Digital Sanskrit Buddhist Canon

2 चीवरवस्तु

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

2 cīvaravastu

चीवरवस्तु



चीवरवस्तुनि पिण्डोद्दानम्।



जीवको भाङ्गकश्चैव तथा दीर्घदशानि च।

वर्षाछिन्नश्च विज्ञेयः

कालक्रिया उपनन्दो ग्लानो भवति पश्चिमः॥ १॥



पिण्डोद्दानम्।

जीवकश्छिन्नकास्त्रीणि वर्षाशारी निषीदनम्।

कण्डुसुगतकौशेया ऊर्णा शाणक-क्षौमकाः॥२॥



उद्दानम्।

खण्डो गोपश्च सिंहश्च वैशाली-गमनं तथा।

चेला ऋषिकोपश्च आम्रपाल्यभयेन च॥३॥



श्रेष्ठी-भार्या जीवकोत्पत्तिः वैद्यकस्य च आगमः।

तक्षशिला भद्रङ्कर उदुम्बरः कार्षमापकः॥४॥



रोहितकः राजोद्यानं मथुरा मल्लस्त्रियाहि च।

यमुना शिवपथिका वैशाल्यामक्षि शतपदी सप्त ।

राजगृहे पञ्चवस्तूनि जीवकवर्ग समुद्दितः॥५॥



विदेहेषु विदेहराजो राज्यं कारयति ऋद्धं च स्फीतं व क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च। तस्य खण्डप्रमुखानि पञ्चामात्यशतानि। खण्डोऽग्रामात्यो धर्मेण राज्यं कारयति न्यायतश्च व्यवहारन्पश्यति यतः सर्व एव जनकायस्तन्मुखोऽवस्थितः। तेन सदृशात् कुलात् कलत्रमानितम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः। तस्य त्रीणि सप्तकान्येकविंशति दिवसान्पूर्ववद्यावद् गोप इति नामधेयं व्यवस्थापितम्। भूयोऽप्यस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः। तस्यापि पूर्ववद्विस्तरेण सिंह इति नामधेयं व्यवस्थापितम्। गोपः सिंहश्च क्रमशस्तरुणौ संवृत्तौ। खण्डोऽग्रामात्यः पूर्वमेव शूरो विक्रान्तः पञ्चसु स्थानेषु कृतावी येनामात्यानामग्रः। यदा पुत्रबली जातस्तदा भूयस्या मात्रया सर्वामात्यानभिभूयावस्थितः। ततस्तेऽमात्या उपहततेजसः परस्परं सञ्जल्पं कृत्वा सञ्जातामर्षा राज्ञः सकाशं गताः। ततोऽवसरं ज्ञात्वा राजानमूचुः। देव को राजा। राजा कथयति। कुतो भवतां विमर्षोऽहं राजा कोऽन्य इति। ते कथयन्ति। देव खण्डो राजा न देवः। यदि तस्याभिरुचितं स्याद्देवं राज्याच्च्यावयित्वा स्वयमेव पट्टं बद्‍ध्वा राज्यैश्वर्याधिपत्यं कारयेदिति। राजा संलक्षयति। सर्व एते तेनाभिभूतास्तेन भेदं कुर्वन्तीति। यावदपरेण समयेन राजा अमात्यगणपरिवृतस्तिष्ठति। खण्डश्चाग्रामात्योऽर्थिप्रत्यर्थिशतसहस्रपरिवृतो राजकुलं प्रविष्टः। पूर्णं तद्राजकुलमवस्थितम्। यदा तु राजकृतिं कृत्वा निष्क्रान्तस्तदा तद्राजकुलं शून्यमवस्थितम्। राजा पथयति। भवन्तः सर्व एवायं जनकायो निष्क्रामति। अमात्यैरवतारो लब्धः। ते कथयन्ति। साक्षार्कृतं देवेनं यतो विज्ञापयामः। यदि खण्डस्याभिरुचितं स्याद्देवं राज्याच्च्याचयित्वा स्वयमेव पट्टं बद्‍ध्वा राज्यैस्वर्याधिपत्यं कारयेदिति। काकशङ्किनो हि राजानः। स संलक्षयति। यथैते कथयन्ति नूनमेवमिति। स तस्यावतारप्रेक्षी संवृत्तः। मित्रामित्रमध्यमा लोकाः। यावदपरैः खण्डस्यारोचितम्। राजा तवावतारप्रेक्ष्यवतिष्ठते। क्षमं मन्यस्वेति। तस्य शङ्का समुत्पन्ना। स विचारयितुं प्रवृत्तः। क्व गच्छामीति। यदि श्रावस्तीं गमिष्यामि राजाधीना श्रावस्ती तत्राप्येष एवादीनवः। एवं वाराणस्यां राजगृहे चम्पायामेकाधीनत्वादेष एवादीनवः। वैशाली गणाधीना। यद्दशनामभिप्रेतं तद्विंशतीनां नाभिप्रेतम्। सर्वथा वैशालीं गच्छामीति। तेन वैशालकानां लिच्छवीनां दूतसंप्रेषणम् कृतम्। गच्छाम्यहं भवतां बाहुच्छायायां वस्तुमिति। तैरादरजातैः प्रतिसन्देशो दत्तः। इयमेव वैशाली स्वागतमागच्चेति। ततः खण्डेनाग्रामात्येन ज्ञातय आहूय उक्ताः। भवन्तोऽहं वैशालीं सम्प्रस्थितोयेषां युष्माकमभिरुचितमिहावस्थानं तेऽभितिष्ठन्तु येषां नाभिरुचितं ते सज्जा भवन्तु गच्छामः। गोपालकाः पशुपालकाश्चोक्ताः। यूयं गोमहिषीः येन वैशालीं तेन खटयत। पौरुषेया उक्ताः। सन्नाहयत वैशालीं गच्छाम इति। ततो जनकायमेवं प्रेरयित्वा राज्ञः सकाशं गतः पादयोर्निपत्य कथयति। देव किञ्चित्करणीयमस्ति। उद्यानं गच्छाम्यवलोकितो भवेति। राजा कथयत्येव भवतु गच्छेति। शोद्यानशोभां कारयित्वा सारादानं शकटेष्वारोप्य उपरि खादनीयभोजनीयेन आच्छाद्य संप्रस्थितः। अमात्यैः श्रुतम्। खण्डो निष्पलायतीति। ते त्वरितं त्वरितं राज्ञः सकाशं गत्वा कथयन्ति। देव खण्डो निष्पलायतीति। राजा कथयति। भवन्तो गच्छत निर्वर्तयतेति। ते चतुरङ्गं बलकायं सन्नाह्य निर्गताः कथयन्ति। खण्ड देवो शब्दयतीति निवर्तयस्वेति। स कथयति। भवन्तो युष्माकं दीर्घरात्रमयमाश्वासकः। अहो वत खण्डः कालं कुर्यान्निष्पलायेत इति वा इति। स युष्माकमल्पकृछ्रेण परिपूर्णः। गच्छत निष्पलायत्ययमिति। ते राज्ञश्चित्तानुरक्षया काण्डकाण्डिं कृत्वा निवृत्ता राज्ञः कथयन्ति। देव निष्पलायितः खण्डो अग्रामात्य इति। राजा कथयति। न शोभनमिति कृत्वा तृष्णीमवस्थितः। खण्डोऽप्यनुपूर्वेण वैशालीं गतः।



तेन खलु समयेन वैशाली त्रिभिः स्कन्धैः प्रतिवसति। प्रथमे स्कन्धे सप्त कूटागारसहस्राणि सुवर्णमयैर्निर्यूहैर्मध्यमे स्कन्धे चतुर्दशरूष्यमयैर्निर्यूहैरधरिमे स्कन्धे एकविंशतिस्ताग्रमयैर्निर्यूहैस्तेषु यथायोगं मनुष्याः प्रतिवसन्ति। उत्तमा मध्यमा अधमाः। वैशाल्यां गणेन क्रियाकारा व्यवस्थापिताः। या प्रथमे स्कन्धे दारिका जायते सा प्रथम एव स्कन्धे दीयते न मध्यमे नाधरिमे। या मध्यमे सा प्रथमे स्कन्धे दीयते मध्यमे वा नाधरिमे। याऽधरिमे सा त्रिष्वपि ष्कन्धेषु दीयते। कन्याया अनिर्वाहः नान्यत्र दीयते इति वैशालीस्त्ररत्नं न कस्यचिद्दीयते। गणसामान्यं परिभोज्यमेव। खण्डस्य प्रधानपुरुष इति कृत्वा प्रथमे स्कन्धे गृहं दत्तम्। तत्र प्रतिवस्तुमारब्धः।



यदा गणः संनिपतति तदासावाहूयमानोऽपि न संनिपतति। स वैशालकैरुच्यते। खण्ड कस्मात् त्वं न संनिपतसीति। स कथयति। संनिपतितादेव अयमादीनव प्रादुर्भूतो नाहं संनिपतामीति। वैशालकाः कथयन्ति। खण्ड संनिपाते कोऽत्र आदीनवो भविष्यतीति। स संनिपतितुमारब्धः। मतं नानुप्रयच्छति। ते कथयन्ति खण्ड मतमनुप्रयच्छेति। स कथयति। मतमपि नानुप्रयच्छामि यस्मान्मतादेव मे आदीनवाः प्रादुर्भूता इति। ते कथयन्ति। अनुप्रयच्छ मतम्। कोऽत्रादीनवो भविष्यतीति। स च निगमे संनिपतति मतं चानुप्रयच्छति। पूर्वं वैशालका लिच्छवयो यस्य कस्यचिल्लेखमनुप्रेषयन्ति स कर्कशमनुप्रेषयन्ति। यदा तु खण्डो मतं दातुमारब्धस्तदा सानुनयं लिखन्ति। येषां सानुनयो लेखो नीतो भवति ते परस्परं संजल्पं कुर्वन्ति। भवन्तः को योगो येन वैशालको गणः पूर्वं सकर्कशं लिखति इदानीं तु सानुनयमिति। अपरे कथयन्ति। अस्ति विशेषः। विदेहराजस्य खण्डो नामाऽग्रामात्य इहागतस्य मतेनाऽनुव्यवहरन्ति येनाधुना सानुनयं लिखन्तीति।



खण्डेन गोपस्य सिंहस्य च निवेशनं कृतम्। सिंहस्य क्रीडतो रममाणस्य परिचारयतो दुहिता जाता। तस्यापि विस्तरेण जातिमहं कृत्वा चेलेति नामधेयं व्यवस्थापितम्। सा नैमित्तिकेन दृष्ट्वा व्याकृता पुत्रं जनयिष्यति। स पितरं जीविताद् व्यपरोप्य स्वयमेव पट्टं बद्‍ध्वा राज्यं कार्यिष्यतीति। भूयोऽस्य क्रीडतो रममाणस्य परिचारयतो दुहिता जाता। तस्या अपि विस्तरेण जातिमहं कृत्वोपचेलेति नामधेयं व्यवस्थापितम्। सापि नैमित्तिकेन व्याकृता पुत्रं जनयिष्यति लक्षणसम्पूर्णमिति। गोपो व्याडो विक्रान्तो वैशालकानां लिच्छवीनामुद्यानानि विनाशयति। उद्यानपालैरूच्यते। वैशालका लिच्छवयो व्याडा विक्रान्ताः। मा तेषामुद्यानानि विनाशयेति। स निर्वायमाणोऽपि न सन्तिष्ठते। उद्यानपालै खण्डस्यारोचितम्। पुत्रस्ते वैशालकानां लिच्छवीनामुद्यानानि विनाशयति। निवारयैनम्। लिच्छवयो व्याडा विक्रान्ता माऽस्यानर्थं करिष्यन्ति। स तेनाहूयोक्तः। पुत्र वैशालका लिच्छवयो व्याडा विक्रान्ता मा तेषामुद्यानानि विनाशय मा ते अनर्थं करिष्यन्तीति। स कथयति। तात एषामुद्यानानि सन्ति अस्माकं तु न सन्ति। स कथयति। पुत्र उद्यानस्यार्थाय गणं विज्ञापयामीति। तेन गणो विज्ञप्तो मम पुत्रयोरुद्यानं नास्ति। तदर्हं मम उद्याने प्रसादं कर्तुमिति। तैस्ताभ्यां जीर्णोद्यानं दत्तम्। तस्मिन्महाशालवृक्षः। तत्रैकेन भगवतः प्रतिमा कारिता। द्वितीयेन विहारः प्रतिष्ठापितः - तथा स्थविरैरपि सूत्रान्ते उपनिबद्धं बुद्धो भगवान् वैशाल्यां विहरति गोपसिंहशालवने इति। गोपः अक्रियासहस्राणि करोति। लिच्छवयोऽवध्यायन्ति क्षिपन्ति विवाचयन्ति। ततः खण्डेनाहूयोक्तः। पुत्र गच्छ त्वममुककर्वटं तत्र स्वाधिष्ठितान् कर्मान्तान् कारय। तिष्ठ मा गणप्रकोपो भविष्यतीति। स तत्र गत्वा स्वाधिष्ठितान् कर्मान्तान् कारयितुमारब्धः। यावदपरेण समयेन वैशाल्यां सेनापतिः कालगतः। तैः खण्डोऽग्रामात्यः सेनापते स्थापितः। सोऽपि कंचित् कालं धर्मेण सेनापत्यं कारयित्वा कालगतः। वैशालको गणः संनिपतितः। कं सेनापतिं स्थापयाम इति। तत्र एके कथयन्ति। खण्डेनाग्रामात्येन गणः परिपालितः। तस्यैव पुत्रं स्थापयाम इति। अपरे कथयन्ति। तस्य पुत्रो गोपो व्याडो विकान्तः। यद्यसौ सेनापत्ये स्थाप्यते नियतं गणस्य भेदं करिष्यति यस्तु तस्य भ्राता सिंहः स सूरतः सुखसंवासः श्रक्नोति गणस्य चित्तमारागयितुम्। यदि गणस्याभिरुचितं तं सेनापतिं स्थापयाम इति। सर्वेषामभिरुचितम्। ते सम्भूय सिंहस्य सकाशं गताः। सिंह सेनापतित्वं प्रतिच्छेति। स कथयति। मम ज्येष्ठो भ्राता गोपस्तं सेनापतिं स्थापयतेति। त कथयन्ति। सिंह न युष्माकं कुलकमागतं सेनापत्यं यो गणस्याभिरुचितः स सेनापतिर्भवति। यदि भवतो नाभिरुचितं वयमन्यं सेनापतिं स्थापयाम इति। स संलक्षयति। यद्यास्माकं गृहात् सेनापत्यमन्यत्र गमिष्यति नैतद्युक्तम्। सर्वथा प्रतीच्छामीति। तेनाऽध्यवसितम्। स तैर्महता सत्कारेण सेनापत्ये प्रतिष्ठापितः। वैशालकाः पूर्वं यस्य लेखमनुप्रेषयन्ति तस्य खण्डप्रमुखो गण आज्ञापयतीति लिखन्ति। यदा सिंह सेनापतिः संवृत्तिस्तदा सिंहप्रमुखो गण आज्ञापयतीति। यावदपरेण समयेन यस्मिन्कर्वटके गोपः स्वाधिष्ठितान् कर्मान्तान् कारयति तदा कर्वटकं लेखो गतः। गोपनोद्घाट्य वाचितः। स कथयति। भवन्तः पूर्वं वैशालको गणः खण्डप्रमुखो गण आज्ञापयतीति लिखन्ति। इदानीं सिंहप्रमुखो गणः आज्ञापयतीति लिखन्ति। किमस्माकं पिता कालगतः। ते कथयन्ति। कालगतः। स संजातामर्षो वैशालीं गत्वा कथयति। भ्रातः युक्तं नाम तव मयि ज्येष्ठतरे तिष्ठति सेनापत्यं कर्तुमिति। सिंहेन तस्य यथावृत्तमारोचिम्। स वैशालकानां लिच्छवीनां संजातामर्षः संलक्षयति। मम वैशालकैरसत्कारः प्रयुक्तो गच्छामि राजगृहमिति। तेन राज्ञो बिम्बिसारस्य दूतप्रेषणं कृतम्। इच्छामि देवस्य बाहुच्छायायां वस्तुम्। तेनास्य लिखितम्। स्वागतम्। आगच्छेति। स राजगृहं गतः। ततो राज्ञा बिम्बिसारेण अग्रामात्ये स्थापितः। यावदपरेण समयेन राज्ञो बिम्बिसारस्याग्रमहिषी कालगता। स करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः। गोपेन स दृष्ट उक्तश्च। देव कस्यार्थाय देवः करे कपोलं दत्त्वा चिन्तापरो व्यवस्थित इति। स कथयति। अग्रमहिषी मे कालगता किमिति न चिन्तापरस्तिष्ठामि। अलं देव त्यज्यतां शोकः। अस्ति मम भ्रातुर्दुहितृध्वयं रूपयौवनसंपन्नं देवार्हमेव। तत्रैका व्याकृता पितृमारकं पुत्रं जनयिष्यतीति। द्वितीया तु लक्षणसंपन्नमिति। तत्कतां देवस्यार्थाय आनयामि। या सा व्याकृता लक्षणसंपन्नं पुत्रं जनयिष्यतीति। ततो गोपेन सिहस्य लेखोऽनुप्रेषितः। राज्ञो बिम्बिसारस्याग्रमहिषी कालगता त्वमुपचेलामिह प्रषयाग्रमहिषी भविष्यतीति। तेन तस्य प्रतिलेखो विसर्जितः। दूरमपि परमपि गत्वा त्वमेवास्माभिः प्रष्टव्यः। यद्भवता कृतं तत्परं प्रमाणमिति। त्वमेव जानीषे यथा गणेन क्रियाकारः कृतो नान्यत्र कन्या दातव्या ऋते वैशालकानिति। किन्तु त्वमागत्योद्याने तिष्ठ अहमेनामुद्यानं निष्काशयिष्यामि। त्वं गृहीत्वा गमिष्यसीति। ततो गोपो राजानमवलोक्य रथमारुह्य वैशालीं संप्रस्थितः। अनुपूर्वेण सम्प्राप्तः। उद्याने व्यवस्थितः। तेन खलु समयेन वैशाल्यां दौवारिकः कालगतोऽमनुष्यकेषुपपन्नः। तेन वैशालकानां निर्देशितम्। अहममनुष्येषूपपन्नो मम यक्ष स्थानं कारयत घण्टां चग्रीवायाम् प्रलम्बयत। यदि कश्चिद्वैशालकानां प्रत्यर्थिकः प्रत्यमित्र आगमिष्यति अहं तावद्घण्टाशब्दं करिष्यामि यावद् गृहीतो वा निष्पलायितो वेति। तैर्यक्षः प्रतिरूपं कृत्वा घण्टां च ग्रीवायां बद्ध्वा नृत्यगीतवादित्रशब्देन बलिमाल्योपहारेण द्वारकोष्ठके प्रतिष्ठापितः। गोपेन सिंहस्य संदिष्टम्। अहमुद्याने तिष्ठामि निर्गेच्छेति। स वैशालकं गणमवलोक्य गृहं गत्वा उपचेलामाह। त्वं राज्ञे बिम्बिसाराय दत्ता। अलंकुरुष्वेत्युक्ता। उद्यानं निर्गच्छ। सा अलङ्कर्तुमारब्धा। चेलया दृष्टा। सा कथयति। किमर्थमलङ्करोषि। अहं दत्ता। कस्मै। राज्ञे बिम्बिसाराय। सा कथयति। अहं ज्येष्ठतरा त्वं कथं दत्ता। यद्येवं त्वमलङ्कुरुः। सा चालंकरोति। घाण्टा च रवितुमारब्धा। वैशालको गणः क्षुब्धः प्रत्यमित्रोऽस्माकं वैशालीं प्रविष्ट इति। सिंहः सन्त्रस्त उपचेलेति। कृत्वा चेलामादाय लघु लघ्वेव निर्गतः। गोपोऽपि सन्त्रस्तः चेलां रथे आरोप्य संप्रस्थितः वैशालकैर्दृष्टः। ते तेन सार्धं संग्रामयितुमारब्धाः। स पञ्चसु स्थानेषु कृतावी तेन पञ्चलिच्छविशतानि मर्मणि ताडितानि। स कथयति। भवन्तो मया युष्माकं पञ्चशतानि मर्मणि ताडितान्यवशिष्टं जीवितेनाच्छादयामि निवर्ततेति। ते कथयन्त्येकसत्त्वोऽप्यस्माकम् न प्रघातितः। मुञ्चत सन्नाहम्। तैः सन्नाहो मुक्तः। पञ्चशतानि भूमौ निपतितानि प्राणैश्च वियुक्तानि। ततस्ते पुरुषराक्षसोऽयमिति कृता भीता निष्पलायिताः। वैशालीमागत्य संजल्पं कर्तुमारब्धाः। एतद्वैरमस्माभिर्भवन्तो बिम्बिसारपुत्राणां निर्यातयितव्यम्। पत्रलेख्यं कृत्वा पेडायां प्रक्षिप्य जतुमुद्रातापं कृत्वा स्थापयतेति।तैस्तथा कृत्वा स्थापितम्। गोपोऽप्यनुपूर्वेण राजगृहमनुप्राप्तः कथयति। उपचेले अवतरेति। सा कथयति। तात नाहमुपचेला। चेलाहं। किं त्वया मम नारोचितम्। सा तूष्णीमवस्थिता। ततोऽसौ दुःखी दुर्मना राज्ञः सकाशं गतः। राज्ञ दृष्ट उक्तश्च। स्वागतं गोप। आगतोऽसि। आगतोऽस्मि देव। आनीता उपचेला। देव आनीता न आनीता च। किं कथयसि। उपचेलेति कृत्वा चेला आनीता। अनीयतां पश्यामः। सा प्रवेशिता। राज्ञा दृष्टा। अतीवरूपयौवनसम्पन्ना हारी स्त्रीविषये। सहदर्शनादेव राजा आक्षिप्तः कथयति। भवन्तो यो हि पुत्रः पितरं घातयति स राज्यहेतोः। यदि मे पुत्रो भविष्यति तस्य जातस्यैवाहं पट्टबन्धं करिष्यामीति। ततस्तेन महता श्रीसमुदयेन परिणीता। विदेहविषयादानीता वैदेहीति संज्ञा संवृत्ता। स तया सार्धं क्रीडति रमते परिचारयति। यावदपरेण समयेन राजा बिम्बिसारो मृगयानिर्गतः अन्यतमस्मिंश्चाश्रमपदे ऋषिः पञ्चाभिज्ञः प्रतिवसति। यावन्मृगः शरपरम्परया सन्त्रासितस्तस्य ऋषेराश्रमपदान्निर्गतो राज्ञा शरेण मर्मणि ताडितः। ततोऽसौ ऋषिः क्रुद्धः कथयति। कलिराज मम चण्डमृगोऽप्याश्रमपदं परिहरति। त्वया तु शरणोपगतो मृगः प्रघातित इति। स च राजैवमृषिणा परिभाष्यते। बलकायश्चागतः कथयति। देव कोऽयं परिभाषते। राजा कथयति। अहं भवन्तः यो राजानं परिभाषते तस्य को दण्डो देव। तस्य बधो दण्डः। यद्येवं परित्यक्तो मे अयमृषिः। स प्रघातितुमारब्धः। स प्रघात्यमानो मिथ्या प्रणिधानं करोति। यदहमनेन कलिराजेन अदूषणमकारि बध्यः। उत्सृष्टस्तत्रोपपद्येयं यत्रैनं जीविताद् व्यपरोपयेयम्। पुनः संलक्षयति। राजानं एते सुगुप्ताः सुगोपिताः। यद्यहमन्यत्रोपपत्तिं ग्रहिष्यामीति कदाचित् प्रत्ययं नारागयिष्यामि।सर्वथा अनेन मे प्रणिधानेन अस्यैवाग्रमहिष्याः कुक्षावुपपत्तिः स्यादिति। स मिथ्या प्रणिधानं कृत्वा चेलायाः कुक्षावुपपन्नः। यमेव दिवसं प्रतिसन्धिर्गृहीतस्तमेव दिवसं रुधिरवर्षं पतितम्। चेलायाश्च दोहदः समुत्पन्नः। अहो बताहं देवस्य पृष्ठमांसान्युत्पाट्योत्पाट्य भक्षयेयमिति। एष च वृतान्तो राज्ञो निवेदितः। राज्ञा नैमित्तिका आहूयः पृष्टाः। ते ऊचुः। देव योऽयं सत्त्वो देव्याः कुक्षिमवक्रान्तस्तस्यायमनुभाव इति। राजा चिन्तापरो व्यवस्थितः। कथमस्या दोहदः प्रतिविनोद्यतः इति। अपरैः कुशलजातीयैः समाख्यातम्।देव तूलिकायां मांसपूर्णां प्रवृत्तिं देव्या आत्मानमुपनय इति। ततो राज्ञा मांसपूर्णया तूलिकया आत्मानं वेष्टयित्वा चेलाया उपनामितम्। तया पृष्ठमांसमिति कृत्वा भक्षितम्। ततस्तस्या यो दोहदः स प्रतिविगतः। भूयोऽप्यस्या दोहद उत्पन्नः। अहो वताहं देवस्य रुधिरं विपेयमिति। एतदपि राज्ञे निवेदितम्। ततो राज्ञा पञ्चेङ्खिकाः शिरा मोचयित्वा रुधिरं पायिता। सोऽप्यस्या देहदः प्रतिविगतः। यावत्परिपूर्णैंर्नवभिर्मासैः प्रसूता। दारको जातोऽभिरुपो दर्शनीयः प्रासादिकः। यस्मिन्नपि दिवसे जातस्तस्मिन्नपि रुधिरवर्षं पतितम्। भूयो राज्ञा नैमित्तिकां आहूय पृष्टास्ते कथयन्ति। देव यथा शास्त्रे दृश्यते नियतमयं दारकः पितरं जीविताद् व्यपरोप्य स्वयमेव पट्टं बद्ध्वा राज्यं कारयिष्यतीति। राजा संलक्षयति। सर्वथा राज्यार्थामयं मां जीविताद्‍व्यपरोपयति। तदस्मै स्वयमेव राज्यं दास्मामि। किमर्थं मां जीविताद् व्यपरोपयिष्यातीति।



तेन खलु समयेन वैशाल्यां महानामो लिच्छविः प्रतिवसति। तस्योद्याने आम्रवणम्। तस्मिन्नप्यकस्मादेव कदली स्कन्धो जातः। आरामिकेण च दृष्टः। तत्समनन्तरमेव पुष्पितः। तेन विस्मयजातेन महानामाय निवेदितम्। तेन नैमितिका आहूय पृष्टाः। ते कथयन्ति। देव प्रतिपाल्यताम्। सप्तमे दिवसे स्फुटिष्यति। तन्मध्याद्दारिका भविष्यति। श्रुत्वा महानामो गृहपतिर्भूयस्या मात्रया विस्मयमापन्नस्तस्मिंश्चोद्याने आरक्षकान्पुरुषान्समन्ततः स्थापयित्वा दिवसान् गणयितुमारब्धः। यावत्सप्तमेदिवसे तस्मिन्नुद्याने अपगतपाषाणशर्करकठल्लं व्यवस्थापिते चन्दनवारिपरिषिक्ते सुरभिधूपघण्टिकोपनिबद्धे आमुक्तपदृदामकलापे पुष्पावकीर्णे अनेकगीतवादित्रनिनादिते सुहृत्संबन्धिबान्धजनपरिवृतो महता श्रीसमुदयेन अन्तःपुरसहितो निर्गतस्तस्य तस्मिंश्चोद्याने क्रीडतो रममाणस्य परिचारयतः कदलीस्तम्भः स्फुटितः। दारिका जाताभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्याङ्गोपेता। ततो महानामस्याग्र महिष्माः संन्यस्तः। सा कथयति। देवास्य नामधेयं व्यवस्थाप्यते। महानामः कथयति। इयं दारिकाऽम्रवनाल्लब्ध्वा। भवत्वस्याऽम्रपाली नामेति। यावन्महानामो गृहपतिरुद्यानात्स्वगृहं गत आम्रपाली दारिका चर्याते पूर्ववद्यावन्महती संवृत्ता। तस्या वरा आगच्छन्ति क्रौञ्चाः शाक्याश्चान्ते नानादेशनिवासिनो राजपुत्रा। अमात्यपुत्राः। धनिनः। श्रेष्ठिनः। सार्थवाहाः। महानामो गृहपतिः सम्लक्षयति। यस्यैव ना दास्यामि तस्यैव द्विड् भविष्यामि। अपि तु गणेन क्रियाकारः कृतः। गणं तावदवलोकयिष्यामीति। तेन वैशालको गणः संनिपातितः। शृण्वन्तु भवन्तो ब्रह्मणा गृहपतयो ममोद्याने दारिका उत्पन्ना सा मया आपायिता पोषिता संवर्धिता। तामहं स्बकुलवंशप्रतिरूपकस्य कस्यचिद् भार्यार्थमनुप्रयच्छांइ। गण अवलोकितो भवत्विति। ते कथयन्ति। गृहपते गणेन पूर्वमेव क्रियाकारः कृतः कन्या अनिवार्हा स्त्रीरनं गणभोग्यमिति। तदानीयताम् तावदसौ। दारिकाम् पश्यामः कीदृशीति। सा तेन गणमध्यं नीता। ताम् रूपयौवनसंपन्नाम् दृष्ट्वा सर्व एव गणो विस्मयोत्फुल्लदृष्टिः समन्ततो निरोक्षितुमारब्धः कथयति च। गृहपते स्त्रीरत्नमेतद् गणभोग्यम् न कस्यचिद्देयमिति। ततो महानामो गृहपतिर्दुर्मनाः स्वगृहं गतः। स करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः। आम्रपाल्या दृष्टः पृष्टश्च। तात किमसि चिन्तापरः। पुत्रो त्वं स्त्रीरत्नमिति कृत्वा गणभोग्या संवृत्ता। म अमनोरथो न परिपूर्णः। तात किं त्वं पराधीनः। पुत्रि गणेन पूर्वमेव क्रियाकारः कृतः स्त्रीरत्नं गणभोग्यमिति। त्वं च स्त्रीरत्नमतोऽहमनीश्वरं। प्रथमे स्कन्धे गृहं ददाति। एकस्मिन् प्रविष्टे द्वितीयो न प्रविशति। यश्च प्रविशति स पंचकार्षापणशतान्यादाय। यदा गृहविचयो भवति तदा मम गृहं सप्तमे दिवसे प्रत्यवेक्ष्यते। निष्काशः प्रवेशश्च मद्गृहं प्रवेक्ष्यतां न विचार्यत इति। महानामेन गणस्याम्रपालीसन्देशो निवेदितः। गणः कथयत्येव भवतु। यत् कथयति प्रथमे स्कन्धे गृहमिति। स्त्रिरत्नमसावर्हत्येव प्रथमे स्कन्धे गृहम्। यत् कथयत्येकस्मिन्प्रविष्टे द्वितीयेन न प्रवेष्टव्यमिति। एतदपि युक्तम्। प्रतिक्रुष्टमेतद्वैराणां यदुत स्त्रीवरम्। यद्येकस्मिन्प्रविष्टे द्वितीयः प्रविशति नियतमन्यविप्रघातिको भविष्यति। यत् कथयति यः प्रविशति तेन पंचकार्षापणशतान्यादाय प्रवेष्टव्यमिति। एतदपि युक्तम्। अवश्यं तस्यावस्त्रालङ्कारेण प्रयोजनम्। यत् कथयति सप्तमे दिवसे गृहविचयः कर्तव्यः इत्येतदपि युक्तम्। पूर्वं वा क्रियेत पश्चाद्वा कोऽत्र विरोधः। यत् कथयति निष्कासः प्रवेशो(वा) मनुष्याणां न विचारणीय इत्येतदपि युक्तम्। वेश्यासौ। यदि पुरुषाणां निष्कासः प्रवेशो(वा) विचार्यते कस्तस्या गृहं प्रवेक्ष्यति। ततो गणेन तस्याः पञ्च वरा दत्ताः। गणभोग्या संवृत्ता। वैशालका लिच्छवयस्तस्या गृहं प्रवेष्टुमारब्धाः परिचारयितुम्। तत्र केषांचिदुत्तप्तविटत्वात्सहदर्शनादेव रागो विगच्छति। केषांचित्स्पर्शनादेव। कश्चित्तया पुरुषकार्यं करोति। सा संलक्षयति। अपुमांस एते। उपायसंविधानं कर्तव्यमिति। तया नानादेशनिवासिनश्चित्रकरा आहूय उक्ताः। भवन्तो येन यादृशो राजा वा राजमात्रो वा धनी वा श्रेष्ठी वा वणिक् वा सार्थवाहो वा दृष्टः स तत्तादृशं भित्तो लिखत्विति। तैर्यथा दृष्टा लिखिताः। तत आम्रपाली नानालंकारविभूषिता चित्रकर्म प्रत्यवेक्षते पृच्छति च। अयं भवन्तः कतरः। अयं राजा प्रद्योतः। अयमपरः कः। राजाप्रसेनजित्कोसलः। अयमपरः कः। उदयनो वत्सराजः। अयमपरः कः। राजा मागधः श्रेण्यो बिम्बिसारः। एवं सर्वे तया पृष्टास्तैरपि सर्वैः समाख्याताः। ततस्तया सर्वान् प्रत्यवेक्ष्य बिम्बिसारे दृष्टिर्निपातिता। सा संलक्षयति। यादृशोऽस्य पुरुषस्यारोहपरिणाहः शक्ष्यत्येष मया सार्धं परिचारयितुमिति। यावदपरेण समयेन राजा मागधः श्रेण्यो बिम्बिसार उपरि प्रासादतलगतोऽमात्यगणपरिवृतः सत्कथया तिष्ठति। भवन्तः केन कीदृशी वेश्या अतीवरूपयौनसंपन्ना चतुःषष्ठिकलाभिज्ञा देवस्यैवोपभोग्या। स कथयति। गोप यद्येवं गच्छामो वैशालीं तया सार्धं परिचारयामः स कथयति। देवस्य वैशालका लिच्छवयो दीर्घरात्रं बाधकाः प्रत्यर्थिनः प्रत्यमित्राः। मा ते अनर्थं करिष्यन्ति। राजा कथयति। भवति खलु पुरुषाणां पुरुषसाहसम्। गच्छामः। स कथयति। यदि देवस्यावश्यनिर्बन्धो गच्छामः। स रथमभिरुह्य गोपेन सार्धम् वैशालीं सम्प्रस्थितोऽनुपूर्वेण वैशालीं गतः। गोप उद्याने स्थितः। राजा आम्रपाल्या गृहं प्रविष्टः। यावद् घण्टा रटितुमारब्धाः। वैशालकाः क्षुब्धाः। भवन्तः कोप्यस्माकममित्रकः प्रविष्टः। घण्टा रटतीति। उच्चशब्दो महाशब्दो जातः। राजा बिम्बिसार आम्रपालीं पृच्छति। भद्रे किमेतत्। देव गृहविचयः क्रियते। कस्यार्थाय। देवस्य प्रतिपत्तव्यम्। किं निष्पलाये। देव मा काहलो भव। सप्तमे दिवसे मम गृहविचर आपद्यते। सप्ताहं तावत् क्रीड रमस्व परिचारय सप्ताहस्यात्ययात् कालज्ञा भविष्यामीति। स तया सार्धं क्रीडति रमते परिचारयति यावदाम्रपाली आपन्नसत्त्वा संवृत्ता। तदा बिम्बिसाराय निवेदितम्। देव आपन्नसत्त्वास्मि संवृत्तेति। तेन तस्या विरली अङ्गुलिमुद्रा च दत्ता। उक्ता च। यदि दारिका भवति तवैव। अथ दारकः एतां विरलीं प्रावृत्य अंगुलिमुद्रां च ग्रीवायां बद्धा मत्सकाशं प्रेषयसि। (स) च निर्गत्य गोपेन सार्धं रथमभिरुह्य संप्रस्थितः। घण्टा तूष्णीमवस्थिता। ते कथयन्ति। भवन्तोऽमित्रको निर्गतः समन्वेषयाम इति। पञ्चलिच्छविशतानि बद्धगोधाङ्गुलित्राणानि राज्ञो बिम्बिसारस्य पृष्ठतः समनुबद्ध्हानि। गोपेन दृष्टानि। स कथयति। देव वैशालिका लिच्छवय आगताः। किमेभिः सार्धं देवो युध्यते। अहोस्वित् रथं वाहयसीति। स कथयति। अहं श्रान्तको रथं वाहयामि। त्वमेव एभिः सार्धं युध्यस्वेति। स तैः सार्धं योद्धुमारब्धः। वैशालकैः प्रत्यभिज्ञातः। ते कथयन्ति। भवन्तः स एवायं पुरुषराक्षसो निवर्तामह इति। ते प्रतिनिवृत्ता वैशालीं गताः। संनिपत्य पुनः क्रियाकारं कृताः। भवन्त एतदपि वैरमस्माभिर्बिम्बिसारपुत्राणां निर्यातयितव्यमिति।



यावन्नवानां मासानामत्ययादाम्रपाली प्रसूता। दारको जातः। अभिरूपो दर्शनीयः प्रासादिको यावदुन्नीतश्चरितो महान्संवृत्तः। स वैशालकैर्लिच्छविदारकैः सार्धं क्रीडंस्तैरप्रियमुक्तः। भवन्तोऽस्य दासीपुत्रस्य कः पिता। अनेकशतसहस्रनिर्जातोऽयमिति। स प्ररुदन् मातुः सकाशमुपसंक्रान्तस्तयोच्यते। उत्र किमर्थं रोदिषीति। तेन सर्वं विस्तरेण समाख्यातम्। सा कथयति। पुत्र यदि भूयः पृच्छन्ति वक्तव्यस्तादृशो मम पिता यो युष्माकमेकस्यापि नास्तीति। यदि कथयन्ति। कतर इति। वक्तव्या राजा बिम्बिसार इति। यावत्स तैः सार्धं भूयः क्रीडितुमारब्धः स तैस्तथैवोक्तः। स कथयति। तादृशो मे पिता यो युष्माकमेकस्यापि नास्ति। कतरः राजा बिम्बिसारः। ते भूयस्या मात्रया ताडयितुमारब्धाः। भवन्तो योऽस्माकं शत्रुः सोऽस्य पितेति। तेन रुदता यथावृत्तं मातुराख्यातम्। सा संलक्षयति वैशालका लिच्छवयो व्याडा विक्रान्ताः। स्थानमेतद्विद्यते यदेनं प्रतिघातयिष्यन्ति। सा चैवं चिन्तापारा। संबहुलाश्च वणिजः पण्यमादाय राजगृहं संप्रस्थिताः। तया त उपलब्धा उक्ताश्च अनेनाङ्गुलिमुद्रकेण भाण्डं मुद्रयित्वा गच्छत। अशुल्का गमिष्यथ। एतं च दारकं राजगृहं नयत। एतदङ्गुलिमुद्रकं ग्रीवायां बद्धा राजकुलद्वारे स्थापयिष्यथ। तैः प्रतिज्ञातम्। एवं भवत्विति। पुज्ञोऽपि मुक्ताहरं दत्वाऽभिहितः। तुत्र त्वया राज्ञोऽर्थाधिकरणे निषण्णस्य मुक्ताहारं पादयोः स्थापयित्वाभिरुह्योत्सङ्गे निसत्तव्यम्। यदि कश्चित् कथयति नायं दारको विभेतीति। स वक्तव्यः। अस्ति कश्चित्पुत्रः पितुर्बिभेतीति। स वणिग्भिः सार्धभनुपूर्वेण राजगृहं गतः। तैः स्नपयित्वाङ्गुलिमुद्रकेणालंकृत्य राजद्वारे स्थापितः। स येन राजा तेनोपसंक्रान्तः। उपसंक्रम्य मुक्ताहारं पादयोः स्थापयित्वोत्संगमभिनिषण्णः। राजा कथयति। भवन्तो नायं दारको बिमेतीति। स कथयति। तात अस्ति कश्चित्पुत्रः पितुर्बिभेतीति। ततो राज्ञाभयशब्देन समुदाचरित इति। अभयो राजकुमारोऽभयो राजकुमार इति संज्ञा संवृत्ता।



राजा बिम्बिसारोऽतीव परदाराभिरतः। उपैति हस्तिकन्धाभिरूढो नगरे रथ्याः। आलोकेक्षणोऽन्वाहिण्डते। तेन खलु समयेन राजगृहेऽन्यतरः श्रेष्ठी आढ्यो महाधनो महाभोगी। तेन सदृशात्कुलात्कलत्रमानीतम्। पूर्ववत्परिचारयति। सोऽपरेण समयेन पत्नीमामन्त्रयते। भद्रे गच्छामि पण्यमादाय देशान्तरमिति। सा कथयत्यार्यपुत्र एवं कुरुष्वेति। स पण्यमादाय देशान्तरं गतः सोपसृष्टाम्बरवसना क्लेशैर्बाधितुमारब्धा। राजा बिम्बिसारो हस्तिस्कन्धाधिरूढस्तस्या गृहसमीपेन गच्छति। तया च वातायनस्थया राज्ञः स्रग्दामं क्षिप्तम्। ततो राज्ञा दृष्टा उक्ता च। आगच्छेति। सा कथयति। देव जिह्नेमि। त्वमेव प्रविशेति। ततो राजा प्रविष्टः। स तया सार्धं परिचारयति। सा तस्मिन्समये कल्याणी ऋतुमती आपन्नसत्त्वा संवृत्ता। तया राज्ञे निवेदितम्। देव आपन्नसत्त्वास्मि संवृत्ता। ततो राज्ञा तस्यापि अङ्गुलिमुद्रकञ्चित्रा च विरली दत्ता। उक्ता च। यदि तावद्दारको भवति। एतां विरलिकां प्रावृत्य अङ्गुलिमुद्रकं च ग्रीवायां बद्‍ध्वा मम प्रेषयिष्यसि। अथ दारिका तवैवेत्युक्ता। राजा प्रक्रान्तः। यावदसौ सार्थवाहः संपन्नार्थो राजगृहसमीपमागतः। तेन पत्न्यादि संदिष्टं भद्रे प्रामोद्यमुत्पादय। स्वस्तितः संपन्नार्थोऽहमागतः। कियत्तमैर्दिवसैरागत एवेति। सा श्रुत्वा कथिता। मया एवं रूपमकृत्यं कृतं स चागतः। कथमत्र प्रतिपत्तव्यमिति। तया एष वृतान्तो राज्ञो निवेदितः। ततो राज्ञा प्रतिदेशो दत्तः। निर्विशंका तिष्ठ। अहं तथा करिष्ये यथा न शीघ्रमागमिष्यतीति। राज्ञा तस्य दूतोऽनुप्रेषितः। सार्थवाह ममामुकेनामुकेन च रत्नेन प्रयोजनम्। तेन विना त्वया इह न प्रवेष्टव्यमिति। स तेषां रत्नानामर्थाय दूरतरं प्रविष्टः। सापि नवानां मासानामत्ययात्प्रसूता। दारको जातः। अभिरूपो जातः प्रासादिकः। अशिक्षितपिण्डतो मातृग्रामः। तया पेडायां प्रक्षिप्य घृतस्य मधुनश्चाप्यं पूरयित्वा अंगुलिमुद्रकं ग्रीवायां बद्‍ध्वा विरलिकया प्रच्छाद्य प्रेष्यदारिका अभिहिता। गच्छ त्वमेतां पेडां राजकुलद्वारं नीत्वा मण्डलकं कृत्वा प्रदीपं प्रज्वाल्य एकान्ते तिष्ठ यावत्केनचिद् गृहीत इति। तया यथाकृतं यावद्राजा उपरि प्रासादतलगतो अभयेन राजकुमारेण सार्धं तिष्ठति। तेन राजकुलद्वारे प्रदीपो दृष्टः। ततः पौरुषेयाणामाज्ञा दत्ता। पश्यत भवन्तः किमेष राजकुलद्वारे प्रदीपो ज्वलतीति। तैर्दृष्ट्वा निवेदितम्। देव पेडा तिष्ठतीति। स कथयत्यानय इति। अभयेन च राजकुमारेणाभिहितम्। देव यदत्र पेडायां तनमम दातुमर्हसीति। राज्ञा प्रत्यभिज्ञात एवमस्त्विति। यावद्राज्ञा पेडा उपनामिता। राजा कथयत्युद्घाटयत। उद्घाटीता यावद् दरकः। राजा कथयति। किमयं जीवत्याहोस्विन्मृत इति। तैः समाख्यातं जीवतीति। ततो राज्ञा अङ्गुलिमुद्रकं विरलिकां च प्रत्यभिज्ञाय अभयाय स राजकुमाराय दत्तः। स तेनापायितः पोषितः संवर्धितः। राज्ञा जीवकवादेन समुदाचरितोऽभयेन च राजकुमारेण भृत इति जीवकः कुमारभृतो जीवकः कुमारभृत इति संज्ञा संवृत्ता। यावदपरेण समयेन जीवकः कुमारभृतो महान्संवृत्तः। सोऽभयेन सार्धं संगणिकया तिष्ठति। अजातशत्रुः कुमारोऽज्ञात एव राजत्वे व्याकृतः। वयमपि किञ्चिच्छिल्पं शिक्षामहे यदस्माकमुत्तरकालं जीविका भविष्यतीति। तौ चैवं मन्त्रयितौ। रथकारश्च शक्लवासाः शुक्लवासोभिः पुरुषैः परिवृतो राजकुलं प्रविशति। सोऽभयेन राजकुमारेण दृष्टस्तेनान्ये च राजपुरुषाः पृष्टाः क एष इति। ते च कथयन्ति रथकारः। किमेष लभते। वृत्तिम्। (स) संलक्षयति। अहमपि रथकारत्वं शिक्षे। देवमवलोकयामीति। स राज्ञः सकाशमुपसंक्रम्य कथयति। देव अहमपि रथकारत्वं शिक्षे इति। राजा कथयति। पुत्र किं तवैषा जीविका भविष्यतीति। तात राजपुत्रेण सर्वशिल्पानि शिक्षितव्यानि। पुत्र यद्येवं शिक्षस्व। रथकारत्वं स शिक्षयितुमारब्धः। जीवकेनापि वैद्यो दृष्टः शुक्लवासाः शुक्लवासोभिः पुरुषैः परिवृतो राजकुलं प्रविशन्। तेनापरे च पृष्टाः क एष इति। तैः समाख्यातम्। वैद्यः। किमयं करोति। चिकित्साम्। यद्यातुरो जीवत्यभिसारं लभते। अथ प्रेतो न मार्ग्यो न पृच्छ्यः। स संलक्षयति। वैद्यकं शिक्षेय इति। स पितुः सकाशमुपसंक्रम्य कथयति। देव अनुजानीहि वैह्यकं शिक्षे इति। राजपुत्रस्त्वं किं वैद्यकत्वेन करोषि। देव राजपुत्रेण सर्वशिल्पानि शिक्षितव्यानि। पुत्र यद्येवं शिक्षस्व। स वैद्यकं शिक्षयितुमारब्धः। तेन वैद्यकं शिक्षितम्। स कपालीमोचनीं तु विद्यां न जानाति। तेन श्रुतम् तक्षशिलायामात्रेयो नाम वैद्यराजः। स कपालमोचनीं विद्या जानीते इति। स राज्ञः सकाशमुपसंक्रम्य कथयति। देव गच्छामि तक्षशिलाम्। किमर्थम्। तत्रात्रेयो नाम वैद्यराजः। स कपालमोचनीं विद्यां जानीते। तां ग्रहीष्यामि। पुत्र किं नु तवैषा जीविका। देव वैद्यकोऽथवा न शिक्षितव्यः। अथवा शिक्षितः कर्तव्यः। पुत्र यद्येवं गच्छ। तेन राज्ञे पुष्करसारिणे संदिष्टम्। एष मम पुत्रो वैद्यकं शिक्षितुमात्रेयस्य सकाशं गच्छत्यस्य सर्वयोगोद्वहनं कर्तव्यमिति। सोऽनुपूर्वेण तक्षशिलामनुप्राप्तः। पुष्करसारिणा च लेखं वाचयित्वा आत्रेयस्य समर्पितः। एष राजपुत्रस्त्वत्सकाशमुपेत्यागतो वैद्यकमेनं शिक्षयस्वेति। आत्रेयस्तस्योपदेशं करोति। सोऽल्पतरमुपदिशति जीवकः सविशेषं गृह्णात्याचरति आत्रेयस्य यदा ग्लानावलोकको गच्छति तदा एकमादाय गच्छति। सोऽपरेण समयेन जीवकमादाय गतः। तेनातुरस्य भैषज्यं व्युपदिष्टम्। इदं चेदं च दास्यथ। इत्युक्त्वा निष्क्रान्तः। जीवकः संलक्षयति। क्षीणोऽयमुपाध्यायः। यद्येषः एतद्भैषज्यमुपयुक्ते अद्यैव कालं करोति। न शोभनमुपाध्यायेन व्युपदिष्टम्। उपायसंविधानं कर्तव्यमिति। स आत्रेयेण सार्धं निष्क्रम्यः पुनः प्रविष्टः। कथयति। उपाध्याय एवमाह। यन्मया भैषज्यं व्युपदिष्टं तन्न देयमिदं चेदं च देयमिति। तैस्तथैव कृतम्। स्वस्थीभूतः। यावदपरस्मिन्दिवसे पुनरप्यात्रेयस्तस्य सकाशं गतः। पृच्छति का वार्ता। स्वस्थीभूतः। एवं पुनरप्येतदेव देयम्। तत् किं यत्पूर्वमादिष्टम्। आहोस्वित्पश्चात्। किं मया पूर्वमादिष्टं किं वा पश्चात्। तैः समाख्यातमिदं त्वया साक्षाद् व्युपदिष्टम् इदं जीवकेन संदिष्टमिति। स संलक्षयति। हम् जीवकः प्राज्ञ इति विदित्वा कथयति यद् जीवकेन व्युपदिष्टं तद्दातव्यमिति। जीवकस्यान्तिके अनुनय उत्पन्नः। स यत्र गच्छति तत्र जीवकमादाय। तेऽन्ये माणवकाः कथयन्त्युपाध्याय त्वमस्य राजपुत्र इति कृत्वा यत्नतो व्युपदेशं करोष्यस्माकं न करोषीति। स कथयति। जीवकः प्राज्ञः। अल्पं व्युपदिशामि तत् स्वशक्त्या विभजति। यूयं तु न तथेति। ते कथयन्ति उपाध्याय कथं ज्ञायते। यद्येवाहं भवतां प्रत्यक्षीकरोमि। तेन ते माणवकाः सर्वे विथीं प्रेषितास्त्वयाऽमुकस्य द्रव्यस्य मूल्यं प्रष्टव्यं त्वयाऽमुकस्येति। जीवकोऽपि संदिष्टस्त्वयाप्यमुकस्येति तैर्माणवकैर्यथासंदिष्टमेवानुष्ठितम्। जीवको यथा संसिष्टं कृत्वा संलक्षयति। यद्युपाध्यायोऽन्यस्य द्रव्यस्य मूल्यं प्रक्ष्यति किं मया वक्तव्यम्। सर्वथा सर्वद्रव्याणां मूल्यं पृच्छामीति। ते सर्वे उपाध्यायसकाशमागत्य यथासंदिष्टं निवेदितवन्तः। आत्रेयोऽसन्दिष्टस्यद्रव्यस्य मूल्यं प्रष्टुमारब्धः। माणवक अमुकस्य द्रव्यस्य किं मूल्यमिति। स कथयति। न जाने। अपरे पृष्टाः। कथयन्ति न नाजीमह इति। जीवकः पृष्टः। तेन सर्वद्रव्याणां मूल्यं समाख्यातम्। आत्रेयः कथयति। माणवकाः श्रुतं वः। श्रुतम्। इत्यर्थमहं कथयामीति जीवकः प्राज्ञोऽहमल्पं व्युपदिशाम्ययं स्वशक्त्या विभजतीति। भूयोऽपि प्रत्यक्षीकरिष्यामि। ते तेनोक्ता गच्छत सरलकं पर्वतमभैषज्यमानयतेति। ते गतास्तेषां यद्यदभैषज्यमभिरुचितं तत्तेन गृहीतम्। जीवकः संलक्षयति। नास्ति किंचिदभैषज्यमिति। तेन शरमूलं पाषाणवर्तिका च गृहीता। यावज्जीवकेनाऽर्धपथे गोपांगनां दृष्टा दधिघटकिटालपिण्डं चादायात्रेययसकाशं संप्रस्थिताऽतीवाक्षीरोगार्ता। सा तेन पृष्टा। क्व गच्छसीति। तया समाख्यातम्। तेन तस्यास्तस्मिन्नैव स्थाने सन्निहितभैषज्यं व्युपदिष्टम्। तया कृतम्। सद्यः स्वस्थीभूता साऽभि प्रसन्ना कथयति। अयं ते दधिघटः किटालपिण्डकश्चेति। तेन किटालपिण्डको गृहीतो दधिघटस्तु तस्या एवं दत्तः। स किटालपिण्डमादाय संप्रस्थितः। यावत्तैर्माणवकैरन्तर्मार्गे हस्तिपदं दऋष्टम्। ते तं निरीक्षितुमारब्धाः। जीवकश्चागतः कथयति। किमेतत्। हस्तिपदम्। नैतद्धस्तिपदम्। हस्तिन्या एतत्पदम्। सा च दक्षिणकाणाद्यैव कलभकं जनयिष्यति। तत्र स्त्री अभिरूढा। सापि दक्षिणकाणा। गुर्विणी। अद्यैव पुत्रं जनयिष्यति। यावदात्रेयसकाशं गतः। येन यदानीयं तत्तेनोपदर्शितम्। आत्रेयः कथयति। माणवकाः सर्वमेतद् भैषज्यमेतत्तावदुदकेनैवं विधिनाऽमुकस्य रोगस्य। एवमन्यान्यपीति। जीवकः पृष्टः। त्वया किमानीतम्। स कथयत्युपाध्याय सर्वमेव भैषज्यं नास्ति किञ्चिदभैषज्यम्। अपि तु मया शरमूलमानीतम् पाषाणवर्तिका किटालपिण्डश्चेति। किमेभिः प्रयोजनम्। शरमूलैर्वृश्चिकविद्धस्य धूपो दीयते। किटालपिण्डेनोपनाहोदीयते। पाषाणशर्करया काले दधिघटका भिद्यन्ते। आत्रेयेण विपुष्तिम्। माणवकाः संलक्षयन्त्युपाध्यायोऽस्य रुषित इति। ते अक्थयन्त्युपाध्याय किमेतदेव। अस्माभिरागच्छद्भिरन्तर्मार्गे हस्तिपदं दृष्टम्। एष कथयति। हस्तिन्या एतत्पदम्। सा च दक्षिणकाणा गुर्विणी। अद्यैव प्रसविष्यति। कलभकं जनयिष्यति। स्त्री तत्राभिरूढा। सापि दक्षिणकाणा। गुर्विणी। अद्यैव प्रसविष्यति। पुत्रं जनयिष्यति इति। आत्रेयः पृच्छति सत्यम्। सत्यमुपाध्याय। कथमेतद् ज्ञायते हस्तिपदं हस्तिन्याः पदमिति। स कथयति उपाध्याय वयं राजकुले संवृद्धाः कथं न जानीमः। हस्तिपदं परिमण्डलं हस्तिन्यास्तु दीर्घम्। कथं ज्ञायते दक्षिणकाणेति। वामेन पार्श्वेन चरन्ती गता। कथं ज्ञायते गुविणीति। पश्चिमौ पादौ निपीडयन्ती गता। कथं ज्ञायतेऽद्यैव प्रसविष्यतीति। सशुक्रप्रस्रावः कृतः। कथं ज्ञायते कलभकं प्रस्रविष्यतीति। भूयसा दक्षिणंपादमभिपीडयन्ती गता। कथं ज्ञायते तत्र स्त्री अभिरूढेति। अवतीर्य पादयोर्मध्ये प्रस्रावः कृताः। कथं ज्ञायते सापि दक्षिणकाणेति। वामेन पार्श्वेन पुष्पाण्युपचिन्वन्ती गच्छति। कथं ज्ञायते सापि गुर्विणीति। भूयसा पार्ष्णिं निपीडयन्ती गता। कथं ज्ञायतेऽद्यैव प्रसविष्यतीति। सशुक्रप्रस्रावः कृतः। अपि तु यद्युपाध्यायस्य विमर्षः स सार्थोऽमुष्मिन्प्रदेशे तत्र कञ्चिन्माणवं प्रेषय। तेन माणवः प्रेषितः। सर्वं तथैव यथा जीवकेन समाख्यातम्। आत्रेयो माणवकानामन्त्रयते। माणवकाः श्रुतं वः। उपाध्याय श्रुतम्। ईदृशो जीवकः प्राज्ञः।



जीवकेन सर्वं शिक्षितम्। स्थापयित्वा कपालमिचिनीं विद्याम्। यावदन्यतमः पुरुषः कपालव्याधिना स्पृष्ट आत्रेयसकाशं गतः कथयत्यात्रेय मम चिकित्सां कुरु। स कथयति। भोः पुरुष अद्य तावद्गर्तां खानय गोमयं च समुपानय। श्वोऽहं तव चिकित्सां करोमीति। जीवकेन श्रुतम्। स तस्य पृष्ठतः समनुबद्धः। भोः पुरुष यत् किंचिदहं शिक्षे सर्वं तत्सत्त्वहितहेतोः। मया कपालमोचनी न शिक्षिता। स त्वं सम्प्रति गुप्ते स्थापय। यथा तव कर्म क्रियमाणं पश्यामीति। स कथयति। तथा भवत्विति। स तेन प्रतिगुप्तं प्रदेशे स्थापितः। तत आत्रेयेणागत्य स पुरुषो गर्तायां निखातः। कपालमोचन्या विद्यया कपालं मोचितम्। स तं प्राणकं संदंशेन ग्रहीतुमारब्धः। जीवकः कथयत्युपाध्याय मा साहसं करिष्यसि। अद्यैवाथं कुलपुत्रः कालं करिष्यतीति। स कथयति। जीवक आगतोऽसि। स कथयति। उपाध्यायागतोऽहम्। तत्कथमयं प्राणकैर्ग्रहीतव्यः। उपाध्याय संदंशं तापयित्वा पृष्ठे स्पृशः। पादौ संकोचयिष्यति। ततोऽपनयिष्यासीति तेन तथा कृतम्। स्वस्थीभूतः। आत्रेयः कथयति। जीवक परितुष्टोऽहं स्नात्वाऽगच्छ कपालमोचनीं विद्यां दास्यामीति। स स्नात्वाऽऽगतः। तेन तस्य कपालमिचनी विद्या दत्ता। उक्तञ्च। जीवकास्माकं जीविकैषा न त्वयेह विषये प्रयोक्तव्या। उपाध्याय तथा भवतु। जीवक आत्रेयमुपामन्त्र्य पुष्करसारिणो राज्ञः सकाशं गत्वोपामंत्रयति। मया वैद्यकं शिक्षितम्। गच्छामीति। तेन खलु समयेन पुष्करसारिणो राज्ञः पाण्डवा नाम खषा विरुद्धाः। स कथयति। जीवक मम पाण्डवा नाम खषा विरुद्धास्तांस्तावत् संनामय पश्चाद्यास्यसि। एवमस्माकं लोकयात्रा कृता भवति। यस्मात्त्वं प्राज्ञः शक्तश्चेति। तेन तस्य प्रतिज्ञातम्। ततस्तेन चतुरङ्गं बलकायं दत्त्वा प्रेषितः। तेन ते पाण्डवाः खषाः सन्नामिताः। वन्दिगोग्रहकरप्रत्यायांश्च गृहीत्वा स्वस्तितः प्रत्यागतः यथानीतं च राज्ञे उपनामितम्। तेन परितुष्टेन तस्यैवानुमोदितम्। तेनापि आत्रेयाय दत्तम्।



ततो जीवकोऽनुपूर्वेण भद्रंकरं नगरमनुप्राप्तः तत्रैव वर्षारात्रमवस्थितम्। तत्र तेन सर्वभूतरुतं नामशास्त्रं शिक्षितम्। स भद्रंकरान्नगरात्संप्रस्थितः। अन्यतमश्च पुरुषः काष्ठभारमादाय नगरं प्रविशत्यस्थिचर्मावशेषः समन्ताद् गात्रेणाधरतः। स जीवकेन दृष्ट उक्तश्च। भोः पुरुषः केन ते ईदृशी समवस्था इति। स कथयत्यहमपि न जाने। अपि तु मया चैष काष्ठभारको गृहीतो भवति। मम चेदृशी समवस्था इति। स दारुपरीक्षायां कृतावी। स कथयति। भोः पुरुष किमयं काष्ठभारक्को विक्रीयते। विक्रीयते। कियता मूल्येन। पंचभिः कार्षापणशतैः। तेनासौ क्रीतः। ततः प्रत्यवेक्षता सर्वभूतप्रसादनो नाम मणिर्दृष्टः। तस्येदृशः प्रभावो यदा व्याघितस्य पुरस्तात् स्थाप्यते तदा व्याधिर्यथाभूता च दृश्यते प्रदीपेनेव गृहगतं द्रव्यम्।



सोऽनुपूर्वेण उदुम्बरिकामनुप्राप्तः। तत्रान्यतम आढकमापकः पुरुषः। स द्रोणं मापयित्वाऽढकेन शिरसि प्रहारं ददाति। जीवकेन दृष्ट उक्तश्च भोः पुरुष किमर्थमेवं करोषि। शिरो मे अतीव कण्डूयते। आगच्छ पश्यामः। तेन तस्य निषद्य शिरो दर्शितम्। ततो जीवकेन सर्वभूतप्रसादको मणिस्तस्य शिरसि स्थापितो यावत्पश्यति शतपदीम्। ततः कथयति। भोः पुरुष तव शिरसि शतपदी तिष्ठतीति। स पादयोर्निपत्य कथयति चिकित्सां मे कुरुष्वेति। तेन प्रतिज्ञातम्। जीवकः संलक्षयति। उपाध्यायस्यैवोपदेशेन चिकित्सामस्य करोमीति। स तेनोक्तः भोः पुरुषाद्य गर्तं खानय पाषि च समुपानय चिकित्सां करिष्यामीति। सपादयोर्निपत्य प्रक्रान्तः। जीवकेनाप्यपरस्मिन्दिवसे स पुरुषो गर्ते निखाते निखात्य कपालमोचनया विद्यया कपालं मोचयित्वा तप्तेन संदंशेन शतपदी स्पृष्टा। तया पादाः संकोचिताः। ततस्तेन संदंशेन गृहीत्वा क्षिप्ता। स्वस्थीभृतः ः तेन तस्य पंचकार्षापणशतानि दत्तानि। तेनात्रेयाय प्रेषितानि।



ततो जीवको रोहीतकमनुप्राप्तः। रोहीतकेऽन्यतमस्य गृहपतेरुद्यानं पुष्पफलसलिलसंपन्नम्। स तत्रातीवाध्यवसितः कालं कृत्वा तस्मिन्नेवामनुष्यकेषुपपन्नः। तस्य पुत्रो गृहस्वामो संवृत्तः तेन तस्मिन्नुद्याने आरक्षकः पुरुषः स्थापितः। स तेनामनुष्यकेण प्रघातितः। द्वितीयः स्थापितः। सोऽपि प्रघातितः। तेन गृहपति पुत्रेण तदुद्यानमुत्सृष्टम्। यावदन्यतर उदारी मनुष्यः सर्ववैद्यप्रत्याख्यातस्तदुद्यानं गत्वा रात्रिं वासमुपगतः। अहो वत मा मनुष्यकः प्रघातयेदिति। तस्मिन्नेव च जीवको रात्रिं वासमुपगतः। यावदसावमनुष्यकस्तमुदरिणमभिद्रवयितुमारब्धः। स जलोदरो रोगो निष्क्रम्य कथयति। मयाऽयं पूर्वं गृहीतः। किमर्थमेनमभिद्रवसि। नास्ति ते कश्चित् छागसटाया धूपं दाता येन त्वं द्वादशयोजनानि निष्पलायेरिति। सोऽपि कथयति। तवापि नास्ति कश्चिन्मूलकबीजमुदश्विना पिष्टा दाता येन त्वं खण्डं खण्डं निशीर्येथा इति। जीवकेन सर्वं श्रुतम्। स कल्यमेवोत्थाय तस्य गृहपतेः सकाशं गतः। कथयति गृहपते उद्यानं पुष्पफलसलिलसंपन्नं किमर्थमुत्सृष्टमिति। गृहपतिनास्य यथावृत्तमारोचितम्। स कथयति। गृहपते छागलसटाया धूपं देहि। द्वादशयोजनान्यमनुष्यको निष्पलायति। गृहपतिना छागलसटाया धूपो दत्तः। अमनुष्यको द्वादशयोजनानि निष्पलायितः। तेनापि गृहपतिना पंचकार्षापणशातानि जीवकाय दत्तानि। तान्यपि तेनात्रेयाय प्रेषितानि।



ततो जीवकेन उदरी पृष्टः। भोः पुरुष किमर्थं त्वमत्रामनुष्यकाध्युषिते उद्याने तिष्ठसीति। तेनास्य यथावृत्तमारोचितम्। जीवकेनाभिहितम्। मूलकबीजमुदश्विना पिष्ट्वा पिव। स्वस्थो भविष्यसीति। तेन पीतम्। स्वस्थीभूतः। तेनापि पुरुषेण पंचकार्षापणशतानि जीवकाय दत्तानि। तान्यपि तेनात्रेयाय प्रेषितानि।



ततो जीवकोऽनुपूर्वेण मथुरामनुप्राप्तः। बहिर्मथुराया वृक्षमूले विश्रान्तः। यावन्मल्लेनमल्लो निहतः। तस्यान्त्राणि परावृत्तानि। स मृत इति बहिर्निष्कास्यते। तस्मिंश्च वृक्षे गृध्रिणीं सपोतका तिष्ठति। सा तैः पोतकैरुच्यते। अम्ब मांसंमनुप्रयच्छेति। सा कथयति। पुत्र कुतो मांसम्। ते कथयन्ति। अम्ब एष मल्लो मल्लेन निहतः कालगतो नीयते। पुत्र जीवकोऽत्र वैद्यराज आगतः। स्थानमेतद्विद्यते यदेनं स्वस्थीकरिष्यति। अम्ब केनैष स्वस्थो भवति। यद्यस्य चूर्णैरन्त्रणि स्पृश्यन्ते। जीवकेन सर्वं श्रुतम्। ततोऽसावुत्थाय मृतसकाशं गत्वा पृच्छति भवन्तः किमेतदिति। ते कथयन्ति। मल्लेन मल्लो निहतः। कालगतः। जीवकः कथयति। स्थापयत। पश्यामि। तैः स्थापितम्। ततो जीवकेन च सर्वभूतप्रसादकमणिः शिरसि स्थापयित्वा प्रत्यवेक्षितः। यावत्पश्यत्यन्त्राणि व्याकुलीकृतानि। तेन नाडिकायां चूर्णं प्रक्षिप्य मुखे वायुना प्रेरितम्। चूर्णेनान्त्राणि स्पृष्टानि। स्वस्थीभूतः। तेनापि जीवकस्य पंचकार्षापणशतानि दत्तानि। तेनाप्यात्रेयाय प्रेषितानि।



मथुरायामन्यतमो गृहपतिः। तस्य पत्नी रूपयौवनसंपन्ना। स तस्यामत्यर्थमध्यवसितः कालगतः। तस्यामेव योनौ कृमिः प्रादुर्भूतः। सा तेन सार्धं परिचारयति स कालं करोति। ततस्तया सार्दह्ं न कश्चित् परिचारयति। तया श्रुतं जीवको वैद्य इहागत इति। सा तस्य सकाशं गत्वा कथयति। जीवक मम व्याधिरस्ति। चिकित्सां कुरु। जीवकस्तां दृष्ट्वा कथालापं च श्रुत्वा संरक्तः कथयति। समयतः विकित्सां करोमि यदि च मया सार्धं परिचारयसीति। सा कथयति। जिह्नेति। स कथयति। नास्ति तेऽन्यथा चिकित्सा। नास्त्यात्मसमं प्रेम। तया प्रतिज्ञातम्। ततस्तयात्मना नग्नीभूता योनिद्वारे मांसपेशि दत्ता। ततोऽसौकृमिस्तस्यां लग्नः। स तेन ग्ऱ्इहीत्वा क्षिप्तः। स्वस्थीभूता। सा कामरागाध्यवसितानिमित्तमुपदर्शयति। स कर्णौ पिधाय कथयति भगिनि त्वं मम। तवैषा चिकित्सेति मयैवं कृतमिति। तया तस्मै पंचकार्षापणशतानि दत्तानि। तान्यपि तेनात्रेयाय प्रेषितानि।



ततो जीवकोऽनुपूर्वेण यमुनातटमनुप्राप्तः। तेन तत्र मनुषकुणपं दृष्ट्वम्। तस्य मत्स्यैः पार्ष्णिप्रदेशं स्नायुजालमाकृष्यते। सोऽक्षिणी उन्मीलयति निमीलयति च। जीवकेन तत्सर्वमुपलक्षितं यथा सम्धिबन्धायाः स्नायुगुल्फादयः एवमवस्थिता इति।



सोऽनुपूर्वेण वैशालीं गतः। यावन्मल्लेन मल्लस्य तलप्रहारेणाक्षिपेलांकोलंभितः। स जीवकस्य सकाशं गतः। तेन तस्यां पर्ष्ण्यां स्नायुजालमाकृष्य प्रवेशितम्। तेन तस्य पंचकार्षापणशतानि दत्तानि। तेनाभयस्य मातुर्दत्तानि।



वैशाल्यामन्यतमः पुरुषः। तस्य शतपदी कर्णं प्रविष्टा। सा तत्र प्रसूता। सप्तशतान्यपत्यानां जातानि। स कर्णशूलाभ्याहतो जीवकस्य सकाशं गतः। चिकित्सां कुरुष्वेति। जीवकः संलक्षयति। पूर्वं मया उपाध्यायोपदेशेन कर्म कृतमिदानीं स्वमतेन कर्म करिष्यामीति। नेतासौ पुरुषोऽभिहितः। गच्छ भोः पुरुष पत्रमण्डपं कारयत। नीलैर्वस्त्रैर्वेष्टयित्वास्याधस्ताद्भेरीं स्थापय। भूमिं च तापय इति। तेन यथा संदिष्टम्। सर्वमनुष्ठितम्। त जीवकेन तं पुरुषं भूमौ निपातयित्वा सा भूमिरुदकेन सिक्ता। ततो भेरी पराहता। शतपदी प्रावृट् काल इति कृत्वा निष्क्रान्ता। ततो जीवकेन कर्णमूले मांसपेशी स्थापिता। सा पुनः प्रविश्यापत्यानि गृहीत्वा निर्गता। सहापत्यैर्मांसपेश्यां सक्ता। ततो जीवकेन सा मांसपेशीच्छोरिता। स पुरुषः स्वस्थीभूतः। तेन पञ्चकार्षापणशतानि दत्तानि। तान्यपि तेनाभयस्य मातुर्दत्तानि।



सोऽनुपूर्वेण राजगृहं गतः। राज्ञा बिम्बिसारेण श्रुतम् यथा जीवक आगत इति। तेनाजातशत्रोः कुमारस्याज्ञा दत्ता पुत्र भ्राता ते आगच्छति प्रत्युद्गमको गच्छेति। स प्रत्युद्गतः। जीवकेन श्रुतम् यथा अजातशत्रुः कुमारः प्रत्युद्गच्छतीति। स संलक्षयति यद्यहमस्य प्रत्युद्गमनं स्वीकरिष्यामैति यदा राजा भविष्यति तदानर्थं मे करिष्यतीति। स परावृत्त्यान्येन द्वारेण प्रविष्टः। अपरेण समयेन जीवको महाजनकायपरिवृतो व्याक्षिप्तचित्तो गच्छति। तावदन्यतरो ब्राह्मणोऽक्षिरोगार्तो जीवकस्य सकाशं गतः। भैषज्यं मे व्यपदिशेति। तेन सञ्जातामषेणोक्तः। भस्मना पूरय इति। तेन ऋजुकेन भस्मना पूरितम्। स्वस्थीभूतः।



अपरस्याप्यक्षिरोगः। स जीवक सकाशं स्ंप्रस्थितः। तेन ब्राह्मणेन दृष्टः पृष्टश्च। भो पुरुष क्क गच्छसीति। तेन यथाभूतमाख्यातम्। स कथयति। किं ते जीवकेन यत्तेन ममोपदिष्टं तत्कुरुष्वेति। श्रद्दधानोऽसौ। तेन भस्मनापूरिते अन्धीभूतः।



अपरेणसमयेन राज्ञो बिम्बिसारस्य मूर्ध्नि पिटको जातः। तेनामात्यानामाज्ञा दत्ता। भवन्त आहूयतां वैद्य इति। अमात्यैराहूतः। राज्ञाभिहितः। भवन्तो मुर्ध्नि पिटको जातः। चिकित्सां कुरुष्वेति। ते कथयन्ति। देव जीवके महावैद्येऽव तिष्ठमाने कथं वयं करिष्यामः। राजा कथयत्याहूयतां भवन्तो जीवकः। तैराहूतः। राजा कथयति। जीवक चिकित्सां कुरुष्वेति। जीवकः कथयति। देव समयतः करोमि यद्यहमेव देवं स्नपयामि। एवं कुरु। ततो जीवकेनामलकं ददता पाचनीयानि द्रव्याणि दत्तानि। पञ्च च घटशतानि पाचनीर्यैद्रव्यैर्भावितानि। यदा पक्वः तदा प्रच्छन्नं क्षुरेण स्पृष्टः स्फुटितः ततो रोहणीयानि द्रव्यानि दत्तानि। पञ्चघटशतानि रोहणीयैर्द्रव्यैर्भावितानि। तद्‍व्रणं रूढं समच्छवि समरोमं संवृत्तम्। राजा स्नातमात्रः कथयति। जीवक चिकित्स्ं कुरुष्वेति। स कथयति। देव भुंक्ष्व। तावद्राज्ञा भुक्तम्। जीवक चिकित्सां कुरु। देव कृता। स तदन्ते पाणिना परामार्ष्टि। न संजानीते कतरस्मिन्प्रेदेशे व्रणमिति। आदर्शं गृहीत्वा व्यवलोकयति तथापि न पश्यति। देवीं पृच्छति। सापि न सञ्जानीते कतरस्मिन्प्रदेशे व्रणमासीदिति। राजा परं विस्मयमापन्नः आमत्यानां कथयति। भवन्तो जीवकस्य वैद्यराजाभिषेकं कुरुतेति। सोऽन्धः पुरुषः कथयति। देव किं पुत्रस्नेहादस्याभिषेकः क्रियते। आहोस्विद्वैद्यवैचक्षण्यादिति। स कथयति। वैद्यवैचक्षण्यात्। यद्येवमहमेवानेनान्धीकृतः। जीवकः कथयति। भोः पुरुष तवाहं दर्शनमपि न समनुपश्यामि कुतः स्वस्थीकरिष्यामि। स कथयति। सत्यमेतदपितु यस्य त्वयोपदेशः कृतस्तेन ममोपदिष्टम्। किमुपदिष्टम्। अमुकम्। जीवकः कथयति। तस्यान्योधातुः। तवाप्यन्यः। इदानीमिदं चेदं च कुरु। स्वस्थी भविष्यसीति। तेन कृतम्। स्वस्थीभूतः। कथयति। देव क्रियतामस्य वैद्यराजाभिषेक इति। स हस्तिस्कन्धाभिरूढो महता श्रीसमुदयेन वैद्यराज्येऽभिषिक्तः।



राजगृहेऽन्यतमो गृहपतिर्गुल्मव्याधिना स्पृष्टः। सर्ववैद्यप्रत्याख्यातः। स संलक्षयति। जीवकस्य सकाशं गच्छामीति। यदि चिकित्सां करिष्यत्यतीव कुशलं नोचेदात्मानं घातयिष्यामीति। स जीवकसकाशं गतः। जीवक चिकित्सां मे कुरु। स कथयति। भोः पुरुष दुर्लभानि तव भैषज्यानीति। स संलक्षयति। जीवकेनाप्यहं प्रत्याख्यातः। किमत्र प्राप्तकाल आत्मानं घातयिष्यामीति। श्मशानं गतः। तत्र चितायां ज्वलन्त्यां बभ्रुनकुलश्चन्दनगोधा च युध्यमानौ पतितौ। तेन क्षुधार्तेन तावभावपि भक्षितौ। देवश्च वृष्टः। श्मशानात्प्रघरत्तच्चितोदकं पीतम्। श्मशानस्य नातिदूरे गोकुलम्। तत्र गत्वा कोद्रवोदनं मथितं च पीतम्। गुल्मः स्फुटितः। ऊर्धमधश्च विरिक्तो यथा पौराणः संवृत्तः।



अपरेण समयेन वैदेहया गुह्यप्रदेशे पिटके जातः। तया राज्ञे निवेदितम्। राज्ञा जीवकोऽभिहितः। अपरमातुश्चिकित्सां कुरुष्वेति। तेन प्रतिज्ञातम्। ततः सक्तून पिण्डीकृत्य धात्र्या दत्ताः। अस्यान्तिके निषादयितव्येति। तया सा निषादिता। जीवकेन सक्तुपिण्डं दृष्ट्वा संलक्षितः। अमुष्मिन्प्रदेशे इति। ततः पाचनीयानि द्रव्याणि दत्तानि। पक्वं ज्ञात्वा सक्तुपिण्डमध्ये शस्त्रकं प्रक्षिप्य घात्र्याभिहिता। अस्यान्ते ईषन्निषादयितव्या देवी। निषद्याकाशे धारयितव्येति। तया तथा कृतम्। शस्त्रसंपातसमकालमेव पिटकः स्फुटितः। ततो रोहणीयद्रव्यपरिभावितेन कषायाम्भसा शोचितः। रोहणीयाणि द्रव्याणि दत्तानि। स्वस्थीभूता। जीवको राज्ञः सकाशं गतः। राजा कथयति। जीवक कृता तेऽपरमातुश्चिकित्सा। देव कृता। मा ते विनग्ना दृष्टा। देव न दृष्टा। कथं कृता। तेन यथा वृत्तमारोचितम्। राजा परं विस्मयमापन्नः। तेनामात्या उक्ताः। द्विरपि जीवकस्य वैद्यराजाभिषेकं कुरुथेति। योऽसौ गुल्मी पुरुषो जीवकेनाभिहितो दुर्लभानि भैषज्यानीति स कथयति। देव किं पुत्रस्नेहादस्याभिषेकः क्रियते। आहोस्विद्वैद्यवैचक्षण्यात्। वैद्यवैचक्षण्यात्। यद्येवमहमनेन न स्वस्थीकृतः। जीवकः कथयति। भोः पुरुष न मत्या तव चिकित्सा कृता। अपि तु मयोक्तं दुर्लभानि ते भैषज्यानीति। स कथयति। कीदृशानि मम भैषज्यानीति। जीवकः कथयति। यदि कृष्णचतुर्दश्यामकपिण्डलः पुरुषः कालं करोति। तस्य श्मशाने ध्माप्यमानस्य बभ्रुनकुलश्चन्दनगोधा च चितायां पतितः। तौ त्वं भक्षयसि। महेन्द्रो देवो वर्षति। श्मशानाच्च प्रघरितं चोदकं पिवसि। ततः कोद्रवोदनं भुंक्षे मथितं च पिवसि एवं त्वं स्वस्थो भवस्येतन्मत्वा मयोक्तं दुर्लभानि ते भैषज्यानीति। स कथयति साधु सुष्ठुपरिज्ञातम्। एतदेव मयोपयुक्तम्। ततोऽभिप्रसन्नः कथयति। देव शक्योऽस्य वैद्यराजाभिषेकः। अभिषिच्यतामिति। द्विरपि वैद्यराज्येऽभिषिक्तम्।



यदा अजातशत्रुणा देवदत्त-कल्याणमित्रविग्राहितेन पिता धार्मिको धर्मराजो जीविताद्‍व्यपरोपितः तदास्य गुल्मरोगः प्रादुर्भूतः। तेन वैद्यानामाज्ञा दत्ता। चिकित्सां कुरुष्वेति। ते कथयन्ति। देव जीवकोऽनुत्तरो वैद्यराजो देवस्य भ्राता। तस्मिन् स्थिते का शक्तिरस्माकं चिकित्सां कर्तुमिति। तेनामात्यानामाज्ञा दत्ता। आहूयतां भवन्तो जीवक इति। तैराहूतः। जीवक गुल्मरोगो मे प्रादुर्भूतः। चिकित्सां कुरुष्वेति। देव करोमि। स संलक्षयति। द्वाभ्यां कारणाभ्यां गुल्मो भिद्यते। अत्यन्तहर्षेण वा अत्यन्तरोषेण वा। तदयं पापकारी सत्त्वः। कुतोऽस्यात्यन्तहर्षः। सर्वथा रोषयितव्य इति विदित्वा कथयति देव समयेन चिकित्सां करोमि। यद्युदायिभद्रस्य कुमारस्य मांसं परिभुंक्ष्वेति। श्रुत्वा राजा रुषितः कथयति। शोभनम्। मया पिता जीविताद्‍व्यपरोपितः। त्वमप्युदायिभद्रं जीविताद् व्यपरोपय। अहमपि स्वयमेव रोगेण कालं करिष्यामि। त्वमपि राजा भविष्यसीति। स कथयति। देव एषा चिकित्सा। न शक्यमन्यथा स्वस्थेन भवितुमिति। नास्त्यात्मसमं प्रेम। तेनाभ्युपगतम्। ततो जीवकेन उदायिभद्रः कुमारः सर्वालङ्कारविभूषितः कृत्वा राज्ञ उपनामितः। देव अयमुदायिभद्रः। कुमारः सुनिरीक्षितमेनं कुरु। न भूयो द्रक्ष्यसीति। ततस्तेनोपदर्श्य गृहं नीत्वा स्थापितः। ततो जीवको मांसार्थी शीतवनं श्मशानं गतः। अशून्यं च शीतवनं श्मशानं मृतकुणपेन। ततस्तेन कुणपमांसं गृहीत्वोपकरणविशेषैः साधयित्वा भोजनकाले राज्ञ उपनामितम्। ततो राजा अजातशत्रुः मांसशरावं गृहीत्वा भक्षयिष्यामीति जीवकेनाच्छिद्य कपोले प्रहारो दत्तः। पापः कारिन् त्वया पिता धार्मिको धर्म राजो जीविताद् व्यपरोपितः। इदानीं पुत्रमांसमपि भक्षयसीति। स रुषितः कथयति। यद्येवं किमर्थं प्रघातितः। संजातामर्षस्य चास्य गुल्मः स्फुटितः। ऊर्ध्वमधश्च विरिक्तः स रुधिर एवं मुखेनागतः। यं दृष्ट्वा मूर्च्छितः पृथिव्याः पतितः। ततो जलाभिषेकप्रत्यागतप्राणं स्नपयित्वा सांप्रेयभोजनं दत्तम्। यथा पौराणः संवृत्तः। ततो जीवक उदायिभद्रं कुमारं सर्वालंकारविभूषितमादाय राज्ञः सकाशमुपसंक्रान्तः। पादयोर्निपत्य कथयति। देव अयमुदायिभद्रः कुमारो न शक्यं मया कुन्तपिपीलकमपि प्राणिनं जीवैताद् व्यपरोपयितुं प्रागेव कुमारम्। अपि त्वनेनोपायेन चिकित्सेति मयोपायसंविधानं कृतमिति। राजा परं विस्मयमुपगतः। तेनामात्यानामाज्ञा दत्ता। जीवकस्य वैद्यराजाभिषेकं कुरुष्वेति। अमात्यैर्हस्तिस्कन्धाभिरूढो महता श्रीसमुदयेन त्रिरपि वैद्यराजाभिषेकेणाभिषिक्तः।



ततो जीवकस्य मद उत्पन्नः। न मया समः कश्चिद्वैद्योऽस्ति। अहं कायचिकित्सकानामग्रः। भगवानपि चित्तचिकित्सकानामग्र इति। सोऽपरेण समयेन भगवत्सकाशमुपसंक्रान्तः। स मदावलेपेन सत्यानि न पश्यति। भगवान् संलक्षयति। जीवको वैद्यराज आहृतकुशलमूलः किमर्थं सत्यानि न पश्यति। मदावलेपात्। मदापनयोऽस्य कर्तव्य इति। तत्र भगवान् जीवकं वैद्यराजमामन्त्रयते। दृष्टस्ते जीवक हिमवत्पर्वतराजः नो भदन्त। गृहाण तथागतस्य चीवरकर्णकः। तेन गृहीतम्। अथ भगवान् जीवकं वैद्यराजमादाय येन हिमवान् पर्वतराजस्तेनोपसंक्रान्तः। तत्र नानाविद्यौषधयो दीपवज्ज्वलन्ति। भगवान् जीवकं वैद्यराजमिदमवोचत्। गृहाण जीवक यथाभिप्रेता औषधीः। भगवन् (बिभेमि)। तत्र भगवान् यक्षं वज्रपाणिमामन्त्रयते। गच्च वज्रपाणे जीवकस्यारक्षां कुरु। स गतस्तेन नानाविधा औषधयो गृहीताः। भगवान् कथयति। जीवक किं नामेयमोषधिः। स कथयति। भगवन्नमुका। अनेन विधानेनामुकस्य व्याधेरुपशमनीति। इयमप्यमुका। अमुकस्य व्याधेः प्रशमनीति। अपरासां नामानि न जानीते। यां न जानीते तां भगवान् कथयति। जीवक इयममुका। अमुकेन विधानेनामुकस्य व्याधेः प्रशमनी। इयमप्यमुकस्येति। जीवकः कथयति। वैद्यकमपि भगवान् जानीत इति। तत्र भगवान् जीवकं वैद्यराजमामन्त्रयते। चतुर्भिजीवकाङ्गैः समन्वागतो भिषक् शल्याहर्ता राजार्हश्च भवति राजयोग्यश्च राजाङ्गत्वे च संख्यां गच्छति। कतमैश्चतुर्भिरिह भिषक् शल्याहर्ता। अबाधकुशलोभवति। अबाधसमुत्थानकुशलश्च। उत्पन्नस्याबाधस्य प्रहानकुशलः। प्रहीणस्यायत्यामनुत्पादकुशलः। कथमाबाधकुशलो भवति। इह भिषक् शल्याहर्ताबाधं जानात्ययमाबाध एवं रूपश्चैवं रूपश्चेत्येवमाबाधकुशलो भवति। कथमाबाधसमुत्थानकुशलो भवति। इह भिषक् शल्याहर्ताबाधं जानात्ययमाबाधो वातसमुत्थो वा पित्तसमुत्थो वा श्लेष्मसमुत्थो वात्मोपक्रमिको वा परोपक्रमिको वा सांनिपातिको वा ऋतुपरिणामिको वेत्येमाबाधसमुत्थानकुशलो भवति। कथमुत्पन्नस्याबाधस्य प्रहाणकुशलो भवति। इह भिषक् शल्याहर्ताबाधं जानात्ययमाबाधोऽञ्जनेन वा प्रत्यञ्जनेन वा वमनेन वा विरेचनेन बोर्ध्वविरेचनेन बाधोविरेचनेन वा नस्तकर्मणा वा धूपदानेन वा स्वेदपरिकर्मणा वा प्रहास्यतीत्येवमुत्पन्नस्याबाधस्य प्रहानकुशलो भवति। कथं प्रहीणस्याबाधस्यायत्यामनुत्पादकुशलो भवति। इह भिषक् शल्याहर्ताबाधं जानात्ययमाबाध एवंरूपाभिश्चैवं रूपाभिश्च सांप्रेयाभिः क्रियाभिः क्रियमाणाभिः प्रहीण आयत्यां नोत्पत्स्यत इत्येवं प्रहीणस्याबाधस्यायत्यामनुत्पाद कुशलो भवति। एवं चतुर्भिरङ्गैः समन्वागतो भिषक् शल्याहर्ता राजार्हश्च भवति राजयोग्यश्च राजाङ्गत्वे च संख्यां गच्छति। एवमेव चतुरङ्गैः समन्वागतस्तथागतोऽर्हन् सम्यक् संबुद्धोऽनुत्तरो भिसक् शल्याहर्ता इत्युच्यते। कतमैश्चतुर्भिः। इह जीवक तथागतोऽर्हन्सम्यक् संबुद्धः। इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति। इदं दुःखसमुदयमिदं दुःखनिरोधं इदं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति यथाभूतं प्रजानाति। न खलु जीवक भिषक् शल्याहर्ता जातिमूलकानां दुःखानां प्रहाणाय भैषज्यं जानाति। नापि जराव्याधिमरणशोकपरिदेवनदुःखदौर्मनस्योपाया समूलकानांदुःखानां प्रहाणाय भैषज्यं जानाति। तथागतस्तु जीवक जातिमूलकानां दुःखानां प्रहाणाय भैषज्यं जानाति। जराव्याधिमरणशोकपरिदेवनदुःखदौर्मनस्योपायासमूलकानां दुःखानां प्रहाणाय भैषज्यं जानाति। तस्मात्तथागतोऽर्हन्सम्यक्संबुद्धोऽनुत्तरो भिषक् शल्याहर्तेत्युच्यते। अस्मिन् खलु धर्मपर्याये भास्यमाणो जीवकस्य कुमारभृत्यस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम्। अथ जीवकः कुमारभृतो दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा तीर्णकांक्षस्तीर्णविचिकित्सोऽपरप्रत्ययोऽनन्यनेयः शास्तुः शासने धर्मेषु वैशारद्यप्राप्तः उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्। अभिक्रान्तोऽहं भदन्ताभिक्रान्तः। एषोऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं चोपासकं च मां धारयाद्याग्रेण यावज्जीवं प्राणोपेतं शरणगतमभिप्रसन्नम्। अथ जीवको वैद्यराजो भगवत् पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रकान्तः।



हिमवान्पर्वतराजो हिमसंयोगान्नित्यं शीतलो भगवतः साभिष्यन्दं ग्लानमुत्पन्नम्। जीवको वैद्यराजः संलक्षयति। स्वयमेवाहं भगवत उपस्थानं करोमि तद्यथा राज्ञश्चक्रवर्तिन इति। ततो जीवकेन द्वात्रिंशदुत्पलानि स्रंसनीयैर्द्रैव्यैर्भावयित्वा भगवते दत्तानि। जिघ्रतु भगवानेतानीति। भगवताघ्रातानि। द्वात्रिंशदेवोत्थानानि लब्धानि। ततो भगवन्तं पृच्छति। कश्चित् भगवान् सम्यग्विरिक्त इति। भगवानाह। सन्ति जीवक ते दोषाः। ये च्युता न स्रुताः सन्ति। स्रुताः न च्युताः सन्ति। स्रुताश्चुयुताश्च सन्ति। नैव स्रुता न च्युता इति। जीवकः कथयति भगवन् यद्येवं गुडहरीतकीं भक्षय। मण्डानुपूर्वीं च कुरुष्वेति। भगवता तथाकृतम्। स्वस्थो जातः।



आचरितं जीवकस्य यस्य कस्यचिद्राज्ञो वा राजमात्रस्य वा चिकित्सां करोति स तस्मै ग्रामं वा ग्रामवरं वा प्रयच्छति। यावदपरेण समयेन जीवकेन विदेहराजस्य विकित्सा कृता। तेन तस्मै शतसहस्रमूल्यं वृहतिकाप्रावरणं दत्तम्। स तमादाय येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः। एकान्ते निषण्णो जीवकः कुमारभृप्तो भगवन्तमिदमवोचत्। आचरितं भदन्त मम यस्य राज्ञो वा राजमात्रस्म वा चिकित्सां करोमि स मे ग्रामं वा ग्रामवरं वानुप्रयच्छति। तन्मया विदेहराजस्य चिकित्सा कृता। तेन मे शतसहस्रमूल्यं वृहतिकाप्रावरणं दत्तम्। तदहं भगवतेऽनुप्रयच्छामि। तद्भगवान्प्रतिगृह्णात्वनुकम्पामुपादायेत्। प्रतिगृह्णाति भगवान् जीवकस्य कुमारभृतस्यान्तिकाच्छतसहस्रमूल्यं वृहतिकाप्रावरणम्। तेन खलु समयेनायुष्मानानन्दो भगवतः पृष्ठतः स्थितोऽभूद् व्यजनं गृहीत्वा भगवन्तं वीजयन्। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते। गृहाणानन्द शतसहस्रमूल्यं वृहतिकाप्रावरणं ममार्थाय शस्त्रलूनं कुरुष्वेति। तत आयुष्मानानन्दो गृहीत्वा विस्तीर्णावकाशं पृथिवीप्रदेशं गत्वा मापयितुमारब्धः। पश्यति बहूनि चीवराणि सम्पद्यन्ते। ततस्तेन भगवतस्त्रिचीवरं कृतमात्मनः सान्तरोत्तरमयुष्मतश्च राहुलस्य कुसूलकः। तं खलु वर्षावासं भगवतः पञ्चपटशतानि संपन्नानि। भिक्षुसंघस्य चानेकानि। भिक्षवो न जानीते कथं प्रतिपत्तव्यमिति। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। तस्मादनुजानामि। भिक्षुर्भिर्गृहपतिचीवरकाणि शस्त्रलूनानि दुर्वर्णीकृत्य धारयितव्यानि।



आचरितं राज्ञो बिम्बिसारस्य भिक्षुं वा भिक्षुणीं वा दृष्ट्वा हस्तिस्तस्कन्धादवतीर्य पादाभिवन्दनं करोति। सोऽपरेण समयेन हस्तिनमभिरुह्य भगवतः पादाभिवन्दकः संप्रस्थितः। यावत्प्रश्यत्यन्तर्मार्गे आजीवकम्। स तस्य जातसंभ्रमो हस्तिस्कन्धादवतीर्य पादयोर्निपतितः। तत्र ये अश्राद्धास्ते संलक्षयन्ति। न केवलं देवो भिक्षुष्वेवाभिप्रसन्नः। आजीवकेष्वपि अभिप्रसन्न इति। ये तु श्राद्धस्ते संलक्षयन्ति। नूनं देवो भिक्षुरिति कृत्वा ससंभ्रमोऽस्य हस्तिस्कन्धादवतीर्य पादयोर्निपतित इति। ते सन्दिग्धमनसो राजानमूचुः। कस्य देवेन वन्दना कृता। भगवतः श्रावकस्य। देव आजीवक एष न भगवतः श्रावकः। अथ राज्ञो बिम्बिसारस्यैतदभवत्। एतदेव मे करणीयं भवत्विति। स येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्णो राजा मागधः श्रेण्यो बिम्बिसारः भगवन्तमिदमवोचत्। आचरितं मम भदन्त भिक्षुं वा भिक्षुणीं वा दृष्ट्वा हस्तिस्कन्धादवतीर्य तस्य पादाभिवन्दनां कर्तुम्। तदहं संजातसंभ्रमो हस्त्स्कन्धदवतीर्य भिक्षुरिति कृत्वा आजीवकस्य पादयोर्निपतितः। अहो वत भगवन्नार्यकाणां चीवरकेषु किंचिच्चिह्न प्रज्ञापयेदनुकम्पा मुपादायेति। अधिवासयति भगवान् राज्ञो बिम्बिसारस्य तूष्णीं भावेन। अथ राजा बिम्बिसारो भगवतस्तूष्णींभावेनाधिवासानां विदित्वा भगवतः पादौ शिरसा वन्दित्वा प्रक्रान्तः। तत्र भगवान् भिक्षूनामन्त्रयते स्म। हंभो भिक्षवः स आजीव उपहतश्च येन दृष्टसत्यस्यान्तिकाद्वन्दना स्वीकृतेति।



तेन खलु समयेनायुष्मानानन्दो भगवतः पृष्ठतः स्थितोऽभूद् व्यजनं गृहीत्वा भगवन्तं वीजयन्। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते। दृष्टस्ते आनन्द वैदेहकः पर्वतः। नो भदन्तः। गृहाण तथागतस्य चीवरकर्णकम्। तेन गृहीतम्। अथ भगवान् तत एव ऋध्या उपरि विहायसा प्रक्रान्तः। राजगृहेऽन्तर्हितो वैदेहके पर्वते प्रातिष्ठत। तेन खलु समयेन मागधकानां मनुस्याणां क्षेत्राणि समानि समीपचिवाराणि आवलीविनिबद्धानि भक्तिरचनाविशेषविचित्राणि दृष्ट्वा च पुनरायुष्मन्तमानन्दमामन्त्रयते। दृष्टानि ते आनन्द एतानि क्षेत्राणि समानि समोपचिवराण्यावलीनिबद्धानि भक्तिरचनाविशेषविचित्राणि। दृष्टानि भदन्त। तस्मादानन्द अनेनाकारेण भिक्षुभिश्चीवराणि छित्त्वा सेतव्यानि। स्थविरानन्देन भिक्षूणामारोचितम्। युष्माभिरनेनाकारेण चीवरकाणि पाटयित्वा सेतव्यानीति। भिक्षवः पाटयित्वा चीवराणि सेतुमारब्धाः एकेन पार्श्वेन पत्रमुखानि पातयन्ति। न शोभन्ते। आयुष्मानानन्दः संलक्षयति। किं चापि भगवता नानुज्ञातम्। स्थानमेतद्विद्यते यदेतदेव प्रत्ययं कृत्वा अनुज्ञास्यतीति। तेनोभयपार्श्वयोः पत्रमुखानि दत्तानि। तथाप्यनुपातं विना न शोभते इत्यनुपातो दत्तः। ततः कृतनिश्चितं भगवत उपनामितम्। भगवानाह। साधु साध्वानन्द यन्मया नानुज्ञातं तत्त्वया विज्ञातम्। तस्मादनुजानामि। भिक्षुभिरनेनाकारेण चीवराणि छित्त्वा सेतव्यानि। भिक्षव एकैकं चीवरं छित्त्वा स्यूत्वा धावयितुं प्रवृत्ताः अवशिष्टान्यच्छिन्नानि।



ततो भगवान्मगधेषु जनपदेषु चारिकां चरन्नाटविकामनुप्राप्तः। आटविकायां विहरत्यग्राटविके दावे। आटविका नदीसमीपसंयोगाच्छीतला प्रवाता च। भगवता प्रथमे यामे अन्तर्वासः प्रावृतः। मध्यमे यामे उत्तरासङ्गः। पश्चिमे यामे आयुष्मन्तमानन्दमामन्त्रयते। अनुप्रयच्छ मे आनन्द संघाटीमिति। तत आयुष्मतानन्देन हस्तौ प्रक्षाल्य भगवत उपरिष्टाद्दत्ता संघाटी। सा रात्रिर्भगवता त्रिचीवरेणाति नामिता। ततः प्रभातायां रजन्यां संलक्षयति। ये केचिल्लोके सुकुमारकाः सुखैषिणः अहं तेषामग्रः। तदहः शक्नोमि त्रिचीवरेण यापयितुं किं पुनर्मे श्रावका इति विदित्वा भिक्षूनामन्त्रयतेस्म। तस्मात्तर्हि भिक्षवो भिक्षुभिश्छिन्नं त्रिचीवरं धारयितव्यमिति।



उक्तं भगवता छिन्नं त्रिचीवरं धारयितव्यमिति। अन्यतमस्य भिक्षोस्त्रिचीवरं नास्ति। तस्य नमतं संपन्नम्। स तच्छेत्तुमारब्धः। भगवांश्च तं प्रदेशमनुप्राप्तः पृच्छति। भिक्षो किमिदम्। उक्तं भदन्त भगवता भिक्षुणा छिन्नं त्रिचीवरं धारयितव्यमिति। मम् तृतीयं चीवरं नास्ति। पर्येषमाणस्य मे इदं नमतं सम्पन्नम्। छित्त्वा चीवरं करोमि। नैतद् भिक्षो छेदनार्हमपि त्वासीवकार्हम्। सीवकं कृत्वा धारय। इत्युक्त्वा प्रक्रान्तः। भिक्षुसंघं सन्निपात्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। निषद्य भगवान् भिक्षूनामन्त्रयते स्म। अमुकस्य भिक्षोश्चीवरं नास्तीति नमतं छेदयतीति। तस्मात्तर्हि भिक्षवः पञ्चाछेद्यानि। सर्वं नमतं। सर्वं प्रावारकं। सर्वं कोचवं। सर्वं लेलोहितं। सर्वं स्थूलकम्बलञ्चेति। आसीवकांस्तु दत्त्वा धारयितव्यम्।



श्रावस्त्यां निदानम्



राज्ञः प्रसेनजितः कोसलस्य मृगारो नाम अग्रामात्यः। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः। एवं यावत्सप्त पुत्रा जाताः। तत्र षणां यथाभिप्रेतव्यवस्थम्। तेन नामानि व्यवस्थापितानि। यस्तु कनीयांस्तस्य विशाख इति नामधेयं व्यवस्थापितम्। यावन्मृगारस्य पत्नी कालगता। तेन षण्णां पुत्राणां निवेशः कृतः। ते स्वकस्वकाभिः पत्नीभिः सार्धं मण्डनपरमा व्यवस्थिताः। गृहकार्यं न चिन्तयन्ति। मृगारो गृहपतिः करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः। तस्य सप्रेमको ब्राह्मण आगतः। स तेन चिन्तापरो दृष्टः। स कथयति। गृहपते किमसि चिन्तापरः। ममामी पुत्राः स्वकस्वकाभिः पत्नीभिः सार्धं मण्डनपरमा व्यवस्थिताः। गृहकार्यं न चिन्तयन्ति। गृहमवसादं गमिष्यतीति। स कथयति। विशाखस्य कस्मान्निवेशो न क्रियते। को जानीयात्कदाचित्सोऽपि पापतरो भवेत्। एतदपि न ज्ञायते कदाचिच्छोभनतरो भवेत्। यदि तेऽनुमतं समन्वेषयामि दारिकाम्। एवं कुरु। स गवेषमाणोऽनुपूर्वेण चम्पामनुप्राप्तः।



चम्पायां बलमित्रो नाम गृहपतिः। तस्य विशाखा नाम दुहिता रूपयौवनवती नयविनयसंपन्ना पण्डिता पटुप्रचारा। सा यथाभिप्रेतमनोहराभिर्दारिकाभिः सार्धमुद्यानभूमिं संप्रस्थिता। स च ब्राह्मणस्तं प्रदेशमागतः। तेन सा दारिका दृष्टा। स संलक्षयति। आसामेव तावत्परीक्षा कर्तव्येति। स च आसामवधानतत्परो मन्दगतिप्रचारतया पृष्ठतोऽनुबद्धः। प्रायो नार्यश्चलत्स्वभावाः। तासां काचिद् धावति काचिदुत्पतति काचिन्निपतति काचिद् हसति काचिद् गात्रविक्षेपं करोति काचिद् गायति। इमानि चान्यानि च दुर्वृत्तचेष्टितानि कुर्वन्ति। सा तु विनयसंपन्ना मन्दगतिप्रचारा ताभिः सार्धं गच्छति। यावदुद्यानं संप्राप्तास्ता दारिकाः पुष्करिण्यास्तीरे वस्त्राणि स्थापयित्वा सहसावतीर्य क्रीडितुमारब्धाः। सा तु यथा यथा पानीयमवतरति तथा तथा वस्त्रमुत्क्षिप्यावतीर्णां तथैव शान्तेनेर्यापथा यथा यथा व्युत्तिष्ठते तथा तथा वस्त्रमवतारयति। तत स्नातप्रयता एकस्मिन् स्थाने स्थिता। ता दारिका आत्मना प्रथमतो भुक्त्वा परिजनं परिवेष्टुमारब्धाः। सापि पूर्वं परिजनं परिवेष्य पश्चादात्मना परिभुक्तुमारब्धा। ततो भुक्तपीता उद्यानसुखमनुभूय संप्रस्थिता। यावदन्तमार्गे पानीयमुत्तर्तव्यम् ता दारिका उपानहौ छोरयित्वोत्तीर्णाः। सा तु सोपानत्कैव पुनः संप्रस्थिता। तासामारामसंप्रवेशो जातः। सा छत्रमादाय आम्रवनमतिक्रान्ता। अन्याभिश्छत्राणि चोरितानि। ततो वातवर्षं प्रादुर्भूतम्। तदा दारिका देवकुलं प्रविश्यावस्थिताः। सा त्वभ्यवकाश एव। स ब्रह्मणस्तस्यास्तादृशलक्षणप्रचारान् दृष्ट्वा ततो जातकुतूहलस्तां दारिकां प्रष्टुमारब्धः। दारिके कस्य त्वम्। बलमित्रस्य दुहिता। पुत्रि पृच्छामि। तेन किञ्चित्त्वया कोपः करणीयः। सा स्मितपूर्वङ्गमा कथयति। तात पृच्छ। कोऽत्र कोपः। पुत्रि सर्वा एव दारिका धावन्त्य उत्पतन्त्यो निपतन्त्यो गात्रविक्षेपं कुर्वन्त्य इमानि चान्यानि च दुर्वृत्तचेष्टितानि कौर्वन्त्यो गच्छन्ति त्वं पुनर्विनयसंपन्ना मन्दगतिप्रचारतया आभिः सार्धमुद्यानं गच्छसीति। सा कथयति। सर्वा दारिका मतापित्रोर्विक्रेयं द्रव्यम्। यदि मम उत्पतन्त्या निपतन्त्या वा हस्तः पादो वा भिद्यते को मां प्रार्थयते। नत्वहं यावज्जीवमेव मातापित्रोः पोष्या भविष्यामि। पुत्रि शोभनं गतमेतत्। इदमपरं पृच्छामि। एता दारिका वस्त्राण्येकान्ते स्थापयित्वा द्वितीयवस्त्रावियुक्ताः सहस्रावतीर्य क्रीडितुमारब्धाः। त्वं पुनर्यथा यथा पानीयमवतरति तथा तथा वस्त्रमपनयसि। तात ह्रीव्यपत्राप्यसम्पन्नो मतृग्रामः। यदि मां कश्चित्पश्यत्यपावृतामयुक्तम्। पुत्रि कस्त्वां तत्र पश्यति। तात त्वयैव तावदहं दृष्टा स्याम्। पुत्रि शोभनमोतदपि गतम्। इदमपरं पृच्छामि। एता दारिकाः पूर्वमात्मना भुक्त्वा पश्चात्परिजनं भोजयन्ति। त्वं पुनः पूर्वं परिजनं भोजयित्वा पश्चादात्मना भुंक्षे। तात वयं पुण्यफलोपजीविन्यः। सततमेवास्माकं पर्व। एता कुस्थानफलोपजीविन्यः कदाचित्कर्हिचिदुदारभोजनं लभन्ते। पुत्रि शोभनमे तदपि गतम्। इदमपरं पृच्छामि। सर्वलोकः शुष्के उपानहौ धारयन्ति। त्वं पुनः उदके। किमेतत्। तात मूर्खो लोकः। उदक एव उपानहौ धरयितव्यौ। यत्कारणं स्थले स्थाणुर्दृश्यते कण्टकः पाषाणशर्करः शुक्तिशकलिका शंखसूके खण्डिका च। जले त्वेते न दृश्यन्ते। अतो जल एवोपानहौ धारयितव्यौ न स्थले। पुत्रि शोभनमेतदपि गतम्। इदमपरं पृच्छामि। एता दारिका आतपे छत्रं धारयन्ति त्वं पुनरारामे वृच्छायायाम्। कात्र युक्तिः। तात मूर्खो लोकः। आराम एव छत्रं धारयितव्यम्। यत्कारणं नित्यमारामः शाखामृगैः पक्षिभिराकीर्णः। पक्षिण उच्चारप्रस्रावं कुर्वन्ति। अस्थिखण्डं पातयन्ति। शाखामृगा उच्चारप्रस्तावं कुर्वन्ति। अर्धपरिभुक्तानि फलानि पातयन्ति। चलस्वभावत्वादितश्चामुतश्च शाखान्तरे संक्रामं कुर्वन्ति। काष्ठखण्डानि पातयन्ति। अभ्यवकाशे च तन्नास्ति। कदाचित्स्यात्तत्तु लघुनिपाति। अत आराम एव छत्रं धारयितव्यं नाभ्यवकाशे। पुत्रि शोभनमेतदपि गतम्। इदमपरं पृच्छामि। एता दारिका वातवर्षे देवकुलं प्रतिष्टास्त्वं पुनरभ्यवकाशे स्थिता। तात अभ्यवकाश एव स्थातव्यम्। न देवकुलं प्रवेष्टव्यम्। पुत्रि कात्र युक्तिः। तात एतानि शून्यदेवकुलानि। नित्यमेव विटवात पुत्रधूर्तकैरशून्यानि। यदि मम प्रविष्टाया कश्चिदङ्गप्रत्यङ्गाणि परामृशति नत्वेवं मातापित्रोर्मे अयशस्यता भवति। वरमभ्यवकाशे प्राणवियोगः। न त्वेव शून्यदेवकुलप्रवेशः।



ततोऽसौ ब्राह्मणस्तत्प्रचारावर्जित जनितसौमनस्यो बलमित्रस्य गृहपतेर्निवेशनं प्रविश्य कन्या प्रतिलम्भतृष्णया ससंभ्रमः स्वस्ति स्वस्तीत्युवाच। गृहपरिजनः कथयति। ब्राह्मण न तावद्भिक्षावेला। किं प्रार्थयसे। कन्याभिक्षाम्। कस्यार्थाय। श्रावस्त्यां मृगारो नामाग्रामात्यः। तस्य पुत्रो विशाखो नाम। ते कथयन्ति। सदृशमस्माकं तत्कुलम्। किं तर्हि। अतिविप्रकृष्टो देशः। स कथयति। दूर एव दारिका दातव्या। किं कारणम्। यदि तावत्सुखिता भवति श्रुत्वा प्रामोद्यमुत्पादयिष्यति। अथ दुःखिता दानमानसत्कारक्रियया खेदमापद्यतेऽर्थापचयश्च भवति। ते कथयन्ति। यद्येवं दत्ता भवतु। ततो ब्राह्मणः स्वस्तीत्युक्त्वा प्रक्रान्तोऽनुपूर्वेण श्रावस्तीं गतः। मार्गश्रमं प्रतिविनोद्य मृगाराग्रामात्यस्य सकाशं गतः। ततो दारिकाया आहारविहारतां चेष्टां रूपयौवनशोभां वैचक्षण्यं च यथावदाख्याय कथयति। मया महता परिखेदेन नानादिग्देशाधिष्ठानान् पर्यटित्वा सा कृच्छ्रेण प्रतिलब्धा। गच्छेदानीं परिणयेति। ततो मृगारेणाग्रामात्येन दिवसतिथिमुहूर्तनक्षत्रप्रतिग्रहं कृत्वा चम्पामागत्य महता श्रीसमुदयेन विशाखस्य परिणीता।



सा मात्रा गमनदेशकाले शिक्ष्यते। पुत्रि नित्यं त्वया सूर्याचन्द्रमसौ नमस्यौ। अग्निः परिचर्तव्यः। आदर्शो निर्मादयितव्यः। शुक्लानि वासांसि प्रावरितव्यानि। ग्रहीतव्यं न दातव्यम्। वाणी रक्षितव्या। न कस्यचिदुत्थायासनं दातव्यम्। मिष्टं भोक्तव्यम्। सुखं स्वप्तव्यम्। निःश्रेणी बद्धव्येति। ततो मृगारेण श्रुतम्। स संलक्षयति। इयं दारिका मिथ्यादृष्टिर्ग्राह्यते। अहमेनां मिथ्यादर्शने विवेच्य सम्यग्दर्शनं ग्राहयिष्यामीति विदित्वा तामादाय संप्रस्थितः।



ततो।स्या माता स्नेहव्याकुलहृदया अश्रुव्याकुलेक्षणा कण्ठे परिष्वज्य सस्वरं रुदन्ती कथयति। पुत्रि इदं ते पश्चिमं दर्शनमिति। सातामनुसंज्ञापयन्ती कथयति। अम्ब पृच्छामि। तावत्किंत्वमत्र जाताहोस्विज्ज्ञातिगृहे। (पुत्रि ज्ञातिगृहे।) तत्तव गृहमाहोस्विदिदम्। इदम्। अहमपीह जाता। तत्र माता वक्तव्यम्। संयोगो नियतं वियोगान्तः। तूष्णीं भव। किमर्थं रोदिषि।



ततो मृगारः स्थलेन संप्रस्थितः। विशाखा स्वामिना सार्धं स्वगृहलब्धेन च परिजनेन नौयानेन संप्रस्थिता। तत्र वडवा अचिरप्रसूता नावमधिरोह्यते। किशोरकः स्थले खेदमापत्स्यतीति सा यत्नेनापि नाभिरोहतीति कोलाहलो जातः। विशाखया श्रुतम्। सा कथयति। किमर्थमयं कोलाहल इति। तैर्यथावृत्तमाख्यातम्। विशाखा कथयति। किशोरकं पूर्णमभिरोहयत स्वयमभिरोक्ष्यतीति। तैस्तथाकृतम्। अभिरूढा। तनो मृगारेण ते पृष्टाः। किमर्थं चिरेण यूयमागताः। वडवा नावं नाभिरोहति। अथ कथमभिरूढा। चाम्पयिकया उपायसंविधानमाख्यातं किशोरकं पूर्वमभिरोहयत पण्डिता चाम्पयिका।



यावदन्तर्मार्गे सार्था रात्रिं वासमुपगताः। मृगारस्य प्राग्भारे शय्या प्रज्ञप्ता। विशाखा दृष्ट्वा पृच्छति। कस्यैषा शय्या। मृगारस्य। अपनयत। किं कारणम्। यदि सुप्तस्य प्राग्भार उपरि निपतति नियतमवष्टब्धः कालं करोति। मम यावज्जीवमयशस्यम्। ईदृशी दारिका परिणीता यदन्तर्मार्ग एव श्वशुरः कालगतो गृहमपि न संप्राप्त इति। तच्च शयनासनमपनीतं प्राग्भारश्च पतितः। समन्तान्महाजनकायः प्रघावितो गृहपतिरवष्टब्धः इति। गृहपतिः कथयति। भवन्तो मा बिभीत। इहाहं तिष्ठामि। शय्यां प्रत्यवैक्षन्त। अपनीता शय्या। केन। विशाखया। पण्डिता। चाम्पेयिका। पुनरपि जीर्णोद्याने वासमुपगताः। मृगारस्य शून्यदेवकूले शय्या प्रज्ञप्ता। विशाखया दृष्टा। पृच्छति। कस्यैषा शय्या। आर्यस्य। अपनयत। किं कारणम्। यदि देवकुलं पतति ततोऽवष्टब्धः कालं करोति। ननु मे पूर्ववदयशस्यम्। सा चापनीता। देवकुलं च पतितम्। महाजनकायो प्रधावितः पूर्ववद्यवत्पण्डिता चाम्पेयिका।



यावदनुपूर्वेण श्रावस्तीमनुप्राप्ता। मार्गश्रमे प्रतिविनोदिते सुहृत्संबन्धिबान्धवजने च प्रेषिते विशाखा स्वकुलानुरूपं गृहे कर्म कार्यते। मृगारस्य षत् स्नुषा वारेण वारं गृहजनस्य भक्तं सम्पादयन्ति। विशाखापि तथैव नियुक्ता। त्वयापि सप्तमे दिवसे वारः कर्तव्य इति। तस्या वार आगमिष्यतीति। ये श्वशुरश्वश्रूस्वामिनां गन्धा अवशिष्यन्ते चर्पटिकां कृत्वा प्रतिदिवसं शोषयति।यान् सक्तून् प्रतिदिनं लभते ततः प्रस्थानि विशाखा अपनीय स्थापयति। परिशिष्टं घृतेन मोदयति तत्प्रमाणा एव भवन्ति। मद्यपानागतस्तु श्वोवारो भविष्यतीति। यत् स्वामिनो निर्माल्यमात्मनश्च तच्छीतले स्थापितम्। यावत्प्रभातायां रजन्यां कर्मकराणामामलकं दत्तं गन्धः पुष्पाणि भोजन मद्यं च। ते परितुष्टाश्चिरेण वयं पुराणगृहपतिपत्न्या अवलोकिता इति। तैस्तस्मिन् दिवसे द्विगुणं कर्म कृतम्। यावन्मृगारः कालवेलायां कर्मान्तानवलोकयन् पश्यति प्रभूतं कर्म कृतम्। स पृच्छति। किं युष्माभिरपरे भृतकपुरुषा गृहीताः। न। केनचित् कोऽत्र योगो येनाद्य द्विगुणं कर्म कृतम्। ते कथयन्ति। आर्या यादृशं भक्तं यादृशं कर्म। किमेतत्। तैर्यथावृत्तं विस्तरेण समाख्यातम्। मृगारपुत्रैः स्वकस्वकानां पत्न्यः आरोचिताः। ताः कथयन्ति। वयमपि गृहादपहृत्य भृतकपुरुषाणां प्रियं कुर्याम। वयमप्यार्यस्य युष्माकं भृतकपुरुषाणां च प्रिया भवेम यथा विशाखया कृतम्। ततो मृगारेण विशाखा पृष्टा। पुत्रि कथं त्वया भक्तं प्रतिजागरितम्। तया विस्तरेण समाख्यातम्। मृगारस्तुष्टः। तेन सैव गृहव्यापारे नियुक्ता। अन्तर्जनश्च सर्वोऽभिहितः। यो युष्माकं विशाखया दत्तेन परितुष्यति तेन स्थातव्यमानुकूल्येन वा चरितव्यम् यावदसौ गृहस्वामिनी संवृत्ता। साचारविहारतया सौरत्येन च सर्वमन्तर्जनं तोषयति। यावदपरेण समयेन विशाखाया गृहस्योपरिष्टाद् हंसा उत्तरकुरुद्वीपादकृष्टोप्तं तण्डुलफलशालिमादाय संप्रस्थिताः। राज्ञश्च गृहे हंसस्तिष्ठति। तेन तान् दृष्ट्वा कूजितम्। तैरपि समयोनिविश्वासोद्वेगमसहमानैः कूजितम्। राज्ञश्चरणकोष्ठे शालिबल्लर्यो निपतिताः। ततो राज्ञोऽमात्यानामेकैका दत्ता। मृगारेण स्वप्रत्यंशो विशाखाया दत्तः। तया समुद्रके स्थापयित्वा कार्षिकाणां आज्ञा दत्ता। तेऽपि सुतरां परितुष्टाः। तैः क्षेत्रस्तोकं सुपरिकर्षीकृत्य कालं ज्ञात्वा उप्तः। देवः कालवर्षीः संवृत्तः। बीजानुरूपा संपत्तिर्जाता। अपरस्मिन् वर्षे प्रभूतं संपन्नमपरस्मिन्नपि व र्षे प्रभूततरम्। एवं यावत् सर्वाणि कोष्ठागाराणि हंसाहृतकुशूलैः परिपूर्णानि। यावद्राज्ञः प्रसेनजितः कोशलस्य ग्लान्यमुत्पन्नम्। तेन वैद्या आहूयः पृष्टाः। ते कथयन्ति। देव यदि हंसाहृतशालिः संपद्यते तेन मण्डं साधयितुमर्हसि। पीत्वा स्वस्थो भविष्यसीति। राज्ञा अमात्या आहूय पृष्टाः। भवन्तो मया युष्माकं हंसाहृतानि शालिशीर्षाणि दत्तानि। तानि युष्माभिः किं कृतानि। तत्र केचित् कथयन्ति। देव अस्माभिर्देवकुले दत्तानीति। अपरे कथयन्ति। अस्माभिरग्नौ प्रक्षिप्तानि इति। अपरे कथयन्ति अस्माभिर्द्वारशालायां बद्धानीति। मृगारः कथयति। देव मया विशाखाया दत्तानि। पृच्छामि तावत्तया किं कृतानीति। तेन विशाखा पृष्टा। सा कथयति। तात किं हंसाहृतशालिना प्रयोजनम्। राज्ञो ग्लान्यमुत्पन्नम्। वैद्यैर्हंसाहृता शालिर्व्यपदिष्टा। ततो विशाखया सौवर्णं भाजनं हंसाहृतस्य तण्डुलस्य (मण्डेन) पूरयित्वा राज्ञः प्रेषितम्। राज्ञा परिभुक्तम्। स्वस्थीभूतः।



अपरेण समयेन जानपदैः राज्ञे बडवाद्वयं प्रेषितम्। माता च दुहिता च। तत्र न कश्चिज्जानीते कतरा माता कतरा दुहिता इति। राज्ञा अमात्यानामाज्ञा दत्ता भवन्तः सुविचारितं कृता मम निवेदयत इति। अमात्याः सकलदिवसं विचारयतः खिन्नाः। न निर्लोडितम्। मृगारश्चिरकाले गृहं गतः। विशाखा पादयोर्निपत्य कथयति। तात किमद्य चिरेणागतः। तेन यथावृत्तः विस्तरेण समाख्यातम्। विशाखा कथयति। तात किमत्र ज्ञातव्यम्। ताभ्यां योग्याशनं समं देयम्। या दुहिता सा शीघ्रं भक्षयित्वा मातुः प्रत्यंशं भक्षयिष्यति। या माता अपरिपन्थिनी मुखं निक्षिप्य स्थास्यति। एतच्चिह्नमिति। मृगारेण आमात्यानां निवेदितम्। तैरपि यथा समादिष्टा परीक्षा कृता। ततः प्रभातायां रजन्यां राज्ञे निवेदितम्। देव इयं माता इयं दुहिता इति। राजा कथयति। कथं युष्माभिः परिज्ञातम्। देव एवं चैवं च। ह्यस्तनिके न परिज्ञातम्। देव का शक्तिरस्माकं परिज्ञातुम्। विशाखया एवं सन्दिष्टम्। राजा कथयति। पण्डिता चाम्पेयिकेति।



अन्यतमः पुरुषस्तीर्थे कम्बलं स्थापयित्वा स्नाति। अन्यतमश्च पुरुष आगतः। स तेन कम्बलेन शिरो वेष्टयित्वा तत्रैव स्नातुमारब्धः। स पुरुषः स्नात्वोत्थितो न पश्यति कम्बलम्। पुरुषः कथयति। भोः पुरुष किं समन्वेषसे। कम्बलम्। कुतस्तव कम्बलम्। स्याद् यथाहं शिरो वेष्टयित्वावतीर्णस्तथा त्वमप्यवतीर्णः स्या इति। स कथयति। एष एवासौ मदीयः कम्बलः। त्वदीयो मदीय इति तयोर्विवाद जातः तौ राज्ञः सकाशं गतौ। राज्ञा अमात्यानामाज्ञा दत्ता। भवन्तः परीक्षित्वा यस्य सन्तकस्तस्यानुप्रयच्छत इति। ते परीक्षितुमारब्धाः। एकः पृष्टः। स कथयति मदीय इति। अपरः पृष्टः। स कथयति मदीय इति। त्वदीयो मदीय इति दिवसोऽतिक्रान्तः। अमात्याः खिन्नाश्चिरकाले अनिर्लोडयित्वैव गृहं गताः। विशाखया मृगारः पूर्ववत्पृष्टः। तेन यथावृत्तमारोचितम्। विशाखा कथयति। तात किमत्र ज्ञातव्यम्। तौ वक्तव्यौ। एकोऽपि अर्धं गृह्णात्वपरोऽप्यर्धमिति। यस्य सन्तकः स वक्ष्यति। किमर्थं मदीयः कम्बलश्छिद्यते इति। यस्य न सन्तकः स संलक्षयिष्यत्यर्धमपि तावन्मे भवतु। कोऽत्र मम व्यय इत्येषात्र परीक्षा इति। मृगारेण गत्वा अमात्यानां निवेदितम्। देव पूर्ववद्यावद् राजा कथयति। पण्डिता चाम्पेयिकेति।



राज्ञो यानपात्रकेण वणिजा चन्दनगण्डीरकः प्रावृतोऽनुप्रेषितः। तस्य न विज्ञायते कतरदग्रं कतरन्मूलमिति। राजा अमात्यानामाज्ञा दत्ता। विचारयत इति। तैः कृत्स्नं दिवसं विचारितम्। न परिज्ञातम्। चिरकाले गृहं गताः। विशाखया पूर्ववद्यावन्मृगारः पृष्टः। तेन यथावृत्तं विस्तरेण समाख्यातम्। विशाखा कथयति। तात किमत्र ज्ञातव्यम्। उदके प्रक्षेप्तव्यः। यन्मूलं तदधस्ताद् भवति। यदग्रं तदुपरिष्टाद् भवति। एषा तत्र परीक्षेति। मृगारेण अमात्यानां निवेदितम्। पूर्ववद्यावद् राजा कथयति। पण्डिता चाम्पेयिकेति।



अन्यतमस्मिन् कर्वटके गृहपतिः। तेन सदृशात्कुलात् कलत्रमानीतम्। तस्य न पुत्रो न दुहिता। तेन पुत्राभिनन्दिना द्वितीया पत्नी आनीता। तस्याः प्रथमपत्न्या ईर्ष्याप्रकृत्या योनिविनाशनप्रयोगो दत्तः। तस्याः सुतरां योनिर्विशुद्धा आपन्नसत्त्वा संवृत्ता। यावन्नवाना मासानामत्यात् प्रसूता। दारको जातः। सा संलक्षयति। प्रतिक्रुष्टमेतद् वैराणां यदुत सापत्नकम्। नियतमेनमपरा माता येन वा तेन वोपायेन घातयति। किं मम स्वामी करिष्यति। कि वा अहम्। कियन्तं च कालं रक्षितव्यः। सर्वार्थ अस्या एव दातव्य इति तया स्वामिना सह संप्रघार्य लब्धानुज्ञया सा प्रथमपत्नी उक्ता। भगिनि तवैवैष पुत्रा दत्तो मया। संवर्धय एनमिति। सा संलक्षयति। यस्याः पुत्रस्तस्या गृहम्। संवर्धयामि। गृहस्वामिनी भविष्यामीति। स तया संवर्धितः। पिता चास्य कालगतः। तयोर्गृहनिमित्तं विवादो जातः। एका कथयति। ममैषपुत्रो द्वितींया कथयति ममैषपुत्र इति। ते राज्ञः सकाशं गते। राज्ञा अमात्यानामाज्ञा दत्ता। गच्छत भवन्तो विचारयथेति। तेषां विचारयतां दिवसोऽतिक्रान्तो न निर्लोडितम्। चिरकाले गृहं गताः। विशाखा मृगारं पृच्छति। पूर्ववद्यावत्किमत्र ज्ञातव्यम्। ते वक्तव्ये न न वयं जानीमः कस्य पुत्र इति या युवयोर्बलवती सा गृहीत्वा गच्छतु। ते बाहुद्वयेन गृहीत्वा आकर्क्ष्यतः। स दुःख्यमानो रोदिष्यति। यास्य माता सा सानुनया प्रतिमोक्ष्यति। जीवन्तमपि तावदेनं द्रक्षामीति। सान्या निर्दया न प्रतिमोक्ष्यति। यदा कषाभिस्ताडिता भवति तदा यथाभूतं करिष्यति। इयमत्र परीक्षेति। मृगारेणामात्यानामेवं निवेदितम्। पूर्ववद्यावद्राजा कथयति। पण्डिता चाम्पेयिकेति।



अथापरेण समयेन मृगारो ग्लानिपतितः। तस्य वैद्य एकं दिवसं भैषज्यं ददाति पुनर्ग्लानो भवति। विशाखा संलक्षयति। किमर्थं तात एकस्मिन् दिवसे स्वस्थो भवति द्वितीये दिवसे पुनर्ग्लानो भवति। यैर्भैषज्यैः स्वस्थो भवति तानि निमित्तीकृतानि। ततस्तया वैद्यानां द्वारं धारयित्वा स्वयमेव चिकित्सा कृता। स्वस्थीभूतः। मृगारः। संलक्षयति। कोऽत्र योगो येनाहमेकस्मिन्दिवसे स्वस्थो भवाम्येकस्मि ग्लानः। यदा वैद्यो न प्रविशति तदा नित्यमेव स्वस्थ इति। तेन विशाखा पृष्टा। पूर्ववद्यावत् पण्डिता चाम्पेयिका।



राज्ञः प्रसेनजितः कोसलस्य श्रीवर्धनो नाम हस्तिविश्वासिकः। सोऽपरेण समयेन राज्ञा अवसादितः। विशाखया श्रुतम्। तया मृगार उक्तः। तात सर्वेषाममात्यानामन्त्यमवसादनम्। अर्हसि श्रीवर्धनस्य देवं क्षमयितुम्। स कथयति। पुत्रि क्षमयामि। ततस्तेन राजाभिहितः। देव श्रीवर्धनी देवस्य भक्तः। क्षम्यतामस्येति। राजा कथयति। क्षान्तम्। देव यदि क्षान्तं तान्यस्य वृत्तिपदानि दीयन्ताम्। एवं भवतु। दत्तानि श्रीवर्धनेन विज्ञातं यथा विशाखया मम राजा क्षमापित इति। स तस्याः प्रत्युपकारबुद्ध्यास्थितः। अपरेण समयेन मृगारस्य पुरुषव्याधिरुत्पन्नः। विशाखा अस्योपस्थानं करोति। स जिह्नेति। सा कथयति। तात किमर्थं जिह्नेषि। किं न दुहिता पितुरुपस्थानं करोति। तथाप्यसौ जिह्रेति। सा संलक्षयति। नायं ममान्तिकादुपस्थानं स्वीकरोति। दारसंग्रहमस्य करोमीति। सा श्रीवर्धनस्य गृहं गता। तेन स्वागतवादेन समुदाचरित्वा आसनं दत्तम्। निषण्णा श्रीवर्धनस्य दुहिता। सा तेनोक्ता। दारिके विशाखापादयोः गृहाणेति। विशाखा कथयति स्थानमेतद्विद्यते यन्मयैवैषा पादयोर्ग्रहीतव्या भवतीत्युक्त्वा कथयति। स्वस्ति सुते इति। श्रीवर्धनः कथयति। किं प्रार्थयसे। कन्याभिक्षाम्। कस्यार्थाय। सा कथयति। तातस्य। स तूष्णीमवस्थितः। श्रीवर्धनस्य पत्नी कथयति। वृद्धः। कथं तस्य दीयत इति। विशाखा कथयति। धनयौवने हि पुरुषाः। किं विचारेण दीयतामिति। श्रीवर्धनः कथयति। भद्रे अस्माकं विशाखोपकारिणी। दीयताम्। यद्येवं दत्ता भवतु। ततो मृगारेण महता श्रीसमुदयेन परिणीता। सा तस्योपस्थानं कर्तुं प्रवृत्ता। विशाखा न तथा।



मृगारः कथयति। पुत्रि वाचमनुप्रयच्छेति। सा कथयति। तात मा किञ्चित्परिहीयते। पुत्रि यस्त्वं मात्रा शिक्षिता तन्न किञ्चित्समादाय वर्तसे। तात सर्वं समादाय वर्ते। यत्कथयति सूर्याचन्द्रमसौ नमस्याविति। दारिकायाः सूर्यचन्द्रमसःस्थानीयौ श्वश्रूश्वशुरौ। तानहं नमस्यामि। यत् कथयति अग्निः परिवर्तव्य इति। स्त्रिया भर्ताग्निस्थानीयः। भर्तुरासन्नया भवितव्यम्। नाति दूरस्थया। साहं स्वामिनमग्निवत्परिचरामि। यत्कथयत्यादर्शो निर्मादयितव्य इति। तद्गृहमादर्शस्थानीयं निर्यमुपलेप्तव्यं संमार्ष्टव्यं च। तदहं गृहसंस्कारमनुदिवसं करोम्येव। यत्कथयति शुल्कानि वासांसि प्रावरितव्यानी। अन्यैर्वस्त्रैर्गृहपरिकर्म कर्तव्यम्। शुक्लानि वस्त्राणि प्रावृत्य देवशुश्रूषा कर्तव्या स्वामिसंस्कारं चोपसंक्रम्यमिति। एतदप्यहं करोम्येव। यत्कथयति ग्रहीतव्यं न दातव्यमिति। किं ग्रहीतव्यम्। लोकसकाशाद् दुरुक्तवचनानि। न च किञ्चिद्‍दुरुक्तं वचनीयम्। एतदप्यहं समादाय वर्ते। यत्कथयति वाणी रक्षितव्येति। गुह्यवचनं च प्रकटीकर्तव्यम्। तन्मे वाक्संयमोऽस्त्येव। यत्कथयति न कस्याचिदुत्थायासनं दातव्यमिति। एवं कथयति। त्वं कुलवधू त्वया प्रतिगुप्ते स्थाने निषेत्तव्यम्। साहं प्रतिगुप्त एव निषीदामि। यत्कथयति मृष्टं भोक्तव्यमिति। सुबुभुक्षितया भोक्तव्यमिति। साहं नित्यं गृहजने भुक्ते बुभुक्षिता च भुंजे। यत्कथयति सुखं शयितव्यमिति। सर्वं गृहकार्यं कृत्वा रात्रौ भाण्डं प्रतिशाम्य शय्या ते कल्पयितव्या यथा न पुनरुत्तिष्ठसि इसं सुनिहितमिदं दुर्न्निहितमिति। तदहमेवमेव करोमि। यत्कथयति निःश्रेणी बद्धव्येति। एवं कथयति। त्वं पूर्वकैर्दशभिः कर्मपथैः समन्वागता येन देवगतिं प्राप्य इह मनुष्यलोके उपपन्ना। तदियं कर्मभूमिः। इहापि त्वया दानानि दातव्यानि पुण्यानि कर्तव्यानि पापं न करणीयम्। एषापि पुण्यमयी निःश्रेणी स्वर्गसोपानभूतेति। एतदप्यहं शक्त्या संपादयामि। साधु साधु विशाखे। पण्डिता तव माता। त्वं तु पण्डिततरा यया मातुः सन्धाय भाषितं विज्ञातम्।



अथ मृगारस्यैतदभवत् यदि भगवाननुजानीयादहं विशाखां मातरं घोषयेयमिति विदित्वा येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमिदमवोचत्। लभ्यं भदन्त स्नुषां मातरं घोषयितुमिति। भगवानाह स चेत्पञ्चभिर्धर्मैः समन्वागतो भवति। कतमैः पञ्चभिः। ग्लानमुपतिष्ठति। प्रतिरूपेषु दारेषु प्रतिष्ठपयति। जीवितेनाच्छादयति। धनं रक्षति। प्रज्ञया च सम्बिधानं करोति।



अन्तरोद्दानम्।



ग्लानोपस्थानं दारा च जीवितस्य धनस्य च

प्रज्ञया उपसंहर्षीं पञ्चैता मातरः स्मृताः॥६॥



अथ मृगारो येन राजा प्रसेनजित्कोसलस्तेनोपसंक्रान्तः। उपसंक्रम्य राजानं प्रसेनजित्तं कोसलमिदमवोचत्। इच्छाम्यहं देव विशाखां मातरमुद्घोषयितुम्। राजा कथयति। ममाषि विशाखयोपस्थानं कृतमहमप्यार्यकां पृष्ट्वा तां भगिनीमुद्घोषयामि। तेनार्यका पृष्टा। सा कथयति। उद्घोषय मा वा। भगिन्येवासौ। कथं कृत्वा। पुरानु ब्रह्मदत्तोऽस्य प्रेष्यदारिकया सार्धं संवासं गतः। तस्याः पुत्रो जातः। तस्य बलमित्र इति नाम कृतम्। स वृद्धराजेन कस्मिंश्चिदेवाधिकरणे प्रवासितः। चम्पां गत्वावस्थितः। तस्यासौ दुहिता। तव भगिनी भवति। ततो राज्ञा हस्तिस्कन्धे आरोप्य अद्घोषिता। इयं विशाखा मृगारस्य (माता) महाराजस्य प्रसेनजितो भगिनीति। तया पूर्वारामे विहारं कारयित्वा चातुर्दिशाय भिक्षुसंघाय निर्यातितम्। तथा स्थविरैरपि सूत्रान्त उपनिबद्धम्। भगवान् श्रावस्त्यां विहरति मृगारमातुः प्रासाद इति।



अपरेण समयेन विशाखा द्वात्रिंशदण्डानि प्रसूता। मृगारः श्रुत्वा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः। जनपदकल्याणी कीदृशोऽनर्थः प्रादुर्भूत इति। मृगारस्तानि च्छोरयितुमारब्धः विशाखा कथयति। तात मा च्छोरय। भगवगस्तावदारोचयेति तेन भगवत आरोचितम्। भगवानाह। मा च्छोरयेति। तद्‍द्वात्रिंशत्पुटं कच्छपुटं कारयित्वा कुलस्योपरि एकैकमण्डं प्रत्येकं पुटेषु स्थापयेति। विशाखां च वद। त्रिष्कालं पाणिना परामृष। सप्तमे दिवसे स्फुटिष्यन्ति। द्वात्रिंशत्कुमारा भविष्यन्तीति। तेन तथा कृतम्। सप्तमे दिवसे स्फुटितानि। द्वात्रिंशत्कुमारा जाताः। उन्नीता बर्धिता महान्तः संवृत्ता व्याडविक्रान्ताः। अपरेण समयेन ते रथाभिरूढा बहिर्निर्गताः प्रविशन्ति। पुरोहितपुत्रश्च रथाभिरूढो निर्गच्छति। यावदन्योन्यधुरातुण्डोलग्नः। पुरोहितपुत्रः कथयति। अपनयतेति। तेऽपि कथयन्ति। त्वमेवापनयेति। पुरोहितपुत्रोऽहमिति परुषं वक्तुमारब्धः। ततो विशाखा पुत्रैः धुरातुण्डकेन गृहीत्वा क्षिप्तः। संकारकूटे पतितः। स भस्मावगुण्ठितशिराः पितुः सकाशं गतः। अश्रुपर्याकुलक्षणः कथयति। तात विशाखापुत्रैर्मम ईदृशी समवस्था कृतेति। पुत्र किमर्थम्। तेन विस्तरेण समाख्यातम्। स कथयति। पुत्र यद्येवं क्रमधात्यास्ते। मा शोकं कुरु। उपायसंविधानं करिष्यामि। स तेषां रन्धान्ध्रान्वेषणतत्परो व्यवस्थितः। अपरेण समयेन राज्ञः प्रसेनजितः कोसलस्य कार्वटिको विरुद्धः। तस्य राज्ञा एकं दण्डस्थानं प्रेषितम्। हतप्रहतमागतम्। एवं यावत्सप्तदण्डस्थानानि हतप्रत्याहतानि। राजा स्वयमेव चतुरङ्गेण बलकायेन निर्गच्छति। विशाखापुत्राश्व प्रविशन्ति। तैरसौ दृष्ट उक्तश्च। देवः संप्रस्थितः कार्वटिकां सन्नामयितुमिति। तिष्ठतु देव। वयं गच्छामः। एव कुरुथेति। तेन तेषां चतुरङ्गो बलकायो दत्तस्तैर्गत्वासौ कार्वटिकः सन्नामितः। वन्दिग्रहकरप्रत्यायांश्च गृहीत्वा आगताः। पुरोहितः कथयति। देत एते अतीव विक्रान्ताः। यद्देवस्य कृच्छसाध्यं तदेषामल्पसाध्यम्। देवेनैतच्चिन्तनीयमिति। काकशंकिनो हि राजानः। (तत्) हृदि कृत्वा व्यवस्थितः। पुनः पुरोहितं पृच्छति। कथमत्र प्रतिपत्तव्यम्। स कथयति। देव किमत्र प्रतिपत्तव्यमू यद्येषामभिरुचितं देवं राज्याच्च्यवयित्वा स्वयमेव राज्यं कारयन्ति। राजा सुतरां खिन्नं संलक्षयति। स्यादेवम्। कथं घातयितव्य इत्युपायसंविधानं चिन्तयति। न कंचित्पृच्छति। मा मन्त्रस्रावो भविष्यतीति स्वयमेवास्य विचारयतो बुद्धिरुत्पन्ना। इहैवोपनिमन्त्र्य घातयितव्या इति। तेन विशाखाया सन्दिष्टम्। भागिनेयैश्च इह भोक्तव्यमिति। सा संलक्षयति। श्वो दारका मातुलस्य सकाशे भोक्ष्यन्ते। अहमपि बुद्धप्रमुखं भिक्षुसंघं भोजयामीति विदित्वा येन भगवांस्तेनोपसंक्रान्ता। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णा। एकान्तनिषण्णां विशाखां मृगारमातरं भगवान्धर्म्यया कथया पूर्ववद्यावत्संप्रहर्ष्य तूष्णीं (भूतः)। अथ विशाखा मृगारमाता उत्थायासनाद्येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्। अधिवासयतु मे भगवान् पूर्ववद्यावत्पुरस्ताद् भिक्षुसंघस्य। प्रज्ञप्त एवासने निषण्णा। तेषां च राज्ञः सकाशाद् दूत आगतः दारका आगच्छन्त्विति। ततो राज्ञा हालाहलेन विषेण च सहयोगेन विह्वलीकृताः। शिरांसि छिन्नानि। ततः पेडां पूरयित्वा ज्येष्ठपुत्रस्य शिर उपरि दत्त्वा जतुमुद्रया लक्षयित्वा विशाखायाः प्रेषिताः। विशाखा संलक्षयति। नूनं देवेन भागिनेयानामाच्छादनं प्रेषितम्। अहमपि बुद्धप्रमुखं भिक्षुसंघमाच्छादयामीति। ततः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन पूर्ववद्यावद् भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं पेडामुद्धाटयितुमारब्धा। भगवान् संलक्षयति। सचेद्विशाखा अदृष्टसत्या पुत्रबधं द्रक्ष्यति स्थानमेतद्विद्यते यत्सत्यानामभाजनी भविष्यतीति विदित्वा विशाखामाह। निषीद तावद्धर्मं शृणु। पश्चाद्यथाभिप्रेतं करीष्यसीति। सा भगवतः पादाभिवन्दनं कृत्वा पुरस्तानिषण्णाधर्मश्रवणाय। ततो भगवता तस्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा पूर्ववद्यावत् सत्यदर्शनं कृतम्। ततो दृष्टसत्या सा पेडामुद्धिटित्वा पश्यति पुत्रशिरांसि। ततः कथयति। भगवन् एवमनित्याः सर्वसंस्कारा इति। तत्र भगवान्भिक्षूनामन्त्रयतेस्म। हं भो भिक्षवो राजा प्रसेनजित्कोसलो येन विशाखायाः पुत्राः प्रघातिताः। ते चेन्न प्रघातिताः स्युः। एभिरेव सहायैः कृत्स्ना तेन वसुमती करतले स्थापिता स्यादिति।



अथ राजा प्रसेनजित्कोसलो रजसावचूर्णितगात्रो येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः। एकान्तनिषण्णं राजानं प्रसेनजितं कोशलं भगवानिदमवोचत्। कुतस्त्वं महाराजैतर्ह्यागच्छसि रजसावचूर्णित गात्रः। यानि तानि भदन्त राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैर्श्वर्यस्था (म) वीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यावसतां पृथग्भवन्ति राजकृत्यानि राजकरणीयानि तान्यहं कृत्वा परिप्राप्य एतर्ह्यागच्छामि रजसावचूर्णिंतगात्रः। तेन हि महाराज त्वामेव प्रक्ष्यामि। यथा ते क्षमते तथैनं व्याकुरु। तद्यथा महाराज इह ते पूर्वस्यां दिशि पुरुष आगच्छेच्छ्रद्धितः प्रत्ययितः स्थेय अविसंवादितो लोकस्य। स एवं वदेत्। ततोऽहं तवैतर्ह्यागच्छामि पूर्वस्यां दिशि। सोऽहं तत्राप्राक्षम्। महाशैलं पर्वतमखण्डमछिद्रमसुषिरं सुसंवृत्तमेकघनं यावच्च पृथिवी यावच्च नभोऽत्रान्तरे सर्वान्सत्त्वान्सर्वान्प्राणिनः सर्वाणि भूतानि सर्वं च तृणकाष्ठशाखापर्णशदमभिनिष्पेषयन्नागच्छति। यत्ते देव कृत्यं वा करणीयं वा तत्कुरुष्वेति। एवं दक्षिणस्यां पश्चिमायामुतरस्यां दिशि पुरुष आगच्छेत्। पूर्ववद्यत्कृत्यं वा करणीयं वा तत्कुरुष्वेति। एवं भूपते महाराज महति महाभये प्रत्युपस्थिते दारुणे पुरुषसंक्षये दुर्लभेमनुष्यप्रतिलंभे किं स्यात् करणीयम्। एवं रूपे मे भदन्त महति महाभये प्रत्युपस्थिते दारुणे पुरुषसंक्षये दुर्लभे मनुष्यप्रतिलंभे किं स्यात्करणीयं नान्यत्रार्थचर्यायां धर्मचर्यायां पुण्यचर्यायां कुशलचर्यायां कल्याणचर्यायां बुद्धानां च शासने योगमापत्तुम्। कस्मात्त्वं महाराज एवं वदसि। एवं रूपे मे महति महाभये पूर्ववद्यावत्बुद्धानां शासने योगमापत्तुमिति। यानि तानि भदन्त राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश्वर्यस्थ (म) वीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यावसतां पृथग्भवन्ति हस्तिभिर्हस्ति युद्धान्यश्वैरश्वयुद्धानि रथै रथयुद्धानि पत्तिभिः पत्तियुद्धानि मन्त्रैर्मन्त्रयुद्धानि धनैर्धनयुद्धानि। तानि तेषां तस्मिन्समये अस्थामान्यबलान्यपराक्रमाणि युद्धाय। तस्मादहमेवं वदामि। एवं रूपे मे भदन्त महति महाभये प्रत्युपस्थिते पूर्ववद्यावद्‍बुद्धानां शासने योगमापत्तुमिति। एवमेव महाराज सततसमितमभिमर्दत एव प्राणिनो जरामरणम्। एवं जरामरणाभिमर्दनेन महाराज पुरुषपुद्गलेन किञ्चित्स्यात्करणीयं नान्यत्रार्थचर्यायाः पूर्ववद्यावद्बुद्धानां शासने योगमापत्तुमिति विदित्वा तस्यां वेलायां गाथां भाषते।
यथा महान्तो विपुला नभ आसाद्य पर्वताः।

महान्तादनुसंयान्ति निष्पीषन्तो वसुन्धराम्॥७॥



न तत्र हस्तिनां भूमिर्नपत्तिरथवाजिनाम्।

न चापि मन्त्रयुद्धेन जयो लभ्यो धनेन वा॥८॥



एवं जरा च मृत्युश्च मनुष्यानभिमर्दति।

क्षत्रियान् ब्राह्मणान्वैश्याञ्‍छूद्रांश्चण्डालपुक्कसान्॥९॥



दुःशीलाञ्‍छीलसंयुक्तान् गृहस्थान्गृहीणस्तथा।

दहरांश्चैव वृद्धांश्च यथा मध्यमपौरूषान्॥१०॥



विमर्दयति सर्वान् हि न किञ्चिदनुरक्षति।

तस्माद्धि पण्डितः पोषः संपश्यन्नर्थमात्मनः।

बुद्धे निवेशयेच्छ्रद्धां धर्मे संघे चाप्यनुत्तरे॥११॥



स धर्मचारी कायेन वाचा वाप्यथ चेतसा।

इह चानिन्दितो भवति प्रेत्य स्वर्गे व मोदते॥१२॥



अथ राजा प्रसेनजित्कोसलो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वोत्थायासनात्प्रक्रान्तः।



भिक्षवः संशयजाताः सर्वसंशयछेत्तारं बुद्धं भगवन्तं पप्रच्छुः। किं भदन्त विशाखया मृगारमात्रा कर्म कृतम्। यस्य कर्मणो विपाकेन द्वात्रिंशदण्डाः प्रसूताः। तेन द्वात्रिंशत्पुत्रा जाता व्याडा विक्रान्ताः संवृत्ता इति। भगवानाह प्रणिधानवशात्। कुत्र प्रणिधानं कृतम्।



भूतपूर्वं भिक्षवो वाराणस्यां नगर्यामन्यतमो गृहपतिः पुत्रः कालगतः। तस्य सा पत्नी नित्यं पुत्राभिनन्दिनी। यदा भगवान् काश्यपः सम्यक् संबुद्धः सकलं बुद्धकार्यं कृत्त्वा इन्धनक्षयादिवाग्निर्निरुपाधिशेषे निर्वाणधातौ परिनिर्वृत्तः। तस्मिंश्च समये वाराणस्यां कृकिर्नाम राजा बभूव। तेन भगवतः काश्यपस्य सम्यक्संबुद्धस्य चतूरत्नमयस्तूपः प्रतिष्ठापितः। तत्र या सा अपुत्रा युवतिः पुत्राभिनन्दिनी सा वृद्धा संवृत्ता। तस्मिन् स्तूपे परिकर्म कृत्वा तिष्ठति। तया छन्दकभिक्षण कृत्वा तस्मिन् स्तूपे पूजा कृता प्रणिधानं च। यन्मया भगवतः काश्यपस्य सम्यक् संबुद्धस्य (सत्) काराः कृताः। अनेन मम कुशलमूलेन बहवः पुत्रा भवेयुरिति कृत्वा प्रक्रान्ता नगरं प्रविष्टा तत्रान्यतरा स्त्री प्रसूयमाना दुःखवेदनाभ्याहता विरौति। तया अपरा पृष्टा। किमर्थमेषा विरौति। तया यथावृत्तमारोचितम्। सा संलक्षयति। यद्यहं प्रसूता भवेयमहमप्येवंविधं दुखमनुभवेयम् यावत् पुनरपि द्वात्रिंशता गोष्ठिकैस्तस्मिन्स्तूपे पूजा कृता। सा युवतिस्तत्र सन्निहितैव। पूजां कृत्वा प्रणिधानं कृतम्। अनेन वयं कुशलमूलेन महान्तोऽग्रबलिनः स्याम। ते तया पृष्टाः। पुत्राः किं युष्माभिः प्रणिधानं कृतम्। ते कथयन्ति अम्ब इदं चेदं च। सा कथयति। पुत्राः यद्येवमहमेव युष्माकं माता भवेयम्। ते कथयन्ति। अम्ब एवं भवत्विति। इत्युक्त्वा ते प्रक्रान्ताः। सा संलक्षयति। सा तावत्स्त्री एकवारं प्रसूयमाना दुःखवेदनाभ्याहता तथा विरौति अहं पुनर्द्वात्रिंशद्वारान् प्रसूयमाना कथं करिष्यामि इति। सा चैवं विकल्पयति। स्तूपसमीपे कुक्कुटी प्रसूता। सा मुहूर्तमात्रेण द्वात्रिंशदण्डानि प्रसूता न च विरौति। सा संलक्षयति। अयं शोभनप्रसवनोपाय इति विदित्वा तस्मिन् स्तूपे तीव्रेण प्रसानेन निपत्य प्रणिधानं कर्तुमारब्धा यथेयं कुक्कुटी मुहूर्तमात्रेण द्वात्रिंशदण्डानि प्रसूता एवमेव अहमपि सकृद द्वात्रिंशदण्डानि प्रसूयेयेति।



किं मन्यध्वे भिक्षवः। या सा वृद्धा युवतिरेषैव सा विशाखा। तेन कालेन तेन समयेन ये ते द्वात्रिंशद् गोष्ठिका एत एव ते द्वारिंशद् विशाखापुत्राः। यदनया तत्र प्रणिधानं कृतं तस्य कर्मणो विपाकेन द्वात्रिंशदण्डानि प्रसूतानि।



किं भदन्तं विशाखापुत्रैः कर्म कृतं यस्य कर्मणो विपाकेन अदुष्यनपकारिणो राज्ञा प्रसेनजिता प्रघातिताः। तेषां च शिरांसि पेडायां प्रक्षिप्य विशाखाया उपनामितानि। भगवानाह। एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि पूर्ववद्यावत् फलन्ति खलु देहिनाम्।



भूतपूर्वं भिक्षवोऽन्यतमस्मिन्कर्वटके शौण्डिकः प्रतिवसति। संबहुलाश्चौरा मद्यं पर्येषमाणाः तस्य सकाशमुपसंक्रान्ताः। अस्ति मद्यमिति। पृच्छन्ति। शौण्डिकपत्न्याभिहिता अस्तीति। तेषां मद्यं दत्तम्। अवद्रगो नास्ति। तया वृषो दर्शितः। एतं प्रघातयत। ते कथयन्ति। शस्त्रं नास्ति। तया बन्धकं गृहीतम्। शस्त्रं दत्तम्। ते तं प्रघातयितुमारब्धाः। सा हन्यमानश्चेतनां पुष्णाति। यदहं घात्ये तत्सर्वमनया शौण्डिकपत्न्या। तत्रोपपद्येऽहं यत्रैषां शिरांसि छित्त्वा पेडायां पूरयित्वा एतस्यां प्रेषयेयमिति।



किं मन्यध्वे भिक्षवः। योऽसौ वृष एष एवासौ राजा प्रसेनजित्कोसलः तेन कालेन तेन समयेन। ये ते चौरा एत एव ते विशाखापुत्राः। या सा शौण्डिक पत्नी एषैव सा विशाखा तेन कालेन तेन समयेन (इति) विस्तरः।



बुद्धो भगवन्राजगृहे विहरति वेणूवने कलन्दकनिवापे। तेन खलु समयेन पञ्चाभिज्ञस्य ऋषेराश्रमपदम्। तेन तस्मिन्पर्यटता आश्रमपदस्य नातिदूरे चिंखले भूप्रदेशे प्रस्रावः कृतः। दैवयोगात्तृषार्ता मृगी तं प्रदेशमनुप्राप्ता। तयासौ तृष्णार्तया पीतः स्त्रीन्द्रियं च घ्रातम्। अचिन्त्यः सत्त्वानां कर्मविपाकः। आपन्न सत्त्वा संवृत्ता। यावदपरेण समयेन तस्मिन्नेव प्रदेशे आगत्य प्रसूता। दारको जातः। सा तं घ्रात्वा विसभागसत्त्व इति चोरयित्वा प्रक्रान्ता। यावत्तेन ऋषिणा तदाश्रमं पर्यटता स दारको दृष्टः। स समन्वाहर्तुं प्रवृत्तः कस्यायं पुत्र इति। यावत्पश्यत्यात्मानम्। तेनासौ आश्रमपदं प्रवेशित‍आपायितः पोषितः संवर्धितः। तस्य मृगस्य यादृशं शिरं इति मृगशिरो मृगशिर इति संज्ञा संवृत्ता। अपरेण समयेन स ऋषिः कालगतः। मृगशिरसा कपालाकोटनी विद्या शिक्षिता। स कपालमाकोट्य सर्वं व्याकरोति। यदि तावत्खंखटस्वरो भवति ऊर्ध्वगामी भवति देवोपपत्तिं व्याकरोति। अथ मध्योभवति ऊर्ध्वगामी भवति मनुष्योपपत्तिं व्याकरोति। एतत्सुगतिनिमित्तम्। (अथ) दुर्गति निमित्तम्। यदि तावद्गद्गदस्वरो भवति अधोगामीभवति नरकोपपत्तिं व्याकरोति। अथ मध्यस्वरो भवति अधोगामी भवति तिर्यगुपपत्तिम्। अथ मृदुस्वरोऽधोगामी भवति प्रेतोपपत्तिम्।



ततो भगवता तस्य विनयकालं ज्ञात्वा आयुष्मानानन्द उक्तः। गच्छानन्द चत्वारि शिरांस्याधाय स्रोत आपन्नस्य सकृदागामिनोऽनागामिनोऽर्हतश्चेति। एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुतः। चत्वारि शिरांस्याधाय तस्य ऋषेः सकाशं गतः। व्याकुरुष्वेति। स स्रोत आपन्नस्येति कपालमाकोट्य कथयत्ययं देवेषुपपन्नः। सऱ्दागामिनोऽप्येवमेव। अनागामिनोऽप्येवमेव। अर्हतः कपालमाकोट्य विषयं न जानाति न विजानाति। तस्यैतदभवत्। भ्रष्टोऽस्मि तस्मादुपदेशतः किम्। अथवा न चार्यकुले प्रसूतः। किं वा निमित्तानि न तादृशानि येनास्य न जानामि तं हि प्रचारम्। आयुष्मानानन्दः कथयति। न सर्वविद्यासु कृतश्रमस्त्वं येनास्य जानासि तं हि प्रचारम् अधीष्व त्तावन्निखिलां विद्याम् लोकस्य पश्चाद्वयपदेक्ष्यसि त्वमिति। मृगशिराः कथयति। अस्ति कश्चित्त्वया सर्वविद्यासु कृतावी दृष्टः। स कथयति। अस्ति। तथागतोऽर्हत्सम्यक् संबुद्धः सर्वविद्यानां पारंगतः। अथ मृगशिरा येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवन्तमिदमवोचत्।



तिर्यक्प्रेतमनुष्यदेवनिरये जानासि जन्तोर्गतिम्

शिष्टं नोपलभे च सत्त्वचरितं विद्यापराधे सति।

आचक्ष्व त्रिभवार्णवस्य महतो विस्तीर्णपारं प्रभो

किं तत्सर्वपरप्रवादिविजय शिष्टं न विज्ञायते॥१३॥ इति॥



भगवानाह।



अयोघनहतस्यैव ज्वलतो जातवेदसः

अनुपूर्वोपशान्तस्य यथा न ज्ञायते गतिः।

तथा सम्यग् विमुक्तानां कामपङ्कौघतारिणाम्

प्रज्ञप्तं वा गतिर्नास्ति प्राप्तानामचलं पदम्॥१४॥ इति॥



एवमुक्ते मृगशिरा भगवन्तमिदमवोचत्। लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतोऽन्तिके ब्रह्मचर्यमिति। ततो भगवता प्रव्राजित उपसंपादितः। प्रव्राज्योपसंपाद्य यथाभिरम्यं राजगृहे बिहृत्य येन श्रावस्ती तेन चारिकां प्रक्रान्तः। अनुपूर्वेण चारिकां चरन् श्रावस्तीमनुप्राप्तः। श्रावस्त्यां विहरति पूर्वारामे मृगारमातुः प्रासादे। अभ्यवकाशे चंक्रम्यमाणेन नक्षत्राणि विपरीतानि दृष्टानि। दृष्ट्वा च पुनरायुष्मन्तं मृगशिर (स) मामन्त्रयते। समन्वाहर मृगशिरः कियच्चिरेण देवो वर्षिष्यतीति। स कथयति। नष्टोऽयं भदन्त लोकः प्रनष्टोऽयम्। यथा नक्षत्राणि व्यवस्थितानि द्वादशभिर्वर्षैः। भगवता नक्षत्राणि समान्यधिष्ठायोक्तः। पुनर्जानीष्वेति। स कथयति। षड्भिर्वर्षैरेवम्। भगवता पुनः पर्यनुयुक्तो ब्रवीति। पञ्चभिर्वर्षैः। एवं यावत्सप्रभिर्दिवसैरिति। तत्र भगवान् भिक्षूनामन्त्रयतेस्म। शयनासनं भिक्षवश्छन्ने गोपयत। अद्यैव शलभसंनिपातेन देवो वर्षिष्यति। तत्रये स्नास्यन्ति तेषामुत्पादगंडपिटकानि न भविष्यन्तीति। इति हि मृगशिरो नक्षत्राणि चपलानि चंचलान्यनवस्थायीनि। जीवितमपि चंचलमनवस्थितमित्येवमुक्तः। मृगशिरा भगवतोऽभिप्रसन्नः। तथाभिप्रसन्नेन चार्हत्वं साक्षात्कृतम्। ततो विमुक्तिप्रीतिसुख संवेदी गाथां भाषते।



गतिर्मृगाणां पवनमाकाशं पक्षिणां गतिः।

गतिर्विरागिणां धर्मो निर्वाणं गतिरर्हताम्॥१५॥ इति॥



अश्रषीद्विशाखा मृगारमाता भगवान् कोसलेषु जनपदेषु चारिकां चरन् श्रावस्तीमनुप्राप्तः श्रावस्त्यां विहरत्यस्माकमेवाराम इति। श्रुत्वा च पुनर्येन भगवांस्तेनोपसंक्रान्ता। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णा। एकान्ते निषण्णां विशाखां मृगारमातरं भगवान्धर्म्यया कथया सन्दर्शयति पूर्ववद्यावत् संप्रहर्ष्य तूष्णीम्। अथ विशाखा मृगारमाता उत्थायासनाद्येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्। अधिवासयतु मे भगवान् श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति। अधिवासयति। भगवान्पूर्ववद्यावदुदकमणिं प्रतिष्ठाप्य। भगवतः प्रेष्यदारिकया कालारोचिकया कालमारोचयति। यावदसौ प्रेष्यदारिका पूर्वारामं गत्वा पश्यति भिक्षून् कवाट विवरेण नग्नान्स्नायिनः। दृष्ट्वा च पुनः संलक्षयति। नूनमार्यकाः प्रक्रान्ताः। एभिः पुत्रमोटिका पुत्रैराजीविकैरयं विहारोऽवष्टब्ध इति। सा त्वरितत्वरितमागत्य कथयति। यत् खल्वार्ये जानीया आर्याः प्रक्रान्ताः। पुत्र मोटिकापुत्रैराजीवकैरसौ विहारोऽवष्टब्ध इति। विशाखा संलक्षयति। अस्थानमनवकाशो यद्भगवानधिवास्याभुक्त्वा प्रक्रमिष्यति। नूनमनया भिक्षवो विनग्ना दृष्टा‍इति। तयान्यः कालारोचकः पुरुषः प्रेषितः। समयो भदन्त सज्जं भक्तं यस्ये दानीं भगवान्कालं मन्यत इति पूर्ववद्यावद् भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रम्। वृद्धान्ते निषद्य भगवन्तमिदमवोचत्। इच्छाम्यहं भदन्त अष्टौ महादानानि प्रज्ञापयितुम्। आगन्तुके दानं गमिके दानं ग्लाने दानं ग्लानोपस्थायिके दानं ध्रुवं युवागुं ध्रुवं भैषज्यं भिक्षूणां वर्षाशाटीचीवरं भिक्षुणीनां चोदकशाटिकामिति। भगवानाह। किं पुनस्तद् विशाखे आनुशंसं समनुपभ्यन्ती आगन्तुके दानं ददासि। आगन्तुको भदन्द भिक्षुर्न गोचरकुशलो भवति न वीथीकुशलः। स मदीयं पिण्डपातं परिभुज्य गोचरकुशलो भविष्यति वीथी कुशलश्च। साधु साधु विशाखे गतमेतत्। किमर्थं समनुपश्यन्ती गमिकदानं ददासि। गमिको भदन्त भिक्षुः पिण्डपातं पर्येषमाणः सार्थात्परिभृश्यते। यूथपरिभ्रष्टो विहन्यते। स मदीयं पिण्डपातं परिभुज्य सार्थान्न परिभृश्यते। नापि यूथपरिभ्रष्टो विहन्यते। साधु शाधु विशाखे एतदपि गतम्। किमर्थवशं समनुपश्यन्ती ग्लाने दानं ददासि। ग्लानो भदन्त भिक्षुः पिण्डपातं पर्येषमाणः क्लामेद्वा कालं व कुर्यात्। स मदीयं पिण्डपातं परिभुज्य ग्लान्यादुत्थास्यति। सुखस्पर्शं विहरिष्यति। साधु साधु विशाखे एतदपि गतम्। किमर्थवशं समनुपश्थन्ती ग्लानोपस्थायिके दानं ददासि। ग्लानोपस्थायिको भदन्त भिक्षुरात्मार्थं पिण्डकं पर्येषमाणो ग्लानस्य कृत्यं हापयति। स मदीयं पिण्डपातं परिभुज्य संपादयिष्यति। साधु साधु विशाखे एतदपि गतम्। किमर्थवशं समनुपश्यन्ती संघे ध्रुवयवागुं ददासि। सन्ति भदन्त भगवतः श्रावका दीप्ताग्नयो मन्दाग्नयश्च। तत्र ये मन्दाग्नयस्तेषामग्निसंरक्षणं ये तु दीप्ताग्नयस्तेषां वलोपचयः। साधु साधु साधु विशाखे। एतदपि गतम्। किमर्थवशं समनुपश्यन्ती संघे ध्रुवमैषज्यं ददासि। सन्ति भदन्त भगवतः श्रावका बह्वाबाधाः (स्वल्पाबाधाश्च) तत्र ये बाह्वाबाधास्तेषां कृतमेव तावत्। ये त्वल्पाबाधास्ते परिमुज्य भूयस्या मात्रया सुखस्पर्शं विहरिष्यन्ति। साधु साधु विशाखे एतदपि गतम्। किमर्थवशं समनुपश्यन्ती भिक्षुणां वर्षाशाटी चीवरं ददासि। अद्यैव मया भदन्त प्रेष्यदारिका कालारोचिका प्रेषिता। तया भिक्षवो दृष्टा नग्नाः स्नातुम्। सा मे आगत्य कथयति। आर्यकाः प्रक्रान्ताः पुत्रमोटिका पुत्रैराजीविकैर्विहारोऽवष्टब्ध इति। ते मदीयेन वर्षाशाटीचीवरेण गुप्ताः स्नास्यन्ति। साधु साधु विशाखे एतदपि गतम्। किमर्थवशं समनुपश्यन्ती भिक्षुणीनामुदकशाटिकां ददासि। एकोऽयं भदन्त समयः संबहुलाश्च भिक्षुण्योऽजिरवत्यां नग्नाः स्नान्ति। ता गृहिण्यो विपुष्प्य विपुष्प्य भिक्षुणीनामङ्गुल्यग्रेण गुह्यस्थानान्युपदर्शयन्ति। ताः उपदर्श्यमानाः मुद्गुवो भवन्ति। मदीयया तु उदक शाटिकया ता गुप्ताः स्नास्यन्ति। साधु साधु विशाखे यानि त्वया अष्टौ पुण्यक्रियावस्तूनि समाख्यातानि संदृश्यन्ते एतानि। सप्तस्वौपधिके (षु) पुण्यक्रियावस्तुष्वन्तर्गतान्येतानि। सप्तस्वौपधिकेषु पुण्यक्रियावस्तुषु (नु) लभ्यं पुण्यस्य प्रमाणमुद्रहीतुमेतावत्पुण्यं वा पुण्यफलं वा पुण्यफलविपाकि वेति। अपितु बहुत्वात् पुण्यस्य महापुण्यः पुण्यस्कन्ध इति संख्यां गच्छति।



इदं चाहं भदन्त श्रोष्यामि। अमुको भिक्षुः स भगवता प्रतिपद्येव व्याकृतः। एषोऽपि भिक्षुस्त्रयाणां संयोजनानां प्रहाणात् स्रोत आपन्नो भवत्यविनिपातधर्मो नियतं संबोधिपरायणः सप्तकृत्वो भवपरमाः सप्तकृत्वो देवांश्च संघाय्य संसृत्य दुःखस्यान्तं करिस्यतीति। स कदाचित् श्रावस्तीमागमिष्यति पुनश्च गमिष्यति। स मदीयमागन्तुकभक्तं पूर्ववद्यावद्वर्षाशाटीचीवरं परिभोक्ष्यति। भिक्षुणी च यावदुदकशाटिकामिति। श्रुत्वा च पुनरधिगमिष्यामि प्रीतिप्रामोद्यमुदारं कुशलं नैष्क्रम्योपसंहितम्। अमुको भिक्षुः भगवता व्याकृतः। एष भिक्षुस्त्रयाणां संयोजनानां प्रहाणाद्रागद्वेषमोहानां च तनुत्वात्सकृदागामी भविष्यति। सकृदिमं लोकमागत्य दुःखस्यान्तं करिष्यतीति। सोऽपि कदाचित् श्रावस्तीमागमिष्यति। स मदीयमागन्तुकभक्तं पूर्ववद्यावत् वर्षाशाटूचीवरम् भिक्षुणी चोदकशाटिकामिति। श्रुत्वा च पुनरधिगमिष्यामि प्रीतिप्रामोद्यमुदारं कुशलं नैष्क्रम्योपसंहितम्। अमुको भिक्षुः स भगवता व्याकृतः। एष भिक्षूः पंचानामवरभागीयानां संयोजनानां प्रहाणादनागामि भविष्यत्यनागन्ता पुनरिमं लोकमिति। सोऽपि कदाचित् श्रावस्तीमागमिष्यति पुनश्च गमिष्यति। स मदीयमागन्तुकभक्तं पूर्ववद्यावद्वर्षाशाटीचीवरं भिक्षुणी चोदकशाटिकामिति। श्रुत्वा च पुनरधिगमिष्यामि प्रोतिप्रामोद्यमुदारं कुशलं नैष्क्रम्योपसंहितम्। अमुको भिक्षुः स भगवता व्याकृतः। एष भिक्षुः सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृत्वा निरुपधिशेषे निर्वाणधातौ प्रवेक्ष्यतीति। सोऽपि कदाचित् श्रावस्तीमागमिष्यति पुनश्च गमिष्यति। स मदीयमागन्तुकभक्तं पूर्ववद्यावद्वर्षाशाटीचीवरं भिक्षुणो चोदकशाटिकामिति। श्रुत्वा पुनरधिगमिष्यामि प्रीतिप्रमोद्यमुदारं कुशलं नैष्क्रम्योपसंहितम्। अथ भगवान् विशाखां मृगारमातरं धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात्प्रक्रान्तः।



अथ भगवान् यथाभिरम्यं श्रावस्त्यां विहरति। येन वैशाली तेन चारिकां प्रक्रान्तः। अनुपूर्वेण चारिकां चरन्वैशालीमनुप्राप्तः। वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायाम्। अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय वैशालीं पिण्डाय प्राविक्षत्। तेन खलु समयेन संबहुला भिक्षव आरामद्वारे अशुचिम्रक्षितानि शयनासनानि शोचयन्त्यातापयन्ति प्रविषजन्ति। अद्राक्षीद्भगवान् संबहुलान्भिक्षून् आरामद्वारे अशुचिम्रक्षितानि शयनासनानि शोचयत आतपयतः प्रविषजतः। दृष्ट्वा च पुनरस्यैतदभवत्। यदपि श्राद्धा ब्राह्मणगृहपतयः प्रपीड्य प्रपीड्यत्वङ्मांसशोणितं दानानि ददति पुण्यानि कुर्वन्ति तदपि भिक्षवो मात्रया प्रतिसंख्याय परिभुजन्त इति विदित्वा वैशालीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिशामय्य पादौ प्रक्षाल्य विहारं प्राविक्षत् प्रतिसंलयनाय। अथ भगवान् सायाह्ने प्रतिसंलयनाद् व्युत्थाय पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। निषद्य भगवान् भिक्षुनामन्त्रयते स्म। इहाहं भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरमादाय वैशालीं पिण्डाय प्राविक्षम्। अद्राक्षमहं भिक्षवः संबहुलान्भिक्षूनारामद्वारे अशुचिम्रक्षितानि शयनासनानि शोचयत आतपयतः प्रविषजतः। दृष्ट्वा च पुनर्मे एतदभवत्। यदपि श्राद्धा ब्राह्मणगृहपतयः प्रपीड्य प्रपीद्य त्वङ्मांसशोणितं दानानि ददति पुण्यानि कुर्वन्ति तदपि भिक्षवो मात्रया प्रतिसंख्याय परिभुञ्जते। साधु भिक्षवः श्रद्धादेयस्य मात्रा परिभोजितायाः काल (परि) भोजिताया वीचिपरिभोजितायाः संख्यापरिभोजिताया मितपरिभोजितायाः। अथ भगवाञ्छ्रद्धादेयस्य मात्रादिपरिभोजितानां वर्णं भाषित्वा भिक्षूणामन्त्रयते स्म। तस्मात्तर्हि भिक्षवो न विना प्रत्यास्तरणेन सांधिकं शयनासनं परिभोक्तव्यमशुचिम्रक्षितं शयनासनं च। तत्क्षणादेव शोचयितव्यमन्यथा सातिसारः।



अथ भगवान्पूर्वाह्णे निवास्य पात्रचीवरमादाय वैशालीं पिण्डाय प्राविक्षदायुष्मतानन्देन पश्चाच्छ्रमणेन। अद्राक्षीद् भगवानन्यतरं पुरुषं कालकपृष्ठम्। दूरादेव दृष्ट्वा च पुनराष्युमन्तमानन्दमामन्त्रयते। पश्यसि त्वमानन्द एतं पुरुषं कालकपृष्ठम्। एवं भदन्त। एष आनन्द पुरुषः काश्यपस्य सम्यक् संबुद्धस्य प्रवचने प्रव्रजित आसीत्। तत्रानेन सांधिकं शयनासनं कल्यप्रत्यास्तरणेन मलप्रत्यास्तरणेन पट्टिकां सुरुचिकां लोढकं कृत्वा परिभुक्तम्। तस्य कर्मणो विपाकेन पञ्चजन्मशतानि कालकपृष्ठो जातः। यावदेतर्ह्यपि कालकपृष्ठो जात इति। विदित्वा वैशालीं पिण्डाय चरित्वा पूर्ववद्यावत्प्रतिसंलयनाद् व्युत्थाय पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। निषद्य भगवान् भिक्षुनामांत्रयते स्म। अद्याहं भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरमादाय वैशालीं पिण्डाय प्रविष्टः। तत्राहमद्राक्षं पुरुषं कालकपृष्ठम्। स काश्यपस्य सम्यक् संबुद्धस्य प्रवचने भिक्षुरासीत्। तत्रानेन सांधिकं शयनासनं कल्पप्रत्यास्तरणेन पूर्ववद्यावत्पञ्च जन्मशतानि कालक पृष्ठो जातः। तस्मात्तर्हि भिक्षवोद्याग्रेण न भिक्षुणा कल्पप्रत्यास्तरणेन सांघिकं शयनासनं परिभोक्तव्यम्। परिभुंक्ते। सातिसारः। अपि तु द्वाभ्यां प्रत्यास्तरणाभ्यां परिभोक्तव्यं घनेन वा एकपुटेन। पैलोत्तिके न वा द्विपुटेन।



भीक्षवश्चित्रोपचित्राणि प्रत्यास्तरणानि धारयन्ति दीर्घदशानि। ब्राह्मणगृहपतयोऽवध्यायन्ति क्षिपन्ति विवाचयन्ति। भगवानाह। नीलं कर्दमं कषायं वा प्रत्यास्तरणम् शस्त्रलूनं कृत्वा धारयितव्यम्। अन्यथा सातिसारः।



(भिक्षवः कण्डूरो) गेण बाध्यन्ते। तस्य चीवरकाणि पूयशोणियोपलिप्तानि दुर्गन्धितानि माक्षिकाकीर्णानि। स पिण्डपातं प्रविष्टः। तं दृष्ट्वा ब्राह्मणगृहपतयोऽवध्यायन्ति क्षिपन्ति विवाचयन्ति। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। तस्मादनुजानामि। कण्डूप्रच्छादनं धारयितव्यम्। पञ्चभिः षड्भिर्वा दिवसैः शोचयितव्यम्। अन्यथा सातिसारः।



भिक्षवः कुष्ठरोगेण बाध्यन्ते। ते सांधिकानि शयनासनानि परिभुञ्जते। प्रासादेषु पुष्करिण्यां द्वारकोष्ठके परिषण्डायां चंक्रमेषु संस्थानवृक्षेषु तिष्ठन्ति। दुर्गन्धान मक्षिकाभिराकीर्णान् तान्दृष्ट्वा ब्राह्मणगृहपतयोऽवध्यायन्ति क्षिपन्ति विवाचयन्ति। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। कुष्ठरोगाभिभूतस्याहं भिक्षवो भिक्षोरासमुदाचारिकान्धर्मान्प्रज्ञापयिष्यामि। कुष्ठरोगाभिभूतेन भिक्षुणा सांधिकं शयनासनं लय नं च न परिभोक्तव्यम्। प्रासादादिषु यथापरिकीर्तितेषु स्थानेषु स्थातव्यम्। सांधिकी प्रस्रावकुटी वर्चःकुटीः च न प्रवेष्टव्या। प्रतिगुप्ते स्थाने संघेन तस्य वासो देवः। उपस्थानं च कर्तव्यम्। कुष्ठरोगाभिभूतो भिक्षुर्यथाप्रज्ञप्तानासमुदाचारिकान्धर्मान्न समादाय वर्तते संघो वा सातिसारो भवति।



आयुष्मानुदाली बुद्धं भगवन्तं पृच्छति। लभ्यं भदन्तं सुगतचीवरमतिरेकचीवरकल्पेन धारयितुम्। न लभ्यमुदालिन्। लभ्यं भदन्त कौशेयं चीवरं त्रिचीवराधीष्ठानेन अतिरेकचीवराधिष्ठानेन धारयितुम्। लभ्यमुदालिन् यथेष्ठतः। एवं पूर्णकं शाणकं लभ्यम्। उद्दानम्।



भाङ्गेयं केशचीवरं नाग्न्यं केशलुचनंपर्णशाटीम्।

अजिनं सान्तरोत्तरं तिरीटिमङ्गनीलकम्॥१६॥



श्रावस्त्यां षिदानम्। अथान्यतमो भिक्षुर्येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भग्वतः पादौ शिरसा वन्दित्वैकान्ते अस्थात्। एकान्तस्थितः स भिक्षुर्भगवन्तमिदमवोचत्। इच्छाम्यहं भदन्त भाङ्गेयं चीवरं धारयितुम्। भगवानाह। तीर्थिकध्वज एष मोहपुरुषः यदुत भाङ्गेय चीवरम्। तस्मान्न भिक्षुणा भाङ्गेयं चीवरं धारयितव्यम्। धारयति। सातिसारो भवति।



अपरो भिक्षुर्गत्वा भगवन्तमिदमवोचत्। इच्छाम्यहं भदन्त केशचीवरं धारयितुम्। भगवानाह। तीर्थिकध्वज एष मोहपुरुषः। पूर्ववद्यावत्सातिसारो भवति।



अपरो भिक्षुर्भगवन्तमिदमवोचत्। इच्छाम्यहं भदम्तं नाग्न्यं समादातुम्। भगवानाह। तीर्थिकध्वज एष मोहपुरुषः यदुत नाग्न्यम्। अपि तु त्रिचीवरं मयानुज्ञातं किमर्थं नाग्न्यं समाददासि। तस्मान्न भिक्षुण नाग्न्यं समादातव्यम्। समाददाति। आपद्यते स्थूलात्ययः। अथ स भिक्षुर्नाग्न्यमलभमानः शिक्षां प्रत्याख्याय हानायावृत्तः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः। पश्य भदन्तासौ भिक्षुर्नाग्न्यमलभमानः शिक्षां प्रत्याख्यात हानायावृत्तः। भगवानाह। न भिक्षव एतर्हि यथा अतीतेऽप्यध्वनि अह्रीक्यदोषाद् दारिकां न लब्धवांस्तच्छ्रूयताम्।



भूतपूर्वं भिक्षवो धृतराष्ट्रो नाम हंसराजो बभूव। तस्य दुहिता स्वयंवरावतीर्णा। श्रुत्वा नानादिग्देशनिवासिनः पक्षिणः सन्निपतिताः। एकैकः संलक्षयति मां वरयिष्यतीति। तया दारिकया मयूरो दृष्टः। सा कथयति। एष मम भर्तेति। तस्यापरैः समाख्यातम्। त्वमनया वृत इति। स कलापं पूर्वीकृत्य नर्तितुमारब्धः। स धृतराष्ट्रेण दृष्टः। कथयति। किमर्थमयं नृत्यतीति। अपरैः समाख्यातम्। तव दुहिता वृता इति। स कथयति। ह्रीव्यपत्राप्यवियुक्तोऽयं नाहमस्मै दुहितरं ददामीति। स श्रुत्वा मयूरो धृतराष्ट्रसकाशं गत्वा गाथां भाषते।



स्वरो मनोज्ञो रुचिरश्च वर्णो व्यामप्रमाणानि च वर्हकाणि।

ग्रीवा च वैदूर्यमणेः समाना ददासि कस्मान्न भवान् सुतां मे॥१७॥



धृतराष्ट्रः प्राह।

स्वरो मनोज्ञो रुचिरश्च वर्णो व्यामप्रमाणानि च वर्हकाणि।

ग्रीवा च वैदूर्यमणेः समाना अह्रीक्यदोषात्तु न ते ददामि॥१८॥ इति॥



किं मन्यधे भिक्षवः। योऽसौ मयूरः एष एवासौ भिक्षुस्तेन कालेन तेन समयेन। तदाप्येष अह्रीक्यदोषाद् दारिकामलभमानो दुःखी दुर्मना पक्षिगणमध्यादवक्रान्तः। एतर्ह्यप्यसौ नाग्न्यमलभमानो दुःखी दुर्मना भिक्षुसंघमध्यात्प्रक्रान्तः।



अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्। इच्छाम्यहं भदन्त केशान् लुंचितुम्। भगवानाह। मुण्डनं मया समनुज्ञातम्। कस्मात्त्वं केशान् लुंचसि। तीर्थिकधृत एष मोहपुरुषः यदुत केशलुंचनम्। तस्मान्न हि भिक्षुणा केशा लुंचितव्याः। लुंचति। सतिसारो भवति।



अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्। इच्छाम्यहं भदन्त पर्णशाटिकां धारयितुम्। भगवानाह। तीर्थिकधृतमेतन्मोहपुरुषः। पूर्ववद्यावत्सारिसारो भवति।



अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्। इच्छाम्यहं भदन्त अजिनं धारयितुम्। भगवानाह। तीर्थिकध्वजमेतन्मोहपुरुषः यदुत अजिनम्। धारयति पूर्ववद्यावत्सातिसारो भवति।



अपरोऽपि भिर्क्षुर्भगवन्तमिदमवोचत्। इच्छाम्यहं भदन्त सान्तरोत्तरेण चीवरेण यापयितुम्। त्रिचीवरं मया मोहपुरुष समनुज्ञातम्। कस्मात्त्वं सान्तरोत्तरेण यापयसि। तस्मान्न भिक्षुणा सान्तरोत्तरेण चीवरेण यापयितव्यम्। यापयति। सातिसारो भवति।



अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्। इच्छाम्यहं भदन्त तिरीटीं धारयितुम्। तिरीटि इति वल्कलः। भगवानाह। तीर्थिकध्वज एष पूर्ववद्यावत् सातिसारो भवति।



अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्। इच्छाम्यहं भदन्त अंगनाडिकां धारयितुम्। भगवानाह। आगारिकधर्मस्तर्ह्येषाहो मोहपुरुष यदुताङ्गनाडि (का)। पूर्ववद्यावत्सातिसारो भवति।



अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्। इच्छाम्यहं भदन्त सर्वनीलं चीवरं धारयितुम्। भगवानाह। आगारिका ह्येनं धारयन्ति तस्मान्न भिक्षुणा सर्वनीलं चीवरं धारयितव्यम्। पूर्ववद्यावत् सातिसारो भवति। एवं सर्वपीतं सर्वलोहितमवदातं न कल्पयत्येव।



उद्दानम्।



दीर्घदशं छन्नदशं कम्बुकोष्णीषवेष्टनम्।

कूतपमुष्ट्रकम्बलं प्लीहकानन्दः सान्तरोत्तरम्॥१९॥



अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्। इच्छाम्यहं भदन्त दीर्घदशं चीवरं धारयितुम्। भगवानाह। तीर्थिकध्वजः पूर्ववद्यावत् सातिसारो भवति।



अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्। इच्छाम्यहं भदन्त छन्नदशं चीवरं धारयितुम्। भगवानाह। तीर्थिकध्वज एष मोहपुरुष पूर्ववद्यावत् सारिसारो भवति।



अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्। इच्छाम्यहं कम्बुकं धारयितुम्। भगवानाह। आगारिकध्वज एष मोहपुरुसः पूर्ववद्यावत् सातिसारो भवति।



अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्। इच्छाम्यहं भदन्त उष्णीषं धारयितुम्। भगवानाह। आगारिकध्वज एष मोहपुरुषः पूर्ववद्यावत् सातिसारि भवति।



अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्। इच्छाम्यहं भदन्त शिरोवेष्टनं धारयितुम्। भगवानाह। आगारिकध्वज एष मोहपुरुषः पूर्ववद्यावत् सातिसारो भवति।



अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्। इच्छाम्यहं भदन्त कुतपं धारयितुम्। भगवानाह। आगारिकध्वज एषः पूर्ववत् सारिसारो भवति।



अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्। इच्छाम्यहं भदन्त उष्ट्रकम्बलं धारयितुम्। भगवानाह। आगारिकध्वज एषः पूर्ववद्यावत् सातिसारो भवति।



आयुष्मान् प्लीहकानन्दः अन्यतमस्मिन्नभिक्षुके आवासे अकवाटके वर्षा उपगतः। तस्य बहिर्निगतस्य संघाट्युपहृता। एतद्यावद्भगवानाह। न भिक्षुणा अभिक्षुके आवासे अकवाटके वर्षा उपगन्तव्यम्। न च विना संघाट्या क्कचिद् गन्तव्या। गच्छति। सातिसारो भवति।



आयुष्मान् प्लीहकानन्दो ग्लानः। तस्यायुष्मानानन्दो ग्लानोपस्थायकः। देवश्च वर्षितुमारब्धः। स नोत्सहते संघाटीं प्रावृत्य गन्तुम्। भगवानाह। सान्तरोत्तरेण गन्तव्यम्।



अपि तु संघाट्या पंचोपनिक्षेपणकल्पा। सभिक्षुक आवासः सकवाटः। देवो वर्षति। वर्षाशङ्के च। नदीपारं वा गन्तुकामो भवति। आस्तीर्णः कठिन आवासो भवति। संघेन सम्मतिर्दत्ता भवति।



अन्तरोद्दानम्।



वार्षिक-श्रमणोद्देशा उत्पादेनापि च द्वयम्।

कुलोपकाश्च कौकृत्यं संघलाभेन तस्य तत्॥२०॥



उक्तं भगवता भिक्षूणां चीवरपातो देय इति। भिक्षवः संघप्रवारित एव जनपदे चारिकां प्रक्रामन्ति। तेषां न कश्चिल्लाभं गृह्णाति। भगवानाह। भिक्षुमवलोकयित्वा गन्तव्यं योऽस्य लाभं गृह्णाति। अपरेऽपि भिक्षव अनवलोकिता एवं गृह्णन्ति। भिक्षूणां परस्परं विरोधो भवति। भगवानाह। न भिक्षुणा अनवलोकितेन लाभो ग्रहीतव्यः। गृह्णाति। सातिसारो भवति। अपरेऽपि भिक्षवः अवलोकिता अपि प्रतिज्ञाय न गृह्णन्ति। भगवानाह। ते सर्वं दाप्याः। श्रामणेराणां प्रक्रान्तानां न कश्चिल्लाभं गृह्णाति। भगवानाह। तेषामाचार्योपाध्यायैर्ग्रहीतव्यम्। भिक्षवः कुलाभं भाजयन्ति। विप्रकान्तानां नानुप्रयच्छन्ति कुलाभ इति कृत्वा। भगवानाह। येऽवलोकितास्तैर्ग्रहीतव्यम्। अपरेऽनवलोक्यैव गताः। तेषां न कश्चित् गृह्णाति। भिक्षवः कौकृत्येन न गृह्णन्ति। भगवानाह। म्रहीतव्यम्। नात्र कौकृत्यं करणीयम्। अपरं नैव शक्यते भाजयितुमल्पं कृत्वा। भगवानाह। अन्येन मिश्रीकृत्य विहारस्थैर्भाजयितव्यम्। नात्र कौकृत्यं करणीयम्। कुलाभमवलोकितो न गृह्णाति। पञ्च पणानुपादाय स्फुटं दापयितव्यम्।



अन्यतमस्मिन् कर्वटके गृहपतिः। तेन विहारः कारितः। तत्र यदि भिक्षुशतं प्रतिवसति पटकशतं ददाति। एवं यावदेकोऽपि भिक्षुः प्रतिवसति पटकशतमेव ददाति। यावदपरेण समयेन तस्मिन्नेव विहारे द्वौ महल्लौ वर्षोषितौ। तेन गृहपतिना पटकशतं प्रेषितम्। तो गृहीत्वा परस्परं विचारयतः। एकः कथयति संघस्यायं लाभः प्रतिपद्यत इति। द्वितीयः कथयति अस्माकमेव प्रापद्यत इति। यद्येव गृहाण। स कथयति। मा परस्परविरोधः स्यात्। यावदेकेनापि न गृहीतम्। तौ पुनर्विचारयतः। कथमत्र प्रतिपत्तव्यम्। एकः कथयति। भिक्षवः आहूयन्ताम्। तैः सह भाजयिष्यामः। द्वितीयः कथयति। एवं भवतु। को गच्छतु। यो नवकः। को वस्त्राणि गोपायति। यो नवकः। न शक्यमेवम् यो नवकः स गच्छतु यो वृद्धः स वस्त्राणि गोपायतु। एवं भवतु। नवकः श्रावस्तीं गतो भिक्षुणामानयनाय। आचरितं षड्वर्गिकाणाम्। अशून्यं जेतवनद्वारमन्यतमान्यतमेन षड्वर्गिकेण। उपनन्दो जेतवनद्वारे तिष्ठति। तेनासौ दूरत एव दृष्टो बकाकारशिराः प्रलम्बभ्रूः। स संलक्षयति। कोऽप्ययं स्थविरो भिक्षुरागच्छति। प्रत्युद्गच्छामीति। स प्रत्युदगतः। स्वागतं स्वागतं स्थविर। वन्दे आचार्य। स संलक्षयति। नायमाचार्यं जानीते नाप्युपाध्यायम्। महल्लोऽयमिति विदित्वा कथयति। सालोहित कुतस्त्वमागच्छसि। अमुकस्मात्कर्वटकात्। किं तत्र विहारः। विहारः। किमसौ विहार आहोस्विद्विघातः। तेन यथावृत्तं विस्तरेण समाख्यातम्। त्वं किमर्थमागतः। भोजनाय भिक्षून्नयामि। यद्येवमहमेव युष्माकमनुकम्पार्थं गच्छामि। आचार्य शोभनम्। उपनन्दः संलक्षयति। यद्ययं मत्सकाशादन्यत्र गमिष्यति महाजनप्रतिसंविदितं करिष्यति। सुरक्षितः कर्तव्य इति। स तेन प्रतिशामितः। अकालपानको दत्तः। कथासंलापेन तावद्विधारितो यावद्विकालीभूतम्। शय्या शोभना प्रज्ञप्ता। पादशौचं पादम्रक्षणं च दत्तम्। तावच्चावस्थितो यावन्मिद्धमवक्रान्तम्। तत उपनन्देन सा रात्रिः कृच्छ्रेणातिनामिता। मा मन्त्रस्रावः स्यादिति। ततः स रात्रमेवोत्थाय सालोहितमादाय त्वरितत्वरितं संप्रस्थितः। अनुपूर्वेण कर्वटकमनुप्राप्तः। ततस्तेन द्वितीयेन सालोहितेन विहारस्थेन स्वागतवादसमुदाचारेण समुदाचर्य विश्रामितः। अथ त्रयोऽपि जना एकस्मिन् स्थाने निषण्णाः। उपनन्दः कथयति। भाजयामो लाभं स्थविराः। भाजयामः। उपनन्देनैको महल्ल उक्तः। सालोहित त्वं भाजय। स्थविर नाहं भाजयामि। किमर्थम्। मा मे प्रत्यवायः स्यात्। द्वितीयोऽप्युक्तः। सालोहित त्वं भाजय। सोऽप्येवमेव कथयति। उपनन्दः कथयति। युवां प्रत्यवायभीरुकौ किमिच्छथः। उपनन्द ऊर्ध्वपादोवाङ्मुखे नरकं गमिष्यतीति। उपनन्दः संलक्षयति। सालोहितावेतौ महल्लौ भेत्तव्याविति। ततस्तयोर्ध्रुवप्रचारं कल्पकारं पृष्ट्वा एकस्य सकाशमुपसंक्रम्य पृच्छति। सालोहित त्वयात्र किं कृतम्। स्थविर नित्यं मया विहारः सिक्तः संमृष्टः सुकुमारी गोमयकार्षी दत्तेति। सालोहित यदि सेचनेन संमार्जनेन वा लाभो लभ्येत उपनन्दः सर्वविहारान्सिञ्चेत् संमार्जयेच्च। अपि तु योऽत्र लाभः संपन्नः स तस्यान्यस्य सालोहितस्यानुभावात्। सोऽस्मिन्विहारे कालानुकालं धर्मश्रवणं ददाति। धर्मश्रवणार्थिन्यो देवता औत्सुक्यमापन्नाः। येऽत्र लाभसम्पन्नाः। ततस्तस्यानुभा (वा) दयं लाभः सम्पन्नः। यमसौ ददाति (सः) ग्रहीतव्यो नो तु विचारयितव्यः। स तेनाभ्याहत इति प्रतिभिन्नस्तूष्णीमवस्थितः। ततो द्वितीयस्य सकाशमुपसंक्रम्य कथयति। सालोहित त्वयात्र किं कृतम्। स्थविर मयात्र कालानुकालं धर्मश्रवणं दत्तम्। सालोहित यदि धर्मश्रवणेन लाभो लभ्येत उपनन्दस्तिष्ठन् गच्छन्निषण्णो निपन्नः सर्वकालं धर्मं देशयेत्। यः कश्चिदयं लाभः सम्पन्नः सर्वोऽसौ तस्यान्यस्य सालोहितस्यामुभावात्। तेनायं विहारो नित्यकालं सिक्तः संमृष्टः सुकुमारी गोमयकार्षीतु प्रदत्ता। उक्तं भदन्त भगवता पञ्चानुशंसाः संमार्जने। कतमे पञ्च। आत्मनश्चित्तं प्रसीदति। परस्य चित्तं प्रसीदति। देवता आत्तमनसो भवन्ति। प्रासादिकसंवर्तनीयं कुशलमूलमुपचिनोति। कायस्य भेदात् सुगतौ स्वर्गलोके देवषुपपद्यत इति। तदत्र विहारे संमार्जनेन दानपतयोऽभिप्रसन्नाः। देवता चात्तमनसः संवृत्ताः। तेनात्र लाभसंपन्नाः। अतस्तस्यानुभावादयं लाभः सम्पन्नः। यमसौ ददाति स ग्रहीतव्यो नो तु विचारयितव्य इति। सोऽप्यभ्याहतः प्रतिभिन्नस्तूष्णीमवस्थितः। तौ निष्प्रतिभातौ कृत्वा कथयति। सालोहितावस्त्यन्य उपायः। ज्ञप्तिं कृत्वा भाजयामः। ज्ञप्तिकर्माकोप्यमुक्तं भगवतेति। तौ पूर्वमेवाभ्याहतौ कथयतः। स्थविर यथेच्छसि तथा कुरुष्वेति। तत उपनन्देन त्रयो भागाः कृताः। द्वयोर्भागयोर्मध्ये स्वयं निषण्णः तयोर्द्वयोर्मध्ये एकं भागं स्थापयित्वा ज्ञप्तिं कर्तुमारब्धः। शृणुतं युवां सालोहितो द्वो। अयमेकः। इमौ द्वौ। अहमेक एव तत्त्रयमित्येषा। ज्ञप्तिः। ततु द्वौ भागावात्मना गृहीत्वा तयोरेको दत्तः। (तौ कथयतः) स्थविर स एवास्माकं कलिः संवृत्तः। त्वमेवास्माकं भाजय। स भाजयितुमारब्धः। तत्राप्येकः पटकोऽतिरिक्तः। तमप्यादाय पटकानां भारं बद्ध्वा संप्रस्थितः। ततोऽनुपूर्वेण श्रावस्तीमनुप्राप्तः। भिक्षुभिर्दृष्ट उक्तश्च। भदन्तोपनन्द कस्त्वया पश्चाच्छिराशयनो दृष्टः। तेन यथावृत्तं विस्तरेण समाख्यातम्। ते कथयन्ति। कल्पते तवैवं कर्तुम्। अमित्राणां पादं गले दत्त्वा एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवान् संलक्षयति। यः कश्चिदादीनवो भिक्षवः परकीये लाभे सन्निपतति। तस्मान्न भिक्षुणा परकीये लाभे सन्निपतितव्यम्। सन्निपतति। सातिसारो भवति। भिक्षवः संशयजाताः सर्वसंशयच्छेतारं बुद्धं भगवन्तं पृच्छन्ति। पश्य भदन्त आयुष्मता उपनन्देन तन्महल्लद्वयं धर्ममुखिकया व्यंसितम्। भगवानाह। न भिक्षव एतर्हि यथा अतीतेऽप्यध्वन्यनेन महल्लद्वयं व्यंसितम्। तच्छ्रूयताम्।



भूतपूर्वं भिक्षवोऽन्यतमस्मिन्नदीतीरे उद्रद्वयं प्रतिवसति। तद्यद जलेन गच्छति तदा मत्स्याः स्थलमभिरुहन्ति। यदा तु स्थलेन गच्छति तदा मत्स्याः जले निपतन्ति। न किञ्चिदघं साधयन्ति। ततस्तैः सामीचिः कृताः। एकोऽस्माकं जलेन गच्छतु द्वितीयः स्थलेन। यत्संपद्यते तदस्मात् सामान्यमिति। तत्रैको जलेन संप्रस्थितो द्वितीयः स्थलेन। तत्र ये जलस्थेन मत्स्याः संत्रासिताः स्थलमभिरोहन्ति। तान्स्थलस्थः प्रघातयति जलस्थाञ्जलस्थ एव। यावन्मत्स्यानां महानुराशिः संवृत्तः। एकः कथयति। त्वं भाजय। द्वितीयः कथयति। नाहं भाजयामि। किमर्थम्। मा मे प्रत्यवायः स्यात् सोऽपि कथयति। यद्यप्येवं ममाप्येव एष दोषः। तौ चिन्तापरौ व्यवस्थितौ। यावत् पूर्णमुखो नाम शृगालस्तयोः सकाशमुपसंक्रान्तः। स कथयतो। भागिनेयौ किं चिन्तापरौ तिष्ठतः। मातुल अस्माकं मत्स्याः सम्पन्नाः। किं न भाजयथः। मातुल प्रत्यवायभयात्। युवां प्रत्यवायभीरुकौ किमिच्छथः। पूर्णमुख उर्ध्वपादोऽवाङ्मुखो नरकं पतिष्यतीति। पूर्णमुखः संलक्षयति। सहितावेतौ भेत्तव्यावेति। ततस्तयोर्ध्रुवप्रचारकल्पकारं दृष्ट्वा एकस्य सकाशमुपसंक्रम्य पृच्छति। भागिनेय त्वयात्र किं कृतम्। मातुल अहं जलेन गतः। ये मया जलेन गच्छता मत्स्याः सन्त्रासिताः स्थलमभिरूढाः ते अनेन प्रघातिताः भागिनेय यदि जलगमनेन किञ्चित्सम्पद्येत पूर्णमुखो नित्यं जलेन यायात्। तस्य स्थलेन गच्छता स्थाणुभयं कण्टकभयं श्वापदभयं कूलपातभयम्। अपितुं यद्यसौ न प्रतिघातयति किं त्वं त्रासयित्वा करोषि। सर्वथा येऽत्र मत्स्याः सम्पन्नास्ते तस्यानु भावान्न तव। यदसौ ददाति स ग्रहीतव्यो नो तु विचारयितव्यः। स तेनाभ्याहतः। प्रतिभिन्नस्तूष्णीमवस्थितः। ततो द्वितीयस्य सकाशमुपसंक्रम्य कथयति। भागिनेय त्वयात्र किं कृतम्। मातुलोऽहं स्थलेन गतो मया स्थलमभिरूढा मत्स्याः प्रतिघातिताः। भागिनेय यदि स्थलगमनेन किञ्चिल्लभ्येत पूर्णमुखो नित्यमेव स्थलेन यायात्। तस्य जलेन गच्छता ऊर्मिभयं कूर्मभयं शिशुमारभयं कुम्भीरभयं जालभयम्। अपि तु यद्यसौ न सन्त्रासयति कथं त्वं प्रघातयसि। सर्वथा ये तु मत्स्याः सम्पन्नास्ते तस्यानुभावात्। यदसौ ददाति स ग्रहीतव्यो नो तु विचारयितव्यः। स तेनाभ्याहतः प्रतिभिन्नस्तूष्णीमवस्थितः। पूर्णमुखः कथयति। भागिनेय अस्त्यन्य उपाय। गाथाभिगीतेन तान् भाजयामः। अकोप्यं भविष्यति। तौ पूर्वमेवाभ्याहतौ कथयतः। मातुल यथेच्छसि तथा कुरु। पूर्णमुखेन त्रयो भागाः कृताः। पृच्छानामेकोमत्स्यराशिः (शिरसां) द्वितीयो मध्यमखण्डानां तृतीय इति। गाथां च भाषते।



स्थलचारिणो हि लाङ्गूलं शिरो गम्भीरचारिणः।

यस्तु मध्यमको गण्डः धर्मस्थस्तं हरिष्यति॥२१॥ इति॥



पूर्णमुखः संलक्षयति। व्यंसितावेतौ। संपन्नौ मे लाभः। स महतो रोहितस्य मत्यस्य मध्यगण्डमादाय पितुः सकाशमुपसंक्रान्तः। ततोऽस्य माता परितुष्टा गाथाभिगीतेन परिपृच्छति।



कुतस्त्वं पूर्णिक एषि कुत एषि सुपूर्णिक।

सशिरस्कमलाङ्गूलं मत्स्यमादाय रोहितम्॥२२॥ इति॥



स कथयति।

विवदन्ते येन मूढा घर्मा(ध)र्मेष्वकोविदाः।

अल्पेच्छास्तेन जीवन्ति राजकोषश्च वर्धते॥२३॥ इति॥



सापि पुनर्गाथां भाषते।

साधु ते सुपराक्रान्तं पूर्णिक प्रियदर्शन।

त्वं च लाभेन संयुक्तस्तौ चापि परितोषितौ॥२४॥ इति॥



किं मन्यध्वे भिक्षवः। योऽसौ पूर्णमुखः शृगालः एष एवासौ उपनन्दः। तेन कालेन तेन समयेन यौ तावुद्रावेतौ तौ महल्लौ। तदाप्यनेन तौ व्यंसितावेतर्ह्यपीति।



श्रावस्त्यां निदानम्। अन्यतमस्मिन्कर्वटके (गृहपतिः)। तेन विहारः कारितः। तत्र भिक्षुशतं वर्षा उपगतम्। तस्य गृहपतेर्बुद्धिरुत्पन्ना पटकशतं समुदानयामि। भिक्षुसंघं भोजयित्वा प्रत्येकमेकैकं भिक्षुं पटेनाच्छादायिष्यामीति। यावदुपनन्देन श्रुतम्। अमुको गृहपतिर्भिक्षुसंघं भोजयित्वा प्रत्येकमेकैकं भिक्षुं पटेनाच्छादयिष्यतीति। श्रुत्वा च पुनः संलक्षयति। न भवाम्युपनन्दो यदि तस्मात्पटकं न निष्पादयामीति। सोऽनिमन्त्रित एव गतः। गृहपतिर्भिक्षुसंघं भोजयित्वा चारयति। उपनन्दः कटकः गृहीत्वालघुलध्वेव प्रक्रान्तः। यावदेकस्य भिक्षो पटको नास्ति। गृहपतिः कथयत्यार्य पटकशतं मया सुगणितमानीतम्। मा केनचिदार्येण पटद्वयं गृहीतं भवेदिति। भिक्षवः कथयन्ति। गृहपते कोऽसावेवं करिष्यति। अपि तु भदन्तोपनन्दस्त्वयोपनिमन्त्रितः। आर्य नाहमुपनिमन्त्रयामि। स तं पटकमादाय प्रक्रान्तः। ततोऽसौ गृहपतिरवध्यायितुमारब्धः। एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। यः कश्चिदादीनवो भिक्षवोऽनिमन्त्रिताः परकीये लाभे सन्निपतन्ति। तस्मान्न भिक्षुणाऽनिमन्त्रितेन परकीये लाभे संनिपतितव्यम्। संनिपतति। सातिसारो भवति।



भिक्षवः संशयजाताः। सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः। पश्य भदन्त आयुष्मानुपनन्दोऽनिमन्त्रित एव परकीये लाभे संनिपतित इति। भगवानाह। न भिक्षव एतर्हि। यथा अतीतेऽप्यध्वन्युपनन्दोऽनिमन्त्रितः परकीये लाभे संनिपतितः। तच्छ्रूयताम्।



भूतपूर्वं भिक्षवोऽन्यतमस्मिन्कर्वटके ब्राह्मणः पर्षन्महत्तरः। तेन माणवशतं त्रैमासीमुपनिमन्त्र्य माणवशतं भोजितम्। तस्य बुद्धिरुत्पन्ना प्रत्येकमेकैक्कं माणवकं पटेनाच्छादयिष्यामीति। तस्य नातुदूरे वृद्धो ब्राह्यणः प्रतिवसति। तेन श्रुतम्। स प्रथमतरं वृद्धान्ते भुक्त्वा पटमादाय प्रक्रान्तः। गृहपतिना पटकाश्छोरिताः। यावदेकस्य माणवकस्य पटो नास्ति। स पृच्छति। भवन्तो मया पटकशतं सुगणितमानितम्। मा केनचिन्माणवकेन पटकद्वयं गृहीतं भवेदिति। ते कथयन्ति। क एवं करिष्यति। अपि तु त्वया वृद्धो ब्राह्मण उपनिमन्त्रितः। नाहमुपनिमन्त्रयामि। स तं पटकमादाय प्रथमतरं प्रक्रान्तः। स ब्राह्मणोऽवध्या (यि) तुमारब्धः।



किं मन्यध्वे भिक्षवः। योऽसौ ब्राह्मणो वृद्धः एष एवासावुपनन्दस्तेन कालेन तेन समयेन। तदाप्येषोऽनिमन्त्रितः परकीये लाभे संनिपतित एतर्ह्यपीति।



श्रावस्त्यां निदानम्। अन्यतमस्मिन्कर्वटके गृहपतिः। तेन विहारः कारितः। तत्रैको भिक्षुर्वर्षाः उपगतः। स उत्थान संपन्नः। तेनासौ विहारः प्रतिदिनमुपलिप्तसंमृष्टः क्रियते। प्रतिपत्त्येवासौ विहारः शोभने विविक्तावकाशे च भूभागे प्रतिष्ठापितः नानावृक्षोपशोभिते हंसक्रौञ्चमयूरकसारिकाकोकिलाभिनिकूजिते विविधपुष्पफलोपशोभिते। यावद्विस्तीर्णविभवः सार्थवाहस्तस्मिन्विहारे रात्रिवासमुपगतः। तेन तां विहारशोभामुपवनशोभां च दृष्ट्वाभिप्रसन्नेनादृष्ट्वैव भिक्षुसंघमुद्दिश्य प्रभूतो लाभः प्रेषितः। स रात्रमेवोत्थाय प्रक्रान्तः। स भिक्षुः कौकृतिकः संघस्यायं लाभ इति कौकृत्या न गृह्णाति। भिक्षुनेव समन्वेपते भाजयितुम्। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। गोमयगृहमपि चेद्भिक्षुर्निशृत्य वर्षा उपगतो भवति तत्र चेद्‍ब्राह्मणगृहपतयः। संघमुद्दिशय लाभमनुप्रयच्छन्त्यल्पं वा प्रभूतं वा यस्तत्र वसति एको वा द्वौ वा संबहुला वा तेषामेव सः। नात्र कौकृत्यं करणीयम्।



उद्दानम्।



भिन्नानां देयप्रत्यंशं ऋषिलस्य च चारिकाम्।

संघस्य चीवरं चैव अष्टौ लाभेन कारयेत्॥२५॥



श्रावस्त्यां निदानम् आयुष्मानुदाली बुद्धं भगवन्तं पृच्छति। अन्तर्वर्षे भदन्त संघो भिद्येत। देयो लाभो न देयः। भगवानाह। कस्य चिदुदालिन् देयः कस्यचिन्न देयः। (कस्य देयः)। धर्मपाक्षिकस्य॥१॥ अन्तर्वर्षे भदन्त भिक्षुः शिक्षां प्रत्याख्याय हानायावर्तते। देयो लाभो न देयः। कस्यचिदुदालिन् देयः कस्यचिन्न देयः। कस्य देयः। यद्भूयोऽपि तस्य॥२॥ अन्तर्वर्षे भदन्त भिक्षुः कालः कालः कुर्यात्। देयो लाभो न देयः। कस्यचिदुदालिन् देयः कस्यचिन्न देयः। कस्य देयः। यद्भूयोऽपि तस्य॥३॥



अन्यतमस्मिन्कर्वटके गृहपतिः। तेन विहारः कारितः सर्वोपकरणसंपन्नः। आयुष्मांश्च शारिपुत्रो जनपदचारिकां चरन् तं विहारमनुप्राप्तः। तेन गृहपतिना भोजयित्वा पञ्चभिः पटकशतैराच्छादितः। स तानि पंचपटकशतानि तस्मिन्नेव विहारे दत्त्वा प्रक्रान्तः। यावत्तस्य द्वौ सार्धं विहारिणौ ऋषिल ऋषिदत्तश्च जनपदचारिकां चरन्तौ तमेव कर्वटकमनुप्राप्तौ। तावपि तेन गृहपतिना भोजयित्वा पंचभिः पटशतैराच्छादितौ। तौ भिक्षुभिरुच्येते। आयुष्मन्तौ युवयोरुपाध्यायेन तस्य गृहपतेः सकाशात्पञ्चपटशतानि लब्धानि। तान्यस्माभिरेव भाजितानि। अधुनाप्येषलाभोऽस्माकमेव प्रापद्यते। तौ कथयतः। उपाध्यायो ज्ञातो महापुण्यः। तेन कदाचिद्युष्माकमेवानुमोदितः स्यात्। ते प्रतिबोढुमारब्धाः। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। अष्टाविमे भिक्षवो लाभाः। कतमेऽष्टौ। सीमाहृतो लाभः। क्रियाहृतः। निश्रयाहृतः। संघप्रज्ञप्तः। भिक्षुप्रज्ञप्तः। वार्षिकः। संमुखः। प्रत्यादेशश्च।



सीमाहृतो लाभः कतमः। यथापि तदेवावसथ एकः पोषधः। तयोर्विहारयोर्यो लाभः स उभयविहारप्रतिवासिनां भिक्षुणाम्। तन्निवासिनो भिक्षवः कदाचिद्धि एकपोषधेन वर्षा उपगच्छन्ति। तत्र यो लाभः संपद्यते यमस्मिन्नेव विहारे दत्तस्तस्मिन्निवासिभिरेव भिक्षुभिः परिभोक्तव्यं हि। एकपोषधत्वादयमुच्यते सीमाहृतो लाभः।



क्रियाहृतो लाभः कतमः। यथापि तद्भिक्षव इदमेवं रूपं क्रियाकारं कृत्वा वर्षा उपगच्छन्ति। अमुकं कुलं युष्माकम्। अमुकं कुलमस्माकम्। रथ्यावीथीचत्वरशृङ्गटका मध्यमिति। ते चेद्ब्राह्मणगृहपतयः उपगतकानामावासी उपगतकानुपगतकान्भिक्षून्भोजयित्वा उपगतकानां लाभमनुप्रयच्छन्ति। उपगतकानामेव पानीयम्। लाभः कस्य प्रापद्यते। उपगतकानामेव॥१॥ उपगतकानामावासी उपगतकानुपगतकान्भिक्षून्भोजयित्वा उपगतकानां लाभमनुप्रयच्छन्ति। अनुपगतकानां पानीयम्। लाभः कस्य प्रापद्यते। उपगतकानामेव॥२॥ उपगतकानामाबासी उपगतकानुपगतकान्भिक्षून्मोजयित्वा उपगतकानां पानीयमनुप्रयच्छति। अनुपगतकानां लाभम्। (लाभः) कस्य प्रापद्यते। उपगतकानामेव॥३॥ उपगतकानामावासी उपगतकानुपगतकान्भिक्षून्भोजयित्वानुपगतकानां लाभमनुप्रयच्छन्ति। अनुपगतकानां पानीयम्। लाभः कस्य प्रापद्यते। उपगतकानामेव॥४॥ उपगतकानामावासी उपगतकानुपगतकान्भिक्षून्भोजयित्वा वृद्धान्ते लाभमनुप्रयच्छन्ति। उपगतकानां पानीयम्। लाभः कस्य प्रापद्यते। उपगतकानामेव॥५॥ उपगतकानामावासी उपगतकानुपगतकान्भिक्षून्भोजयित्वा उपगतकानां लाभनुप्रयच्छन्ति। वृद्धान्ते पानीयम्। लाभः कस्य प्रापद्यते। उपगतकानामेव॥६॥ उपगतकानामावासी उपगतकानुपगतकान्भिक्षून्भोजयित्वा वृद्धान्ते लाभमनुप्रयच्छन्ति। अनुपगतकानां पानीयम्। लाभः कस्य प्रापद्यते। उपगतकानामेव॥७॥ उपगतकानामावासी उपगतकानुपगतकान्तिक्षून्भोजयित्वा अनुपगतकानां लाभमनुप्रयच्छन्ति। वृद्धान्ते पानीयम्। लाभः कस्य प्रापद्यते। उपगतकानामेव॥८॥ उपगतकानामावासी उपगतकानुपगतकान्भिक्षून्भोजयित्वा उपगतकानुपगतकानां लाभमनुप्रयच्छन्ति। वृद्धान्ते च पानीयम्। लाभः कस्य प्रापद्यते। उपगतकानामेव॥९॥



यथा उपगतकानामावासी उपगतकानुपगतकान्भिक्षून्भोजयित्वे (ति) नव पर्यायाः। एवमनुपगतकानामावासी उपगतकान्भिक्षून्भोजयित्वेति नव पर्यायाः।



सचेत्ते ब्राह्मण गृहपतयः रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान्भिक्षून्भोजयित्वा उपगतकानां लाभमनुप्रयच्छन्ति। उपगतकानामेव पानीयम्। लाभः कस्य प्रापद्यते। उभयोरपि॥१॥



रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान्भिक्षून्भोजयित्वा उपगतकानां लाभमनुप्रयच्छन्ति। अनुपगतकानां पानीयम्। लाभः कस्य प्रापद्यते। उभयोरपि॥२॥



रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान्भिक्षून्भोजयित्वा अनुपगतकानां लाभमनुप्रयच्छन्ति। उपगतकानां पानीयम्। लाभः कस्य प्रापद्यते। उभयोरपि॥३॥



रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान्भिक्षून्भोजयित्वा अनुपगतकानां लाभमनुप्रयच्छन्ति। अनुपगतकानामेव पानीयम्। लाभः कस्य प्रापद्यते॥उभयोरपि॥४॥



रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान्भिक्षून्भोजयित्वा वृद्धान्ते लाभमनुप्रयच्छन्ति। उपगतकानां पानीयम्। लाभः कस्य प्रापद्यते॥उभयोरपि॥५॥



रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान्भिक्षून्भोजयित्वा उपगतकानां लाभमनुप्रयच्छन्ति। वृद्धान्ते पानीयम्। लाभः कस्य प्रापद्यते उभयोरपि॥६॥



रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान्भिक्षून्भोजयित्वा वृद्धान्ते लाभमनुप्रयच्छन्ति। अनुपगतकानां पानीयम्। लाभः कस्य प्रापद्यते। उभयोरपि॥७॥



रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान्भिक्षून्भोजयित्वा अनुपगतकानां लाभमनुप्रयच्छन्ति। वृद्धान्ते पानीयम्। लाभः कस्य प्रापद्यते। उभयोरपि॥८॥



रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान्भिक्षून्भोजयित्वा वृद्धान्ते (उपगतकानुपगतकानां) लाभमनुप्रयच्छन्ति। वृद्धान्ते च पानीयम्। लाभः कस्य प्रापद्यते। उभयोरपि॥९॥ अयमुच्यते क्रियाहृते लाभः।



निश्रयाहृतो लाभः कतमः। भिक्षुर्यं स्त्रीपुरुषपंडकमुपनिश्रित्य वर्षा उपगच्छति स यं लाभं ददाति तस्यैव सः। अयमुच्यते निश्रयाहृतो लाभः।



संघप्रज्ञप्तो लाभः कतमः। यो लाभोः नियतोऽविपंचितः। अयमुच्यते संघप्रज्ञप्तो लाभः।



भिक्षूप्रज्ञप्तो लाभः कतमः। यो लाभो नियतो विपंचितः। लयने मठे वा कूटागारे वा प्रज्ञप्तः। तत्र यो भिक्षु प्रतिवसति तस्यैव सः। अयमुच्यते भिक्षुप्रज्ञप्तो लाभः।



वार्षिको लाभः कतमः। यो लाभो वर्षोषितस्य भिक्षुसंघस्य दायिकैः प्रज्ञप्तः। अयमुच्यते वार्षिको लाभः।



संमुखलाभः कतमः। यो लाभोऽनियतोऽविपंचितः। अयमुच्यते संमुखलाभः।



प्रत्यादेशलाभः कतमः। यो लाभो जातो बोधौ धर्मचक्रे परिनिर्वाणे निर्यातितः। स चेन्न शक्यते चतुर्महाचैत्येषु एकस्मिन्नेव महाचैत्ये देयो नान्यत्र। अयमुच्यते प्रत्यादेशलाभः।



उद्दानम्।



कालंकुर्वन्त्युत्क्षिप्तका मिश्रकाणां च भाजनम्।

उत्क्षिप्तश्रमणोद्देशा उत्सारयन्ति म्रियन्ते च॥२६॥



श्रावस्त्यां निदानम्। आयुष्मानुदाली बुद्धं भगवन्तं पृच्छति। यथापि तद्भदन्त एकस्मिन्नावासे संबहुला उत्क्षिप्तकाः संबहुलाश्च प्रकृतिस्थकाः प्रतिवसन्ति। तेषामुत्क्षिप्तकः कालं करोति। तत्सन्तको भृतपरिष्कारो लाभः कस्य प्रापद्यते। प्रकृतिस्थकानामुदालिन्॥१॥ द्वौ भदन्त उत्क्षिप्तकौ संबहुलाः प्रकृतिस्थकाः। उत्क्षिप्तकः कालं करोति। तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते। प्रकृतिस्थकानामेव॥२॥ उत्क्षिप्तकाः संबहुलाः प्रकृतिस्थका अल्पाः। उत्क्षिप्तकः कालं करोति। (तत्सन्तकोमृतपरिष्कारो) लाभः कस्य प्रापद्यते। प्रकृतिस्थकानामेव॥३॥



यथापि तद्भदन्त एकस्मिन्नावासे संबहुला उत्क्षिप्तकाः संबहुलाश्च प्रकृस्थकाः प्रतिवसन्ति। तेषां प्रकृतिस्थकः कालं करोति। तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते। प्रकृतिस्थकानाम्॥१॥ संबहुला उत्क्षिप्तका द्वौ प्रकृतिस्थकौ। प्रकृतिस्थकः कालं करोति। तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते। तस्यैकस्य प्रकृतिस्थकस्य॥२॥ संबहुला उत्क्षिप्तका एकः प्रकृतिस्थकः। (प्रकृतिस्थकः) कालं करोति। लाभः कस्य प्रापद्यते। उत्क्षिप्तकानां यः प्रथमं पापकं दृष्टिगतं प्रतिनिसृजति॥३॥



उपगतकानामावासे अनुपगतकः श्रामणेरक आगत्य कालं करोति। उपगतकैरनुपगतकानां दूतोऽनुप्रेषयितव्यः। श्रामणेरो वः कालगतः। हरत तस्य पात्रचीवरमिति। उपगतका भाजयन्ति। अभाजितं दुर्भाजितम्। अनुपगतका भाजयन्ति। भाजितं सुभाजितम्। मिश्रका भाजयन्ति। अभाजितं दुर्भाजितम्। चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति। सुपरिणामितम्॥१॥ उपगतकानामावासे अनुपगतकः श्रामणेरक आगत्य एवं वदेदोसारयन्तु मामायुष्मन्तः। उपगतको भविष्यामीति। स चानोसारितः कालं कुर्यात्। उपगतकैरनुपगतकानां दूतोऽनुप्रेषयितव्यः। श्रामणेरो वः कागलतः। हरतास्य पात्रचीवरमिति। उपगतका भाजयन्ति। अभाजितं दुर्भाजितम्। अनुपगतका भाजयन्ति। भाजितं सुभाजितम्। मिश्रका भजयन्ति। अभाजितं (दुर्भाजितम्)। चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति। सुपरिणामितम्॥२॥ उपगतकानामावासे अनुपगतको भिक्षुरागत्य कालं कुर्यात्। उपगतकैरनुगतकानां दूतोऽनुप्रेषयितव्यः। सब्रह्मचारी वः कालगतः। हरतास्य पात्रचीवरमिति। उपगतका भाजयन्ति। अभाजितं दुर्भाजितम्। अनुपगतका भाजयन्ति। भाजितं सुभाजितम्। मिश्रका भाजयन्ति। अभाजितं दुर्भाजितम्। चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति। सुपरिणामितम्॥ ३॥ उपगतकानामावासे अनुपगतको भिक्षुरागत्यैवं वदेदोसारयन्तु मामायुष्मन्तः। उपगतको भविष्यामीति। स चान्पोसारित एव कालं कुर्यात्। उपगतकैरनुपगतकानां दूतोऽनुप्रेषयितव्यः। सब्रहम्चारी वः कालगतः। हरतास्य पात्रचीवरमिति। उपगतका भाजयन्ति। अभाजितं दुर्भाजितम्। अनुपगतका भाजयन्ति। भाजितं सुभाजितम्। मिश्रका भाजयन्ति। अभाजितं दुर्भाजितम्। चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति। सुपरिणामितम्॥४॥



अनुपगतकानामावासे उपगतकः श्रामणेत आगत्य कालं कुर्यात्। अनुपगतकैरुपगतकानां दूतोऽनुप्रेषयितव्यः। श्रामणेरो वः कालगतः हरतास्य पात्रचीवरमिति। अनुपगतका भाजयन्ति। अभाजितं दुर्भाजितम्। उपगतका भाजयन्ति। भाजितं सुभाजितम्। मिश्रका भाजयन्ति। अभाजितं दुर्भाजितम्। चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति। सुपरिणामितम्॥१॥ अनुपगतकानामावासे उपगतकः श्रामणेर आगत्यैवं वदेदोसारयन्तु मामायुष्मन्तः। अनुपगतको भविष्यामीति। स चानोसारितः कालं कुर्यात्। अनुपगतकैरुपगतकानां दूतोऽनुप्रेषयितव्यः। श्रामणेरो वः कालगतः। हरतास्य पात्रचीवरमिति। अनुपगतका भाजयन्ति। अभाजितं दुर्भाजितम्। उपगतका भाजयन्ति। भाजितं सुभाजितम्। मिश्रका भाजयन्ति। अभाजितं दुर्भाजितम्। चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति। सुपरिणामितम्॥२॥ अनुपगतकानामावासे उपगतको भिक्षुरागत्य कालं कुर्वीत। अनुपगतकैरुपगतकानां दूतोऽनुप्रेषयितव्यः। अब्रह्मचारी व कालगतः। हरतास्य पात्रचीवरमिति। अनुपगतका भाजयन्ति। अभाजितं दुर्भाजितं। उपगतका भाजयन्ति। भाजितं सुभाजितम्। मिश्रका भाजयन्ति। अभाजितं दुर्भाजितम्। चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति। सुपरिणामितम्॥ ३॥ अनुपगतकानामावासे उपगतको भिक्षुरागत्यैवं वदेदोसायरन्तु मामायुष्मन्तः। अनुपगतको भविष्यामीति। स चानोसारितः कालं कुर्यात्। अनुपगतकैरुपगतकानां दूतोऽनुप्रेषयितव्यः। सब्रह्मचारी वः कालगतः। हरतास्य पात्रचीवरमिति। अनुपगतका भाजयन्ति। अभाजितं दुर्भाजितम्। उपगतका भाजयन्ति। भाजितं सुभाजितम्। मिश्रका भाजयन्ति। अभाजितं दुर्भाजितम्। चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति। सुपरिणामितम्॥४॥



उद्दनम्।



उपनन्दस्याधिष्ठानं धातव्यं मध्यविक्षेपः।

नास्ति ममात्ययाद्दानं विसृज्यो मनुष्यास्त्रयः॥२७॥



श्रावस्त्यां निदानम्। उपनन्दस्य मूर्ध्नि पिटको जातः। स वैद्यसकाशं गतः। भद्रमुख भैषज्यं मे व्यपदिशेति स कथयति आर्य घृतस्य पानं पिब। स्वास्थ्यं ते भविष्यतीति। उपनन्दः संलक्षयति। स चेदद्यैव पास्यामि अद्यैव स्वस्थो भविष्यमि। श्वः कतरेण कल्पेन घृतं समाधापयिष्यामि वस्त्राणि वा। यावदिष्टं कल्पं समाधापयिष्यामि तावत्पश्चात्पास्यामीति। ज्ञातमहापुण्योऽसौ। तेन सार्धं विहार्यन्तेवासिकाः सामन्तात्प्रेषिताः। तैः प्रभूता घृतघटका वस्त्राणि च व्रणबन्धनाय समाधापितानि। द्वितीये दिवसे वैद्य आगत्य पृच्छति। आर्य स्वस्थः। पीतं ते घृतम्। भद्रमुख न पीतम्। आर्य न शोभनं कृतम्। अद्य द्विगुणं पिबेति सार्धं विहार्यन्तेवासिन उक्ता। श्रुतं वो यद्वैद्येनाभिहितम्। उपाध्याय श्रुतम्। ममायं रोगोऽभिवृद्धः। प्रभूतं घृतं वस्त्रानि च वर्णबन्धनानि समाधापयतेति। तै प्रभूततरं घृतं वस्त्राणि च समाधापितानि। तेनातिलोभात् श्वः कल्पो भविष्यतीति तदपि दिवसे न पीतम्। रोगोऽस्य प्रवलो जातः। यावत्पुनरपि वैद्य आगत्य पृच्छति। आर्य पीतं घृतम्। भद्रमुख न पीतम्। आर्य न शोभनं कृतम्। स कथयति। भद्रमुख अद्य त्रिगुणं पिबामि। वैद्यः कथयति। आर्य यदि घृतमञ्जूषायामपि निमग्नस्तिष्ठसि तथापि ते नास्ति जावितमिति। (स कथयति।) यमदण्डिक यादृशस्त्वम्। गले ते पादं दत्त्वा घृतं च पिबामि। जीवामि चेति। स वैद्यो हुमिति कृत्वा सामर्षः प्रक्रान्तः। तत उपनन्देन घृतस्य पात्रं पूरयित्वा पीतम्। विषूचितः कालगतः। तस्य प्रभूतं सुवर्णं तिस्रः सुवर्णलक्षाः। एका पात्रचीवरात्। द्वितीया ग्लानभैषज्यात्। तृतीया कृताकृतात्। अमात्यैः श्रुतम्। राज्ञे निवेदितम्। देव आर्योपनन्दः कालगतः। तस्य प्रभूतं सुवर्णमस्ति। तिस्रः सुवर्णलक्षाः। तदर्हस्याज्ञां दातुमिति राजा कथयति। यद्येवं गच्छत। अस्य लयनं मुद्रयतेति। भिक्षवस्तमादाय दहनं गताः। तैरागत्य लयनं मुद्रितम्। भिक्षवस्तमादहने संस्कार्य विहारमागताः। पश्यन्ति लयनं राजम्दुरामुद्रितम्। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते। गच्छानन्द मद्वचनाद्राजानं प्रसेनजितमारोग्यं (पृच्छ)। एवं च वद। यस्मिन् महाराज समये तव राजकरणीयं भवति। अवलोकयसि त्वं तस्मिन् समये उपनन्दं भिक्षुम्। यस्मिन् वा ते समये आवाहो वा विवाहो वा अवलोकयसि तस्मिन् समये उपनन्दम्। कदाचिद् वा ते उपनन्दो यावज्जीवं प्रवारितः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः। ग्लानस्य वा उपस्थानं कृतमिति। यदि व्रूयान्नेति। स वक्तव्यः। पृथङ् महाराजगृहिणां गृहकार्याणि। पृथक् प्रव्रजितानाम्। अल्पोत्सुकस्त्वं तिष्ठ। सब्रह्मचारिणामेष लाभः प्रापद्यते। निरस्तव्यापारो भवेति। एवं भदन्त इत्यायुष्मानानन्दो भगवतो प्रतिश्रुत्य येन राजा प्रसेनजित् कोशलस्तेनोपसंक्रान्तः। उपसंक्रम्य यथासन्दिष्टं निवेदितवान्। राजा कथयति। भदन्तानन्द यथा भगवानाज्ञापयति तथा भवतु। निरस्तव्यापारोऽहमिति। तत् आयुष्मतानन्देन राज्ञः प्रतिसन्देशो भगवते निवेदितः। तत्र भगवान् भिक्षुनामन्त्रयतेस्म। भाजयत यूयं भिक्षव उपनन्दस्य भिक्षुर्मृतपरिष्कारमिति। भिक्षुभिः संघमध्ये अवतार्य विक्रीय भाजितम्। साकेतकैर्भिक्षुभिः श्रुतम्। उपनन्दः कालगतः। तस्य प्रभूतं सुवर्ण तिस्रः सुवर्णलक्षा भिक्षुभिर्भाजिता इति। ते त्वरमाणाः श्रावस्तीमागताः कथयन्ति। अस्माकमपि भदन्तोऽपनन्दः सब्रह्मचारी। अस्माकमपि तत्सन्तको लाभः प्रापद्यत इति। भिक्षुभिः पातयित्वा तैः सार्धं पुनरपि भाजितः। एवं षण् महानगरनिवासिनो भिक्षवः सन्निपतिताः। वैशालकाः वाराणसीयाः राजगृहेयकाः चाम्पेयिकाश्च। भिक्षुभिः पुनः पुनः पातयित्वा भाजितः। पातयन्तो भाजयन्तश्च रिञ्चन्त्युद्देशं षाठं स्वाध्यायं योगं मनसिकारम्। एतत्प्रकरणम् भगवत आरोचयन्ति। भगवानाह। पञ्चकरणानि लाभविभागे। कतमे पञ्च। गण्डी त्रिदण्डकं चैत्यं शीलाका ज्ञप्तिः पञ्चकम्। यो मृतगगण्ड्यामाकोट्यमानायामागच्छति तस्य लाभो देयः। एवं त्रिदण्डके भाष्यमाणे चैत्यवन्दनायां क्रियमाणायाम् शीलाका(यामा) चर्यमाणायाम्। तस्मात्तर्हि भिक्षवः सर्वं मृतपरिष्कारं ज्ञप्तिं कृत्वा भाजयितव्यम्। अकोप्यं भविष्यति। एवं च पुनः कर्तव्यम्। शयनासनप्रज्ञप्तिं कृत्वा पूर्ववद् यावत्सर्वसंघे सन्निषण्णे सन्निपतिते मृतपरिष्कारं वृद्धान्ते स्थापयित्वा एकेन भिक्षुणा वृद्धान्ते निषण्णेन ज्ञप्तिः कर्तव्या। शृण्वन्तु भदन्ताः संघाः। अस्मिन्नावासे उपनन्दो भिक्षुः कालगतः तस्येदं मृतपरिष्कारं दृश्यमदृश्यं चावतिष्ठते। स चेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत्संघ उपनन्दस्य भिक्षोर्मृतद्रव्यं दृश्यमदृश्यं च मृतपरिष्कारिकमधितिष्ठेदित्येषात्र ज्ञप्तिः। एषा भिक्षवो मृतपरिष्कार विभागनिष्ठा यदुत ज्ञप्तिः। ज्ञप्तौ कृतायां यो भिक्षुरागच्छति लाभो न देय इति। आयुष्मानुदाली बुद्धं भगवन्तं पृच्छति। यत्र यत्र भदन्त संघवृत्तः ज्ञप्तिकारको नास्ति तत्र मृतपरिष्कारिकं भाजयितव्यम्। न भाजयितव्यम्। उदालिन् पूर्वाचरमं कृत्वा (भाजयितव्यम् )। पूर्वाचरममपि भिक्षवो न जानन्ति। भगवानाह। एकं परिष्कारं विक्रीय ततः स्तोकं संघवृद्धाय संघनवकाय च दत्त्वा यथेष्टं भाजयितव्यम्। नात्र कौकृत्यं करणीयम्। ज्ञप्तौ च कृतायाम् पूर्वाचरमे वा मृतपरिष्कारिको लाभः सर्वबुद्धशिष्येभ्यः प्रापद्यत इति।



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः। पश्य भदन्तायुष्मानुपनन्दः अतिलोभेन विपन्नः। भगवानाह। न भिक्षव एतर्हि यथा अतीतेऽप्यध्वनि अतिलोभेन विपन्नः। तच्छ्रूयताम्।



भूतपूर्वं भिक्षवोऽन्यतमेन लुब्धेन हस्ती सविशेण शरेण मर्मणि ताडितः। ततस्तेन मर्मवेदनाभ्याहतेन शरानुसारेण गत्वा स लुब्धो जीविताद्व्यपरोपितः। यावद्दैवयोगा (त्) पञ्चमात्राणि चौरशतान्यन्यतमं कर्वटकं मुषित्वा तं प्रदेशमनुप्राप्तानि। तैरसौ हस्ती दृष्टः। स कृच्छ्रकालो वर्तते। ते कथयन्ति। भवन्तः सम्पन्नमिदं मांसम्। अर्धतृतीयानि शतानि हस्तिनं विशस्य मांसं पचन्तु। अर्धतृतीयानि शतानि पानीयमानयन्त्विति। तत्र ये विशसन्ति पचन्ति च तेषामेतदभवत्। भवन्तोऽस्माभिरीदृशं कर्म कृतम्। इदं च लोप्त्रं प्रभूतं संपन्नकम्। यावदाप्तं मांसं भक्षयित्वा अवशिष्टं विषेण दूषयिष्यामः। किमर्थं तेषामनुप्रयच्छामः। लोप्त्रमस्माकं भविष्यति। ते विषदूषितं मांसं भक्षयित्वा प्रानैर्विक्ष्यन्तीति। तैर्यावदाप्तं मांसं भक्षयित्वावशिष्टं विषेण दूषितम्। येऽपि पानीयस्य गतास्तैरप्येवमेव विचार्य यावदाप्यं पानीयं पीत्वावशिष्टं विषेण दूषितमादायागताः। यैर्मांसं भक्षितं तैः पानीयं पीतम् यैरपि मांसं भक्षितम्। सर्वे ते कालगताः। यावदन्यतमः शृगालः कालपाशपाशितस्तं प्रदेशमनुप्राप्तः। तेन ते सर्वे मृता दृष्टाः। ततो लोभसौमनस्यः संलक्षयति। संपन्नो मे प्रभूतो लाभः। आनुपूर्वी कर्तव्या इति। सधनुषोऽटनिं मुखे प्रक्षिप्य स्नायुं भक्षयितुमारब्धः। ततः स्नायुश्छिन्ना अटन्या तालुच्छिद्रितम्। कालगतः।



देवता गाथां भाषन्ते।

संचयः खलु कर्तव्यो न कार्यस्त्वतिसंचयः।

पश्य संचयलोभान्धो हतश्च येन जम्बुकः॥२८॥



किं मन्यध्वे भिक्षवः योऽसौ जम्बुक एष एवासावुपनण्डस्तेन कालेन तेन समयेन। तदाष्येषोऽतिलोमेन विपन्नः। एतर्ह्यपि एषोऽतिलोभेन विपन्न इति।



श्रावस्त्यां निदानम्। तेन खलु समयेनान्यतमो भिक्षुराबाधिको दुःखितो बाढग्लानः। तस्य भिक्षुणा उपस्थानं कृतम्। तथापि कालगतः। तस्य पात्रचीवरं वृद्धान्ते नीतम्। तत्रैकं चीवरं केनापि नाशितम्। मक्षिकाभिराकीर्णम्। ततश्चीवरभाजकेनासावुपस्थायिकोऽभिहितः। आयुष्मन्नलसस्त्वम्। न त्वयैतच्चीवरं शोचितम्। शोचय। स कथयति। त्वं परिष्कारं भाजयिष्यसि। अहं शोचयिष्यामि। त्वमेव शोचय। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। ग्लानोपस्थायिकस्य षट् परिष्कारा दातव्याः। अवशिष्टं भिक्षुभिर्भाजयितव्यम्। उपस्थायिकाश्चेद्बहवो भवन्ति सर्वैः षट्परिष्काराः सामान्यं भाजयितव्याः।



अप्रे भिक्षवो ज्ञातमहापुण्या कालं कुर्वन्ति। तेषां बहवः परिष्काराः श्रामण्यपरिष्कारा जीवितपरिष्काराश्च। वृद्धान्तेऽभिरोहिताः। उक्तं भगवता। उपस्थायकेन षट्परिष्कारा ग्रहीतव्या इति। स विचार्य विचार्य प्रणीतानि गृह्णाति। भगवानाह। न प्रणीतानि दातव्यानि। भिक्षवो लूहानि ददति। भगवानाह। न लूहानि दातव्यानि अपि तु मध्यानि दातव्यानीति।



ग्लानः असंविदिता एव सांधिके शयनासने कालं कुर्वन्ति। भगवानाह। ग्लानोपस्थायकेन ग्लानस्य निमित्तं कुशलेन भवितव्यं मुहुर्मुहुः प्रत्यवेक्षितव्यं कृत्यस्य न हापयितव्यम्। शरीरावस्थां ज्ञात्वा पौद्गलिके शयनासने व्याजेनावतार्य शायितव्य इति।



श्रावस्त्यां निदानम्। अन्यतमो भिक्षुर्ग्लानस्तेन शरीरवस्थां परिच्छिद्य भिक्षुरभिहितः। यावदहं जीवामि तावदुपस्थानं कुरु। मदीयं पात्रचीवरं मृते मयि तव यथासुखमिति। स तस्योपस्थानं कर्तुमारब्धः। यावदसौ भिक्षुः कालगतः। ततश्चीवरभाजकेनासौ उक्तः। आनय तस्य भिक्षोः पात्रचीवरम्। भाजयामि। स कथयति। ममैव तेन यथासुखं कृतमिति। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। जीवन्नेवासौ भिक्षवो न ददाति। कुतः पुनर्मृतो दास्यति। नास्तीदं दानं ममात्ययादस्य भविष्यति। गृहीत्वा भाजयितव्यम्। तस्यात्र भिक्षोः सुप्रत्यंशो देय इति।



तेन खलु समयेनान्यतमो भिक्षुराबाधिको दुःखितो बाढग्लानः। स चाल्पज्ञातः। तस्य भैषज्यं नास्ति। तेन शरीरावस्थां परिच्छिद्य उपस्थायिकोऽभिहितः। मम नास्ति किञ्चित्। मामुद्दिश्य पूजां कुरुष्वेति। तेन प्रतिज्ञातम्। स कालगतः। अपायेषूपपन्नः। अथ भगवान् भिक्षूनामन्त्रयते स्म। योऽसौ भिक्षवो भिक्षुः कालगतः किं तेनोपस्थायिकोऽभिहितः। तैर्यथावृत्तमाख्यातम्। विनिपतितोऽसौ भिक्षवो भिक्षुः। यदि तस्य सब्रह्मचारिभिः रत्नत्रयपूजाकृताभविष्यत् चित्तमस्याभिप्रसन्नमभविष्यत्। तस्मान्न भिक्षुणा ग्लानसब्रह्मचारी अध्युपेक्षितव्यः। ग्लानोपस्थायिको दीयते। तद् यद्यस्य भैषज्यं नास्ति तं पृष्ट्वा दानपतयः समादापयितव्याः। स चेत्संपद्यत इत्येवं कुशलम्। नो चेत्संपद्यते सांघिकं देयम्। स चेत्संपद्यत इत्येवं कुशलम्। नोचेत्संपद्यते बुद्धाक्षयनीविसन्तकं देयम्। सचेत्तदपि न संपद्यते यत्तथागतचत्ये वा गन्धकुट्यां वा छत्रं वा ध्वजं वा पताका वा आभरणकं वा संघेन दानीयं दातव्यमिति। उपस्थायिकेन विक्रीयोपस्थानं कर्तव्यं शास्तुश्च पूजा। स्वस्थीभूतस्यरोचयितव्यं यद् बुद्धसन्तकं तवोपयुक्तमिति। यद्यस्य बिभवोऽस्ति। तेन यत्नमास्थाय दातव्यम्। सचेन्नास्ति यदस्योपयुक्तम्। अर्हति पुत्रः पैतृकस्य। नात्र कौकृतं करणीयमिति।



श्रावस्त्यां निदानम्। अन्यतमो भिक्षराबाधिको दुःखितो बाढग्लानो वेदनाभिभूतः। तस्य पात्रं शोभनम्। स तस्मिन् अतीबाध्यवसितः। उपस्थायकमाह। आनय मे पात्रमिति। तेन न दत्तम्। स तस्यान्तिके चित्तं प्रदूष्य पात्रेऽध्यवसितः कालगतः। स तस्मिन्नेव पात्रे अशीविषो (भुत्वा) उत्पन्नः। भिक्षवस्तमादहनं नीत्वा संस्कार्य विहारमागताः। भिक्षुः संनिपतितः। चीवरभाजकेन मृतपरिष्कारिकं वृद्धान्तेऽभिरोहितम्। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयतेस्म। गच्छानन्द। भिक्षुणामारोचय। न केनचित् तस्य भिक्षोः पात्रस्थविका मोचयितव्या। तथागत एव मोचयिष्यति। आयुष्मतानन्देन भिक्षुणामारोचितम्। ततो भगवता स्वयमेव मोचितः। आशीविषो महान्तं फणं कृत्वावस्थितः। ततो भगवता ऋव्रटाशब्देन प्रबोध्याभिहितः। गच्छ मोहपुरुष त्यजैनं पात्रम्। भिक्षवो भाजयन्तु इति। स कुपितो यथेष्टगतिप्रचारतया वनगहनं प्रविष्टः। स तस्मिन् क्रोधाग्निना प्रज्वलितः। तद्वनगहनं प्रदीप्तम्। तत्रैव दग्धो भिक्षुणामन्तिके चित्तमभिप्रदूष्य नरकेषूपपन्नः। तत्र भगवान् भिक्षूनामन्त्रयतेस्म। निर्विद्यतां भिक्षवः सर्वभवेभ्यो निर्विद्यतां सर्वभवोपपत्तिकरणेभ्यः। यत्र नामैकस्य सत्त्वस्य त्रिषु स्थानेषु कायो दह्यते। वनगहने क्रोधाग्निना। नरके नारकेण। श्मशाने प्राकृतेन। तस्मान्न भिक्षुणा परिष्कारेऽत्यर्थमध्यवसानमुत्पादयितव्यम्। यस्मिन्नुत्पद्यते तत् परित्यक्तव्यम्। न परित्यजति। सातिसारोभवति। अपि तु यदि ग्लानः स्वं परिष्कारं याचते। उपस्थापकेन लघुलध्वेव दातव्यम्। न ददाति। सातिसारो भवति।



श्रावस्त्यां निदानम्। तेन खलु समयेनान्यतमो भिक्षुर्ग्लानो लयने कालगतः। अमनुष्यकेषूपपन्नः। चीवरभाजको भिक्षुस्तं लयनं प्रवेष्टुमारब्धः। पात्रचीवरं भाजयामीति। स तीव्रेण पर्यवस्थानेन लगुडमादायोत्थितः कथयति। यावन्मामभिनिर्हरथ तावत्पात्रचीवरं भाजयथेति। स संत्रस्तोनिष्पलायितः। एतत्प्रकरणं भिक्षवो भगवतं आरोचयन्ति। भगवानाह। पूर्वं तावन्मृतो भिक्षुरभिनिर्हर्तव्यः पश्चात्तस्य पात्रचीवरं भाजयितव्यमिति।



श्रावस्त्यां निदानं। तेन खलु समयेनान्यतमो भिक्षुः कालगतः। भिक्षवस्तमभिनिर्हृत्य एव मेव श्मशाने छोरयित्वा विहारमागतः। चीवरभाजकस्तस्य लयनं प्रविष्टः। पात्रचीवरं भाजयामीति। सोऽमनुष्यकेषूपपन्नः लगुडमादायोत्थितः। स कथयति। यावन्ममशरीरपूजां कुरुथ तावत्पात्रचीवरं भाजयथेति। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। भिक्षुभिस्तस्य पूर्वं शरीरपूजा कर्तव्येति। ततः पश्चात्पात्रचीवरं भाजयितव्यम्। एष आदीनवो (न)भविष्यतीति।



श्रावस्त्यां निदानम्। तेन खलु समयेनान्यतमो भिक्षुर्ग्लानो लयने कालगतः। स भिक्षुरादहनं नीत्वा शरीरपूजां कृत्वा दग्धः। ततो विहारमागतः। चीवरभाजकस्तस्य लयनं प्रविष्टः। स लगुडमादायोत्थितः तत्तावन्मामुद्दिश्य धर्मश्रवणमनुप्रयच्छथ तावच्चीवरकाणि भाजयथेति। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। तमुद्दिश्य धर्मश्रवणं दत्त्वा दक्षिणामुद्दिश्य पश्चाच्चीवरकाणि भाजयितव्यानीति।



उद्दानम्



ग्लानकश्चाथ श्रेष्ठी च प्रतिवस्तु नवकर्मिकः।

सीमा चतुष्किकां कृत्वा अष्टौ दूतेन करयेत्॥२९॥



श्रावस्त्यां निदानम्। तेन खलु समयेनान्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः। भिक्षुसंघः प्रविष्टः। भगवानौपधिकेऽस्थात् अभिहिर्हृतपिण्डपातः। पंचभिः कारणैर्बुद्धा भगवन्तः औपधिके तिष्ठन्त्यभिनिर्हृतपिण्डपाताः। कतमैः पंचभिः। प्रतिसंलातुकामा भवन्ति। देवतानां धर्मं देशयितुकामा भवन्ति। शयनासनं प्रत्यवेक्षितुकामा भवन्ति। ग्लानमवलोकयितुकामा भवन्ति। श्रावकाणां विनयशिक्षापदं प्रज्ञपयितुकामा भवन्ति। अस्मिंस्त्वर्थे द्वाभ्यां कारणाभ्यां बुद्धो भगवानौपधिकेऽस्थादभिनिर्हृतपिण्डपातः।



अथ भगवान् चिरप्रक्रान्तं भिक्षुसंघं विदित्वा अपावरणीं गृहीत्वा आरामेणारामं विहारेण विहारं परिगणेन परिगणं चंक्रमेण चंक्रममनुचंक्रम्यमाणोऽनुविचरति। अनेनान्यतमो महल्लको विहारस्तेनोपसंक्रान्तः। तत्र भिक्षुर्बाढग्लानः अल्पज्ञातः स्वे मूत्र पुरीषे निमग्नो भगवन्तं दृष्ट्वाऽपरस्वरमकार्षीत्। अनाथोऽस्मि भगवन्। अनाथोऽस्मि सुगत इति। भगवानाह। कस्मात्त्वं भिक्षो मा त्रैलोक्यनाथमुद्दिश्य प्रव्रजित एवं विरौषि। अनाथोऽस्मि भगवन्। अनाथोऽस्मि सुगत इति। न मे भदन्त कश्चित्सब्रह्मचारी उपस्थानं करोत्यवलोकयति वा। अस्ति त्वया भिक्षवो कस्यचित् सब्रह्मचारिण उपस्थानं कृतमवलोकितं वा। नो भदन्त। अत एव ते इयं समवस्था। भगवान् लौकिकचित्तमुत्पादयति। अहो बत शक्रो देवेन्द्रोऽनवतप्तान्महासरसः पानीयमादाय गन्धमादनाच्च पर्वतान्मृत्तिकामानयेदिति। धर्मता खलु यस्मिन् समये भगवान लौकिकं चित्तमुत्पादयति तस्मिन् समये शक्रब्रह्मादयोऽपि देवा भगवतश्चित्तमाजानन्ति। ततः शक्रो देवेन्द्रः अनवतप्तान्महासरसः अष्टाङ्गोपेतस्य पानीयस्य सौवर्णं भृङ्गारमादाय गन्धमादनाच्च पर्वतान्मृत्तिकां लघुलध्वेव भगवतः पुरस्तादस्थात्। एवं चाह। तिष्ठतु भगवानहमस्योपस्थानं करोमि। भगवानाह। नैष कौशिकमुद्दिश्य प्रव्रजितः किं तु माम्। अपि तु किं त्वयैष पूर्वं न दृष्टः। तिष्ठ त्वम्। शुचिकामा देवाः। अहमेवास्योपस्थानं करोमि। ततो भगवता चीवरं बद्‍ध्वा चक्रस्वस्तिकनन्द्यावर्तेनानेकपुण्यशतनिर्जातेन भीतानामाश्वासन करणकरेणासौ भिक्षुर्गृहीत्वा मूत्रपुरीषात् उद्‍धृत्य एकान्ते स्थापितः। वंशविदलिकया निर्लिखितः। पाण्डुमृत्तिकया उद्वर्तितः स्नापितः। ततः (स्थापितः। चीव) रकाण्यस्य प्रक्षालितानि। तस्मिन् प्रदेशे सुकुमारी गोमयकार्षी दत्ता। ततो हस्तपादौ संप्रशोध्य शक्रं देवेन्द्रं ग्लानोपस्थानपूर्विकया धर्मदेशनया सन्देश्य समादाप्य विहारं प्रविष्टः।(आयुष्माना-) नन्दः पिण्डपात निर्हारकः पिण्डपातमादाय भगवत्सकाशमुपसंक्रान्तः। धर्मता खलु बुद्धा भगवन्तः पिण्डतातनिर्हारकं भिक्षुमनया प्रतिसंमोदनया प्रतिसंमोदन्ते। कच्चिद्भिक्षो प्रणीतं भक्तं संतपतो भिर्भिक्षुसंघ इति। प्रतिसंमोदते। भगवानायुष्मन्तमानन्दम्। कच्चिदानन्द प्रणीतं भक्तं सन्तर्पितो भिक्षुसंघ इति। तथ्यं भदन्त। प्रणीतं भक्तं सन्तर्पितो भिक्षुसंघः। ततो भगवान् उपार्धपिण्डपातमादायायुष्मन्तमानन्दमामन्त्रयते। गच्छ आनन्द अमुष्मिन् विहारे वाढग्लानो भिक्षुः। तस्मे (दे) यमुपार्धपिण्डपातम्। यद्भुंक्ते चैनं वक्तव्यः। शास्त्रा ते आयुष्मन् स्वयमेवोपस्थानं कृतम्। उपार्धपिण्डपातेन च संविभागः कृत इति। एवं भदन्त इत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्योपार्धपिण्ड (पात) मादाय तस्मै दत्त्वा यथासन्दिष्टमारोचितवान्।



अथ तस्य भिक्षोरेतदभवत्। मम त्रैलोक्यगुरुणा स्वयमुपस्थानं कृतमुपार्धपिण्डपातश्च दत्तः। न मम प्रतिरूपं स्याद् यदहं श्रद्धादेयं परिभुज्य कौसीद्येनातिनामयेयम्। यत्त्वहं पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्तो विहरेयमिति। तेन पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्तेन विहरता इदमेव च पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतिं शतनपतनविकिरणविध्वंसनधर्मतया पराहत्यसर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतमिति। अर्हन् संवृत्तः। त्रैधातुके वीतरागः समलोष्ट्रकाञ्चनः आकाशपाणितलसमचित्तो वासीचन्दनकल्पो (ऽ) विद्याविदारिताण्डकोशो विद्याभि (ज्ञः) प्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपरांमुखं सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः।



तत्र भगवान् भिक्षूनामन्त्रयते। एषां भिक्षवो ग्लानानां न माता न पिता न चान्यो बन्धुः नान्यत्र यूयमेव सब्रह्मचारिणः। तस्मात् सब्रह्मचारिभिः परस्परमुपस्थानं करणीयम्। उपाध्यायेन सार्धं विहारिणः। सार्धं विहारिणा उपाध्यायस्य। आचार्येणान्तेवासिनः। अन्तेवासिना आचार्यस्य। समानोपाध्यायेन समानोपाध्यायस्य। समानाचार्येण समानाचार्यस्य। आलप्तकेनालप्तकस्य। संलप्तकेन संलप्तकस्य। संतुतकेन संस्तुतकस्य। सप्रेमकेन सप्रेमकस्य। यः पर्षद्विनिर्मुक्तोऽल्पज्ञातश्च तस्य संघेनोपस्थायिको देयः। ग्लानावस्थां परिच्छिद्य एको वा द्वौ वा संबहुला वा। अन्ततः सर्वसंघेनोपस्थानं करणीयम्।



भिक्षवः संशयजाताः। सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः। पश्य भदन्त भगवता तस्य भिक्षोः स्वयमेवमुपस्थानं कृतम्। तेन चार्हत्त्वं साक्षात्कृतमिति। भगवानाह। न भिक्षव एतर्हि यथा अतीतेऽप्यध्वनि तस्य मया उपस्थानं कृतम्। तेन च पञ्चाभिज्ञाः साक्षात्कृताः।



भूतपूर्वं भिक्षवोऽन्यतमस्मिन्नाश्रमपदे पुष्पफलसलिलसम्पन्ने नानावृक्षोपशोभिते ऋषिः प्रतिवसति पञ्चाभिज्ञः। तेन शिष्यस्योपस्थानं कृतम्। स्वस्थीभूतः। ततस्तेन पञ्चाभिज्ञाः साक्षात्कृताः। किं मन्यध्वे भिक्षवः। योऽसौ तेन कालेन तेन समयेन ऋषिरासीदहं सः। योऽसौ तस्य ऋषेः शिष्य एष एवासौ भिक्षुः। तदाप्यस्य मया उपस्थानं कृतमेतर्ह्यप्यस्य मया उपस्थानं कृतम्।



पुनरपि भिक्षवो बुद्धं भगवन्तं पप्रच्छुः। पश्य भदन्तातीव भगवतो ग्लानकः प्रिय इति। भगवानाह। न भिक्षव एतर्हि यथा अतीतेऽप्यध्वनि ममातीव ग्लानकाः प्रियाः। तछ्रूयताम्।



भूतपूर्वं भिक्षवः शिवघोषायां राजधान्यां शिविर्नाम राजा राज्यं कारयति। ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च। तस्य नास्ति किश्चिदपरित्याज्यं याचनकेभ्यो विशेषतस्तु ग्लानेभ्यः। यावदन्यतमो गृहपतिर्ग्लानः सर्ववैद्यप्रत्याख्यातो राज्ञः सकाशं गतः। देव चिकित्सां मे कारय इति। ततो राज्ञा वैद्यानामाज्ञा दत्ता। भवन्तोऽस्य चिकित्सां कुरुतेति। ते कथयन्ति। देव दुर्लभान्यस्य भैषज्यानीति। राजा कथयति। कीदृशानि पुनस्तानि भैषज्यानि। देव यः कदाचिज्जन्मनः प्रभृति (न) कस्यचिद्रुषितपूर्वस्तस्य रुधिरेण यवागूः षण्मासान् दातव्या। एवमस्य स्वास्थ्यं भवति। नान्यथेति। राजा कथयति। सत्यं दुर्लभमस्य (भैषज्यम्। स आ) त्मनः प्रचारं परिच्छेत्तुमारब्धः। दुःखमात्मनः प्रचारः परिच्छिद्यते। स धत्रीं प्रष्टुमारब्धः। अम्ब अस्त्यहमियता कालेन कस्यचिद्रुषितपूर्वः। कुमार यदा त्वं मासांसगतस्तदाहमपि न कस्य (प्रागेव त्व) मिति। ततो जनन्याः सकाशमुपसंक्रान्तः। कथयति। अम्ब अस्त्यहं कस्यचिद्रुषितपूर्वः। कुमार यदा त्वं मम कुक्षिगतस्तदाहमपि न कस्यचिद्रुषितपूर्वा प्रागेव त्वमिति। स सलक्षयति। लब्धं भैषज्यमिति विदित्वा तेन वैद्यानां (मा) ज्ञा दत्ता। भवन्तो मयात्मा परीक्षितः। अहं न कदाचित् कस्यचिद्रुषितपूर्वः। मम पंचेङ्खिकशिरावेधं कुरुत। देव वयं प्राकृतपुरुषस्यार्थाय देवस्य काये शस्त्रं (न) निपातयामः। कुशला भवन्ति बोधिसत्त्वास्तेषु तेषु शिल्पस्थानकर्मस्थानेषु। राजा स्वयवमेव शिरावेधः कृतः। तेन च रुधिरेण षण्मासान् प्रतिदिनं तस्मै यवागूर्दत्ता। स्वस्थो जातः। किं मन्यध्वे भिक्षवः। योऽसौ राजा अहं स तेन कालेन तेन समयेन। तदापि मे ग्लानकाः प्रियाः प्रागेवेदानीम्।



पुनरपि शिवे राज्ञः पुत्रस्य पार्श्वशोषो जातः। राज्ञा वैद्यानामाज्ञा दत्ता। भवन्तोऽस्य कुमारस्य चिकित्सां कुरुतेति। ते कथयन्ति। देव सर्वसारं घृतं पच्यताम्। इति विदित्वा द्वादशभिर्वर्षैः सर्वद्रव्याणि समुपानीतानि। अद्यापि जीवजीवकमांसं न लभ्यते। वैद्यैः शाकुन्तिकानामाज्ञा दत्ता। आगच्छत। आदर्शकं कुक्कुटकं च गृहीत्वा समुद्रतटं गच्छत। तत्र पाशान् पातयित्वा कुक्कुटकस्य पुरस्तादादर्शं स्थापयत। कुक्कुटः स्वं प्रतिबिम्बं दृष्ट्वा कुक्कुटोऽयमिति रविष्यति। कौतुहली जीवजीवकः कुक्कुटशब्दं श्रुत्वा कुक्कुटसमीपमागमिष्यति। अयं तस्य बन्धनोपाय इति। तैस्तथा कृतम्। यावत्कर्मपाशितो जीवजीवकः प्राणी बद्धः। ते तमादाय संप्रस्थिताः। धर्मता ह्येषा अचिरव्यतिवृत्ते लोकसन्निवेशे तिर्यञ्चोऽपि वाक्प्रव्याहरणसमर्था भवन्ति। जीवजीवकः प्राणी कथयति। भवन्तः कुत्रं मा नयथ। तैर्यथावृत्तम् समाख्यातम्। स कथयति। मुंचत मुंचत माम्। मांसबलो नाम औषधी रत्नानि वेति। ते कथयन्ति। उपदर्शय तावत्पश्यामः कीदृशास्ता औषधय इति। तेन समाख्यातम्। मदीयस्नानोदकं मांसबलम् तदादाय गच्छ। इमानि च रत्नानीति। ते राज्ञः शंकिताः। रत्नान्यपास्य तमेव जीवजीवकमादाय संप्रस्थिताः। अनुपूर्वेण शिवघोषां राजधानीमनुप्राप्ताः। तैर्जीवजीवकप्राणी राज्ञ उपनामितः। यच्च तेनोषधमादिष्टं तच्च कथितम्। ततो राज्ञा जीवजीवकः पृष्टः। कथयति। देव मम स्नानोदकं मांसबलमिति। राज्ञा सप्त उदकमणयः शोभनाम्भसः पूर्णाः स्थापिताः। स तेषु यावत् स्नातो यावत्सुविश्रान्तो जातः। ततः कायस्य बलं ज्ञात्वा सहसा उत्प्लुत्य शरणपृष्ठमभिरूढो विगतभयभैरवो गाथां भाषते।



पूर्वं तावदहं मूर्खः पश्चाच्छाकुन्तिका इमे।

ततो राजा च वैद्याश्च संपूर्णं मूर्खमण्डलम्॥३०॥



इत्युक्त्वा प्रक्रान्तः। ततो राज्ञा (वैद्या) आहूय पृष्टाः। भवन्तः सत्यम्। भवन्तः जीव जीवकस्य स्नानोदकं तन्मांसेन समबलमिति। ते कथयन्ति। देव सत्यम्। पचत घृतम्। तैः सर्वसारं घृतं पक्कम्। राजपुत्र उपयोक्तुं प्रवृत्तः। यावदन्यतमस्मिन् हिमवत्कन्दरे पञ्च प्रत्येकबुद्धशतानि प्रतिवसन्ति। तत्रैकस्य पार्श्वशोषो जातः। स तैः प्रत्येकबुद्धैरभिहितः। आयुष्मन् जनपदान् गत्वा वैद्यं पृष्ट्वा भैषज्यं सेव (स्व)। स्वस्थो भविष्यसीति। कथयति। आयुष्मन्तं आगमिष्यन्ति। स धर्मो बहुजनानिष्टो बहुजनाक्रान्तो बहुजनाप्रियो बहुजनामनापः सर्वसत्त्वसाधारणः यदुत मरणं नाम यो नांसव्याधिना नेष्यति। कस्यार्थाय ग्रामान्तमवसरामीति। ते कथयन्ति। आयुष्मन् यद्यप्येवं यथापि यावच्छीलवान् पुरुषपुद्गलश्चिरं जीवति तावद् बहुपुण्यं प्रसूयते। यावद् बहुपुण्यं प्रसूयते तावच्चिरं स्वर्गेषु मोदते। स तैरुपरुध्यमानो जनपदादवतीर्णः। अनुपूर्वेण विशघोषां राजधानीमनुप्राप्तः। ततो मार्गश्रमं प्रतिविनोद्य (वैद्य) सकाशं गतः। भद्रमुख ममेदृशो रोगः। भैषज्यं व्यपदिश इति। स कथयति। आर्य यादृश एवायं तव रोगस्तादृश एव राज्ञः पुत्रस्य। द्वादशभिर्वर्षैः सर्वसारं घृतं पक्कम्। गत्वा प्रार्थय। यद्यप्येतत्ते मण्डमपि भाग्य विशेषात्प्रतिलभसे तेन ते याप्यं भविष्यतीति। स राजकुलद्वारं गत्वावस्थितः। आचरितं तस्य राज्ञः। घण्टा द्वारे नित्यं प्रतिलम्बिता। याचनकजननिवेदी। यदा याचनको द्वारे तिष्ठति तदासौ रौति। यावदसौ घण्टा प्रत्येकबुद्धमागतं निवेदयन्ती रटितुमारब्धा। ततो राजपुत्रः कथयति। अम्ब तात याचनकोऽभ्यागतः। विचार्यतां किं प्रार्थयतीति। तौ कथयतः। पुत्र अस्माभिर्द्वादशभिर्वर्षैर्द्रव्यसंहारं कृत्वा इदं घृतं पक्कम्। पिब तावत्पश्चाद्याचनकं प्रवेशयामः। विचारयिष्यामः किं प्रार्थयतीति तस्य कृतकुतूहलस्वस्त्ययनस्य घृतं पातुकामस्य याचनकभाजनाशामर्मसंघट्टितशरीरस्य तद्‍वृत्तं न रोचते। कथयति च। अम्ब तात न तावत्परिभोक्ष्ये यावद्याचनकः प्रविशतः इति। राज्ञा द्वौवारिकस्याज्ञा दत्ता। याचनकं प्रवेशय इति। स प्रवेशितः। राजपुत्रेण दृष्टः। कायप्रासादिकश्चित्तप्रासादिकश्च शान्तेनेर्यापथेनावतीर्णः। स कथयति। आर्यकेण किं प्रयोजनम्। तेन विस्तरेण समाख्यातम्। स कथयति। आर्य त्वमेव माण्डार्हो नाहम्। गृहाण। ददामीति तेन पात्रं प्रसारितम्। राजपुत्रेण तीब्रेणाशयेन तस्मै तन्मण्डो दत्तः। तेनापि महात्मना सर्वसत्त्वहितानुगतं राजपुत्रेण चित्तमुत्पादितम्। ऋध्यति शीलवतश्चेतः प्रणिधानम्। तच्च विशुद्धत्वाच्छीलस्येति। उभावपि स्वस्थौ संवृतौ। किं मन्यध्वे भिक्षवो योऽसौ राजकुमारः अहमेव स तेन कालेन तेन समयेन। तदापि मे ग्लानकाः प्रियाः प्रागेवेदानीम्।



किं भदन्त तेन राजपुत्रेण तेन च प्रत्येक बुद्धेन कर्म कृतम् येन तयोर्युगपद व्याधिरुत्पन्नो युगपच्च व्युपशान्तिरिति। भगवानाह। तस्यामेव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितानि अवश्यंभावीनि। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते। नाब्धातौ। न तेजोधातौ। य वायुधातावपि। भूधातुष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च।



न प्रणश्यन्ति कर्माणि अपि कल्पशतैरपि।

सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥३०॥



भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा बभूव। तस्य द्वौ पुत्रौ। तयोर्यः कनीयान् स राज्याभिनन्दी। पुरोहितस्यापि द्वौ पुत्रौ। तयोरपि यः कनीयान् स पौरोहित्यं प्रार्थयते। यातुतः सत्त्वा संस्यन्दन्त इति तयोः परस्परं सख्यमुत्पन्नम्। राजपुत्रः कथयति। कः उपायः स्याद् येनाहं राजा भवेयम्। स कथयति। अस्त्युपायः। यदि त्वं मां पौरोहित्ये स्थापयसि कथयामीति। स कथयति। एवं भवतु। कथय। स्थापयामीति। स कथयति। अहं तव भ्रातरं व्यंगं करोमि। त्वं राजा भवसीति। तेनानुमोदितम्। ततस्तेन तस्य ज्येष्ठस्य राजपुत्रस्य भैषज्यं दत्तम्। व्यंगीभूतः। अपरेण समयेन राजा कालगतः। अमात्यैः स व्यंग इति कृत्वा कनीयान् राज्येऽभिषिक्तः। तेनाप्यसौ कनीयान् पुरोहितपुत्रः पौरोहित्ये प्रतिष्ठापितः। यावदपरेण समयेन राजा पुरोहितेन सार्धं संलापेन तिष्ठति। राज्ञासौ भ्राता व्यंगो दृष्टः। तस्य तं दृष्ट्वा विप्रतिसार उत्पन्नः। न शोभनं मया कृतम् यद्राज्यहेतोर्भ्राता व्यंगीकृत इति। पुरोहितः कथयति। देव ममापि विप्रतिसार उत्पन्नः। यदि देवस्याभिमतंपुनरप्येवं यथापौराणं करोमीति। स कथयति। कुष्वानुजाने। तेन तस्य भैषज्यं दत्तम्। स्वस्थीभूतः। ततस्तौ प्रत्येकबुद्धे करान् कृत्वा प्रणिधानं कर्तुमारब्धौ। यदावाभ्यामेवं विधे सद्भूतदक्षिणीये काराः कृता अस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जायेयहि। अस्य च पापस्य व्यंगीकरणस्य कर्मणो विपाकमनुभवेयमिति। किं मन्यध्वे भिक्षवः। योऽसौ राजपुत्र अहमेव स तेन कालेन तेन समयेन। योऽसौ पुरोहितपुत्रः एष एवासौ प्रत्येकबुद्धः। यत्ताभ्यां संजल्पं कृत्वा राजकुमारस्य भैषज्यं दत्तं तेन युगपद् व्यंगौ संवृत्तौ। यत्तु विप्रतिसाराभ्यां विचार्य पुनर्भैषज्यं दत्तं तेन युगपत् स्वस्थीभूतौ। इति हि भिक्षवः एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः। एकान्तशुक्लानामेकान्तशुक्लः। व्यतिमिश्राणां व्यतिमिश्रः। तस्मात्तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च एकान्तशुक्लेप्वेव कर्मस्वाभोगः करणीयः। इत्येवं वो भिक्षवः शिक्षितव्यम्।



श्रावस्त्यां निदानम्। तेन खलु समयेन श्रावस्त्यां श्रेष्ठिनामा गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुद्यतो वैश्रवणधनप्रतिस्पर्शी। तेन सदृशात् कुलात् कलत्रमानीतम्। सोऽपुत्रः पुत्राभिनन्दी शिववरुणकुवेरशक्रब्रह्मादीनन्यांश्च देवताविशेषानायाचते। तद् यथा आरामदेवता वनदेवता चत्वरदेवता शृंगारदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधर्मिका नित्यानुबद्धा अपि देवता आयाचते। अस्ति चैष लोकप्रवादः। यदायाचनहेतोः पुत्रा जायन्ते दुहितरश्चेति। तच्च नैवम्। यद्येवमभविष्यत् एकैकस्य पुत्रसहस्रमभविष्यत् तद्यथा राज्ञश्चक्रवर्तिनः। अपितु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश्च। कतमेषां त्रयाणाम्। मातापितरौ रक्तौ भवतः। सन्निपतितौ। माता कल्या भवति ऋतुमती। गंधर्वश्च प्रत्युपस्थितो भवति। एषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च। यदास्य देवताराधनेनापि न पुत्रो न दुहिता तदा सर्वदेवताः प्रत्याख्याय भगवत्यभिप्रसन्नः। यावदन्यतमस्य भिक्षोः सकाशमुपसंक्रान्तः। आर्य इच्छामि स्वाख्याते धर्मविनये प्रव्रजितुम्। भद्रमुख एवं कुरु। स तस्यानुपूर्व्या केशावतरणं कृत्वा शिक्षापदानि ग्राहयितुमारब्धः। प्रव्रज्यान्तरायकेण च महता ज्वरेणाभिभूतः। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। उपस्थानमस्य करणीयम्। न तावच्छिक्षापदानि देयानि याव्त्स्वस्थः संवृत्तः। इत्युक्तं भगवता। तस्योपस्थानं कर्तव्यमिति हि भिक्षवो न जानन्ते केन कर्तव्यमिति। भगवानाह। भिक्षुभिः। वैद्यस्तस्य दिवा भैषज्यं कुर्वन्ति। रात्रौ ग्लान्यं वर्धते। ते कथयन्ति। आर्य वयमस्य दिवा चिकित्सिकां कुर्मः रात्रौ ग्लान्यं वर्धते। यद्येष गृहं नीयते वयमस्य रात्रौ चिकित्सां कुर्याम इति। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। गृहं नीयतां तत्राप्यस्योपस्थायिकाननुप्रयच्छत। तस्य तद् ग्लान्यं दीर्घकालीनं संवृत्तम्। केशास्तस्य दीर्घदीर्घा जाताः। तस्य मुण्डो गृहपतिरिति संज्ञा संवृत्ता। स यदा मूलगण्डपत्रपुष्पफलभैषज्यरुपस्थीयमानो न स्वस्थीभवति तदा तेनात्मा परिच्छिन्नो मृतो।हमिति। ततस्तेन मरणकालसमये सर्वं सन्त(क)स्वापतेयं पत्राभिलेख्यं कृत्वा जेतवने प्रेषितम्। स च कालगतः। अमात्यै राज्ञः प्रसेनजितः। कोसलस्यारोचितम्। देव मुड्णो गृहपतिरपुत्रः कालगतः। प्रभूतं चास्य हिरण्यसुवर्णमस्ति हस्तिनोऽस्वा गावो महिष्यः सन्नाहानि च। एतच्च सर्वं पत्राभिलिखितं कृत्वा जेतवनमार्यसंघाय प्रेषितम्। राजा कथयति। आर्योपनन्दसन्तकभेव मया अपत्राभिलिखितं न प्रतिलब्धं प्रागेन पत्राभिलिखितं प्रतिलप्स्ये। अपि तु यद्भगवाननुज्ञास्यति तद् ग्रहीष्ये। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। किं तत्र भिक्षवः संविद्यन्ते।



अन्तरोद्दानम्।



वस्तुशयनासनप्रावरणमयोलोहं च चन्दनम्।

कुम्भानि पीतभक्षादि रंजनं यष्टिजम्बुकम्॥३१॥



द्विपदा चतुष्पदा यावत् अन्नदानं च भैषज्यम्।

दासो वा प्रस्तरं लभ्यं यथायोगेन भाजयेत्॥३२॥



हिरण्यं च सुवर्णं च यच्चाप्यन्यत्कृताकृतम्।

समग्रः संघो भाजयेदिति प्रोक्तं महर्षिणा॥३३॥



भिक्षुभिः समाख्यातम्। भगवानाह। यथायोगेन भाजयितव्यम्। तत्र क्षेत्रवस्तु गृहवस्त्वापणवस्तु। शयनासनमयस्कारभाण्डं लोहकारभाण्डं कुम्भकारभाण्डम्। कुण्डिकाकरण्डकविवर्जितं तक्षभाण्डं वरुटभाण्डम्। दासीदासकर्मकारपौरुषेयाणामन्नपानं व्रीहयश्चाविभाज्याः। चातुर्दिशाय भिक्षुसंघाय साधारणाः स्थापयितव्याः। शाटकाः पटका चर्मभाण्डमुपानहस्तैलकुतुपाः कुण्डीकाकरकाश्च समग्रेण संघेन भाजयितव्याः। यष्ट (यो या) आयतास्ता जम्बूच्छायिकाः प्रतिमाया ध्वजवंशाः कारयितव्याः। यां स्वल्पास्ताः खंखरकाः कृत्वा भिक्षुणां दातव्याः। पुत्रदार (कं) संघे (न) यथा सुखमविक्रीय यथाभिप्रसादलब्धेन भोक्तव्याः। चतुष्पदानां हस्तिनोऽश्वा उष्ट्राः खरा वेसराश्च राज्ञ उपयोगाः। महिष्यः अजा एडकाश्चतुर्दिशाय भिक्षुसंघाय साधारणा अविभाज्याः। यश्च सन्नाहो यच्चान्यत्र राजोपयोज्यं तत्सर्वं राज्ञ उपनामयितव्यम्। स्थापयित्वायुधानि तैः शस्त्रकैः सूच्यः खंखरकाश्च कारयित्वा संघे चारयितव्याः। रंगाणां महारंगः कंकुष्टहिंगुलुकराजपट्यादयस्ते गन्धकुट्यां प्रक्षेप्तव्याः प्रतिमोपयोगिकाः। खंखटिकं गौरिकं नीलिश्च संघेन भाजयितव्या। मद्यं मृष्टयवान् प्रक्षिप्य भूमौ निखातव्यम्। शुक्तत्वे परिणतं परिभोक्तव्यम्। शुक्तत्वानुपयोज्यं तु छोरयितव्यम्। मां भिक्षवः शास्तारमुद्दिशद्भिर्मद्यमदेयमपेयमन्ततः कुशाग्रेणापि। भैषज्यानि ग्लानकल्पिकशालायां प्रक्षेप्तव्यानि। ततो ग्लानकौर्भिक्षुभिः परिभोक्तव्यानि। रत्नानां मुक्ता वर्जयित्वा मणिवैडूर्य दक्षिणावर्तपर्यन्तानि तु द्वौ भागौ कर्तव्यानीति। एको धर्मस्य। द्वितीयः संघस्य। यो धर्मस्य तेन बुद्धवचनं लेखयितव्यम्। सिंहासने चोपयोक्तव्यम्। यः संघस्य स भिक्षुभिर्भाजयितव्यः। पुस्तकानां बुद्धवचनपुस्तका अविभज्य चातुर्दिशाय भिक्षुसंघाय धारणकोष्ठिकायां प्रक्षेप्तव्याः। बहिःशास्त्रपुस्तका भिक्षुभिर्विक्रीय भाजयितव्याः। पत्रलेख्यं यच्छीघ्रं शक्यते साधयितुं तस्य द्रव्यविभागे तद्भिक्षुभिर्भाजयितव्यम्। न शक्यते तच्चातुर्दिशाय भिषुसंघाय धारण। कोष्ठिकायां प्रेक्षेप्तव्यम्। सुवर्णं च हिरण्यं चान्यच्च कृताकृतं त्रयो भागाः कर्तव्याः। एको बुद्धस्य। द्वितीयो धर्मस्य। तृतीयः संघस्य। यो बुद्धस्य तेन गन्धकुट्यां केशनखस्तूपेषु च खण्डछुट्टं प्रतिसंस्कर्तव्यम्। योधर्मस्य तेन बुद्धवचनं लेखयितव्यं सिंहासने वा उपयोक्तव्यम्। यः संघस्य स भिक्षुभिर्भाजयितव्यः।



श्रावस्त्यां निदानम्। यदा राज्ञा प्रसेनजिता कोसलेन तोयिकामहः प्रस्थापितस्तदा तत्र भिक्षुभिक्षुण्युपासकोपासिकानां महासन्निपातो भवति। तेन ख लुसमयेन मूलफल्गुनो भिक्षुर्भिक्षुणीभावनीयः। तोयिकामहे प्रत्युपस्थिते संबहुलाभिर्भिक्षुणीभिरुक्तः। आर्य उपनिमन्त्रितो भव। तोयिकामहं गमिष्याम इति। स कथयति। कोऽत्र मम पात्रचीवरं स्थापयतीति। द्वादशवर्गिकाभिर्भिक्षुणीभिरुक्तः। आर्य अल्पोत्सुको भव। वयं स्थापयामः। तेन तासां समर्पितं। तत् ताभिरपि महाप्रजापत्ये संन्यस्तम्। महाप्रजापत्यापि आयुष्मत आनन्दस्य। आयुष्मताप्यानन्देनान्यतमस्तिन् विहारे स्थापितम्। तत् आयुष्मान्मूलफल्गुनस्तोयिकामहं गतः। स तत्र भिक्षुणीभिरुपनुमन्त्रितः। एका कथयति। आर्येण ममाद्य पूर्वाह्णिका कर्तव्या। अपरया पूर्वाह्णिकया उपनिमन्त्रितः। अपरयापि। अपरा कथयति। आर्येण ममान्तिकाद्भोक्तव्यमिति। अपरापि। एवमेव कथयत्यपरापि। अपरा कथयति। आर्येण ममान्तिके कालपानकं पाययितव्यमिति। अपरापि। एवमेव कथतत्यपरापि। तेन तासामनुरक्षया स्तोकस्तोकं गृहीत्वा पूर्वाह्णिका कृता। तथैव वेलायां भुक्तमकाले पानकं च पीतम्। ततः स्तोकस्तोकेन प्रभूतं सम्पन्नम्। स चाध्वपरिश्रान्तः। तेन प्रभूतं भुक्तम्। सः अजीर्णो जातः। विषुचितः कालगतः। स भिक्षुभिः श्मशानं नीत्वा दग्धः। धर्मश्रवणं दत्तम्। अनुपूर्वेण विहारः प्रविष्टः। चीवरगोपकेन ग्लानोपस्थायिकः अभिहितः। आनय तस्य पात्रचीवरमिति। स कथयति। द्वादशवर्गिकानां हस्ते स्थापितम्। ताः पृष्टाः कथयन्ति। अस्माभिर्महाप्रजापत्युर्हस्ते स्थापितम्। महाप्रजापतिः कथयति। मया आनन्दस्य संन्यस्तमिति। आयुष्मनानन्दः कथयति। मया अमुष्मिन् विहारे स्थापितम्। इत्येतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। आनन्देन स्थापितं भिक्षुणा प्रतिवस्तु मृतपरिष्कारिकमधिष्ठातव्यम्। एवं च पुनरधिष्ठातव्यम्। शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्ठवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्। ऱ्उणोतु भदन्तः संघः। अस्मिन्नावासे मूलफल्गुणो भिक्षुः कालगतः। तस्य पात्रचीवरम् सचीवरचीवरिकम् आनन्दस्य हस्ते तिष्ठति। स चेतसंघस्य प्राप्तकालं क्षमेतानुजानीयात् संघः। यत् संघो मूलफल्गुनस्य भिक्षो पात्रचीवरं सचीवरचीवरिकमानन्देन भिक्षुणा प्रतिवस्तु मृतपरिष्कारिकमधितिष्ठेदित्येषा ज्ञप्तिः। आयुष्मानुदाली बुद्धं भगवन्तं पृच्छति। अन्यत्र भदन्त भिक्षुः कालं कुर्यादन्यत्रास्य पात्रचीवरमन्यत्र प्रतिवस्तुकः। तत्पात्रचीवरं कस्य प्रापद्यते। योऽत्र उदालिन् प्रतिवस्तुको भिक्षुर्गृही वा।



श्रावस्त्यां निदानम्। तेन खलु समयेन नवकर्मिको भिक्षुः कालगतः। भिक्षवस्तस्य पात्र चीवरं कौकृत्यान्न भाजयन्ति। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। सर्वसंघं सन्निपात्यासौ लक्षितव्यः। किं सम्भिन्नकारी न वा इति। यदि सम्भिन्नकारी। सांधिकं स्तौपिकं करोति। स्तौपिकं वा सांघिकम्। एवमधार्मिकम्। तस्य पात्रचीवरं सचीवरचीवरिकं त्रीन् भागान् कर्तव्यम्। बुद्धस्य। धर्मस्य। संघस्य। सांघिको भिक्षुभिर्भाजयितव्यः। बुद्धसन्तकेन बुद्धपूजा वा गन्धकुट्यां स्तूपे वा नवकर्म कर्तव्यम्। धर्मसन्तकेन बुद्धवचनं वा लेखयितव्यम्। सिंहासने वा उपयोक्तव्यम्। न चेत् सम्भिन्नकारी सर्वमेव भिक्षुभिर्भाजयितव्यम्। नात्र कौकृत्यं करणीयम्।



श्रावस्त्यां निदानम्। तेन खलु समयेन संबहुला भिक्षवो जनपदचारिकां चरन्तोऽनुपूर्वेण श्रावस्त्यामुपनगरमनुप्राप्ताः। तन्मध्यादेको भिक्षुः कालगतः। ते संलक्षयन्ति। बहिर्विहारस्य भाजयामः। विहारं प्रविष्टानां सब्रह्मचारिणोऽपि भागं प्रार्थयिष्यन्तीति। श्रावस्ती तन्निवासिभिर्गोपालकैः पशुपालकैस्तृणहारकैः काष्ठहारकैः पथाजीवैरुत्पथाजीवैश्च मनुष्यैः समन्तादाकीर्णा। ते यत्र यत्र निषीदन्ति भाजयाम इति तत्र तत्र महाजनेन परिवार्यन्ते। ते संलक्षयन्ति। विहार समीपे भाजयाम इति। ते विहारसमीपे भाजयितुमारब्धाः। उपधिवारिकेण दृष्ट्वा उक्ताश्च। आयुष्मन्तः किं कुरुथ। तैर्यथावृत्तं समाख्यातम्। स कथयति। अहमपि सीमाप्राप्त इति। तैस्तस्य विवाचयतो न दत्तम्। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। अन्तःसीमायामन्तःसीमासंज्ञिनो मृतपरिष्कारं भाजयन्ति। अभाजितं दुर्भाजितम्। पुनरपि सीमाप्राप्तैः सह भाजयितव्यम्। अन्यथा सातिसाराः। एवमन्तःसीमायां वैमतिका भाजयन्ति। अभाजितं दुर्भाजितम्। पुनरपि सीमाप्राप्तैः सह भाजयितव्यम्। अन्यथा सातिसाराः। बहिःसीमायामन्तःसीमासंज्ञिनो मृतपरिष्कारं भाजयन्ति। अभाजितं दुर्भाजितम्। पुनरपि सीमाप्राप्तैः सह भाजयितव्यम्। अन्यथा सारिसाराः भवन्ति।



श्रावस्त्यां निदानम्। तेन खलु समयेन भिक्षुणा भोक्षुर्हस्ते (भिक्षोश्ची) वराणि प्रेषितानि। तेन भिक्षुणा येन प्रेषितानि तस्य विश्वासेन परिमुक्तानि। एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह। अविश्वासे भिक्षवस्तेन भिक्षुणा विश्वासमुत्पादितम्। यस्य येन भिक्षुणा प्रेषितानि तस्य तेन विश्वासेन परिभुक्तानि।



अपि तु भिक्षुर्भिक्षोर्हस्ते भिक्षोश्चीवरकाणि प्रेषयति। यस्य प्रेषितानि तस्य विशासेन परिभुक्ते। सुपरिभुक्तानि। येन प्रेषितानि तस्य विश्वासेन परिभुंक्ते। दुष्परिभुक्तानि॥ १॥ भिक्षुर्भिक्षोश्चीवरानि प्रेषयति। यस्य प्रेषितानि अ कालगतः। येन प्रेषितानि तस्य विश्वासेन परिभुंक्ते। दुष्परिभुक्तानि। यस्य प्रेषितानि तस्य कल्पेन तस्य मृतपरिष्कारिकमधितिष्टति। स्वधिष्ठितानि॥२॥ भिक्षुर्भिक्षोश्चीवराणि प्रेषयति। येन प्रेषितानि स कालगतः। येन प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकमधितिष्ठति। दुरधिष्ठितानि॥३॥ भिक्षुर्भिक्षोश्चीरकाणि प्रेषयति। यस्य प्रेषितानि तेन प्रतिक्षिप्तानि। तेन प्रेषितानि तस्य विश्वासेन परिभुक्ते। (सुपरिभुक्तानि।) यस्य प्रेषितानि तस्य विश्वासेन परिभुंक्ते। दुष्परिभुक्तानि॥४॥ भिक्षुर्भिक्षोश्चीवरकाणि प्रेषयति यस्य प्रेषितानि स कालगतः। यस्य प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकमधितिष्ठति। स्वधिष्ठितानि। (येन प्रेषितानि ) तस्य कल्पेन मृतपरिष्कारिकमधितिष्ठति। दुरधिष्ठितानि॥५॥ भिक्षुर्भिक्षोश्चीवरकाणि प्रेषयति। यस्य प्रेषितानि तेन प्रतिक्षिप्तानि। येन प्रेषितानि स च कालगतः। यस्य प्रेषितानि तस्य विश्वासेन परिभुंक्ते। दुष्परिभुक्तानि। येन प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकमधि तिष्ठति। स्वधिष्ठितानि॥६॥ भिक्षुर्भिक्षोश्चीवरकाणि प्रेषयति। यस्य प्रेषितानि तेन प्रतिक्षिप्तानि। स कालगतः येनापि प्रेषितानि स कालगतः। यस्य प्रेषितानि तस्य कल्पेन मृतपरिष्कारमधितिष्ठति। दुरधिष्ठितानि। येनापि प्रेषितानि तस्य कल्पेन मृतकरिष्कारमधितिष्ठति। स्वधिष्ठितानि॥७॥



॥चीवरवस्तु समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project