Digital Sanskrit Buddhist Canon

3 कठिनवस्तु

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

3 kaṭhinavastu

कठिनवस्तु



(कठिनवस्तुनि पिण्डो )द्दानम्।



साकेतेन हि कस्यचिद् विचारितं मर्दितं चाप्यकालेन पुद्गलः।

मातृकापदान्यकृतेन (हि) विंशतिः करणीयेन (तु)द्वादशिकाः॥



(उद्दानम्)



साकेतेन वर्षोपगता शास्तुर्दंर्शनकाम्यया।

कर्दमे उष्णेन क्लान्तानां चीवरं तत्र संमतम्॥१॥



बुद्धो भगवान् श्रावस्त्यां वर्षा उपगतो जेतवने अनाथपिण्ड (द) स्यारामे। तेन खलु समयेम संबहुला भिक्षवः साकेते वर्षा उपगताः। त्रयाणां वार्षिकाणां मासानामत्ययात् कृत्यचीवरा निष्ठितचीवराः समादाय पात्रचीवरं बहुतृणे बहुकर्दमे उष्णेन क्ललाम्यन्तः स्वेदपर्याकुर्याकुलीकृतशरीरा येन श्रावस्तीं तेन चारिकां चरन्तः श्रावस्तीमनुप्राप्तः। अथ संबहुला भिक्षवः पात्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य येन भगवांस्तेनोपसंक्रान्ताः। उपसंक्रस्य भगवतः पादौ शिरसा वन्दित्वा एकान्तनिषण्णाः। धर्मता खलु बुद्धा भगवन्तः आगन्तुकान् भिक्षूननया प्रतिसंमोदनया प्रतिसंमोदन्ते कुतो यूयं भिक्षव एतर्ह्यागच्छथ। कुत्र वास्थ। वर्षा उषिता इति। प्रतिसंमोदते भगवनागन्तुकान् भिक्षूननया प्रतिसंमोदनया। सुखस्पर्शं वर्षा नेयाः। कुतो यूयं भिक्षव एतर्ह्यागच्छथ। कुत्रा वास्थ। वर्षा उषिताः। ते कथयन्ति। साकेताद्वयं भदन्त एतर्ह्यागच्छामः। साकेते वास्म। वर्षा उषिताः। कच्चिद्युयं भिक्षवः साकेते सुखस्पर्शं वर्षा उषिता न वास्थ क्लान्ताः पिण्डकेन। तथ्यम्। वयं भदन्त साकेते सुखस्पर्शं वर्षा उषिताः। न वास्म क्लान्ताः पिण्डकेन। अपितु वयं समादाय पात्रचीवरं बहुतृणे बहुकर्दमे उष्णेन क्लाम्यन्तः स्वदेपर्याकुलीकृतशरीरा जनपदचारिकां चरन्तः कृच्छ्रेणेहानुप्राप्ताः। भगवान् संलक्षयति। क्लाम्यन्ति वत मे श्रावकाः। समादाय पात्रचीवरं बहुतृणे बहुकर्दमे उष्णेन क्लाम्यन्ति स्वेदपर्याकुलीकृतशरीरा जनपदचारिकां चरन्तः यत्त्वहं भिक्षुणां स्वर्शविहारार्थं दातॄणां च देयधर्मपरिभोगार्थं भिक्षुणां कठिनमनुजानीयां यस्मात्पंचानुशंसाः कठिनास्तरे। न दशाहपरमं न मासपरमं न रात्रिप्रवासः सान्तरोत्तरेण चीवरेण् अजनपदचारिकाप्रक्रमणं यावदाप्तं विकल्पकचीवरधारणमिति। अपरेऽपि पंचानुशंसाः।



न गणभोगनं न परंपरभोजनं न कुलेष्वनिमन्त्रितचारिका यावदाप्तं चीवरपर्येषणम्। कार्तिकान्मासाद् यावत्फाल्गुनो मासोऽत्रान्तरादास्तृतकठि (ना) नां लाभ इति विदित्वा भिक्षूनामन्त्रयते स्म। तस्मात्तर्हि भिक्षवोऽनुजानामि भिक्षुणां स्पर्शविहारार्थं दातॄणां चा देयधर्मपरिभोगार्थम्। वर्षोषितैर्भिक्षुर्भिः कठिनमास्तर्तव्यम् यस्मात्पंचानुशंसाः कठिने। न दशाहपरमं पूर्ववद्यावदास्तृतकठिनानां (लाभः) ख्यात इति।



उक्तं भगवता कठिनमास्तर्तव्यमिति। भिक्षवो न जानते कथमास्तर्तव्यमिति। भगवानाह। यद्वर्षोषितस्य संघस्य चीवरलाभः संपद्यते तस्मादास्तर्तव्यम्। एवं च पुनरास्तर्तव्यम्। पूर्वव्त् सामग्न्यमारोचयितव्यम्। इदं चीवरम्। वर्षोषितस्य संघस्य चीवरलाभः सम्पन्नः। यदि संघस्याभिरुचितमनेन चीवरेण संगह्स्य कठिनआस्तरिष्यति। ततः पश्चात् अपरस्मिम् दिवसे शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्।



शृणोतु भदन्तः संघः। इदं चीवरम्। वर्षिषितस्य संघस्य चीवरलाभः संपन्नः। संघस्य कठिनमभिरुचितमनेन चीवरेण कठिनमास्तरितुम्। येनास्तीर्णकठिनादावासात्प्रक्रामतः पुराणचीवराणामप्यविप्रवासो भविष्यति प्रागेव नवकानाम्। सचेत्संघस्य प्राप्तकालः क्षमेतानुजानीयात् संघोयत्संघः इदं चीवरं कठिनार्थं संमन्थेत। अनेन चीवरेण संघस्य कठिनमास्तरिष्यति। येनास्तीर्णकठिनादावासात्प्रक्रामतः पुराणचीवराणामप्यविप्रवासो भविष्यति प्रागेव नवकानामित्येषा ज्ञप्तिः। एवं च कर्म कर्तव्यम्।



शृणोतु भदन्तः संघः। इदं चीवरम्। वर्षिषितम्। संघस्य चीवरलाभः संपन्नः। संघस्य चाभिरुचितं कठिनं स्तर्तुम्। तत्संघ इदं चीवरं कठिनार्थं संमन्यते। अनेन चीवरेण संघस्य कठिनमास्तरिष्यति। येनास्तीर्णकठिनादावासात्प्रक्रामतः पुराणचीवरकाणामप्यविप्रवासो भविष्यति प्रागेव नवकानाम्। येषामायुष्मताम् क्षमते इदं चीवरं कठिनार्थं संमन्तुमनेन चीवरेण संघस्य कठिनमास्तरिष्यति। येनास्तीर्णकठिनादावासात्प्रक्रामतः पुराणचीवरकाणामप्यविप्रवासो भविष्यति प्रागेव नवकानाम्। स तूष्णीम्। न क्ष्ःअमते भाषताम्। संमतः संघेन इदं चीवरं कठिनार्थम्। अनेन चीवरेण कठिनमास्तरिष्यति। येनास्तीर्णकठिनादावासात्प्रक्रामतः पुराणचीवरकाणामप्यविप्रवासो भविष्यति प्रागेव नवकानाम्। क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामि।



ततः पश्चात्कठिनास्तारको भिक्षुः संमन्तव्यः। पंचभिर्धर्मैः समन्वागतः कठिनास्तारको भिक्षुरसंमतो न संमन्तव्यः संमतश्चावकाशयितव्यः। कतमैः पञ्चभिः। अवार्षिको वर्षाच्छिन्नकः पश्चिमकां वर्षामुपगतोऽन्यत्र वर्षोषितः शिक्षादत्तकः। अपरैरपि पंचभिर्न संमन्तव्यः। पारिचासिको मूलपारिवासिको मानाप्य (चारो) मूलमानाप्यचार उत्क्षिप्तकः। अपरे पंच न संमन्तव्याः। छन्दादृ गच्छति भयाद् द्वेषान्मोहाद् भयाद् गच्छति। आस्तृतं चानास्तृतं कठिनं न जानाति। पंचभिस्तु धर्मैः समन्वागतः कठिनास्तारको भिक्षुरसंमतश्च संमन्तव्यः संमतश्च (ना) वकाशयितव्यः। कतमैः पञ्चभिः। न च्छन्दाद् गच्छति न द्वेषान्न मोहान्न भयाद् गच्छति। आस्तृतानास्तृतं च कठिनं जानाति। एवं च पुनः संमन्तव्यः। शयनासनप्रज्ञप्तिं कृत्वा पूर्ववद्यावदुत्साहयितव्यः। उत्सहसे त्वमेवं नामा संघस्य कठिनमास्तर्तुमिति। सचेदुत्सहते न वक्तव्यमुत्सहेदिति। ततः पश्चादेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्।



शृणोतु भदन्तः संघह्। अयमेवंनामा कठिनास्तारको भिक्षुरुत्सहते संघस्य कठिनमास्तर्तुम्। स चेत्संघस्य प्राप्तकाल क्षेमतानुजानीयात् संघो यत्संघः एवंनामानं कठिनास्तारकम्। संघस्य कठिनमास्तरिष्यति। येषामायुष्मताम् क्षमन्ते एवं नामानं कठिनास्तारकं संमन्तुम्। एवं नामा कठिनास्तारकः संघस्य कठिनमास्तरिष्यति। ते तूष्णीम्। न क्षमन्ते भाषन्ताम्। संमतः संघेन एवंनामा कठिनास्तारकः संघस्य कठिनमास्तरिष्यति। क्षान्तमनुज्ञातं संघेन। यस्मात्तूष्णीमेवमेतद्धारयामि।



ततः कठिनास्तारकस्य भिक्षोर्ज्ञप्त्या कठिनमास्तरितव्यम्। शृणोतु भदन्तः संघः। इदं चीवरं संग़्हेन कठिनार्थं संमतम्। अयं चैवंनामा कठिनास्तारको भिक्षुः संमतः। स चेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत्संघः इदं चीवरं कठिनार्थमेवंनाम्नो भिक्षोरनुप्रदद्यादित्येषां ज्ञप्तिः।



कठिनास्तारकस्याहं भिक्षुरासमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि। कठिनास्तारकेण भिक्षुणा कठिनेन सर्वं तु पूर्वंगमेन भवितव्यम्। धावता वितरताच्छिन्दता सीवता रंजयता। अन्ततो द्वौ त्रयो वा सूचीपदका दातव्याः। द्वौ त्रयो वा चित्तोत्पादा उत्पादयितव्याः। ततः पश्चादाश्वयुजमासे शुक्लपक्षे पंचदश्यामारोचयितव्यम्। श्वोऽहमायुष्मन्तः कठिनमास्तरिष्यामि। युष्माभिः स्वकस्वकानि चीवराणि प्रयुद्वर्तव्यानीति। ततः कठिनास्तारकेण भिक्षुणा कठिनं गन्धपुष्पान्वितं सुरभुधूपधूपितं कृत्वा शयनासनप्रज्ञप्तिकृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते वृद्धान्ते स्थापयितव्यम्। ततो वृद्धान्ते स्थित्वा कठिन गृहीत्वा वक्तव्यम्।



शृणोतु भदन्तः संघः। इदं चीवरम् संघेन कठिनं संमतम्। अहं चैवंनामा भिक्षुः कठिनास्तारकह्। सोऽहमेवंनामा कठिनास्तारकस्तेन वीचरकेण संघस्य कठिनमास्तरिष्यामीति। एवं द्विरपि त्रिरपि। तत आस्तीर्य संघस्यविरस्य पुरस्तात् स्थित्वा एवं वक्तव्यम्। समन्वाहर स्थविर इदं चीवरं संघेन कठिनं अस्ंमतम्। अहं चैवंनामा कठिनास्तारकः। तन्मया अनेन चीवरेण संघस्य कठिनमास्तृतमिति। तेन वक्तव्यम्। साध्वास्तृतं सुष्ठ्वा स्तृतम्। योत्र लाभश्चानुशंसश्च सोऽस्माकमिति। एवं द्विरपि त्रिरपि यावत्संघनवकस्य सर्वैर्वक्तव्यम्। साध्वास्तृतं सुष्ठ्वास्तृतम्। योऽत्र लाभश्चानुशंसश्च सोऽस्माकमिति।



कठिनास्तारकेण भिक्षुणा कठिनं गृहीत्वा न प्रस्रावकुटिः व वर्चुस्कुटिः व धूपागारं प्रवेष्टव्यम्। नाभ्यवकाशे स्थातव्यम्। न बहिःसीमां गन्तव्यम्। स चेद् गच्छति न तस्यां वस्तव्यम्। कठिनास्तारको भिक्षुर्यथाप्रज्ञप्तानासमुदाचारिकान् धर्मान् न समादाय वर्तते। सातिसारो भवति।



ततः कठिनास्तारकेण भिक्षुणा फाल्गुनमासे पंचदश्याम् पुनरारोयितव्यम्। श्व आयुष्मन्तः कठिनमुद्धरिष्यामि। यूयं स्वकस्वकानि चीवराण्यधितिष्ठतेति। यश्च तत्र लाभः संपन्नः स संघेन भाजयितव्यः।



आयुष्मानुदाली बुद्धं भगवन्तं पृच्छति। कतीनां भदन्त कठिनमनास्तृतम्। पंचानामुदालिन्। अवार्षिकस्य वर्षाच्छिन्नकस्य पश्चिमकावर्षोपगतस्यान्यत्र वर्षोपगतस्य तस्मिन् कठिने आस्तीर्यमाणे असंमुखीभूतस्य। अपरेषामपि पंचानामनास्तृतम्। पारिवासिकस्य पर्युषितपरिवासस्य मानाप्यचारिकस्य चरितमानाप्यस्य शिक्षादत्तकस्य च। कतीनां भदन्त नैव लाभो नानुशंसा। पंचानामुदालिन्। अदशनायोत्क्षोप्तकस्याप्रतिकर्मणायुत्क्षिप्तकस्याप्रतिनिसृष्टे पापके दृष्टिगरे उत्क्षिप्तकस्यान्यत्र वर्षोषितस्य भिन्ने च संघे अधर्मपाक्षिकस्य।



संबहुला भिक्षो जनपदचारिकां चरन्तश्चीरैर्मुषितास्तेऽनुपूर्वेण श्रावस्तीमनुप्राप्ताः। भिक्षुभिर्दृष्टाः। स्वागतं स्वागतमायुष्मन्तः। कच्चित्सुखचर्या। कीदृश्यायुष्मन्तः। सुखचर्या। चोरैर्मुषिताः स्मः। अस्माकमायुष्मन्तः प्रभूतो लाभः संपन्नः। यदि कठिनमुद्‍ध्रियते चीवरैर्युष्माख़ं संविभागं कुर्म इति। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। तस्मादनुजानामि चोरैर्मुषितकानां भुक्षुणामर्थाय कठिनमुद्धर्तव्यम्। एवं च पुनरुद्धर्तव्यम्। शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे अस्ंनिपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्।



शृणोतु भदन्तः संघः। यावदेवास्मिन्नावासे समग्रेण संघेन कठिनमास्तृतम्। संबहुलाश्च भिक्षवः चीवैर्मुषिता आगताः। स चेत्संघस्य प्राप्त कालं क्षमेतानुजानीयात् संघो यत्संघश्चोरैर्मुषितकानां भिक्षूणामर्थाय कठिनमुद्धरेदित्येषा ज्ञप्तिः। एवं च कर्म कर्तव्यम्।



शृणोतु भदन्त संघः। यावदेवास्मिन्नावासे समग्रेण संघेन कठिनमास्तृतं संबहुलाश्च भिक्षवश्चोरैर्मुषितका आगतास्तत्संघश्चोरैर्मुषितकानां भिक्षूणामर्थाय कठिनमुद्धरति। एषामायुष्मतां क्षमन्ते चीवमुषितकानां भिक्षूणामर्थाय कठिनमुद्धरितुम् ते तूष्णीम्। न क्षमन्ते। भाषन्ताम्। उद्धृतं संघेन चोरमुषितकानां भिक्षूणामर्थाय। कठिनं क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामि। यस्माद् यो लाभः संपन्नः स भाजयितव्यः। भाजिते यस्या(भि) प्रेतं तेन स्वकात् प्रत्यंशात् चोरमुषितकानां भिक्षुणां संविभागः कर्तव्यः।



उद्दानम्।



वितरितम् विलिखितं बन्धनी गण्डूषं पट्टिका।

उपधिः परिषण्डश्च पुराणं संनिहितं फुप्‍फुसम्॥२॥



आयुष्मानुदाली बुद्धं भगवन्तं पृच्चति। लभ्यं भदन्त वितरितेन चीवरकेन कठिनमास्तर्तुम्। न लभमुदालिन्। लभ्यं भदन्त विलिखितेन दकशाटिकाचीवरेण गण्डूषचीवरेण पट्टिकाचीवरेण प्लोतिकाचीवरेण परिषण्डचीवरेण पुराणचीवरेण संनिहितचीवरेण फुप्‍फुसचीवरेण कठिनमास्तर्तुम्। न् अलभ्यमुदालिन्।



उद्दानम्।



मर्दितं चाप्यकालेन पुद्गलस्य त्रिचीवरम्

अकल्पिकमसंछिन्नं न कुर्यादूनपंचकम्।

असंमतमनास्तृतं बहिःसीमे न रोहति॥३॥



आयुष्मानुदाली बुद्धं भगवन्तं पृच्छति। लभ्यं भदन्त मर्दितेन चीवरेण कठिनमास्तर्तुम्। न लभ्यमुदालिन्। लभ्यं भदन्त अकालचीवरेण पौद्गलिकया संघाट्या उत्तरासंगेनान्तर्वासेनाकल्पिकेन ऊनपंचकेन असंमतेन कठिनास्तारकेण बहिःसीमासंमतेन कठिनचीवरेण बहिःसीमासंमतेन कठिनास्तारकेण् अकठिनमास्तर्तुम्। न् अलभ्यमुदालिन्।



उद्दानम्।



कालिकं चापि त्रैमास्यमहतं चैव कल्पितम्।

आत्ययिकं पैलोतिकं पुद्गलस्य त्रिचीवरम्॥४॥



लभ्यं भदन्तकालिकेन चीवरेण संघस्य कठिनमास्तर्तुम्। लभ्यमुदालिन् यो भदन्त त्रैमास्यात्ययात्संघस्य चीवरलाभः संपद्यते (तेन) कठिनमास्तर्तुम्। लभ्यमुदालिन्। अहतचीवरेण लभ्यम्। अहतकल्पितेन लभ्यम्। आत्ययिकचीवरेण लभ्यम्। पैलोतिकचीवरेण लभ्यम्। पौलोतिकया संघाट्या न लभ्यम्। (लभ्यं भदन्त पौद्गलिकया संघाट्या कठिनमास्तर्तुम्। लभ्यं) स चेत्संघेन निसृष्टो भवति। एवमुत्तरासंगेनान्तर्वासेन।



उद्दानम्।



पौद्गलिकं गार्हपतिकं पंचकं साधिकपंचकम्।

संमतमास्तृतं चैव अन्तःसीमे वरोहति॥५॥



लभ्यं भदन्त पौद्गलिकेन चीवरेण कठिनमास्तर्तुम्। न लभ्यमुदालिन्। लभ्यं स चेत्संघे (न) निसृष्टो भवति। गृहपति चीवरेण न लभ्यम्। लभ्यं स चेत्संघेन निसृष्टो भवति। संचकेन लभ्यम्। साधिकेन पंचकेन लभ्यम्। संमतेन कठिनचीवरेण कठिनास्तारकेण लभ्यम्। अन्तह् सीमा संमतेन कठिनचीवरेण लभ्यम्। अन्तःसीमा संमतेन कठिनास्तारकेण लभ्यम्।



अष्टौ मातृकापदानि कठिनोद्धाराय संवर्तन्ते। कतमे अष्टौ। प्रक्रमणं निष्ठापनं संनिष्ठापनं नाशितं श्रवणं सीमातिक्रान्तमाशाच्छेदकं कठिनोद्धारमेवाष्टमम्। प्रक्रमणान्तिकः कठिनोधारो निष्ठापनान्तिकः संनिष्ठापनान्तिको नाशितान्तिकः श्रवणान्तिकः सीमातिक्रान्तिकः आशाच्छेदकह् कठिनोद्धार एवाष्टमः।



प्रक्रमणान्तिकः कठिनोद्वारः कतमह्। यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरः समादाय पात्रचीवरं बहिःसीमां प्रक्रामत्यपुनरागमनाय। तस्य प्रक्रमणान्तिकः कठिनोद्धारः॥१॥



निष्ठापना (न्तिकः) कठिनोद्धारः कतमह्। यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो बहिःसीमां प्रक्रामति। प्तयेष्यामि चीवरं करिष्यामीति। तस्यैवं भवति। न हैव प्रत्येष्यामि। अपितु चीवरं करिष्यामीति। तस्य निष्ठापनान्तिकः कठिनोद्धारः॥२॥



संनिष्ठापनान्तिकः कठिनोद्धारः कतमः। यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो बहिःसीमां प्रक्रामति। प्रत्येष्यामि चीवरं करिष्यामीति। तस्यैवं भवति। न हैव प्रत्येष्यामि नापी चीवरम् करिष्यामीति। तस्य संनिष्ठापनान्तिकः कठिनोद्धारः॥३॥



नाशितान्तिकः कठिनोद्धारः कतमः। यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो बहिः सीमां प्रक्रामति। प्रत्येष्यामि चीवरं करिष्यामीति। स तदारभते। आरब्धं तु नश्यति। तस्य नाशितान्तिकः कठिनोद्धारः॥४॥



श्रवणान्तिकः कठिनोद्धारः कतमः। यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो बहिः सीमां प्रक्रामति। प्रत्येष्यांइ चीवरं करिष्यामीति। समग्रेण च संघेन कठिनमुद्धृतमिति श्रुत्वा चाभ्यनुमोदते। साधूद्धृतं सुष्ठूद्धृतमिति। तस्य श्रवणान्तिकः कठिनोद्धारः॥५॥



सीमान्तिक्राण्तिकः कठिनोद्धारः कतमः। यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो बहिः सीमां प्रक्रामति। प्रत्येष्यामि न प्रत्येष्यामीति सीमां चातिक्रामति। तस्य सामातिक्रान्ति कठिनोद्धारः॥६॥



आशाच्छेदकः कठिनोधारः कतमः। यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो बहिः सीमां प्रक्रामति। प्रत्येष्यामि चीवरं करिष्यामीति। तस्य या सा चीवरप्रत्याशा सा सर्वेण सर्वं समुच्छिद्यते। तस्याशाच्छेदकः (कठिन्प्द्धारः)॥७॥



कठिनोद्धार एवाष्टमः कतमः। यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृत चीवरोऽनिष्ठितचीवरो बहिः सीमां प्रक्रामति चागत्य कठिनोद्धारं प्रत्यनुभवति। तस्य कठिनोद्धार एवाष्टमः॥८॥



उद्दानम्।



अकृतेन हि विंशतिं वि (प्र) कृतेन हि विंशतिम्।

आशया विंशतिं कुर्यादनाशया चैव विंशिकाम्॥६॥



यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरोबहिःसीमां प्रक्रामति। प्रत्येष्यामि चीवरं कतिष्यामीति। तस्यैवं भवति। न हैव प्रत्येष्यामि। अपितु चीवरं करिष्यामीति। तस्य निष्ठापनान्तिकः कठिनोद्धारः॥१॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो बहिःसीमां प्रक्रामति। प्रत्येष्यामि चीवरं करिष्यामीति। तस्यैवं भवति। न हैव प्रत्येस्यामि नापि चीवरं करिष्यामीति। तस्य संनिष्ठापनान्तिकः कठिनोद्धारः॥२॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो बहिः सीमां प्रक्रामति। प्रत्येष्यामि चीवरं करिष्यामीति। स तदारभते। आरब्धं चास्य नस्यति। तस्य नाशितान्तिकः कठिनोद्धारः॥३॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो बहिः सीमां प्रक्रामति। प्रत्येष्यामि चीवरं करिष्यामीति। समग्रेण च संघेन कठिनमुद्घृतम्। स शृणोति समग्रेण संघेन कठिनमुद्घृतमिति। श्रुत्वा चाभ्यनुमोदते। साधूद्घृतम् सुष्ठूद्घृतमिति। तस्य श्रवणान्तिकः कठिनोद्धार इति॥४॥



यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो बहिः सीमां प्रक्रामति। प्रत्येष्यामि चीवरं करिष्यामीति। तस्य तत्र गतस्यैवं भवति। न हैव प्रत्येष्यामि। अपि तु चीवरं करिष्यामीति। तस्य निष्ठापनान्तिकः कठिनोद्धारः॥५॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो बहिःसीमां प्रक्रामति। प्रत्येष्यामि चीवरं करिष्यामीति। तस्य तत्र गतस्यैवम् भवति। न हैव प्रत्येष्यामि चीवरं करिष्यामीति। तस्य संनिष्ठापनान्तिकः। कठिनोद्धारः॥६॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो बहिःसीमां प्रक्रामति। प्रत्येष्यामि चीवरं करिष्यामीति। स तत्र गत आरभते। आरब्धं चास्य नश्यति। तस्य नाशितान्तिकः कठिनोद्धारः॥ ७॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासदकृतचीवरोनिष्ठितचीवरो बहिःसीमां प्रक्रामति। प्रत्येष्यामि चीवरं करिष्यामीति। समग्रेण संघेन कठिनमुद्घृतम्। स शृणोति समग्रेण संघेन कठिनमुद्घृतमिति। स श्रुत्वा चानुमोदते। साधूद्घृतं सुष्ठूद्घृतमिति। तस्य श्रवणान्तिकः कठिनोद्धारः॥८॥



यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरः पलिगोधसंततिर्बहिःसीमां प्रक्रामति। प्रत्येष्यामि चीवरं करिष्यामीति। तस्यैवं भाव्ति। न हैव प्रत्येष्यामि। अपितु चीवरं करिष्यामीति। तस्य निष्ठापनान्तिकः कठिनोद्धारः॥९॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरः पलिगोसंततिर्बहिःसीमां प्रक्रामति। प्रत्येष्यामि। चीवरं करिष्यामीति। तस्यैवं भवति। न हैव प्रत्येष्यामि नापि चीवरं करिष्यामीति। तस्य (सं) निष्ठापनान्तिकः कठिनोद्धारः॥१०॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरः पलिगोधसंततिर्बहिःसीमां प्रक्रामति। प्रत्येष्यामि चीवरं करिष्यामीति स तदारभते। आरब्धं चास्य नश्यति। तस्य नाशितान्तिकः कठिनोद्धारः॥११॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरः पलिगोधसंततिर्बहिःसीमां प्रक्रामति। प्रत्येष्यां चीवरं करिष्यामीति। समग्रेण च संघेन कठिनमुद्घृतम्। स शृणोति समग्रेण संघेन कठिनमुद्घृतमिति। श्रुत्वा चाभ्यनुमोदते। साधूद्घृतं सुष्ठूद्घृतमिति। तस्य श्रवणान्तिकः कठिनोद्धारः॥१२॥



यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरः पलिगोधसंततिर्बहिःसीमां प्रक्रामति। प्रत्येष्यामि चीवरं करिष्यामीति। तस्य तत्र गतस्यैवं भवति। न हैव प्रत्येष्यामि। अपितु चीवरं करिष्यामीति। तस्य निष्ठापनान्तिकः कठिनोद्धारः॥१३॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरः पलिगोधसंततिर्बहिःसीमां प्रक्रामति। प्रत्येष्यामि चीवरं करिष्यामीति। तस्य तत्र गतस्यैवं भवति। न हैव प्रत्येष्यामि नापि चीवरं करिष्यामीति। तस्य (सं) निष्ठापनान्तिकः कठिनोद्धारः॥१४॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरह् पलिगोधसंततिर्गहिःसीमां प्रक्रामति। प्रत्येष्यामि चीवरम् करिष्यामीति। स तत्र गत आरमभते। आरब्धं चास्य नश्यति। तस्य नाशितान्तिकः कठिनोद्धारह्॥१५॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरः पलिनोगसंततिर्बहिःसीमां प्रक्रामति। प्रत्येष्यामि चीवरं करिष्यामीति समग्रेण संघेन कठिनामुद्घृतम्। स शृणोति समग्रेण संघेन कठिनमुद्घृतमिति। श्रुत्वा चाभ्यनुमोदते। साधूद्घृतं सुष्ठूद्घृतमिति। तस्य श्रवणान्तिकह् कठिनोद्धारः॥१६॥



यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो विचिकित्सासंततिर्बहिः सीमां प्रक्रामति। किं नु प्रत्येष्यामि। आहोस्विन्न प्रत्येष्यामीति। तस्यैवं भवति। न हैव प्रत्येष्यामि। अपि तु चीवरं करिष्यामिति। तस्य निष्ठापनान्तिकः कठिनोद्धारः॥१७॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरोविचिकित्सासंततिर्बहिः सीमां प्रक्रामति। किं नु प्रत्येष्यामि। आहोस्विन्न प्रत्येष्यामीति। तस्यैवं भवति न हैव प्रत्येष्यामि। अपि तु चीवरं करिष्यामीति। तस्य संनिष्ठापनान्तिकः कठिनोद्धारः॥१८॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो विचिकित्सासंततिर्बहिः सीमां प्रक्रामति। किं नु पर्त्येष्यामि। आहोस्विन्न प्रत्येष्यामीति। स तदारभते। आरब्धं चास्य नश्यति। तस्य नाशितन्तिकः कठिनोद्धारह्। १९॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो विचिकित्सासंततिर्बहिः सीमां प्रक्रामति।किं नु प्रत्येष्यामि। आहोस्विन्नप्रत्येष्यामीति समग्रेण संघेन कठिनमुद्ऱ्उतम्। श्रुत्वा चाभ्यनुमोदते साधूद्घृतं सुष्ठुद्घृतमिति। तस्य स्र्हवणान्तिकः कठिनोद्धारः॥ २०॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो विचिकित्सासंततिर्बहिः सीमांप्रक्रामति। प्रत्येष्यामि चीवरं करिष्यामीति। तस्यैवं बह्वति। न हैवं प्रत्येष्यामि। अपि तु चीवरं करिष्यामीति। तस्यनिष्ठापनान्तिकः कठिनोद्धारः। पूर्वस्याम् विचिकित्सायामकृतचीवरोऽनिष्ठितचीवर इत्यत्रानिष्ठितचीवर इत्यपनीय विप्रकृतचीवर इति दत्त्वा नानाकारेणापरा विंशतिःकार्याः॥१-२०॥



यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो विचिकित्सासंततिर्बहिः सीमां प्रक्रामति आशया प्रत्येष्यामिति। तस्यैवं भवति। न् अहैव प्रत्येस्यामि। अपि तु चीवरं करिष्यामिति। तस्य निष्ठापनान्तिकह् कठिनोद्धारः। आशयेत्यनेन विशेषेण पूऱ्ववदपरा विंशतिः कार्या॥१-२०॥



यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो विचिकित्सासंततिर्बहिः सीमांप्रक्रामति। (अ_ नाशया प्रत्येष्यामि चीवरं करिष्यामीति। तस्यैव भवति। न हैव प्रत्येष्यामि। अपि तु चीवरम् कषियामीति। तस्य नीष्ठापनान्तिकः कठिनोद्धारः। अनाशये (त्यने) न विशेषेणापरा विंशतिः कार्या॥१-२०॥



उद्दानम्।



करणीयेन द्वादशिका पर्येषण्णत्तथा तथ् आ।

देशेन पंचिकां कृत्वा आवासेन च पंचिकाम्॥७॥



यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो विचिकित्सासंततिर्बहिः सीमां प्रक्रामति।करणीयेन प्रत्येष्यामि चीवरं करिष्यामीति। तस्यैवं भवति। न हैव प्रत्येष्यामि। अपि तु चीवरं करिष्यामीति। तस्य निष्ठापनान्तिकः कठिनोद्धारः॥१॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो विचिकित्सासंततिर्बहिः सीमां प्रक्रामति। करणीयेन प्रत्येष्यामीचीवरं करिष्यामीति। तस्यैवं भवति। न हैव प्रत्येष्यामि। अपि तु नापिचीवरं करिष्यामीति। तस्य संनिष्ठापनान्तिकः कठिनोद्धारः॥२॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो विचिकित्सासंततिर्बहिः सीमां प्रक्रामति। करणीयेन पर्त्येष्यामि चीवरं करिष्यामिति। स तदारभते। आरब्धं चास्य नश्यति। तस्य नाशितान्तिकह् कठिनोद्धारह्॥३॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो विचिकित्सासंततिर्बहिः सीमां प्रक्रामति। करणीयेन प्रत्येष्यामि चीवरं करिष्यामीति। समग्रेण च संघेन कठिनमुद्धृतम्। स शृणोति समग्रेण संघेन कठिन मुद्धृतमिति। श्रुत्वा चाभ्यनुमोदते। साधूद्धृतं सुष्ठूद्धृतमिति। तस्य श्रवणान्तिकः कठिनोद्धारह्॥४॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो विचिकित्सासंततिर्बहिः सीमां प्रक्रामति। करणीयेन प्रत्येष्यामि चीवरं करिष्यामीति। तस्य तत्र गतस्यैवं भवति। न हैव प्रत्येष्यामि। अपि तु चीवरं करिष्यामिति। तस्य निष्थापनान्तिकः कठिनोद्धारः॥५॥ यथापि तत्र गतस्येत्यनेन विशेषेण निष्ठापनान्तिक उक्तह्। एवं संनिष्ठापनान्तिकः॥६॥ नाशितान्तिकः॥७॥ श्रवणान्तिकः॥८॥ यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो विचिकित्सासंततिर्बहिः सीमां प्रक्रामति। करणीयेन किं नु प्रत्येष्यामि। आहोस्विन्न प्रत्येष्यामीति। तस्यैवं भवति। न हैव प्रत्येष्यामि। अपि तु चीवरं करिष्यामीति। (तस्य) निष्ठापनान्तिकः कठिनोद्धारः॥९॥ यथा विचिकित्सासं(ततिरित्यनेन विशेषेण) निष्ठापनान्तिक उक्तः। एवं संनिष्ठापनान्तिकः॥१०॥ नाशितान्तिकः॥११॥ श्रवणान्तिकः॥१२॥



यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरो(ऽनिष्ठितचीवरो) बहिः सीमां प्रक्रामति। पर्येषणाय पर्त्येष्यामि चीवरं करिष्यामीति। तस्यैव भवति। न हैव प्रत्येष्यामि। अपितु क्करिष्यामीति। तस्य निष्ठा (प) नान्तिकः कठिनोद्धारः॥१॥ पर्येषणेत्यनेन पूर्ववदपरो द्वादशिकह्॥२-१२॥



यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो विचिकित्सासंततिर्बहिः सीमां प्रक्रामति देशानुप्रेक्षी अनुपरागमनाय। तस्य पर्क्रमणान्तिकः कठिनोद्धारः॥१॥



यथापि तद्भिक्षुरास्तीर्णकठिनादावासादकृतचीवरोऽनिष्ठितचीवरो विचिकित्सासंततिर्देशानुप्रेक्षी बहिः सीमां प्रक्रामति। किं नु प्रत्येष्यामि। आहोस्विन्न प्रत्येष्यामीति। तस्यैवं भवति। न हैव प्रत्येष्यामि। अपि तु चीवरं करिष्यामीति। तस्य निष्ठापनान्तिकः कठिनोद्धारः॥२॥ एवं संनिष्ठापनान्तिकः॥३॥ नाशितान्तिकः॥४॥ श्रवणान्तिकः॥५॥



यथा देशानुप्रेक्षणपंचिका। एवमावासप्रेक्षणपंचिका॥१-५॥



॥कठिनवस्तु समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project