इति वा। अनुत्क्षिप्तक इति वा। सोऽयमापन्नो नानापन्नः। उत्क्षिप्तको नानुत्क्षिप्तकः। यत्पुनरुत्क्षिप्तो धर्मेण कर्मणा कोप्येनास्थापनार्हेण। सोऽयमेवंनामा उत्क्षिप्तको भिक्षुः संघादोसारणं याचते। स चेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघ एवंनामानं भिक्शुमोसारयेदिति। स चेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघ एवंनामानं भिक्षुमोसारयेदिति। एषा ज्ञप्तिः। कर्म कर्तव्यम्।



शृणोतुः भदन्तः संघः। यन्निदानमस्यायुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादः पूर्ववद्यावत्। सोऽयमेवंनामा भिक्षुः संघादोसारणं याचते। तत्संघ एवंनामानं भिक्षुमोसारयति। येषामायुष्मतां क्षमेतानुजानीयात्संघो यत्संघ एवंनामानं भिक्षुमोसारयेदिति। एषा ज्ञप्तिः। कर्म कर्तव्यम्।



शृणोतु भदन्तः संघः। यन्निदानमस्यायुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादः पूर्ववद् (यावद्)। सोऽयमेवंनामा उत्क्षिप्तको भिक्षुः संघादोसारणं याचते। तत्संघ एवंनामानं भिक्षुमोसारयति। येषामायुष्मताम् क्षमन्ते एवंनामानमुत्क्षिप्तकं भिक्षुमोसारयितुम्। ते तूष्णीम्। न क्षमन्ते। भाषन्ताम्। ओसारितः संघेन एवंनामा उत्क्षिप्तको भिक्षुः। क्षान्तमनुज्ञातं संघेन। यस्मात्तुष्णीमेवमेतद्धारयामि।



ओसारणीयं कर्म। तस्याहं भिक्षोरासमुदाचारिकान् धर्मान् प्रज्ञपयामि। ओसारणीयकर्मकृतेन भिक्षुणा संघात्सामग्री याचयितव्या। एवं च पुनर्याचयितव्या।



शृणोतु भदन्तः संघः। यन्निदानं ममोत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा अनापन्न इति वा। उत्क्षिप्त इति वा अनुत्क्षिप्त इति वा। सोऽहमापन्नो नानापन्नः। उत्क्षिप्तको नानुत्क्षिप्तक्ः। यत्पुनरुत्क्षिप्तो धर्मेण कर्मणा अकोप्येनास्थापनार्हेणे। तेन मया एवंनाम्ना उत्क्षिप्तकेन भिक्षुणा स्ंग़्हादोसारणा याचित् आ। कृतं मम संघेनोसारणीयं कर्म। सोऽहमेवंनामा ओसारणीयकर्मकृतो भिक्षु संघात्सामग्रीं याचे। ददातु भदन्तः संघो ममैवंनाम्न ओसारितस्य भिक्षोः संघसामग्रीम्। अनुकम्पयानुकम्पामुपादाय। एवं द्विरपि। एवं त्रिरपि। ततः पश्चादेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्।



शृणोतु भदन्तः संघः। यन्निदानमस्यायुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति पूर्ववद् (यावत्)। स चेत्संघस्य प्राप्तकालं क्षमेतानु जानीयात्संघो यत्संघ एवंनाम्नः ओसारणीयकर्मकृतस्य भिक्षोः सामग्रीं दद्यादिति। एषा ज्ञप्तिः। कर्म कर्तव्यम्।



शृणोतु भदन्तः संघः। यन्निदानमस्यायुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्नः पूर्ववद्यावद्दात्ता संघेन एवंनाम्नः ओसारणीयकर्मकृतस्य भिक्षोः सामग्री। क्षान्तमनुज्ञातम्। यस्मात्तूष्णीमेवमेतद्धारयामि। इत्यस्य संघेन ओसारणीयकर्मकृतस्य भिक्षोः सामग्री दत्ता भवति। तस्य संघेन सामग्री दातव्या। नात्र कौकृत्यं करणियम्।



संघसामग्रीदत्तकस्याहं भिक्षुरासमुदाचारिकान् धर्मान् प्रज्ञपयामि। संघसामग्रीदत्तकेन भिक्षुणा पोषधो याचितव्यः। एवं च पुनर्याचितव्यः। शयनासनप्रज्ञप्तिं कृत्वा पूर्ववद्यावत्। सोऽहमेवंनामा संघसामग्रीदत्तकः संघात्सामग्रीपोषधं याचे। ददातु भदन्तः संघः ममैवंनाम्नह् सामग्रीदत्तकस्य भिक्षोः समग्रीपोषधमनुकम्पामुपादाय। एवं द्विरपि। त्रिरपि। ततः पश्चादेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्।



शृणोतु भदन्तः संघः। यन्निदानमस्यायुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा पूर्ववद्यावत्। सोऽयमेवंनामा संघसामग्रीदत्तकः संघात्सामग्रीपोषधं याचते। स चेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघः एवंनाम्नः संघसामग्रीदत्तकस्य् अभिक्षोः साम्गरीपोषधं द्द्यादिति। एषा ग़्यप्तिः। कर्म कर्तव्यम्।



शृणोतुः भदन्तः संघः। यन्निदानमस्यायुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा अनापन्न इति वा पूर्ववद्यावत्। सोऽयमेवंनामा सामग्री दत्तकः संघात्सामग्रीपोषधं याचते। तत्संघ एवंनाम्नह् सामग्रीदत्तकस्यः भिक्षोः सामग्रीपोषधम् ददाति। एषामायुष्मताम् क्षमन्ते एवंनाम्नः सामग्रीदत्तकस्य भिक्षोः सामग्रीपोषधं दातुम्। ते तूष्णीम्। न क्षमन्ते। भाषन्ताम्। दत्तः संघेन एवंनाम्नः संघसांअग्रीदत्तकस्यः भिक्षोः सामग्रीपोषधः। क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामि।



यस्य संघेन सामग्रीदत्तकस्य भिक्षोः सामग्रीपोषधो दत्तो भवति तेन सार्धं संघेनैकत्ये निषद्य पोषधः कर्तव्यः प्रवारणा ज्ञप्तिः ज्ञप्तिद्वितीयं ज्ञप्तिचतुर्थं कर्म। नात्र कौकृत्यं करणीयम्। व्यग्राः कुर्वन्तिः सातिसारा भवन्ति। न च पुनर्भिक्षुणा अपिषधे पोषधमागमयति। सातिसारो भवति। स्थापयित्वा मङ्गल्यपोषधं सामग्रीपोषधं वा।



॥कोशाम्बकबस्तु समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project