Digital Sanskrit Buddhist Canon

महासांघिकानां प्रातिमोक्षसूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
महासांघिकानां प्रातिमोक्षसूत्रम्



नमो वै भगवते वीतरागाय॥



1. नरेन्द्रदेवेन्द्रसुवन्दितेन त्रिलोकविद्युषु विशालकीर्तिना।

बुद्धेन लोकानुचरेण तायिनामुदेशितं प्रातिमोक्षं विदुना॥१॥



2. तं प्रातिमोक्षं भवदुःखमोक्षं श्रुत्त्वानुधीराः सुगतस्य भाषितां।

षडिन्द्रियं सम्वरसम्वृतत्वात्करोन्ति जातीमरणस्य अन्तं॥



3. चिरस्य लब्ध्वा रतनानि त्रीणि बुद्धो योदं मायिकाञ्च शुद्धां।

दौःशीलवद्यं परिवर्ज्जयित्वा विशुद्धशीला भवथाप्रमत्ताः॥



4. शीलेन युक्तो श्रमणो तिरेति शीलेन युक्तो ब्राह्मणो तिरेति।

शीलेन युक्तो नरदेवपूज्यो शीलेन युक्तस्य हि प्रातिमोक्षं॥



5. अनेक बुद्धानुमतं विशुद्धं शीलं प्रतिष्ठा धरणीवसान्तं।

तदाहरिष्याम्यहं संघमध्ये हिताय लोकस्य सदेवकस्य॥



उपोद्घातः



1. किञ्जीवितेन तेषां येषामिहाकुशलमूलजालानि।

प्रच्छादयन्ते हृदयं गगनमिव समुन्नता मेघाः॥

अतिजीवितं च तेषां येषामिहाकुशलमूलजालानि।

विलयं व्रजन्ति क्षिप्रं दिवसकरहतान्धकारमिव॥



2. किं पोषधेन तेषां ये ते सावद्यशीलचरित्राः।

जरामरणपंजरगता अमरवितर्क्के हि खाद्यन्ति॥

कार्यं च पोषधेन तेषां ये ते अनवद्यशीलचारित्राः।

जरामरणान्तकरा मारिव लयमर्द्दनाधीराः॥



3. किं पोषधेन तेषामलर्ज्जिनां भिन्नवृत्तशीलानां।

मिथ्याजीवरतानाममरणमिव वदन्तानां॥

कार्यं च पोषधेन तेषां लर्ज्जिनाम् भिन्नवृत्तशीलानां।

सम्यज्जीवरतानामध्याशयशुद्धशीलानां॥



4. किं पोषधेन तेषां ये ते दुःशी लयाय कर्म्मान्ताः।

कुणपमिव समुद्रतो समुत्क्षिप्ताः शास्तुः प्रवचनात्॥

कार्यञ्च पोषधेन तेषां ये ते तेधातुके अत्र प्रज्ञिप्ताः।

आकाशे वियं पाणिशुद्धानां विमुक्तचित्तानां॥



5. किं पोषधेन तेषां षडिन्द्रियं ये हि अरक्षितं नित्यं।

पतितानां माराविषयेसु गोचरं वर्ज्जयन्तानां॥

कार्यं च पोषधेन तेषां षडिन्द्रियं ये हि सुरक्षितं नित्यं।

मुक्तानां शास्तुर्वचने जिनवचने शासनरतानां॥



6. किं पोषधेन तेषां मात्मशीले हि ये स्वयं वदन्ति।

सब्रह्मचारिणश्च शस्तादेवमनुष्याश्च दुःशीलाः॥

कार्यञ्च पोषधेन तेषां शीले हि नास्ति गार्ह्यं।

सर्व्वत्र योयंवद्या विज्ञानाम्वै सदेवके लोके॥



7. किं पोषधेन तेषां विरागितं शास्तु शासनं।

ये हि आसेविता च ये हि विपत्तीयो पञ्च चापत्तीः॥

कार्यं च पोषधेन तेषां युक्तानां शासने दशबलस्य।

संबुद्धस्य सर्व्वदर्शिन्यो मैत्रीपदा ये हि परिचीर्ण्णाः॥



8. येषां च वसति हृदये शास्ता धर्म्मो गणोत्तमो।

शिक्षा उद्देशो सम्वासो संतोषो शास्तुनो वचनम्॥

तेषाम् पोषधो अद्य परित्यक्तानि ये हि एतानि।

परिचर्यधर्मराजन्तेषामस्ति असंस्कृतं ज्ञानं॥



9. शुद्धस्य वै सदा हस्तः सदा शुद्धस्य पोषधो।

शुद्धस्य शुचिकर्म्मस्य सदासंघस्य ते एतं॥



10. यावत्सूत्रप्रातिमोक्षे सो गणमध्य न भेष्यति।

तावत्स्थास्यति सद्धर्मो सामग्री च गणोत्तमे॥



11. यावद्दुद्देशयितारः प्रतिपत्तारश्च धर्मरतनस्य।

तावत्स्थास्यति सद्धर्म्मो हिताय सर्व्वलोकस्य॥



12. तस्मात्समग्राः सहिताः सगौरवा भविथा।

अन्यमन्यं परिचरथ धर्मराजमधिगच्छथ॥

निर्व्वाणता अच्युतस्य दमशोकमिति॥



वस्तु-अतिक्रान्ताः सुविहिताः शुद्धनिपुणा अन्तसमापन्नो उपनिषण्णाः चारित्राः शलाकागणिता भिक्षुणीमाप्राप्ता एत्तर्कजनाः। अनागतानामायुष्मन्तो भिक्षुणाच्छन्द पारिशुद्धिमारोचेथे। आरोचितञ्च प्रतिवेदेथ-को भिक्षु भिक्षुणीनां छन्दहारको नास्ति चात्र कश्चिदनुपसंपन्ना नास्ति उष्णियुक्तो नास्ति मातृघाती नास्ति पितृघाती नास्ति अर्हन्तघातको। नास्ति संघभेदको। नास्ति तथागतस्य दुष्तचित्तरुधिरो खादके। नास्ति भिक्षुणी दूषको। नास्ति स्तैन्यसम्वासिको। नास्ति नानासम्वासिको नास्ति असम्वासिको। नास्ति कायक्रान्तको (?) नास्ति स्वयं समुद्दिको। तदेवं समन्वाहरन्त भगवतो श्रावकाणां नित्यविशुद्धानां परिशुद्धशिलानां। शृणोतु मे भन्ते संघो अद्य संघस्य चातुर्द्दशिको वा सन्धिपोषधो वा विशुद्धिनक्षत्रं। एत्तकं रात्तस्य निग्गतं। एत्तमवशिष्टं। किं संघस्य पूर्व्वकृत्यं। अल्पकृत्यो भगवतः श्रावको संघो सो भवति। शृणोतु मे भन्ते संघो अद्य संघस्य पाञ्चदशिको पोषधो विशुद्धिनक्षत्रं यदि संघस्य प्राप्ताकालं संघो इमस्मिन् पृथिवीप्रदेशे यवतकं भिक्षुसंघेनाभिगृहीतं समन्तनव्याममात्रं अत्रान्तरे पाञ्चदशिकं पोषधं कुर्यात्प्रातिमोक्षं च सूत्रमुद्दिशेय्या, ओवदिकात्रयाज्ञप्तेः॥



करिष्यते भन्ते संघो इमस्मिन् पृथिवीप्रदेशे यावतकं भिक्षुसंघेनाभिगृहीतं समन्तन व्याममात्रमत्रान्तरे पाञ्चदशिकं पोषधं प्रातिमोक्षं च सूत्रमुद्दिशिष्यति। क्षमते तं संघस्य यस्मात्तूष्णीमेवमेतन्धारयामि। अभिमुखं क्षामति जरामरणं क्षीयति जीवते प्रियं हायति सद्धर्म्मा अस्तमेति। धर्मोल्को निर्व्वापन्ति देशयितारः। परीत्ता भवन्ति प्रतिपत्तारः। गच्छन्ति क्षणलवमुहुर्त्तरात्रिन्दिवसमासार्द्धमासऋतुसम्वत्सराः। गिरिनदीजलचपलचञ्चलोपमा आयुः। संस्कारामुद्धर्त्तमपि नावतिष्ठन्ते। अप्रमादेनायुष्मन्ते हि सम्पादयितव्यम्। तत्कस्य हेतोः। अप्रमादाधिगतानां हि तथागतानामर्हतां सम्यक्सम्बुद्धानां वैधिः। अप्रमादाधिगतो चानुत्तरो उपधि संक्षपीति वदाम। तेनाप्रमादेनायुष्मन्ते हि संपादयितव्यं। दशान्वसन् सम्पश्यमानास्तथागताऽर्हन्तः सम्यक् संबुद्धाः॥ श्रावकाणामधिशीलं शिक्षं पदं प्रज्ञापयन्ति। प्रतिमोक्ष च सूत्रमुद्दिशन्ति। कतमान्दश। संय्यथीदं। संघसंग्रहाय संघसुष्ठुताय। दुर्मत्कुण्नां पुद्गलानान्निग्रहाय पेशलानाञ्च भिक्षुणा फासु विहाराय। अप्रसन्नानां प्रमादाय। प्रसन्नानाञ्च त्रयोभावाय दृष्टधार्मिकाणामाश्रवाणां निर्घाताय सम्परायिकाणामाश्रवाणामापत्यामननुश्रवणताय। यथेमं स्यात्प्र वचनं विरक्षितिकं वा भुजन्यंविवृतं सुप्रकाशितं यावन्देवमनुष्येष्विति। इमान्दशान्चवसान्संपश्यमानास्तथागता अर्हन्तः सम्यक् सम्बुद्धाः। श्रावकाणामधिशीलं शिक्षपदं प्रज्ञापयन्ति। प्रतिमोक्षञ्च सुत्रमुद्दिशन्ति।



प्रातिमोक्षमायुष्मान्तो सूत्रमुद्दिशिष्यामि। तां शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्यामि। पश्य वो सियापत्तिः सोऽविष्करोत्तु। असन्तीये आपत्तीये तूष्णी भवितव्यं। तूष्णीम्भावेन। खो पुनरायुष्मन्तो परिशुद्ध इति वेदयिष्यामि यथा खो पुनरायुष्मन्तो प्रत्येकं प्रत्येकं पृच्छितस्य भिक्षुस्य व्याकरणं भवति। एवमेव मेवं रूपाये भिक्षुपर्याये यावन्तृतीयकं समनुश्रावयिष्यति। यो पुनभिक्षु एवं रूपाये भिक्षुपर्याये यावन्तृतीयकं समनुश्रावियमाणो स्मरमाणो सन्ती मापत्तीन्नाविष्करोति। संप्रज्ञानं मृषावादो मे भवति। संप्रजानमृषावादो खो पुनरायुष्मन्तो अन्तरायिको धम्मो उक्तो भगवता। तस्मात्स्मरमाणेन भिक्षुण आपन्ने विशुद्धि प्रेक्षेण सन्ती आपत्ती आविष्कर्त्तव्या। आविष्कृत्वा च मे फासु भवति नो अनाविष्कृत्वा। निदानं॥



I. THE FOUR PARAJIKA DHARMAS.



इमे खो पुनरायुष्मन्तो चत्वारः पाराजिका धर्मा अन्वर्द्धमासं सूत्रे प्रातिमोक्षे उद्देशमागच्छन्ति।



1. यो पुनभिक्षु भिक्षुणा शिक्षा सामीचीसमापन्नो शिक्षामाप्रत्याख्याय दौर्व्वल्यमनाविष्कृत्वा मैथुनं ग्राम्यधर्म्मं प्रतिषेवेय अन्तमशतो तिर्यग्योनिगतायमपि सार्द्धमयं भिक्षुः पाराजिको भवत्यसंवास्यो न लभते भिक्षु हि सार्द्ध संवासं।



इदं भगवता वेशालीयं शिक्षापदं प्रज्ञप्तं पञ्चवर्षाभिसंबुद्धेन हेमन्ते पक्षे पञ्चमे दिवसे द्वादशमे पूरे भुक्तमुत्तरामुखनिषण्णेन द्व्यर्द्धपौरुषायांच्छायायां आयुष्मन्तं यशिककलन्दकपुत्रमारभ्य इमस्य च शिक्षापदस्य प्रज्ञप्तिर्धर्मो यथा प्रणिहितस्य च या अनुवर्तनता अयमुच्यते अनुधर्मो।



2. यो पुनभिक्षू ग्रामाद्वा अरण्याद्वा अदिन्नमन्यातकं स्तैन्यसंस्कारमादियेय यथारूपेणादिन्नादानेन जानो गृहीत्वा हन्येम्वा वधेम्वा प्रव्राजेम्वा हम्भो पुरुष चोरोसि बालोसि मूढोसि स्तैन्योसीति वा वदेम् तथारूपं भिक्षूरदिन्नमादेयमानो अयमे भिक्षूः पाराजिको भवत्यसम्वास्यो न लभते भिक्षू हि सार्द्धसंवासं।



इदं भगवता राजगृहे शिक्षापदं प्रज्ञप्तं षड्वर्षाभिसम्बुद्धेन हेमन्ते पक्षे द्वितीवसे नवमे पश्चाद्भुक्तं पुरस्तान्मुखनिषण्णेन। अर्द्धतीयपौरुषायां च्छायायामायुष्मन्तं धनिकं कुंभकारजातियमारभ्य राजानञ्च श्रेणीयं बिम्बसारं पांसुकुलिकं च भिक्षु। इमस्य च शिक्षापदस्य प्रज्ञप्तिर्धर्मो यथा प्रणिहितस्य च या अनुवर्त्तनता अयमुच्यते अनुधर्मो।



3. यो पुनभिक्षुः स्वहस्तं मनुष्यविग्रहं जीविताद् व्यापरोपेय शस्त्रहारकं वास्य पर्येयेय मरणाय चैनं समादापेय मरणावण्णं वास्य संवण्णेय हम्भो पुरुष किन्ते इमिना पापकेन दुर्ज्जीवितेन विश्जीवितेन मृतन्ते जीविताच्छ्रेयो इति चित्तमलं चित्तसंकल्पमनेकपर्यायेण मरणाय चैनं समादापेय मरणवण्णवास्य संवण्णेय सो च पुरुषो तेनोपक्रमेण कालं कुर्यान्नान्येन अयं पि भिक्षूः पाराजिको भवत्यसंवास्यो न लभते भिक्षुहि सार्धसंवासं।



इदं भगवता वेशालीयं शिक्षापदं प्रज्ञप्तं षड्वर्षोऽभिसंम्बुद्धेन हेमन्ते पक्षे तृतीये दिवसे दशमे पश्चाद् भुक्तं पुरस्ताभिमुखानिषण्णेन अर्द्धतृतीयेन पौरुषायांच्छायायां सम्बहुलान गिलानोपस्थापकान् भिक्षूनारभ्य मृगदण्डिकं च परिव्रजकमिमस्य च शिक्षापदस्य प्रज्ञप्तिर्द्धर्मो यथा प्रणिहितस्य च या अनुवर्त्तनता अयमुच्यते अनुधर्मो।



4. यो पुनभिक्षुरनभिजाननुपरिजानन्नात्मोपनायिकमुत्तरि मनुष्य [धर्मं] इत्। अयं पि भिक्षूः धर्म्ममलमार्यज्ञानदशनं विशेषाधिशेषाधिगम प्रतिजानेय इति जानामि इति पश्यामीति। सो तदपरेण समयेन समनुग्राहियमाणो, वा अ[स] मनुग्राहियमाणो वा आपन्नो विशुद्धिप्रोक्षो एवमवचि। अजानन्नेवाहमायुष्मन्तो अवचि जानामि। अयं पि पश्यामीति इति तुच्छं मृषाविलापमन्यत्राभिमानात्। अयं पि भिक्षूः पाराजिको भवत्यसंवास्यो न लभते भिक्षूहि सार्द्धंसं [वासं]।



इदं भगवता श्रावस्तीयं शिक्षापदं प्रज्ञप्तं षड्वर्षाभिसंबुद्धेन हेमन्ते पक्षे चतुथ्थे दिवसे त्रयोदशमे पूरे भुक्तं उत्तरामु खनिषण्णेन अर्द्धन्थ पौरुषायांच्छायायां सम्बहुलान् ग्रामवासिका भिक्षुनारभ्य आभिमानिकं च भिक्षु इमस्य च शिक्षापदस्य प्रज्ञप्तिर्द्धर्मो यथाप्रणिहितस्य च या अनुवर्त्तनता अयमुच्यते अनुधर्मो।



उद्यानं॥ [1] मैथुनं [2] अदिन्नादानं [3] वधो मनुष्यविग्रहं [4] स्यात्कृतेन चोत्तरिमनुष्यधर्म प्रतिजानतीति॥



उद्दिष्ताः॥ खो पुनरायुष्मनो चत्वारः पाराजिका धर्माः। येषां भिक्षुरितोन्यतरामापत्तिमापद्येत्वा पाराजिको भवत्यसम्वास्यो न लभते हि भिक्षुहि सार्द्धसंवासं। यथापूर्व्वे तथा पश्चाद्यथापश्चात्तथा पूर्व्वे पाराजिको भवत्यसम्वास्यो न लभते भिक्षु हि [सार्धं] संवासं। तत्रायुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः। द्वितीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धास्तृतीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः परिशुद्धात्रायुष्मन्तो यस्मात्तूष्णीमेव मेतं धारयामि।



II. THE THIRTEEN SAMGHATISESA DHARMAS.



इमे पुनरायुष्मन्तो त्रयोदश संघातिशेषा धर्मा अन्वद्धर्मासं सूत्रे प्रातिमोक्षे उद्धेशमागच्छन्ति।



1. संचेतनिका ये शुक्रस्य विशृष्तीये अन्यत्र स्वप्नान्तरें संघातिशेषो।



2. यो पुनभिक्षु ओतीण्णा विपरिणतेन चित्तेन मातृग्रामेण सार्द्धं कायसंसंग्गं समापद्येय संयथीदं हस्तग्रहणं वा वेणीग्रहणम्वा अन्यतरान्यतरस्य वा पुनरङ्गजातस्य प्रामोद्य शपरासोपिणं शादियेय संघातिशेषो।



3. यो पुनभिक्षु ओतीण्णा विपरीतेन चित्तेन मातृग्रामं दुस्थूलाय वाचाय ओभाषेय पापिकाय मैथुनाय संवीताय संयथीदं युवां युवां युवतीति संघातिशेषो।



4. यो पुनभिक्षु ओतीण्णो विपरिणतेन चित्तेन मातृग्रामस्य अन्तिके आत्मिकाये परिचर्याये वण्णं भाषेय एतदग्रं भगिनि परिचर्याणां या मादृशं श्रमणं शीलवन्तं कल्याणधर्मं ब्रह्मचारिं एतेन धर्मेण उपस्थिहेय परिचरेय यदुत मैथुनोपसंहितेनेति संघातिशेषो॥



5. यो पुनभिक्षुः संचरित्रं समापद्येय स्त्रियाये वा पुरुषस्योपसंहरेय पुरुष्यस्य वा सतं स्त्रियाये उपसंहरेय जायत्तनेन वा जार्त्तनेन वा अन्तमसतो भिक्षुणि कायामपि संघातिशेषो॥



6. स्वयं चायिकाय भिक्षुणा कुटी कारापयमाणेन अस्वाभिकात्मोद्देशिकां कुटीकारापयितव्या। तत्रेदं प्रमाणं दीर्धसो द्वादशवितस्तीयो सुगतवितस्तिना। तिर्यक सप्तान्तरं भिक्षु चानोनाभिनेतव्या वस्तुदेशनाय ते हि भिक्षु हि वस्तु देशयितव्यं। अनारम्भां सपरिक्रमणं सारम्भे चे भिक्षु वस्तुस्मिन्नपरिक्रमणे स्वयं याचिकाय कुटीं कारापेयं। अस्वाभिकामात्मोद्देशिकं भिक्षुस्तानाभिनेय वस्तुदेसनाय। प्रमाणं वा अतिक्रमेय अदेशिते वस्तुस्मिन्नपरिक्रमणे संघातिशेषो।



7. महालकं भिक्षुणा विहारं [कारा] पथमाणेन सस्वामिककात्मोद्देशिकं भिक्षुवानेनाभिनेतव्या वस्तुदेशनाय ते हि भिक्षू हि वस्तु देशयितव्यं। अनारम्भः सपरिक्रमणं सारम्भे चे भिक्षूं वस्तुस्मिन्नपरिक्रमणं महल्लकं विहारं कारापेय सस्वामिकमात्मोद्देशिकं भिक्षुन्वा नाभिनेय वस्तुदेशना य अदेशिते वस्तुस्मिन्नपरिक्रमणे संघातिशेषो।



8. यो पुनभिक्षू भिक्षुस्य दुष्तो दोषात्कुपितो अनात्तमनो शुद्धं भिक्षूमनापतिकममूलकेन पाराजिकेन धर्मेण अनुध्वंसेय अप्पेव नाम इमं भिक्षूं ब्रह्मचर्यातो च्यावेयन्ति। सो तदपरेण समयेन समनुग्राहियमाणो वा असमनुग्राहियमाणो वा अमूलकमेव तमधिकरणं भवति। अमूलकस्य च अधिकरणस्य च अधर्मो उपादिन्नो भवति। भिक्षु च दोषे प्रतिष्ठिहति। दोषादवचामीति संघातिशेषो।



9. यो पुनभिक्षू भिक्षुस्य दुष्तो दोषात्कुपितो अनात्तमनो अन्यभागीयस्याधिकरणस्य किञ्चिदेव लेसामात्रकं धर्ममुपादाय अपराजिकं भिक्षूं पराजिकेण धर्मेण अनुध्वंसेय अप्पेव नाम इमं भिक्षुं ब्रह्मचर्यातो च्यावेयन्ति। सो तदपरेण समयेन समनुग्राहियमाणो वा असमनुग्राहियमाणो वा अन्यभागीयमेव तमधिकरणं भवति। अन्यभागीयस्य चाधिकरणस्य केचि [देव] लेसामात्रको धर्मो उपादिन्नो भवति। भिक्षु च दोषे प्रतिष्ठहति दोषादवचामीति संघातिशेषो।



10. यो पुनभिक्षुः समग्रस्य संघस्य भेदाय पराक्रमेय भेदनसम्वर्त्तनीयम्वाऽधिकरणं। समादाय प्रगृह्य तिष्ठेय सो भिक्षु भिक्षुहि एवमस्य वचनीयो मा आयुष्मन् समग्रस्य संघस्य भेदाय पराक्रमेहि। भेदन सम्वर्त्तनीयम्वा अधिकरणं समादाय प्रगृह्य तिष्ठाहि। समेत्त आयुष्मान्सार्द्धं संघेन समग्रोहि संघो सहितो सम्मोदमानो अविवदमानो एकुद्देशो क्षीरोदकी भूतो शास्तुः शासनं दीपयमानो सुखं च फासुञ्च विहरति। एवं च स भिक्षू भिक्षू हि वुच्यमानो तं वस्तुं प्रतिनिस्सरेय इत्येतं कुशलं। सो च प्रतिनिस्सरेय सो भिक्षू भिक्षू हि यावन्तृतीयकं समनुग्राहितव्यो समनुभाषितव्यो तस्य वस्तुस्य प्रतिनिस्सग्गाय यावन्तृतीयकं समनुग्राहियमाणो वा समनुभाषियमाणो वा। तं वस्तुं प्रतिनिस्सरेय इत्येतं कुशलं नो च प्रतिनिस्सरेय तमेव वस्तुसमादाय प्रगृह्य तिष्ठेय संघातिशेषो।



11. तस्य खो पुनभिक्षुस्य भिक्षुसहायका भोन्ति। एको वा द्वौ वा त्रयो वा सम्बहुला वा वगवादका अनुवत्तकाः समनुष्याः संघभेदाय ते भिक्षू तान्भिक्षूनेवं वदेय्य मा आयुष्मन्तो एतं भिक्षुं किञ्चिद्वदथ। कल्याणं वा पापकम्वा। धर्म्मवादी चैषो भिक्षू विनयवादी चैषो भिक्षू अस्माकं चैषो भिक्षूच्छन्दञ्च रूचिञ्च समादाय प्रगृह्य व्यवहरति। य चैतस्य भिक्षूस्य क्षमते च रोचते च अस्माकमपि तं क्षमते च रोचते च जानन् चैषो भिक्षु भाषते नो अजानन्। ते भिक्षू भिक्षू हि एवमस्य वचनीया मायुष्मन्तो एवं वदथ न एषो भिक्षू धर्मवादी न एषो भिक्षू विनयवादी अधर्मवादी चैषो भिक्षू अविनयवादी चैषो भिक्षू अजानन् चैषो भिक्षू भाषते नो जानन्। मा आयुष्मन्तो संघभेदं रोचेन्त संघसामग्रीमेवायुष्मन्तो रोचन्त। समेन्त आयुष्मन्तो सार्धं संघेन समग्रो हि संघो सहितो सम्मोदमानो अविवदमानो एकुद्देशो क्षीरोदकी भूतो शास्तुः शासनं दीपयमानो सुखं च फासुं च विहरति। एवञ्च ते भिक्षु भिक्षुहि वुच्यमानास्तम्वस्तुं प्रतिनिस्सरे‍अ इत्येतं कुशलं नो च प्रतिनिस्सरे‍अ ते भिक्षू भिक्षू हि यावन्तृतीयकं समनुग्राहितव्याः समनुभाषितव्याः। तस्य वस्तुस्य प्रतिनिस्सग्गाय यावन्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तम्वस्तुं प्रतिनिस्सरे‍अ इतं कुशलं नो च प्रतिनिस्सरेंसु तमेव च वस्तुं समादाय प्रगृह्य तिष्ठेय संघातिशेषो।



12. भिक्षुः खो पुनदूर्व्वचकजातीयो भोति सो उद्देशपर्यापन्ने हि शिक्षापदे हि भिक्षु हि शिक्षायां सहधर्मेण सहविनयेन वुच्य मानो आत्मानमवचनीयं करोति। सो एवमाह। मा मां आयुष्मन्तो किञ्चिद्वदथ कल्याणं वा पापकं वा। अहमप्यायुष्मन्तानां न किञ्चिद् प्रच्छोमि। कल्याणं वा पापकं वा विरमन्वायुष्मन्तो मम वचनाय। सो भिक्षू भिक्षू हि एवमस्य वचनीयो मा आयुष्मन्नुद्देशपर्यापन्ने हि शिक्षापदे हि भिक्षू हि शिक्षायां सहधर्मेण सह विनयेन वुच्यमानो आत्मानमवचनीयं करो हि वचनीयम् वायुष्मानात्मानं करोत्तु भिक्षु पि आयुष्मन्तम्वक्षन्ति शिक्षायां सहधर्मेण सहविन[येन] आयुष्मानपि भिक्षून्वदन्तु शिक्षया सहधर्मेण सहविनयेन। एवं सम्वद्धा खो पुनस्तस्य भगवतो तथागतस्यार्हतः सम्यक् सम्बुद्धस्य यथा यदिदमस्य मन्यस्य वचनीया अन्यो न्यापत्ति व्युत्थापनीया। एवं च सो भिक्षू भिक्षू हि वुच्यमानो तं वस्तुं प्रतिनिस्सरेय इत्येतं कुशलं नो च प्रतिनिस्सरेय सो भिक्षू भिक्षू हि यावन्तृतीयकं समनुग्राहितव्यो समनुभाषितव्यो तस्य वस्तुस्य प्रतिनिस्सग्गाय यावन्तृतीयकं समनुग्राहियमाणो वाभिवस्तुं प्रतिनिस्सरेय इत्येतं कुशलं नो च प्रतिनिस्सरेय तमेव वस्तुं समादाय प्रगृह्य तिष्ठेय संघातिशेषो।



भिक्षु खो पुनरन्यतरं ग्रामम्वा नगरम्वा निगमम्वा उपनिश्राय विहरन्ति। कुलदूषकाः पापसमाचारास्तेषान्ते पापकाः समाचारा दृश्यन्ते च श्रूयन्ते च कुलान्यपि दुष्तानि दृश्यन्ते च श्रूयन्ते च कुलदूषकाश्च पुनर्भवन्ति। पापसमाचाराः ते भिक्षू भिक्षू हि एवमस्य व चनीयाः। आयुष्मन्तानां खलु पापकाः समाचाराः दृश्यन्ते च श्रूयन्ते च कुलान्यपि दुष्तानि दृश्यन्ते च श्रूयन्ते च। कुलदूषकाश्च पुनरायुष्मन्तः पापसमाचाराः प्रक्रमन्वायुष्मन्तो इमस्मादावासादलम्वा इह वासेनेति। एवं च ते भिक्षू भिक्षू हि वुच्यमानास्ते भिक्षू तान्भिक्षुने वदे‍अ च्छन्दगामी चायुष्मान्तो संघो दोषगामी चायुष्मन्तो संघो मोहगामी चायुष्मन्तो संघो भयगामी चायुष्मन्तो संघो संघो च ताहि तादृशिकाहि आपत्तीहि। एकत्यान् भिक्षून् प्रव्राजेति एकत्यान्भिक्षुन्न प्रव्राजेति ते भिक्षू भिक्षू हि एवंमस्य वचनीयाः। मा आयुष्मन्तो एवं वद न च भिक्षू न संघो च्छन्दगामी। न संघो दोषगामी न संघो मोहगामी। न संघो भयगामी। न च संघो ताहि तादृशिकाहि आपत्तीहि। एकत्यान्भिक्षून् प्रव्राजेति एकत्यान्भिक्षून्न प्रव्राजेति। आयुष्मन्तानामेव खलमापकः समाचारा दृश्यन्ते च श्रूयन्ते च कुलान्यपि दुष्तानि दृश्यन्ते च श्रूयन्ते च कुलदूषकाश्च पुनरायुष्मन्तः ग्रामसमाचाराः प्रक्रमन्वायुष्मन्तो इमस्मादावासादलम्वा इह वासेनेति एवं च भिक्षू भिक्षू हि वुच्यमानाभिवस्तुप्रतिनिस्सरे‍अ इत्येतं कुशलं नो च प्रतिनिस्सरे‍अ ते भिक्षू भिक्षू हि यावन्तृतीयकं समनुग्राहितव्या समनुभाषितव्यास्तस्य वस्तुस्य प्रतिनिस्सग्गाय यावन्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिस्सरे‍अ इत्येतं कुशलं नो च प्रतिनिस्सरे‍अ इमे च वस्तुं समादाय प्रगृह्य तिष्ठे‍अ संघातिशेषो॥



॥उद्दानं॥ [1] संचेतनिका [2] हस्तग्रहो [3] ओभाषो [4] परिचर्याव्वणनं [[5] संचरित्रं [6-7] कुटीविहारोद्वे चा दूतेन संघस्य च [10] भेदायोपक्रामति तस्य [11] चानुवर्त्तकाः [12] दुर्व्वचको [13] कुलदूषकाश्च॥



॥उद्दिष्ताः॥ खो पुनरायुष्मन्तो त्रयोदशसंघातिशेषो धर्मास्तत्र नव प्रथमापत्तिकाश्चत्वारो यावन्तृतीयका येषां भिक्षु अन्यतरामापत्तिमापतित्वा यावन्तकं जानन्[प्रति] च्छादेति तावन्तकं तेन भिक्षुणा अकामपरिवासं परिवसितव्यं। परिवुत्थ परिवासेन भिक्षुणा उत्तरिं षडाहं भिक्षुसंघे मानत्वं चरितव्यं। चिण्णमानत्वे भिक्षूः कृतानुधर्मो आहूयन प्रतिवेद्येय अस्या विंशतिगणो भिक्षू संघो तत्र सो भिक्षु आम्रेयितव्यो। एक भिक्षुणापि वोदूनो विंशतिगणो भिक्षुसंघो तं भिक्षुमाम्रेय सो च भिक्षू अनाभृतो ते च भिक्षू गार्ह्याः इयमत्र सामीची।



तत्रायुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः द्वितीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः तृतीयमपि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः परिशुद्धा अत्रायुष्मन्तो यस्मात्तूष्णीमेवमेतं धारयामि।



III. THE TWO ANIYATA DHARMAS



इमे खो पुनरायुष्मन्तो दुवे अनियता धर्मा अन्वर्द्धमासं सूत्रे प्रातिमोक्षे उद्देशमागच्छन्ति।



1. यो पुनभिक्षु मातुग्रामेण सार्द्धं प्रतिच्छन्नासने अलङ्कर्माणीये एकोयरहो निषद्यां कल्पेय तमेन श्रद्धेय वचसा उपासिका दृष्ट्वा त्रयाणां धर्माणां मन्यतरान्यतरेण धर्मेण वादेय पाराजि केन वा संघातिशेषेण वा पाचत्तिकेन वा निषद्यो भिक्षुः प्रतिजानामानो त्रयाणां धर्माणामन्यतरान्यतरेण धर्मेण कारापयितव्यो पाराजिकेन वा संघातिशेषेण वा पाचत्तिकेन वा येन येन वा पुनरस्य श्रेद्देय वचसा उपासिका दृष्ट्वा धर्मेण वदेय तेन सो भिक्षू धर्मेण कारापयितव्यो अयं धर्मो अनियतो।



2. नाहैव खो पुनः प्रतिच्छन्नासनम्भवति। नालंकर्मणीयं अलं खो पुन मातृग्रामं दुस्थूलाय वाचाय ओभासितुं। पापिकाय मैथुनोपसंहिताय तथारूपेच भिक्षू आसने मातृग्रामेण सार्द्धंमेको एकाय रहो निषद्यां कल्पेय तमेनं श्रद्धेय वचसा उपासिका दृष्ट्वाद्विन्नान्धर्माणां मन्यतरान्यतरेण धर्मेण वदेय संघातिशेषेण वा॥ पाचत्ति केन वा निषद्यास्भिक्षुः प्रतिजानमानो द्विन्नान्धर्माणामन्यतरान्तरेण धर्मेण कारापयितव्यो। संघातिशेषेण वा। पाचत्तिकेन वा। येन येन वा पुनरस्य श्रद्धेय वचसा उपासिका दृष्ट्वा धर्मेण वदेय तेन तेन सो भिक्षू धर्मेण कारापयितव्यो अयं पि धर्मो अनियतो॥



उद्यानं॥ [1] प्रतिच्छन्नासनं [2] रहोनिषघाञ्च॥



उद्दिष्ताः॥ खो पुनरायुष्मन्तो दुवे अनियता धर्मा स्तत्रायुष्मन्तो प्रच्छामि कच्चित्थ परिशुद्धाः द्वितीयम्पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धास्तुतीयम्पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः परिशुद्धाः अत्रायुष्मन्तो यस्मात्तूष्णीमेवमेतं धारयामि॥



IV. THE THIRTY NIHSARGIKA PACATTIKA DHARMAS.



इमे खो पुनरायुष्मन्तो त्रिंशन्निस्सर्गिंक पाचत्तिका धर्मा अन्वर्द्धमासं सूत्रे प्रातिमोक्षे उद्देशमागच्छन्ति।



1. कृतचीवरे हि भिक्षू हि उद्‍धृतस्मिन्कठिने दशाहपरमं भिक्षुणा अतिरेकचीवरन्धारयितव्यं। तदुत्तरिन्धारेय निस्सर्गिक पाचत्तिकं।



2. कृतचीवरे हि भिक्षू हि उद्‍धृतस्मिन्कठिने एकरात्रं पि चेत्भिक्षु त्रयाणां चीवराणां मन्यतरान्यतरेण विप्रवसेय अन्यत्र संघसमुतीये निस्सर्गिक पाचत्तिकम्॥



3. कृतचीवरे भिक्षु हि उद्‍धृतस्मिन्कठिने उत्पद्येय भिक्षुस्य अकालचीवरमाकांक्षमाणेन भिक्षुणा प्रतिगृह्णितव्यं प्रतिगृह्णीत्वा क्षिप्र मेव तं चीवरं कारापयितव्यं। कारापयतो च तस्य भिक्षूस्य तं चीवरं न परिपूरेय मास परमन्तेन भिक्षुणा तं चीवरं निक्षिपितव्यं। ऊनस्य पारिपूरीये सन्तीये प्रत्याशाये तदुत्तरिन्निक्षिपेय सन्तीये वा अ सन्तीये वा प्रत्याशाये निस्सर्गिक पाचत्तिकम्।



4. यो पुनभिक्षूरन्यातिकाये भिक्षुणीये चीवरं प्रतिगृह्णेय अन्यत्र परिवर्त्तकेन निस्सर्गिक पाचत्तिकम्॥



5. यो पुनभिक्षुरन्यातिकाये भिक्षुणीये पुराणचीवरधोवायेय वा रंजस्येय वा आकोथोपेय वा निस्सर्गिक पाचत्तिकम्।



6. यो पुनभिक्षुरन्यातकं गृहपतिं वा गृहपतिपुत्रं वा चीवरं याचेय अन्यत्रसमये निस्सर्गिक पाचत्तिकम्॥



तत्रायं समयो अच्छिन्नचीवरो भिक्षूं भवति। अयमत्रसमयो।



7. अच्छिन्नचीवरेण भिक्षुणा क्षमते अन्यातकं गृहपतिम्वा गृहपतिपुत्रं वा चीवरं याचितुं। तमेनमभिभाष्तो सम्मतो संबहुले हि चीवरे हि प्रवारेय तथा प्रवारितेन भिक्षुणा सन्तरोत्तरपरमं चीवरं सादयितव्यं तदुत्तरिं सादियेय निस्सर्गिक पाचत्तिकम्॥



8. भिक्षुं खो पुनरुद्दिश्य अन्यतरेषां द्विन्नां गृहिपतिकानां चीवरे चेतापनान्यः अन्यानि उपसंस्कृतानि भवन्ति प्रतिसंचेतयितानि इमे हि वयं चीवरचेतापने हि चिवरं चेतापयित्वा इत्थन्नामं भिक्षुं चीवरेणाच्छादयिष्यामः। तत्र च भिक्षुः पूर्व्वे अप्रवारितो उपसंक्रमित्वा विकल्पमापद्येय साधु खो पुन यूयं मायुष्मन्तो इमे हि चीवरचेतापने हि चीवरं चेतापयित्वा इत्थं नामं भिक्षुं चीवरेणाच्छादेथ। एवंरूपेण च उभौ पि सहितौ एकेन कल्याणकामतामुपादाय प्रतिनिष्पन्ने चीवरे निसर्ग्गिक पाचत्तिकम्॥



9. भिक्षुं खो पुनरुद्दिश्य अन्यतरेषां द्विन्नां गृहपतिकस्य गृहपतिनीये च प्रत्येक चीवरचेतापनानि प्रतिसंस्कृतानि भवन्ति प्रतिसंचेतापितानि इमे हि वयं प्रत्येक चीवरचेतापने हि प्रत्येकं प्रत्येकं चीवरं चेतापयित्वा इत्थं नामं भिक्षुं प्रत्येकं प्रत्येकं चीवरेणाच्छादयिस्यामः। तत्र च भिक्षुः पूर्व्व अप्रवारितो उपसंक्रमित्वा विकल्पमापद्येय साधु खो पुनस्तमायुष्मन् त्वं च भगिनि इमे हि प्रत्येक चीवर चेतापनेहि प्रत्येकं चीवरं चेतापयित्वा इत्यं नामं भिं प्रत्येकं चीवरेणाच्छादेथ। एवं रूपेण वा एवं रूपेण वा उभौ पि सहितौ। एकेन कल्याणकामतामुपादाय प्रतिनिष्पन्ने चीवरे निस्सर्गिक पाचत्तिकम्॥



10. भिक्षु खो पुनरुद्दिश्य अन्यतरो राजा वा राजभोग्यो वा दूतेन चीवरचे तापनानि प्रेषेय सो भिक्षुस्तेनोपसंक्रमित्वा तं भिक्षुमेवं वदेय इमानि खल्वार्यमुद्दिश्य इत्थन्नामेन राज्ञा च राजभोज्येन वा दूतेन चीवरचेतापनानि प्रेषितानि तानि आर्यो प्रतिगृह्णातु। तेन भिक्षुणा सो दूतो एवमस्य वचनीयो न खो पुनरायुष्मन् क्षमते भिक्षुस्य चीवरे चेतापनानि प्रतिगृह्णीतुं। चीवरन्तु वयं प्रतिगृह्णामः कालेन समयेन कल्पिकं दीयमानं। एवमुक्तो सो दूतो तं भिक्षुमेव वादयन्ति। पुनरार्य केचिद्भिक्षुणां वैयापृत्यङ्करोति। आकांक्षामणे न भिक्षुणा सन्ता वैयापृत्यंकरं व्यपदिशितव्याः। आरामिका वा एते आयुष्मन् भिक्षुणा वैयापृत्यंकराये भिक्षुणां वैयापृत्यं करोन्ति। एवमुक्तो सो दूतो येन वैयाप्रत्यंकरास्तेनोपसंक्रमित्वा तन्वैयाप्रत्यंकरानेवं वदेय साधु खो पुन यूयमायुष्मन्तो वैयाप्रत्यंकरा इमे हि चीवरचेतापने हि चीवरं चेतापयित्वा इत्थं नाम भिक्षुं चीवरेणाच्छादेथ। कालेन समयेन कल्पिकेनानवद्येन सो च दूतो तान्वैयापृत्यंकरान् संज्ञापयित्वा येन सो भिक्षुस्तेनोपसंक्रमित्वा भिक्षूमेव वदेय ये खलु आर्येण वैयापृत्यंकरा व्यपदिष्टास्ते मया संज्ञाप्तास्तामुपसंक्रमेयामि आच्छादयिष्यन्ति। ते चीवरेण कालेन समयेन कल्पिकेनानवद्यो न आकांक्षमाणेन भिक्षुणा चीवरान्विकेन ते वैयापृत्यकरास्तेनोपसंक्रमित्वा ते वैयापृत्यंकराः। सकृत द्वित्थिखुत्तो त्रित्थुखुतो याचयितव्या विज्ञपयितव्याः। अथो आयुष्मन्तो भिक्षुस्य चीवरेण भिसकृत द्विक्खुत्तो त्रिक्खुत्तो चोदयन्तो विज्ञापयन्तो तं चीवरमभिनिष्पादेय इत्येतत्कुशलन्नोचेदभिनिष्पादेय चतुक्खुत्तो पञ्चखुत्तो षड्खुत्तो परमन्तेन भिक्षुणा तूष्णीं भूतेन उद्देशे स्थातव्यं। चतुक्खुत्तो पञ्चक्खुत्तो षड्क्खत्तो परमं तूष्णीभूतो उद्देशे तिष्ठन्तो तं चीवरमभिनिष्पादेय इत्येतत्कुशलं नोचेदभिनिष्पादेय तं दुत्तयन्तो वाच्यायमन्तो वातं चीवरमभिनिष्पादेय अभिनिष्पन्ने चीवरे निस्सर्गिक पाचत्तिकम्। नो चेदभिनिष्पदेय येन सेतानि राज्ञा वा राजभोग्येन वा इतेन चीवरचेतापनानि प्रेषितानि। तत्र तेन भिक्षुणा स्वयं वागन्त व्यं। इतो वा प्रतिरूपो प्रेषयितव्यो यानि ख आयुष्मन्त हि इत्थं नामं भिक्षूमुद्दिश्य इतेन चीवरचेतापनानि प्रेषितानि न ख तानि तस्य भिक्षुस्य किञ्चिदथ्थम्करोन्ति। युञ्जन्ते यः यथैनं सकं धर्म्मा सो विप्रणधिशिष्यतीति इयमनुसामीची।



उद्दानं॥ [1] दशाहं [2] विप्रवासो [3] अकाले च [4] प्रतिग्रहो [5] धोवना [6] याचना [7-8] चिरवरसान्तरोत्तरं द्वे च [9] विकल्पेन [10] राजा च। प्रथमो वग्गः॥



11. यो पुनभिक्षुः शुद्धकाणकानामेडकलोमानांन्नवं सन्थतं कारापेय निस्सर्गिक पाचत्तिकम्॥



12. नवं सन्थतं भिक्षुणा कारापयमाणेनशुद्धकाणकानामेडकलोमानां द्वे भागा आदयितव्यास्तृतीयो ओदातिकानां चतुत्थो गोचरिकाणां तदुत्तरिमादियेय निस्सर्गिक पाचत्तिकम्।



13. यो पुनभिक्षूः कौशेय मिश्राणामेडक लोमानान्नवं सन्थतं कारापेय निसर्गिक पाचत्तिकम्॥



14. नवं सन्थतं भिक्षुणा कारापयमाणेन प्रकामं षड्वर्षाणि धारयितव्यं। ततो च भिक्षुः प्रत्योत्तरेण पुराणे सन्थतं विसर्ज्जयित्वा वा अविसर्ज्जयित्वा वा अन्यन्नवसन्थतं कारापेय कल्याणकामतामुपादेय अन्यत्र समुतीये निस्सर्गिक पाचत्तिकम्।



15. नवं सन्थतं निषीदनं भिक्षुणा कारापयमाणेन, ततो पुराणसन्थतातो समन्तात्सुगतवितस्तिना भागो आदयितव्यो नवस्य दुव्वण्णीकरणाथ ततो च भिक्षुरनादाय नवसंत्थतं निषीदनं कारापेय निसर्ग्गिक पाचत्तिकम्॥



16. भिक्षुस्य खो पुनरध्यानमाग्गे प्रतिपन्नस्य उत्पद्ये‍अ एडकलोमानि आकांक्षमाणेन भिक्षुणा प्रतिगृह्णितव्यं ह्णिप्रतिगृत्वा सामं त्रियोजनपरमं हर्त्तव्यमन्ते अन्यस्मिहारके तदुत्तरिं हारेयमन्ते वा अमन्ते वा अन्यस्मिहारके निसर्गिक पाचत्तिकम्।



17. यो पुन भिक्षुरन्यातिकाये भिक्षुणीये एडकलोमानि धोवायेय वा रंजायेय वा। विजटापयेद् वा निस्सर्गिक पाचत्तिकम्।



18. यो पुनभिक्षुः स्वहस्तं जातरूपरजतमुद्गृह्णयेय वा उद्गृह्णायेय अन्तमसतो इह निक्षिपेहीति वा वदेय। उपनिक्षिप्तं वा सादियेय निःस्सर्गिक पाचत्तिकम्॥



19. यो पुनभिक्षुरनेकविधं क्रय विक्रयं व्यवहारं समापद्येय संय्यथीदं इमं क्रिण इतो क्रिण एत्तक सेत्तके क्रीणाहीति वा वदेय निःसर्गिक पाचत्तिकम्॥



20. यो पुनभिक्षुरनेकविधं जातरूपरजतविकृतिव्यवहारं समापद्येय निःसर्गिक पाचत्तिकम्॥



उद्दानं। [11-12] शुद्धकालकानां द्वे भागा [13] कैशेयमिश्र [14] षड्वर्षाणि [15] निषीदनं [16] अध्वानमागो [17] विजटापेय [18] स्वहस्तं [19] क्रयविक्रय [20] विकृतिव्यवहारेण॥द्वितीयो वगः॥



21. दशाहपरमं भिक्षुणा अतिरेकपात्रं धारयितव्यं तदुत्तरिं धारेय निःस्सर्गिक पाचत्तिकम्॥



22. यो पुनभिक्षू उनपञ्चवन्धनवद्धेन पात्रेण अन्यं नवं पात्रं पर्यायेय इमातामुपादाय। तेन भिक्षुणा तं पात्रं भिक्षूपर्याये निःसरितव्यं। यो तहि भिक्षू पर्याये पात्रपर्यन्तो भवति। सो तस्य भिक्षुस्य अनुप्रदातव्यो। एवं ते आयुष्मान्पात्रो भारयितव्यो यावद्भेदन [निस्सर्गिक] पाचत्तिकम्।



23. यानि खो पुनरिमानि गिलानप्रतिपेषणीयानि भैषजानि भवन्ति। संय्यथीदं सपिस्तैलमधुफाणितं। एवं रूपाणि गिलानेन भिक्षुणामकृत्याभिगृहीतानि क्षमते। सप्ताहं सन्निधिकारं परिभुजितं। सन्तशेषन्निस्सरितव्यं। तदुत्तरितव्यं तदुत्तरिं खादेय वा भुंजेय वा सन्तशेषन्न निस्सरेय निःस्सर्गिक पाचत्तिकम्।



24. यो पुनभिक्षुभिक्षुस्य चीवरं दत्त्वा यथादुष्तो दोषात्कुपितो अनादमानो आच्छान्देय वा आच्छान्दापेय वा आहर[ति] भिक्षुचीवरं न ते ददेमीति वा वदेय निःसर्गिक पाचत्तिकम्॥



25. मासो शेषो ग्रीष्माणोमिति भिक्षुणा वर्षाशाटिका चीवरपर्येषितव्यं अर्द्धमासो अवशिष्टोति कृत्वा मुषितव्यम्॥ ततो च भिक्षुः प्रत्यांतरेण वर्षाशाटिका चीवरं पर्येपेय कृत्वा वास्तायेय निः सर्गिक पाचत्तिकम्।



26. यो पुनभिक्षूः स्वयं याचिकाय सूत्रन्तन्तुवायेन चीवरं धुनायेय निस्सर्गिक पाचत्तिकम्॥



27. भिक्षूं खो पुनरुद्धिश्य अन्यतरो गृहपतिर्व्वा गृहपतिपुत्रो वा तन्तुवायेन चीवरं धुनायेय ते एव भिक्षूः पूव्वे अप्रवारितो उपसंक्रमित्वा विकल्पमापद्येय साधु खो पुनस्तमायुष्मन्निमं चीवरमायतं च करोहि विस्तृतं च करोहि सुवुत्तं च करोहि। सुतच्छितं च करोहि सुविलिखितं च करोहि। अप्पेव नाम वयं पि तवकिञ्चिदेव मात्रामुपसंहरेम। माषकम्वा। माषकार्द्धम्वा पिण्डपात्रम्वा पिण्डपात्राहिम्वा। तत्र च सो भिक्षुरेवं वदित्वा न किञ्चिदेवमात्रामुपसंहरेय। माषकम्वा। माषकार्द्धम्वा। पिण्डपात्रम्वा पिण्डपात्राहिम्वा। अभिनिष्पन्ने चीवरे निसर्गिक पाचत्तिकम्॥



28. दशाहानागतं खो पुनत्रेमासं कार्तिकी पौण्णमासी उत्पद्येय भिक्षूस्य आत्यायिकं चीवरमत्यायिकं मन्यमानो न भिक्षुणा प्रतिगृह्णितव्यं। प्रतिगृह्णित्वा यावन्चीवरदानकालसमयं निक्षिपितव्यं। तदुत्तरिं निक्षिपेय निसर्गिक पाचत्तिकम्।



29. उपवर्ष खो पुनः त्रेमासं कार्तिकी पौण्णमासी भिक्षुचारण्यके शयनासने विहरन्ति। समये सप्रतिभये। सशंक सम्मते। आकांक्षमाणेन भिक्षुणा त्रयाणां चीवराणामन्यतरान्यतरं चीवरं मन्तरगृहे निक्षिपितव्यं। स्यात्तस्या भिक्षूस्य कोचिदेव प्रत्ययो तस्माच्चीवराद्विप्रवासाय षडाहपरमन्तेन भिक्षुणा तस्माच्चीवराद्विप्रवसितव्यं। तदुत्तरिं विप्रवसेय अन्यत्र दीघीसमुतेये निस्सर्ग्गिक पाचत्तिकम्।



30. यो पुनभिक्षू जानन् सांधिकां लाभं संघे परिणतमात्मनो परिणामेय निस्सर्गिक पाचत्तिकम्॥



उद्दानं। [21] पात्र [22] बन्धनं [23] भैषज्ञ [24] माच्छेदो [25] वर्षाशाष्टिका [26-27] तन्तुवायेन द्वे [28] दशाहानागत [29] मुपवर्ष [30] परिणामनेन तृतीयो वगः॥



उद्दिष्ताः। खो पुनः रायुष्मन्तो त्रिंशन्निःसर्ग्गिक पाचत्तिका धर्म्मास्तत्रायुष्मन्तो पृच्छामिकच्चित्थ परिशुद्धाः द्वितीयम्पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः। तृतियम्पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः। परिशुद्धात्रायुष्मन्तो यस्मात्तूष्णीमेवमेतं धारयामि।



V. THE NINETY-TWO PACATTIKA DHARMAS.



इमे खो पुनरायुष्मन्तो द्वानवतिं शुद्धपाचत्तिका धर्मा अन्वर्द्धमासं सूत्रे प्रातिमोक्षे उद्देशमागच्छन्ति।



1. संप्रजानमृषावादे पाचत्तिकम्।



2. ओमृष्यवादे पाचत्तिकम्।



3. भिक्षुपिशुन्ये पाचत्तिकम्।



4. यो पुनभिक्षू जानं संघस्याघोकरणानि। धर्म्मेण विनयेन विहितानि व्युपशान्तानि पुनः कर्म्माय उखोटेय इदं पुनः कर्म्मकर्त्तव्यं भविष्यतीति एतदेव प्रत्ययं कृत्वा अनन्यमिमन्तस्य भिक्षूस्य उखोटनं पाचत्तिकम्।



5. यो पुनभिक्षुरकल्पियकारो मातृग्रामस्य धर्मदेशेय उत्तरिच्छहि पञ्चाहि वाचाहि अन्यत्र विज्ञपुरुष पुद्गलेन पाचत्तिकम्।



6. यो पुनभिक्षूरनुपसंपन्नं पुद्गलं पदशो धर्म्मवाचेय पाचत्तिकम्।



7. यो पुनभिक्षुरनुपसंपन्नस्य पुद्गलस्य सन्तिके आत्मोपनायिकमुत्तरिमनुष्यधर्म्ममलमार्यज्ञानदलनं द्विशेषाधिगमम्प्रतिजानेय इति जानामि इति पश्यामीति भूमि तस्मिं पाचत्तिकम्॥



8. यो पुनभिक्षूर्ज्जानन् भिक्षूस्य दूथूल्लामापत्तिमनुपसंपन्नस्य पुद्गलस्य सन्तिके आरोचेय अन्यत्र कृतये प्रकाशनासम्मुतीये पाचत्तिकम्।



9. यो पुनभिक्षुर्ज्ञानसांधिके लाभे भाजीयमाने पूर्व्वे समनुजो भूत्वा पश्चात्खिया धर्म्ममापद्येय यथासंस्तुतमेवायुष्मन्तो यानं सांधिकं लाभं संघे परिणतं पुद्गलो पुद्गलस्य परिणामयतीति पाचत्तिकम्॥



10. यो पुनभिक्षूरन्वर्द्धमासं सूत्रे प्रातिमोक्षे उद्दिश्यमाने एवं वदेय किं पुनरायुष्मन्तो इमे हि क्षुद्राश्च क्षूद्रे हि शिक्षापदे हि उद्दिष्ते हि यावदेव भिक्षुणां कौकृत्याय विघाताय विलेखाय संवर्त्ततीति शिक्षाविगर्हणपाचत्तिकम्॥



उद्दानम्। [1] मृषा [2] ओमृष्य [3] पेशुन्य [4] उखोटन [5] धर्म्मेदेशना [6] पदशो [7] विशेषण [8] मारोचना [9] यथासंस्तुत [10] विगर्हणेन। प्रथमो वग्गः॥



11. बीजग्रामभूतग्राम पातापनके पाचत्तिकम्॥



12. अन्यवाद विहिंसनके पाचत्तिकम्॥



13. ओध्यायन क्षीयनके पाचत्तिकम्॥



14. यो पुनभिक्षूः सांधिके भिक्षुविहारे अद्यवकाशे मञ्चम्वा पीठम्वा विशिकरंम्वा चतुरग्रकं वा कुच्चम्वा बिम्बोहनम्वा प्रज्ञायेयत्वा वा। प्रज्ञायायत्वा वा ततो प्रक्रमन्तो न उद्वरेय वा न उद्वरायेय वा अनामन्त्रयित्वा वा प्रक्रमेय पाचत्तिकम्॥



15. यो पुनभिक्षूः सांधिके भिक्षुविहारे अन्तोशय्यां प्रज्ञायेत्वा प्रज्ञयायेत्वा [वा]। ततो प्रक्रमन्तो न उद्वरेय वा न उद्वरायेय वा अनामन्त्रयित्वा वा प्रक्रमेय पाचत्तिकम्॥



16. यो पुनभिक्षू भिक्षूस्य दुष्तो दुषान्कुपितो अनात्तमनो सांधिका भिक्षुविहारा भिक्षून्निकढेय वा निकढ्ढाये‍अ वा अन्तमसतो निहि भिक्षूति वा वादेय पाचत्तिकम्॥



17. यो पुनभिक्षु सांधिके भिक्षूविहारे जानन्भिक्षूणां पूर्व्वप्रज्ञप्ता हि शय्यां हि पश्चादगत्वा मध्ये शय्यां प्रज्ञायेय यस्योद्वहिष्यति सो प्रक्रमिष्यतीति एतदेव प्रत्ययं कृत्वा अनन्यमिमं तस्य भिक्षूस्य उद्वाहन पाचत्तिकम्॥



18. यो पुनभिक्षूः सांधिके भिक्षूविहारोपरि वैहायसं कुटिकाये आहत्य पादके मंचे वा पीठे वा अभिनिषीदेय वा अभिनिपद्येय वा पाचत्तिकम्॥



19. यो पुनभिक्षूज्जानन्सप्राणकेनोदकेन तृणं वा मृत्तिकां वा सिंचेय वा सिंचायेय वा पाचत्तिकम्॥



20. महल्लकं भिक्षुणा विहारं छादापयमानेन यावद्वारकोषा अगलप्रतिष्ठान मालोकसन्धिपरिकर्म्ममुपादाय द्वे वा त्रयो वा च्छादनपर्याया अधिष्ठिहितव्याः। अल्पहरिते स्थितेन तदुत्तरिं अधिष्ठिहेय अल्पहरिते स्थितोपि पाचत्तिकम्॥



उद्दानं [11] बीजं [12] अन्यवादं [13] उध्यायनं [14] मञ्च [15] सय्या [16] निकट्टनं [17] पूर्व्वोपगतं [18] वैहायसं [19] उदक [20] च्छादनेन॥ द्वितीयोवगः॥



21. यो पुनभिक्षू असम्मतो भिक्षुणीमोवदेय पाचत्तिकम्।



22. सम्मतोवापि भिक्षूः भिक्षूणीमोवदेय विकाले अस्तंगते सूये अनूहते अरुणे पाचत्तिकम्॥



23. यो पुनभिक्षू ओवादप्रेक्षो भिक्षुणी उपाश्रयमुपसंक्रामेय सन्तं भिक्षूमनामन्त्रयित्वा अन्यत्र समये पाचत्तिकम्॥



तत्रायं समयो गिलानाभिक्षुणी ओवदितव्याः अनुशासितव्याः भवति अयमत्रसमयो॥



24. यो पुनभिक्षू भिक्षुमैवं वदेय आमिषहेतो आयुष्मन्भिक्षू भिक्षूणीं ओवदतीति पाचत्तिकम्॥



25. यो पुनभिक्षू भिक्षूणीय सार्धमेको एका‍एरहो निषद्यां कल्पेय पाचत्तिकम्॥

26. यो पुनभिक्षू भिक्षूणीयसार्धं संविधाय अध्वानमागं प्रतिपद्येय अन्तमसतो ग्रामान्तरं पि अन्यत्रसमये पाचत्तिकम्॥ तत्रायं समयो मागो भवति। सभयो सप्रतिभयो सासंकसम्मंतो अयमत्र समयो।

27. यो पुनभिक्षु भिक्षुणीयसार्धं संविधाय एकनावां अभिरुहेय उर्द्धगामिनीम्वा अधोगामिनीम्वा अन्यत्र तिर्यात्तरणाय पाचत्तिकम्॥

28. यो पुनभिक्षू अन्यातिकाये भिक्षुणीये चीवरं दद्यादन्यत्र पतुन्तकेन पाचत्तिकम्॥

29. यो पुनभिक्षुरन्यातिकाये भिक्षुणीये चीवरं सीवेय वा सीवायेय वा पाचत्तिकम्॥

30. यो पुनभिक्षूर्जानन्भिक्षुणी परिपाचितं पिन्डपात्रं परिभुंजेय अन्यत्र पूर्व्वेगृही समारम्भे पाचत्तिकम्॥

उद्यानं॥ [21] असम्मतो [22] सम्मतोरपि [23] ओवादो [24] आमिषं [25] निषद्याच [26] अध्वानमार्गो [27] नावा च [28] देति। [29] सीवेति [30] परिपाचनेन॥ तृतीयो वर्गः॥

31. एकाहपरमं भिक्षुणा अगिलानेन अवसथपिन्डपात्रो परिभुंञ्जितव्या तदुत्तरिं परिभुंज्ये पाचत्तिकम्॥

32. परम्पराभोजने अन्यत्र समये पाचत्तिकम्।

तत्रायं समयो। गिलानसमयो चीवरदानकालसमयो अयमत्र समयो।

33. यो पुनभिक्षुर्भुञ्जावीप्रवारितो उत्थितो आसनातो अनतिरिक्तं कृतं खादनीयं वा भोजनीयं वा खादेय वा भुंञ्जेय वा पाचत्तिकम्॥

34. यो पुनभिक्षुजानन्भिक्षू भुक्ताविप्रवारितमुत्थितमासनातो आसादनाप्रेक्षो अनतिरिक्तकृतेन खादनीयेन वा भोजनीयेन वा उपनिमन्त्रेय एहि भिक्षु खादार्हं भुंजाहीति वा वदेय भुक्तस्मिं पाचत्तिकम्॥

35. यो पुनभिक्षूरदिन्नमप्रतिग्राहितं मुखद्वारिकमाहारमाहारेय अन्यत्रोदक दन्तपोणे पाचत्तिकम्॥

36. विकालाभोजने पाचत्तिकम्।

37. सन्निधेकार भोजने पाचत्तिकम्।

38. भिक्षुं खो पुनः कूले हि उपसंक्रान्तं प्रवारेत्सुपूवेहि वा मन्थे हि वा तथा प्रवारितेन भिक्षुणा यावन्त्रिपात्रपूरपरमं ततो प्रतिगृह्णितव्यं। प्रतिगृह्णित्वा वहिर्द्वानीहरितव्यं वहिर्द्वानीहरित्वा अगिलानके हि भिक्षू हि सार्धं सम्विभजित्वा खादितव्यं भुंजितव्यं तदुत्तरिं प्रतिगृह्णित्वा वहिर्द्वानीहरित्वा अगिलानके हि भिक्षू हि सार्द्धं सम्विभजित्वा वा असंविभजित्वा वा खादेव वा भुंजेय वा पाचत्तिकम्।

39. यानि खो पुनरिमानि प्रणीतसम्मतानि भोजनानि भवन्ति संय्यथीदं सर्पिस्तिलं मधुफाणितं दुग्धं दधि मत्स्यं मासं यो पुनभिक्षूरेवं रूपाणि प्रणीतसम्मतानि भोजनानि आत्मात्वाय अगिलानो कूले हि विज्ञेपेत्वा वा विज्ञापयेत्वा वा खादेय वा भुंजेय पाचत्तिंकम्।

40. गणभोजने अन्यत्रसमये पाचत्तिकं।

तत्रायं समयो गिलानसमयो चीवरदानकालसमयो अध्वानगमनसमयो नावाभिरोहणसमयो महासमयो श्रवणभुक्तं अयमत्रसमयो।

उद्यानं। [31] आवसथो [32] परम्परा [33] प्रवारणा [34] आसदना [35] अदिन्नं [36] विकालं [37] संनिधिं [38] मन्थां [39] विज्ञप्तिः [40] गणभोजनेन॥ चतुर्थो वर्गः॥

41. यो पुनर्भिक्षुरात्मार्थाय अगिलानो क्षोभिस्मिन्वितापना प्रोक्तो। तृणं वा काष्ठं वा गोमयं वा सकलिकांवा ओषम्वा संकारम्वा आदपहेय वा आदहायेय वा अन्यत्र समये पाचत्तिकम्।

42. यो पुनर्भिक्षुरनुपसंपन्नेन पुद्गलेन सार्द्धं उत्तरि द्विरात्रं त्रिरात्रं वा सहगारशय्यां कल्पेय पाचत्तिकम्।

43. यो पुनर्भिक्षुर्भिक्षूणां कर्मणाच्छन्दन्दत्वा पश्चाद्‍दुष्टो दोषान्कुपितो अनात्तमनो एवं वदेय अदिन्नं मे च्छन्दो दुर्द्दिन्नो मे च्छन्दो अकृतान्येतानि कर्माणि दुष्कृतान्येतानि कर्माणि नाहमे तेषां कर्मणाच्छन्दं देमीति वदेय पाचत्तिकम्॥

44. यो पुनभिक्षू भिक्षूमेवं वदेय एहि त्वं मायुष्मान्ग्रामं पिन्डाय प्रविशिष्यामः। अहञ्च ते तत्र किञ्चिदापयिष्यं। सो तत्र तस्य किञ्चिदापयित्वा वा अदापयित्वा वा पश्चादुद्योजनं प्रक्षो एवं वदेय गच्छ त्वमायुष्मन्नमे त्वया सार्धं फासु भवति कथाय वा निषद्याय वा। एकस्यै च मम फासु भवति। कथाय वा निषद्याय वा एतदेव प्रत्येयं कृत्वा अनन्यमिमन्तस्य भिक्षुस्य उद्योजन पाचत्तिकम्।

45. यो पुनभिक्षु भिक्षूनेवं वदेय तथाहमायुष्मान्तो भगवता धर्म्मन्देशितमाजानामि यथा ये इमे अन्तरायिका धर्मा उक्ता भगवता तान्प्रतिसेवतो वा नालमन्तरायाय। सो भिक्षू भिक्षू हि एवमस्य वचनीयो मा आयुष्मन्नेवम्वद मा भगवन्तम् आचक्ष। असता बुद्ध्याही तेन अन्तरायिका एवमायुष्म न्धर्माः समाना अन्तरायिका धर्मा उक्ता भगवता अलञ्च पुनस्तान् प्रतिसेवतो अन्तरायाय। एवं च सो भिक्षु भिक्षुहि वुच्यमानो तं वस्तुं प्रतिनिस्सरेय इत्येतं कुशलान्नो च प्रतिनिस्सरेय। सो भिक्षु भिक्षुहि यावन्तृतीयकं समनुग्राहितव्यो समनुभाषितव्यो तस्य वस्तुस्य प्रतिनिस्सगाय यावन्तृतीयकं समनुग्राहियमाणो वा समनुभाषियमाणो वा तं वस्तुं प्रतिनिस्सरेय इत्येतं कुशलं नो च प्रतिनिःसरेय सो भिक्षूः समग्रेण संघेन उक्षिपितव्यो इमं तस्य भिक्षुस्य उक्षेपण पाचत्तिकम्॥

46. यो पुन भिक्षुर्जानन्भिक्षु तथा उक्षिप्तं समग्रेण संघेन धर्मेण विनयेन यथावादिं तथा कारितां पापिकां दृष्टिं अप्रतिनिस्सरणं तं अकृतानुधर्म्मं सभुंजेय वा संवसेय वा सहगारशय्याम्वा कल्पेय पाचत्तिकम्।

47. श्रमणुद्देशोपि चेदेवं वदेयं त थाहमायुष्मान्तो भगवता धर्मदेशितमाजानामि यथा ये इमे अन्तरायिका कामा उक्ता भगवता तान्प्रतिसेवतो नालमन्तरायाय सो श्रमणुद्देशो भिक्षूहि एवमस्य वचनीयो मा आयुष्मन् श्रमणुद्देश एवम्वद मा भगवन्तमस्याचक्ष असतादुद्गृहीतेन अन्तरायिका एवायुष्मन्श्रमणुद्देशकामाः। समाना अन्तरायिकाः कामा उक्ता भगवता अलं च पुनस्तान्प्रतिसेवतो अन्तरायाय। एवञ्च सो श्रमणुद्देशो भिक्षू हि वुच्यमानो तं वस्तु प्रतिनिःसरेय इत्येतं कुशलन्नो च प्रतिनिस्सरेयस्तो श्रमणुद्देशो भिक्षूहि यावन्तृतीयकं समनुग्राहितव्यो समनुभाषितव्यो तस्य वस्तुस्य प्रतिनिःस्सगाय यावन्तृतीयकं समनुग्राहियमाणो वा समनुभाषियमाणो वा तं वस्तुं प्रतिनिःसरेय इत्येतं कुशलन्नो च प्रतिनिःसरेयः सो श्रमणुद्देशो भिक्षू हि नाशयितव्यो अद्यदग्रेण ते आयुष्मन् श्रमणुद्देश न चैव सो भगवानस्तथागतो(?)र्हन्सम्यक् संबुद्धे शास्ताव्यपदिशितव्यो यं पि च दानि लभसि भिक्षूर्हि सार्धं द्विरात्रं वा त्रिरात्रम्वा सहगारशय्यां सायिते अद्यदग्रेण नास्ति गच्छनस्य चल प्रपलाहि। यो पुनभिक्षू जानन्तथार्मशितं श्रमणुद्देशं यथावादीन्तथा कारितां पापिकां दृष्टिमप्रतिनिःसरन्तं अकृतानुधर्म्म उपस्थाये वा उपलायेय वा संभुंजेय वा संवसेय वा सहगारशय्यां वा कल्पेय पाचत्तिकम्।

48. नवचीवरलाभिना भिक्षुणा त्रयाणाम्दुवर्णीकरणानामन्यतरान्यतरं दुर्व्वण्णीकरणसादयितव्यं। नीलम्वा कर्दमम्वा कालश्यामन्वा ततो च भिक्षूरनादाय नवं चीवरपरिभुंजेय पाचत्तिकम्।

49. यो पुनर्भिक्षूरन्यत्र अध्यारामे वा अध्यावसथे वा। रतनम्वा रतनसंमतम्वा उद्गृह्णाय वा उद्गृह्णायेय वा पाचत्तिकम्। आकांक्षमाणेन भिक्षुणा रतनम्वा रतनसम्मतम्वा। अध्यारामे वा अध्यावसथे वा उद्गृह्णीतव्यं वा उद्गृह्णाययितव्यं वा यस्य भविष्यति सो हरिष्यतीति एतदेवप्रत्ययं कृत्वा अनन्यमियमत्रसामीची।

50. अन्वर्द्धमासं स्नानमुक्तं भगवता अन्यत्रसमये पाचत्तिकम्।

तत्रायं समयो द्व्यर्द्धो मासो शेषे ग्रीष्माणाम्वर्षाणां च पुरिमो मासो इत्येते अर्धातीय मासः परिदाहकालसमयो अध्वानगमनकालसमयो गिलानसमयो कर्मसमयो वातसमयो वृष्टिसमयो अयमत्रसमयोः।

उद्यानम्॥ [41] क्षोभिः [42] सहगार [43] च्छन्दम् [44] उद्योजना [45-46-47] त्रयोऽन्तरायिका [48] अकृतकल्पम् [49] रतनं [50] स्नानेन॥ पञ्चमो वग्गः॥

51. यो पुनभिक्षु जानि‍अ प्राणकमुदकं परिभुंजेय पाचत्तिकम्।

52. यो पुनभिक्षू अवेलक स्य वा अवेलिकाय वा परिव्राजकस्य वा परिव्राजकाये वा स्वहस्तं खादनीयम्वा भोजनीयम्वा दद्यात्पाचत्तिकम्॥

53. यो पुनभिक्षू जानन्तं भोजनीये कुले अनुपखज्जासने निषद्यां कल्पेय पाचत्तिकम्॥

54. यो पुनभिक्षु जनि‍अ भोजनीये कुले प्रतिच्छन्नासने निषद्यां कल्पेय पाचत्तिकम्॥

55. यो पुनभिक्षुरुद्यक्तां से नाम्दर्शनाय गच्छेय पाचत्तिकम्।

56. स्यात्तस्य भिक्षुस्य क्वचिदेव प्रत्ययोसनायाङ्गमनाय द्वि[रा] त्रम्वा त्रिरात्रम्वा तेन भिक्षुणासेनायां वसितव्यं तदुचरीं वसेय पाचत्तिकम्॥

57. तत्रापि च भिक्षु द्विरात्रम्वा त्रिरात्रम्वा सेनायां वसमानो आयूहिकम्वा नियूहिकंम्वा अनेक व्यूहम्वा ध्वजाम्वा शीर्षम्वा दर्शनाय गच्छेय पाचत्तिकम्॥

58. यो पुनभिक्षु भिक्षुं प्रहरेय पाचत्तिकम्।

59. यो पुनभिक्षु भिक्षुस्य तलशक्तिकामावर्जेय पाचत्तिकम्॥

60. यो पुनर्भिक्षु जानन् भिक्षूस्य दुस्थूलामापत्तिं कृतमव्याचीण्णां च्छादेय सो न परेषामारोचेय किन्ति सेमापरे जानन्नेति अवद्य प्रतिच्छादने पाचत्तिकम्।

उद्यानं॥ [51] सप्राणकम् [52] अवेलको [53] अनुपखज्जं। [54] प्रतिछन्नासनं [55-56-57] सेनायां [58] प्रहरति [59] तलशक्तिका [60] प्रतिच्छादनेन॥ षष्ठो वग्गः॥

61. यो पुनभिक्षु संचिन्त्य तिर्यग्योनिगतं प्राणिनं जीविताद् व्यपरोपेय पाचत्तिकम्।

62. यो पुनभिक्षु भिक्षुस्य संचिन्त्य कौकृत्यमुपसंहरेय किन्तिस मुहूर्त्तम्पि अफासु भवेदिति पाचत्तिकम्॥

63. यो पुनर्भिक्षू भिक्षूस्य वा भिक्षुणीये वा श्रामणेरस्ये वा श्रामणेरीये वा शिक्षमाणाये वा चीवरम्दत्वा अप्रत्युद्धरेय परिभुंजेय अप्रत्युद्धारपरिभोगे पाचत्तिकम्॥

64. यो पुनर्भिक्षू भिक्षूस्य पात्रिं वा चीवरं वा निषीदनं वा सूचीविग्रहम्वा अपनिहेयम्वा अपनिहायेय वा अन्तमसतो हास्याञ्चापि पाचत्तिकम्॥

65. यो पुनभिक्षू भिक्षूं भीषेय पाचत्तिकम्
66. उदके हस्तसम्मर्दनात् पाचत्तिकम्॥
67. अङ्गलिप्रचोदनात् पाचत्तिकम्॥
68. यो पुनभिक्षू मातृग्रामेण सार्द्धं संविधाय अध्वानमार्गं प्रतिपद्येत् अन्तमसतो ग्रामान्तरं पि पाचत्तिकम्॥

69. यो पुनर्भिक्षू मातृग्रामेण सार्द्धं सहगारशय्यां कल्पेय पाचत्तिकम्॥

70. यो पुनर्भिक्षू मातृग्रामेण सार्द्धं एको एकायरहो निषद्यां कल्पेय पाचत्तिकम्॥

उद्यानम्। [61] संचिन्त्य [62] कौकृत्य [63] मप्रत्युद्धरित्य [64] कापनिहेय [65] भिषेय [66] उदके [67] अंगुली [68] संविधाय [69] सहगार [70] निषद्याय॥ सप्तमो वग्गः॥

71. यो पुनर्भिक्षू जानन्तं उनविंशतिवर्षं पुद्गलं भिक्षु उपसंपादेय सो च पुद्गलो अनुपसंपन्नो ते च भिक्षू गार्ह्यां इमंस्तथा भिक्षुणागर्हणं पाचत्तिकम्॥

72. यो पुनर्भिक्षू जानन्स्तैन्यसार्धेन सार्धं संविधाय अध्वानमार्गं प्रतिपद्येय अन्तमसतो ग्रामान्तरं पि पाचत्तिकम्।

73. यो पुनर्भिक्षू स्वहस्तपृथ्वीम् खनेय वा खनायेय वा अन्तमसतो इह खनेहीति एवं वदेय पाचत्तिकम्॥

74. चातुर्मासिकं भिक्षुणा प्रत्येक प्रवारणा सादयितव्या तदुत्तरिं सादियेय अन्यत्र पुनः प्रवारणाये अन्यत्र यावज्जीविकाये पाचत्तिकम्॥

75. यो पुनर्भिक्षू भिक्षू हि एवं वुच्यमानो इमे हि ते आयुष्मन् पञ्च हि आपत्तिकाये अनध्यावाचाय शिक्षा करणीयेति। सो भिक्षू तां भिक्षुनेवं वदेय न यावदहमायुष्मन्तानां वचनेन शिक्षिष्यं यावदहं न द्रक्ष्यामि स्वविरान्भिक्षून् सूत्रधरान् विनयधरान् मातृकाधरान् मध्यमान्भिक्षून् सूत्रधरान्विनयधरान् मातृकाधरान् नवकान्भिक्षू सूत्रधरान् विनयधरान् मातृकाधरान्नतांस्तावदहमुपसंक्रम्य परिपृष्ठिष्यं परिप्रश्नी करिष्यन्ति पाचत्तिकम्॥ शिक्ष्यकामेन भिक्षुणा आज्ञातव्यमुपलक्षितव्यमुपधारयितव्यम्॥

76. सुरामैरेय मद्यपानं पापचत्तिकम्।
77. भिक्षुनादर्ये पाचत्तिकम्।
78. यो पुनर्भिक्षू भिक्षू हि कलहजाते हि भन्डन जाते हि विग्रहविवादापन्ने हि विहरन्ते हि उपश्रोत्रस्थाने तिष्ठेय यं एते वदिष्यन्ति तं श्रुत्वा उपसंहरिष्यामीति। एतदेव प्रत्ययं कृत्वा अनन्यमिमन्तस्य भिक्षूस्य उपश्रोत्रस्थाने पाचत्तिकम्॥

79. यो पुनभिक्षूः संघे विनिश्चयकथा हि वर्त्तमाना हि उत्थायासनात्प्रक्रमेय सन्तं भिक्षूमनामन्त्रयित्वा अन्यत्र तथारूपे अत्यायिके करणीये पाचत्तिकम्॥

80. यो पुनभिक्षू आरण्यके शय्यासने विहरन्तो विकाले ग्रामं प्रविशेय सन्तं भिक्षूमनामन्त्रयित्वा अन्यत्र तथारूपे अत्यायिके करणीये पाचत्तिकम्॥

उद्दानं॥ [71] ऊनविंशति [72] स्तैन्यसार्धं [73] पृथिवी [74] प्रवारणा [75] न शिक्षिष्यं [76] मद्यपान [77] मनादर्यं [78] मुपश्रोत्र [79] विनिश्चय [80] आरण्यकेन॥ अष्टमो वग्गः॥

81. यो पुन भिक्षू सभक्तो समानो पूवे भक्तं पश्चाद्भक्तं वा कुलेषु चारित्रमापद्येय सन्तं भिक्षुमनामन्त्रयित्वा अन्यत्र समये पाचत्तिकम्॥

तत्रायम् समयो चीवरदानकालसमयो अयमत्रसमयो॥

82. यो पुनभिक्षू राज्ञाः क्षत्रियस्य मूर्धा अभिषिक्तस्य जनपदस्थामवीर्यप्राप्रस्य अन्तःपुरं प्रविशेयानिष्क्रान्ते राजाने अनिष्क्रान्ते अन्तःपुरे अनिग्गते हि रतने हि अन्तमसतो इन्द्रकीलम्पि अतिक्रमेय पाचत्तिकम्॥

83. यो पुनभिक्षू दन्तमयम्वा अस्थिमयम्वा शृङ्गमयम्वा सुवण्णमयम्वा रूप्यमयम्वा रतनमयम्वा सूचीविग्रहं कारापेय भेदन पाचत्तिकम्॥

84. मञ्चम्वा पीठम्वा भिक्षुणा कारापयमाणेन सुगताष्टाङ्गुलप्रमाणाः पादकाः कारापयितव्याः। अन्यत्राट्टनीये तदुत्तरिं कारापेय च्छेदन पाचत्तिकम्॥

85. यो पुनभिक्षू तूल संस्तृते मंचे वा पीठे वा अभिनिषीदेय वा अभिपद्येय वा उद्दाल न पाचत्तिकम्॥

86. निषीदनं भिक्षुणा कारापयमाणेन प्रामाणिकं कारापयितव्यम्। तत्रेदं प्रमाणं दीर्घशो द्वे वितस्तीयो सुगतवितस्तिना तिर्यग् र्द्धमन्यत्र दशवितस्ति कं तदुत्तरिं कारापेय च्छेदन पाचत्तिकम्॥

87. कन्डुमप्रतिच्छादनं भिक्षुणा कारापयमाणेन प्रामाणिकं कारापयितव्यं। तत्रेदं प्रमाणं दीर्घशो चत्वारि वितस्तीयो सुगतवितस्तिना तिर्यग्द्वे तदुत्तरिं कारापेय च्छेदनपाचत्तिकम्॥

88. वर्षाशाष्टिका भिक्षुणा कारापयमाणेन प्रामाणिका कारापयितव्या तत्रेदं प्रमाणं दीर्घशो षड्वितस्तीयो सुगतवितस्तिना तिर्यग् र्द्धतीयं। तदुत्तरिं कारापेय च्छेदन पाचत्तिकम्॥

89. यो पुनभिक्षू सुगतचीवरप्रमाणं चीवरं कारापेय किञ्चितस्य भगवते तथागतस्यार्हतः सम्यक् संबुद्धस्य सुगतस्य सुगतचीवरप्रमाणं दिर्घशो नव वितस्तीयो सुगतवितस्तिना तिर्यक षड् इदन्तस्य भगवतो तथागतस्यार्हतः सम्यक् संबुद्धस्य सुगतस्य सुगतचीवरप्रमाणं ततो वा पुनरुत्तरिं कारापेय च्छेदन पाचत्तिकम्॥

90. यो पुनभिक्षू भिक्षूस्य दुस्तो दोषान्कुपितो अनात्तनो अमुलकेन संघातिशेषेण धर्म्मेणानुध्वंसेय पाचत्तिकम्॥

91. यो पुनभिक्षू जानन् सांधिकं लाभं संघे परिणतं पुद्गलो पुद्गलस्य परिणामेय पाचत्तिकम्॥

92. यो पुनभिक्षूरन्वर्द्धमासं सूत्रे प्रातिमोक्षे उद्दिश्यमाने एवं वदेय अद्य पुनरहं जानामि इदानीं पुनरहं जानामि अयम्पि धर्मो सूत्रागतो सूत्रपर्यापन्नो अन्वर्द्धमासं सूत्रे प्रातिमोक्षे उद्देशमागच्छति यावदहन्नजानामि तावन्नास्तीथं मक्षमापत्तिर्जाने‍अ च ते भिक्षू तं भिक्षूम् सकृत्द्वित्थिक्खुत्तो त्रिक्खुत्तो आगतपूर्व्वं पि सन्निधपूर्व्वं पि कः पुनर्व्वादो बहुशो नास्ति खो पुनस्तस्य भिक्षूस्य अज्ञानेन मुक्तिः। अथ इयांपि च सो भिक्षूरापत्तिमापन्नो तु क्षिप्रमेव यथाधर्म्मं यथाविनयं कारापयितव्यो उत्तरिं संमोहमापादयितव्यो तस्य ते आयुष्मन् लाभादुर्लब्धायस्त्वं अन्वर्द्धमासं सूत्रे प्रतिमोक्षो उद्दिश्यमानेनास्थीकृत्वा न मनसि कृत्वा न सर्व्वचेतसा समन्वाहृत्य अवहितश्रोतो सन्कृत्य धर्मशृणोषीति इमन्तस्य भिक्षूस्य सम्मोहनया पाचत्तिकम्॥

उद्दानम्॥ [81] सभक्तो [82] राज्ञो [83] सूचीगृहं[84] मञ्च [85] तूल [86] निषीदनं [87] कन्डु [88] वर्षाशाष्टिका [89] सुगतचीवर [90] मभ्याख्यानं [91] परिणामन [92] मज्ञानकेन॥ नवमो वग्गः॥

वग्गाणामुद्दानं [1] मृषा [2] बीजं [3] असम्मतो [4] एकाहपरमो [5] क्षोभि [6] सप्राणकं [7] सञ्चिन्त्य [8] उनविंशति [9] सभक्तकेन॥ नवमः उद्दिष्टाः॥

खो पुनरायुष्मन्तो द्वानवति शुद्धपाचत्तिका धर्म्मास्तत्रायुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धा द्वितीयम्पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः। तृतीयम्पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः परिशुद्धा अत्रायुष्मन्तो यस्मात्तूष्णीं मेवमेतन्धारयामि।

VI. THE FOUR PRATIDESANIYA DHARMAS.
इमे खो पुनरायुष्मन्तो चत्वारः पातिदेशनिका धर्मा अन्वर्द्धमासं सूत्रे प्रातिमोक्षे उद्देशमागच्छन्ति।

1. यो पुनभिक्षु आरण्यके शयनासने विहरन्तो पूर्व्वे अप्रतिसम्वेदितं वहिद्वा अप्रतिगृहीतमन्तेवास वस्तुस्मिन्नगिलानो स्वहस्तं खादनीयम्वा भोजनीयम्वा प्रतिगृह्णित्वा खादेय वा भुञ्जेय वा भुक्ताविना तेन भिक्षुणा प्रतिदेशयितव्यं। असंप्रेयम्मे आयुष्मन् गार्ह्यम्प्रातिदेशनिकं धर्म्ममापन्नो तं धर्मप्रतिदेशयामि अयं धर्म्मो प्रातिदेशनिको॥

2. यो पुनभिक्षुरन्यातिकाये भिक्षुणीये अन्तरगृहं प्रविष्ताये अगिलानो स्वहस्तं खादनीयं वा भोजनीयम्वा प्रतिगृह्णित्वा खादे य वा भुञ्जेय वा भुक्ता विना तेन भिक्षुणा प्रतिदेशयितव्यं। असंप्रेयम्मे आयुष्मन् गार्ह्यम्प्रतिदेशनिकं धर्म्ममापन्नो तं धर्म्मं प्रतिदेशयामि। अयं पि धर्म्मो प्रातिदेशनिको।

3. भिक्षु खो पुनरन्तरगृहे निमन्त्रितकान्मुञ्जन्ति तत्र च भिक्षुणी विश्वासमानरूपास्थिता भवति सो एवमाह इह ओदनं देहि इह सूपं देहि इह व्यञ्जनं देहीति वदेय सर्वेहि ते भिक्षू हि सा भिक्षूणी एवमस्य वचनीया। आगमय तावत्त्वं भगिनि यावद्भिक्षू भुञ्जन्तीति एकभिक्षू पि च तां भिक्षुणीन्नेवं वदेय। आगमय तावत्त्वं भगिनि यावद्भिक्षू भुञ्जन्तीति भुक्तावीहि ते हि भिक्षु हि प्रतिदेशयितव्यं। असंप्रेयम्मे आयुष्मन् गार्ह्यम्प्रतिदेशनिकं धर्ममापन्नो तं धर्मं प्रतिदेशयामि। अयम्पि धर्म्मो प्रतिदेशनिको॥

4. यानि खो पुनरिमानि शिक्षसम्मता नि कुलानि भवन्ति। तत्र च भिक्षूः पूर्व्वे अप्रवारितो उपसंक्रमित्वा स्वहस्तं खादनीयं वा भोजनीयं वा प्रतिगृह्णित्वा खादेय वा भुंजेय वा भुक्ताविना तेन भिक्षुणा प्रतिदेशयितव्यं। असंप्रेयम्मे आयुष्मन् गार्ह्यं प्रतिदेशनिकं धर्ममापन्नो तं धर्मं प्रतिदेशयामि। अयं पि धर्मो प्रतिदेशनिको॥

उद्दानम्॥ [1] आरण्यक [2] मन्तरगृहे [3] भिक्षू च निमन्त्रितकाः [4] शैक्षसम्मतेन चत्वारः उद्दिष्टाः॥

खो पुनरायुष्मन्तो चत्वारः प्रातिदेशनिका धर्मास्तत्रायुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः। द्वितीयम्पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः तृतीयम्पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः परिशुद्धाः अत्रायुष्मन्तो यस्मात्तूष्णीमेवमेतं धारयामि।

VII. THE SIXTY-SEVEN SAIKSA DHARMAS.

इमे खो पुनरायुष्मनो सातिरेक पञ्चाषड् शिक्षाधर्म्मा अन्वर्द्धमासं सूत्रे प्रातिमोक्षे उद्देशमाग च्छन्ति।

1. परिमण्डलन्निवसनं निवासयिष्यामीति शिक्षा करणीया।
2. परिमण्डलं चीवरं प्रावरिष्यामीति शिक्षाकरणीया।
3. स्वसंवृतो अन्तरगृहमुपसंक्रमिष्यामीति शिक्षाकरणीया।
4. न उक्षिप्तक्षूरन्तरगृहमुपसंक्रमिष्यामीति शिक्षाकरणीया।
5. अल्पशब्दो अन्तरगृहमुपसंक्रमिष्यामीति शिक्षाकरणीया।
6. न उझग्गीकाय अन्तरगृहमुपसंक्रमिष्यामीति शिक्षाकरणीया।
7. न ओगुण्ठिकाय अन्तरगृहमुपसंक्रमिष्यामीति शिक्षाकरणीया।
8. न उक्षिप्तिकाय अन्तरगृहमुपसंक्रमिष्यामीति शिक्षाकरणीया।
9. न उक्कुट्टिकाय अन्तरगृहमुपसंक्रमिष्यामीति शिक्षाकरणीया।
10. न खम्भकृतो अन्तरगृहमुपसंक्रमिष्यामीति शिक्षाकरणीया।
11. न कायप्रचालकमन्तरगृहमुपसंक्रमिष्यामीति शिक्षाकरणीया।
12. न शीर्षप्रचालकमन्तरगृहमुपसं क्रमिष्यामीति शिक्षाकरणीया।
13. न बाहुविक्षेपकमन्तरगृहमुपसंक्रमिष्यामीति शिक्षाकरणीया।

उद्दानम् [1] निवसनं [2] प्रावरणं [3] सुसंवृतो [4] चक्षूः [5] शब्द [6] नोझग्गीका [7] न ओगुण्ठिका [8] नोक्षिप्तिका [9] न उक्कुट्टिका [10] न खम्भ [11] न काय [12] न शीर्ष [13] न बाहुकेन। प्रथमो वग्गः।

14. सुसंवृतो अन्तरगृहे निषीदिष्यामीति शिक्षाकरणीया।
15. न उक्षिप्तचक्षू अन्तरगृहे निषीदिष्यामीति शिक्षाकरणीया।
16. अल्पशब्दो अन्तरगृहे निषीदिष्यामीति शिक्षाकरणीया।
17. न उझग्गीकाय अन्तरगृहे निषीदिष्यामीति शिक्षाकरणीया।
18. न ओगुण्ठिकाय अन्तरगृहे निषीदिष्यामीति शिक्षाकरणीया।
19. न उक्षिप्तिकाय अन्तरगृहे निषीदिष्यामीति शिक्षाकरणीया।
20. न ओसक्तिकाय अन्तरगृहे निषीदिष्यामीति शिक्षाकरणीया।
21. न पल्लत्थिकाय अन्तरगृहे निषी दिष्यामीति शिक्षाकरणीया।
22. न खम्भकृतो अन्तरगृहे निषीदिश्यामीति शि[क्षा] करणीया।
23. न अन्तरगृहे निषण्णो हस्तं कोकृत्यम्वा पादकौकृत्यम्वा करिष्यामीति शिक्षाकरणीया।

उद्दानं॥ [14] सुसंवृतो [15] चक्षुः [16] शब्द [17] नोझग्गिका [18] न ओगुण्ठिका [19] नोक्षिप्तिका [20] नोशक्तिका [21] न पल्लत्थिका [22] न खम्भ [23] न हस्तपादकौकृत्येन। द्वितीयो वग्गः॥

24. सत्कृत्य पिण्डपात्रं प्रतिगृह्णिष्यामीति शिक्षाकरणीया।
25. समसूपं पिण्डपात्रं परिभुञ्जिष्यामीति शिक्षाकरणीया।
26. न स्तूपकारकं पिण्डपात्रं परिभुञ्जिष्यामीति शिक्षाकरणीया।
27. नावकीर्ण्णकारकं पिण्डपात्रं परिभुंजिष्यामीति शिक्षाकरणीया।
28. नावगण्डकारकं पिण्डपात्रं परिभुंजिष्यामीति शिक्षाकरणीया।
29. न जिह्वा निचारकं पिण्डपात्रं परिभुंजिष्यामीति शिक्षाकरणीया।
30. नाति महम्ते हि कवडे हि पिण्डपात्रं परिभुंजिष्यामीति शिक्षाकरणीया।
31. नानागतेकवडे मुखद्वारं विवरिष्यामीति शिक्षाकरणीया।
32. न कवडोत्क्षेपकं पिण्डपात्रं परिभुंजिष्यामीति शिक्षाकरणीया।
33. न कवडच्छेदकं पिण्डपात्रं परिभुंजिष्यामीति शिक्षाकरणीया।
34. न सकवडेन मुखेन वाच भाषिष्यमीति शिक्षाकरणीया।

उद्दानं॥ [24] सत्कृत्य [25] समसूप [26] न सूप [27] नावकीण्ण [28] नावगन्ड [29] न जिह्वा [30] नातिमहान्तं [31] नानागतं [32] न कवडोत्क्षेपक [33] न कवडच्छेदक [34] न सकवडेन मुखेन वाचं॥ तृतीयो वग्गः॥

35. न पात्रं निर्ल्लेहकं पिण्डपात्रं परिभुंजिष्यामीति शिक्षाकरणीया।
36. न हस्तनिर्ल्लेहकं पिण्डपात्रं परिभुंजिष्यामीति शिक्षाकरणीया।
37. नांगुंलिल्लेहकं पिण्डपात्रं परिभुंजिष्यामीति शिक्षाकरणीया।
38. न चुच्चूकारं पिण्डपात्रं परिभुंजिष्यामीति शिक्षाकरणीया।
39. न सुरुसुरुकारं पिण्डपात्रं परिभुंजिष्यामीति शिक्षाकरणीया।
40. न शुलुशुलुकारकं पिण्डपात्रं परिभुंजिष्यामीति शिक्षाकरणीया।
41. न हस्तनिर्द्धूनकं पिण्डपात्रं परिभुञ्जिष्यामीति शिक्षाकरणीया।
42. न सित्थावकारकं पिण्डपात्रं परिभुंजिष्यामीति शिक्षाकरणीया।
43. नातिवेलापरस्य पात्रन्निध्यायिष्यामि ओध्यायनकर्मतामुपादायेति शिक्षाकरणीया।
44. पात्रसंज्ञीपिण्डपात्रं परिदृश्यामीति शिक्षाकरणीया।
45. न अगिलानो ओदनम्वा सूपम्वा व्यञ्जनम्वा आत्मात्वाय कुले हि विज्ञापेत्वा वा विज्ञापायेत्वा वा पिण्डपात्रं परिभुंजिष्यामीति शिक्षाकरणीया।
46. नदिन्नदिन्नानिष्ठं जनानि ओदनेन प्रच्छादयिष्यामि। भूयो आगमनकर्मतामुपादायेति शिक्षाकरणीया।
47. न ससिथाम्यानोदकं पृथिव्यान्निषिञ्चिष्यामीति शिक्षाकरणीया।
48. न सशित्थेन पाणिना पानीयस्थालकं प्रतिगृह्णिष्यामीति शिक्षाकरणीया।

उद्दानम्। [35-36-37] त्रयो निर्ल्लेहाः। [28] चुचु [39] सुरुसुरु [40] न शुलुशुलु [41] न हस्त [42] न सित्थ [43] न ओध्यायन [44] पात्रसंज्ञी [45] र्विज्ञप्ति [46] च्छादयति [47] पात्रोदक [48] ससित्थेन॥ चतुथो वगः॥

49. न थितो निषण्णस्य अगिलानस्य धर्म्मन्देशयिष्यामीति शिक्षाकरणीया।
50. न निषण्णो निषद्यस्य अगिलानस्य धर्मन्देशयिष्यामीति शिक्षाकरणीया।
51. न नीचासने निषण्णो उच्चासने निषण्णो अगिलानस्य धर्मन्देशयिष्यामीति शिक्षाकरणीया।
52. न उपानहारूढस्य अगिलानस्य धर्मन्देशयिष्यामीति शिक्षाकरणीया।
53. न पादुकारूढस्य अगिलानस्य धर्मन्देशयिष्यामीति शिक्षाकरणीया।
54. न ओगुण्ठिकाकृतस्य अगिलानस्य धर्मन्देशयिष्यामीति शिक्षाकरणीया।
55. न संमुखावेष्ठितस्य अगिलानस्य धर्मन्देशयिष्यामीति शिक्षाकरणीया।
56. न ओसक्तिकाय निषण्णस्यागिलानस्य धर्मन्देशयिष्यामीति शिक्षाकरणीया।
57. न पल्लत्थिकाय निषण्णस्य अगिलान स्य धर्मन्देशयिष्यामीति शिक्षाकरणीया।

उद्दानम्॥ [49] न थितो [50] न निषण्णो [51] उच्चासन [52] उपानह [53] पादुका [54] ओगुण्ठिका [55] न सन्मुख [56] न ओसत्तिका [57] न पल्लत्थिकाय। पञ्चमो वगः।

58. न शस्त्रपाणस्य अगिलानस्य धर्मदेशयिष्यामीति शिक्षाकरणीया।
59. नायुधपाणिस्य अगिलानस्य धर्मन्देशयिष्यामीति शिक्षाकरणीया।
60. न दण्डपाणिस्य अगिलानस्य धर्मन्देशयिष्यामीति शिक्षाकरणीया।
61. न छत्रपाणिस्य अगिलानस्य धर्मन्देशयिष्यामीति शिक्षाकरणीया।
62. न उत्पथेन गच्छन्तो पथेन गच्छन्तस्य अगिलानस्य धर्मन्देशयिष्यामीति शिक्षाकरणीया।
63. न पृष्ठतो गच्छन्तो पुरतो गच्छन्तस्य अगिलानस्य धर्मन्देशयिष्यामीति शिक्षाकरणीया।
64. न पादेन गच्छन्तो यानेन गच्छन्तस्य अगिलानस्य धर्मन्देशयिष्यामीति शिक्षाकरणीया।
65. न हरिते तृणे उच्छारं वा प्रश्रावं वा खेड्‍डं वासिंहाणं वा अगिलानो करिष्यामीति शिक्षाकरणीया।
66. न उदके उच्चारं वा प्रश्रावं वा खेड्‍डं वा सिंहाणकं वा अगिलानो करिष्यामीति शिक्षाकरणीया।
67. न स्थितो उच्चारम्वा प्रश्रावम्वा अगिलानो करिष्यामीति शिक्षाकरणीया।

उद्दानम्॥ [58-59] न शस्त्रायुध [60] दण्ड [61] च्छत्र [62] उत्पथ [63] पृष्ठतो [64] यानं [65] हरितं [66] उदक [67] स्थितेन। षष्ठो वर्गः॥

उद्दिष्ताः खो पुनरायुष्मन्तो सातिरेकपञ्चाशत शैक्षाधर्माः। तत्रायुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः। द्वितीयम्पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः। तृतीयम्पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः। परिशुद्धाः अत्रायुष्मन्तो यस्मात्तूष्णीमेवमेतन्धारयामि।

VIII. THE SEVEN ADHIKARANA SAMATHA DHARMAS.
इमे खो पुनरायुष्मन्तो सप्त अधिकरणसमथाधर्मा अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्देशमागच्छन्ति।

1. ये उत्पन्नोत्पन्नानामधिकरणानां शमथाय व्यपशमथाय सन्वकृते। संय्यथीदं संमुखविनयो शमथो।
2. स्मृतिविनयो शमथो।
3. अमूढविनयो शमथो।
4. प्रतिज्ञाकारको शमथो।
5. तस्य पापेयसिको शमथो।
6. यो भूयसिको शमथो।
7. तृणप्रस्तारको च शमथो। सप्तमो।

उद्दिष्ताः खो पुनरायुष्मन्तो सप्त अधिकरणसमथाधर्मा सूत्रा युष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः। द्वितीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः। तृतीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः। परिशुद्धाः अत्रायुष्मन्तो यस्मात्तूष्णीमेवमेतं धारयामि।

इमे खो पुनरायुष्मन्तो दुवे धर्माः। धर्मो अनुधर्मशु अन्वर्धमासं सूत्रे प्रातिमोक्षे उद्देशमागच्छन्ति।

तत्र धर्मो नाम यमुभयतो विनयो।
अनुधर्मो नाम या अत्र प्रतिपत्तिः॥

उद्दिष्ताः खो पुनरायुष्मन्तो दुवे धर्माः। धर्मो अनुधर्मशु तेत्रायुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः। द्वितीयं पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः तृतीयम्पि आयुष्मन्तो पृच्छामि कच्चित्थ परिशुद्धाः। परिशुद्धाः अत्रायुष्मन्तो यस्मात्तूष्णीमेवमेतं धारयामि।

उद्दिष्टं। खो पुनरायुष्मन्तो प्रातिमोक्षस्य वस्तु। उद्दिष्टं निदानं। उद्दिष्टाश्चत्वारः पाचत्तिका धर्माः। उद्दिष्ता त्रयोदशसंघातिशेषाः धर्माः। उद्दिष्ताः दुवे अनियता धर्माः। उद्दिष्टा त्रिंशन्निसर्गिकपाचत्तिका धर्माः। उद्दिष्ता द्वानवति शुद्ध पचत्तिका धर्माः। उद्दिष्ताः चत्वारः प्रातिदेशनिका धर्माः। उद्दिष्ताः सातिरेकपश्चाषड् शैक्षा धर्माः। उद्दिष्तास्सप्तधिकरणशमथाधर्माः। उद्दिष्ता दुवे धर्माः। धर्मो अनुधर्मशु। एतकोयं पुनस्तस्य भगवतो तथागतस्यार्हतः सम्यक् संबुद्धस्य धर्मविनयो प्रातिमोक्षसूत्रागतो सूत्रपर्यापन्नो यो वा अन्योपि कश्चिद्धर्मस्य अनुधर्मो तत्र समग्रे हि सर्व्वे हि सहिते हि संमोदमाने हि अविवदमाने हि एकोद्देशे हि क्षीरोदकी कृतेहि शास्तुः शासनं दीपयमाने हि। सुखञ्च फासुञ्च विहरन्ते हि अनध्यावाचाय शिक्षाकरणीया।

1. क्षान्तिः परमन्तपो तितिक्षा निर्व्वाणं परमं वदन्ति बुद्धाः।
नहि प्रव्रजितः परोपघाती श्रवणो भोति परान्विहेठयन्तः।

इदम्तस्य भगवतो विपश्चितस्य तथागतस्यार्हतः सम्यक्संबुद्धस्व अचिराभिसंबुद्धस्य निरर्ब्बुदे भिक्षुसंघे संक्षिप्तेन प्रातिमोक्षं सुभाषितम्॥

2. आरोपवादी अपरोपघाती प्रतिमोक्षे च सम्वरे मात्रज्ञता च। भुक्तिस्मिं प्रान्तञ्च शयनासनं अधिचित्ते चायोगो एतं बुद्धानुशासनं॥

इदं तस्य भगवतो शैक्षिस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अचिराभिसंबुद्धस्य निरर्ब्बुदे भिक्षुसंघे संक्षिप्तेन प्रातिमोक्षं सुभाषितम्॥

3. अधिचेतसि मा प्रमाद्यते मुनिनो मौनपदेषुशिक्षतः।
शोकाः न भवन्ति तायिनो उपशान्तस्य सदास्मृतीमतः॥

इदं तस्य भगवते विश्वभुवस्य तथागतस्यार्हतः सम्यक् संबुद्धस्य निरर्ब्बुदे भिक्षुसंघे संक्षिप्तेन प्रतिमोक्षं सुभाषितं॥

4. सर्व्व पापस्याकरणं कुशलस्योपसंपदा।
सुचित्ते पर्योदमनं एतद् बुद्धानुशासनम्॥

इदन्तस्य भगवतो क्रुक्रुच्छन्दस्य तथागतस्यार्हतः सम्यक् संबुद्धस्य अचिराभिसंबुद्धस्य निरर्ब्बुदे भिक्षुसंघे संक्षिप्तेन प्रतिमोक्षं सुभाषितं॥

5. यथाहि भ्रमरो पुष्पम्वण्णगन्धगहेण्यं
परैति रसमादाय एवं ग्रामे मुनिश्चरेत्।

6. न परेषां विलोमानि न परेषां कृताकृतम्।
आत्मनस्तु समीक्षेत् कृतान्यकृतानि च॥

इदन्तस्य भगवतो कोनाकमुनिस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अचिराभिसंबुद्धस्य निरर्ब्बुदे भिक्षुसंघे संक्षिप्तेन प्रतिमोक्षं सुभाषितम्।

7. नास्ति ध्यानमप्रज्ञस्य प्रज्ञानास्ति अध्यायतो।
यस्य ध्यानञ्च प्रज्ञा च स वै निर्वाणस्य अन्तिके॥

तत्रायमादि भवति। इह प्रज्ञस्य भिक्षुणो इन्द्रियैगुप्तिः संज्ञप्तिः प्रातिमोक्षे च संवरो॥

8. नित्यं भजेत् कल्याणं शुद्धाजीवमतन्द्रितं।
प्रतिसंस्तरवत्ति च अचारकुशलोसि या॥
ततः प्रामोद्य बहुलो भिक्षुर्निर्वाणस्येव अन्तिके॥

इदं तस्य भगवतः काश्यपस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अचिराभिसंबुद्धस्य निरर्ब्बुदे भिक्षुसंघे संक्षिप्तेन प्रातिमोक्षं सुभाषितम्॥

9. चक्षुषा संवरः साधुः साधुः श्रोत्रेण संवरः।
घ्राणेन संवरः साधुः साधुजिह्वाय संवरः।
कायेन संवरः साधु मनसा साधु संवरः।
सर्वत्र संवृतो भिक्षुः सर्वदुःखात्प्रमुच्यते॥

इदन्तस्य भगवतः शाक्यमुनेः शाक्याधिराजस्य तथागतस्यार्हतः सम्यक् सम्बुद्धस्य अचिराभिसंबुद्धस्य निरर्ब्बुदे भिक्षुसंघे संक्षिप्तेन प्रतिमोक्षं सुभाषितम्।

एतानि प्रतिमोक्षाणि संबुद्धानां शिरीमतां। किर्तीताः...................................................मं.......................................

[1] विपश्वी आनायवद्यञ्च [2] शिखी प्रकाशयति अधिचित्तञ्च [3] विश्वभुः। अकरणञ्च पापानां [4] क्रुक्रुच्छन्दः। दुर्याञ्च [5] कोनाकमुनिः। [6] ध्यानानि च काश्यपो प्रकाशयति [7] संवरं शाक्यमुनेः। एते सप्तदशबला। महाप्रज्ञा अमितबुद्धी सप्तानां सम्यक् संबुद्धानां....ना....श्या....धिपतीनां धर्माख्यानानि उक्तानि। उद्दिस्तं प्रातिमोक्षसूत्रं। कृतं संघेन यो च ध....आर्याः....पालयन्तु। समाप्तं। प्रातिमोक्षसूत्रं आर्यमहासांघिकानां लोकोत्तरवादिनां माध्याद्देशिकानां पाठि....। ये धर्महेतुप्रभवा तं पि तथागतो अवदत्तेषाञ्च योनिरोधं एवं वादी महाश्रवणः। ये धर्म्मो यं प्रवरमहायान पयिश्य शाक्यभिक्षुलोक ....।

शाक्यभिक्षु श्रीविजयभद्रलिखितमिदम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project