Digital Sanskrit Buddhist Canon

भिक्षुणी विनय

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Bhikṣuṇī vinaya
भिक्षुणी-विनय

STORY OF MAHAPRAJAPATI GAUTAMI

ॐ नमो बुद्धाय। आर्य-महासांघिकानां लोकोत्तरवादिनां मध्य्ऽ-उदेशिकानां पाठेन भिक्षुणी-विनयस्यादिः।

भगवान् सम्यक्सम्बुद्धो यद्-अर्थ[ं] समुदागतो तद्-अर्थम् अभिसम्भावयित्वा शाक्येषु विहरति शाक्यानां कपिलवस्तुस्मिन् न्यग्रोधारामे शास्ता देवानाञ् च मनुष्यानाञ् च बुद्धो भगवान् सत्-कृतोगुरु-कृतो मानितः पूजितो अर्चितो अपचायितो लाभाग्र-यशो-ऽग्र-प्राप्तो लाभी चीवर-पिण्डपात-शयनासन-ग्लान-प्रत्यय-भैषज्य-परिष्कारानान्। तत्र चानुपलिप्तो पद्मम् इव जलेन पुण्य-भागीयान् सत्वान् पुण्येहि निवेशयमानो फलभागीयान् सत्वान् फलेहि प्रतिष्ठापयमानो वासनाभागीयान् सत्वान् वासनायाम् अवस्थापयमानो अमृतम् अन्-अल्पकेन देव-मनुष्यान् सम्विभजन्तो प्राणि कोटि-नियुत-शत-सहस्राण्य् अमृतं अनुप्रापयन्तो अनवराग्र-जाति-जरा-मरण-संसार-कान्तार-नरकविदुर्गान् महा-प्रपाताद् अभ्युद्धरित्वा क्षेमे शिवे समे स्थले अभये निर्वाणे प्रतिष्ठापयमानो आवर्जयित्वा अङ्ग-मगध-वृजि-मल्लि-काशि-कोशल-कुरु-पञ्चाल-चेदि-वत्स-मत्स्य-शूरसेन-शिवि-दशार्ण चास्वकि-अवन्ति।

ज्ञाने दृष्ट-पराक्रमो स्वढां(यां) भूः दिव्येहि विहारेहि विहरन्तो ब्राह्मेहि विहारेहि आर्येहि विहारेहि अनिञ्जेहि विहारेहि विहरन्तो ब्राह्मेहि विहारेहि आर्येहि विहारेहि अनिञ्जेहि विहारेहि सतात्ये (सातत्ये) [हि] विहारेहि बुद्धो बुद्ध-विहारेहि जिनो जिनविहारेहि जानको जानक-विहारेहि सर्वज्ञो सर्वज्ञ-विहारेहि चेतो-वसि-परम-पारमि-प्रप्तोश्(ताश्) च पुनर् बुद्धा भगवन्तो येहि येहि विहारेहि आकांक्षन्ति तेहि तेहि विहारेहि विहरन्ति विहार-कुशलाश् च पुनर् बुद्धा भगवन्तः।

२. अथ खलु महाप्रजापती गौतमी च्छन्दाय च्छन्दकपालाय दासच्छन्दाये च्छन्दक-मातरे च पञ्चहि च शाकियानी-शतेहि सार्धं येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौशिरसा वन्दित्वा एकान्ते अस्थासि एकान्त-स्थिता महाप्रजापती गौतमी भगवन्तम् एतद् अवोचत्। दुर्लभो भगवन् बुद्धोत्पादो दुर्लभा सद्-धर्म-देशना। भगवांस् चैतर्हि लोके उत्पन्नो तथागतोऽर्हन् सम्यक्सम्बुद्धो धर्मो च देशयति औपसमिको पारिनिवाणिको सुगत-प्रवेदितो अमृतस्य प्राप्तये निर्वाणस्य साक्षात्-क्रियाय सम्वर्तति। साधु भगवान्(वन्) मातृग्रामो पि लभेय तथागत-प्रवेदिते धर्मविनये प्रव्रज्याम् उपसम्पदं भिक्षुणि-भावं। भगवान् आह। मा ते गौतमि रोचतु तथागत-प्रवेदिते धर्म-विनये प्रव्रज्याम्-उपसंपदां(दा) भिक्षुणी-भावं(वो)।

अथ खलु महाप्रजापती गौतमी। न खलु भगवान् मातृग्रामस्य अवकाशं करोति तथागत- प्रवेदिते धर्म-विनये प्रव्रज्याम्-उपसम्पदां(दाय) भिक्षुणी-भावायेति। सा भगवतो पादौ शिरसा वन्दित्वा सार्धं च्छन्दाय च्छन्दकपालाये दासच्छन्दाये च्छन्दक-मातरे च येन तानि पञ्च शाकियानी-[श]तानि तेनोपसंक्रमित्वा शाकियानीयो एतद् अवोचत्। न खलु आर्यमिश्रिकायो भगवान् अवकाशं करोति मातृग्रामस्य तथागत-प्रवेदिते धर्म-विनये प्रव्रज्या-उपसंपदाय भिक्षुणी-भावाय। किम् पुन वयम् आर्यमिश्रिकायो सामम् एव केशान् ओतारयित्वा काषायानि वस्त्राणि आच्छादयित्वा कोशका-बद्धेहि या(ने)हि भगवन्तं कोशलेहि जनपदेहि चारिकां चरमाणं पृष्ठिमेन पृष्ठिम् आबन्धेम। सचे मो भगवान् [अनु]जानी(नि) ष्यति प्रव्रजिष्यामो नो च अनुजानी(नि)ष्यति एवम् तु तायि भगवतो सन्तिके ब्रह्मचर्यञ् चरिष्यामः साधु आर्येति तायो शाकियानीयो महाप्रजापतीये गौतमीये प्रत्याश्रौषि।

३. अथ खलु भगवान् कपिलवस्तुस्मिन् नगरे यथाभिरम्यं विहरित्वा कोशलेषु जनपदेषु चारिकां प्रक्रामि। अथ खलु महाप्रजापती गौतमी सार्धं च्छन्दाये च्छन्दकपलाये दासच्छन्दाय च्छन्दक-मातरे च पञ्चहि च शाकियानी-शतेहि सात्मनेव केशान् ओतारयित्वा काषायाणि वस्त्राणि आच्छादयित्वा कोशकं (क)-बद्धेहि यानेहि भगवन्तं कोशलेषु जनपदेषु चारिकां चरमाणं पृष्ठिमेन पृष्ठम् अनुबन्धेंसुः।

४. अथ खलु भगवान् कोशलेषु जनपदेषु चारिकां चरमानो महता भिक्षु-संघेन सार्धं पञ्चहि भिक्षु-शतेहि येन कोशलानां श्रावस्ती-नगरं तद् अवसारि। तद् अनुप्राप्तस् तत्रैव विहरति जेतवने अनाथपिण्डदस्यारामे।

अथ खलु महाप्रजापती गौतमी येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि। एकान्तस्थिता महाप्रजापती गौतमी भगवन्तम् एतद् अवोचत्। दुर्लभो भगवन् बुद्धोत्पादो दुर्लभा सद्-धर्म-देशना। भगवांश् चैतर्हि लोके उत्पन्नो तथागतो र्हं सम्यक्सम्बुद्धो धर्मो च देशते औपसमिको च पारिनिर्वाणिको सुगतप्रवेदितो अमृतस्य प्राप्तये निर्वाणस्य साक्षात्-क्रियाय सम्वर्तति। साधु भगवान्(वन्) मातृ-ग्रामो पि लभेय तथागतप्रवेदिते धर्म-विनये प्रव्रज्या-म्-उपसम्पदां भिक्षुणी-भावं। एवम् उक्ते भगवान् महाप्रजापतीं गौतमीम् एतद् अवोचत्। मा ते गौतमी रोचतु मातृग्रामस्य तथागतप्रवेदिते धर्मविनये प्रव्रज्या-उपसम्पदा-भिक्षुणि-भावो।

५. अथ खलु महाप्रजापती गौतमी। न खलु भगवान् अवकाशं करोति मातृग्रामस्य तथागत-प्रवेदिते धर्म-विनये प्रव्रज्यां (ज्याय) उपसम्पदां (दाय) भिक्षुणि-भावस्येति। सा भगवतो पादां शिरसा वन्दित्वा जेतवनस्य आराम-द्वारकोष्ठको(क) समीपे रोदमानी अस्थासि पादाण्गुष्ठेन भूमिं विलिखन्ती। अद्दशाशि खु अन्यतरो भिक्षुर् महाप्रजापतीं गौतमीं जेतवनस्य आरामद्वार-कोष्ठ-समीपे रुदमानीन् तिष्ठन्तीं पादाङ्गुष्ठेन भूमिं विलिखेन्तीं दृष्ट्वा च पुनर् येनायुष्मान् आनन्दो तेनोपसंक्रमित्वा आयुष्मन्तम् आनन्दम् एतद् अवोचत्। एषा आयुष्मन् आनन्द महाप्रजापती गौतमी जेतवनस्य आराम-कोष्ठक-समीपे रुदमानी तिष्ठति पादाङ्गुष्ठेन भूमिं विलिखन्ती। गच्छावुसानन्द जानेहि किं महाप्रपती गौतमी रोदीति।

६. अथ खलु आयुष्मान् आनन्दो येन महाप्रजापती गौतमी तेनोपसंक्रमित्वा महाप्रजापतीं गौतमीम् एतद् अवोचत्। किं गौतमि रुदसि। एवम् उक्ते महाप्रजापती गौतमी आयुष्मन्तम् आनन्दम् एतद् अवोचत्। अलम् मे आर्यानन्द रुण्णेन यत्र हि नाम एवं दुर्लभो बुद्धोत्पादो एवं दुर्लभा सद्-धर्म-देशना। भगवांश् चैतर्हि लोके उत्पन्नो तथागतो ऽर्हन् सम्यक्सम्बुद्धो धर्मो देशीयति औपसमिको पारिनिर्वाणिको सुगत-प्रवेदितो अमृतस्य प्राप्तये निर्वाणस्य साक्षात्क्रियायै सम्वर्तति। न च भगवान् अवकाशं करोति मातृग्रामस्य तथागत-प्रवेदिते धर्म-विनये प्रव्रज्यायोपसम्पदाय भिक्षुणी-भावस्य श्चै साधु तावार्यानन्द भगवन्तं याच यथा लभेय मातृग्रामो पि तथागत-प्रवेदिते धर्म-विनये प्रव्रज्याम् उपसम्पदां भिक्षुणी-भावं।

७. साधु गौतमीति आयुष्मान् आनन्दो महाप्रजापतीये गौतमीये प्रतिश्रुत्वा येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौशिरसा वन्दित्वा एकान्ते अस्थासि। एकान्तस्थितो आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत् दुर्लभो भगवन् बुद्धोत्पादो दुर्लभा सद्-धर्म-देशना भगवान् चेतर्हि लोके उत्पन्ना(न्नो) तथागतोऽर्हन् सम्यक्सम्बुद्धो धर्मो च देश्यते औपसमिको पारिनिर्वाणिको सुगत-प्रवेदितो अमृतस्य प्राप्तये निर्वाणस्य साक्षात्-क्रियायै सम्वर्तति। साधु भगवान्(वन्) मातृग्रामो पि लभेय तथागत-प्रवेदिते धर्मविनये प्रव्रज्याम् उपदम्पदां भिक्षुणि-भावं। एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्। मा ते गौतमी-माता रोचतु मातृग्रामस्य तथागत-प्रवेदिते धर्म-विनये प्रव्रज्या-म्-उपसम्पदां(दा) भिक्षुणी-भावो।

८. अथ खल्व् आयुष्मान् आनन्दो। भगवान् नावकशं करोति मातृग्रामस्य तथागत- प्रवेदिते धर्म-विनये प्रव्रज्या-उपसंपदाये भिक्षुणी-भावस्येति। भगवतः पादौ शिरसा वन्दित्वा येन महाप्रजापति गौतमी तेनोपसंक्रमित्वा महाप्रजापतीं गौतमीम् एतद् अवोचत्। न खलु गौतमी भगवान् अवकाशं करोति मातृग्रामस्य तथागत-प्रवेदिते धर्म-विनये प्रव्रज्यायोपसंपदाय भिक्षुणी-भावाय। एवम् उक्ते महाप्रजापती गौतमी आयुष्मन्तम् आनन्दम् एतद् अवोचत्। साधु तावार्यानन्द द्वितीयं पि भगवन्तं याच यथा मातृग्रामो पि लभेय तथागत-प्रवेदिते धर्म-विनये प्रव्रज्यां उपसंपदां भिक्षुणी-भावं। साधु गौतमीति आयुष्मान् आनन्दो द्वितीयं पि महाप्रजापतीये गौतमीये प्रतिश्रुत्वा येन भगवान् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि। एकान्ते स्थितो आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्। दुर्लभो भगवन् बुद्धोत्पादो ति तद् एवं सर्वं याच (याव) भिक्षुणीभावो ति एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्। माते गौतमी माता रोचतु मातृग्रामस्य तथागत-प्रवेदिते धर्मविनये प्रव्रज्या उपसंपदा भिक्षुणी-भावो। संयथापि नामानन्द सम्पन्ने यव-करणे च कारण्डवं नाम रोगराजा ति उपनिपतेय एवन् तं सम्पन्नं यव-करणं महता उपक्लेशेन उपक्लिष्टं भवति एवम् एव गौतमी माता यस्मिन् प्रावचने मातृग्रामो पि लभति प्रव्रज्याम् उपसंपदां भिक्षुणी-भावं एवन् तं प्रावचनं महता-म्-उपक्लेशेन उपक्लिष्टं भवति। सय्यथापि नाम गौतमी माता सम्पन्ने इक्षु-करणे मञ्जिष्ठा नाम रोग-राजा ति एवन् तं सम्पन्नं इक्षु-करणम् महता उपक्लेशेन उपक्लिष्टम् भवति। एवम् एव गौतमी माता यस्मिन् प्रावचने मातृग्रामो पि लभति प्रव्रज्याम् उपसंपदां भिक्षुणी-भावं एवन् तं प्रावचनम् महता उपक्लेशेन उपक्लिष्टम् भवति। सय्यथापि नाम [मा ते] गौतमी माता रोचतु मातृग्रामस्य तथागत-प्रवेदिते धर्म-विनये प्रव्रज्या-म्-उपसंपदां (दा) भिक्षुणी-भावं (वो)।

९. अथ खल्व् आयुष्मान् आनन्दो। भगवान् [ना] वकाशं करोति मातृग्रामस्य तथागत-प्रवेदिते धर्म-विनये प्रव्रज्यायोपसंपदाय भिक्षुणी-भावस्येति। येन महाप्रजापती गौतमी तेनोपसंक्रमित्वा महाप्रजापतीं गौतमीं एतद् अवोचत्। न खलु गौतमी भगवान् अवकाशं करोति मातृग्रामस्य तथागत-प्रवेदिते धर्म-विनये प्रव्रज्यायोपसंपदाय भिक्षुणी-भावस्येति। एवम् उक्ते महाप्रजापती गौतमी आयुष्मन्तम् आनन्दम् एतद् अवोचत्। साधु तावार्यानन्द तृतीयं पि भगवन्तं याच यथा मातृग्रामो पि लभेय तथागत-प्रवेदिते धर्म-विनये प्रव्रज्याम् उपसंपदं भिक्षुणी-भावं। साधु गौतमीती आयुष्मान् आनन्दो तृतीयं पि महाप्रजापतीय गौतमीय प्रतिश्रुत्वा येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषीदि एकान्त-निषण्णो आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्। पुरिमकानां भगवन् तथागतानाम् अर्हतां सम्यक्सम्बुद्धानां कति पर्षायो अभुवन्। एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्। पुरिमकानाम् आनन्द तथागतानाम् अर्हतां सम्यक्सम्बुद्धानां चत्वारि परिषायो अभुवन् सय्यथीदं। भिक्षु भिक्षुणी उपासकोपासिका।

एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्। ये इमे भगवन् चत्वारो श्रामण्य-फला सय्यथीदं श्रोत-आपत्ति-फलं सकृद्-आगामिफलम् अन्-आगामि-फलम् अग्र-फलम् अर्हत्वं। भव्यो एतेषां मातृग्रामो पि एको ऽप्रमत्तो आतापि व्युपकृष्टो विहरन्तो साक्षीकर्तुं। एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्। यानीमानि आनन्द चत्वारि श्रामण्य-फलानि सय्यथीदं श्रोत-आपत्ति-फलं यावद् अग्र-फलम् अर्हत्वं। भव्यो एतेषां मतृग्रामो पि एको ऽप्रमत्तो आतापि व्युपकृष्टो विहरन्तो साक्षीकर्तुं।

१०. एवम् उक्ते आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्। यतो खलु भगवन् पुरिमकानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां चत्वारो पर्षायो अभूंसुः भिक्षु-भिक्षुणी उपासकोपासिका। इमे चत्वारि श्रामण्य-फलानि सय्यथीदं। श्रोत-आपत्ति-फलं याव अग्रफलम् अर्हत्वं। भव्यो एतेषां मातृग्रामो पि एको अप्रमत्तो आतापि व्युपकृष्टो विहरन्तो साक्षीकर्तुं। साधु भगवन् मातृग्रामो पि लभेय तथागत-प्रवेदिते धर्म-विनये प्रव्रज्याम् उपसंपदां भिक्षुणी-भावं। दुष्कर-चा(का)रिका च भगवतो महाप्रजापती गौतमी आप्(पा)यिका पोषिका जनेत्रीये काल-गताये स्तन्यस्य दायिका भगवांश् च कृतज्ञो कृत-वेदी। एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्। एवम् एतद् आनन्द दुष्कर-कारिका आनन्द तथागतस्य महाप्रजापती गौतमी आपायिका पोषिका जनेत्रिये काल-गताये स्तन्यस्य दायिका तथागतो च कृत-ज्ञो कृत-वेदी च। अपि चानन्द तथागतो पि महाप्रजापतीय गौतमीय दुष्कर-कारको। तथागतं ह्य् आनन्दा-आगम्य महाप्रजापती गौतमी बुद्ध-शरणं गता। धर्म-शरणं गता। संघ-शरणं गता तथागतं ह्य् आनन्दागम्य महाप्रजापती गौतमी

यावज्-जीवं प्राणातिपातातो प्रतिविरता [१]
यावज्-जीवं अदत्तादानात् प्रतिविरता [२]
यावज्-जीवं कामेषु मिथ्याचारात् प्रतिविरता [३]
यावज्-जीवं मृषा-वादातो प्रतिविरता [४]
यावज्-जीवं सुरा-मैरेय-मद्य-पानातो प्रतिविरता॥ [५]

तथागतं ह्य् आनन्दागम्य महाप्रजापती गौतमी श्रद्धया वर्धति। शीलेन वर्धति श्रुतेन वर्धति त्यागेन वर्धति। प्रज्ञया वर्धति। तथागतं ह्य् आनन्दागम्य महाप्रजापती गौतमी दुःखं जानाति समुदयं जानाति। निरोधं जानाति। मार्गं जानाति॥

११. यं आनन्द पुद्गलो पुद्गलम् आगम्य बुद्धं शरणं गच्छति। धर्मं शरणं गच्छति। संघं शरणं गच्छति। इमिना आनन्द पुद्गलेन इमस्य पुद्गलस्य न सुप्रतिकरणं भवति यावज्जीवं पि न उपस्थिहेय यद् उत चीवर-पिण्डपात-शयनासन-ग्लान-प्रत्यय-भैषज्य-परिष्कारेहि। एवं पि न सुप्रतिकरं भवति। यं आनन्द पुद्गलो पुद्गलम् आगम्य यावज्जीवं प्राणातिपातातो प्रतिविरमति। यावज्-जीवं अदत्तादानातो प्रतिविरमति। यावज्-जीवं कामेषु मिथ्याचारात् प्रतिविरमति। यावज्-जीवं मृषा-वादातो प्रतिविरमति। यावज्जीवं सुरा-मैरेय-मद्य-पानातो प्रतिविरमति। इमिना पुद्गलेन इमस्य पौ(पु)द्गलस्य न सुप्रतिकरं भवति। यावज्-जीवं अपि न उपस्थिहेया। यद् उत चीवर-पिण्डपात-शयनासन-ग्लान-प्रत्यय-भैषज्य-परिष्कारेहि। एवं पि न सुप्रतिकरं भवति। यं आनन्द पुद्गलो पुद्गलम् आगम्य श्रद्धया वर्धति शीलेन श्रुतेन त्यागेन प्रज्ञया वर्धति। इमिनानन्द पुद्गलेन इमस्य पुद्गलस्य न सुप्रतिकरं भवति। यावज्-जीवं पि न उपस्थिहेय यद् उत चीवर-पिण्डपात-शयनासन-ग्लान-प्रत्यय-भैषज्य-परिष्कारेहि। एवं पि से न सुप्रतिकारम् भवति। यं आनन्द [पुद्गलो] पुद्गलम् आगम्य दुःखं जानाति समुदयं जानाति निरोधञ् जानाति मार्गञ् च जानाति। इमिना आनन्द पुद्गलेन इमस्य पुद्गलस्य न सुप्रतिकारम् भवति। यावज्जीवं पि न उपस्थिहेय यद् उत चीवर-पिण्डपात-शयनासन-ग्लान-प्रत्यय-भैषज्य-परिष्कारेहि। एवं पि से न सुप्रतिकरम् भवति॥

१२. अथ खलु भगवतो एतद् अभूषि। सचे खलु अहम् आनन्दस्य गौतमस्य पुत्रस्य यावत्-तृतीयकं अपि प्रतिवहिष्यामि भविष्यति च से चित्तस्यान्यथात्वं। श्रुता पि से धर्मो (र्मा) सम्मोहं गमिष्यन्ति। कामं वर्ष-सहस्रं पि मे सद्-धर्मो स्थास्यति। मा हैवानन्दस्य गौतमी-पुत्रस्य भवतु चित्तस्यान्यथात्वं मा पि से श्रुता धर्मा सम्मोषङ् गच्छ (च्छन्)तु। कामं पञ्चापि मे वर्ष-शतानि सद्-धर्मो स्थास्यति। अथ खलु भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयति स्म। सय्यथापि नामानन्द इह पुरुषो पर्वत-संक्षेपे सेतुं बन्धेय यावद् एव वारिस्य अनतिक्रमणाय एवम् एवानन्द तथागतो भिक्षुणीनाम् अष्ट गुरु-धर्मान् प्रज्ञापेति ये भिक्षुनीहि यावज्-जीवं सत्कर्तव्या गुरु-कर्तव्या मानयितव्या पूजयितव्या अनतिक्रमणीया वेला-म्-इव महासमुद्रेण॥ कतमे अष्टौ।

अष्टौ गुरु-धर्मा

गुरु-धर्म १

१३. वर्ष-शता (तो) पसम्पन्नाये आनन्द भिक्षुणीये तदहोप[सम्]पन्नस्य भिक्षुस्य शिरसा पादा वन्दितव्या। अयम् आनन्द भिक्षुणीनां प्रथमो गुरु-धर्मो यो भिक्षूणीहि यावज्-जीवं सत्कर्तव्यो याव अनतिक्रमणीयो वेला-म्-इव महा-समुद्रेण॥

गुरु-धर्म २
अष्टादश-वर्षाये कुमारीभूताये द्वे वर्षाणी देशिता-शिक्षाये परिपूर्णशिक्षाये उभयतो संघे उपसम्पदा प्रत्याशंसितव्या। अयम् आनन्द द्वितीयो गुरु-धर्मो यो भिक्षुणीहि यावज्-जीवं सत्कर्तव्यो गुरुकर्तव्यो याव वेला इव समुद्रेण॥

गुरु-धर्म ३
आवड्डो आनन्द भिक्षुणीनां भिक्षुषु वचन-पथो भूतेन वा अभूतेन वा अनावड्डो भिक्षुस्य भिक्षुणीषु वचनपथो भूतेन नो अभूतेन। अयम् आनन्द भिक्षुणीनां तृतीयो गुरु-धर्मो यो भिक्षुणीहि यावज्-जीवं सत्कर्तव्यो विस्तरेण॥

गुरु-धर्म ४
भक्ताग्रं शय्यासनं विहारो च भिक्षुणीहि भिक्षुतो सादयितव्यो। अयम् आनन्द चतुर्थो गुरु-धर्मो यो भिक्षुणीहि यावज्-जीवं सत्कर्तव्यो गुरुकर्तव्यो विस्तरेण॥

गुरु-धर्म ५
गुरु-धर्मापन्नाये आनन्द भिक्षुणीये अर्ध-मासम् भिक्षुणीसंघे मानत्वं याचितव्यं उभयतो संघे च आह्वयनं। अयम् आनन्द पण्चमो भिक्षुणीनां गुरु-धर्मो यो भिक्षुणीहि यावज्-जीवं सत्कर्तव्यो विस्तरेण॥

गुरु-धर्म ६
अन्वार्ध-मासं भिक्षुणीहि भिक्षु-संघेत्(घात्) उवादोपसंक्रमणं प्रत्याशंसितव्यो (व्यं)। अयम् आनन्द भिक्षुणीनाम् षष्ठो गुरु-धर्मो यो भिक्षुणीहि यावज्-जीवं सत्कर्तव्यो विस्तरेण।

गुरु-धर्म ७
न क्षमति भिक्षुणीहि अभिक्षुके आवासे वर्षाम् उपगन्तुं। अयम् आनन्द भिक्षुणीनां सप्तमो गुरुधर्मो यो भिक्षुणीहि यावज्-जीवं सत्कर्तव्यो विस्तरेण॥

गुरु-धर्म ८
वर्षोषिताहि आनन्द भिक्षुणीहि उभयतो-संघे प्रवारणा प्रत्याशंसितव्या। अयम् आनन्द भिक्षुणीनां अष्टमो गुरु-धर्मो यो भिक्षुणीहि यावज्-जीवं सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यो पूजयितव्यो अनतिक्रमणीयो वेला इव समुद्रेण।

इमे आनन्द भिक्षुणीनाम् अष्टौ गुरु-धर्मो(मा) यो(ये) भिक्षुणीहि यावज्-जीवं सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अनतिक्रमणीया वेला इव समुद्रेण॥

१४. सचे [ना]मानन्द महाप्रजापती गौतमी इमान् अष्ट गुरु-धर्मान् प्रतीच्छति चतुहि च पतनीयेहि धर्मेहि अनध्याचाराय शिक्षां शिक्षति। एषा से अद्य-द्-अग्रेण प्रव्रज्या। एषा उपसंपदा एष भिक्षुणी-भावो। साधु भगवन्न् इति आयुष्मान् आनन्दो भगवतः पादौ शिरसा वन्दित्वा येन महाप्रजापती गौतमी तेनोपसंक्रमित्वा महाप्रजापतीं गौतमीं एतद् अवोचत्। शृणु गौतमी भगवतो वचनं। सय्यथापि नाम गौतमी इह पुरुष पर्वतसंक्षेपे सेतु(तुं) बन्धेय यावद् एव वारिष्य अनतिक्रमणाय एवम् एव गौतमी भगवान् भिक्षुणीनां अष्ट-गुरु-धर्मान् प्रज्ञापेति ये भिक्षुणीहि यावज्-जीवं सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या अनतिक्रमणीया वेला-म्-इव समुद्रेण।

१५. कतमे ऽष्ट। वर्ष-शतोपसम्पन्नाय गौतमी भिक्षुणीय तद्-अहोपसम्पन्नस्य भिक्षुस्य पादा शिरसा वन्दितव्या। अयं गौतमी भिक्षुणीनाम् प्रथमो गुरु-धर्मो यो भिक्षुणीहि यावज्-जीवं सत्कर्तव्यो यो अनतिक्रमणीयो वेला-म्-इव समुद्रेण। एवं सर्वे अष्ट गुरु-धर्मान्। तद् एव महाप्रजापतीय गौतमीय प्रत्यारोचिति। याव सचे खु त्वं गौतमी इमान् अष्ट गुरु-धर्मान् प्रतीच्छसि चतुहि च पतनीयेहि धर्मेहि अनध्याचाराय शिक्षां शिक्षसि। एषा एव ते अद्य-द्-अग्रेण प्रव्रज्या एषा उपसम्पदा एष भिक्षुणी-भावो॥

१६. एवम् उक्ते महाप्रजापती गौतमी आयुष्मन्तम् आनन्दम् एतद् अवोचत्। सय्यथापि नामानन्द इह स्यात् युवा पुरुषो मण्डन-जातीयो शीर्ष-स्नातो आहत-वस्त्र-निवस्त्रो उत्पल-मालाम् वा चम्पक-मालाम् वा कुमुद-मालाम् वा तृण-मोलिक-मालाम् वा शिरसा प्रतीच्छेय एवम् एवाहम् आर्यानन्द इमान् अष्ट-गुरु-धर्मान् शिरसा प्रतीच्छामि चतुहि च पतनीयेहि धर्मेहि अनध्यचाराय शिक्षां शिक्षां शिक्षिष्यं॥

१७. अथ खलु महाप्रजापती गौतमी सार्धं च्छन्दायि च्छन्दक-पालाये दास-च्छन्दाये च्छन्दक-मातरे च पञ्चहि च शाकियानि-शतेहि सार्धं येन भगवान् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासुः।

१८. एकान्त-स्थितायो भिक्षुणीयो भगवान् एतद् अवोचत्। तस्माद् इह भवे भिक्षुणीयो अद्य्-द्-अग्रेण महाप्रजापतीं गौतमीं संघस्थविरा(रां) संघ-महत्तरी(रीं) संघ-थविरिणा विकन्धावेथ। अथ खलु महाप्रजापती गौतमी येन भगवान् तेनाञ्जलिं प्रणामयित्वा भगवन्तम् एतद् अवोचत्। ये इमे भगवन् भिक्षुणीनां अष्टगुरु-धर्मा भगवता संक्षिप्तेन भाषिता विस्तरेण विभक्ता लभ्या ते ऽस्माभिर् विस्तरेण श्रोतुं॥

१९. भगवान् आह। लभ्या। आह। किन्ति दानी गौतमी वर्ष-शतोप-सम्पन्नाये भिक्षुणीये तद्-अहोपसम्पन्नस्य भिक्षुस्य अभिवादनवन्दन-प्रत्युत्थानाञ्जली-कर्म समीची-कर्म कर्तव्यं। न दानिं भिक्षुणीये आगमितव्यं। यदाहं वर्स-शतोपसम्पन्ना भविष्यं भिक्षु च तद् अहोपसम्पन्नो भविष्यति तदाहम् अभिवादन-वन्दन-प्रत्युत्थान-म्-अञ्जली-कर्म सामीचि-कर्म करिष्यं।

२०. अथ खलु सर्वाहि भिक्षुणीहि स्थविरीहि वा नवाहि वा मध्यमाहि वा सर्वेषां भिक्षूणाम् स्थेराणां नवानां मे(म) ध्यमानां अभिवादन-वन्दन-प्रत्युत्थानाञ्जली-कर्म सामीचि-कर्म कर्तव्यं॥ एते दानि भिक्षू भिक्षूणी-उपाश्रयं प्रविष्टा भवन्ति। सर्वाहि भिक्षुणीहि स्थेरीहि वा नवाहि वा मध्यमाहि वा सर्वेषां भिक्षूणां स्थेराणां नवानाञ् च मध्यमानाम् अभिवादन-वन्दन-प्रत्युत्थानाञ्जलीकर्म सामीची-कर्म कर्तव्यं॥

२१. अथ दानि भिक्षुणी जरा-दुर्बला वा भवति व्याधिदुर्बला वा यत्तकानां अभिसंभुणोति तत्तकानां पादा शिरसा वन्दितव्या। शिष्ठकानां मूर्ध्नि अञ्जलिं कृत्वा वक्तव्यं। सर्वेषां आर्यमिश्राणां पादां वन्दामि। एतायो भिक्षुणीयो भिक्षु-विहारं निर्धावन्ति सर्वाहि भिक्षुणीहि स्थेरीहि वा नवाहि वा मध्यमाहि वा सर्वेषां भिक्षूणां थेराणां नवानां मध्यमानां पादा शिरसा वन्दितव्या। अथ दानि भिक्षुणी जरा-दुर्बला भवति व्याधि-दुर्बला वा यत्तकान(नाम्) [अ]भिसं भुणोति तत्तकानां पादा शिरसा वन्दितव्या शिष्टकानां मूर्ध्नि अञ्जलीं कृत्वा वक्तव्यं। सर्वेषां आर्यमिश्राणां पादा शिरसा वन्दामि।

२२. सा एषा भिक्षुणी अवज्ञाय परिभवने[न] कोण्ट-भिक्षू ति वा कृत्वा ढोस्स-भिक्षू ति वा कृत्वा वैद्य-भिक्षू ति वा कृत्वा अखल्ल-महल्ले ति वा अकुशलो ति वा अप्रतिकृति-ज्ञो ति वा कृत्वा न शिरसा पादान् वन्दति गुरु-धर्मम् अतिक्रामति। एवं गौतमी वर्ष-शतोपसम्पन्नाये भिक्षुणीये तदहोपसम्पन्नस्य भिक्षुस्य शिरसा वन्दितव्या(व्यं)। अयं गौतमी भिक्षुणीनां प्रथमो गुरु-धर्मो यावज्जीवं सत्-कर्तव्यो गुरु-कर्तव्यो मानयितव्यो पूजयितव्यो अन्-अतिक्रमणीयो वेला-म्-इव समुद्रेण॥

गुरु-धर्म २
२३. किन्ति दानि गौतमी अष्टादश-वर्षाये कुमारी-भूताये द्वेवर्षाणि शिक्षित-शिक्षाये परिपूर्ण-शिक्षाये उभयतोसंघे उपसम्पदा प्रत्यासंसितव्या।
या दानि एषा अष्टादश-वर्षा कुमारी-भूता भवति ताये भिक्षुणी-संघे द्वे-[वर्षाणी] शिक्षा-देशना-संमुति याचितव्या। कर्म-कारिकाय कर्म कर्तव्यम्। शृणोतु मे आर्य-संघो। इयम् इत्थन्-नामो (मा) नाम अष्टा-दश-वर्षा कुमारी-भूता आकांक्षति तथागत-प्रवेदिते धर्म-विनये प्रव्रज्याम् उपसम्पदां भिक्षुणी-भावं। यदि संघस्य प्राप्तकालं इयम्-नामा अष्टादश-वर्षा कुमारी-भूता संघं द्वे-वर्षाणि शिक्षा-देशना-संमुतिं याचेया। याचिष्यति आर्यमिश्रिकायो संघो इयम् इत्थन्-नामा अष्टादश-वर्षा कुमारी-भूता द्वे-वर्षाणि शिक्षा-देशना-संमुतिं। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि।

२४. ताय दानि याचितव्यं। वन्दामि आर्य-संघं। अहम् इत्थन्नामा अष्टादश-वर्षा कुमारी-भूता आकांक्षामि तथागत-प्रवेदिते धर्म-विनये उपसम्पदां भिक्षुणी-भावं। सो(सा)हं संघं द्वे वर्षाणि शिक्षा-देशना-संमुतिं याचामि। साधु वत मे आर्य-संघो द्वे वर्षाणि शिक्षा-देशना-संमुतिं देतु। एवं द्वितीयम् पि तृतीयम् पि।

२५. कर्म-कारिकाय कर्म कर्तव्यं। शृणोतु मे आर्य-संघो इयम् इत्थन्-नामा अष्टादश-वर्षा कुमारी-भूता द्वे वर्षाणि शिक्षा-देशना-संमुतिं याचति। तस्या आर्य-संघो इत्थन्-नामाये अष्टादश-वर्षाये कुमारी-भूताये द्वे वर्षाणि शिक्षा-देशना-संमुतिन् दद्यात्। ओवयिका एषा ज्ञप्तिः।

शृणोतु मे आर्या संघो। इयम् इत्थन्-नामा अष्टादश-वर्षा कुमारी-भूता आकांक्षति तथागत-प्रवेदिते धर्म-विनये प्रव्रज्याम् उपसम्पदां भिक्षुणी-भावं। सेयं संघं द्वे वर्षाणि शिक्षा-देशना-संमुतिं याचति। तस्या संघो इत्थन् नामाये अष्टादश-वर्षाये कुमारी-भूताये द्वे वर्षाणि शिक्षा-देशना-संमुतिन् देति। यस्य(स्या)आर्यमिश्रिकाणां क्षमति इत्थन्-नामाये अष्टादश-वर्षाये कुमारी-भूताये द्वे वर्षाणी शिक्षा-देशना-संमुतिं दीयमानां संघेन सो(सा) तूष्णीम् अस्य। [यस्या] न क्षमति सा भाषतु। एवं द्वितीयं पि तृतीयं पि दिन्ना-म्-आर्यमिश्रिकायो इत्थन्-नामाये अष्टादश-वर्षाये कुमारी-भूताये द्वे वर्षाणि शिक्षा-देशना-संमुतिः संघेन। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि।

२६. तस्य (स्या) दानि का वत्ता। सर्व-भिक्षुणीनान् नविका सर्वश्रामणेरी[णां] वृद्धा आसन-पर्यन्तो ताये सादि(सादयि) तव्यो[1]। भक्त-पर्यन्तो ताये सादयितव्यो [2] य्वागु-पर्यन्तो ताये सादयितव्यो [3] यत् तस्या ऽमिषम् अकल्पिकम् तं भिक्षुणीनां आमिषं कल्पिकं [4] यं भिक्षुणीनां आमिषं कल्पिकं तस्या तं आमिषं अकल्पिकं [5] भिक्षुणीयिहि तस्याः तेन परिवर्त-शेय्या कर्तव्या [6] ताय पि श्रामणेरीणां तेन परिवर्तक-शेय्या कर्तव्यं(व्या) [7]। भिक्षुणीयिहि सा प्रतिग्राहणि[का] कारापयितव्या स्थापयित्वा अग्नि-कल्पञ् च [8]। जातरूपरजतञ् च[9] ताये पि श्रामणेरीयो प्रतिग्राहणिकां (का) कारापयितव्यायो [10]।

२७. न क्षमति ताये पोषधो वा प्रवारणा वा अभिसंभुणितुं। अथ खलु यदा पोषधो वा प्रवारणा वा भवति। तद्-अहो तायि वृद्धान्तम् आरुह्य मूर्ध्नि अञ्जलिं कृत्वा वक्तव्यं। वन्दामि आर्यायो विशुद्धाम् मे धारेथ। द्वितीयम् पि तृतीयम् पि। वन्दामि आर्यायो विशुद्धां धारयेथ त्रीणि वारां जल्पीय गन्तव्यं [11] न क्षमति सा प्रातिमोक्ष-सूत्रं श्रावयितुं। अथ खलु यत्तकं पारियति पद-फल-काये ग्राहयितुं तत्तकं ग्राहयितव्या [12]। वक्तव्यम्।

न क्षमति अ-ब्रह्मचर्यं प्रतिसेवितुं [13] न क्षमति अदिन्नम् आदयितुम् [14]।

न क्षमति स्व-हस्तं मनुष्य-विग्रहं [जीविताद्] व्योपरायितुं [15] न क्षमति अभूवनम् उत्तरि-मनुष्य-धर्मम् प्रजानितुं [16]।

एवं यत्तकं पारीयति पद-फलके ग्राहयितुं तत्तकं ग्राहयितव्या।

पञ्च-शिक्षा-भञ्जनकानि। विकाल-भोजनं। सन्निधिकारा-भोजनं। जातरूप-रजत-प्रतिग्रहणं। गन्धा-माला-विलेपन-धारणं। सुरा-मैरेय-मद्य-पानाञ् च। यत्तकानि दिवसानि अध्याचरति तत्तकानि दिवसानि उक्तानि शिक्षा शिक्षितव्या [18]॥

२८. यं कालं द्वे [व]र्षाणि भवन्ति ततो ताय संघो उपस्थापना-संमुतिं याचितव्यो।

कर्म-कारिकाय कर्म कर्तव्यं। शृणोतु मे आर्य-संघो इयम् इत्थन्-नामा अष्टादश-वर्षा कुमारी-भूता द्वे वर्षाणि देशित-शिक्षा परिपूर-शिक्षा आकाम्क्षति तथागत-प्रवेदिते धर्म-विनये प्रव्रज्याम् उपसम्पदाम् भिक्षुणी-भावं। यदि संघस्य प्राप्त-कालं इत्थन्-नामा अष्टादश-वर्षा कुमारी-भूता द्वे वष्राणि देशित-शिक्षा परिपूरि-शिक्षा। सा संघं उपस्थापनासंमुतिं याचेय। याचिष्यति आर्यमिश्रिकायो इत्थन्-नामा अष्टादशा-वर्षा कुमारी-भूता देशित-शिक्षा परिपूरि-शिक्षा द्वे वर्साणि उपस्थापना-संमुतिं। क्षमते तं संघस्य यस्मात् तूष्णिम् एतद् धारयामि।

२९. ताय दानि याचितव्यं। वन्दामि आर्य-संघम् अहम् इत्थन्-नामा अष्टादश-वर्शा कुमारी-भूता द्वे वर्षाणि देशित-शिक्षा परिपूरिशिक्षा। सा अहं संघं उपस्थापना-संमुतिं याचामि। साधु मे आर्या संघो उपस्थापना-संमुतिन् देतु। द्वितीयम् पि तृतीयम् पि। वन्दामि आर्यायो अहम् इत्थन् -नामा अष्टादश-वर्षा कुमारी-भूता द्वे वर्षाणि देशित-शिक्षा परिपूरि-शिक्षा। [सा]हं संघं उपस्थापना-संमुतिं याचामि। साधु मे आर्य-संघो उपस्थापना-संमुतिन् देतु। कर्म-कारिकाये कर्म कर्तव्यं। शृणोतु मे आर्य-संघो। इयम् इत्थन्नामा अष्टादश-वर्षा कुमारी-भूता द्वे वर्षाणि देशित-शिक्षा परिपूरि-शिक्षा [(सा)] संघं उपस्थापना-संमुतिं याचति। यदि संघस्य प्राप्त-कालं संघो इत्थन् -नामाये अष्टादेश-वर्षाये कुमारी भूताये द्वे वर्षाणि देशित-शिक्षाये परिपूर्ण-शिक्षाये उपस्थ्हापना-संमुतिन् दद्यात्। ओवशिकाये एषा ज्ञप्तिः॥

३०.शृणोतु मे आर्य-संघो इयं इत्थन्-नामा अष्टादश-वर्षा कुमारी -भूता द्वे वर्षाणि देशित-शिक्षा परिपूर्ण-शिक्षा। सा संघम् उपस्थापना-संमुतिं याचति। ताय संघो इत्थन्-नामाये अष्टादश-वर्षाये कुमारी-भूताये द्वे वर्षाणि देशित-शिक्षाये परिपूर्ण-शिक्षाये उपस्थापना-संमुतिं देति। यासां आर्यमिश्रिकाणां क्षमति इत्थन्नामाये अष्टादश -वर्षाये कुमारी-भूताये द्वे वर्षाणि देशित-शिक्षाये परिपूर्ण-शिक्षाये उपस्थापना-संमुतिं दीयमानां संघेन। सा तूष्णीम् अस्य। यस्य न क्षमति सा भाषितु। इयं प्रथमा कर्मवाचना। एवं द्वितिया तृतीया कर्म-वाचनेति।

३१. दिन्ना आर्ये(र्य)-मिश्रिकायो इत्थन्-नामाये अष्टादश वर्षाये कुमारि-भूताये द्वे वर्षाणि देशित-शिक्षाये परिपूर्ण-शिक्षाये उपस्थापना-संमुति संघेन। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि।

३२. उपसंपाद्याय उपाध्यायिनी याचितव्या। वन्दाम्य् आर्ये अहम् इत्थन्-नामा आर्याम् उपाध्यायिनीं याचामि। आर्या मे उपसंपादेतु उपाध्यायिनी-मिश्राहि। एवं द्वितियम् पि तृतीयम् पि याचितव्यं। उपाध्यायिनीय पात्र-चीवराणि पर्येषितव्यानि। अनुश्रावणाचार्या पर्येषितव्या द्वे रहानुशासनाचार्या पर्येषितव्या यो गणो समुदानयितव्यो गणस्य उपनामयितव्यो।

३३. कर्म। शृणोतु मे आर्य-संघो इयम् इत्थन्-नामा इत्थन्-नामाय उपसम्पाद्या। यदि संघस्य प्राप्त-कालं इत्थं-नामा च इत्थन्-नामा च इत्थन्-नामां रहो ऽनुशासेय्या। अनुशासिष्यसि (ति) आर्यसंघो इत्थन्-नामा च इत्थन्-नामा च इत्थन्-नामां रहो। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतन् धारयामि।

३४. ताहि दानि सा अनुशासितव्या गणस्य नातिदूरे नात्यसंने (नात्यासन्ने) संक्षिप्तेन वा विस्तरेण वा।

किन्ति दानि संक्षिप्तेन। वक्तव्या। शृणु कुलधिते यं यद् एवात्र संघ-मध्ये पृच्छियसि तत् तद् एव यं अस्ति तम् अस्तीति वक्तव्यं। यन् नास्ति तन् नाफ़्तिति वक्तव्यं। एवं संक्षिप्तेन।

३५. किन्ति दानि विस्तरेण। शृणु कुल-धीते अयं सत्य-कालो अयं भूत-कालो याव [स]देव[कं] लोकं समारकं सब्रह्मकं सश्रमण-ब्राह्मणी(णीं) प्रजां सदेव-मानुषासुरां विसम्वादेय्या या च तस्य भगवतो तथागतस्यार्हतः सम्यक्सम्बुद्धस्य श्राविकासंघं विसम्वादेय्या इमं ततो महा-सावद्यतरं।

यं यद् एव संघ-मध्ये पृच्छियसि तं तद् एव यं अस्ति तं अस्तीति वक्तव्यं।

अनुज्ञातासि अनुज्ञापकेहि। आमं। याचिता ते उपाध्यायिनी। आम। परिपूर्णन् ते पात्र-चिवरं। आम। देशित-शिक्षासि। आम। परिपूर्णशिक्षासि। आम। सम्मतासि विशुद्धासि भिक्षुणीहि। आम। मा मातृ-घातिनि। नहि। मा पितृ-घातिनि। नहि। मा अर्हन्त-घातिनी। नहि। मा संघभेदिका। नहि। मा तथागतस्य दुष्ट-चित्त-रुधिरोत्पादिका। नहि। चिरा परि[नि]वृतो खो पु[न] सो भगवांस् तथागतो र्हन् सम्यक्सम्बुद्धो॥

मा भिक्षु-दूषिका। नहि। मा स्तैन्य-सम्वासिका। नहि। मा तिर्थिकापक्रान्तिका। नहि। मा दासि। नहि। मा अवपितिका। नहि। मा ऋण-हारिका। नहि। मा राजभटि। नहि। मा राज्ञः किल्बिषकारिणि। नहि। उपसम्पन्न-पूर्वासि। अन्यदापि यद्य् आह उपसम्पन्न-पूर्वा ति। वक्तव्या गच्छ नस्य चल प्रपलाहि। नास्ति ते उपसम्पदा।

अथ दान् आह। नहीति। उत्तरि समु(समनु)ग्राहितव्या मा वातिला। मा पित्तिला। मा पिन्दिला। मा हल्ल-वाहिनी। मा पूय-वाहिनी। मा चक्र-वाहिनी। मा आर्द्र-व्रणा। मा शुष्क-व्रणा। मा शोणित-व्रणा। मा शिखिरिणी। मा द्वि-पुरुषिका। मा स्त्रि-पण्डिका। मा पुरुष-द्वेषिणी

३६. सन्ति खो पुनर् इमस्मिन् काये विविधा अनुशयिका आबाधा सय्यथीदं।

दर्द्रु कण्डू कच्छू रकचा। विचर्चिका अर्शो भगन्दला। पाण्डुरोगो आलसको। लोहित-पित्तं ज्वरो। कासो श्वासो सोषो अपस्मारो। वातोदरं दकोदरं। प्लीहोदरं [कुष्ठं किटिभं ] मधुमेहो [विसूचिका]।

सन्ति ते एते वा अन्ये वा विविधा अनुशयिका आबाधाः काये ऽस्मिन् न वा।

३७. यद्य् आह नहीति। वक्तव्या। यं कालं शब्दापियेसि तं कालम् आगच्छेसि ताहि दानीं आगत्वा सामीचिं कृत्वा वक्तव्यं अनुशास्ता ति।

कर्मकारिकाय कर्म कर्तव्यं। शृणोतु मे आर्य-संघो इयम् इत्थम्-नामा इत्थन्-नामाये उपसम्पाद्या इत्थन्-नामाय च इत्थन्-नमाय च रहो ऽनुशास्ता। यदि संघस्य प्राप्त-कालं इयम् इत्थन्-नामा इत्थं-नामाय उपाध्यायिन् ईय संघ-मध्यम् उपसंक्रामेय्या। उपसंक्रमिष्यति आर्यमिश्रिकायो इत्थन्-नामा इत्थं-नामाय उपाध्यायिनीय संघमध्यं। क्षमते तं संघस्य। यस्मात् तूष्णीं एवम् एतं धारयामि।

३८. सा दानि शब्दापितव्या। ताय दानि आगच्छित्वा वृद्धान्तातो प्रभृति सर्वासां पादा शिरसा वन्दितव्याः यावन् नवकान्तं।

कर्म-कारिकाये अग्रतः अष्टोहं + + + + + + + + +तकं कृत्वा पर्यङ्केन निषीदितव्यं दुर्बल-वस्तिको मातृग्रामः मा अफासु भवेया ति।

३९. कर्म-कारिकाय कर्म कर्तव्यं। शृणोतु मे आर्य-संघो इयम् इत्थन्-नामा इत्थन्-नामाये उपसंपाद्या इत्थन्-नामाय च इत्थन्-नामाय च रहो ऽनुशास्ता। यदि संघस्य प्राप्त-कालं इयम् इत्थन्-नामा इत्थम्-नामाय उपाध्यायिनीय संघम् उपसंपदं याचेय्या। याचिष्यति आर्यमिश्रिकायो इत्थन्-नामा इत्थन्-नामाय उपाध्यायिनीय संघम् उपसंपदं। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् मे धारयामि।

४०. ताय दानि याचितव्यं। वन्दाम्य् आर्यसंघं। अहं इत्थन्-नामा अर्थ-[(हेतोर् ना)] म गृ[(ह्णा)]मि इत्थन्नामाये उपाध्यायिनीय उपसम्पाद्या इत्थंनामाय च इत्थंनामाय च आर्या रहो ऽनुशास्ता। साहम् इत्थन्नामा अर्थहेतोर् नाम गृह्णामि इत्थन्नामाय उपाध्यायिनीय संघम् उपसंपदं याचामि। उपसा(संपा)देतु मे आर्यसंघो। उल्लुम्पतु मे आर्य-संघो। अनुकम्पतु मे आर्य-संघो। अनुकम्पको अनुकम्पाम् उपादाय। एवं द्वितीयम् पि तृतीयम् पि याचयितव्यं।

४१. कर्म-कारिकाय कर्म कर्तव्यं। शृणोतु मे आर्यसंघो। इयम् इत्थन्-नामा इत्थं-नामाये उपसंपाद्या। इत्थन्-नामाय च इत्थन्-नामाय च रहो ऽनुशास्ता। अनेया इत्थन्-नामाय इत्थन्-नामाय उपाध्यायिनीय संघो यावत् तृतीयकम् उपसंपदं याचितो। यदि संघस्य प्राप्तकालं [इत्थन्नामां ] इत्थं-नामाय उपाध्यायिनीय संघमध्ये अन्तरायिकान् धर्मान् पृच्छेमः। पृच्छिष्यति आर्यमिश्रिकायो इत्थन्-नामा इत्थन्-नामाय उपाध्यायिनीय संघ-मध्ये अन्तरायिकान् धर्मान्। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतन् धारयामि।

४२. सा दानि वक्तव्या शृणु। कुल-धीते संघ सत्य-कालो अयं भूत-कालो याव [स]देवकं लोकं समारकं सब्रह्मकं सश्रमण-ब्राह्मणीं प्रजां स-देव-मानुषासुरान् विसम्वादेय्या या च तस्य भगवतो तथागतस्यार्हतः सम्यक्सम्बुद्धस्य श्राविका-संघं विसम्वादेय्या इमन् ततो महा-सावद्यतरं।

४३. यं यद् एव संघ-मध्ये पृच्छियेसि तं तद् एव यं अस्ति तं अस्तीति वक्तव्यं। यन् नास्ति तन् नास्तीति वक्तव्यं।

अनुज्ञातासि अनुज्ञापकेहि। आम। याचिता ते उपाध्यायिनी। आम। परिपूर्णन् ते पात्र-चीवरं। आम। देशित-शिक्षासि। आम। परिपूर्ण-शिक्षासि आम। सम्मतासि। विशुद्धासि भिक्षुणीहि। आम। मा मातृ-घातिनि। नहि। मा पितृ-घातिनि। नहि। मा अर्हद्-घातिनि। नहि। मा संघ-भेदिका। नहि। मा तथागतस्य दुष्ट-चित्त-रुधिरोत्पादिका। नहि।

चिर-परिनिवृतो खो पुन सो भगवांस् तथागतो ऽर्हन् सम्यक्सम्बुद्धो।

४४. मा भिक्षु-दूषिका। नहि। मा स्तैन्य-सम्वासिका। नहि। मा तिर्थिका-पक्रान्तिका। नहि। मा स्वयं सन्नद्धिका। नहि। मा दासि। नहि। मा अवपितिका। नहि। मा ऋण-हारिका। नहि। मा राज-भटि। नहि। मा राज्ञः किल्बिषकारिणी। नहि। उपसम्पन्न-पूर्वासि अन्यदापि। यद्य् आह उपसम्पन्न-पूर्वा ति। वक्तव्या। गच्छ नस्य चल प्रपलाहि नास्ति ते उपसंपदा।

४५. अथाह। नहीति। वक्तव्या। मा वातिला। नहि। मा पित्तिला। नहि। मा पिन्दिला। नहि। मा हल्ल-वाहिनी। नहि मा पूयवाहिनी। नहि। मा चक्रवाहिनी। नहि। मा आर्द्रव्रणा। नहि। मा शुष्कव्रणा। नहि। मा शोनित-व्रणा। नहि। मा शिखरिनी। नहि। मा द्वि-पुरुषिका। नहि। मा स्त्री-पण्डिका। नहि। मा पुरुष-द्वेषिणी। नहि।

४६. सन्ति खो पुनर् इमस्मिं काये विविधा आनुशयिका आबाधा संयथीदं। दर्द्रु कण्डू कच्छू रकचा। विचर्चिका अर्शो भगन्दला। पाण्डुरोग अलसको। लोहित-पित्तं। ज्वरो। कासो श्वासो शोषो अपस्मारो। वातोदरं दकोदरं प्लीहोदरं मधु-मेहो। सन्ति ते एते वा अन्ये वा विविधा आनुशयिका वा आबाधाः काये ऽस्मिन् न वा। यद्य् आह नहीति वक्तव्यं। तूष्णीका भवाहीति।

४७. कर्म-कारिकाये कर्म कर्तव्यं। शृणोतु मे भन्ते आर्या संघो इयम् इत्थन्-नामा इत्थन्-नामाये उपसंपाद्या इत्थन्-नामाय च इत्थन्-नामाय च रहो ऽनुशास्ता। ताय इत्थन्-नामाय उपाध्यायिनीय संघो यावत् तृतीयकम् उपसंपदं याचितो। अनुज्ञाता अनुज्ञापकेहि। याचितानया उपाध्यायिनी। परिपूर्णम् अस्याः पात्र-चीवरं। देशित-शिक्षा परिपूर्ण-शिक्षा। सम्मता परिशुद्धा अन्तरायिकेहि धर्मेहि। आत्मानं प्रतिजानाति। यदि संघस्य प्राप्तकालं इत्थं-नामाये उपाध्यायिनीय संघ-मध्ये त्रयो नि[(श्रया देशयामः)]। देशयिष्यंति आर्यसं-घो इत्थन्-नामाये इत्थन्नामाय उपाध्यायिनीय संघमध्ये त्रयो निश्रयान्। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धार-यामि।

४८. सा दानि वक्तव्या। शृणु कुल-धीते इमे तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्धेन अर्थकामेन हितैषिना अनुकम्पकेन अनुकम्पा[(म् उपादाय)] श्राविकाणां त्रयो निश्रया अभिज्ञाय देशिताः प्रज्ञप्ताः सम्यग् आख्याताः। यत्रोत्सहन्तीयो श्राद्धायो कुल-धीतायो उपसंपदीयन्ति। अनुत्सहन्तीयो नोपसंपादीयन्ति।

निश्रय १

४९. पांसु-कूलं चीवराणां अल्पञ् च सुलभञ् चा(च) कल्पिकञ् चानवद्यञ् च श्रमणी-सारूप्यञ् च। तण् च निश्राय प्रव्रज्या उपसंपदा [(भिक्षुणी-भावः)] यत्रोत्सहन्तीयो श्रद्धायो कुल-धीतायो उपसंपादीयन्ति। अनुत्सहन्तीयो नोपसंपादीयन्ति। अत्रच ते कुल-धीते यावज्-जीवम् उत्साहो करणीयो। उत्सहसि त्वं कुल-धीते यावज्-जीवं पांसु-कूलं चीवराणान् धारयितुं। उत्सहन्त्या उत्सा(स) हामीति वक्तव्यं। अतिरेक-लाभः कम्बलं कर्पासं[(क्षौमं)] [(शाणं )] [(भङ्गं)] [(क्षौ) मुतिका चीवराणां॥

निश्रय २

५०.उच्छिष्ट-पिण्डं भोजनानां अल्पञ् च सुलभञ् च कल्पिकं चानवद्यञ् अ श्रमणी-सारूप्यञ् च। तङ् च निश्राय प्रव्रज्या उपसंपदा भिक्षुणी-भाव यत्रोत्सहन्तीयो श्राद्धीयो (श्रद्धायो) कुलधीतायो उपसंपाद(दी)यन्ति। अनुत्सहन्तीयो नोपसंपाद(दी)यन्ति।

अत्र च ते कुल-धीते यावज्-जीवम् उत्साहो करणीयो। उत्सहसि त्वं कुल-धीते [(यावज्-जीवम् उच्छि )]ष्ट-पिण्डं भोजनानां भोक्तुं। उत्सहन्तीयो उत्सहामीति वक्तव्यं। अतिरक-लाभः पक्षिका-निमन्त्रणा चातुर्दशिका पाञ्चदशिका उपोषधिका शलाका-भक्तं।

निश्रय ३
५१. पूति-मूत्रं भैषज्यानाम् अल्पञ् च सुलभञ् च कल्पिकञ् चानवद्यञ् च श्रमणी-सारूप्यञ् च। तञ् च निश्राय प्रव्रज्या उपसंपदा भिक्षुणी-भावः। अत्र उत्सहन्तीयो श्रद्धायो कुलधीतायो उपसंपाद(दी)-यन्ति। अनुत्सहन्तीयो नोपसम्पाद(दी)यन्ति। अत्र च ते कुल-धीते यावज्-जीवम् उत्साहो करणीयो। उत्सहसि त्वं कुल-धीते यावज्-जीवं पूति-मूत्रं भैषज्यानां प्रतिसेवितुं। उत्सहन्त्या उत्साहामीति वक्तव्यं। अतिरेक-लाभः सर्पिस्-तैलं मधु-फाणितं वसा-नवनीतं इमे त्रयो निश्रया आर्य-वंशा। अ[नु]शिक्षितव्यं अनुवर्तितव्यं।

५२. कर्म-कारिकाय कर्म कर्तव्यं। शृणोतु मे आर्या संघो इयम् इत्थन्नामा इत्थंनामाये उपसंपाद्या इत्थन्-नामाय च इत्थन्-नामाय च रहो ऽनुशास्ता। ताय इत्थन्-नामाय उपाध्यायिनीय संघो यावत् तृतीयकम् उपसंपदं याचितो। अनुज्ञाता अनुज्ञापकेहि। याचितानया उपाध्यायिनी। परिपूर्णम् अस्याः पात्र-चीवरन्। देशित-शिक्षा। परिपूर्ण-शिक्षा। सम्मता। परिशुद्धा अन्तरायिकेहि धर्मेहि। आत्मानं प्रतिजानाति। निश्रयेषु चोत्सहति। यदि संघस्य प्राप्त-कालं। संघो इत्थं-नामां इत्थं-नामाय उपाध्यायनीय उपसंपादेय्य। ओवयिका एषा ज्ञप्तिः।

५३. शृणोतु मे आर्या संघो इयम् इत्थन्-नामा इत्थन्-नामाये उपसंपाद्या। इत्थं-नामाय च इत्थं-नामाय च रहो ऽनुशास्ता। संघो ऽनया इत्थं-नामाय इत्थन्-नामाय उपाध्यायिनीय यावत् तृतीयकम् उपसंपदं याचितो। अनुज्ञाता अनुज्ञापकेहि। याचितानया उपाध्यायिनी परिपूर्णम् अस्याः पात्र-चीवरं। देशित-शिक्षा। परिपूर्ण-शिक्षा। सम्मता। परिशुद्धा अन्तरायिकेहि धर्मेहि आत्मानं जाति(प्रति)जानाति। निश्रयेषु चोत्सहति।

५४. तां संघो इत्थन्-नामां इत्थन्-नामाय उपाध्यायिनीय उपसंपादेति। यासाम् आर्यमिश्रिकाणां क्षमति इत्थन्-नामां इत्थन्-नामाय उपाध्यायिनीय उपसंपादीयमानां संघेन। सा तूष्णीम् अस्य। यस्य (यस्या) न क्षमति सा भाषतु। इयं प्रथमा कर्म-वाचना। एवं द्वितीया। तृतीया कर्म-वाचनेति। वक्तव्यं। उपसम्पन्नेयम् आर्यमिश्रिकायो इत्थन्-नामा इत्थन्-नामाये उपाध्यायायिनीय संघेन। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि।

५५. सा दानि वक्तव्या। जानामि त्वम् इत्थन्-नामे उपसंपन्ना सूपसंपन्ना त्रैवाचिकेन कर्मणा। ज्ञप्तिचतुर्थेन अनाघात-पञ्चमेन। समग्रेण संघेन न व्यग्रेण। दश-बद्धेन गणेन। सातिरेक-दश- बद्धेन।

५६. तथा दानि करोति(हि) यथा।

बुद्ध-शोभना च भोति (सि)। धर्म-शोभना च भोसि। संघ-शोभना च भोसि। बुद्ध गुरु च धर्म गुरु च संघ गुरु च। उपाध्यायिनी गुरु च। आचार्यायिणी गुरु च। शिक्षा गुरु च। तथा दानि करोहि। यथा। आरागयित्वा न विरागयसि।
दुर्लभा क्षण-संपदा।

यस्यार्थाय प्रव्रज्या यस्यार्थाय उपसंपदा।
तच्-छीलम् अनुरक्षार्थं (क्षस्व) बालाग्रं चमरी यथा॥ [१]

यन् मनापम् अभिप्रेतम् बुद्धस्यादित्य-बन्धुनो।
श्राविकानाञ् च विज्ञानां निपुणानाम् अर्थदर्शिनां।
शो(सो) ते अर्थो अनुप्राप्तो लब्धा ते उपसंपदा॥ [२]

अशोकं विरजं क्षेमं द्वीपं लेनं परायणं।
तं प्रापुणाहि निर्वाणं एषा ते सर्व-सम्पदा॥ [३]

५७. ताम् एवम् भिक्षुणी-गणेनोपसंपादिय भिक्षु-विहारं गत्वा उपाध्यायिनीय उभयतो संघो समुदानयितव्यो। आसन-प्रज्ञप्ति कर्तव्या नीचतमा एक-देशे भिक्षुणी-सम्घस्य। यदा भिक्षू सामीचिं कृत्वा निषण्णा भवन्ति तदा भिक्षुणीहि सामीचिं कृत्वा निषीदितव्यम्। ततो उपाध्यायिनीय उपसंपाद्या गणस्योपनामयितव्या। कर्म-कारकेण पृच्छितव्या। परिशुद्धासि भिक्षुणीहीति। न पृच्छति विनयातिक्रमम् आसादयति।

५८. कर्म-कारकेण कर्म कर्तव्यं। शृणोतु मे भन्ते संघो। इयम् इत्थन्-नामा भिक्षुणी। ताये इत्थन्-नामा अन्तेवासिनी उपसंपाद्या। विशुद्धा भिक्षुणीहि।

यदि संघस्य प्राप्त-कालं इत्थन्-नामा भिक्षुणी इत्थन्-नामाये अन्तेवासीये(वासिनीये) संघम् उपसंपदं याचेय्या। याचिष्यति भन्ते संघो इत्थन्-नामा इत्थन्-नामाये अन्तेवासिनीये संघम् उपसंपदं। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि।

५९. ताय दानि याचितव्यं। वन्दाम्य् आर्य-संघं अहम् इत्थन्-नामा भिक्षुणी। तस्य(स्या)मे इयम् इत्थन्-नामा अन्तेवासिनी उपसम्पाद्या। साहम् इत्थन्-नामाय अन्तेवासिनीये संघम् उपसंपदं याचामि। उपसंपादेतु तं संघो इत्थन्-नामां मया इत्थन्-नामाय उपाध्यायिनीय अनुकम्पाम् उपादाय। द्वितीयम् पि तृतीयम् पि याचितव्यं।

कर्म। शृणोतु मे भन्ते संघो। इयम् इत्थन्-नामा इत्थन्-नामाये भिक्षुणीये उपसंपाद्या। इत्थन्-नामाय च इत्थन्-नामाय च रहो ऽनुशास्ता। यदि सम्घस्य प्राप्त-कालं इत्थन्-नामा इत्थन्-नामाय उपाध्यायिनीय संघम् उपसंपदं याचेय्या। याचिष्यति भन्ते संघो इत्थन्-नामा इत्थन्-नामाय उपाध्यायिनीय संघम् उपसंपदं। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि।

६०. ताय दानि याचितव्यं। वन्दाम्य् आर्य-संघं। अहं इत्थन्-नामा अर्थ-हेतोर् नाम गृह्णामि इत्थन्-नामाये उपाध्यायिनीये उपसंपाद्या। इत्थन्-नामाय च इत्थन्-नामाय च आचार्याय रहो ऽनुशास्ता। साहम् इत्थन्-नामा अर्ह-हेतोर् नाम गृह्णामि इत्थन्-नामाय उपाध्यायिनीय संघम् उपसंपदं याचामि। उपसंपादेतु मे आर्यो संघो। उल्लुम्पतु आर्यो संघो। अनुकम्पतु मे आर्यो संघो। अनुकम्पको अनुकम्पाम् उपादाय एवम् द्वितीयम् पि तृतीयम् पि।

कर्म। शृणु मे भन्ते संघो। इयम् इत्थन्-नामा इत्थन्-नामाये उपसंपाद्या। इत्थन्-नामाय च इत्थन्-नामाय च रहो ऽनुशास्ता। अनया इत्थन्-नामाय इत्थन्-नामाय उपाध्यायिनीय संघो यावत् तृतीयकम् उपसंपदं याचितो। यदि संघस्य प्राप्त-कालं इत्थन्-नामा इत्थन्-नामाय उपाध्यायिनीय संघ-मध्ये अन्तरायिकान् धर्मान् पृच्छेमः। पृच्छिष्यति भन्ते संघो इत्थन्-नामा इत्थन्-नामाय उपाध्यायिनीय संघ-मध्ये अन्तरायिकान् धर्मान्। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि।

६१. सा दानि वक्तव्या। शृणु कुल-धिते। अयं सत्य-कालो। अयं भूत-कालो याव स-देवकं लोकं स-मारकं स-ब्रह्मणं स-श्रमण-ब्राह्मणीं प्रजां स-देव-मानुषासुरां विसम्वादेय्या य च तस्य भगवतो तथागतस्यार्हतः सम्यक्सम्बुद्धस्य उभयतोसंघं विसम्वादेय्या इमन् ततो महासावद्यतरं। [यं] यद् एव ते संघ-मध्ये पृच्छेयाम तं तद् एव यम् अस्ति तम् अस्तीति वक्तव्यं। यं नास्ति तं नास्तीति वक्तव्यं।

६२. अनुज्ञातासि अनुज्ञापकेहि। आम। याचिता ते उपाध्यायिनी। आम। परिपूर्णन् ते पात्र-चीवरं। आम। देशित-शिक्षासि। आम। परिपूर्ण-शिक्षासि। आम। सम्मतासि। आम। विशुद्धासि भिक्षुणीहि। आम। मा मातृ-घातिनी। नहि। मा अर्हद्-घातिनी। नहि मा संघ-भेदिका। नहि। मा तथागतस्य दुष्ट-चित्त-रुधिरोत्पादिका। नहि। चिर-परिनिवृत्तो खो पुन सो भगवांस् तथागतो ऽर्हन् सम्यक्सम्बुद्धो।

मा भिक्षु-दूषिका नहि मा स्तैन्य-सम्वासिका। नहि। मा तीर्थिका-पक्रान्तिका। नहि। मा दासी। नहि। मा अवपितिका। नहि। मा ऋण-हारिका। नहि। मा राज-भटी। नहि। मा राज्ञः किल्बिष-कारिणी। नहि। उपसम्पन्न-पूर्वासि अन्यदापि। यद्य् आह। आमन् ति। वक्तव्या। गच्छ नस्य चल प्रपलाय नास्ति ते उपसंपदा। अथाह नहीति। वक्तव्यं। सन्ति खो पुनर् इमस्मिं काये विविधा अनुशायिका आबाधाः। संयथीदं दद्रु कण्डू कच्छू रकचा। विचर्चिका कुष्ठं किटिभं। अर्शा भगन्दला। पाण्डुरोगो आलसो। लोहित-पित्तं ज्वरो। कासो श्वासो सोषो अपस्मारो। वातोदरम् दकोदरं। प्लीहोदरं मधुमेहो विसूचिका। सन्ति ते एते वा अन्ये वा विविधा अनुसायिका आबाधा काये ऽस्मिन् न वा। यद्य् आह नहीति। वक्तव्या। तूष्णिका भवाहि।

६३. कर्म। शृणोतु मे भन्ते संघो। इयम् इत्थन्-नामा इत्थन्-नामाये भिक्षुणीये उपसंपाद्या। इत्थन्-नामाय च इत्थन-नामाय च रहो ऽनुशास्ता। अनया इत्थन्-नामाय इत्थन्-नामाय उपाध्यायिन्या संघो यावत् तृतीयकम् उपसंपदं याचितो। अनुज्ञाता अनुज्ञापकेहि। याचितानया उपाध्यायिनी। परिपूर्णं से पात्र-चीवरं। देशित-शिक्षा। परिपूर्ण-शिक्षा। सम्मता विशुद्धा भिक्षुणीहि। परिशुद्धा अनतरायिकैर्धर्मैर् आत्मानं प्रतिजानाति। यदि संघस्य प्राप्त-कालं इत्थन्-नामाये इत्थन्-नामाय उपाध्यायिनीय संघ-मध्ये त्रयो निश्रया देशयामः। देशिष्यंति भन्ते संघो इत्थन्-नामाय उपाध्यायिनीय संघ-मध्ये त्रयो निश्रयान्। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि।

निश्रय १
६४. सा वक्तव्या। शृणु कुल-धीते इमे तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्ढेनार्थकामेन हितैषिना अनुकम्पकेनानुकम्पाम् उपादाय श्राविकाणान् त्रयो निश्रया अभिज्ञाय देशिता प्रज्ञप्ताः सम्यग् आख्याताः। यत्रोत्सहन्तीयो श्राद्धायो कुलधीतायो उपसंपादीयन्ति अनुत्सहन्तीयो नोपसंपादीयन्ति। अत्र च कुल-धिते यावज्-जीवम् उत्साहो करणीयो। पांसुकूलं चीवराणाम् अल्पञ् च सुलभञ् च कल्पिकञ् चानवद्यञ् च श्रमणी-सारूप्यञ् च। तञ् च निश्राय प्रव्रज्योपसंपदा भिक्षुणी-भावः। यत्रोत्सहन्तीयो श्राद्धायो कुल-कुल-धीतायो उपसंपादीयन्ति। अनुत्सहन्तीयो नोपसंपादियन्ति। अत्र च ते कुल-धीते यावज्-जीवम् उत्साहो करणीयो। उत्सहसि त्वं कुल-धीते यावज्-जीवं पांसुकूलं चीवराणान् धारयितुं। उत्सहन्तीय उत्सहामीति वक्तव्यं। अतिरेक-लाभः कम्बलं कर्पासं क्षौमं शाणं भङ्गं क्षोमुतिका चीवराणां।

निश्रय २
उच्छिष्ट-पिण्डं भोजनानां अल्पञ् च सुलभञ् च कल्पिकञ् चानवद्यञ् च श्रमणी-सारूप्यञ् च। तञ् च निश्राय प्रव्रज्योपसंपदा भिक्षुणी-भावः। यत्रोत्सहन्तीयो श्रद्धायो कुल-धीतायो उपसंपादीयन्ति। अनुत्सहन्तीयो नोपसंपादीयन्ति। अत्र च ते कुल-धिते यावज्-जीवम् उत्साहो करणीयो। उत्सहसि त्वं कुल-धिते यावज्-जीवम् उच्छिष्ट-पिण्दं भोजनानां भोक्तुं। उत्सहन्तीय उत्साहामीति वक्तव्यम्। अतिरेक-लाभः। पक्षिका-निमन्त्रणा चातुर्दशिका पाञ्चदशिकायां उपोषधिका शलाका-भक्तं।

निश्रय ३
पूति-मूत्रं भैषज्यानाम् अल्पञ् च सुलभञ् च कल्पिकञ् चानवद्यञ् च श्रमणी-सारूप्यञ् च। तञ् च निश्राय प्रव्रज्योपसंपद् भिक्षुणी-भावः। यत्रोत्सहन्तीयो श्राद्धायो कुल-धीतायो उपसंपादीयन्ति। अनुत्सहन्तीयो नोपसंपादीयन्ति। अत्र च कुल-धीते यावज्-जीवम् उत्साहो करणीयो। उत्सहसि त्वं कुल-धीते यावज्-जीवं पूति-मूत्रं भैषज्यानां प्रतिसेवितुं। उत्सहन्तीय उत्साहामीति वक्तव्यं। अतिरेकलाभः। सर्पिस्-तैलं मधुफाणितं वसा-नवनीतं। इमे त्रयो निश्रया आर्यवंशा। अत्र(अनु)शिक्षितव्यं अत्र (अनु) प्रवर्तितव्यं।

६५. कर्म-कारकेण कर्म कर्तव्यं। शृणोतु मे भन्ते संघो। इयं इत्थन्-नामा इत्थन्-नामाये भिक्षुणीये उपसंपाद्या इत्थन्-नामा [य] च इत्थन्-नामा[य] च रहो ऽनुशास्ता संघो ऽनया इत्थन्-नामाय इत्थन् नामाय उपाध्यायिनीय यावत् तृतीयकम् उपसंपदं याचितो। अनुज्ञाता अनुज्ञापकेहि। याचितानया उपाध्यायिनी। परिपूर्णम् अस्याः पात्र-चीवरं। देशित-शिक्षा। परिपूर्णा-शिक्षा सम्मता विशुद्धा भिक्षुणीहि परिशुद्धा अन्तरायिकेहि धर्मेहि आत्मानं प्रतिजानाति। निश्रयेषु चोत्सहति यदि संघस्य प्राप्त-कालं संघो इत्थन्-नामां इत्थन्-नामाय उपाध्यायिनीय उपसंपादेय्या। ओवयिका एषा ज्ञप्तिः।

६६. शृणोतु मे भन्ते संघो। इयम् इत्थन्-नामा इत्थन्-नामाये भिक्षुणीये उपसंपाद्या। इत्थन्-नामाय च इत्थन्-नामाय च रहो ऽनुशास्ता संघो ऽनया इत्थन्-नामाय उपाध्यायिनीय यावत् तृतीयकम् उपसंपदं याचितो। अनुज्ञाता अनुज्ञापकेहि याचितानया उपाध्यायनीयिनी। परिपूर्णम् अस्याः पात्रचीवरं। देशित-शिक्षा। परिपूर्ण-शिक्षा सम्मता। विशुद्धा भिक्षुणीहि। परिशुद्धा अन्तरायिकैर् धर्मैर् आत्मानं प्रत्फ़िआनाति। निश्रयेषु चोत्सहति। तां संघो इत्थन्-नामां इत्थन्-नामाये उपाध्यायिनीये उपसंपादेति। येषाम् आयुष्मन्तानां क्षमति इत्थन्-नामाम् इत्थन्-नामाये उपाध्यायिनीये उपसंपादीयमानां संघेन। सो तूष्णीम् अस्य। यस्य न क्षमति सो भाषतु। इयं प्रथमा कर्म-वाचना। एवम् द्वितीया। तृतीया कर्म-वाचनेति वक्तव्यं। उपसंपन्नेयं भन्ते संघो इत्थन्-नामां इत्थन्-नामाये उपाध्यायिनीय संघेन। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि।

६७. अत्रान्तरे च्छाया मापयितव्या। नक्षत्राणि वा गणयितव्यानि

सा मा(दा) नि वक्तव्या। एषासि त्वं कुल-धीते उपसंपन्ना सूपसंपन्ना त्रैवाचिकेन कर्मणा। ज्ञप्ति-चतुर्थेन। अनाघात-पञ्चमेन उभयतः संघेन समग्रेण न व्यग्रेण दशबद्धेन गणेन सातिरेक-दशबद्धेन वा।

तथा दानि करोहि यथा। बुद्ध-शोभना च भोसि धर्म-शो-भना च संघ-शोभना च। बुद्ध गुरु च धर्म गुरु च संघ गुरु च। उपाध्यायिनी गुरु च आचार्या गुरु च तथा दानि करोहि यथा।

आरागयित्वा न विरागयसि
दुर्लभा क्षण-सम्पदा।

यसार्थाय प्रव्रज्या यस्यार्थाय उपसंपदा।
तच्-छीलम् अनुरक्षस्व बालाग्रं चमरी यथा। [१]

यन् मनापम् अभिप्रेतं बुद्धस्यादित्य-बन्धुनो।
श्राविकानाञ् च विज्ञानां निपुणानाम् अर्थ-दर्शिनां।
सो ते अर्थो अनुप्राप्तो लब्धो(ब्धा) ते उपसंपदा॥ [२]

अशोकं विरजं क्षेमं द्वीपं लेनं परायणं।
तं प्रापुणाहि निर्वाणं एषा ते सर्व-सम्पदा॥ [३]

६८. पारिवेणिका। अष्टौ पाराजिका धर्माः। एकूनविंशति संघातिशेषा धर्माः। त्रिंशन् निःसर्गिक-पाचत्तिका धर्माः। अष्ट प्रातिदेशिका धर्माः। चतुषष्टि शेखिया धर्माः। सप्त अधिकरण-शमथा धर्माः। द्वौ धर्मौ धर्मो ऽनुधर्मश् च। एष ते कुल-धीते संक्षिप्तेन ओवादो। विस्तरेण ते उपाध्यायिनी-आचार्यायो ओवदिश्यन्ति।

६९. शृणु त्वम् इत्थन्-नामे। इमे तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्धेन एवं प्रव्रजितोपसम्पन्नाये भिक्षुणीये चत्वारः श्रामणी-क(का) रका धर्मा आख्याता।
आक्रुष्टाय न प्रत्याक्रोषितव्यं
रोषिताय न प्रतिरोषितव्यं।
भण्डिताय न प्रतिभण्डितव्यं
ताडिताय न प्रतिताडितव्यं॥ [१]

प्रासादिकाय प्रव्रज्या
परिशुद्धायोपसंपदा।
आख्याता सत्य-नामेन
सम्बुद्धेन प्रजानता॥ [२]

सर्व-पापस्याकरणं
कुशलस्योपसंपदा।
स्व-चित्त-पर्यादमनं
एतद् बुद्धानुशासनं॥ [३]

७०. एकम् इदङ् गौतमि समयं तथागतो वैशालीयं विहरति। महावने कूटागार-शालायान् धर्मदिन्नाये दानि भिक्षुणीये द्वे अन्तेवासिनीयो उपसंपाद्यायो। अप्रशर्केण दानि ले(लि)च्छविकुमारेण श्रुतं। धर्मदिन्नाये भिक्षुणीये द्वे अन्तेवासिनीयो उपसंपाद्यायो। ता पञ्चा-हं पूर्वे एवञ् चैवञ् च खली-कृतो गच्छाम्य् अहन् तायो उपसम्पादा-(द्या)यो ब्रह्मचर्यातो याचयामीति धर्मदिन्नाये श्रुतं।

७१. सो(सा) दानि येन भगवांस् तेनोपसंक्रमित्वा भगवन्तम् एतद् अवोचत्। मम भगवन् द्वे अन्तेवासिनीयो उपसंपाद्यायो। तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायः। लभ्या भगवन् तायो तत्र-स्थितायो इह-स्थितेन संघेन उपसंपादयितुं। भगवान् आह। लभ्या। गच्छ प्रथमं भिक्षुणी-गणेनोपसंपादिय पश्चाद् भिक्षु-विहारं गत्वा दूतोपसंपदा-प्रतिग्राहकान् याच द्वौ वा त्रीणि वा गण न क्षमति। ददातु च ते संघो दूतोपसंपदा-प्रतिग्राहकान्। साधू ति वदित्वा धर्मदिन्ना भिक्षुणी भगवतो ऽन्तिकात् प्रक्रान्ता। यावत्।

७२. कर्मकारकेण कर्म कर्तव्यं। शृणोतु मे भन्ते संघो इयन् धर्मदिन्ना भिक्षुणी। तस्या इत्थन्-नामा च इत्थन्-नामा च अन्तेवासिनीयो उपसंपाद्यायो। तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्-तरायो। यदि संघस्य प्राप्त-कालं धर्मदिन्ना भिक्षुणी इत्थन्-नामाय च [इत्थन्-नामाय च] अन्तेवासिनीनां तत्रस्थिता[ना]म् इहस्थितं संघं दूतोपसंपदा-प्रतिग्राहकान् याचेय। याचिष्यति भन्ते संघो धर्मदिन्ना भिक्षुणी इत्थन्-नामाये च इत्थन्-नामाये च अन्तेवासिनीनाम् उपसंपाद्यानां तत्र-स्थितानां इह-स्थितं संघं दूतोपसंपदा-प्रतिग्राहकान्। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि।

७३. ताय दानि याचितव्यं। वन्दाम्य् आर्यसंघं अहन् धर्मदिन्ना भिक्षुणी। तस्या मे इत्थन्-नामा च इत्थन्-नामा च अन्तेवासिनीयो उपसंपाद्यायो। तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो। साहं धर्मदिन्ना भिक्षुणी इत्थन्-नामाये च इत्थन्-नामाये च अन्तेवासिनीनां उपसंपाद्यानान् तत्र-स्थितानाम् इह-स्थितं संघं दूतोपसंपादा-प्रतिग्राहकान् याचामि। साधु भव मे आर्यो संघो इत्थन्-नामाये च इत्थन्-नामाये च अन्तेवासिनीनां उपसंपाद्यानां तत्र-स्थितानाम् इह-स्थितो संघो दूतोपसंपदा-प्रतिग्राहकान् देतु। एवं द्वितीयम् पि तृतीयम् पि याचितव्यं।

७४. कर्म। शृणोतु मे भन्ते संघो। इयन् धर्मदिन्ना भिक्षुणी। तस्या इत्थन्-नामा च इत्थन्-नामा च अन्तेवासिनीयो उपसंपाद्यायो। तासाम् इहागच्छन्तिनां स्याद् ब्रह्म-चर्यन्तरायः। सेयन् धर्मदिन्ना भिक्षुणी इत्थन्-नामाये च इत्थन्-नामाये च उपसंपाद्यानां तत्र-स्थितानाम् इह-स्थितं संघं दूतोपसंपदा-प्रतिग्राहका याचयति। यदि संघस्य प्राप्त-कालं संघो इत्थन्-नामं च इत्थन्-नामं च दूतोपसंपदा-प्रतिग्राहकान् सम्मन्येया। इवयिका एषा प्रज्ञप्तिः।

७५. शृणोतु मे भन्ते संघो। इयं धर्मदिन्ना भिक्षुणी तस्या इत्थन्-नामा च इत्थन्-नामा च अन्तेवासिनी उपसंपाद्या तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो। सेयं धर्मदिन्ना भिक्षुणी इत्थन्-नामाये च इत्थन्-नामाये च अन्तेवासिनीनां उपसंपाद्यानां तत्र-स्थितानां इह-स्थितं संघं दूतोपसंपदा-प्रतिग्राहकान् याचते। तान् संघो धर्मदिन्नाये भिक्षुणीये इत्थन्-नामं च इत्थन्-नामं च दूतोपसंपदा-प्रतिग्राहकान् सम्मन्यति। येषाम् आयुष्मन्तानां क्षमति धर्मदिन्नाये भिक्षुणीये इत्थन्-नामो च [इत्थन्-नामो च ] दूतोपसंपदा-प्रतिग्राहकान् सम्मन्यियमानान् संघेन। सो तूष्णीम् अस्य। यस्य न क्षमति सो भाषतु। इयं प्रथमा कर्म-वाचना। एवं द्वितीय तृतीया कर्म-वाचना इति कर्तव्यं।

७६. सम्मता। भन्ते संघो। धर्मदिन्नाये भिक्षुनिये इत्थन्-नामाये च इत्थन्-नामाये च अन्तेवासिनीनां तासाम् इहागच्छन्तीनां स्याद् ब्रह्म-चर्यान्तराय इति कृत्वा तत्र-स्थितानाम् इह-स्थितेन संघेन इत्थन्-नामो च इत्थन्-नामो च भिक्षू दूतोपसंपदा-प्रतिग्राहकाः क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि।

७७. तेहि दनि सम्मतेहि समानेहि धर्मदिन्नाये भिक्षुणीये उपाश्रयं गन्तव्यं। ताहि दानि धर्मदिन्नाय अन्तेवासिनीहि ते याचितव्याः। वन्दाम्य् आर्यं इह-[स्थितायो] इत्थन्-नामा च इत्थन्-नामा च आर्याये धर्मदिन्नाये उपाध्यायिनीये उपसंपाद्यायो। विशुद्धा भिक्षुणीहि। इत्थन्-नामाय च इत्थन्नामाय च आर्याय रहो ऽनुशास्तायो तासाम् अस्माकं तत्र-गच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो। ता वयं इत्थन्-नामा च इत्थन्-नामा च आर्याय धर्मदिन्नाय उपाध्यायिनीय तत्र-स्थितं संघम् उपसंपदं याचामः। उपसंपादेतु मे आर्य संघो। उल्लुम्पते(तु) मे आर्यो संघो। अनुकम्पतु मे आर्यो संघो अनुकम्पको अनुकम्पाम् उपादाय। एवं द्वितीयं पि तृतीयंपि याचितव्यं।

७८. ततो भिक्षु-विहारङ् गन्तव्यं। यं कालं उभयतो संघो उपविष्टो भवति ततो धर्मदिन्नाय याचितव्यं। वन्दाम्य् आर्य-संघं। अहन् धर्मदिन्ना भिक्षुणी। तस्या इत्थन्-नामा च इत्थन्-नामा च अन्तेवासिनीयो उपसंपाद्यायो। विशुद्धा भिक्षुणीहि। तासाम् इहागच्छन्तीनां तस्मा(स्याद्) ब्रह्मचर्यान्तरायो। सो (सा)हन् धर्मदिन्ना भिक्षुणी इत्थन्-नामाय च इत्थन्-नामाय च अन्तेवासिनीनाम् उपसंपाद्यानां तत्रस्थितानाम् इह-स्थितं संघं उपसंपदं याचामि। उपसंपादेतु तायो संघो मया इत्थन्-नामाय उपाध्यायिनीय। एवं द्वितीयम् पि तृतीयं पि याचितव्यं।

७९. यं कालं धर्मदिन्नाय याचितं भवति। ततो दूतोपसंपदा-प्रतिग्राहकेहि याचितव्यं। वन्दाम्य् आर्य-संघं। इयन् धर्मदिन्ना भिक्षुणी तस्या इत्थन्-नामा च इत्थन्-नामा च अन्तेवासिन्यो उपसंपाद्यायो। तासाम् इहागच्छन्तीनां स्यात् ब्रह्मचर्यान्तरायो। ताहि इत्थन्-नामाय च इत्थन्-नामाय च धर्मदिन्नाय उपाध्यायिनीय तत्रस्थिताहि इह-स्थितः संघ उपसंपदं याचितः। उपसंपादेतु तायो आर्यो संघो। उल्लुम्पतु तायो आर्यो संघो। अनुकम्पतु तायो आर्यो संघो। अनुकम्पको अनुकम्पाम् उपादाय। एवं द्वितीयम् पि तृतीयम् पि याचितव्यं।

८०. कर्म-कारकेन कर्म कर्तव्यं। शृणोतु मे भन्ते संघो इयं धर्मदिन्ना भिक्षुणी। तस्या इत्थन्-नामा च इत्थन्-नामा च अन्तेवासिनीयो उपसंपाद्यायो इत्थन्-नामा च इत्थन्-नामा च रहो ऽनुशास्तायो। तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो ताहि इत्थन्-नामाय च इत्थन्-नामाय च धर्मदिन्नाय उपाध्यायिनीय तत्र स्थिताहि इहस्थितः संघो उपसंपदं याचितो। अनुज्ञाता अनुज्ञापकेहि। याचिता ताहि उपाध्यायिनी। परिपूर्णं तासां पात्र-चीवरं। देशित-शिक्षायो परिपूर्ण-शिक्षायो सम्मतायो विशुद्धायो भिक्षुणीहि। परिशुद्धायो अन्तरायिकेहि धर्मेहि आत्मानं प्रतिजानन्ति। निश्रयेषु चोत्सहन्ति। यदि संघस्य प्राप्तकालं इत्थन्-नामां च इत्थन्-नामां च धर्मदिन्नाय उपाध्यायिनीय तत्र-स्थितायो इह-स्थितो संघो उपासंपादेय्या। ओवयिका एषा ज्ञप्तिः।

८१. शृणोतु मे भन्ते संघो। इयन् धर्मदिन्ना भिक्षुणी। तस्या इत्थन्-नामा च इत्थन्-नामा च अन्तेवासिनीयो उपसंपाद्यायो। इत्थन्-नामाय च इत्थन्-नामाय च रहो ऽनुशास्तायो। तासाम् इहागच्छन्तीनां स्याद् ब्रह्मचर्यान्तरायो। ताहि इत्थन्-नामाय च इत्थन्-नामाय च धर्मदिन्नाय उपाध्यायिनीय तत्र-स्थिताहि इह-स्थितो संघो उपसंपदं याचितो। अनुज्ञातायो अनुज्ञापकेहि। याचिता ताहि उपाध्यायिनी। परिपूर्णं तासां पात्रचीवरं। देशित-शिक्षायो। परिपुर्ण-शिक्षायो। सम्मतायो विशुद्धायो भिक्षुणीहि। परिशुद्धायो अन्तरायिकेहि धर्मेहि आत्मानं प्रतिजानाति (नन्ति)। तायो संघो इत्थन्-नामां च इत्थन्-नामां च धर्मदिन्नाय उपाध्यायिनीय इहस्थितो संघो उपसंपादेति। येषाम् आयुष्मतां क्षमति इत्थन्-नामा च इत्थन्-नामा च धर्मदिन्नाय उपाध्यायिनीय तत्र-स्थितायो इह-स्थितेन संघेन उपसंपादि(दी)-[य]मानायो। सो तूष्णीम् अस्य। यस्य न क्षमति सो भाषतु। इयं प्रथमा कर्म-वाचना। एवं द्वितीया तृतीया कर्म-वाचना।

८२. कर्म कर्तव्यम्। उपसम्पन्ना भन्ते [संघो] इत्थन्-नामा च इत्थन्-नामा च धर्मदिन्नाय उपाध्यायिनीय तत्र-स्थितायो इह-स्थिते[न] संघेन। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतन् धारयामि।

एवम् उपसंपदाय तेहि दूतोपसंपदा-प्रतिग्राहकेहि भिक्षुण्युपाश्रयङ् गत्वा त(ता)यो उपसंपन्नायो वक्तव्यायो। एता इत्थन्-नामायोपसंपन्नायो सूपसंपन्नायो त्रैवाचिकेन कर्मणा ज्ञप्तिचतुर्थेन। अनाघात-पञ्चमेन। समग्रेण उभयतः संघेन दशबद्धेन गणेन। सातिरेक-दशबद्धेन वा।

तथा दानि करोथ यथा।
बुद्ध-शोभना च भोथ। धर्म-शोभना च संघ-शोभना च।

बुद्ध गुरु च। धर्म गुरु च संघ गुरु च। उपाध्यायिनी गुरु च। आचार्य गुरु च। तथा दानि करोथ यथा।
आरागयित्वा न विरागयथ।
दुर्लभा क्षण-सम्पदा।

यस्यार्थाय प्रव्रज्या यस्यार्थाय उपसंपदा
तच्-छीलम् अनुरक्षध्वं बालाग्रं चमरी यथा॥ [१]

यं मनापम् अभिप्रेतं बुद्धस्यादित्य-बन्धुनो।
श्राविकानां च विज्ञानां निपुणानाम् अर्थ-दर्शिनां।
सो वो ऽर्थो अनुप्राप्तो लब्धा वो उपसंपदा॥ [२]

अशोकं विरजं क्षेमं द्वीपं लेनं परायणं
तं प्रापुणथ निर्वाणं एषा वो सर्व-संपदा॥ [३]
शेषं पूर्ववद् योज्यं।

एवं गौतमि अष्टादश-वर्षाये कुमारी भूताये उभयतः-संघे उपसंपदा प्रत्याशंसितव्या। अयं गौतमि भिक्षुणीनां द्वितीयो गुरु-धर्मो यो भिक्षुणीहि यावज्-जीवं सत्-कर्तव्यो यावद् वेला-म्-इव महा-समुद्रेण।

गुरु-धर्म ३
८३. किन् ति दानि गौतमि आवडो भिक्षुणीनां भिक्षूहि वचन-पथो भूतेन वा अभूतेन वा अनावडो भिक्षूणां भिक्षुणीहि वचन-पथो भूतेन अभूतेन। न क्षमति भिक्षुणीहि भिक्षु(क्षुं) व(ध)र्षिय वक्तुं कोण्ट-भिक्षू ति वा वैद्य-भिक्षू ति वा चूड-भिक्षू ति वा अखल्ला -महल्ल-अप्रतिज्ञ-अकुशलो ति वा वक्तुं। अथैव जल्पति गुरु-धर्मम् अतिक्रमति।

८४. अथ दानि भिक्षुणीये के(कश्)चित् प्रव्रजितो भवति ज्ञातिको वा भ्राता वा। सो च भवति उद्धतो उन्नडो। न क्षमति अध्युपेक्षितुं ना-म्-अपि क्षमति व(ध)र्षिय वक्तुं। अथ खलु प्रज्ञया सम्ज्ञापयितव्यो यदि तावत् तरुणको भोति वक्तव्यो। सालोहित इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि। किन् दानि यदा जीर्णो वृद्धो महल्लको अध(ध्व)-गत-वयन् अनुप्राप्तो भविष्यसि। एतत् तव साधु एतत् प्रतिरूपं यच् च उद्दिशेशि स्वाध्यायेसि भद्रको गुणवान् शिक्षा-कामो भवेसि बुद्धानाम् शासने योगम् आपद्येसि।

८५. अथ दानि सो वृद्धो भोति। वक्तव्यो। इदनीं इमीदृशो पुनस् त्वं तरुण-काले इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि। किन् दानि यदा मण्डल-द्वारम् अनुप्राप्तो भविष्यसि तदा शिक्षिष्यसि या प्य् एषा तव पर्षा सापि तव दृष्टा अनुकृतिम् आपद्यमाना अ-नय-व्यसनम् आपद्यिष्यतीति एतत् तव साधु एतत् प्रतिरूपं यत् त्वम् उद्दिशसि स्वाध्यायेसि भद्रको गुणवान्। शिक्षा-कामो भवेसि बुद्धानां शासने योगम् आपद्येसि सा एषा भिक्षुणी अनु(अव)ज्ञाय वा परिभवेन वा कोण्ट-भिक्षू ति वा वैद्य-भिक्षू ति वा चूड-भिक्षू ति वा अखल्ल-महल्ल-अप्रकृतिज्ञ-अकुशलो ति वा धर्षिय जल्पति गुरु-धर्मम् अतिक्रमति।

८६. अनावडो भिक्षूणां भिक्षुणीहि वचन-पथो भूतेन वा अभूतेन इति न क्षमति भिक्षुणा भिक्षुणीं धर्षिय वक्तुं मुण्डस्त्री छिन्न-कवडेति जल्पति विनयातिक्रमम् आसादयति।

८७. अथ दानि भिक्षो(क्षोर्)माता वा भगिनी वा प्रव्रजितिका भवति सा च उद्धता वा उन्नडा वा भवति। न क्षमति अध्युपेक्षितुं यदि तावत् तरुणिका भोति। वक्तव्या। सालोहिते इदानीं त्वं न शिक्षिष्यसि कदा शिक्षिष्यसि। किं दानि यं कालं जीर्ण-वृद्धा महल्लिका भविष्यसि एतत् तव साधु एतत् प्रतिरूपं यत् त्वं उद्दिशेसि स्वाध्यायेसि भद्रिका गुणवती शिक्षा-कामा भवेसि बुद्धनां शासने योगम् आपद्येसि।

८८. अथ दानि सा वृद्धा भोति। वक्तव्या। सालोहिते इदानीं त्वम् ईदृशी कीदृशी पुनस् तरुणीकाले इदानीं त्वन् न शिक्षसि कदा शिक्षिष्यसि किन् दानि यं कालं मण्डल-द्वारम् अनुप्राप्ता भविस्यसि तदा शिक्षिष्यसि या प्य् एषा तव पर्षा सापि तव दृष्टा अनुकृतिम् आपद्यमाना अ-नयेन व्यसनम् आपद्यिष्यतीति। एतत् तव साधु एतत् प्रतिरूपं यत् त्वं उद्दिशेसि स्वाध्यायसि भद्रिका गुणवती शिक्षा-कामा भवेसि बुद्धानां शासने योगम् आपद्येसीति।

एष गौतमि आवटो भिक्षुणीनां भिक्षूहि वचन-पथो भूतेन वा। अभूतेन वा।

अनावटो भिक्षूणां भिक्षुणीहि वचन-पथो भूतेन नो अभूतेन।

अयं गौतमि भिक्षुणीनाम् तृतियो गुरु-धर्मो यो भिक्षुणीहि यावज्-जीवं श(स)त्कर्तव्यो यावद् अनतिक्रमणीयो वेला-म्-इव महासमुद्रेण।

गुरु-धर्म ४
८९. किन् ति दानि गौतमि भक्ताग्रं शयनासनाग्रं विहाराग्रञ् च भिक्षुणीहि भिक्षुसंघातोशा(सा) दयितव्यं।

एषो दानि कोचि भिक्षुणी-संघस्य भक्तं करोति वक्तव्यो। ज्येष्ठ-पर्यायता करोहीति। अथ दानि सो आह नास्ति मम तंहि श्रद्धा नास्ति प्रसादो ति वक्तव्यः। वयं पि न प्रतिच्छामो ति। अथ दान् आह। दत्त-पूर्वं तेषां मम मात्रा वा पित्रा वा गोष्ठी-सम्बन्धेन वा श्रेणी-संबन्धेन वा समय-सम्भन्धेन वा आर्यमिश्रिकाणां न कदाचिन् मया भक्तं कृत-पूर्वं। प्रतिगृह्णन्तु आर्यमिश्रिका ति अन्तमसतो एक-पिण्डपातं पि दापयित्वा भिक्षु-संघस्य भिक्षुणी-संघो शत-रसं पि भोजनं प्रतिच्छति अनापत्तिः।

९०. किन् ति दानि शयनासनाग्रं। एषो दानि कोचिद् भिक्षुणी-संघस्य शयनासनं ददाति। वक्तव्यं। ज्येष्ठ-पर्यायतावद् देहीति। अथ दानि सो आह नास्ति मम तहिं श्रद्धा नास्ति प्रसादो। वक्तव्यं।

वयं पि न प्रतिच्छामो ति। अथ दान् आह। दत्त-पूर्वं मम आर्ये भिक्षु-संघस्य शयनासनं मात्रा वा यावत् समय-सम्बन्धेन वा। प्रतीच्छन्त्वार्यमिश्रिका ति अन्तमसतो खयु[?]का मंचं पि भिक्षु-संघस्य दापयित्वा महार्हं शयनासनं भिक्षुणी-संघः प्रतीच्छत्य् अनापत्तिः।

९१. किन् ति दानि विहाराग्रं। एषो दानि कोचित् भिक्षुणी-संघस्य विहारं प्रतिष्ठापयति। वक्तव्यं। ज्येष्ठ-पर्यायतावत् प्रतिष्ठापयेहीति।

अथ दान् आह। आर्ये नास्ति मम तहिं श्रद्धा। नास्ति प्रसादो ति। वक्तव्यं वयं पि न प्रतीच्छामो ति। अथ दान् आह। आर्ये कारापितन् तेषां विहाराः मात्रा वा यावत् समय-सम्बन्धेन वा प्रतीच्छन्त्व् आर्यमिश्रिका विह(हा)रन् ति अन्तमसतो गोमय-गृहं पि पिष्ठगृहं पि भिक्षु-संघस्य दापयित्वा भिक्षुणीसंघो सप्त-भूमकं पि विहारं प्रतीच्छत्य् अनापत्तिः।

९२. ता एता भिक्षुणीयो अवज्ञाय परिभवेन वा कोण्ट-भिक्षू ति वा। वैद्य-भिक्षू ति वा। अखल्ल-महल्लाप्रकृतिज्ञो ती वा कृत्वा भक्ताग्रं शयनासनाग्रं विहाराग्रं भिक्षु-संघातो न शातियति गुरु-धर्मम् अतिक्रामति। एवं गौतमी भक्ताग्रं शयनासनग्रं विहाराग्रं भिक्षुणीहि भिक्षु-संघातो सातयितव्यो।

अयं गौतमि भिक्षुणीनां चतुर्थो गुरु-धर्मो यो भिक्षुणी-हि यावज्-जीवं सत्कर्तव्यो यावद् अन्-अतिक्रमणीयो वेला-म्-इव महा-समुद्रेण।

गुरु-धर्म ५
९३. किन् ति दानि गुरु-धर्मापनायम्(न्नाय) भिक्षुणीय अर्ध-मासं मानत्वञ् चरितव्यं उभयतः संघे आह्वयनं।

सा दानि एषा भिक्षुणी गुरु-धर्मान् अपन्ना भवति ताय अर्ध-मासं भिक्षुणी-संघे मानत्वं चरितव्यं उभयतः संघे च आह्वयनं। सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा यावद् अकुशलो ति वा कृत्वा गुरुधर्मापन्ना समाना नार्धमासं भिक्षुणीसंघे मानत्वं चरति उभयतः संघे च आह्वयनं। गुरु-धर्मम् अतिक्रमति। अयं गौतमि भिक्षुणीनां पञ्चमो गुरु-धर्मो यो भिक्षुणीहि यावज्-जीवं सत्कर्तव्यो यावद् वेला-म्-इव महा-समुद्रेण।

गुरु-धर्म ६
९४. किन् ति दानि अन्वार्ध-मासं भिक्षुणीहि भिक्षु-संघातो ओवादोपसंक्रमणं प्रत्याशंसितव्यं यद्-अहो दानि पोषधो भवति तद्-अहो भिक्षुणी-संघेन भिक्षु-विहारं गन्तव्यं। अथ दानि सर्व-संघो न गच्छति अर्ध-संघेन गन्तव्यं। अर्ध-संघो न गच्छति अष्टाहि वृद्धतरिकाहि गन्तव्यं। अष्ट वृद्धतरिका न गच्छन्ति अन्तमसतो मास-चारिकिणीहि पक्ष-चारिकिणीहि वा च्छन्दार्हणां छन्दं गृह्णीय गन्तव्यं। यदि तावद् अनुकाल्यं भवति स्तूपो तावद् वन्दितव्यो। स्तूपं वन्दित्वा यो तहिं भिक्षुर् अभिलक्षितो भवति परिज्ञातो वा तस्य छन्दो दातव्यो। वक्तव्यं वन्दाम्य् [आर्य-संघं]। आर्यसमग्रो भिक्षुणी-संघो समग्रस्य भिक्षु-संघस्य पादान् शिरसा वन्दति। ओवादोपसंक्रमणञ् च धर्मं याचति। पोषधञ् च प्रतीच्छति। द्वितीयम् पि तृतीयम् पि वक्तव्यं।

९५. अथ दान् आह। अहं संघ-स्थविरो अहं तत्र-देशको अहं भिक्षुणी-ओवादको ति ताभिर् अपि एते त्रयो वर्जं कृत्वा शिष्टकानां छन्दो दातव्यो छन्दं दत्वा भिक्षुणी-उपाश्रयं गन्तव्यं। यं कालं भिक्षुणी-संघो उपविष्टो भवति पोषस्ध-कर्माय सूत्रोद्दे[शि] काय सूत्रं प्रगृहीतं भवति। शृणोतु मे आर्य-संघो अद्य संघस्य चातुर्दशिको वा पाञ्चदशिको वा सन्धि-पोषधो वा विशुद्धिनक्षत्रं एत्तकं ऋतुस्य निर्गतं एत्तकम् अवशिष्टं।

किं संघस्य पूर्व-कृत्यं। अल्पार्थो ऽल्प-कृत्यो भगवतः श्राविका-संघो शोभति अनागतानाम् आर्यमिश्रिकाणां छन्द-परिशुद्धिं आरोचेथ। नीतो छन्द-हारिकाहि छन्दो ति ताहि वृद्धान्तम् आरुहित्वा सामीचिं कृत्वा वक्तव्यं। नीतो ऽस्माभिः छन्द-हारिकाभिश् छन्दो इत्थन् नामेनार्येण प्रतीच्छितो।

९६. यं कालं भिक्षु-संघो उपविष्टो भवति सूत्रोद्देशकेन सूत्रं प्रतिगृहीतं भवति। शृणोतु मे भन्ते संघो अद्य संघस्य चातुर्दशिको वा पाञ्चदशिको वा सन्धि-पोषधो वा विशुद्धि-नक्षत्रं। एत्तकं ऋतुस्य निर्गतं एत्तकं अवशिष्टं। किं संघस्य पूर्व-कृत्वा अल्पार्थो अल्प-कृत्यो भगवतः श्रावक-संघो शोभति। अनागतानाम् आयुष्मन्तो भिक्षूणां छन्द-पारिशुद्धिम् आरोचेथ। आरोचितञ् च प्रतिवेदेथ। को भिक्षु भिक्षुणीनां छन्द-हारको तेनोत्थाय वृद्धान्तं आरुह्य वक्तव्यं। वन्दाम्य् आर्य-संघं समग्रो हि भिक्षुणी-संघो समग्रस्य पादां शिरसा वन्दति। अववादञ् च याचति। पोषधञ् च प्रतिच्छति। एवं द्वितीयम् पि तृतीयम् पि वक्तव्यं। यदि तहिं भिक्षुणी-त्-ओवादको सम्मतको भवति वक्तव्यो। ओवादाहीति।

९७. अथ दानि न कोचिद् भिक्षुणी-य्-ओवादको भवति तत्र यो द्वादशेहि अङ्गेहि समन्वागतो भवति सो सम्मन्यितव्यो। कतमेहि द्वादशेहि। तद्यथा। प्रातिमोक्षसम्वर-सम्वृतो विहरति आचार-गोचर-सम्पन्नः। अनुमात्रेष्व् अवद्येषु भय-दर्शी समादाय शिक्षित-शिक्षा-पदेषु काय-कर्म-वाक्-कर्मणा सम्मन्वागतः। परिशुद्धेन परिशुद्दाजीवः। बहु-श्रुतश् च अभिधर्मे बहु-स्रुतश् च भवत्य् अभिविनये पर्तिबलो च भवत्य् अधिशील-शिक्षायाम् विनयितुं। ण्क।

प्रतिबलो भवत्य् अधिचित्तं शिक्षायां विनयितुं। तृ। प्रतिबलो भवत्य् अधिप्रज्ञां शिक्षायां विनयितुं। फु। अन्-अनुध्वस्त-ब्रह्मचर्यश् च भवति। ग्रा। यो भूय-क्षान्ति-जातिको भवति। ह्रा। न च भिक्षुणीनां गुरु-धर्मं आपद्यिता भवति। तो कल्याण-वचनश् च भवति कल्याण-वाक्-करणोपेतश् च भवति। पौर्यवाचा समन्वागतो विस्पष्टाय अनेलाय अर्थस्य विज्ञापनीय। विंशति-वर्षो च भवति सातिरेक-विंशति-वर्षो वा।

इमेहि द्वादशेहि अङ्गेहि समन्वागतो भिक्षुणी-ओवादक सम्मुतीय संमन्यितव्यो।

९८. कर्म-कारकेण कर्म कर्तव्यं। शृणोतु मे भन्ते संघो अयम् इत्थन्-नामो ति भिक्षुर् अङ्गोपेतो। यदि संघस्य प्राप्त-कालं संघो इत्थन्-नामं भिक्षुं भिक्षुणी-त्-ओवादकं संमुतीय संमन्येय ओवयिका एषा ज्ञप्तिः। शृणोतु मे भन्ते संघो अयम् इत्थन्-नामो भिक्षुर् तं संघो इत्थन्-नामं भिक्षुं भिक्षुणी-ओवादकं संमुतीय सम्मन्यति। येषाम् आयुष्मन्तानां क्षमति इत्थन्-नामं भिक्षुं भिक्षुणी-ओवाद[कं] संमुतीय सम्मन्यियमानं संघेन। सो तूष्णीम् अस्य। यस्य न क्षमति सो भाषतु। इयं प्रथमा कर्म-वाचना एवं द्वितीय तृतीया कर्म-वाचनेति। सम्मतो भन्ते संघो इत्थन्-नामो भिक्षुः भिक्षुणी-ओवादक संमुतीय संघेन। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि।

९९. तेन दानि सम्मतेन समानेन तायो भिक्षुणीयो ओवादितव्यायो नाकाले नादेशे। नानागते काले। नातिक्रान्ते काले। न छन्दशो। न व्यग्रशो। न पार्षदो। न दीर्घोवादेन। आगन्तु-कामस्य प्रेषितव्या।

किन् ति दानि नाकालो। अकालो नाम अस्तम्-इतो सूर्यो। अन्त-हतो (अन्तर्हितो) च अरुणो।

किन् ति दानि नादेशे। अदेशो नाम वेशिका-सामन्ते वा दू(द्यू)त-कर-शालासामन्ते वा। पानागार-शाला-सामन्ते वा। वध-बन्धनागार-शाला-सा-मन्ते वा अतिभूण्डे वा अतिप्राकटे वा प्रदेशे।

किन् ति दानि नानागते काले अनागतो नाम कालो प्रतिपदे द्वितीयायाम् वा।

किन् ति दानि नातिक्रान्ते काले। अतिक्रान्तो नाम कालो चतुर्दशीयाम् वा पञ्चदशीयाम् वा। अथ खु तृतीया-प्रभृति तावद् ओवदितव्या यावत् त्रयोदशीति।

किन् ति दानि न छन्दशो। ओवाद[क]स्य भिक्षुणीय छन्दो दातव्यो। अथ खु सर्वाहि आगन्तव्यं।

किन् ति दानि न व्यग्रशो। न भिक्षुणा व्यग्रो भिक्षुणी-संघो ओवदितव्यो। अथ खु सर्वाः समग्रा त्-ओवदितव्याः।

किन् ति दानि न पार्षदो। न तावत् तव पर्षा ओवदितव्या तवाद्य पर्षाये ओवादक-वारो तवाद्य पर्षाये ओवादक-वारो ति। अथ खु सर्वाः समग्रा त्-ओवे(व)दितव्याः।

किन् ति दानि न दीर्घोवादेन ओवदिताः। अथ खु संक्षिप्तेन ओवदितव्याः।

सर्व-पापस्याकरणं कुशलस्योपसम्पदा।
स्वचित्त-पर्योदवनम् एतद् बुद्धानुशासनन् ति॥

एष भगिनीयो ओवादो शिष्टकं परिकथा भविष्यति। यागन्तु -कामा सागच्छतु। या श्रोतु-कामा सा शृणोतु।

१००. किन् ति दानीं आगन्तु-कामस्य प्रेषयितव्यं। यदि शो(सो)भिक्षुणी-ओवादको देशान्तरङ् गतो भवति ततो ये तस्य सार्धे-विहारिकावा अन्ते-वासिका भवन्ति ते भिक्षुनी-संघेन उत्साहयितव्याः। गच्छथ आर्यस्य पात्र-चीवरं आनेथ। तेषान् दानि गच्छन्तानाम् आग(च्छ)न्तानाञ् च पथ्य् अदनेनावैकल्यं कर्तव्यं। आगच्छन्तस्य भिक्षुणी-संघेन छत्र-ध्वज-पताकेहि योजनं पन्थस्य प्रत्युद्गन्तव्यं। यंहि विहारे अवतराय तंहि उभय-संघस्य सप्ताहं भक्तं कर्तव्यं। अथ दानि दरिद्रो भिक्षुणी-संघो भवति भिक्षुसंघस्यैव सप्ताहं भक्तं कर्तव्यं। अन्तमसतो एक-पिण्डपातेनापि प्रतिमानयितव्यो तेन दानि भिक्षुणी-ओवादकेन भिक्षुणीहि धीता-संज्ञा उपस्थापयितव्या। ताहि भिक्षुणीहि तस्मिन् भिक्षुणी-ओवादकेहि पितृ-संज्ञा उपस्थापयितव्या।

१०१. न क्षमति तेन भिक्षुणी-ओवादकेन घोटेन यथा प्रसार्य ग्रीवां तायो भिक्षुणीयो ओवादितुं। अथ खलु युग-मात्रं निरीक्षन्ते न तायो ओवादितव्यायो। यदि कदाचित् तहिं भवेत् केशावर्तेन वा कृतेन। अक्षीहि वा अञ्चितेन आकोटित-मष्टेहि वा चीवरेहि। श्वेतेन वा काय -बन्धनेन। चित्र-कुटाहि वा उपानहाहि। न क्षमति अध्युपेक्षितुं। यदि ताव तरुणिका भवति धर्षयितव्या। हे अव्यक्ते अकुशले इदानीं त्वं ने(न) शिक्षसि कदा शिक्षिष्यसि यं कालं जीर्ण-वृद्धा महल्लिका अध्वगत-वयम् अनुप्राप्ता भविष्यसि या पि तवैषा पर्षा सा पि तव दृष्ट्वा अनुकृतिम् आपद्यमाना अ-नयेन व्यसनम् आपद्यिष्यति। एतं तव साधु एतत् प्रतिरूपं य(यं) त्वं भद्रिका गुणवती शिक्षा-कामा भवेसि बुद्धानां शासने योगम् आपद्येसि। अथ दानि सा वृद्धा भवति वक्तव्यं। सालोहिते इदानीं ईदृशी कीदृशी त्वम् आसि तरुणे काले इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि। [यं] कालं मण्डल-द्वारम् अनुप्राप्ता भविष्यसि यापि तव एष पर्षा सापि तव दृष्ट्वा नुकृतिम् आपद्यमाना अनया व्यसनम् आपत्स्यति एतत् तव साधु एतं प्रतिरूपं य(यं) त्वं भद्रिका गुणवती शिक्षा-कामा भवेसि बुद्धा-नां शासने योगम् आपद्येसि।

१०२. अथ दानि सो भिक्षुणी-य्-ओवादको गोचर-प्रसृतो रथ्यायं भिक्षुणीन् पश्यति केशावर्तेन वा कृतेन। अक्षीहि वा अञ्चितेहि। आकोटितमष्टेहि वा चीवरेहि। श्वेतेन वा काय-बन्धनेन। चित्र-कूटाहि वा उपानहाहि न दानि क्षमति नहि कीञ्चिज् जल्पितुं। मा जनो ओज्झापेय पश्यथ भणे श्रमणको भार्याम् इव श्रवणिकाम् ओवदसि(ति)। अथ खु पृच्छितव्या। कतमहिं एषा विहारके प्रतिवसति। का से उपाध्यायी। का से आचार्या पश्चाद् उक्तं तहिं गत्वा ओवदितय्वा। सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा कोण्ट-भिक्षू ति वा कृत्वा। वैद्य-भिक्षू ति वा कृत्वा चूड-भिक्षू ति वा कृत्वा। अखल्ल-महल्ल-अकुशल-अप्रकृतिज्ञो ति वा कृत्वा अन्वार्ध-मासं भिक्षु-संघातो ओवादोपसंक्रमणं न प्रत्याशंसति गुरु-धर्मम् अतिक्रमति। एवं गौतमि अन्वर्ध-मासं भिक्षुणीहि भिक्षु-संघातो ओवादोपसंक्रमणं प्रत्याशंसितव्यं। न प्रत्याशंसति गुरु-धर्मम् अतिक्रामति।

अयं गौतमि भिक्षुणीनां षष्टो गुरु-धर्मो यो भिक्षुणीहि यावज्-जीवं सत्कर्तव्यो यावद् अन्-अतिक्रमणीयो वेला-म्-इव महा-समुद्रेण।

गुरु-धर्म ७
१०३. किन् ति दानि न क्षमति भिक्षुणीहि अभिक्षुके अवासे वर्षाम् उपगन्तुं।

न क्षमति भिक्षुणीहि अभिक्षुकेहि ग्राम-नगरेहि वर्षाम् उपगन्तुं।

अथ दानि भिक्षुणी ज्ञातिकेहि ग्राम-वासके[हि] निमन्त्रीयति। इहार्या वर्षावसान ति न च तहिं केचि भिक्षू भवन्ति भिक्षुणी च ज्ञातिका-म्-अनुकंपितु-कामा भवति(न्ति) वक्तव्यं। ज्येष्ठ-पर्षां ताव निमन्त्रेथ। अथ दान् आहंसुः। नास्ति अस्माकं तहिं श्रद्धा। नास्ति प्रसादो। वक्तव्यम्। अहं पि न इच्छामि। अथ दानि भिक्षुणी सविभवा भवति। ज्ञातिकाञ् च अनुकम्पितु-का[मा] भवति। आत्मना भिक्षू निमन्त्रयितव्या। तेषाम् आगतानां समानानां आहारेण अवैकल्यं कर्तव्यं। तेहि तहिं वर्षाम् उपगन्तव्यं। ताय भिक्षुणीय तहिं वर्षाम् ताय भिक्षुणीय तेषाम् भिक्षूणां मूले अन्वर्ध-मासं ओवादोपसंक्रमणं प्रत्याशंसितव्यं।

१०४. अथ तेषाम् भिक्षूणां वर्षाम् उपगतानां अन्तर-वर्षा-रास्तु(अस्तु)। कोचि आदीनवो उत्पद्यति उत्थाय पलायन्ति। न दानि क्षमति भिक्षुणीय कहिञ्चि गन्तुं यावत् प्रवारणा-कालं। यदि तावत् क्षेमम् भवति ततो ते शब्दापयितव्याः। न दानि आगन्तिकायो। अथ खलु उक्तेन निमन्त्रयितव्याः।

आगतानां समानानां भक्तेन प्रतिमानीय आच्छादीय यथा सम्विभागन् दातव्यं। प्रवारिते किञ्चापि यंहि छन्दो तहिं गच्छति अनापत्तिः।

१०५. सा एषा भिक्षुणी अवज्ञाय वा परिभवेन वा कोण्ट भिक्षू ति वा कृत्वा। वैद्य-भिक्षू ति वा कृत्वा कृत्वा चूड-भिक्षू ति वा कृत्वा खल्ल-महल्ल-अकुशल-अप्रकृतिज्ञो ति वा कृत्वा अभिक्षुके आवासे वर्षाम् उपगच्छति गुरु-धर्मम् अतिक्रमति। एवं गौतमि न क्षमति भिक्षुनीय अभिक्षुके आवासे वर्षाम् उपगन्तुं। अयं गौतमि भिक्षुणीनां सप्तमो गुरु-धर्मो यो भिक्षुणीहि यावज् -जीवं सत्कर्तव्यो यावद् अनतिक्रमणीयो वेला-म्-इव महा-समुद्रेण।

गुरु-धर्म ८
१०६. किन् ति दानि वर्षोषिताहि भिक्षुणीहि उभयतो संघे प्रवारणा प्रत्याशंसितव्या। यद्-अहो दानि संघस्य प्रवारणा भवति तद्-अहो भिक्षुणीहि प्रवारयितव्यं। अपरेज्जुकातो प्रतिपदे कल्यतो ये च निर्धाविय भिक्षु-विहारं गन्तव्यं। यदि ताव समग्रो भिक्षुसंघो भवति न क्षमति सर्वाहि भिक्षुणीहि अपूर्वाचरिमं प्रावरयितुं। अथ खु एका प्रवारायिका संमन्यितव्या। भिक्षुणी प्रतिबला प्रवारायिका।

१०७. ततो कर्म-कारिकाय कर्म कर्तव्यं। शृणोतु मे आर्यसंघो। इयम् इत्थन्-नामा भिक्षुणी प्रतिबला प्रवारायिका। यदि संघस्य प्राप्त-कालं संघो इत्थन्-नामां भिक्षुणीम् संघस्य प्रवारायिकां संमन्येय। ओवयिका एषा ज्ञप्तिः।

तु(शृ)णोतु मे आर्य-संघो। इयम् इत्थन्-नामा भिक्षुणी प्रतिबला प्रवारायिका। तां संघो इत्थन्-नामां भिक्षुणीं संघस्य प्रवारायिकां संमन्यति। यासाम् आर्यमिश्रिकाणां क्षमति इत्थन्-नामां भिक्षुणीं संघस्य प्रवारायिकां संमन्यियमानां संघेन। सा तूष्णीम् अस्य। यस्या न क्षमति शा(सा) भाषतु। इयं प्रथमा कर्म-वाचना। एवं द्वितीया तृतीया कर्म-वाचनेति। वक्तव्यं। सम्मता आर्य[मि]-श्रिकायो इत्थन्-नामा संघस्य प्रवारायिका संघेन क्षमते तं संघस्य यस्मात् तूष्णीम् एवं धारयामि।

१०८. ततो सर्वाहि वृद्धान्ते स्थातव्यं। ततो ताय प्रवारायिकाय वक्तव्यं। समग्रो भिक्षुणी-संघो समग्रं भिक्षु-संघं प्रवारेति दृष्टेन श्रुतेन परिशङ्कया। ओवदन्तु मो आर्यो संघो अर्थ-कामो हितैषी अनुकम्पको अनुकम्पाम् उपादाय जानन्त्यो पश्यन्त्यो स्मरन्त्यो यथा धर्म-विनयं प्रतिकरिष्यामः। एवं द्वितीयम् पि तृतीयम् पि।

अथ दानि समग्रो भिक्षुणी-संघो भवति संबहुला भिक्षू भवति(न्ति)। वक्तव्यं। समग्रो भिक्षुणी-संघो संबहुलान् भिक्षून् प्रवारेति दृष्टेन श्रुतेन यावत् प्रतिकरिष्यामः। द्वितीयम् पि तृतीयम् पि।

१०९. अथ दानि समग्रो भिक्षुणी-संघो भवति एक भिक्षु च भवति। वक्तव्यं। समग्रो भिक्षुणी-संघो आर्यं प्रवारेतीति दृष्टेन श्रुतेन परिशङ्कया यावत् प्रतिकरिष्यामः एवं द्वितीयम् पि तृतीयम् पि।

अथ दानि संबहुलायो भिक्षुणीयो भवन्ति। समग्रो च भिक्षुसंघो भवति। वक्त्यव्यं संबहुलाः आर्यमिश्रिकाः समग्रं भिक्षुसंघं प्रवारेन्ति दृष्टेन श्रुतेन परिशङ्कया यावत् प्रतिकरिष्यामः। एवं द्वितीयम् पि तृतीयम् पि।

अथ दानि संबहुला च भिक्षुणीयो भवन्ति संबहुला च भिक्षु भवन्ति। वक्तव्यं। संबहुला आर्यमिश्रिकाः संबहुलान् आर्यमिश्रान् प्रवारेन्ति दृष्टेन श्रुतेन परिशङ्कया यावद्। यथा धर्मं यथा विनयं तथा प्रतिकरिष्यामः। एवं द्वितीयम् पि तृतीयम् पि।

अथ दानि संबहुला भिक्षुणीयो भवन्ति। एक भिक्षु च भवति। वक्तव्यं। संबहुला आर्यमिश्रिकाः आर्यं प्रवारेन्ति दृष्टेन श्रुतेन परिशङ्कया यावद् यथा धर्मं यथा विनयं तथा प्रतिकरिष्यामाः। एवं द्वितीयम् पि तृतीयम् पि।

अथ दानि एक(का) भिक्षुणी भवति। समग्रो च संघो भवति। वक्तव्यं। अहम् इत्थन्-नामा संघं प्रवारेमि दृष्टेन श्रुतेन परिशङ्कया। ओवदतु मो आर्यो संघो यावत् प्रतिकरिष्यामि एवं द्वितीयम् पि तृतीयम् पि।

अथ दानि एक(का) भिक्षुणी भवति। संबहुला च भिक्षू भवन्ति। वक्तव्यं। अहम् इथन्-नामा संबहुलान् आर्यमिश्रान् प्रवारेमि दृष्टेन श्रुतेन परिशङ्कया। ओवदन्तु मे आर्यमिश्रा यावद् यथा-धर्मं प्रतिकरिष्यामि। एवं द्वितीयम् पि तृतीयम् पि।

अथ दानि एक(का) भिक्षुणी भवति। एक भिक्षु भवति। वक्तव्यं। अहम् इत्थन्-नामा आर्यं प्रवारेमि दृष्टेन श्रुतेन परिशङ्कया। ओवदतु मे आर्यो अर्थ कामो हितैषी अनुकम्पको अनुकम्पाम् उपादाय जानन्ती पश्यन्ति स्मरन्ती यथा धर्मं यथा विनयं तथा प्रतिकरिष्यामि। एवं द्वितीयम् पि तृतीयम् पि।

११०. सा एषा भिक्षुणी अनु(अव)ज्ञाय वा परिभवेन वा कोण्टभिक्षू ति वा कृत्वा। वैद्य-भिक्षू ति वा कृत्वा। चूड-भिक्षू ति वा कृत्वा अखल्ल-महल्ल-अकुशल-अप्रकृतिज्ञो ति वा कृत्वा। वर्षोषिता उभयतो संघ-प्रवारणान् न प्रत्याशंसयति गुरु-धर्मम् अतिक्रामति। एवं गौतमि वर्षोषिताहि भिक्षुणीहि उभयतो संघे प्रवारणा प्रत्याशंसितव्या। अयं गौतमि भिक्षुणीनाम् अष्टमो गुरु-धर्मो यो भिक्षुणीहि यावज्-जीवं सत्कर्तव्यो गुरु-कर्तव्यो मानयितव्यो पूजयितव्यो अनतिक्रमणीयो वेला-म्-इव महा-समुद्रेण।

इमे गौतमि भिक्षुणीनाम् अष्टौ गुरु-धर्माः ये भिक्षुणीहि यावज्-जीवं सत्कर्तव्या गुरु-कर्तव्या मानयितव्या पूजयित्व्या अनतिक्रमणीया वेला-म्-इव महा-समुद्रेण।

पाराजिक-धर्म।

मैथुनं

१११. अथ खलु भगवान् भिक्षुणीयो आमन्त्रयते स्म तस्मात् तहिं भिक्षुणीयो अद्य-द्-अग्रेण महाप्रजापतीं गौतमीं संघ-स्थविरीं संघ-महत्तरीं संघपरिणायिकां धारयथ।

य इमे भगवन् भगवता चत्वारो पतनीयो धर्मो अभिज्ञाय देशिताः लभ्या ते भगवन्न् अस्माभि विस्तरेण श्रोतुं। भगवान् आह लभ्या गौतमि।

११२. पञ्चार्थ-वशान् संपश्यमानाय श्रद्धाय कुलधीताय अलम् वि[न]यम् उद्दिशितुं। अलं विनयं धारयितुं यथा भिक्षुविनये।

११३. एकम् इदं गौतमि समयन् तथागतो श्रावस्तीयम् विहरति। अथ खलु शारिपुत्रस्य स्थविरस्य यावत् को नु खलु भगवन् हेतुः कः प्रत्ययो येन इहैकेषान् तथागतानाम्, अर्हतां सम्यक्सम्बुद्धानाम् अत्ययेन चिर-स्थितिकं प्रावचनं भवति चिर-स्थितिकः सद्-धर्म इति यथा भिक्षु-विनये।

एकम् इदं गौतमि समयन् तथागतो वैशालीयम् विहरति। विस्तरेण यशिकस्यार्थोत्पत्तिः प्रथमा। तस्मात् तर्हि गौतमि भिक्षुण्यापि अत्रैव शिक्षितव्यम्।

द्विन्नां लिच्छवि कुमाराणाम् अर्थोत्पत्तिः। द्वितीया।
यावन् नास्ति भिक्षुणीये शिक्षा-प्रत्याख्यानं। तृतीया।
नास्ति दौर्बल्याविष्कर-कर्म। चतुर्थी।
नन्दिकस्यार्थोत्पत्तिः। पञ्चमी।
मर्कटीय अर्थोत्पत्तिः [षष्ठी]।

विस्तरेण तस्माद् इह गौतमि भिक्षुणीहि अत्रैव शिक्षितव्यं।

११४. अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणीयो। अथ खलु भगवान् सन्निपतितं भिक्षुणी-संघं विदित्वा यावच् छिक्षापदं प्रज्ञप्तं।

या पुन भिक्षुणी छन्दसो मैथुनं ग्राम्यं धर्मं प्रतिषेविय अन्तमसतो तिर्यग्योनिगत(गतेन) पि सार्धं इयं भिक्षुणी पाराजिका भवत्य् असम्वास्याः(स्या)।

या पुन भिक्षुणी ति उपसम्पन्ना सूपसम्पन्ना त्रैवाचिकेन कर्मणा ज्ञप्ति-चतुर्थेन अनाघात-पञ्चमेन समग्रेण संघेन उभयतः संघेन इयं भिक्षुणी। च्छन्दसो ति रक्तचित्ता।

मैथुनन् ति अब्रह्मचर्यं ग्राम्य-धर्मन् ति ग्रामस्याप्य् एषो धर्मो नगरस्याप्य् एषो धर्मो सर्वावन्तस्यापि लोकस्य एषो धर्मो। प्रतिषेवेया ति अध्याचारेय। सा एषा भिक्षुणी मैथुनं ग्राम्यधर्मं प्रतिषेवति मानुषेण पुरुषेण मानुष्यकेन पण्डकेन त्रयाणां व्रणमुखानां धन्य-मार्गे वर्च-मार्गे प्रस्राव-मार्गे अन्यतरान्यतरस्मिं व्रण-मुखे अङ्ग-जाते अङ्गजातं प्रक्षिप्तं आर्तीयति आर्तयित्वा स्वादयति। आदौ स्वादयति। मध्ये स्वादयति। पर्यवसाने स्वादयति। सुखीयति। आस्वादं निगमयति पाराजिका भवति। आदौ न स्वादयति। मध्येन स्वादयति। पर्यवसाने स्वादयति। यावत् पाराजिका भवति। आदौ न स्वादयति। मध्ये न स्वादयति। पर्यवसाने स्वादयति या आस्वादन् निगमयति सा पाराजिका भवति। आदौ न स्वादयति। मध्ये न स्वादयति। पर्यवसाने न स्वादयति अनापत्तिः।

एवं सुप्तस्य मृतस्य अङ्गजाते अङ्गजातं प्रक्षिपित्वा अर्तीयति। पेयालं एवं अमानुषस्य पण्डकस्य तिर्यग्योनिगतस्य पुरुषस्य पण्डकस्य त्रयाणां व्रण-मुखानां। पेयालं।

११५. सा एषा भिक्षुणी रक्त-चित्ता पुरुषं दर्शनाय उट्ठापेति सम्वर-गामि-विनयातिक्रमम् आसादयति दर्शन-श्रवणे देशना-गामि-विनयातिक्रमम् आसादयति। यथा भिक्षु-विनये।

११६. पुरुषो त्रि-खण्डी-कृतो भवति। द्विधा-पाटितो भवति। शुष्को भवति। कोटरक-जातः। आध्मातजातो भवति। विनीलको भवति। विपूयको भवति।

११७. पञ्च भिक्षुणीयो पञ्च भिक्षून् बलात् प्रसह्य-म्-अध्यो-मर्दति(न्ति) पञ्च भिक्षुणीयो पाराजिकायो भवन्ति। यो च भिक्षुः सातियति।

पञ्च भिक्षू पञ्च भिक्षुणीयो बलात् प्रगृह्य-म्-अध्योमर्दति(न्ति) पञ्च भिक्षू पाराजिका भवन्ति। या च भिक्षुणी सातियति।

भिक्षु भिक्षुणीय सार्धं अन्योन्यं विप्रतिपद्यति उभये पाराजिका भवन्ति। भिक्षुणी श्रामणेरेण सह विप्रतिपद्यति भिक्षुणी पाराजिका भवति श्रामणेरो नाशयितव्यो। अथ दानि भिक्षुणी अ(आ)रामिके[न]सह विप्रतिपद्यते भिक्षुणी पाराजिका भवति। आरामिको अगृहीत-सम्वरत्वात् किम् व्रद्यिष्यति। एवं तीर्थिकेन। त्रिहि भिक्षुणी पाराजिका भवति। मानुषेण अमानुषेण तिर्यग्योनिगतेन अपरेहि त्रिहि धन्य-मार्गे वर्च-मार्गे प्रस्राव-मार्गे। अपरेहि त्रिहि सुप्ते मृते जाग्रन्ते। द्विहि भिक्षुणी पाराजिका भवति पुरुषेण पण्डकेन च। सा एषा भिक्षुणी सुप्ता वा भवति मत्ता वा उन्मत्ता वा विस्तरेण पुरुषो उपसंक्रम्य अभिनिषीदति वा अभिनिपद्यति वा। अन्तोस्तरति वा। सा ततो उत्थाय आदौ स्वादयति। मध्ये स्वादयति। पर्यवसाने स्वादयति पाराजिकं(का) भवति। किन् ति दानि सादियना द्रष्टव्या। किन् ति दानि असादियना। यथा भिक्षु-विनये। सा एषा भिक्षुणी छन्दसो मैथुनं ग्राम्य-धर्मं प्रतिषेवतीति। पेयालं। सा एषा आपद्यति। अप्य् एकत्या अज्ञानात्। अप्येकत्या स्मृति-संमोषात्। अप्य् एकत्याकल्पिय-संज्ञया। अप्य् एकत्या अलज्जिकेन। अप्य् एकत्या रागाभिभूता दोषाभिभूता मोहाभिभूता अनापत्तिः। क्षिप्त-चित्ताये अकरन्तीये अनध्याचरन्तीये अनापत्तिः। तेन भगवान् आह।

या पुनर् भिक्षुणी छन्दशो मैथुनं ग्राम्य-धर्मं प्रतिषेवेय अन्तमसतो तिर्यग्योनि-गतेनापि सार्धं इयं भिक्षुणी पाराजिका भवत्य् असंवास्या।

पाराजिक-धर्म २-४

एवं द्वितीयस्य। [तृतीयस्य]। चतुर्थस्य। न किञ्चिन् नानाकरणं यथा भिक्षु-विनये।

संसर्ग

११८. भगवान् छाक्येषु विहरति शाक्यानां कपिलवस्तुस्मिं न्यग्रोधारामे। तेन दानि कालेन तेन समयेन भगवता भिक्षुणीनां अरण्यकानि शयनासनानि प्रतिक्षिप्तानि। ग्रामान्तकानि च अकृतानि। भिक्षुणीयो गृहिणाम् उपवसितेहि वसन्ति। राष्ट्रा नाम भिक्षुणी। सा दानि अपरस्य साक्यस्य उदु-वसिते वसति। सा दानि राष्ट्रा तस्य शाकियकुमारस्य उद्दिशति। सा दानि राष्ट्रा प्रासादिका दर्शनिया अविगत-राग। सो पि शाकिय-कुमारो प्रासादिको दर्शनीयो। सो दानि ताये त्रिक्खत्तो दे[व]शिकं उपलंकृतं काल्यं मध्याह्ने सायं। ताये दानि तं शाकिय -कुमारं दृष्ट्वा अभीक्ष्णं संसेवाय च राग-चित्तम् अनुध्वंसयति। सा दानि म्लायति पाण्डु-कृशा दुर्-वर्णा भोन्ती-म्-अपि भोजनं न छन्दो भवति।

११९. भिक्षू दानीं पृच्छन्ति। केन त्वं भगिनी राष्ट्रा पाण्डु-कृशा दुर्-वर्णा। किन् ते दुःखति। किन् ते पर्येषामः। सर्पिस् तैलं मधु फाणितं। सा दान् आह भोतु भोतु आर्य एवम् एव वर्ता भविष्यामि। भिक्षुणीयो पृच्छन्ति। आर्ये राष्ट्रे केन त्वम् एवं पाण्डु-कृशा दुर्-वर्णा। किन् ते दुःखति। किन् ते पर्येषामः। सर्पिस् तैलं मधु फाणितं। सा दान् आह। भोतु भोतु आर्यमिश्रिकायो एवम् एव वर्ता भविष्यामीति। एवं एव उपासिका उपासिकायो। सो पि शाकिय-कुमारो आह। आर्ये किन् ते दुःखति। केन सि पाण्डु -कृशा दुर्-वर्णा। आचिक्षाहि कीदृशेहि अत्र भैषज्येहि वा उपकरणेहि वा अर्थो भवेय। सचेद् अस्माकं न भविष्यति प्रातिवेश्य -कुलातो उद्धार-धर्मणा आनापयिष्यामि। अन्तरापणातो वा ग्रामान्तरातो वा आनापयिष्यामि। सा दान् आह भोतु दीर्घायुः एवम् एव वर्ता भविष्यामि। द्वितीयं तृतीयम् अपि आह। आर्ये किन् ते दुःखति। केनासि पाण्डु-कृशा दुर्-वर्णा यावद् ग्रामान्तरातो आनापयिष्यामि। सा दान् आह भोतु दीर्घायु एवम् एव वर्ता भविष्यामि। सो दानि शाकिय-कुमारो आह। न इदं आर्याये किञ्चित् कायिकं गैलायं। चैतसिकं आर्याये गैलान्यं। सा दान् आह। बाढं चैतसिकं गैलान्यं। सो दान् आह कथं सह्यं भवेय। सा दान् आह। यदि एवम् इच्छसि एवं सह्यं भवेय।

१२०. सो दान् आह। आर्ये किम् अर्थम् अहं नेच्छामि। या(यो) दानि अहं जल्पामि। आचिक्षतु आर्या किम् आज्ञापयसि। किं करोमि। कीदृशेहि अत्र भैषज्येहि वा उपकरणेहि वा अर्थो भवेय। सचेद् अस्माकं न भविष्यति प्रातिवेश्य-कुलातो उद्धार-धर्मणा आनयिष्यामि अन्तरापणातो वा ग्रामान्तरातो वा आनापयिष्यामीति। आचिक्षतु आर्या। सा दान् आह। साधु ते एतम् अर्थम् करोहि। सो दान् आह। न आर्ये एवं वक्तव्यं। अन्याहि अहं कार्(का)षाय-वसनाहि नोत्सहाम्य् एतं अर्थं कर्तुं प्राग् एव आर्याय। आर्य(या) मम गुरु च भावनीया च। नाहम् आर्याय एवं वक्तव्यं (व्यो)। नह्य् अहम् उत्सहाम्य् एतं कार्यं कर्तुं। सा दान् आह। साधु ताव मे आलिङ्गस्व चुम्बस्व स्तनोदरञ् च मे परिमर्दस्वेति। लभ्यन् मया एतन् मात्रं कर्तुं। स मात्रालिङ्गति चुम्बति स्तनोदरञ् च से परिमृशति। सा पि दानि तत्तकेनैव विनोदयति। सो पि दानि शाकियकुमारो अभीक्ष्ण-संसर्गेण अपम्लायति।

१२१. यथा भगवान् आह। नाहम् भिक्षवो ऽन्यम् एकं स्प्रष्टव्यं समनुपश्यामि। एवं रञ्जनीयम् एवं कमनीयम् एवं वञ्चनीयम् एवं मूर्च्छनीयम् एवम् अध्योहारि एवम् अन्तरायकरम् अनुत्तरस्य योग-क्षेमस्याधिगमाय यथा पुरुषस्य स्त्री प्र(स्प्र)ष्टव्यं स्त्रीया पुरुष इति दानि तेन अभिक्ष्ण-सं-सेवाय अपम्लायति। सो दानि पुनः पुनः करोति।

१२२. सा दानि भिक्षुणीहि वुच्चति। मा आर्ये एवं करोहि नैवं लभ्या कर्तुं। सा दान् आह। एवं मम क्रियमाणं फासु भवति। एतं प्रकरणं तायो भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसु। महाप्रजापती गौतमी भगवतो आरोचयति। भगवान् आह शब्दापयथ राष्ट्रां। सा दानि शब्दापिता। भगवान् आह। सत्यं राष्ट्रे एवं नाम त्वं अवश्रुता अवश्रुतस्य। पुरुषस्य उपरि जानु-मण्डलाभ्याम् अधो कक्षाभ्यां आमोषण-परा-मोषणं सादियसि। आह। आम् भगवन्। भगवान् आह। दुष्कृतं ते राष्ट्रे। नन्व् अहं राष्ट्रे अनेक-पर्यायेण सर्वेषां कामानां काम-नन्दीनां काम-निम्नानां काम-मूर्च्छानां काम-पिपासानां काम-परिदाह्यानां कामाध्यवसानानां अन(अन्त)म् वदामि। प्रहाणम् वदामि। समतिक्रमणं वदामि। तत्र नाम त्वं इमं एवं -रूपत्वं पापम् अकुशलं धर्मं अध्याचरसि। नैष राष्ट्रे धर्म। नैष विनयो। नैवं शास्तुः शासनं। नैवं कर्तव्यं। नैवं करतो वृद्धिर् भवति कुशलेहि धर्मेहि।

१२३. अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणीयो। यावतिका भिक्षुणीयो कपिलवस्तुन् नगरम् उपनिश्रित्य विहरन्ति। अथ खलु भगवान् सन्निपतितं भिक्षुणी-संघं विदित्वा एतत् प्रकरणं भिक्षुणीनां विस्तरेणारोचयति। पेयालं। यावत् पर्यद(व)दातानि भविष्यन्ति।

या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अधो कक्षाभ्याम् उपरि जानु-मण्डलाभ्याम् आमोषण-परामोषणं सादियेय इयं पि भिक्षुणी पाराजिका भवत्य् असम्वास्या।

या पुन भिक्षुणीति। पेयालं। यावद् एषा भिक्षुणी अवश्रुता ति रक्त-चित्ता। अवश्रुतस्येति रक्त-चित्तस्य। अधो कक्षाभ्याम् इति स्तनोदरं। उपरि जानु-मण्डलाभ्याम् इति ऊरु। आमोषणं ति च्छुवणं। परामोषणन् ति वीतिहारो। सादियेया ति सातीयति सुखियति रमीयति आस्वाद निगमयति पाराजिका भवति।

पाराजिकेति पारं नामोच्यते धर्म-ज्ञानं। ततो जीना ओजीना संजीना परिहीणा। तेनाह पाराजिकेति।

१२४. एवं विस्तरेण। सा एषा भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य उपरि जानु-मण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादयति पाराजिका भवति। सा एषा भिक्षुणी अवश्रुतस्य पण्डकस्य उपरि जानु-मण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणपरामोषणं सादयति पाराजिका भवति। सा एषा भिक्षुणी <अश्रुश्रुता> अवश्रुता अनवश्रुतेन पण्डकेन उपरि जानु-मण्डलाभ्याम् अधो कक्षाभ्याम् आमोषण-परामोषणं सादियति थूल्-अच्चयम् आसाद्यति। सा पि एषा भिक्षुणी अवश्रुता अनवश्रुतेन पुरुषेन उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषण-परामोषणं सादियति थूल्-अच्चयम् आसादयति। सा एषा भिक्षुणी अवश्रुता अनवश्रुतेन पण्डकेन उपरि जानु-मण्डलाभ्याम् अधो कक्षाभ्याम् आमोषणं परामोषणं सादियेय थूल्-अच्चयम् आसादयति। सा एषा भिक्षुणी अवश्रुता अनवश्रुताय स्त्रियाय उपरि जानु-मण्डलाभ्याम् अधो कक्षाभ्याम् आमोषण-परामोषणं सादिय देशना-गामि-विनया-तिक्रमम् आसादयति। सा एषा भिक्षुणी अनवश्रुता अवश्रुतेन पुरुषेण उपरि जानु-मण्डलाभ्याम् अधो कक्षाभ्याम् आमोषण-परामोषणं सादियति थूल्ऽ -अच्चयम् आसादयति। सा एषा भिक्षुणी अनवश्रुता अवश्रुतेन[पण्डकेन] उपरि जानु-मण्डलाभ्याम् अधो कक्षाभ्याम् आमोषण-परामोषणं सादियति थूल्ऽ -अच्चयं आसादयति। सा एषा भिक्षुणी अनवश्रुता अवश्रुताय स्त्रियाय उपरि जानु-मण्डलाभ्याम् अधो कक्षाभ्याम् आमोषण-परामोषणं सादयति देशना-गामि-विनयातिक्रमम् आसादयति। सा एषा भिक्षुणी अनवश्रुता अवश्रुतेन पुरुषेण उपरि जानुमण्डलाभ्याम् अधो कक्षाभ्याम् आमोषण-परामोषणं सादयति देशना-गामि विनयातिक्रमम् आसादयति। सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पण्डकेन उपरि जानु-मण्डलाभ्याम् अधो कक्षाभ्याम् आमोषण-परामोषणं सादयति देशना-गामि-विनयातिक्रमम् आसादयति। सा एषा भिक्षुणी अनवश्रुता अनवश्रुताय स्त्रियाय उपरि जानु-मण्डलाभ्याम् अधो कक्षाभ्याम् आमोषण-परामोषणं सादयति सम्वर-गामि-विनयातिक्रमम् आसादयति। सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पुरुषेण अधो जानु-मण्डला-भ्याम् उपरि कक्षाभ्यां यावत् स्थूलात्ययम् आसादयति। सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पण्डकेन अधो जानु-मण्डलाभ्याम् उपरि कक्षाभ्याम् याव थूल्ऽ -अच्चयम् आसादयति। सा एषा भिक्षुणी अवश्रुता अवश्रुताय स्त्रियाय अधो जानु-मण्डलाभ्याम् उपरि कक्षाभ्यां यावद् देशना-गामि-विनयातिक्रमम् आसादयति। सा एषा भिक्षुणी अवश्रुता अ[व]श्रुतेन पुरुषेण अधो जानु-मण्डलाभ्याम् उपरि कक्षाभ्याम् यावत् देशना-गामि-विनयातिक्रमम् आसास्दयति। सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पण्डकेन अधो जानु-मण्डलाभ्यां उपरि कक्षाभ्याम् यावत् देशना-गामि-विनयातिक्रमम् आसादयति। सा एषा भिक्षुणी अवश्रुता अवश्रुताय स्त्रियाय अधो जानु-मण्डलाभ्याम् उपरि कक्षाभ्यां यावत् सम्वरगामि-विनयातिक्रमम् आसादयति। सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पुरुषेण अधो जानु-मण्डलाभ्याम् उपरि कक्षाभ्याम् यावत् देशना-गामि-विनयातिक्रमम् आसादयति। सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पण्डकेन अधो जानु-मण्डलाभ्याम् उपरि कक्षाभ्याम् यावत् देशना-गामि-विनयातिक्रमम् आसादयति। सा एषा भिक्षुणी अनवश्रुता अनवश्रुताय[स्त्रियाय] अधो जानु-मण्डलाभ्याम् उपरि कक्षाभ्याम् यावत् सम्वर-गामि-विनयातिक्रमम् आसादयति। सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पुरुषेण अधो जानु-मण्डलाभ्याम् उपरि कक्षाभ्याम् यावत् सम्वर-गामि-विनयातिक्रमम् आसादयति। सा एषा भिक्षुणी अनवश्रुता अनवश्रुतेन पण्डकेन अधो जानु-मण्डलाभ्याम् उपरि कक्षाभ्यां यावत् सम्वर-गामि-विनया तिक्रमम् आसादयति। सा एषा भिक्षुणी अनवश्रुता अनवश्रुताय स्त्रियाय अधो जानु-मण्डलाभ्याम् उपरि कक्षाभ्याम् आमोषण-परामोषणं सादीयति अनापत्तिः।

१२५। अथ दानि भिक्षुणी ललाट-सिरां वेधापयति द्वितीयाय भिक्षुणीय मूर्ध्नि आक्रमितव्या यथा स्त्री स्प्रष्टव्यं संजानाति न पुरुष स्प्रष्टव्यं संजानाति। अथ दानि बाहु-शिरां विन्धापयति अपराय भिक्षुणीय बाहा ग्रहेतव्या यथा स्त्री स्प्रष्टव्यं संजानाति न पुरुष स्प्रष्टव्यं। एवं गुल्फ-शिरा। एवं जानु-मण्डलाधः। अथ दानि गण्डं वा पिटकम् वा क्षतम् वा पुरुषेण पाटापयति वा उपनाहापयति वा अपराय भिक्षुणीय आलम्बयितव्यं। न क्षमति सम्बाधे प्रदेशे गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा पुरुषेण वोधा(वेधा)पयितुम् वा पाटापयितुम् वा उपनाहापयितुम् वा। सम्बाधो नाम प्रदेशो उपरि जानु-मण्डलाभ्याम् अधः कक्षाभ्याम्। तेन भगवान् आह।

या पुन भिक्षुणी अवश्रुता अवश्रुतस्य [पुरुषस्य] अधो कक्षा भ्याम् उपरि जानु-मण्डलाभ्याम् आमोषण-परामोषणं सादियेय इयं पि भिक्षुणी पाराजिका भवत्य् असम्वास्या।

पाराजिक-धर्म ६
अष्ट-वस्तुका

१२६. भगवान् सम्यक्सम्बुद्धो यद्-अर्थं समुदागतो तम्(तद्)-अर्थम् अभिसम्भावयित्वा वैशालीयाम् विहरति। महावने कूटागार-शालायां। तेन दानि कालेन तेन समयेन भगवता भिक्षुणीनाम् आरण्यकानि शयनासनानि प्रतिक्षिप्तानि। ग्रामान्तिकनि च अकृतानि। भिक्षुणीयो अभ्यन्तर-नगरे प्रविशन्ति। अथ राष्ट्रपाला नाम भिक्षुणी। सा दानि अपरस्य लिच्छवि-कुमारस्य उदु-वसिते वसति। सा दानि तस्य लिच्छवि-कुमारस्य उद्देशन् ददाति। सा दानि राष्ट्रपाला तस्य देवसिकम् उपसंक्रमति काल्यं मध्याह्ने सायम्। सा दानि प्रासादिका दर्शनीया अवीत-रागा। सो पि लिच्छवि-कुमारो प्रासादिको दर्शनीयो। ताये दानि राष्ट्रपालाय अभीक्ष्ण-दर्शनेन अभिक्ष्णं संसेवाय च राग-चित्तम् अनुध्वंसयति। सा दानि म्लायति। पेयालं। यावद् गुरु च भावनीया च यावन् नोत्सहामि।

१२७. सा दान् आह। साधु खलु तावन् मे अन्तो हस्त-पाशस्य तिष्ठाहि संलपाहि। हस्तं मे गृह्णाहि। प्रहस्तं मे गृह्णाहि। अङ्गुलिं मे गृह्णाहि। अन्गुष्टं मे गृह्णाहि। चीवरं मे गृह्णाहि। अहं पि ते आगतम् अभिनन्दिष्यं। आसनेन उपनिमन्त्रयिष्यं। कायन् ते अनुप्रयच्छिष्यं। पीठिकाम् वा आपणम् वा कर्मान्तम् वा गमिष्यन् ति। सो दान् आह। आर्ये लभ्या मया एतं कर्तुं। सो दानि ताये अन्तो हस्त-पासस्य तिष्ठति। संलपति। हस्तेन गृह्णाति। प्रहस्ते गृह्णाति। चीवरे गृह्णाति। सा पि तं आगतम् अभिनन्दति। आसनेनोपनिमन्त्रयति। कायं से नुप्रयच्छति। संकेतं वा गच्छति। सापि दानि तत्तकेनैव काम-च्छन्दम् विनोदेति। सो पि दानि लिच्छवि-कुमारो अभीक्ष्ण-दर्शनेन अभीक्ष्ण-संसेवाय अपम्लायति।

१२८. यत् तद् उक्तं भगवता। नाहम् भिक्षवो ऽन्यद् एकरूपम् अपि समनुपश्यामीति विस्तरेण सूत्रं। सा दानि अभीक्ष्णं संसेवाय अपम्लायति। सा पुनः पुनः करोति। सा भिक्षुणीहि वुच्चति। मा आर्ये राष्ट्रपाले एवं करोहि। नैवं लभ्या कर्तुं। सा दान् आह। केन्ऽ अर्थन् न लभ्यते। एवम् मम क्रियमाणे फासु भवति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयन्ति। महाप्रजापती गौतमी भगवतो आरोचयति। भगवान् आह। शब्दापयथ राष्ट्रपालां। सा दानि शब्दापिता। भगवान् आह। सत्यं राष्ट्रपाले एवन् नाम त्वं अ[व]श्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्त-पाशस्य संतिष्ठसि संलपसि। पेयालं। यावत् संकेतं गच्छसि। आह। आम् भगवन्। भगवान् आह। दुष्कृतं ते राष्ट्रपाले। यावन् महाप्रजापतीं गौतमीम् आमन्त्रयति। यावच् छिक्षापदं प्रज्ञपतं।

या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्त-पाशस्य संतिष्ठेत वा संलपेन(त) वा। हस्त-ग्रहणम् वा। चीवर-ग्रहणम् वा सादीयेय। आगतम् वा अभिनन्देय। आसनेन वा उपनिमन्त्रेय। कायम् वा अनुप्रयच्छेय। संकेत-कृतम् वा गच्छेय। इयं पि भिक्षुणी पाराजिका भवत्य् असंवास्या।

१२९. या पुन भिक्षुणीति उपसंपन्ना। यावत् सा एषा भिक्षुणी अवश्रुता ति रक्त-चित्ता। अवश्रुतस्य पुरुषस्येति रक्त-चित्तस्य। अन्तो हस्त-पाशस्येति अन्तो व्यायामेति। [(सं)]=लपेया ति [(उपकर्णं)] वा जल्पेय। हस्त-ग्रहणन् ति हस्ते गृह्णिय यावद् अङ्गुष्टके वा। चीवर-ग्रहणन् ति संघाटीयं वा उत्तरासङ्गे वा अङ्तरे-वासे वा संकक्षिकायां वा दक-शाटिकायाम् वा। सादियेया ति आस्वादं निगमयेत्। आगतं वा अभिनन्देया ति वा स्वागतन् ते अनुरागतन् ते पुनः पुन आगच्छेसि। प्रीतास्मि तवागमनेन। प्रह्लादितम् मे गात्रं तव दर्शनेन। आसनेनोपनिमन्त्रेया ति आसनम् अस्य ददेय। कायं से अनुप्रयच्छेया ति येनासौ तेन कायं प्रणामेत। संकेत-कृतं गच्छेद् इति यस् तस्य अभीक्ष्णं उपचारो भवेद् आपणो वा पीठिका वा क्षेत्र-वस्त्रं वा उदक-समीपं वा कर्मान्तं वा उद्यायं वा मार्गे वा तहिं तिष्ठेद् इयं पि भिक्षुणी पाराजिका असंवास्येति यावत् प्रज्ञप्तिः।

१३०. सा एषा भिक्षुणी [अवश्रुता] अवश्रुतस्य पुरुषस्य अन्तो हस्त-पाशं संतिष्ठति यावत् संकेतं कृतं गच्छति पाराजिका भवति। एवं पण्डकस्य स्त्रियाः स्थूलात्ययः। सा एषा भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्त-पाशं तिष्ठति यावत् संकेत-कृतम् वा गच्छति थूल्ऽ-अच्चयं। एवं पण्डके स्त्रियायां देशना-गामि-विनयातिक्रमम् आसादयति। सा एषा भिक्षुणी अनवश्रुता अवश्रुतस्य अन्तो हस्त-पाशस्य संतिष्ठति यावत् संकेतकृतम् वा गच्छति स्थूलात्ययं। एवं पण्डकस्य स्त्रियायान् देशना-गामि-विनयातिक्रमम् आसादयति। सा एषा भिक्षुणी अवश्रुता अवश्रुतेन पुरुषेण सन्तिष्ठति थूल्ऽ-अच्चयम्। संलपति स्थूल्ऽ-अच्चयं। हस्त-ग्रहणं थूल्ऽ-अच्चयम्। चीवर-ग्रहणं थूल्ऽ-अच्चयं। आगतम् अभिनन्दति थूल्ऽ-अच्चयं। आसनेनोपनिमन्त्रेति थूल्ऽ-अच्चयं। कायम् अनुप्रयच्छति थूल्ऽ-अच्चयं। संकेतङ् गच्छति पाराजिका भवति। एवम् एकैकेन पदेन थूल्ऽ-अच्चयं। यावत् सप्तमे सप्त थूल्ऽ-अच्चयाः। अष्टमे पदे पाराजिका भवति। अथ दानि अनुखज्जकम् आपज्जति यदाष्टौ थूल्ऽ-अच्चया भवन्ति तदा पाराजिका भवति। अथ दानि एक समापद्यित्वा प्रतिकरित्वा यावत् सप्तमम् आपद्यित्वा प्रतिकरित्वा अष्टमम् आपद्यति न सा पाराजिका भवति। अथ दानि सप्तमम् आपद्यित्वा अप्रतिकरित्वा अष्टमम् आपद्यति पाराजिका भवति। तेन भगवान् आह।

या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य अन्तो हस्तपाशस्य सन्तिष्ठेद् वा। संलपेद् वा। हस्त-ग्रहणम् वा। चीवर-ग्रहणम् वा सादीयेय। आगतम् वा अभिनन्देय। आसनेन वा उपरि(नि)-मन्त्रेयेत। कायम् वा अनुप्रयच्छेय। संकेत-कृतम् वा गच्छेय। इयम् पि भिक्षुणी पाराजिका भवत्य् असम्वास्य।

पाराजिक-धर्म ७
अवद्य-प्रतिछादिका

१३१. भगवान् वैशालीयं विहरति। विस्तरेण निदानं कृत्वा। वैशालीयं दानि नगरे अपरस्य लिच्छविस्य त्रि-य्-अन्तरा दारिका जाता। अमङ्गल्या अप्रशस्ता। तेषान् दानि माता-पितृणाम् भवति। क इमां विवाहयिष्यति। गृहे पि धार्यमाणा अमङ्गल्या कस्येयन् दातव्या। अपरे आहंसुः। इच्छत यूयं एतां दारिकां उन्नीयमानां। ते दान् आहंसुः। इच्छामः। आहंसुः। एषात्र काली नाम भिक्षुणी। तस्या देथ सा उन्नेष्यति। तेहि दानि सा उक्ता। आर्ये ऽस्माकं त्रि-य्-अन्तरा दारिका जाता अधन्या वामङ्गल्या वाप्रशस्ता वा। ताम् वयम् [(आनापेयेमः)]। उन्नेहि वर्धेहि अन्तेवासिनीय ते भविष्यति। वयं च ते ग्रासाच्छा[द]न् दास्यामः। ताय सा परिगृहीता। उन्नेति वर्धेति। ततो देवसिकं पक्व-प्रहेणकम् आनीयति। अनुशमं अनुशमं आच्छादं लभति। हेमन्ते हेमन्तिकं। वर्षा-काले वर्षा-वासिकं। सा यदा महन्ती-भूता तदा ताय प्रव्रजिता। शिक्षा देशिता। परिपूर-शिक्षा। उपसम्पादिता। तीव्र-रागो मातृग्रामः। सा दानि क्लेशेहि बाध्यते। न सहति। सा दान् आह। आर्ये न दानि प्रव्रज्यायां गमिष्याम्य् अहं। क्लेशेन बाध्यामि। काली आह। पुत्रि दुःखो गृहावासः। अङ्गार-कर्षूपमा कामा उक्ता भगवता। किन् ते गृहावासेन। सा पश्यति यदि तावद् इयं प्रत्योधावति ततो मे लाभ-सत्कारो ऽन्तरहायिष्यति। सा ताय निगृहीता विच्छिन्दिता। सा दानि क्लेशान् असहन्ती आरामिक-परिव्राजकेहि सार्धं मिश्रि-भूता। ताय कुक्षिः प्रतिलद्भोदरं महन्ती-भूतं। सा भिक्षुणीहि निष्काशीयति। तायो दानि भिक्षुणीयो आहंसुः। आर्ये कालि जानासि त्वम् एतां आगारकेहि परिव्राजकेहि सह मिश्रीभूतां। आह। जानामि। एवं विरोपादाय आहंसुः। किम् अर्थं त्वं नारोचेसि। ना(न) जल्पसि। पश्यामि यद्य् अहम् आरोचयिष्यं। एषा गृहं गमिष्यति। मम एष लाभ-सत्कारो अन्तराहायिष्यतीति।

१३२. एतं प्रकरणं तायो भिक्षुणीयो <भिक्षुणीयो> मा (महा) प्रजापतीये गौतमीये आरोचयेंसुः। महाप्रजापती गौतमी भगवतो आरोचयति। भगवान् आह। शब्दापयथ कालिं। सा शब्दापिता। तद् एव सर्वं भगवान् विस्तरेण पृच्छति। आह। आम भगवन्। भगवान् आह। दुष्कृतं ते कालि। अस्ति नाम त्वं कालि जानन्ती भिक्षुणीं दुष्ठुल्लापत्तिम् आपनां प्रतिच्छादेसि। यावन् नैष कालि धर्मो नैष विनयो। यावद् भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणीयो यावतिका भिक्षुणीयो वैशालीन् नगरीम् उपनिश्रित्य विहरन्ति। यावच् छिक्षापदं प्रज्ञप्तं।

या पुन भिक्षुणी जानन्ति (न्ती) भिक्षुणीं दुष्ठुल्लाम् आपत्तिं कृताम् अध्याचीर्णां छादेय। सा न परेषाम् आरोचयति कुव्-एगे महा-जने संघ-मध्ये। यदा सा भिक्षुणी भिक्षुणीहि च्युता भवति मृता निषण्णा अवसण्णा अवक्रान्ता इमस्माद् धर्म-विनयाद्। अथ सा भिक्षुणीनाम् एवम् वदेय। आज्ञापनि (आज्ञासि) वताहम् आर्ये इत्थन्-नामाये भिक्षुणीये दुष्ठुल्ला-म्-आपत्ति कृता-म्-अध्याचीर्णा। साहं न परेषाम् आरोचयेयं। किन् ति इमाये वा(मा)परे जानन्तू ति। इयं भिक्षुणी पाराजिका भवति॥

या पुन भिक्षुणीति उपसम्पन्ना। पेयालं। जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय आकारवन्तेन दर्शनेन श्रवणेन। दुष्ठुल्लाम् आपत्तिं ति दुष्ठुल्ला-नाम अष्टानाम् अन्यतरान्यतरा कृता<नि> अध्याचीर्णा। सा न परेषाम् आरोचेय इति न कथयेत्। कुवे एगे ति एकाये। महा-जने ति द्विन्नाम् त्रयाणां। संघ-मध्य्ति परिपूर्ण-संघस्य।

च्युता ति च्युता भोति ब्रह्मचर्यातो। मृता ति काल-गता। निषण्णा अवसण्णा ति गृहिणी-भावङ् गता। अवक्रान्ता इमस्माद् धर्म-विनयाद् इति अन्यतीर्थिकायतनं संक्रान्ता। अथ सा भिक्षुणी भिक्षुणीनां एवं वदेया। आज्ञासि वताहं आर्ये इत्थन्-नामाये भिक्षुणीये दुष्ठुला (ल्ला)-म्-आपत्तिः कृता-म्-अध्याचीर्णां(र्णा)। छाये। साहं न परेषाम् आरोचये। किन् ति इमाये मापरे अ(जा)नन्तू ति। इयम् पि भिक्षुणी पाराजिका भवति। पारन् नाम वुच्चति धर्म-ज्ञानं। पेयालं। यावत् प्रज्ञप्तिः।

१३३. सा एषा भिक्षुणी पश्यति भिक्षुणीं अरुणोद्गते दुष्ठुल्लाम् आपत्तिम् आपद्यन्तीं। नो तु च्छादना-चित्तं प्रतिलभते। सूर्यस्योद्गमन-काल-समये छादनाचित्तं प्रतिलभित्वा अरुण-म्-उद्घाते ति इयं भिक्षुणी पाराजिका भवति। एवं दो कालिका अष्ट परिवर्ता कर्तव्याः। यथा भिक्षु-विनये छादनायां। सा एषा भिक्षुणी भिक्षुणीं पश्यति दुष्ठुल्लाम् आपत्तिम् अध्याचरन्तीं। ताय दानि अपराय आरोचयितव्यं। अथ सा भोति अन्तेवासिणी वा सार्ध-विहारिणी वा पश्यति। यदि आरोचयिष्यामि इदानीं भिक्षुणीहि निस्कासिष्यतीति अनुनय-सम्बन्धेन<छ> छादेति पाराजिका भोति। सा एषा भिक्षुणी पश्यति अपरां भिक्षुणीं आपत्तिम् आपद्यन्तीं। सा दानि अपराय आरोचेति दृष्टा मया इत्थन्-नामा भिक्षुणी दुष्ठुला(ल्ला)म् आपत्तिम् अध्याचरन्ती। अहं पश्यामि यदि आरोचयिष्यतीति दानी भिक्षुणीहि निर्धावयिष्यतीति मया पि च्छादितं। सा पि पश्यति यदि अहम् आरोचयिष्यं उभये निर्धार(व)यिष्यन्तीति च्छादेति। सा पि पारजिका भवति। इ(ए)वं यत्तिकायो च्छादेन्ति सर्वायो पाराजिका भोन्ति। एषा भिक्षुणी भिक्षुणीं पश्यति दुष्ठुल्लाम् आपत्तिम् आपद्यन्तीं। सा अपरान् आरोचेति। इत्थन्-नामा भिक्षुणी दुष्ठुल्लाम् आपत्तिम् आपन्ना। सा दान् आह। पापं कृतन् त्वया मम आरोचयन्तीय। मा अपराये पि आरोचयिष्यसीति थूल्ऽ-अच्च्यम् आसादयति। सा एषा भिक्षुणी पश्यति भिक्षुणीं दुष्थुल्लाम् आपत्तिम् अध्याचरन्तीं। ताय अपराये आरोचयितव्यं। अथ दानि सा भोति रौद्रा वा साहस-कारा पश्यति। मा से जीवितान्तरायं वा ब्रह्मचर्यान्तरायम् वा करिष्यतीति उपेक्षा पर्तिलभति अन्-आपत्तिः। तेन भगवान् आह।

या पुन भिक्षुणी जानन्ती भिक्षुणीये दुष्ठुल्लाम् आपत्तिं कृताम् अध्याचीर्णां छादेय। सा न परेषाम् आरोचयेत् कुव्-एगे महा-जने संघमध्ये। यदा सा भिक्षुणी भिक्षुणीहि च्युता भवति मृता निस्(ष्)अण्णा अवसण्णा अवक्रान्ता इमस्माद् धर्म-विनयाद्। अथ भिक्षुणी भिक्षुणीनाम् एवम् वदेय आज्ञासि तवाहं (वताहं) आर्ये इत्थन्-नामाये भिक्षुणीये दुष्ठुला(ल्ला)-म्-आपत्ति कृता-म्-अध्याच(ची)र्णा। साहं न परेषाम् आरोचयेयं। किन् ति इमाये मापरे जानन्तू ति। इयं पि भिक्षुणी पाराजिका भवत्य् असम्वास्या।

पाराजिक-धर्म ८

उत्क्षिप्तानुवर्तिका

१३४. भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तम्(तद्)अर्थम् अभिसम्भावयित्वा। पेयालं। यावत् तेहि तेहि विहारेहि विहरन् कौशाम्ब्याम् विहरति घोषितारामे। आयुष्मान् दानि छन्दको पञ्चानाम् आपत्तिकायानाम् अन्यतरान्यतरम्(आम्) आपत्तिम् अध्ये (अध्यो)मर्दति। सो भिक्षूहि वुच्चति आयुष्मन् छन्दक पश्यसि एताम् आपत्तिं। सो दान् आह। नाहं पश्यामि यूयम् अपि नं पश्यथ। भे च्यु[?]तं पश्यन्तु। किम् पुन मम एताय दुष्टाय। एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु। भगवान् आह। यद्य् एषो भिक्षवश् छन्दको पञ्चानाम् आपत्ति-कायानाम् अन्यतरान्य-तराम् आपत्तिम् अध्योमर्दति। स ताम् आपत्तिं न पश्यति। तेन संघो आपत्तीय अदर्शनेन उत्क्षेपनीयं कर्म करोतु। तस्य संघेन उत्क्षेपणीयं कर्म कृतं। न संभुञ्जति धर्म-संभोगेन आमिष-संभोगेन। तस्य दानि माता अपरंहि भिक्षुणी-विहारे आवासिनी। सो दानि तंहि गत्वा आह। सालोहिते संघेनाहम् उत्क्षिप्तो। न संभुञ्जति मे धर्म-सम्भोगेन आमिष-संभोगेन। सा दान् आह। अपर्या आर्य च्छन्दक। अहन् ते संभुञ्जामि धर्म-सम्भोगेन आमिष-सम्भोगेन। सा दानि सम्भुञ्जति धर्म-संभोगेन आमिष-संभोगेन। सा दानि भिक्षुणीहि वुच्चति। आर्ये एषो हि आर्य छन्दको समग्रेण संघेन धर्मतो विन्यतो उत्क्षिप्तो अप्रतिकृतो। मा आर्ये एतं भिक्षुं अनुवर्तेहि।

भगवान् आह। अपापाय आर्यमिश्रिका अहं च तावन् नेतं भिक्षुं अनुवर्तिष्यं। का अन्या अनुवर्तिष्यति। अनुवर्तिष्याम्य् अहम् एतं भिक्षुं। किम् अर्थम् अहम् एतं किम् अर्थम् अहम् एतम् नानुवर्तिष्ये। एतत् प्रकरणं तायो भिक्षुणीयो महाप्रजापतीये आरोचयेंसुः। महाप्रजापती गौतमी भगवत आरोचयति। भगवान् आह। यद्य् एषा भिक्षुणी छन्दक-माता छन्दकं भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतम् अनुवर्तति। तेन हि तं गच्छथ त्रिःक्खत्तो कुव्-एगे त्रिःक्खत्तो महा-जने त्रिक्खत्तो संघ-मध्ये समनुग्राहथ एतस्य वस्तुस्य प्रतिनिः-सर्गाय। सा दानि कुव्-एगे वुच्चति सत्यं त्वम् आर्ये छन्दक-माते आर्ये-छन्दकं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतम् अनुवर्तसि। आहो त्य् आह। सा त्वं कुव्-एगे वुच्यसि। मा आर्ये छन्दक-मातो आर्य-छन्दकं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतं अनुवर्ताहि। यं खलु ते आर्ये छन्दक-माते मित्राय करणीयं अर्थ-कामाय हितैषिणीय करोति ते तं मित्रा एका वाचा गच्छन्ति। द्वे वाचे अवशिष्टे प्रतिनिःसर न प्रतिनिः-सरामीत्य आह। एवम् द्विर् अपि त्रिर् अपि। एवं महा-जने संघ-मध्ये अवलोकना कर्तव्या यावन् न प्रतिनिःसरामीत्य् आह।

१३५. एतं प्रकरणं तायो भिक्षुणीयो भगवतः आरोचयेंसुः। अनुप्राप्ता भगवन् आर्या छन्दक-माता त्रिक्खत्तो कुव्-एगे त्रिक्खत्तो महा-जने त्रिक्खत्तो संघ-मध्ये एतस्य वस्तुस्य प्रतिनिःसर्गाय न च प्रतिनिःसरति। भगवान् आह। शब्दापयथ छन्दक-मातां। सा दानि शब्दापिता। भगवान् आह। सत्यं त्वं छन्दक-माते। एत(व)न् नाम त्वं छन्दकं भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतं संभुञ्जसि। सा त्वं त्रिक्खुत्तो कुव्-एगे त्रिक्खुत्तो महा-जने त्रिक्खुत्तो संघ-मध्ये अनुप्राप्ता एतस्य वस्तुस्य प्रतिनिःसर्गाय न च प्रतिनिःसरसि। आम् भगवन्। भगवान् आह। दुष्कृतन् ते छन्दक-माते। नन्व् अहं छन्दक-माते अनेकपर्यायेण दौर्वचनस्यं गर्हामि दौर्वचनस्य -[अ]वर्ण-वादि तत्र नाम त्वं खरा-खक्खटं वामा अप्रदक्षिन-ग्राहिणी। नैषश् छन्दक-माते धर्मो। नैष विनयो नैतं शास्तुः शासनं। नैवं कर्तव्यं नैवं करणीयं। नैवं करोन्तीये वृद्धिर् भवति कुशलेषु धर्मेषु। एवं च दानि त्वं जानन्ती भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अनुवर्तसि। तेन हि न क्षमति जानन्ती भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतम् अनुवर्तितुं।

अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणी[यो] यावतिका भिक्षुणीयो कौशाम्बिनगरीम् उपनिश्राय विहरन्ति। यावच् छिक्षापदं प्रज्ञप्तं।

१३६. या पुन भिक्षुणीति उपसम्पन्ना। जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय आकारवन्तेन दर्शनेन आकारवन्तेन श्रवणेन। समग्रेण संघेनेति अव्यग्रेण। धर्म-विनयतो आपत्तीय अदर्शनेन आपत्तीय अप्रतिकर्मेण त्रयाणां दृष्टि-गतानाम् अप्रतिनिःसर्गेण। उत्क्षिप्तन् ति असंभोगम् कृतं।

अप्रतिकृतं ति अप्रत्योसारितं। अनुवर्तेया ति आमिष-संभोगेन वा धर्म-संभोगेन वा संभुञ्जेय।

सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया। एषो हि आर्ये भिक्षुः समग्रेण संघेन। पेयालं। यावत् तद् एव वस्तुं प्रतिगृह्णेय न प्रति[निः]सरेय यं तं उत्क्षिप्तकं भिक्षुम् अनुवर्तति।

सा भिक्षुणीति यथा छन्दक-माता। भिक्षुणीहीति संघेन महा-जनेन एकपुद्गलेन यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या इति त्रिक्खत्तो कुव्-एगे महा-जने त्रिक्खत्तो संघमध्ये। सा कुव्-एगे वक्तव्या। सत्यं त्वं इत्थं-नामे इत्थं-नामे भिक्षु-समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतम् अनुवर्तसि। आमो त्य् आह। सा दानि वक्तव्या। मा आर्ये इत्थं-नाम भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अनुवर्ताहि। यं खलु ते इत्थन्-नामे मित्राय करणीयं अर्थ-कामाय हितैषिनीय करोति। ते तं मित्रा एका वाचा अवशिष्टा प्रतिनिःसर न प्रतिनिःसरामीत्य् आह द्वितीयं तृतीयम् अपि। पेयालं। संघ-मध्ये पि त्रैवाचिकं यावत् तं वस्तुं प्रतिनिःसरेय इत्य् एतं कुशलं। नो च प्रतिनिःसरेय इयम् पि भिक्षुणी पाराजिका भवत्य् असम्वास्या।

पाराजिकेति पाराजिकाये आपत्तीये संकाशना प्रकाशना विवरणा विभजना उत्तानी-कर्मता प्रज्ञप्तिः।

१३७. सा एषा भिक्षुणी त्रिक्खत्तो कुव्-एगे समनुग्राहियमाणा समनुभाषियमाणा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिःसरति वाचायां विनयातिक्रमम् आसादयति। त्रिक्खत्तो महा-जने समनुग्राहियंआणा वा समनुभाषियमाणा वा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिस्सरति वाचायाम् वाचायाम् विनयातिक्रमम् आसादयति। संघ-मध्ये ज्ञप्तिम् अधिवासयति विनयातिक्रमम् आसादयति। प्रथमायाम् वाचायाम् अध्योरोपितायां विनयातिक्रमम् आसादयति। व्योरोपितायां थूल्ऽ-अच्चयम् आसादयति। द्वितीयायां वाचायाम् अध्योरोपितायां विनयातिक्रमम् आसादयति। व्योरोपितायां वाचायां थूल्ऽ-अच्चयम् आसादयति। तृतीयायां वाचायाम् अध्योरोपितायां थूल्ऽ-अच्चयम् आसादयति। व्योरोपितायां पाराजिका भवति। यदा पाराजिकाम् आपत्तिम् आपन्ना भवति। ये च कुव्-एगे महा-जने ये च संघमध्ये विनयातिक्रमाश् च थूल्ऽ-अत्ययाश् च सर्वे ते प्रतिप्रश्रं-भ्यन्ते एका आपत्तिर् गुरुका सन्थिहति। यद् इयं पाराजिका। अन्तरा प्रतिनिःसरति पञ्चा-स्थितासु आपत्तिषु कारापयितव्या। किन् ति दानि प्रतिनिःसर्गार्हं द्रष्टव्यं। किम् अप्रतिनिःसर्गार्हम् अभूषिसे(सि) इत्थन्-नामं भिक्षुं उत्क्षिप्तकम् अनुवर्तिष्यन् ति। नानुवार्तितं अनुवर्तामि अनुवर्तिष्यामि चेति एवं प्रतिनिःसर्गार्हं।

किन् ति दानि अप्रतिनिःसर्गार्हं अभूषिसि। इत्थन्-नामं भिक्षुम् उत्क्षिप्तकम् अनुवर्तिष्यन् ति। अनुवर्तितं दानि नानुवर्तामि अनुवर्तिष्यामि चेति एवम् अप्रतिनिःसर्गार्हं चेति एवम् अप्रतिनिःसार्गर्हं द्रष्टव्यं। तेन भगवान् आह।

या पुन भिक्षुणी जानन्ती भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तम् अप्रतिकृतम् अनुवर्तेय सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीय। एषो हि आर्ये भिक्षुः समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तो अप्रतिकृतो। मा एतं भिक्षुम् अनुवर्तेय। एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमाना तं वस्तुं प्रतिगृह्णेय। न प्रतिनिःसरेय सा भिक्षुनी भिक्षुणीहि यावत् तृतीयकम् समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय। या[वत्]तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरि(ए)य इत्य् एतं कुशलं। नो च प्रतिनिःसरि(ए)य इयम् पि भिक्षुणी पाराजिका भवत्य् असम्वास्या।

उद्दानं
मैथुनम् अदत्तादानं वधो
मृषा संसर्गो ऽष्ट-वस्तुका।
अवद्य-प्रतिच्छादिका
उत्क्षिप्तानुवर्तिका॥

प्रपूर्यते वर्गः। पाराजिकाः समाप्ताः।

संचरित्र

१३८. संचरित्र-कर्म यथा भिक्षूणां सर्वम् अन्वर्थं यावत् तेन भगवान् आह।

या पुन भिक्षुणी संचरित्रं समापद्येय स्त्रीमतम् वा पुरु-षस्योपसंहरेय पुरुषस्य वा मतं स्त्रियायोपसंहरेय जायत्ततेन वा जाव(र)त्ततेन वा अन्तमसतो तत्-क्षणीकानि पि अयं धर्मो प्रथमापत्तिको संघातिशेषो [(वा?)] उपादिशेषो संघो संघम् एवाधिपति कृत्य निःसरणीयो।

संघातिशेष-धर्म २

अमुलकः
द्वे अभूते तथैव कर्तव्या यथा भिक्षूणां। यावत् तेन भगवान् आह।

या पुन भिक्षुणी<ये> दुष्टाद् दोषात् कुपिता अनात्त-मना शुद्धां भिक्षुणीम् अन्-आपत्तिकां अमूलकेन पाराजिकेन धर्मेणानुध्वंसयो(ये) अप्य् एव नाम्ऽ एना(आं) ब्रह्मचर्यातो च्यावेयन् ति सा तद् अपरेण समयेन समनुग्राहियमाणे(णा) वा असमनुभाषियमाना वा अमूलकम् एतम् अधिकरणम् भवति भिक्षुणी च दोषे प्रतिष्ठिहति दोषा अवचामीति अयम् पि वर्गे प्रथमापत्तिको संघातिशेषो यावत्।

लेश-मात्रकं

तेन भगवान् आह।
या पुन भिक्षुणी दुष्टा दोषात् कुपिता अनात्त-मना अन्य-भागियस्य चाधिकरणस्य किञ्चि देष(शं) लेश-मात्रकं धर्मं उपादाय अपराजिकां भिक्षुणीं पाराजिकेन धर्मेणानुध्वंसये अप्य् एव नामैनां ब्रह्मचर्या च्याव(वे)यन् ति सा तद् अपरेण समयेन समनुग्राहियमाणा वासमनुभाषियमाना वा अन्य-भागीयम् एव तम् अधिकरणं भवति अन्य-भागीयस्य चाधिकरणस्य किञ्चि देष(श) लेशा(श)-मात्रको धर्मो उपादिन्नो भवति भिक्षुणी च दोषे प्रतिष्ठिहति दोषा अवचामीति सं[घा]तिशेषो।

संघातिशेष-धर्म ४

उस्सय-वादा

१३९.भगवाञ् छ्रावस्तीयं विहरति। तं[हि] दानि भिक्षुणीविहारो च तीर्थिक-शय्या च। क(कन्)थान्तरिका। <सा> सा कन्था पतिता। तंहि दानि भिक्षुणी-विहारे। स्थूल-नन्दा नाम भिक्षुणी आवासिकिनी। सा दान् आह। तीर्थिकाः (का) करोथैतां कन्थां। यूयं आह्रीक-अनपत्रा-पिणो ह्री-र्-अपत्राप्य निपन्नाः। आर्यमिश्रिकाः ह्री-र्-अपत्राप्य सम्पन्नाः काले च विकाले च मर्मां प्रविशन्तां निष्क्रामन्तां दृष्ट्वा भविष्यति चित्तस्योपक्लेशो। ते दान् आहंसुः। अयं वर्षा-रात्रो यदा वर्षा निर्गता भविष्यन्ति तदा करिष्यामः। सा दान् आह। इदानीम् एव करोथ। ते न कुर्वन्ति। सा दानि आक्रोशति भ्रष्टायुः(यूः) नष्टायुः(युः) भग्नाशा सुरा-भ्रष्टा [(यान)]-गर्दभाः(भा) न करिष्यथ। कथम् नग्नाः। आह्रीक-अनोपत्रापिणो ह्री-र्-अपत्राप्य विपन्ना मिथ्या-दृष्टिका विनिपातिताः। करोथैतां कन्थां। ते दान् आहंसुः इति-कितिकाय धीते व[ड]-डिङ्गर-पुष्टे श्रमणिको(के) यदि मरसि न करोम एतां कन्थां।

१४०. ताय दानि गत्वा आसने निवेदितं। एतद् एव सर्वम् आरोचयित्वाह दीर्घायु यथा सा कन्था क्रियते तथा करोथ। आसनिका श्राद्धा प्रसन्ना। ते दान् आहंसुः शब्दापयथ मिश्र-स्थान्। ते दानि शब्दापिताः। ते आसनिका आहंसुः। हे इति-कितिकाय पुत्राः तीर्थिनग्नाः सुरा-भ्रस्ताः(ष्टा) यान-गर्दभाः मिथ्यादृष्टीक विनिपातिताः। गच्छथ तां कन्थां करोथ। यूयम् अह्रीका अनोत्रापिणो आर्यमिश्रिका ह्री-र्-अपत्राप्य सम्पन्नाः। तेषां युष्माकं काले च विकाले च निष्क्रा[म] न्तां [(प्रविशन्तां)] दृष्ट्वा आर्यमिश्रिकाणां ब्रह्मचारिणीनां भविष्यति चित्तस्यान्यथात्वं तेहि दानि आसनिकेहि नियुक्ताः अकामका कार्यन्ते। ते दिवसतो कन्थाम् उत्थापयन्ति। रात्रौ च वर्षेण पातीयति। तेषां दानि त्रे-मासं कर्म कुर्वन्तानां गतं। ते दान् आहंसुः। इमाय इतिकितिकाय धीतरे वड-डिङ्गर-पुष्टाय श्रमणिकाय मृत्तिका-कर्म करियामः। उपासक-कुलेहि अवध्यायन्ति पश्यथ गृह-पतयो युष्माकं दक्षिणीय श्रमणिकाय अस्ति मे चलन् ति कृत्वा त्रे-मासं अकामका कर्म कारापितां (ता)। एतं प्रकरणं उपासका कुलोपिकानां भिक्षुणीनाम् आरोचयन्ति। भिक्षुणीयो पि महाप्रजापतीये गौतमीये आरोचयन्ति। महाप्रजापती गौतमी भगवतो आरोचयति। भगवान् आह। शब्दापयथ नन्दां। सा दानि शब्दापिता। सत्यन् नन्दे ति। पेयालं। यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी उत्सव(य)-वादा विहरेया आगारिक-परिव्राजकेहि दिवसम् वा मुहूर्तम् वा अन्तमसतो आरामिक-श्रमण्ऽ-उद्देशेहि सार्धम् अयम् पि धर्मो प्रथमापत्तिको।

या पुनर् भिक्षुणीति उपसम्पन्ना। उत्सद(य)-वादा विहरेया ति कलहं करेय। आगरिकेहीति गृहिकेहि। परिव्राजिकेहीति गौतम-जटिलक-पर्यन्तेहि। दिवसं ति सुर्याकं दिवसं। मुहूर्तं ति तत्-क्षणं तन्-मुहूर्तं। अन्तमसतो आरामिकेहीति संघोपस्थायकेहि। श्रमण्ऽ उद्देशकेहीति पञ्च-दश-वर्षान् उपादाय यत सप्ततिकाः। सार्धम् विहरेय। अयम् पि धर्म प्रथमापत्तिको संघातिशेषो।

संघो ता नाम वुच्चन्ति अष्ट पाराजिका धर्माः। तेषाम् इयम् आपत्तिः सावशेषा स-प्रतिकर्मा। संघातिशेषन् ति संघातिशेषाये आपत्तीये संकाषना प्रकाशना विवरणा विभजना उत्तानी-कर्मता प्रज्ञप्तिः।

सा एषा भिक्षुणी राजा-कुले वा आसने वा निवेदयति थूल्ऽ-अच्चयं। आकार्षापयति संघातिशेषः। उपासक-कुले वा श्राद्ध-कुले वा निवेदयति विनयातिक्रमः। उज्झापयति सम्वर-गामि-नि(वि)। भिक्षुर् अपि राजकुले निवेदयति विनयातिक्रमम् आसादयति। ओज्झापयति सम्वर-गामि-वि। तेन भगवान् आह।

या पुन भिक्षुणी उत्सद(य)-वादा विहरेय आगारिक-परिव्राजकेहि दिवसम् वा मुहूर्तम् वा अन्तमसतो आरामिक-श्रमण्ऽ-उद्देशेहि सार्धम् आपत्तिः धर्मो प्रथमापत्तिको॥

संघातिशेष-धर्म ५
ग्रामान्तरं

१४१. भगवां च्छ्रावस्तीयम् विहरति। तंहि दानि राष्ट्रा नाम भिक्षुणी। तस्या एव राष्ट्रपाला नाम भगिनी कु-ग्रामके वूढा। सा तावद् अन्-अज्जिका। सा प्रेषयति। आर्ये राष्ट्रे आगच्छ यदि माम् इच्छसि जीवन्तीं पश्यितुं। सा तहिं गता। सा च काल-गता। सो दानि भगिनी-पतिको परिदेवति। आर्ये राष्ट्रे यन् ते भगिनी काल-गता का तावद् इयं (मं) दारकं परिहरिष्यति का तावद् इमं मम गृहं प्रतिजागरिष्यति। आर्याय राष्ट्राय वयं प्रतिजागृतव्याः। ताये दानि भवति पापकाः खलु वाता वायन्तीति। सा निष्क्रमित्वा स्रावस्तीम् आगता। सा भिक्षुणीनाम् आह। आर्यमिश्रिकायो मनास्मि ब्रह्मचर्यातो च्याविता। आहंसुः। किम् वा कथम् वा। एतद् एव विस्तरेणारोचयति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयन्ति। महाप्रजापती पि गौतमी भगवत आरोचयति। भगवान् आह। शब्दापयथ राष्ट्रां। सा दानि शब्दापिता। तद् एव सर्वं विस्तरेण पृच्छीयते। यावद् आम् भगवन्। भगवान् आह। एवं च नाम त्वं भिक्षुणीय विना अध्वान-मार्गं प्रतिपद्यसि। तेन हि न क्षमति यावच् छिक्षापदं प्रज्ञप्तं।

१४२. एषा एवार्थोत्पत्तिः। भिक्षुणीयो अध्वान-मार्गं गच्छन्ति। अपरा दानि भिक्षुनी प्रासादिका दर्शनीया तरुणी उच्छ्वासकारी वा प्रश्वास-कारि वा मार्गातो उत्क्रमित्वा उपविष्टा। पुरुष-सार्थो च आगच्छति। सा तेहि परिवारिता। ते दान् आहंसुः। आर्या प्रासादिका दर्शनीया तरुणी प्रत्यग्र-यौवने वर्तसि। कामाः। परिभोक्तव्याः। सा त्वं किं प्रव्रजिता। को वा ते निर्वेद इति। आह। प्रव्रजितास्मि।

आहंसुः। आचक्ष्व तावत् यावत् ते तद् अनन्तरं परिवारिय धारेन्ति। तावत् तायो भिक्षुणीयो ग्रामान्तरङ् गताः। ताये दानि कौकृत्यम् उत्पन्नं। सा महाप्रजापतीये गौतमीये आरोचयति। महाप्रजापती गौतमी भगवत आरोचयति। भगवान् आह। तेन हि आपत्तिः अकामिकायेति।

१४३. एषैवार्थोत्पत्तिः। भिक्षुणीयो अध्वान-मार्गं गच्छन्ति। अपरा दानि भिक्षुणी ग्लाना। सा विना भिक्षुणीहि ग्रामान्तरम् उत्क्रान्त। ताये दानि कौकृत्यं [कृतं] कौकृत्येन महाप्रजापतीये आरोचयति। महाप्रजापती गौतमी भगवत आरोचयति। भगवान् आह। अनापत्तिः ग्लानायेति। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातये(य) गौतमीति। पेयालं।

या पुन भिक्षुणी भिक्षुणीय विना अध्वान-मार्गं प्रतिपद्येय अन्तमसतो ग्रामान्तरम् पि अन्यत्र-समये तत्रायं समयो अकामिका भिक्षुणी भवति ग्लानिका वा। अयम् अत्र समयो। अयम् पि धर्मो प्रथमापत्तिको।

या पुन भिक्षुणीति। पेयालं। भिक्षुणीय विनेति अ-द्वितीया। अध्वान-मार्ग त्रि-योजनं द्वि-योजनम् त्रि-योजनम्। अन्तमसतो ग्रामान्तरम् वा। अकामिका ति हस्ति- कडेवरेण अश्व-कडेवरेण गो-कडेवरेण वा मनुष्य-कडेवरेण वा आवृता भवति। ग्लानिकेति जरा-दुर्बला वा व्याधि-दुर्बला वा भवति। प्रत्युद्धृतं भगवता पदं अन्-आपत्ती ग्लानाय। अयम् अत्र समयो। एता दानि भिक्षुणीयो अध्वान-मार्गङ् गच्छन्ति यावता अन्तो-सीमाङ् गच्छन्ति किञ्चापि दूरं दूरं गच्छन्ति अनापत्तिः। अथ दानि ग्रामान्तरम् वा नगरान्तरम् वा गच्छन्ति कान्तार-मार्गम् वा अतिक्रामन्ति। अन्तो हस्त-पाश-स्थिताहि अतिक्रामितव्यं। परं हस्त-पाशं गच्छन्ति। अन्तमसतो चतुर्-अङ्गुलम् पि देशनागामि-विनयातिक्रमम् आसादयति। अध्यर्धम् वा द्वि-हस्तम् वा गच्छन्ति थूल्ऽ-अच्चयम् आसादयति। अथ दानि एका भिक्षुनी आगत्वा सीमान्तरे तिष्ठति थूल्ऽ-अच्चयम् आसादयति। अपरा आगत्वा अतिक्रामति इमं सीमान्तरन् ति एवं यत्तिका अतिक्रामन्ति सर्वासां थूल्ऽ-अच्चयं। तेन भगवान् आह।

या पुन भिक्षुणी भिक्षुणीय विना अध्वान-मार्गं प्रतिपद्येय अन्तमसतो ग्रामान्तरम् पि अन्यत्र-समये। तत्रायं समयो अकामिका भिक्षुणी भवति। ग्लानिका वा। अयम् अत्र समयो। अयम् पि धर्मो प्रथमापत्तिको।

ग्रामान्तरं एक-रात्रं पि

१४४. भगवान् राजगृहे विहरति। तत्र दानि कर्मकार-पुत्रः श्रद्धा-प्रसन्नः। तस्य भार्या शुक्ला नाम कर्मार-धीता प्रासादिका दर्शनीया। अथ भगवान् कालस्यैव निवासयित्वा पात्र-चीवरम् आदाय राजगृहं पिण्डाय प्रविष्तः। सावदानम् पिण्डाय चरन्तो तस्य गृहं गतो उद्देशे स्थितः। सो दानि भुञ्जति। सा परिविशन्ती आवृत्य स्थिता। मा भगवन्तम् दृष्ट्वा विप्रकृत उत्थास्यतीति। तस्य दानि भवति किन् तावद् इयम् आवृत्य तिष्ठति। भगवता पि वैनेय-वशेन प्रभा ते उत्सृष्टा। तेन चावलोकितं। तेन भगवान् दृष्टो। सो दान् आह। अये हि अस्ति नाम त्वं मम भगवन्तम् आवारयसि। अन्-अर्थकामा त्वं। मम न त्वम् अर्थ-कामा। सा दान् आह नाहम् आर्य-पुत्रस्य अन्-अर्थ-कामा। भगवन्तम् आराधयामि। अपि तु मा विप्रकृतो भगवन्तम् दृष्ट्वा उत्थास्यसीति। ताये दानि भवति धिग् अस्तु मम गृहावासस्य। यत्र हि नाम प्रियं करिष्यामीति। अप्रियम् उक्ता। सा दान् आह आर्य-पुत्र गच्छाम्य् अहं। पर्व्रजामि। सो दान् आह। कस्मिन् प्रवचने। आह। बौद्धे। आह। प्रव्रजाहीति।

१४५. सा दानि उत्पलवर्णाय प्रव्रजिता उपसम्पादिता। ताय दानि अष्टाहेन प्रव्रजिताय युंजन्तीय व्यटयन्तीय व्यासयन्तीय तिस्रो विद्याः षड्-अभिज्ञाः। बल-वशी-भावः साक्षी-कृतो। सा दानि बल-वशी-भाव-प्राप्ता। अन्यतरं वृक्ष-मूलं निश्रयोपनिषण्ण(न्ना)। ताये दानि शक्रो ऽमर-संघ-परिवृत्तो पाद-वन्दो आगतो। आह।

इमां पश्यथ धर्म-स्थां
शुक्लां कर्मार-धीतरं।
अद्य अष्टाह-प्रव्रजिता
कृत-कृत्या निर्-आश्रवा॥[1]॥

सुविनीता उत्पलवर्णाय
(सुविनीतोत्पलवर्णा)
मार्गे आर्य प्रविशते।
त्रै-विद्या ऋद्धि[च] प्राप्ता
चेतोपर्याय-कोविदा॥[2]॥

महर्द्धिका भिक्षुणी ता
विजितेन्द्रियाणि
(विजिता इन्द्रियाणी च )।
नि[षन्ना] वृक्ष-तलंमि
अनिञ्जेन समाधिना॥ [3]॥

तां शक्रो ऽमर-संघेन
उपसंक्रम्य वासवो।
नमस्यति प्राञ्जली-भूतो
(नमस्यत्य् अञ्जली-भूतो)
शुक्लां कर्मार-धीतरं॥ [4]॥

सा मधुर-भाषिणी गृहेण गृहं नीयते। अपरेण दानि उपासकेन महार्हेण पटेन छादिता। अन्तरीक्षाद् देवता वाचं निश्चारयन्ति।

लक्ष्मीवान् अयम् उपासको
पुण्यम् प्रभूतम् अन्-अल्पकं।
सर्व-ग्रन्थ-प्रहीणाये
शुक्लाये अदासि चीवरं॥ [5]॥

किं राजगृहे मनुष्या
मधु-मत्तावतिष्ठन्ति।
ये शुक्लान् न पर्युपासन्ति
दैवसिकान् धर्मान् उत्तमा॥[6]॥

[तं] आसेचनकं [शान्तं]
ते वै अप्रतिवाणीयं।
आज्ञेय-रूपो विज्ञेहि
बालेहि अविजानी(नि)यो॥[7]॥

सा दानि गृहेण गृहं भाषणाय नीयति। ताये दानि लाभ-सत्कार-श्लोको ऽभ्युद्गतः। ताये दानि भिक्षुणीयो इर्ष्यापत्तिः। लाभ-सत्-कारम् असहमाना ता दान् आहंसुः। भञ्जनं एताय कृतं। ततो ऽस्याः सर्वो जनकायो श्रोतव्यं श्रद्धातव्यम् मन्यति। तायो दानि भगवतो अल्लीना। एताय भगवन् जम्भनं साधितं। भगवान् आह। सत्यं शुक्ले एवं नाम त्वया जम्भनं शा(सा)धितं। तेन ते जनो श्रोतव्यं मन्यति। आह। अहं भगवान् जम्भनं न जानामि। कुतो जम्भनं साधयि ष्यामि। भगवान् आह। न एताय जम्भनं साधितं। अपि तु अस्याः प्रणिधानं इदं।

१४६. भूत-पूर्वम् अतीते ऽध्वानं नगरे वाराणसीयं भगवति काश्यपे तत्र दानि राजा कृकी नामाभूत्। तस्य सप्त धीतरो अभूषि।

श्रमणा [1] श्रमणिमित्रा [2]
भिक्षुणी[3] भिक्षुणीदासिका[4]।
धर्मा चैव[5] सुधर्मा च[6]
संघदासी च सप्तमा [7]॥ [1]॥

चतुर्दशीम् पञ्चदशीं
या च पक्षस्य अष्टमी।
प्रातिहारक-पक्षञ् च
अष्टाङ्गं सु-समाहिता॥ [2]॥

पोषधम् उपोषधन् ति
सदा शिलेन संवृता॥
काशिनाञ् च मनापो आसि
भद्रको नाम मानवो॥ [3]॥

कुशलो नृत्त- गीतस्मिं
तन्त्री-नृत्त-प्रबोधने।
क्रीडायेति रमायेति
जनन् तत्र समागतं॥[4]॥

तं च काल-गतं ज्ञात्वा
सर्वास् ताः सप्त कुमारियो।
प्रासादिका दर्शनीयाः
राज -कन्याः समागताः॥[5]॥

राजानम् उपसंक्रम्य
इदं वचनम् अब्रवीत्॥[6]॥

आपृच्छाम वयं तात
कशीनां राष्ट्र-वर्धन।
अनुजानातु मो देव
श्मशानं यामं प्रेक्षितुम्॥ [7]॥

अद्य पञ्च-दशी देव
दिव्या नक्षत्र -मालिनी।
अनुजानातु मो नाथ
श्मशानं यामं पश्यितुं॥[8]॥

उत्रासो (स)न-भीषणके
दुर्गन्धे लोम-हर्षणे।
आरोदने मनुष्यानां
श्मशाने किं करिष्यथ॥ [9]॥

यत्र भे अपेत-विज्ञाना
पर-भक्षा अचेतना।
अपविद्धा मृता शेन्ति
श्मशाने बहु-भीषणे॥[10]॥

यत्र गृध्रा शृगालाश् च
काकोलूकास् तथा वृकाः।
अङ्ग-म्-अङ्गानि खादन्ति
श्मशाने बहु-भीषणे॥ [11]॥

< यत्र गृध्रा शृगालाश् च
काकोलूकास् तथा वृकाः>।
अस्त्रान् आदाय गच्छन्ति
श्मशाने किं करिष्यथ॥ [12]॥

यत्र अस्थीनि दृश्यन्ते
विक्षिप्तानि दिशो-दिशं।
तिष्ठन्ति शंख-वर्णानि
श्मशाने किं करिष्यथ॥[13]॥

शूलायुतानि दृश्यन्ते
अशुचि खेट-गन्धिका।
केशानाम् आकरे रौद्रे
श्मशाने किं करिष्यथ॥ [14]॥

धूर्ता-चारिक-विकीर्णे
चौर-व्याल-निषेविते।
दुर्मनुष्यान आवासे
श्मशाने बहु-भीषणे॥ [15]॥

अमनुष्यान आवासे
राक्षसानान् निवेशने।
सर्व-प्रेतान आवासे।
श्मशाने बहु-भीषणे॥[16]॥

ते सुकुमाल्याभरणा
मणि-केयूर-धारिणो।
बाहं प्रगृह्य क्रन्दन्ति
श्मशाने बहु-भीषणे॥ [17]॥

ते सुकुमाल्याभरणा
मणि-केयूर-धारिनो।
केशा प्रकीर्य क्रन्दन्ति
श्मशाने भय-भैरवे॥[18]॥

यत्र माता पिता भ्राता
भगिनी -ज्ञाति-बान्धवाः।
दुर्मना यत्र निवर्तन्ते
श्मशाने भय-भयानके॥ [19]॥

यत्र माता पिता भ्राता
भगिनी-ज्ञाति-बान्धवाः।
अन्-आपृच्छति वर्तन्ते
श्मशाने ऽतिभयानके॥ [20]॥

पाणिय हाह निर्घोषे
ज्ञातीनां परिदेवने।
पूति-विकन्थिते घोरे
श्मशाने ऽतिभयानके॥ [21]॥

व्यजनी-ताल-वृन्तानि
विक्षिप्तितानि(विक्षिप्तानि)दिशो-दिशं।
चिता-धूमाकुले रौद्रे
श्मशाने किं करिष्यथ॥ [22]॥

अयं प्रासाद-वरो
कूटागारो सुनिर्मितो। [22a]

यत्र अन्नञ् च पानञ् च
रतीयो च उपस्थिताः।
अत्र [रमथ] कन्यायो
श्मशाने किं करिष्यथ॥ [23]॥

इमां पुष्किरिणीं रम्यां
चक्रवाकोपशोभितां।
पुण्डरीकैः सु-संछन्नां
कुमुद-सौगन्धिकेहि च॥ [24]॥

नाना-द्विज-गणाकीर्णा
नाना -स्वर-निकूजिताः।
अत्र रमथ कन्यायो
श्मशाने किं करिष्यथ॥ [25]॥

कुमार्यो आहंसुः।
वयम् अपि (वयं पि ) तात जानामो
श्मशाने भय-भैरवे
दुर्गन्धं कुणपं चैव
कोविदारं च पुष्पितं॥ [1]॥

वयम् अपि तातं जहिष्यामो
ततो ऽप्य् अस्मां जहिष्यति।
नाना-भावो विना भावो
न चिरेण भविष्यति॥ [2]॥

राजा आह।
दुःख-संज्ञा कुमारीयो
[.........................]।
अवव्याब(बा)ध्येन चित्तेन
प्रविशेषातिमुक्तकं॥ [3]॥

अनुज्ञाता कृकिणा राज्ञे(ज्ञा)
निर्याताः काशीनां पुरात्।
सर्वास् ताः रथम् आरुह्य
गताः श्मशान-प्रेक्षिकाः॥ [4]॥

तायो अद्ध(द्द)शंसु मार्गस्मिं
[उत्सृष्टं ?] उज्झितं शवं।
दुर्गन्धिम् असु(शु)चिं [------]
विधवस्तञ् च विनीलकं॥ [5]॥

तायो यानाद् अवतरित्वान सर्वाः सप्त कुमारियो
समन्तात् परिवारेत्वा इदम् वचनम् अब्रवीत्।
सर्वासां वो अयन् धर्मः
सर्वीषा एष धर्मताः (ता)।
एष अस्य शरीरस्य
सर्वा गाथां करोमहे॥ [6]॥

अयम् पुरा चन्दन-लिप्त-गात्रो
अवदाता-वस्त्रो वशितानुचारि।
छायं कुलञ् च अवेक्षमानो सो
खज्जते शिवपथिकाय मध्ये॥ [7]॥

अस्थि-कङ्काल-नगरं
मांस-शोणित-लेपनं।
यत्र रागस्य दोषस्य
मोहस्यापि समूह यः॥ [8]॥

इमम् नगरम् उत्सृज्य
नागरीशो कहिं गतः॥ [9]॥

यो द्वि-चक्रं द्वि-अरञ् च
इमं परिहरेद् रथं।
इमं रथं समुत्सृज्य
शारथी सो कहिं गतः॥ [10]॥

ऊर्ध्व-शाखम् अधो मूलं
य इमं परिहरे ध्वजं।
इमं ध्वजं समुत्सृज्य
धवज-हारो सो कहिं गतः॥[11]॥

य इमं परिहरेत् कायं
अश्वं भद्रम् च वाणिजो।
इमं कायं समुत्सृज्य
वाणिजो सो कहिं गतः॥[12]॥

य इमां परिहरेन् नावं
अस्मिमाने महार्णवे।
इमान् नावं समुत्सृज्य
नाविको शो(सो) कहिं गतः॥ [13]॥

[यो] इयम् (ऽयम्) अस्मिन् अ (आ)गारे
वासं कल्पेय अध्वगः।
इमम् आगारं समुत्सृज्य
अध्वगो शो (सो) कहिं गतः॥ [१४]॥

मम गाथा सुभणिता
मम गाथा सुभणिता।
ता अन्योन्यं विव[र्त]न्ति
श्मशाने अतिमुक्तके॥ [15]॥

ततश् च मघवान् छक्रो
देव-राजः शची-पतिः।
सम्वेग-जातास् ताः कन्याः
दृष्ट्वा [ता] उपसंक्रमेत्॥ [16]॥

सर्वासां वो सुभाषितं
सर्वासां वो सुभणितं।
वरं वरेथ कन्यायो
यत् किञ्चिन् मनसेप्सितं॥ [17]॥

को नु दिव्येन वर्णेन
अन्तरीक्षस्मि तिष्ठति।
को वा त्वं कस्य वा पुत्रः
कथं जानाम ते वयं॥ [18]॥

अहं शक्रः सहस्राक्षो
मघवान् देव-कुञ्जरः।
यां देव-संघा वन्दन्ति
सुधर्मायां स[मा]गताः॥ [19]॥

अहं शक्रः सहस्राक्षो
देव-राजा शची-पतिः।
वरं वरेथ कन्यायो
यत् किञ्चिन् मनसेप्सितं॥ [20]॥

शक्रश् च वो वरं दद्यात्
त्रयस्त्रिंशेश्वरः प्रभूः।
वरं वरेथ कन्यायो
क्षिप्रं व्याहरतो मम॥ [21]॥

१४८. कुमार्यो आहंसुः।
यस्य मूले छविर् नास्ति
पत्रन् नास्ति कुतो लता।
यो धीरो बन्द(न्ध)नान् मुक्तः
तन् मे शक्र वरं दद॥ [1]॥

पांसु- कूल-धरं भिक्षुं
कृशन् धर्म-निमन्त्र(त्रि) तं।
ध्यायन्तं वृक्ष-मूलस्मि
तन् मे शक्र वरं दद॥ [2]॥

यस्य रागश् च दोषश् च
अविद्या च प्रदालिता।
क्षीणास्रवम् अर्हन्तं ()
तन् मे शक्र वरं दद॥[3]॥

यस्य शैलोपमं चित्तं
स्थितन् नानु(न अनु) कम्पति।
यो विमुक्तिं संजानेया
तन् मे शक्र वरं दद॥ [4]॥

यस्या उरे च पारे च
मध्ये नास्ति न किञ्चन।
अकिञ्चनम् अदानं [च]
तन् मे शक्र वरं दद॥ [5]॥

वारि पुष्कर-पत्रे वा
आराग्रे इव सर्षपः।
यो न लिप्यति कामेषु
तन् मे शक्र वरं दद॥ [6]॥

बहु-श्रुतं चित्र-कथं
बुद्धस्य परिचारकं।
पर्ण-भार-विसंयुक्तं
तन् मे शक्र वरं दद॥ [7]॥

शक्र आह।
नाहम् अर्हन्तम् ईशेमि
नाहम् अर्हन्तेषु(ष्व्) ईश्वरः।
अन्यं वरेथ कन्यायो
अपि चन्द्रम-सू[र्य]योः॥[8]॥

कुमार्यो आहुः।
अस्वामिको स्वामि-कामो
अवरं वर-दायको।
अश्वा(स्वा)मिको वरं दत्त्वा
कथं शक्र करिष्यसि॥[9]॥

उभौ कूलौ असंप्राप्तः
अतीर्थे प्रतरेन् नदीम्।
एष शक्र विषण्णो सि
पण्के-वासि जरद्-गवः॥[10]॥

शक्र आह।
उपासिका वो कन्यायो
अपि च [ये] उपासको (का)।
धर्मेण वो अहं भ्राता
अनुजानामि वो वरं॥[11]॥

कुमार्यो आहंसुः।
नैव ते शक्र याचामो
नापि उन्नोदयाम ते।
स्वयम् एव शक्र जानाहि
किं वरेण कुमारिणां॥[12]॥

१४९.अथ भगवान् तासां भिक्षुणीनां पूर्वे निवास-प्रतिसंयुक्तां प्रतिज्ञा-कथां व्याकार्षीत्।

कदाहं वीणां वा मधुरां
सप्त-तन्त्री-युतां मनोरमाम्।
धर्मं प्रव्याहरिष्यामि
तत् कदा नु भविष्यति॥ [1]॥

समन्वाहरसि शुक्ले। एवं ह्य् एतद् भगवन्। एषापि तत्रैवासि। एताये प्रणिधानम् अभूषि। अपरापि तत्रैवासि। ताम् अपि भगवन् (वान्) व्याकार्षीत्।

कदाहं गङ्गा-यमुनाय
च पाताल-पथोदकं।
अमज्जमाना गमिष्याम
तत् कदा नु भविष्यति॥ [2]॥

समन्वाहरस्य् उत्पलवर्णे। एवं ह्य् एतद् भगवन् एषापि तत्रैवासि। एतस्याप्य् एतं प्रा(प्र)णिधानम् अभूषि। अपरापि तत्रैवासि। ताम् अपि भगवान् व्याकार्षीत्।

कदाहं पांसु-कुलानि
संहरित्वा म[या] पथे।
संघाटीं कृत्वा धारयिष्यं
तत् कदा नु भविष्यति॥[3]॥

कदाहं गिरि-दुर्गेषु
प्रहीण-भय-भैरवा।
चित्तं ऋजं(जुं) करिष्यामि
तत् कदा नु भविष्यति॥[4]॥

समन्वाहरसि पटच्चरे। एवम् ह्य् एतद् भगवन्। एषापि तत्रैवासि। एतस्याप्य् एतं प्रणिधानम् अभूषि। अपरापि तत्रैवासि। ताम् अपि भगवान् व्याकार्षीत्।

कदाहं मुण्डकं शीर्षं
क्षुर-धारा-निषेवितं।
पाणिना परिमार्जिष्यं
तत् कदा नु भविष्यति॥[5]॥

कदाहं हेमन्तिकां रात्रिं
ओवृष्ट-आर्द्र-चिवरा।
पिण्डपातं चरिष्यामि
कदा नस् तद् भविष्यति॥[6]॥

समन्वाहरसि कृश-गौतमि। एवम् एतद् भगवन्। एषापि तत्रैवासि। एतस्या प्रेतं प्रणिधानम् अभूषि। अपरापि तत्रैवासि। ताम् अपि भगवान् व्याकार्षीत्।

कदाहं तारक-राजा व ()
नक्षत्र-परिवारिता।
संघं परिहरिष्यामि
तत् कदा नु भविष्यति॥[7]॥

कदाहं चन्द्रो च विमलो
विप्रसन्नो अनाविलो।
शुद्धं चित्तं अधिष्ठिहिष्यं
तत् कदा नु भविष्यति॥[8]॥

समन्वाहरसि महाप्रजापति। एवं ह्य् एतद् भगवन्। एषापि तत्रैवासि। एतस्याप्य् एतत् प्रणिधानम् अभूषि। अपरापि तत्रैवासि। ताम् भगवान् व्याकार्षीत्।

कदाहं विहारं शरण्यं
[.......] साधु निष्ठितं।
संघे दानानि दास्यामि
तत् कदा नु भविष्यति॥[9]॥

कदाहं मञ्चम् वा पीठम् वा
बिसि चतुर्-अस्रकाणि वा।
संघे दानानि दास्यामि
तत् कदा नु भविष्यति॥[10]॥

कदाहं कासिकं वस्त्रं
क्षौम-कोटुम्बकानि च।
संघे दानानि दास्यामि
तत् कदा नु भविष्यति॥[11]॥

कदाहं सुम्भकं पात्रं
सुकृतं साधु निष्ठितं।
संघे दानानि दास्यामि
तत् कदा नु भविष्यति॥[12]॥

कदाहं विविधान् भक्षान्
नाना-रसानुसेवितान्।
संघे दानानि दास्यामि
तत् कदा नु भविष्यति॥[13]॥

कदाहं शालिनाम् ओदनं
शुचि-मांसोपसेवनं।
संघे दानानि दास्यामि
तत् कदा नु भविष्यति॥[14]॥

१५०. तत्र तासां भिक्षुणीनां चक्षुर् गोचरं नास्ति। यां जानेसुः। तायो आहंसुः। का पुन सा भगवन् आसि। भगवान् आह। विशाखा मृगार-माता।

तेन कालेन तेन समयेन अपरा ह्य् एता भिक्षुणीयो कृकिणो राज्ञः सप्त धीतरो अभूषि। अथ शुक्ला भिक्षुणी गृहेण गृहं भाषणाय नीयति। सा दानि अपरेण गृह-भाषणाय नीता भिक्षुणीहि विप्रवुस्ता। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः महाप्रजापती गौतमी भगवतो आरोचयति। भगवान् आह। शब्दापयथ शुक्लां। सा दानि शब्दापिता। भगवान्। आह। सत्यं शुक्ले। एवं नाम त्वं भिक्षुणीभिर् विना विप्रवससि। तेन हि न क्षमति भिक्षुणीहि विना विप्रवसितुं एकां रात्रिम् पि।

१५१. एषैवार्थोत्पत्तिः। भगवाञ् छ्रावस्तीयं विहरति। विस्तरेण निदानं कृत्वा। भिक्षुणी[यो] दानि अध्वानं गच्छन्ति। तहिन् दानि अपरा भिक्षुणी जरा-दुर्बला व्याधि-दुर्बला सार्थात् परिहीणा। सा रात्रिं विप्रवुस्ता। ताय दानि कौकृत्यं [कृतं]। कौकृत्येन भिक्षुणीनां विस्तरेणारोचयति। यावत् महाप्रजापती पि गौतमी भगवतो आरोचयति। भगवान् आह। तेन हि अन्-आपत्तिः ग्लानाय।

१५२. एषैवार्थोत्पत्तिः। भगवान् श्रावस्तीयं विहरति। विस्तरेण निदानं कृत्वा। कापिलवास्तव्येहि शाकियेहि संस्थागारः कारापितः। न चो अचिरनिष्ठितः। तेहि दानि तहिं रक्ष-पालाः स्थापिताः। न कस्यचित् प्रवेशो दातव्यो ति भगवान् प्रथमं परिभोक्ष्यति। पश्चाद् वयं परिभोक्ष्यामो ति। अथ राज्ञः प्रसेनजितः कोशलस्य पुत्रो विरूप(ढ)को नाम कुमारः कपिलवस्तुं गतको मातुलानाम् अन्तिके शिक्षामाणाय। सो दानि तेहि रक्षपालेहि प्रमत्तेहि संस्थागारं प्रविष्टः क्रीडनाय। सो दानि तेहि रक्षपालेहि अन्येहि च शाकियेहि दृष्टो। ते दानि रुषिता इति-कितिकाय पुत्र दासी-पुत्र कहिं प्रविष्टो ऽसि ति। ओचपेटितः। एकेन हस्तेन बाहायां गृहीत्वा द्वितीयेन हस्तेन ग्रीवायां संस्थागाराद् बहिश् छोरितः। विरूढको उत्कण्ठितः। तं दानि तेहि शाकियेहि संस्थागार पुरुष-मात्रा-भूमिं खानापयित्वा नवेन पांसुना पूरयित्वा गन्धोदकेन सिक्तः। विरूढकेन श्रुतं। स सुतरां रुषितः। आघात-चित्तम् उत्पादितवान्। यद्य् अहं राज्यं प्रतिलभेयं शाकियानां निधनं करिष्ये। सो दानि श्रावस्तीयम् आगतः। तस्य दुःखशायी नाम बटुकः सेवको। सो दानि तस्याह। यदाहं राज्ये प्रतिष्ठितो भवेयं तदा मे स्मारयिष्यसि शाकियानाम् अन्तम् गमिष्यं। रात्रि त्रिवन्तम् एव वैरम् अनुविचितयति। कदाचि दानि राजा प्रसेनजित् कोशलो उद्यान-भूमिन् निर्गतः। तञ् च विरूढके[न] नगर-द्वारं बन्धापितं। शंखा आध्मास्यन्ति घुष्यति(न्ति)। विरूढको राजा विरूढकस्य राज्यम् इति। राजा प्रसेनजित् कोशलो न भूयः प्रवेशं लभति। विरूढकेनामात्यानां दूतो प्रचितो। यस्य भवन्तो गृहेणार्थः पुत्र-दारेण चार्थः स प्रविशतु नगरं। एवम् अक्रियमाणे युष्माकं पुत्र-दारं व्यसनम् आपादयिष्यामीति। अमात्या राजानं पृच्छन्ति। किम् आज्ञापयति देवो युध्यामः। राजा ब्रवीति। मा युध्यन्तु भवन्तः। इदानिम् वा पश्चाद् वा एतस्यैव एतं राज्यं गच्छथ। एतस्यैव आजानथ। मा पश्चाद् युष्माकं दुःखं उत्पादयिष्यति। ते एक-द्वि-काय नगरं प्रविष्टाः। राजा दानि आत्म-तृतीयो, उद्यान-भूमीयं संस्थितो पानीयपालो मल्ली च राजा दृष्ट-सत्यो न परितस्यति। वस्तु विस्तरेण कर्तव्यं। यावत् विरूढको मात्यान् आमन्त्रयति। यो दानि भणे राजानं क्षत्रियं जुगुप्सेय तस्य किं दण्डः। आमात्या आहंसुः। वधो महाराज। राज आह। पूर्वम् अहं कुमार-भूतः शाकियानां संस्थागारं प्रविष्टः तेहि मम जुगुप्साय संस्थागारं पुरुष-संस्थागारं पुरुष-मात्रं खानापयित्व पांसुना पूरयित्वा क्षीर-गन्धोदकेन भित्तियो तायो [धोवितायो?] मया तेषां वैरं प्रतिकर्तव्यं यदि भगवांस् तेषां नानुकम्पति। अथ भगवान् अनुकम्पति। नाहं शक्ष्यामि किञ्चित् प्रतिकर्तुं। आमात्या आहंसुः। श्रूयते महाराज। श्रमणो गौतमो वीत-रागः। वीत-रागश् च ज्ञातीनां निर्-अपेक्षा भवन्ति। उद्युज्यन्तु महाराज। शक्ष्याम वयं तेषां निग्रहीतुं। भगवान् दानि विरूढकस्य इमम् एवं रूपं चेतः परिवितर्कम् आज्ञाय कालसै(स्यै)व विनाशयित्वा(निवासयित्वा) पात्रचीवरम् आदाय श्रावस्तीये नगरे(रीये) पिण्डाय चरित्वा अन्यतरं शाखोड(ट)-वृक्षं निश्राय निषीदति स्म। अथ खलु राजा विरूढको चतुर्-अङ्ग-बल-कायं सन्नाहयित्वा हस्ति-कायं अश्व-कायं रथ-कायं पत्ति-कायं श्रावस्त्यां नगर्यां निर्याति कपिलवस्तुं नगरं संप्रस्थितः। अद्राक्षीद् राजा विरूढको भगवन्तं शाखोटक-वृक्षं निश्राय निषण्णं दृष्ट्वा च पुन येन भगवांस् तेन हस्ति-नागं प्रेरयति। अथ खलु राजा विरूढको यावद् एव यानस्य भूमिस् तावद् यानेन गत्वा हस्ति-नागात् प्रत्यारुह्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् एतद् अवोचत्। सन्ति भगवन्न् अन्ये वृक्षाः। अश्वत्थ-न्यग्रोध-सप्तपर्णाद्याः शोभनाश् च शीतलाश् च तान् उत्सृज्य इतरस्य प्रत्यवरस्य विरल-पत्रस्य शाखोटक-वृक्षस्या-धस्तान् निषण्णः। भगवान् आह। शीतला महाराज ज्ञातीनां च्छाया। अथ खलु राज्ञो विरूढकस्य एतद् अभवत्। अनुकम्पति भगवन् (वान्) ज्ञातीन् इति। ततो येव प्रतिनिवर्तयित्वा श्रावस्तीन् नगरम् अनुप्रविष्टः।

भगवान् दानि श्रावस्तीयं यथाभिरम्यं विहरित्वा कपिलवस्तुं नगरं प्रक्रामि। यावच् छाक्यान् विनयति। विनयित्वा तत्रैव विहरति न्यग्रोधारामे। विरूढकीयं सूत्रं विस्तरेण कर्तव्यं।

१५३. एषा एवार्थोत्पत्तिः। भगवान् श्रावस्तीयम् विहरति। राजा दानि विरूढको शाकीयान् वधित्वा शाकिय-कन्यायो आदाय श्रावस्तीं प्रतिगतः तद्यथा। चारू च नाम। उपचारू च नाम। सुमना च नाम। मनोहरा। सालवती। अभया च नाम। सो दानि सार्धं क्रीडन्तो रमन्तो परिचारयन्तः अभिक्ष्णं वदति। निहता मे ग्रामकण्टकाः। शाकिय-जनपद-कण्टकाः। निहता मे प्रत्यर्थिकाः प्रत्यमित्राः। यद् इदम् शाकियाः शाक्य-पुत्रा इति।

अथ खल्व् अभया राज-धीता राजानं विरूढकम् एतद् अवोचत्। मा देव एवं वद निहता मे ग्रामकण्टकाः शाकिया इति। सन्ति देव शाकियाः क्षान्ति-सम्पन्नाः। सौरत्य-सम्पन्नाः। एवं [शी]ल-श्रुत-त्याग-समाधि-प्रज्ञा-सम्पन्नाः। एवं बुद्धं शरणं गताः। धर्मं शरणं गताः। बुद्धे अवे[त्य] प्रसादेन समन्वागताः। धर्मे संघे अवेत्य प्रसादेन समन्वागताः। प्राणातिपातात् प्रतिविरताः। यावद् आर्य-कान्तेः शीलेः समन्वागताः। सन्ति देव शाकियाः श्रोत-आपन्नाः सकृद्-आगामिनो नागामिनस् ते देवेन अ-दूषका अन्-अपरा-धिनो जीविताद् व्यवरोपिताः। तत् ते दुःखं वेदनीयं भविष्यति। बहु ते पापकं कर्म कृतं। बहु ते अ-पुण्यं प्रसूतं।

१५४. अथ राजा विरूढकः कुपितः यावत् कारणान्तिकं महामात्रम् आमन्त्रयति। त्वं हि भणे पुरुष मम भोगेहि जाययसि। मम सुखेन जीवसि। कन्यायो शाकियायिनीयो मम प्रत्यर्थिकायो प्रत्रसितायो। मम जीवितं नेच्छन्ति। मम सुखं नाभिनन्दन्ति। सो ऽहम् अन्तःपुर-मध्य-गतो पि एतासाम् अविश्वस्तः। शयन-गतो पि शय्यां कल्पयन्तो पि। तेन हि भणे महा-मात्र इमायो शाकियायिनीयो दण्ड-हतायो कृत्वा कर्णनासा-हस्त-पाद-च्छिन्नायो कृत्वा तप्तेन ते[ले]न कायं परिषिञ्चित्वा जीवन्तिकायो एवं परिखायां च्छोरया। अथ कारणान्तिकस्य एतद् अभवत्। यन् दानि अहं शाकियायिनीनां आसि दर्शनं पि न लभमानो तायो एतायो मम हस्त-गतायो यन् नूनम् अहम् एताहि सह क्रीडेयं रमेयं परिचारयेयं। सो दानि ताहि सार्धं स्वके गृहे प्रविचारयति। अश्रौषीद् राजा विरूढको कारणान्तिकस् ताहि सार्धं क्रीडति यावन् न च पि यथोक्तं करोतीति। अथ खलु विरूढकः कारणान्तिकम् आमन्त्रयति। गच्छ तासां शाकियायिनीनां यथोक्तं कुरु। मा ते जीविताद् व्यवरोपयिष्यामीति। अथ कारणान्तिकः यथोक्तम् अकार्षीत्। यावत् परिखायां जीवन्तीयो एव छोरितायो। तायो तत्र दुःखं तीव्रां कटुकां वेदनां वेदयन्ति। अन्वे(वेन्)ति क्रन्दन्ति एवन् ताने(नेन्)ति त्राते(तेन्)ति। भगिनी-ज्ञातिका-प्रियं शाकिय -मण्डलं। रमणीया भवति तो जन्म -भूमिः। हा रमणीयो जम्बुद्वीपः। सूक्त-वादी भगवान् इति परिदेवन्ति। तहि दानि महाजन-कायो सन्निपतितो।

अथ खलु भगवान् कालस्यैव निवासयित्वा पात्र-चीवरम् आदाय श्रावस्तीन् नगरीं पिण्डाय प्रविष्टः। यावद् आयुष्मन्तम् आनन्दम् आमन्त्रयति। कस्यैषा गौतमी माता। महतो जन-कायस्य निर्घोषो यावद् राज्ञा विरूढकेन षण्णां शाकियायिनीनां यावत् तस्य कृपणेन यावन् सूक्त-वादी भगवान् इति क्रन्दन्ति। साधु भगवान् अर्थ-कामो ज्ञातीनाम् अनुकम्प्यार्थं उपसंक्रामतु। अप्य् एव नाम भगवतः सम्मुखाद् धर्मं श्रुणित्वा अपि स्वर्गोपिगा भवेंसुः।

१५५. अथ खलु भगवां शक्रं देवानाम् इन्द्रं समन्वाहरति स्म। अथ खलु शक्रो देवानाम् इन्द्रः शचिम् आमन्त्रयति। एष शचि भगवान् ज्ञातीनाम् उपसंक्रमति अनुकम्पार्थं। गच्छ शचि तायो शाकियायिनीयो [परिखाया] उद्धरित्वा संप्रजानं निषीदापेहि वस्त्रेणाच्छादेहि भगवान् उपसंक्रमिष्यति। अथ खलु शची तायो शाकियायिनीयो परिखाया उद्धरित्वा संप्रजानन् निषीदापयित्वा वस्त्रेणाच्छादिता।

अथ खलु भगवान् यावत् तायो-म्-ऐन्द्र्या स्फरित्वा यत् किञ्चित् कायिकं चैतसिकं च दुःख-वेदना-गतं सर्वं तं प्रतिप्रस्रंभेति। भिक्षून् आमन्त्रयति। तृप्यतां भिक्षवो भगवतीषु को भिक्षवो भवम् अभिनन्देय को उपादियेय अन्यत्र बाल-पृथग्-जना-नां अन्धानां अचक्षुकानां पश्यथ। भिक्षवः एतायो शाकियायिनीयो मनुष्यकेहि पञ्चहि काम-गुणेहि क्रीडित्वा रमित्वा प्रविचारयित्वा एतर्हि ज्ञाति-क्षये च भोग-क्षये च कर्मस्य च सम्मुखी-भावाद् दुःखां वेदनां वेदयन्ति।

अथ भगवांस् तायो शाकियायिनीयो आमन्त्रयति। सचेन् मन्यथ भगिनीयो यद् इदं युष्माकं हस्तो च पादो च छिन्नो अपि तु ते वेदयन्ति वा न वा। नो हीदं भगवन्। अस्ति च तत्प्रत्यया दुःखा वेदना। एवं ह्य् एतद् भगवन् सचेन् मन्यथ भगिनीयो चक्षुः स्व-भावं वेदयति। यावद् अस्ति च तत्-प्रत्यया दुःखा वेदना। एवं ह्य् एतद् भगवन्। एवम् अशिष्टान्य् आयतनानि। एवं स्कन्धधातवः। एवं केशा रोमा नखा। एवं सर्वा अशुभ-पाली। एवं च पुनर् दुःखा वेदना पराधीना पर-प्रतिबद्धा प्रत्ययाधीना प्रत्यय-प्रतिबद्धा इति विदित्वा द्वा -त्रिंशतीहि आकारेहि प्रकृति -भिन्नः। संस्कार-पुञ्जः परिज्ञेयः। अतश् च भगिनीयो आर्य श्रावक इमां (इमेसां) पञ्चोपादान-स्कन्धानां नात्मानं समनुपश्यति। आत्मीयान् यावत् प्रत्यात्मम् एव परिनिर्वाति। इदम् अवोचत् भगवान्। यावत् तायो पट शाकियायिनीयो धीतां अन्-आगामितां साक्षात् कुर्युः। पञ्चानाञ् च भिक्षु-शतानम् अनुपादायास्रवेभ्यश् चित्तानि विमुच्येयुः। अनेकेषाञ् च देवता-शत-सहस्राणां धर्मेषु धर्म-चक्षु विशुद्धं।

१५६. अथायुष्मान् वाग्-ईशस् तस्याम् एव पर्षदि यावद् भगवान् आह। प्रतिभातु ते वाग्-ईश यावद् अध्याभाषि।

प्रतीयं शत्कार-गतं हि शून्यं
यत्र विहन्यते विपरीत-ग्राही।
अहं ममेति तथा हि मन्यमानो
ते वर्धयन्ति कटसीं पुनः पुनः॥[1]॥

शून्यम् असारम् कञ् च कायं विदित्वा
निरोध-क्षय-धर्मकं तथा।
संभूता विभूता च भव-गतीती
को भव-गतीषु रमेत युक्त-योगी॥[2]॥

इदञ् च दुःखं वेदयित्वा
तस्य मूलं दृष्ट्वा च उत्पद्यति।
दुःख-मूले काय-चित्तञ् च
एतं अनुश्रोत-गामिनं
मुक्तञ् च चित्तं विहनेन्ति मारं॥[3]॥

अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्। किं भगवन्न् इमाहि शाकियायिनीहि पुरा पापं कर्म कृतम् येन एतायो एवं दुःखाम् वेदनाम् वेदयन्ति। भगवान् आह। भूत-पूर्वम् आनन्द एतायो शाकियायिनीयो इहैव श्रावस्त्यां षड् गणिकायो अभूवन्। इहैव श्रावस्तीयं कालो नाम प्रत्येक-भुद्धो अभूषि। सो दानि पिण्डाय चरन्तो ताहि गणिकाहि उक्तो। अयं दानि श्रमणो स्वयं कामान् परिभुञ्जति। कामानां चावर्णं भाषति। ताहि हास्याभिप्रायाहि विहेठनाभिप्रायाहि अन्येहि दुर्-उक्तेहि वचन-पथेहि ओभर्त्सितो अङ्गार-मल्लकेहि चावकीर्णः। सो दानि आनन्द प्रत्येकबुद्धो दुःखाय वेदनाय स्पृष्टः खरां कटुकां वेदनां वेदयन्तो कायेन च जीवितेन च अर्दियन्तो तत्रैव विहाय समभ्युद्गम्य अन्-उपादाय परिनिवृतः। पूर्वाधिष्ठितेन च स्वकेन तेजो-धातुना तस्य शरीरं व्यापिनं। तायो दानि गणिकायो भीतयो पापकम् अस्माभिः कर्मो-पचितं। बहु [अ]पुण्यं प्रसूतं। ईदृशो महा-भागो ऋषिर् विहेठितः। तद् अस्माकं दुःखं वेदनीयं भविष्यति। ताहि दानि विप्रतिसार (रं) जानाहि। तस्य शरीरं परिगृह्य स्तूपम् अकरेंसुः। छत्रध्वज-पताकाहि च पूजयेंसुः। पुष्प-धूप-गन्धेहि च पूजयेंसुः। एवं च प्रणिधेंसुः। अन्-आगतम् अध्वानम् वयम् एतादृशं शास्तारम् आरागयेमः। ये[षां] पाञ्च-धर्माणाम् अयं लाभी। तान् वयम् अपि लप्स्याम इति। तायो एतायो तेन पापेन कर्मेण कृतेन यावन् नरकेषूपपन्नायो एतायो तहिं बहूनि वर्ष-सहस्राणि दुःखम् अनुभवेंसुः। एताहि आनन्द बाल-पृथग्-जनाहि हसन्तीहि पाप-कर्म कृतं। यस्य अश्रु-मुखा पि पापकम् प्रतिसम्वेदयन्ति। यम् एताहि सा पूजा कृता विप्रतिसारश् चोत्पादितः। यं च प्रणिधानं अन्-आगतम् अध्वानं एतादृशं शस्तारम् आरागयेमः। येषान् धर्माणाम् अयं लाभी। तान् वयम् अपि लप्स्याम इति। यावत् पञ्चानाम् अवर-भागीयानां संयोजनानां यावत् तत्र परिनिर्वायिन्यः। को नामायं भगवन् धर्म-पर्यायः। कथं चैनां धारयामि। भगवान् आह। तस्मात् त्वम् आनन्द इमं धर्म-पर्यायं कारण-वैपुल्यन् नाम धारय इदम् अवोचत्।

१५७. भिक्षुणीयो दानि कपिलवस्तु-नगरे रुद्धे विरूढ-केन। काश्चिद् अन्तो नगरे निलीनाः काश्चिद् बहिर् निर्गताः। भिक्षुणीयो भिक्षुणीहि विप्रवुस्तायो। तासां कौर्कृत्यं। यावद् भगवान् आह। तेन हि अन्-आपत्तिः अ-कामिकाये नगर-रुद्धाये।

भगवां श्रावस्तीयं विहरति। भिक्षुणीयो अध्वानं गच्छन्ति। तत्र दानि भिक्षुणी जरा-दुर्बला। व्याधि-दुर्बला। सार्थातो परिहीणा ति। भिक्षुणीयो अतिक्रान्तायो। त (ता)यो दानि कौकृत्यं। कौकृत्येन महाप्रजापतीये [गौतमीये] आरोचयेत् (येंसुः)। महप्रजापती गौतमी भगवन्तम् आरोचयति। भगवान् आह। तेन हि अन्-आपत्तिः। अ-कामिकाय। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी भिक्षुणीय विना एकरात्रम् पि विप्रवसेय अन्यत्र-समयेन। [त]त्रायं समयो ग्लाना भिक्षुणी भवति। नगरोपरोधे वा रुद्धा भवति। अयम् अत्र समयो।

यो(या) पुन भिक्षुणीति उपसंपन्ना। भिक्षुणीभिर् विना ति अद्वितीयं। एकं रात्रम् पि विप्रवसेया ति अरुण-म्-उदगमे च अन्यत्र-समये। तत्रायं समयो अ-कामिका भिक्षुणी भवति। जरा-बुर्बला वा व्याधि-दुर्बला वा नगरो[परो]धो वा। एतं ताव नगरं परचक्रेणोवरुद्धम् भवति। किञ्चापि भिक्षुणी अन्तो नगरतो बहिर्धा निर्धावति बहिर्धातो वा अन्तो नगरं प्रविशति। किञ्चापि प्रविशति अन्-आपत्तिः। सा एषा भिक्षुणी स-सूर्ये विना भूता भिक्षुणीहि विप्रवुस्ता अरुण-म्-उद्घातेति संघातिशेषो। अस्तम्-इते सूर्ये विना भूते(ता) अरुण-म्-उद्घातयति थूल्ऽ -अच्चयं। भिक्षुणी-विहारे अन्यत्र वा सर्वाहि अन्तो हस्त-पाशस्य प्रतिक्रमितव्यं। त्रिक्खत्तो रात्रीय अन्यमन्यसमवधानं दातव्यं। हस्तेन परामृषितव्यं। न खलु सकृद् एव।

अथ खलु यामे यामे पुरिमे यामे समवधानं न देति विनयातिक्रमम् आसादयति। मध्यमे यामे न देति विनयातिक्रमम् आसादयति। पश्चिमे यामे न देति विनयातिक्रमम् आसादयति। सर्वत्र ददाति अन्-आपत्तिः।

अथ दानि द्वि-भूमकं भवति एका हेष्ठिमे प्रतिक्रमति अपरा उपरिमे। त्रिक्खत्तो रात्रौ अवतरितव्यं। तेन भगवान् आह।

या पुन[भिक्षुणी] भिक्षुणीभि विना एक-रात्रम् पि विप्रवसिय अन्यत्र-समये। तत्रायं समयो ग्लाना भिक्षुणी भवति। नगरो परोधे वा रुद्धा भवति अयम् अत्र समयो। अयं पि धर्मो प्रथमापत्तिको संघातिशेषो।

संघातिशेष-धर्म ७ अन्-अनुज्ञाता

१५८. भगवान् श्रावस्त्यां विहरति। राजगृहे दानि अपरस्य अभट-गणस्य सुदिन्निका नाम भार्या तरुणी। प्रासादिका दर्शनीया। सो दानि काल-गतो। सा स्त्री पुरुषेणार्थिका। स देवरो संकलेतु-कामो। सा स्त्री स्त्रिणाम् आह। आर्यमिश्रिका अहं पुरुषेण अन्-अर्थिका। अयं च देवरो मम संकलेतु-कामो। अपरा स्त्री आह। इच्छामि (इच्छसि) मुच्चितुं। सा दान् आह। इच्छामि। सा आह। गच्छ श्रावस्तीं। तंहि दानि काली नाम भिक्षुणी प्रतिवसति। सा ते प्रव्राजयिष्यति। सा दानि निर्धाविता। श्रावस्तीं गता। सा भिक्षुणी-विहारं गत्वा पृच्छति। कतमं आर्याये कालीये परिवेणं। अपराहि दर्षितः दर्शिनः(तः) एषो ति। सा ताम् उपसंक्रमित्वा आह। इच्छामि आर्ये प्रव्रजितुं। सा ताय प्रव्रजिता उपसंपादिता। सो दानि मनुष्यो मार्गति संकलेष्यामीति। न लभति। सो दानि शृणोति। श्रावस्तीयं काली नाम श्रामणिका। ताये प्रव्राजितेति। सो दानि पुरुषो अनुपूर्वेण श्रावस्तीं गत्वा पृच्छति। कतमो ऽत्र भिक्षुणी-विहारः। अपराहि दर्शिन(त) एषो ति। सो तहिं प्रविशेतिवा। पृच्छति यावाद् आह कतमा आर्या कालीति सा दान् आह। अहं। सो दान् आह। प्राप्त-कालन् नाम आर्याये मम भार्याम् अन्-ओत्सृष्टां प्रव्राजयितुं। सा दान् आह। कुतः पुनस् त्वं दीर्घायुः। सो दान् आह। राजगृहातो। सो (सा)दान् आह। चण्डायुषो नस् त्वं नगरं प्रविष्टः। सान्तेवासिनी नाम् आह। आनेथ संघाटिं यावद् इमं चडायुधेराटिकं (चण्डायुं धरे चाटिकं ) बन्धापयामि। सो दानि पुरुषो भीतः पश्यति। यावद् इयं श्रमणिका धृष्टा च मुखरा च बन्धापयेय इति। सो मनुष्यो ओज्झायति च ओसक्कति च यावद् बहिर् गत्वा भिक्षुणीनां महाराजानस्या (महाजन-कायस्या)रोचयति। पश्यथ भणे श्रमणिका भार्याम् च मे अन्-ओत्सृष्टां प्रव्राजयति मम च भन्धनेन सन्तर्जेति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयन्ति। महाप्रजापती गौतमी भगवतो आरोचयति। भगवान् आह। शब्दापयथ कालिं। सा दानि शब्दापिता। एतद् एव सर्वं पृच्छीयति। यावद् आम् भगवन्। भगवान् आह। दुष्कृतं ते कालि। एवन् नाम त्वं अनुज्ञापकेहि अन्-अनुज्ञाताम् उपस्थापयसि। तेन हि न क्षमति अनुज्ञापकेहि अन्-अनुज्ञाताम् उपस्थापयितुं।

भिक्षुणीयो आहंसुः। पश्य भगवन् कथम् इयं कालीय प्रत्यु[त्प]न्न-प्रतिभानताय मोचिता। स च पुरुषो भीतः प्रपलानः। भगवान् आह। न चेषा भिक्षुणीयो कालीय एतर्ह्य् एव प्रत्युत्पन्न-प्रतिभानताय मोचिता। एष च पुरुषो भीतः प्रपलानः। अन्यदाप्य् एषा एताय प्रत्युत्पन्न-प्रतिभानताय मोचिता। एष च पुरुषो भीतः प्रपलानः।

भूत-पूर्वं भिक्षुणीयो इयम् एव नगरी वाराणसी। इयं स्त्री रात्रौ दारिकां स्कन्धेनादाय गच्छति। सिंहो च पुरतः प्रत्युपस्थितो। सा दानि दारिका दृष्ट्वा रुदिता। ताय स्त्रियाय सा दारिका चपेटाय आहता। एको ते सिंहो खादितो एतम् पि खादितु-कामासि। सिंहः पश्यति। यादृशी एषा स्त्री ध्वांक्षा च मुखरा च खादत्य्। एषा ममायीति। भीतः प्रपलायति। पुरतो मर्कटः आगत्वा सिंहं पृच्छति। मृगराज-पुत्र कहिं गमिष्यसि। सिंहो जल्पति। भयं मे उपतन्नं। वानरः पृच्छति। कीदृशं भयं। सिंहो विस्तरेणाचिक्षति। सो जल्पति। नैवं वक्तव्यं। सिंहस् त्वं मृग-राज। कस् त्वां प्रहरिष्यति। आगच्छाहि निवर्ताहि। स नेच्छति। सिंहो वानरेण केशेहि गृहीतः। आगच्छाहीति। सा दारिका दृष्ट्वा प्ररुदिता। सा स्त्री जल्पति मा रोदाहि दारिको(के)। एषो तव मातुः केनानीतो केशेहि गृहीत्वा। इदानिं यन् नं इच्छसि तं से खादाहीति। सिंहः पश्यति। मा हैवं संकेत-कृतं भविष्यति। एवम् एवानीयानीय देति। एषापि खादति। यत् तावद् अहं एकं वारं प्रपली(ला)नः किं भूयो निवर्तितः। सो दानि तस्य मर्कटस्य अवधुनित्वा प्रपलानः। देवता गाथां भाषते।

प्रत्युत्पन्ना इयं बुद्धिर्
नेयं चिर-समुत्थिता।
पश्य सिंह-भयं जातं
प्रतिभानान् निवर्तितं॥

भगवान् आह। स्याद् भिक्षुणीयो युष्माकम् एवम् अस्याद् अन्या सा स्त्री अभूषि। नैतद् एवं द्रष्टव्यं। इयम् एव सा काली स्त्री अभूषि। स्याद् भिक्षुणीयो युष्माकम् एवम् अस्याद् अन्या सा दारिका ति। नैतद् एवं द्रष्टव्यं। इयम् एव सा सुदिन्निका दारिका अभूषि। स्याद् भिक्षुणीयो युष्माकम् एवम् अस्याद् अन्यो सो सिंहो अभूषीति। नैतद् एवं द्रष्टव्यं। एषो सो मनुष्यो सिंहो अभूषि। तदाप्य् एषा एताय प्रत्युत्पन्न-प्रतिभानताय मोचिता। एष च पुरुषो भीतः प्रपलानः।

१५९. अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणीयो यावत् प[र्य]वदातानि भविष्यन्ति।

या पुन भिक्षुणी अनुज्ञापकेहि अन्-अनुज्ञाताम् उपस्थापयेद् अयं पि धर्मो प्रथमापत्तिको संघातिशेषो।

या पुन भिक्षुणीति उपसंपन्ना। अनुज्ञापकेहि अन्-अनुज्ञाताम् इति अवूढाय दारिकाय माता-पितरौ अनुज्ञापका। वूढाय श्वश्रु-श्वशुरौ पतिदेवरौ। उपस्थापयेद् इति उपसंपादयेत्। सा एषा भिक्षुणी अनुज्ञापकेहि अन्-अनुज्ञाताम् प्रव्राजयति विनयातिक्रमम् आसाद्यति। शिक्षां देति थूल्ऽ-अच्चयम् आसादयति। उपसंपादेति संघातिशेषो एषा काचित् प्रव्रज्यापेक्षा आगच्छति प्रष्टव्या। अनुज्ञातासि अनुज्ञापकेहि। यदि तावद् आह नहीति। अवूढा वक्तव्या। माता-पितरौ अनुजानापयित्वा आगच्छाहीति। वूढा वक्तव्या प्र(प)ति-देवरौ श्वश्रु-श्वशुराव् अनुजानापयित्वा आगच्छाहीति। तेन भगवान् आह।

या पुन भिक्षुणी अनुज्ञापकेहि अन्-अनुज्ञाताम् उपस्थापयेद् अयं पि धर्मो प्रथमापत्तिको संघातिशेषो।

संघातिशेष-धर्म ८

वध्या

१६०. भगवान् श्रावस्तीयम् विहरति। मल्ला नामा मल्लकल्यो नाम निगमो। तंहि दानि अपरस्य मल्लस्य भार्या पर-पुरुषेण सार्धम् अभिचरति। सो दान् आह। असुके विरम। अतो दोषो। ऽतो मा ते अहम् एवञ् च एवञ् च असत् करिष्यं। सा दानि दुष्टा न विरमति। मरिष्याम्य् अहं। न पुनर् अहम् अतो दोषतो विरमिष्यं। तेन सा सहोढं गृहीत्वा आसने उपनामिता। इच्छेयम् अहं भवन्तो इमां स्व-धर्मेण लम्भियमानां। कः पुनस् तेषां स्व-धर्मः मल्लानां। या स्त्री अन्येन पुरुषेण सार्धं अभिचरति। सा सप्त-दिवसानि दान-विसर्गं कारपेत्वा उभयतो ज्ञाति-संघस्य पुरतो गोपाटिकाम् (काय) पाटीयति। आसनिका आहंसुः। दिन्ना भवतु स्व-धर्मे लभेहि। तेन दानि पुरुषेण गृहं नयित्वा उक्ता। इति-कितिकाय धीते दद यत् ते अस्ति च नास्ति च। सप्त दिवसानि अहं ते उभयतो ज्ञाति-संघस्य पुरतो गो-पाटिकाय पाटयिष्यं। सा दानि उभयतो ज्ञाति-संघं सन्निपातेत्वा अन्नं पानं खाद्यं भोज्यं समुदानीय रोदति। स्त्रियो आहंसुः। किं रुदितेन त्वयैव तथा चेष्टितं येन त्वम् एवं दुःखम् अनुभविष्यसि। सा दान् आह। नाहं करोमि। मरिष्यन् ति। अपि तु उभयतो ज्ञाति-संघस्य पुरतो गो-पाटिकाय पाटयिष्यन् ति। एवं रोदामि। अपरा आह। इच्छसि त्वं मुच्चितुं। सा दान् आह। इच्छामि। आह। गच्छ श्रावस्तीं। तहिं काली नाम भिक्षुणी। सा ते प्रव्राजयिष्यति। सा तस्या वचनं श्रुत्वा जनस्य खाद्यन्तस्य पिबन्तस्य प्रमत्तस्य यथा वा तथा वा निर्धावित्वा अनुपूर्वेण पृच्छ-पृच्छिकाय श्रावस्तीम् आगता। पृच्छति। कतमो ऽत्र भिक्षुणी-विहारो। अपराहि दर्शितः। सा दानि प्रविशित्वा पृच्छति। कतमा आर्य-काली। अपराहि आख्याता। एषा ति। सा ताम् उपसंक्रम्य आह। इच्छाम्य् आर्याय प्रव्राजीयमानां। सा दान् आह। अनुज्ञातासि अनुज्ञापकेहि। सा दान् आह। के पुन आर्ये अनुज्ञापकाः। आह। अ-वूढाये दारिकाये माता-पितरौ। वूढाय श्वश्रु-श्वशुरौ पति-देवराः। आह। तदा एषाहम् अनुज्ञाता। यदाहं गो-पाटि[काय] निसृष्टा सु-निसृष्टा। आह। पुत्रिणि या त्वं निसृष्टा सु-निसृष्टा या त्वं गो-पाटिकायां निसृष्टा। सा ताय प्रव्राजिता उपसंपादिता। सो मनुष्यो मार्गयति। गोपाटिकाय पाटिष्यामीति न लभसि। सो दानि शृणोति। श्रावस्तीयं काली नाम भिक्षुणी। ताय प्रव्राजिता। श्रावस्तीम् आगत्वा पृच्छति। कतमो ऽत्र भिक्षुणी-विहारो। अपरेहि आख्यातो एषो ति यावत्। स तहिं प्रविशित्वा। आर्या काली नाम। आह। किम् कर्तव्यं। प्राप्तन् नामार्याय मम भार्याम् अन्-ओत्सृष्टाम् प्रव्राजयितुं। सा दान् आह। कुतस् त्वं। आह। आमलक-कल्यतो। आह। चण्डायु चोरस् त्वम् ओचोरकस् त्वम् ओचरितु-कामो त्वं श्रावस्तीयं प्रविष्टः। न त्वं जानासि नित्यविरुद्धाः श्रावस्तेयाः आमलक-कल्याश् च। सा दानि अन्तेवासिनीं शब्दापयति। आनेहि ताव समघाटिम् यावद् इमं चण्डायु(युं) धरे चाटिकं राज-कुले भन्धापेसि(मि)। सो मनुष्यो पश्यति। यादृशी इयं श्रमणिका धृष्टा च मुखरा च प्रगल्भा च। भन्धापेयंसि-। एष सो दानि पुरुषो ओज्झायति च ओसक्कति च। सो दानि पुरुषो भिक्षुणी नां [महाजन-कायस्य च पुरो ओज्झायति। पश्यथ भणे श्रमणिका भार्याञ् च मे अन्-ओत्सृष्टां प्रव्राजेति। मम च बन्धनेन तर्जयति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयन्ति। यावद् भगवान् आह।

दुष्कृतं ते कालि। एवन् नाम त्वं जानन्ती वध्यां विदितां ज्ञाति-दण्ड-प्राप्ताम् उपस्थापयसि। तेन हि न क्षमति जानन्ती वध्यां विदितां ज्ञाति-दण्ड-प्राप्ताम् उपस्थापयितुं।

१६१. एषैवार्थोत्पत्तिः। शाक्यानां शाक्या-वानो नाम धि(नि)गमः। एवम् एव विस्तरेण कर्तव्यं। यावद् अन्या ताव मया ईदृशी येव प्रव्राजिता। तत्र मया दण्डकर्म लद्भं। गच्छ नोत्सहामि प्रव्राजयितुं। सा दानि अपरापरासां भिक्षुणीनाम् अल्लीना न काचित् प्रव्राजेति। यावत् तीर्थिकेहि प्रव्राजिता। सो मनुष्यो मार्गति। गोपाटिकाय पाटिष्यन् ति। न लभति। तेन श्रुतं श्रावस्त्यां तीर्थिकेहि प्रव्राजिता। सो दान् आह। इदानीं सा इति-कितिकाय धीता सु-महता दृष्टधार्मिकेन च वधेन। यं उपासक-धीता तिर्थिकेहि प्रव्राजिता। सो पुनर् न गवेषति न पृच्छति। सा पि दानि तेन तीर्थिक-भावेन तीर्थिक-भावेनार्तीयति। ते दानि तीर्थिका दुराख्याता अधर्माणाः। तण्डुलोदकञ् च पिबन्ति। स्थाली-धोवनञ् च पिबन्ति। नग्ना अ-ह्रीका अन्-ओत्रापिणो इस्त्रि-कामा पि दूषेन्ति। सा स्त्री भिक्षुणीनाम् आह। मोह भागिनी अस्माकं प्रव्रज्या गर्तस्मि पतिता। निरयस्मि पतिता। प्रपातस्मि पतिता। उत्तरयाथ मां। अनुकम्पयथ मां। उद्धरथ मां। अनुकम्पयथ मां। प्रव्राजेथ मां। ता दानि नेच्छन्ति। सा दानि महाप्रजापतीये गौतमीये अल्लीना। महाप्रजापती गौतमी च भगवतो आरोचेति। भगवान् आह। लभ्या। यस् तत्रावर्णः स तीर्थिकेषु गतः। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि तावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी जानन्ती वध्यां विदितां ज्ञाति-दण्ड-प्राप्ताम् उपस्थापयेद् अन्यत्र समये। <तत्रायं समये> तत्रायं समयः अन्य-तीर्थिक-पूर्वा भवति। अयम् पि धर्मो प्रथमापत्तिको संघातिशेषो।

१६२. या पुन भिक्षुणीति उपसम्पन्ना। जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय। वध्याम् इति घात्यां। विदितान् ति उभयतो ज्ञाति-संघस्य मातृ-पक्षस्य पितृ-पक्षस्य च।

ज्ञाति -दण्ड-प्राप्तां ति। ज्ञातयो नाम क्षत्रियाङ् ब्राह्मणाः वैश्याः शूद्राः अम्बष्ठ-वैदेहाः भटनाः कुंकुमालाः। यावत् केषाञ्चित् गोपाटिकाय पाटीयति। केषाञ्चित् कीटेन वा कालिञ्जेन वा वेठयित्वा दह्यति। केषाञ्चित् वालुका-घटकं कण्ठे बध्वा उदके प्रवेशियति। केषाञ्चिच्छीर्षं प्रधमीयति। केषाञ्चित् कर्ण-नासा छिद्यन्ति। केषाञ्चित् तप्तं फालं व्रण-मुखे अनुश्रोतं प्रक्षिपीयति।

मल्लानां शाक्यानां च गो-पाटिकाय पाटीयति। क्षत्रियाणां पलालेन शरेहि च वेठयित्वा दह्यति। अभीराणाम् वालुकाय घटं कण्ठे भध्वा उदके प्रक्षिपति। शक-यवनानां शीर्षं प्रधमीयति। कर्ण-नासा वा छिद्यन्ति। तप्तम् वा फालं अनुश्रोते व्रण-मुखे प्रक्षिपीयन्ति।

उपस्थापयेद् इति प्रव्राजयेद् उपसम्पादयेद्। अन्यत्र समये ति प्रत्युद्धृतं भगवता पदं अन्-आपत्तिः। अन्यत्र समये तत्रायं समयः।

अन्य-तीर्थिक-पूर्वा भवति। अन्य-तीर्थिका नाम। चरक-परिव्राजक-निर्ग्रन्थाजीवक-त्रे-दण्डिकाः माकन्दिकाः गुदुगुदुकाः गौतम-धर्म-चिन्तकाः वृद्ध-श्रावकः दक-तृतीयकाः यावत् प्रज्ञप्तिः।

सा एषा भिक्षुणी जानन्ती वध्यां विदितां ज्ञाति -दण्ड-प्राप्तां प्रव्रजयति विनयाति-क्रमम् आसादयति। शिक्षां देति थूल्ऽ-अच्चयम् आसादयति। उपसम्पादेति संघातिशेषा। तेन भगवान् आह। या पुन भिक्षुणी जानन्ती वध्यां विदितां ज्ञाति-दण्ड-प्राप्ताम् उपस्थापयेत्। अन्यत्र समये। तत्रायं समयः। अन्य-तीर्थिक-पूर्वा भवति। अयं पि धर्मो प्रथमापत्तिको।

संघातिशेष-धर्म ९

एका नदिन् तरेय

१६३ भगवान् श्रावस्तीयम् विहरति। अथ संबहुला स्त्रियो नदीयम् अजिरावतीयं स्नायन्ति। स्थूलनन्दा भिक्षुणी तत्रैव स्थाय गता। सा तावद् एकान्ते चीवरकाणि निक्षिप्य बाहुभ्यां प्रतीर्णा। ता दानि स्त्रियो आहंसुः। एषा आर्या स्थूलनन्दा आगच्छतीति। सा कयधानके मुहूर्तम् विश्रमित्वा पुनर् एवागता। स्त्रियो आहंसुः। एषा आर्या स्थूलनन्दा आगता। अतिचापलम् आर्याय कृतं। कथं त्वम् बाहुभ्यां तरसि। ता दानि स्त्रियो ओज्झायिताः। एतं प्रकरणं भिक्षुणीहि श्रुतं। भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति। महाप्रजापती गौतमि भगवतो आरोचेति यावद् भगवान् आह। दुष्कृतं ते नन्दे। एवं च नाम त्वं एकाकिनी नदीं तरसि। तेन हि न क्षमति भिक्षुणीय विना नदीन् तरितुं।

अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी भिक्षुणीय विना नदीन् तरे अयं पि धर्मो प्रथमापत्तिको।

या पुन भिक्षुणीति उपसम्पन्ना। भिक्षुणीय विना ति अ-द्वितीया। नदीति या बहिः सीमातो प्रवहन्ती बहिः सीमाम् उपेति। तरेया ति अपरात् पारं गच्छेय। अयं पि धर्मो प्रथमापत्तिको। यावता च एतायो भिक्षुणीयो नदीन् तरन्ति अन्तो हस्तपाशे तरितव्यं। परं हस्ते पाशे तरन्ति थूल्ऽ-अच्चयं। दूरेण दूरं भवन्ति संघातिशेषो। अथ-वैका मध्ये तिष्ठति अपरा तरन्ति थूल्ऽ-अच्चयं। यावद् एवम् अपरापरन्ति सर्वाः थूल्ऽ-अच्चयम् आसादयन्ति। एतायो भिक्षुणीयो नद्यां स्नायन्ति अन्ते हस्त-पाशेन स्नातव्यः (व्यं)। परं हस्त-पाशा स्नायन्ति विनयातिक्रमम् आसादयन्ति। तेन भगवान् आह।

या पुन भिक्षुणी भिक्षुणीय विना नदीन् तरेय। अयं पि धर्मो प्रथमापत्तिको संघातिशेषो॥

संघातिशेष-धर्म १०

उत्क्षिप्तका

१६४. भगवान् श्रावस्तीयम् विहरति। तहिं काली नाम भिक्षुणी ग्राम-चारिकां गता। तस्या गताय अन्तेवासिनीये भिक्षुणी-संघेन उत्क्षेपनीय-कर्म कृतं। सा ग्राम-चारिकां चरित्वा आगता। सो(सा) दान् आह। आर्ये संघेन उत्क्षेपनीयं कर्म कृतं। नैवम् एव धर्म-संभोगेन संभुञ्जन्ति नामिष-संभोगेन। सा दान् आह। तूष्णीका भव या[व]त् भिक्षुणीयो सन्निन्वीति (सन्निपातयन्ति )। सा दान् आह। सन्निपातेथ आर्यमिश्रिकायो। सा दानि अन्यदा चान्यदा च यदा ग्रामचारिकां चरित्वा आगता भवति। ततो भिक्षुणीनां वैभङ्गिकं ददाति। तायो भिक्षुणीयो सन्निपतथेत्य् उक्ता शीघ्रं शीघ्रं सन्निपतिताः किञ्चिद् वैभङ्गिकं दास्यतीति। सा दान् आह। शृणोतु मे आर्यमिश्रिका संघो। इयं इत्थन्-नामा भिक्षुणी। तस्याः संघेन उत्केषेपनीयं कर्म कृतं। यदि संघस्य प्राप्त-कालं संघो इत्थन्नामां भिक्षुणीं प्रत्योसरेय। ओवयिका एषा ज्ञप्तिः। शृणोतु मे आर्यमिश्रिका संघो। इयम् इत्थन्-नामा भिक्षुणी। तस्याः संघे[न] उत्क्षेपनीयं कर्म कृतं। संघो तां इत्थन्-नामां भिक्षुणीं प्रत्योसारयति। यस्या आर्यमिश्रिकानां क्षमति इत्थन्-नामां भिक्षुणीं प्रत्योसार्यमाणां संघेन सा तूष्णीम् अस्य यस्या न क्षमति सा भाषेतु। इयं प्रथमा कर्म-वाचना। एवं त्रै-वाचिकं प्रत्योसारिता आर्य-मिश्रिका इयम् इत्थन्-नामा भिक्षुणी। उत्क्षेपनीयं कर्म कृतम् संघेन। क्षमति तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि।

अथ सा धृष्टा च मुखरा श्च(च) प्रगल्भा चेति न काचित् प्रतिक्षिपति। अथ ता भिक्षुण्यो पीडिता आहुः। किन् तावद् इमन् ति। अपरा आहुः। वयम् अपि न जानीमः। एतं प्रकरणं भिक्षुण्यो महाप्रजापत्या गौतम्या आरोचयेयुः। महाप्रजापती गौतमी भगवतः आरोचयति। भगवान् आह। शब्दापयथ कालिं। यावद् एतम् एवार्थं पृच्छिता। आह। आम् भगवन्। भगवान् आह। दुष्कृतं ते कालि एवन् नाम त्वं जानन्ती भिक्षुणीं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्ताम् अ-प्रतिकृतां। अकृत्वा पूर्व-कृत्यं। अन्-अवलोकयित्वा भिक्षुणी-संघं प्रत्योसारयसि। तेन हि न क्षमति। पेयालं। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी जानन्ती भिक्षुणीं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तां अ-प्रतिकृतां। अकृत्वा पूर्वकृत्यं। अन्-अवलोकयित्वा भिक्षुणी-संघं। स्वयम् एव प्रत्योसारयति। अयं पि धर्मो प्रथमापत्तिको।

या पुन भिक्षुणीति उपसम्पन्ना यावद् उभयतः संघेन। सा एषा भिक्षुणी जानन्तीति। स्वयम् वा जानो(ने) परतो वा श्रुत्वा। भिक्षुणीं समग्रेण संघेनेति अ-व्यग्रेण। धर्मतो विनयतो ति। सति आपत्या अ-दर्शनेन। अ-प्रतिधर्मेण। त्रयाणां दृष्टीनां अ-प्रतिनिस्सर्गाय। उत्क्षिप्तम् ति अ-संभोग-कृतं। अ-प्रतिकृतन् ति अ-प्रत्योसारितं। अकृत्वा पूर्व-कृत्यं ति प्रकृति-स्था भिक्षुणीयो अ-संज्ञापयित्वा।

अन्-अवलोकयित्वा भिक्षुणी-संघं ति। संघ-मध्ये अवलोकनाम् अकृत्वा स्वयम् एव प्रत्योसारयेत्। अयम् अपि धर्मः यावत् प्रज्ञप्तिः।

सा एषा भिक्षुणी जानन्[ती] भिक्षुणीं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तां। अ-प्रतिकृतां। अकृत्वा पूर्व-कृत्यं। अन्-अवलोकयित्वा भिक्षुणी-संघं स्वयम् एव प्रत्योसारयति। संघातिशेषम् आसादयति।

सा एषा भिक्षुणी समग्रेण संघेन उत्क्षिप्ता भवति। या तस्या उपाध्यायी वा आचार्यायिणी वा च या प्रकृति-स्था भिक्षुण्याः ता संज्ञापयितव्याः।

कस्यात्ययाः न विद्यन्ते
को नरो नापराध्यति।
को न गच्छति सम्मोहं
कस्य बुद्धिर् ध्रुवा स्थिता॥

एवं तया अ-ज्ञानतया कृतं। न पुनर् एवं करिष्यति।

यदा संज्ञप्ता भवन्ति तदावलोक[ना] कर्तव्या। शृणोतु मे आर्य-मिश्रिका संघः। इयम् इत्थन्-नामा भिक्षुणी। तस्याः संघेन अमुकस्मिन् वस्तुनि उत्क्षेपनीयं कर्म कृतं। सा वर्तं वर्तयति। लोमं पातयति। निःसरणं प्रवर्तयति। यदि संघस्य प्राप्तकालं संघम् इत्थन्-नामा प्रत्योसारणां याचेय। याचिष्यति इत्थन्-नामा संघं प्रत्योसारि(र)णां। क्षमते तं संघस्य यस्मात् तूष्णीं। एवम् एतं धारयामि। ताय याप(च) यितव्यं। पेयालं। अथ तत्र काचित् पृतिहति कर्म-क्रियमाणे प्रकृतिस्थाभिर् भिक्षुणीभिः संज्ञापयितव्याः। अस्माकं भणन्तीनां क्षमस्वेति।

भिक्षुर् अपि जानन् भिक्षुं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तं स्वयम् एव प्रत्योसारयति स्थूलात्ययम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी जानन्[ति] भिक्षुणीं समग्रेण संघेन धर्मतो विनयतो उत्क्षिप्तां अ-प्रतिकृतां अ-कृतां [अ]कृत्वा पूर्वकृत्यं अन्-अवलोकयित्वा भिक्षुणी-संघस्येयम् एव (-संघं स्वयम् एव) प्रत्योसारयति। अयम् अपि धर्मो प्रथमापत्तिको संघातिशेषो॥

संघातिशेष-धर्म ११

अन्-अवश्रुता अवश्रुता

१६५. भगवान् राजगृहे विहरति। तत्र जेता नाम भिक्षुणी। ताम् अपरः पुरुषो रक्त-चित्तः। भक्तेनोपनिमन्त्रयति। पात्र-चीवरेण भक्ष्य-भोज्येन ग्लान-प्रत्यय-भैषज्य-परिष्कारैः। सो आह। जानासि आर्या(र्ये) कस्य वयम् अर्थाय आर्याय ददामः। सा आह। जानामि। सो आह। कस्यार्थाय। सा आह। पुण्यं ते भविष्यति सो आह। एवम् एतत् पुण्यं भविष्यति। अयं त्व् अहम् आर्याय अर्थिकः आर्याय ददामि। सा तावद् विगत-रागा। नैव प्रतिक्षिपति। नाधिवासयति। एतं प्रकरणं भिक्षुण्यो महप्रजापत्या गौतम्या आरोचयेयुः। महाप्रजापती गौतमी भगवतः आरोचयति। भगवान् आह। शब्दापयथ जेतां। सा शब्दापिता। एतद् एवं सर्वं पृच्छीयति। यावद् आम् भगवन्। भगवान् आह। दुष्कृतं ते जेते। ननु ते पश्चिमा नाम जनता अवलोकयितव्या। नैष धर्मो नैष विनयः।

अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमी यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी जानन्ती अन्-अवश्रुता अवश्रुतस्य पुरुषस्य प्रतिगृह्णीयात् पात्रं वा चीवरं वा भक्ष्यं [वा] भोज्यं वा ग्लान-प्रत्यय-भैषज्य-परिष्कारं वा अयम् अपि धर्मः।

या पुन भिक्षुणीति यावद् उपसम्पन्ना उभयतः संघेन। एषा भिक्षुणी अन्-अवश्रुता ति अ-रक्त-चित्ता। अवश्रुतस्य पुरुषस्येति रक्त-चित्तस्य। प्रतिगृह्णेया ति प्रतिच्छेय। पात्रम् इति ज्येष्ठं मध्यमं कन्यसम् वा। चीवरम् इति संघाटि-उत्तरासङ्ग-म्-अन्तर्वासकं कण्ठ-प्रतिच्छादनं उदक-शाटिका। खाद्यम् इति खादनीयं। भोज्यम् इति भोजनीयं। अन्तशः ग्लान-भैषज्यम् इति सप्ताहिकं वा यावज्-जीविकम् वा। अयम् अपि धर्म। यावत् प्रज्ञप्तिः। एषो तावन् मनुष्यो भिक्षुणीय ददाति पात्रम् वा चीवरम्। भक्ष्य-भोज्यम् वा। ग्लान-भैषज्यम् वा। तां पुरुषो आह। आर्याय वयम् अर्थिका। आर्याय वयम् ददाम इति। न क्षमति प्रतीच्छितुं। स वक्तव्यः। तवैव भवतु दीर्घायुः लभिष्यामः वयम् अन्यतो पि। अथ प्रतीच्छति संघातिशेषं। अथ वाचं न भाषति हस्त-विकारं वा पाद-विकारं वा अक्षि-विकारं वा करोति। हष्तम् वा प्रस्फोटयति। अङ्गुलीं वा अक्षिं वा निपातयति। भूमिम् वा विलिखति विनमति वा। जानाति रक्त-चित्तो ति। न क्षमति प्रतीच्छितुं। प्रतीच्छति स्थूलात्ययं।

अथ खलु देनं देति प्रसन्नैर् इन्द्रियैः। अथ खलु तया भिक्षुण्या आशयेन प्रतीच्छितव्यं प्रतीच्छति अन्-आपत्तिः।

एवं भिक्षोर् अपि रक्त-चित्ता स्त्री ददाति। न जानम् गृह्णाति स्थूलात्ययं। निमित्तं करोति। जानाति रक्त-चित्ता इति। न(नं) प्रतीच्छति विनयातिक्रमन् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी अवश्रुता अवश्रुतस्य पुरुषस्य पात्रम् चीवरम् वा भक्ष्यम् वा भोज्यम् वा ग्लान-भैषज्यम् वा प्रतिगृह्णेय [अय]म् अपि धर्मो प्रथमापत्तिको।

किं ते वदेति त्वं प्रतिगृह्ण

१६६. भगवान् राजगृहे विहरति। भगवता शिक्षापदं प्रज्ञप्तं। न क्षमति अवश्रुतस्य पुरुषस्य पात्रं वा यावत् प्रतिगृह्णातुं। सा जेता तस्य पुरुषस्य न प्रतिच्छति। स्थूलनन्दा भिक्षुणी आह। प्रतिगृह्ण त्वम् आर्ये एतस्य पुरुषस्य। किं ते परो करिष्यति। अवश्रुतो वा अन्-अव-श्रुतो वा। यतो च त्वम् अन्-अवश्रुता। दायकदानपतीनां सकाशात् प्रतिगृह्णीत्वा यदा(था)-प्रत्ययं करोहि। सा भिक्षुणीभिर् उच्यते। मा आर्ये एतां भिक्षुणीम् एवं वद। प्रतिगृह्ण त्वम् आर्ये एतस्य पुरुषस्य। किन् ते परो करिष्यति अवश्रुतो वा अनवश्रुतो वा। यतो च त्वम् अन्-अवश्रुता। दायक-दान-पतीनां सकाशात् प्रतिगृह्णीत्वा यथा-प्रत्ययं करोहि। एवं सकृद् उक्ता न प्रतिक्रमति। द्वितीयम् तृतीयम् अप्य् उक्ता न प्रतिक्रमति। एतं प्रकरणं भिक्षुण्यो महाप्रजापत्या गौतम्या आरोचयन्ति। महाप्रजापती गौतमी भगवतः आरोचयति। भगवान् आह। शब्दापयथ नन्दां यावद् आ[म्] भगवन्। भगवान् आह। दुष्कृतं ते नन्दे। नैष धर्मो नैष विनयः। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय यावत् पर्यवदातानि।

या पुन भिक्षुणी भिक्षुणीं एवं वदेय। प्रतिगृह्ण त्वम् आर्ये एतस्य पुरुषस्य। किं ते परः करिष्यति। अवश्रुतो वा अनवश्रुतो वा। या त्वम् अन्-अवश्रुता। दायक-दान-पतीनां सकाशात् प्रतिगृह्णीत्वा यथा-प्रत्ययं करोहि। सा भिक्षुणी भिक्षुणीभिः उच्यमाना एतद् एव वस्तुं प्रतिगृह्य तिष्थेय न प्रतिनिस्सरेत्। सा भिक्षुणी भिक्षुणीभिर् यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय यावत् तृतीयकं समनुग्राह्यमाणा वा समनुभाष्यमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एतत् कुशलं। नो च प्रतिनिःसरेय। अयम् अपि धर्मो यावत् तृतीयकः।

या पुन भिक्षुणीति यथा स्थूलनन्दा भिक्षुणी। तां भिक्षुणीम् इति यथा तां ये(जे)तां। भिक्षुणीम् एवं वदेत्। सा [भिक्षुणी] भिक्षुणीभि एवम् अस्य वचनीया। पेयालं। एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमाना तद् एवं वस्तुं समादाय प्रतिगृह्य तिष्ठेय। अयम् अपि धर्मो यावत् तृतीयकः यथा भिक्षु-विनये। पेयालं। यावत् प्रज्ञप्तिः। तेन भगवान् आह।

या पुन भिक्षुणी भिक्षुणीम् एवं वदेय। प्रतिगृह्ण त्वम् आर्ये एतस्य पुरुषस्य। किं ते परो करिष्यति अवश्रुतो वा अन्-अवश्रुतो वा। या त्वम् अन्-अवश्रुता। दायक-दान-पतीनां देय-धर्मं प्रतिगृह्णीत्वा यथा-प्रत्ययं करोहि। सा भिक्षुणी भिक्षुणीभिर् एवम् अस्य वचनीया। मा आर्ये एतां भिक्षुणीम् एवं वदे। प्रतिगृह्ण त्वम् आर्ये एतस्य पुरुषस्य। किन् ते परो करिष्यति अवश्रुतो वा अन्-अवश्रुतो वा। या त्वम् अन्-अवश्रुता। दायक-दान-पतीनां देय-धर्मं परितिगृह्णित्वा यथा-प्रत्ययं करोहि। एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमाना तम् एव वस्तुं समादाय प्रतिगृह्य तिष्ठेय। न प्रतिनिः-सरेय। सा भिक्षुणी भिक्षुणीभिर् यावत् तृतीयकं समनुग्राहितव्या समनुशासितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय। यावत् तृतीयकं समनुग्राह्यमाणा समनुभाष्यमाणा तम् वस्तुं प्रतिनिःसरेय इत्य् एतत् कुशलं। नो च प्रतिनिःसरेय तम् एव वस्तुं समादाय प्रतिगृह्य तिष्ठेय। अयन् धर्मो यावत् तृतीयकः।

संघ-भेदः-द्वेय भेदेन

१६७. भगवान् राजगृहे विहरति। द्वौ भेदेन तथैव कर्तव्यो यावत् तेन भगवान् आह।

या पुन भिक्षुणी समग्रस्य संघस्य भेदाय पराक्रमेय भेदन-सम्वर्तनीयं वा अधिकरणं समादाय प्रतिगृह्य तिष्ठेय। सा भिक्षुणी भिक्षुणीभिर् एवम् अस्य वचनीया। मा आर्ये समग्रस्य संघस्य भेदाय पराक्रमेय। भेदन-सम्वर्तनीयम् वा अधिकरणं समादाय प्रतिगृह्य तिष्ठाहि। समेतु आर्या संघेन। समग्रो हि संघो सहितो सम्मोदयमान अविवदमानो। एक्ऽ उद्देशो क्षीरोदकी-भूतो शास्तुः शासनं दीपयमानः सुखञ् च फासुञ् च विहरति। एवं च सा [भिक्षुणी] भिक्षुणीभिर् उच्यमाना तम् एव वस्तुं समादाय प्रतिगृह्य तिष्ठेय। न प्रतिनिःसरेय। सा भिक्षुणी भिक्षुणीभिर् यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय। यावत् तृतीयकं समनुग्राह्यमाणा वा समनुभाष्यमाणा वा तं वस्तुं न प्रतिनिःसरेय। अयम् अपि धर्मो यावत् तृतीयकः।

संघातिशेष-धर्म १४(३)

तद् अनुवर्तकाः

तस्याः खलु भिक्षुण्या भिक्षुण्यो भवन्ति सहायिका। एका वा द्वौ वा त्रयो वा संबहुला वा। वर्ग-वादिनीयो अनुवर्तिकाः समनुज्ञाः संघभेदाय। ता भिक्षुण्यः भिक्षुण्यो एवम् आहुः। मा आर्यमिश्रिकाः एतां भिक्षुणीं किञ्चिद् अववदित्थ। कल्याणं वा पापकं वा। धर्म-वादिनी चैषा भिक्षुणी विनय-वादिनी चैषा भिक्षुणी। अस्माकं चैषा भिक्षुणी छन्दञ् च रुचिं च सम्-आदाय प्रगृह्य व्यवहरति। यञ् चैतस्याः भिक्षुण्याः क्षमते च रोचते च अस्माकम् अपि तं क्षमते च रोचते च। जानन्ती चैषा भिक्षुणी भाषते नो अ-जानन्ति। ता भिक्षुण्यो भिक्षुणीभिर् एवम् अस्य वचनीयाः। मा आर्य-मिश्रिकाय एवम् अवोचत्। नैषा भिक्षुणी धर्म-वादिनी। नैषा भिक्षुणी विनय-वादिनी। मार्य-मिश्रिकाः संभेदं रोचयन्तु। संघ-सामग्रीम् एवार्य-मिश्रिका रोचयन्तु। समग्रो हि संघो। सहितो सम्मोदयमानो अ-विवदमानो एक्ऽ-उद्देशो क्षीरोदकी-भूतो शास्तुः शासनं दीपयमानः। सुखाञ् च फासुञ् च विहरति। एवञ् च ता भिक्षुण्यो भिक्षुणीभिः उच्यमाना तं वस्तुं प्रतिनिःसरेंसुः इत्य् एतत् कुशलं। नो चे प्रतिनिःसरेंसुः ता भिक्षुण्यो भिक्षुणीभिः यावत्-तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तु[स्य] प्रतिनिःसर्गाय। यावत् तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेंसुः इत्य् एतत् कुशलं। नो च प्रतिनिःसरेंसुः। तद् एव वस्तुं समादाय प्रगृह्य तिष्ठेयुः। अयम् अपि धर्मो यावत्-तृतीयकः।

संघातिशेष-धर्म १५(4)
आक्रोशो

१६८. भगवान् श्रावस्तीयम् विहरति। तत्र स्थूलनन्दा नाम भिक्षुणी अधिकरणान्य् उत्पादयति। तस्या संघेन उत्क्षेपनीयं कर्म कृतं। सा संघं आक्रोशति संघम् अ-गति-गमनेन प्रापयति। छन्द-गामी चार्या संघो। दोष-गामी चार्या संघो। भय-गामी चार्या संघो। मोह-गामी चार्या संघो। छन्दन् निश्राय। दोषन् निश्राय। मोहन् निश्राय मम आक्रोषितव्यं। परिभाषितव्यम् मन्यति। भिक्षुणी भिक्षुणीभिर् उच्यते। मा आर्ये नन्दे संघम् अ-म(ग)ति-गमनेन प्रापय। न संघो छन्द-गामी। पेयालं। यावन् न मोहन् निश्राय यावद् आर्या एवं छन्द-गामी। मा आर्ये छन्दन् निश्राय संघम् आक्रोषितव्यम् मन्यसि परिभाषितव्यम् मन्यसि। सा त्वम् एवम् उच्यमानी न प्रतिक्रमसि द्वितीयं तृतीयम् अध्युच्यमानि न प्रतिक्रमसि। एतं प्रकरणं यावद् भगवान् आह। तेन हि गच्छथ। त्रिष्कृत्वा कुव्-एगे। त्रिष्कृत्वा महा-जने। तृष्कृत्वा संघ-मध्ये समनुग्राहथ समनुभाषथ एतस्य व[स्तु]स्य प्रतिनिःसर्गाय। सा कुव्-एगे उच्यते। सत्यं त्वम् आर्ये नन्दे संघम् अ-गति-गमनेन प्रापयति (सि)। अलम् आर्ये नन्दे संघम् अ-गति-गमनेन प्रापयितुं। यावत् खलु ते आर्ये मित्राय करणीयं अर्थ-कामाय हितैषिणीय करोति। ते तन् मित्रा एक-वाचा गच्छन्ति। द्वे वाचे अवशिष्टे। प्रतिनिःसर न प्रतिनिस्सरामीत्य् आह। एवम् महा-जने संघ-मध्ये अवलोकना कर्तव्या। सत्यं त्वम् आर्ये नन्दे संघम् अ-गति-गमनेन प्रापयसि। पेयालं। याव आमो त्य् आह। सा ताव संघ-मध्ये पि वक्तव्या पेयालं। एतं प्रकरणं भिक्षुण्यो आरोचयेयुः। अनुभाष्टा भगवन् आर्या नन्दा त्रिष्कृत्वा कुव्-एगे त्रिष्कृत्वा म[हा-ज]ने त्रिष्कृत्वा संघमध्ये एतस्य वस्तुनः प्रतिनिःसर्गाय। न प्रतिनिःसरति। भगवान् आह शब्दापयथ नन्दां। पेयालं। यावद् एवं चैवञ् च पृष्टा। पेयालं। आम् भगवन्। भगवान् आह। दुष्कृतं ते नन्दे। नन्व् अहं नन्दे अनेक-पर्यायेण दौर्वचस्यं विगर्हामि यावन् नैवं कुर्वतो वृद्धिर् भवति कूशलेषु धर्मेषु अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय। पेयालं। यावत् पर्यवदातानि भविष्यन्ति।

भिक्षुणी खलु पुनः संघाक्रोशिका भवति। सा एवम् आह। छन्द-गामी च संघो। दोष-गामी च। भय-गामी च। मोह-गामी च। संघो छन्दन् निश्राय। दोषन् निश्राय। भयन् निश्राय। मोहन् निश्राय। समाक्रोशितव्यं परिभाषितव्यं मन्यति। सा भिक्षुणी भिक्षुणीभिर् एवम् अस्य वचनीया। मा आर्ये एवं वद। न संघो छन्द-गामी। न संघो दोष-गामी। न संघो भय-गामी। न संघो मोह-गामी। न च संघो छन्दन् निश्राय। दोष-भय-मोहन् निश्राय आक्रोशितव्यं। परिभाषितव्यं मन्यति। आर्ये च छन्दन् निश्राय दोषं भयं मोहन् निश्राय संघम् आक्रोशितव्यं मन्यति। एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमान तद् एव वस्तुं समादाय प्रगृह्य तिष्ठेय। सा भिक्षुणी भिक्षूणीभिः यावत्-तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिस्सर्गाय। यावत्तृतीयकं समनुग्राहियमाना वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिस्सरेय इत्य् एतत् कुश्लं। नो च प्रतिनिस्सरेंसुः। अयम् अपि धर्मो यावत्-तृतीयकः। पेयालं।

यावद् एषा भिक्षुणी त्रिष्कृत्वा कुव्-एगे समनुग्राहियमाना समनुभाषियमाणा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिःसरति। वाचायाम् वाचायां विनयातिक्रमम् आसादयति। एवं महाजने संघ-मध्ये ज्ञप्तिम् अधिवासयति विनयातिक्रमम् आसादयति। प्रथमायां वाचायां अ-व्यवरोपितायां विनयातिक्रमः। व्यवरोपितायां स्थूलात्ययः। एवम् द्वितीया-तृतीयाम् वा वाचायां यावद् व्यवरोपितायां संघातिशेषं। यदा संघातिशेषाम् आपत्तिम् आपन्ना।

ये च कुव्-एगे। ये च महा-जने। ये च संघ-मध्ये विनयातिकरमाः। स्थूलात्ययाः सर्वे ते प्रतिप्रस्रभ्यन्ति स्थापयित्वा अष्टौ स्थूलात्ययाः। न संघम् अ-गति-गमनेन प्रापयन्ती। अन्तरा प्रतिनिःसरति यथा-स्थितासु आपत्तिषु कारयितव्या। कथं तावत् प्रतिनिः सर्गार्हं कथम् अ-प्रतिनिःसर्गार्हं। अभूषि मे संघम् अ-गति-गमनेन प्रापयिष्यन् ति प्रापयामि प्रापयिष्यामि चेति एवं प्रतिनिःसर्गार्हं। कथं प्रतिनिःसर्गार्हं। अभूषि मे संघम् अ-गतिगमनेन प्रापयिष्यन् ति प्रापितञ् च। न खल्व् इदानीं प्रापयामि न च प्रापयिष्यामीत्य् अ-प्रतिनिःसर्गार्हं। तेन भगवान् आह।

भिक्षुणी खलु पुनः संघाक्रोशिका भवति। सा एवम् आह। छन्द-गामी। चार्य-मिश्रिकायो। संघो दोष-गामी च भय-गामी च संघो। मोह-गामी च संघो। छन्दन् निश्राय दोषं भयं मोहं निश्राय समाक्रोशितव्याम् परिभाषितव्याम् मन्यति। सा भिक्षुणी भिक्षुणीभिर् एवम् अस्य वचनीया। मा आर्ये संघ-आक्रोशिका भवाहि। न संघो छन्द-गामी। न संघो दोष-गामी। न संघो भयगामी। न संघो मोह-गामी। न च संघो छन्दन् निश्राय दोषं भयं मोहं निश्राय आर्याम् आक्रोशितव्याम् परिभाषितव्याम् मन्यति। आर्या एवं छन्द-गामिनी दोष-गामिनी भय-गामिनी मोहगामिनी। आर्या एव छन्दन् निश्राय दोषं भयं मोहन् निश्राय संएघम् आक्रोशितव्यं रोषितव्यं परिभाषितव्यं मन्यति। विरमार्य संघाक्रोशनातो। एवं च सा भिक्षुणी भिक्षुणीभिर् उच्यमाना तम् एवि वस्तुं समादाय प्रतिगृह्य तिष्ठेत्। न पर्तिनिःसरेय। सा भिक्षुण् भिक्षुनीभिर् यावत्-तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय। यावत्-तृतीयकं समनुग्राह्यमाना वा समनुभाषियमाना। तं वस्तुं प्रतिनिःसरेय इत्य् एतत् स्कणं (कुशलं)। नो चेत् प्रतिनिःसरेय। अयम् अपि धर्मो यावत्-तृतीयको।

संघातिशेष-धर्म १६(5)
दौर्वचस्यं-दुर्वचकजातियो

१६९. भगवान् कौशाम्बीयाम् विहरति। छन्दक-माता नाम भिक्षुणी। सा उद्देश-पर्यवसानेहि शिक्षापदेहि भिक्षुणीहि शिक्षायां सह धर्मेण सह विनयेन वुच्यमाना। पेयालं। यथैव छन्दकस्य तथैवं विहारेण (विस्तरेण) कर्तव्यं। तेन भगवान् आह।

भिक्षुणी खलु पुनर् दुर्-वचक-जातीय भवति। सा उद्देश-पर्यापन्नेहि शिक्षापदेहि भिक्षुणीहि शिक्षायां सह धर्मेण सह विनयेन वुच्यमाना आत्मानम् अ-वचनीयं करोति। सा एवम् आह। मा मे आर्यमिश्रिकायो किञ्चिद् वदथ कल्याणम् वा पापकं वा। अहम् अप्य् आर्यमिश्रिकाणान् न किञ्चिद् वक्ष्यामि कल्याणम् वा पापकम् वा। विरमन्त्व् आ[र्य]मिश्रिकायो मम वचनाय। सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया। मा आर्ये उद्देश-पर्यापन्नेहि शिक्षापदेहि भिक्षुणीहि शिक्षायां सह धर्मेण सह विनयेन वुच्यमाना आत्मानम् अ-वचनीयं करोहि। वचनीयम् एवार्यात्मानं करोतु। आर्या पि भिक्षुणीयो वदन्तु शिक्षायां सह धर्मेण सह विनयेन। आर्यम् अपि भिक्षुणीयो वक्ष्यन्ति शिक्षायां सह धर्मेण सह विनयेन। एवं संवृद्धा खलु पुनर् आर्ये तस्य भगवतस् तथागतस्य अर्हतः सम्यक्सम्बुद्धस्य पर्षा यद् इदम् अन्यमन्य-वचनीया अन्यमन्यापत्ति-व्युत्थापनीया। एवं च सा भिक्षुणीहि वुच्यमाना तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेय। न प्रतिनिःसरेय। सा भिक्षुणी भिक्षुणीहि यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय। यावात्-तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाण वा तम् वस्तुं प्रतिनिःसरेय इत्य् एवं कुशलं। नो च प्रतिनिःसरेय तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेय। अयम् अपि धर्मो यावत् तृतीयको।

द्वे संसृष्टा विहरन्ति

१७०. भगवां च्छ्रावस्त्यां विहरति। एता दानि भिक्षुणीयो नन्दा च शाक्य-कन्या उत्तरा च मासोरक-धीता कायिकेन संसर्गेण संसृष्टा हि विहरन्ति। वाचिकेन संसर्गेण संसृष्टा विहरन्ति। (कायिकवाचिकेन [सं]सर्गेण संसृष्टा विहरन्ति। )। अन्यम[न्य]स्यावद्यानि प्रतिच्छादयन्ति। किन्ति दानि कायिकेन संसर्गेण संसृष्टा विहरन्ति। पेयालं। किन् ति दानि अन्यमन्यस्यावद्यानि प्रतिच्छादयन्ति। एकाये अवद्यम् अपराच्छादेति। अपरात् वद्यम् अपरा च्छादेति। तायो भिक्षुणीयो भिक्षुणीहि वुच्चन्ति। मार्यमिश्रिकायो कायिकेन संसर्गेण संसृष्टा विहरण(थ) मा वाचिकेन मा कायिकवाचिकेन। मा अन्यमन्यस्यावद्यानि च्छादेथ। तायो सकृद् उक्तायो न प्रतिक्रमन्ति। द्वितीयं तृतीयम् अप्य् उक्ता न प्रतिक्रमन्ति। एतं प्रकरणं ता भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। महाप्रजापती गौतमी भगवतो आरोचयेत्। विस्तरेण। पेयालं।

भिक्षुणी[यो] खलु पुनर् द्वे संसृष्टा विहरन्ति। अन्यमन्यस्यावद्य-प्रतिच्छादिका। ता भिक्षुणीयो भिक्षुणीहि एवम् अस्य वचनीया। मा आर्येमिश्रिकायो संसृष्टा विहरथ अन्यमन्यस्यावद्य-प्रतिच्छादिका। नाना आर्यमिश्रिकायो विहरथ। नाना वो विहरन्तीनां वृद्धिर् एव प्रतिकांक्षितव्या कुशलेहि धर्मेहि। न परिहाणिः। एवं च तायो भिक्षुणीयो भिक्षुणीहि वुच्यमानास् तं वस्तुं प्रतिनिस्सरेंसुः। इत्य् एतं कुशलं। नो च प्रतिनिस्सरेंसुः ता भिक्षुणीयो भिक्षुणीहि यावत्-तृतीयकं समनुग्राहितव्याः समनुभाषितव्याः तस्य वस्तुस्य प्रतिनिस्सर्गाय। यावत्-तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिस्सरेंसुः इत्य एतं कुशलं। नो च प्रतिनिस्सरेंसुः तम् एवम् वस्तुं समादाय प्रतिगृह्य तिष्ठेंसुः। अयम् अपि धर्मो यावत् तृतीयको।

भिक्षुणीयो खलु पुन द्वे संसृष्टा विहरन्ति यथा नन्दा च शाक्यकन्या उत्तरा च माशोरक-धीता। संसृष्टा विहरन्ति कायिकेन वाचिकेन कायिक-वाचिकेन। अवद्य-प्रतिच्छादिका ति आपत्ति-प्रतिच्छादिका। ता भिक्षुणीयो यथा नन्दा च शाक्य-कन्या उत्तरा च माशोरक-धीता। भिक्षुणीहीति संघेन महा-जनेन एक-भिक्षुणीय। एवं स्युर् वचनीया। मा आर्यमिश्रिकायो संसृष्टा विहरथ। अन्यमन्यस्यावद्यप्रतिच्छादिका। पेयालं। यावत् तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेंसुः। यं तं वस्तुं संसृष्टा विहरन्ति अन्यमन्यस्यावद्यानि प्रतिच्छा[द]यन्ति। ता भिक्षुणीयो ति यथा नन्दा च शाक्य-कन्या उत्तरा च माशोरक-धिता। भिक्षुणीहीति संघेन महा-जनेन एक-पुद्गलेन यावत्-तृतीयकं समनुग्राहितव्या समनुभाषितव्या। त्रिक्खुत्तो कुवेगे त्रिक्खुत्तो महा-जने त्रिक्खुत्तो संघ-मध्ये समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय। यावत्तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एतं कुशलं। नो च प्रतिनिःसरेंसुः अयम् अपि धर्मो यावत् तृतीयको संघातिशेषो। पेयालं। यावत् प्रज्ञप्तिः। सा एषा भिक्षुणी त्रिक्खत्तो कुव्-एगे समनुग्राहियमाणा वा समनुभाषियमाणा वा प्रतिनिःसर्गार्हं वस्तुन् न प्रतिनिःसरति वाचायां वाचायां विनयातिक्रमम् आसादयति। एवं महा-जने संघ-मध्ये ज्ञप्तिम् अधिवासयति विनयातिक्रमम् आसादयति। प्रथमायां वाचायाम् अध्योरोपितायां विनयातिक्रमम् आसादयति। व्योरोपितायां थूल्ऽ-अच्चयं। एवं द्वितीयायां तृतीयायां वाचायाम् अध्योरोपितायां थूल्ऽ-अच्चयं। अध्योरोपितायां संघातिशेषं। किन् ति दानि प्रतिनिःसर्गार्हं द्रष्टव्यं। किम् अ-प्रतिनिःसर्गार्हं। अभूषि खलु मो संसृष्टा विहरिष्यामो। अन्योन्य-सावद्य-प्रतिच्छादिका ति विहरामो विहरिष्यामो। नो च खलु विहृतं। एवं प्रतिनिःसर्गार्हं द्रष्टव्यं। किन् ति दानि अ-प्रतिनिःसर्गार्हं द्रष्टव्यं। अभूषि खलु मो संसृष्टा विहरिष्यामो अन्योन्यस्यावद्य-प्रतिच्छादिका ति ते दानीम् विहरामो विहरिष्यामो न विहृतं। मो ति एतं प्रतिनिःसर्गार्हं द्रष्टव्यं। तेन भगवान् आह।

भिक्षुणीयो खलु पुन द्वे संसृष्टायो विहरन्ति अन्योन्यस्या-वद्य-प्रतिच्छादिका। पेयालं। विस्तरेण।

संघातिसेष-धर्म १८(७)

तासाञ् चानुविचारिका

१७१. भगवां च्छ्रावस्त्यां विहरति। भगवान् आह। शिक्षापदं प्रज्ञप्तं। न क्षमति भिक्षुणीहि संसृष्टा विहरितुन् ति। नन्दा च शाक्य-कन्या उत्तरा च माशोरक-धीता भिक्षुणीयो नाना विहरन्ति। स्थूलनन्दा भिक्षुणी तासाम् आह। संसृष्टा एव यूयम् आर्यमिश्रिकायो विहरथ। अन्यमन्यस्यावद्य-प्रतिच्छादिका। तासां संसृष्टानां वो विहरन्तीनां वृद्धिर् एव प्रतिकांक्षितव्या कुशलेहि धर्मेहि। न परिहानिः। किं यूयम् एव एवं-रूपा संघे। सन्त्य् अन्या अप्य् एवं-रूपा संघे। न च संघो तासां किञ्चिद् आह। युष्मान् एव संघो अवज्ञाय परिभवेन ओमर्दितव्यं (व्यां) परिमर्दितव्याम् मन्यति। सा भिक्षुणीहि वुच्चति। मा आर्ये नन्दे एतायो भिक्षुणीयो एवं वद संसृष्टा एव आर्यमिश्रिकायो विहरथ। पेयालं। यावत् परिमर्दितव्याम् मन्यति।

सा सकृद् उक्ता न प्रतिक्रमति। एवं द्वितीयं तृतीयम् अप्य् उक्ता न प्रतिक्रमति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति। महाप्रजापती पि गौतमी भगवतो आरोचेति। भगवान् आह। यद्य् एषा स्थूलनन्दा नाम भिक्षुणी नन्दां शाक्यकन्यां उत्तरां च माशोरक-धीताम् एवम् आह। संसृष्टा एव आर्यमिश्रिकायो विहरथ। पेयालं। यावत् सकृद् उक्ता न प्रतिक्रमति। द्वितीयम् पि तृतीयम् पि उक्ता न प्रतिक्रमति। तेन हि गच्छथ नंत्रिक्खत्तो कुव्-एगे त्रिक्खत्तो महा-जने त्रिक्खत्तो संघ-मध्ये समनुग्राहयथ समनुभाषथ एतस्य वस्तुस्य प्रतिनिःसर्गाय। सा कुव्-एगे वक्तव्या। सत्यं त्वम् आर्ये नन्दे एता भिक्षुणीयो एवम् वदसि यावद् आमो त्य् आह। सा त्वं कुव्-एगे वुच्चति। मा आर्ये नन्दे एता भिक्षुणीयो एवं वद। पेयालं। यं खलु ते आर्ये नन्दे मित्राय करणीयं अर्थ-कामाये हितैषिणीये अनुकम्पिकाय अनुकम्पाम् उपादाय करोति। तं मित्रा एका वाचा गच्छति द्वे वाचा अवशिष्टा प्रतिनिःसरामित्य् आह। एवं द्वितीया तृतीया। एवं महा-जने संघमध्ये अवलोकना कर्तव्या। एवं एव यावद् अनुभाष्टा न प्रतिनिःसरति। पेयालं। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। महाप्रजापती गौतमी भगवत आरोचयेथ(त्)। भगवान् आह शब्दापयथ नन्दां। सा दानि शब्दापिता। एतद् एव सर्वं पृच्छीयति। यावद् आम् भगवन्। भगवान् आह। दुष्कृतं ते नन्दे यावत् सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी भिक्षुणीयो नाना विहरन्तीयो एवम् वदेय। संसृष्टा एव आर्यमिश्रिकायो विहरथ अन्यमन्य-सावद्य-प्रतिच्छादिका। संसृष्टानां वो विहरन्तीनां वृद्धिर् एव प्रतिकांक्षितव्या कुशलेहि धर्मेहि। न परिहाणिः। किं पुनर् यूयम् एव एवं-रूपा संघे। सन्त्य् अन्या प्य् एवं-रूपा संघे। न च तासां संघो किञ्चिद् आह। युष्मान् एव संघो अवज्ञाय परिभावेन ओमर्दितव्यां परिमर्दितव्याम् मन्यति। सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया। मा आर्ये नन्दे इत्थन्-नामां च इत्थन्-नामां च भिक्षुणीं नाना विहरन्तीं अनुविचारेहि। संसृष्टा एव यूयम् आर्यमिश्रिकायो विहरथ। अन्यमन्यस्यावद्य-प्रतिच्छादिका। नाना-संसृष्टानां वो विहरन्तीनां वृद्धिर् एव प्रतिकांक्षितव्या कुशलेहि धर्मेहि। न परिहानिः। किम् पुनर् यूयम् एव एवं-रूपा संसृष्टा संघे। सन्त्य् अन्या अपि एवं-रूपा संघे। न च संघो तासां किञ्चिद् आह। युष्माकम् एव संघो अवज्ञाय परिभवेन ओमर्दितव्यां परिमर्दितव्याम् मन्यति। एवं च सा भिक्षुणी भिक्षुणीहि वुच्यमाना तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेय न प्रतिनिस्सरेय। सा भिक्षुणी भिक्षुणीहि यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय। यावत्-तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एतं कुशलं। नो च प्रतिनिस्सरेय। अयं पि धर्मो यावत्-तृतीयको।

या पुन भिक्षुणीति यथा स्थूलनन्दा। ता भिक्षुणीयो ति यथा नन्दा च शाक्य-कन्या उत्तरा च मासोरक-धीता। एवं वदेय। संसृष्टा एव यूयम् आर्य-मिश्रिकायो विहरथ अन्यमन्यस्यावद्यप्रतिच्छादिका ति कायिकेन वाचिकेन कायिक-वाचिकेन संसर्गेण। मा नानां संसृष्टानां वो ऽधिविहरन्तीनां वृद्धिर् एव प्रतिकांक्षितव्या कुशलेहि धर्मेहि न परिहाणिः। पेयालं।

सा भिक्षुणीति यथा स्थूलनन्दा भिक्षुणी। भिक्षुणीहीति संघेन महा-जनेन एक-पुद्गलेन एवम् अस्य वचनीया। आर्ये-मिश्रान् नामे। पेयालं। यावन् न प्रतिनिस्सरेय। सा भिक्षुणी भिक्षुणीहि यावत्-तृतीयकम् ति त्रिक्खत्तो कुव्-एगे त्रिक्खत्तो महा-जने त्रिक्खत्तो संघमध्ये। सा कुव्-एगे वक्तव्या। सत्यं त्वम् आर्ये इत्थन्-नामे इत्थन्-नामां च इत्थन्-नामां च भिक्षुणीम् यावद् आमो त्य् आह। सा कुव्-एगे वुच्चति। मा आर्ये इत्थन्-नामाञ् च इत्थन्-नामाञ् च भिक्षुणीं नाना विहरन्तीं अनुविहा(चा)रेहि। पेयालं। अयम् अपि धर्मो यावत् तृतीयको। पेयालं। सा एषा भिक्षुणी त्रिक्खत्तो कुव्-एगे समनुग्राहियमाणा वा समनुभाषियमाणा वा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिःसरति वाचायां वाचायां विनयातिक्रमम् आसादयति।

एवं महा-जने संघ-मध्ये ज्ञप्तिम् अधिवासयति विनयातिक्रमम् आसादयति। यावत् तृतीयायां वाचायां अध्योरोपितायां संघातिशेषं। पेयालं। यावत् किन् ति दानि प्रतिनिःसर्गार्हं द्रष्टव्यं किम् अ-प्रतिनिःसर्गार्हं। अभूषि खलु इमे इत्थन्-नामायो भिक्षुणीयो वदिष्यं। संसृष्टा एवार्य-मिश्रिकायो विहरथ। अन्योन्यसावद्य-प्रतिच्छादिका वदामि वदिष्यामि। न खलु वदितं एवं प्रतिनिःसर्गार्हं। किन् ति दानि अ-प्रतिनिःसर्गार्हं। अभूषि खलु मे इत्थन्-नामायो भिक्षुणीयो वदिष्यं। संसृष्टा एवार्य-मिश्रिकायो विहरथ। अन्योन्य-सावद्य-प्रतिच्छादिका ति। वदितं खलु मे इदानीम् वदामि न वदिष्यामि चेति एवम् अ-प्रतिनिःसर्गार्हम् द्रष्टव्यं। तेन भगवान् आह।

या पुन भिक्षुणी भिक्षुणीयो नाना विहरन्तीयो एवम् वदेय। विस्तरेण। यावद् अयं पि धर्मो यावत् तृतीयको।

संघातिशेष-धर्म१९(8)

शिक्षा-प्रत्याख्यायिका

१७२. भगवान् शाक्येषु विहरति। शाक्यानां कपिलवस्तुस्मिं न्यग्रोधारामे। तहिं दानी द्वे माता-धीतरे अगारस्यानगारिकां प्रव्रजिते। धीता शाक्येहि प्रव्रजिता माता तीर्थिकेहि। सा दानि माता धीतरम् आह। पुत्रिणि। किं वयं जीवन्तिका एव अन्यमन्यं न पश्यामः। इहैव चागच्छ। सा दान् आह। आगच्छामी। न मया यथा वा तथा वा शक्यम् आगन्तुं। यावत् किञ्चिद् अधिकरणम् उत्पादयामि। सा भिक्षुणी भिक्षुणीहि सह वाचो वाचिकं करोति। सा यदा पया(र्या)दिन्ना भवति तदा आह। बुद्धं प्रत्याख्यामि। एवं धर्मं संघं शिक्षाम् उद्देशं सम्वासं सम्भोगं शास्तृ-पदं भिक्षुणी-भावं प्रत्याख्यामि। शाक्य-पुत्रीय भावं प्रत्याख्यामि। किं एता एव श्रमणिका शाक्य-पुत्रीया। सन्त्य् अन्यान्य् अपि पृथु-तीर्थ्यायतनानि। तत्र ब्रह्मचर्यं चरिष्यं। सा दानि भिक्षुणीहि वुच्चति। मा आर्ये बुद्धं प्रत्याख्याहि यावत् मा शाक्य-पुत्रीय भावं प्रत्याख्याहि। असाधु आर्ये बुद्ध-प्रत्याख्यानं यावद् असाधु शाक्य-पुत्रीय भाव-प्रत्याख्यानं।

सा सकृद् उक्ता न प्रतिक्रमति। द्वितीयं तृतीयम् पि उक्ता न प्रतिक्रमति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये [गौतमीये] आरोचयेंसुः। महाप्रजापती पि गौतमी भगवतो आरोचयेति। भगवान् आह। तेन हि भिक्षुण्यो। यद्य् एषा इत्थन्-नामा भिक्षुणी शिख्या-प्रत्याख्यायिका। सा एवम् आह। बुद्धं प्रत्याख्यामि। पेयालं। यावत् तत्र ब्रह्मचर्यञ् चरिष्यं। सा सकृद् उक्ता न प्रतिक्रमति। द्वितीयं तृतीयम् अप्य् उक्ता न प्रतिक्रमति। तेन हि गच्छथ। तां त्रिक्खत्तो कुव्-एगे त्रिक्खत्तो महाजने त्रिक्खत्तो संघ-मध्ये स[म] नुग्राहथ समनुभाषथ एतस्य वस्तुस्य प्रतिनिःसर्गाय। सा दानि कुव्-एगे वक्तव्या। सत्यं त्वम् आर्ये इत्थन्-नामो(मे) शिक्षां प्रत्याख्यासि। सा त्वम् एवम् वदसि बुद्धं प्रत्याख्यामि। पेयालं। यावत् किं पुनर् एता एव श्रमणिका शाक्य-पुत्रीयाः। सन्त्य् अन्यान्य् अपि पृथु-तीर्थ्यायतनानि। तत्र ब्रह्मचर्यं चरिष्यन् ति। आमो त्य् आह। सा [त्वं] कुव्-एगे वुच्चसि मा त्वम् आर्ये इत्थन्-नामे बुद्धं प्रत्याख्याहि यावच् छाक्य-पुत्रीय भावं प्रत्याख्याहि। असाधु आर्ये बुद्ध-प्रत्याख्यानं। यावद् असाधु शाक्य-पुत्रीय भाव-प्रत्याख्यानं।

यं खलु ते आर्ये इत्थन्-नामाय मित्राय करणीयं अर्थकामाय हितैषीणीये करोति। तेन मित्रा एकम् वाच(एक-वाचा) गच्छति। द्वे वाचा अनु(अव)शिष्टा प्रतिनिःसर न प्रतिनिस्सरामीत्य् आह। एवम् द्वितीयम् पि तृतीयम् पि। एवं महा-जने संघ-मध्ये अवलोकना कर्तव्या यावद् एतं प्रकरणं भिक्षुणीयो भगवतो आरोचयेंसुः। भगवान् आह। शब्दापयथ तां भिक्षुणीं। सा दानि शब्दापिता। सत्यन् ति। तद् एवं पृच्छीयति। यावद् आम् भगवन्। भगवान् आह दुष्कृतं ते। पेयालं। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि यावत् पर्यवदातानि भविष्यन्ति।

भिक्षुणी खलु पुनः शिख्या-प्रत्याख्यायिका भवति। सा दान् आह। बुद्धं प्रत्याख्यामि। धर्मं संघं शिक्षाम् उद्देशं सम्वासं संभोगं शास्तृ-पदं भिक्षुणी-भावं श्रमणी-भावं शाक्य-पुत्रीयभावं प्रत्याख्यामि। किं एता एव श्रमणिका शाक्यपुत्रीया। सन्त्य् अन्यान्य् अपि पृथु-तीर्थ्यायतानानि। तत्र ब्रह्मचर्यं चरिष्यं। सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया। मा आर्ये शिख्या-प्रत्याख्यायिका भोहि। मा बुद्धं प्रत्याख्याहि। मा धर्मं संघं शिक्षाम् उद्देशं सम्वासं संभोगं शास्तृ-पदं भिक्षुणी-भावं श्रमणि-भावं शाक्य-पुत्रीय भावं प्रत्याख्याहि। असाधु आर्ये बुद्ध-प्रत्याख्यानं। असाधु धर्म-प्रत्याख्यानं। असाधु संघ-प्रत्याख्यानं। शिक्षा-उद्देश-सम्वास-संभोग-शास्तृपद-भिक्षुणीभाव-श्रमणीभाव-प्रत्याख्यानं। असाधु आर्ये शाक्य-पुत्रीय भाव-प्रत्या[ख्या]नं। एवञ् च सा भिक्षुणी भिक्षुणीहि वुच्यमाना तम् एव वस्तुं समादाय प्रतिगृह्य तिष्ठेय न प्रतिनिःसरेय। सा भिक्षुणी भिक्षुणीहि यावत् तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय। यावत् -तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एतं कुशलं। नो च प्रतिनिःसरेय। अयम् अपि धर्मो यावत्-तृतीयको संघातिशेषो। संघम् एवाधिपतिं कृत्वा निःसरणीयो।

या पुन भिक्षुणीति यथा सा भिक्षुणी। शिक्षा-प्रत्याख्यायिका ति सा एवम् आह बुद्धं प्रत्याख्यामि। पेयालं। यावच् छाक्य-पुत्रीय भावं प्रत्याख्यामि। किम् एता एव श्रमणिका शाक्य-पुत्रीयाः। सन्त्य् अन्यान्य् अपि पृथु-तीर्थ्यायतनानि। तत्र ब्रह्म-चर्यं चरिष्यं। सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया। मा आर्ये बुद्धं प्रय्ताख्याहि यावद् असाधु आर्ये शाक्य-पुत्रीय भाव-प्रत्याख्यानं। एवं च सा भिक्षुणी भिक्षुणीहि वुच्यमाना तम् एव वस्तुं समादाय प्रगृह्य तिष्ठेय न प्रतिनिःसरेय। या सा भिक्षुणी शिक्षा-प्रत्याख्यायिका।

सा भिक्षुणीहीति संघेन महा-जनेन एक-पुद्गलेन यावत्-तृतीयकं समनुग्राहितव्या समनुभाषितव्या त्रिक्खत्तो कुव्-एगे त्रिक्खत्तो महा-जने त्रिक्खतो संघमध्ये। सा दानि कुव्-एगे वक्तव्या। सत्यं त्वम् इत्थन्-नामे एवं वदसि बुद्धं प्रत्याख्यामि यावच् छाक्य-पुत्रीय भावं प्रत्याख्यामि। आम इत्य् आह। सा कुव्-एगे वुच्चति। मा आर्ये इत्थन्-नामे बुद्धं प्रत्याख्याहि। यावद् असाधु आर्ये शाक्य-पुत्रीय भाव-प्रत्याख्यानं। यं खलु ते आर्ये इत्थन्नामाय मित्राय करणीयं। अर्थ-कामाय हितैषिणीये करोति। ते तं मित्रा एक-वाचा गच्छति। द्वे वाचा अवशिष्टा प्रतिनिःसर न प्रतिनिःसरामीत्य् आह। एवं महा-जने संघ-मध्ये अवलोकना कर्तव्या। विस्तरेण। यावत्-तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाणा वा तं वस्तुं प्रतिनिःसरेय इत्य् एते(तं) कुशलं। नो च प्रतिनिःसरेय अयम् अपि धर्मो यावत् प्रज्ञप्तिः।

सा एषा भिक्षुणी त्रिक्खत्तो कुव्-एगे त्रिक्खत्तो महा-जने त्रिक्खत्तो संघ-मध्ये समनुग्राहियमाणा वा समनुभाषियमाणा वा प्रतिनिःसर्गार्हं वस्तुं न प्रतिनिःसरति वाचायां वाचायां विनयातिक्रमम् आसादयति। एवं महा-जने संघ-मध्ये ज्ञप्तिम् अधिवासयति विनयातिक्रमम् आसादयति। प्रथमायां वाचायां अध्योरोपितायां विनयातिक्रमम्। अध्यो-रोपितायां थूल्-अच्चयम्। एवं द्वितीयायां तृतीयायां वाचायाम् अध्योरोपितायां थूल्ऽ-अच्चयम्। अध्योरोपितायां संघातिशेषं। यदा संघातिषेशम् आपत्तिम् आपन्ना भवति तदा ये च कुव्-एगे ये च महा-जने ये च संघ-मध्ये थूल्ऽ-अच्चया च विनयातिक्रमा च सर्वे ते प्रतिप्रस्रभ्यन्ते। एका गुरुका आपत्तिः संस्थिहति यद् इदं संघातिशेषो। अन्तरा प्रतिनिः-सरति यथा-स्थितासु आपत्तिषु कारापयितव्या। किन् ति दानि प्रतिनिःसर्गार्हं द्रष्टव्यं किम् अप्रतिनिःसर्गार्हं। अभूषि खलु मे शिक्षां प्रत्याख्यास्यामि। न खलु मे प्रत्याख्यानं प्र्तिनिःसर्गार्हं द्रष्टव्यं। किन् ति दानि अ-प्रतिनिःसर्गार्हं द्रष्टव्यं। अभूषि खलु मे शिक्षां प्रत्याख्यास्यन् ति। प्रत्याख्यातम् दानि न प्रत्याख्यासि प्रत्याख्यामि चेति। एवम् अ-प्रतिनिःसर्गार्हं द्रष्टव्यं। तेन भगवान् आह।

भिक्षुणी खलु पुनः शिक्षा-प्रत्याख्यायिका भवति। सा एवम् आह। बुद्धं प्रत्याख्यामि धर्मं प्रत्याख्यामि। संघं प्रत्याख्यामि। शिक्षां प्रत्याख्यामि। उद्देशं सम्वासं संभोगं शास्तृ-पदं भिक्षुणी-भावं [श्रमणी-भावं] शाक्य-पुत्री[य] भावं प्रत्याख्याति (मि)। किम् एका(एता) [एव] श्रमणिका शाक्य-पुत्रीयाः। सन्त्य् अन्यान्य् अपि पृथु-तीर्थ्यायतनानि। तत्र ब्रह्मचर्यं चरिष्यं। सा भिक्षुणी भिक्षुणीहि एवम् अस्य वचनीया। मा आर्ये शिक्षा-प्रत्याख्यायिका भोहि। मा धर्म-प्रत्याख्यायिका भोहि। मा संघप्रत्याख्यायिका भोहि। मा शिक्षां प्रत्याख्याहि। मा उद्देशं सम्वासं सम्भोगं शास्तृ-पदं भिक्षुणी-भावं श्रमणी-भावं शाक्य-पुत्रीय भावं प्रत्याख्याहि। तत् कस्य हेतोः। असाधु आर्ये बुद्ध-प्रत्याख्यानं। असाधु धर्म-प्रत्याख्यानं। असाधु संघ-प्रत्याख्यानं। असाधु शिक्षा-प्रत्याख्यानं। उद्देश-संवास-संभोग-शास्तृपद-भिक्षुणीभाव-श्रमणीभाव [प्रत्याख्यानं]। असाधु शाक्य-पुत्रीय भाव-प्रत्याख्यानं। एवं च सा [भिक्षुणी] भिक्षुणीहि वुच्चमाना तं एव वस्तुं समादाय प्रगृह्य तिष्ठेय। न प्रतिनिःसरेय। सा भिक्षुणी भिक्षुणीहि यावत्-तृतीयकं समनुग्राहितव्या समनुभाषितव्या तस्य वस्तुस्य प्रतिनिःसर्गाय। यावत्-तृतीयकं समनुग्राहियमाणा वा समनुभाषियमाना वा तम् वस्तुं प्रतिनिः-सरेय। इत्य् एतं कुशलं। नो च प्रतिनिःसरेय। अयं पि धर्मो यावत्-तृतीयको संघातिशेषो। संघम् एवाधिपतिं कृत्वा निःसरणीयो।

उद्दिष्टा मे आर्यमिश्रिकायो एकूनविंशति संघातिशेषा धर्माः। तत्र एकदे(द)श प्रथमापत्तिकाः अष्टौ यावत्-तृतीयकाः। येषां भिक्षुणी इत्य् अन्यतरान्यतरो(रा)म् आपत्तिम् आपद्यित्वा अर्ध-मासं उभयतो संघे मानत्वं [च]रितव्यं। चीर्ण-मानत्वा भिक्षुणी कृतानुधर्मा। आह्वयन-प्रतिबद्धा यत्र स्याद् विंशति-गणो उभयतो संघो तत्र सा भिक्षुणी आह्वयितव्या। एकेनापि चेद् ऊनोविंशति-गणो उभयतो संघो तां भिक्षुणीम् आह्वेय। सा च भिक्षुणी अन्-आहूता। ते च भिक्षवो ताश् च भिक्षुणीयो गर्ह्याः। इयम् अत्र सामीची। तत्रार्यमिश्रिकायो पृच्छामि। कच्चित् थ परिशुद्धा। द्वितीय-तृतीयं पि आर्यमिश्रिकायो पृच्छामि। कच्चिच् छ (थ) परिशुद्धा। परिशुद्धा अत्रार्यमिश्रिकायो यस्मात् तूष्णीम् एवम् एतन् धारयामि। उद्दानं।

संचरित्रं [1] द्वे अभूते [2,3]।
उतसद-वादो[4] द्वे विना [5,6]।
अन्-अनुज्ञाता च [7]। म (व)ध्या[8]।
च एका नदीन् तरेय [9]।
उत्क्षिप्तका सह धर्मेण [10]।
भिक्षुणी च अन्-अवश्रुता[11]॥

वदेति त्वं प्रतिगृह्णे [12]।
द्वे य भेदेन [13,14] आक्रोशो[15]।
दुर्वचक-जातीयो [16]।
द्वे संसृष्टा विहरन्ति [17]।
तासाञ् चानुविता (चा)रिका [18]।
शिक्षा-प्रत्याख्यायिका चैव [१९]।॥

अष्टौ यावत्-तृतीयकाः संघातिशेषाः समाप्ताः॥

णिःसर्गिक-पाच्त्तिक-धर्माः १-१०

१७३. त्रिंशानाम् आदिः।
दशाहं [१]। विप्रवासो[२]।
अकाले च [३]। जातरूप [४]।
क्रय-विक्रयो [५]। याचते [६]।
सात्त (सान्त)रोत्तरं [७]।
द्वे विकल्पेन [८, ९] राजा च [१०]॥

एतानि साधारणानि।

निःसर्गिक-पाचत्तिक-धर्म ११

शय्यासनस्यार्थाय

१७४. भगवां च्छ्रावस्त्यां विहरति। स्थूलनन्दा भिक्षुणी अपरंहि भिक्षुणी-विहारे शय्यासन-प्रतिग्राहका। सा दानि शय्यासनं याचेति। आह। प्रजापती देहि मञ्चं। देहि संघस्य पीठं। बिसि चतुर्-अश्रकं। कुच्चं बिम्बोहनं। ता दानि स्त्रियो काचिन् माञ्चस्य मूल्यन् देति(देन्ति)। काचित् पीठस्य यावत् का[चि]द् बिम्बोहनस्य। सा खादति च पिबति च। पात्रं च जानापेति। चीवरं च जा[ना]पेति। भिक्षुणीयो पिण्डपातम् अण्वन्तीयो कुलोपग-गृहेहि प्रविशन्ति। ता दानि स्त्रियो पृच्छन्ति। आर्याये नन्दाये मया मञ्चस्य मूल्यं दत्तं। किञ्चित् ताय जानापितं। ता दान् आहंसुः। किं सा भद्रायिणी जानापयिष्यति। खादति च पिबति च पात्रं च जानापेति। चीवरं जानापेति। स्वके मल्लके वर्षति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। महाप्रजापती पि गौतमी भगवतो आरोचेति। भगवान् आह। शब्दापयथ नन्दां। सा दानि शब्दापिता। भगवान् आह। सत्यं त्वं नन्दे शय्यासनस्यार्थाय याचित्वा अन्यं चेतापेति। आह। आम् भगवन्। भगवान् आह। दुष्कृतं ते नन्दे। पेयालम्। तेन हि न क्षमति। शय्यासनस्यार्थाय याचयित्वा अन्यञ् चेतापयित्वा। अथ खलु भगवान् महा-प्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि।

या पुन भिक्षुणी शय्यासनस्यार्थाय याचयित्वा आत्मनो पात्रम् वा चीवरम् वा भक्तम् वा भोज्यम् वा ग्लान-भैषज्यम् वा चेतापयेन् निस्सर्गिक-पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। शय्यासनस्यार्थायेति। शय्यासनं नाम मञ्चं पीठं बिसि चतुरस्रं कुच्चं बिम्बोहनं। याचित्वा ति विज्ञापेत्वा समादापेत्वा। अन्यं चेतापये ति जानापयेत्। पात्रम् वा चीवरम् वा भक्ष्यम् वा भोज्यम् वा चेतापयेन् निस्सर्गिकपाचत्तिकं।

[निस्सर्गिक-पाचत्तिकं ति] संघे निस्सरिय पाचतिकं देशयितव्यं। अनिःसरिय देशेति विनयातिक्रमम् आसादयति।

अथ दानि शयनासनं प्रहीण-मातृकं भवति। वस्तु प्रदर्शयितव्यं। इमं मया अमुकातो मञ्च-मूल्यं लब्धं। इमन् तस्य मञ्चं संजानथ। यावद् बिम्बोय-धानस्य। तम् वस्तुं न दर्शेति विनयातिक्रमम् आसादयति। खण्ड(डं) प्रलुग्नं वा वा लेपनिकाम् वा कर्तुं कुम्भियो उपस्थापयितुं भिक्षुर् अपि शयनासनस्यार्थाय याचयित्वा अन्यं चेतापेति विनयातिक्रमम् आसादयति। वस्तुन् दर्शेत्वा लभ्यं खण्डं प्रलुग्नादि कर्तुं। तेन भगवान् आह।

या पुन भिक्षुणी शय्यासनस्यार्थाय याचित्वा आत्मनो पात्रम् वा चीवरम् वा भक्ष्यम् वा भोज्यम् वा ग्लान-भैषज्यं वा चेतापये निःसर्गिक-पाचत्तिकं॥

निःसर्गिक-पाचत्तिक-धर्म १२
अन्योद्देशिक

१७४a. भगवान् श्रावस्त्याम् विहरति। स्थूलनन्दा नाम भिक्षुणी ओमलिन-मलिनेहि चीवरेहि पाटित-विपाटितेहि खण्डेन पात्रेण छिद्र-विछिद्रेण पिण्डपातम् अण्वन्ति(वति)। स्त्रियो आहंसुः। नास्त्य् आर्याये पात्रं। आह। नास्ति। आह। अहन् ते आर्ये पात्रस्य मूल्यं देमि। पात्रम् आर्ये जानापेतु। अपरा आह। नास्त्य् आर्याये चीवरं। आह नास्ति। आह। अहम् आर्याये चीवरस्य मूल्यं देमि। चीवरम् आर्या जानापयितु। सा खादति च पिबति च नैव पात्रं न चीवरं जानापेति। भिक्षुणीयो पिण्ड-पातम् अण्वन्तीयो कुलोपग-गृहाणी प्रविशन्ति। ता दानि स्त्रियो आहंसुः। मया आर्याये नन्दाये पात्रस्य मूल्यन् दत्तं। किंचित् ताय पात्रं जानापितं। ता दानि भिक्षुणीयो आहंसुः। किं सा भद्रायणी जानापयिष्यति। सा खादति च पिबति च। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति। महाप्रजापती पि गौतमी भगवतो आरोचेति। भगवान् आह। शब्दापयथ नन्दां। सा दानि शब्दापिता। सत्यं नन्दे एवन् नाम त्वं नन्दे अन्योद्देशिकेनान्यं चेतापयसि। आह। आम भगवन्। भगवान् आह। दुष्कृतं ते नन्दे यावद् एवं नाम त्वम् अन्योद्देशिकेन अन्यं चेतापयसि। तेन हि न क्षमति अन्योद्देशिकेनान्यं चेतापयितुं। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति।

या पुन भिक्षुणी अन्योद्देशिकेन अन्यं चेतापयेत् निःसर्गिकपाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। अन्योद्देशिकेनेति पात्र-मूले (ल्ये)न वा चीवर-मूल्येन वा। अन्यं चेतापयेद् इति भक्ष्यम् वा भोज्यम् वा निःसर्गिक-पाचत्तिकं। यावत् प्रज्ञप्तिः। एषो दानि भिक्षुणीयो काचित् पात्रम् वा चीवरम् वा घृतम् वा तैलम् वा चेतापयितुं मूल्यन् देति।यस्यार्थाय देति तम् एव चेतापयितव्यं। पात्र-मूल्येन पात्रं यावद् घृत-मूल्येन घृतं। अन्यं चेतापयति। निःसर्गिकपाचतिकं। अथ अ-नियतं देति यं इच्छति तं जा[ना]पेति अन्-आपत्तिः। अथ दान् आह। यम् इच्छसि तं गृह्णाहीति। यम् इच्छति तं जानापेति अन्-आपत्तिः। भिक्षवोर् अप्य् एवम् एव आपत्तिस् तु विनयातिकरमः। अविवक्षिते अन्-आपत्तिः। यम् वा इच्छसि तं गृह्णाहीति तं गृह्णाति अन्-आपत्तिः। तेन भगवान् आह।

या पुन भिक्षुणी अन्योद्देशकेनान्यं चेतापयति निःसर्गिक-पाचत्तिकं।

निःसर्गिक-पाचत्तिक-धर्म १३
अन्येषां

१७५. भगवान् श्रावस्त्याम् विहरति। स्थूलनन्दा नाम भिक्षुणी संघस्य भक्तकानि समादायेति। सा छन्दकम् अण्वन्ती आह। प्रजापति देथ छन्दकं। आर्यमिश्रिकाणां भक्तं करिष्यामीति। ता दानि स्त्रियो छन्दकं प्रजन्तीन्तीयो जल्पन्ति। आर्ये यस्मिन् दिवसं(से) परिवेषणं भवति। वयं पि परिवेषिका गमिष्यामो ति। अथ सा खादति च पिबति च पात्रं च जानापेति। ताय खादितावशेषेण यादृशं वा भक्तं कृतं। ता दानि स्त्रियो परिवेशिका(षिका) आगतः। आहंसुः। आर्ये अस्माभिर् बहुको छन्दको दिन्नो। इमन् दानि भक्तं लूह-विलूहं। भिक्षुणीयो आहंसुः। किम् एषा भद्रायणी तं करिष्यति। खादति चैषा पिबति च। पात्रं चीवरं चैषा जानापेति। स्वके चैषा मल्लके वर्षति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। महाप्रजापती गौतमी भगवतो आरोचयति। भगवान् आह। शब्दापयथ नन्दां। सा दानि शब्दापिता। सत्यं नन्दे एवन्-नाम त्वम् अन्येषाम् अर्थाय याचित्वा अन्यं चेतापयसि। आम् भगवन्। भगवान् आह। दुष्कृतं ते नन्दे। अथ खलु भगवान् महाप्रजपतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी अन्येषाम् अर्थाय याचयित्वा आत्मनो पात्रम् वा चीवरम् वा भक्ष्यम् वा भोज्यम् वा ग्लान-प्रत्यय-भैषज्य-परिष्कारान् वा चेतापयति। निःसर्गिक-पाचत्तिकं।

या पुन भिक्षुणीहि(ति) उपसम्पन्ना। अन्येषाम् अर्थाय याचयित्वा संघस्य भक्तस्य वा तर्पणस्य वा य्वागू-पानस्य वा याचित्वा आत्मनो पात्रम् वा चीवरम् वा भक्तम् वा भोज्यम् वा ग्लानप्रत्यय-भैषज्य-परिष्कारान् वा चेतापयेन् निस्सर्गिक-पाचत्तिकं। अथ खलु यस्यार्थाय याचति तम् एव जानापयितव्यं। अथ दानि वस्त्रं विप्रणामेति भक्तस्य वा तर्पणस्य वा य्वागू-पानस्य वा अर्थाय याचयित्वा वैभङ्गिकं ददाति। शय्यासनम् वा उपस्थापेति वार्षिकम् वा हेमन्तिकम् वा देति। विनयातिक्रमम् आसादयति। सा एषा भिक्षुणी संघस्य भक्तं दापेति। त्यक्त-मुक्तम् अनवगृहीतं दातव्यं। यदि तहिं किञ्चिच् छेषं भवति ओदनम् वा सूपम् वा यावद् भक्ष्यम् वा भोज्यम् वा उपदर्शयितव्यं। यद्य् आदाय गच्छति अध्युपेक्षितव्यं। अथ दान् आह। आर्याय देमीति। वक्तव्यं। न हि। संघस्य देहि। अथाह दिन्नं मया संघस्य। आर्याय देमीती। प्रतीच्छति। अन्-आपत्तिः। भिक्षोर् अपि एवम् एव आपत्तिस् तु विन्यातिक्रमः। तेन भगवान् आह।

या पुन भिक्षुणी अन्येषाम् अर्थाय याचयित्वा आत्मनो पात्रम् वा चीवरम् वा भक्ष्यम् वा भोज्यम् वा ग्लान-[प्रत्यय]-भैषज्य [परिष्कारान् वा ] चेतापयेन् निःसर्गिक-पाचत्तिकं।

निःसर्गिक-पाचत्तिक-धर्म १४

पात्राणां सन्निचयः

१७६. भगवान् श्रावस्तीयम् विहरति। भिक्षुणीयो आगन्तुका आगताः। तायो भिक्षुणीयो यथा-वृद्धिकाय उत्थापयन्ति। ता दान् आहंसुः याव पात्राणि संक्रामयेमः। तायो दानि अन्-अस्तमिते सूर्ये प्रवृत्ताः संक्रामयितुं। चन्द्रश् चोद्गतः न चाशेषतः संक्रामितानि। आगन्तुका आहंसुः। आर्ये रिक्ते(क्तो) विहारको। आहंसुः यावत् पात्राणि संक्रामः (-क्रामयेमः)। ता (ता) दान् आहंसुः। कियन्त्य् आर्यमिश्रिकाणां पात्राणि। किम् आर्यमिश्रिका [पा]त्रापणं प्रसारयिष्यन्ति। का वा जातिः। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति। महा-प्रजापती पि गौतमी भगवतो आरोचेति। भगवान् आह। शब्दापयथ तायो भिक्षुणीयो। ता दानि शब्दापिताः। सत्यं भिक्षुणीयो ति। भगवांस् तद् एव सर्वं पृच्छीयति। यावद् आम् भगवन्। भगवान् आह। एवञ् च नाम यूयं पात्र-सन्निचयं करोथ। तेन हि न क्षमति पात्र-सन्निचयं कर्तुं। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यव-दातानि भविष्यन्ति।

या पुन भिक्षुणी पात्र-सन्निचयं कुर्यान् निःसर्गिक-पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। पात्र-सन्निचयन् ति पात्रन् नाम सुम्भकं उप-सम्भकं। उक्तटेयकं वंकेटकं तिंखिनि-पात्रं। ज्येष्ठकं मध्यमकं कन्यसकं। अपात्रं अतिपात्रं परिष्कार-पात्रं। सन्निचयं कुर्याद् इति संग्रहं कुर्यान् निस्सर्गिकं यावत् प्रज्ञप्तिः।

भिक्षुणीय षोदष पात्राणि उपस्थापयितव्यानि। एकं पात्रम् अधिष्ठिहितव्यं। त्रीणि पात्राणि मित्राणाम् विकल्पयितव्यानि। चत्वारि अपात्राणि। चत्वारि अतिपात्राणी। चत्वारि परिष्कार-पात्राणि। तद् उत्तरिं उपस्थापयन्ति निःसर्गिक-पाचत्तिकं। एता(तं) दानि भिक्षुणीये परिमाणं बद्धं पात्र-धारणं। किञ्चापि भिक्षुः बहुकान्य् अपि पात्राणि विकल्पेत्वा परिभुञ्जाति अन्-आपत्तिः। तेन भगवान् आह।

या पुन भिक्षुणी पात्र-सन्निचयं कुर्यान् निःसर्गिक-पाचत्तिकं

निःसर्गिक-पाचत्तिक-धर्म १५

चीवर-सन्निचयः

१७६a. भगवान् श्रावस्तीयम् विहरति। भिक्षुणीयो आगन्तुकाः आगता। ता भिक्षुणीयो यथा-वृद्धिकाय उपस्थापयन्ति। ता दान् आहंसुः यावच् चीवराणि संक्रामेमः। तायो दानि अन्-अस्तमिते सूर्ये प्रवृत्ताः संक्रामयितुं। चन्द्रोद्गतः न चाशेषतो संक्रामितानि। आगन्तुकायो आहंसुः। आर्ये रिक्तो विहारको। आहंसुः। यावच् चीवरानी संक्रामेमः। ता दान् आहंसुः। कियन्त्य् आर्यमिश्रिकाणां चीवराणि। किम् आर्यमिश्रिकाः प्रावरिकापणं प्रसारयिष्यथ। का वा जातिः। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। महाप्रजापती पि गौतमी भगवतो आरोचेति। यावद् भगवान् आह।

या पुन भिक्षुणी

या तावद् एकं पञ्च-चीवरम् अधिष्ठिहितव्यं। त्रीणि पञ्च चीवराणि मित्राणां विकल्पयितव्यानि। एवम् एतानि विंशति चीवराणि। अतो उत्तरि उपस्थापयेन् निस्सर्गिक-पाचत्तिकं। एतं दानि भिक्षुणीये परिमाणं बद्धञ् चीवरधारणं। किञ्चापि भिक्षु बहुकानि चीवराणि मित्राणां विकल्पयित्वा परिभुञ्जाति अन्-आपत्तिः। तेन भगवान् आह।

या पुन भिक्षुणी-चीवर-सन्निचयं कुर्यात् निस्सर्गिक-पाचत्तिकं॥

निःसर्गिक-पाचत्तिक-धर्म १६

निःशृजाति

१७७. भगवान् श्रावस्तीयम् विहरति। स्थूलनन्दा नाम भिक्षुणी चीवराणि नैव धोवति न सीवेति न रञ्जेति। ताये दानि ओमलिन-मलिना संघाटी पाटित-विपाटिता। उपाश्रये निक्षिप्ता या इच्छति सा उपादीयतू ति। अथापरा भिक्षुणी जेता नाम लूह-चीवर-धरा। सा भिक्षुणीहि वुच्चति। आर्ये एतां संघाटिं धोविय सीविय फोषिय प्रावृता। सा दानि स्थूलनन्दा आह। आनेहि आर्ये एतां संघाटिं मह्यं एषा संघाटी। पश्यथ आर्यमिश्रिकायो न किञ्चिच् छक्यते उपाश्रये निक्षिपितुं। लब्धोत्क्षिप्तिकाहि पूरो संघारामो ताव। धृष्टा च मुखरा च प्रगल्भा च सा दानि ताय संघाटी आच्छिन्ना। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। महाप्रजापती पि गौतमी भगवतो आरोचेति। यावद् भगवान् आह।

या पुन भिक्षुणी भिक्षुण्य्-उपाश्रये पुराण-संघाटिं निक्षिपेत्वा वा निक्षिपायेत्वा वा या इच्छति सा उपादीयतू ति। उक्त्वा पश्चात् स्वयम् एव उपादियेय निस्सर्गिक-पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। पेयालं। भिक्षुण्य् उपाश्रये ति भिक्षुणी-विहारे। संघाटीति चीवरं। निक्षिपेत्वा ति स्वयं। निक्षिपायेत्वा ति परेण। या इच्छति सा उपादीयतू ति पश्चात् स्वयम् एव उपादीयेत निःसर्गिक-पाचत्तिकं। सा एषा भिक्षुणी भिक्षुणी-उपाश्रये चीवरं निक्षिपेत्वा वा निक्षिपायेत्वा वा या इच्छति सा उपादीयतू ति यदि काचि उपादिन्नम् भवति न क्षमति आच्छिन्दितुं। आच्छिन्दति निःसर्गिकं भवति। अथ दानि न कायचि उपादिन्नम् भवति तस्या एव च ताय अर्थो भवति किञ्चापि गृह्णाति अन्-आपत्तिः। अथ दानि क्षुद्रानुक्षुद्रकं परिष्कारं निक्षिप्तम् भवति यदि कायचि उपादिन्नम् भवति न क्षमति आच्छिन्दितुं। आच्छिन्दति विनयातिक्रमम् आसदयति। भिक्षुर् अपि भिक्षु-विहारे पात्रम् वा चीवरम् वा उपानहम् वा क्षुद्रानुक्षुद्रकम् वा परिष्कारं निक्षिपित्वा यो इच्छति सो उपादीयतू ति। यदि केनचिद् उपादिन्नम् भवति न क्षमति आच्छिन्चितुं। आच्छिन्दति विनयातिक्रमम् आसादयति। अथ न केनचिद् गृहीतम् भवति सो एव तेनार्थिको भवति किञ्चापि गृह्णाति अन्-आपत्तिः। तेन भगवान् आह।

या पुन भिक्षुणी भिक्षुण्य् -उपाश्रये पुराण-संघाटिं निक्षिपेत्वा वा निक्षिपायेत्वा वा या इच्छति सा उपादीयतू ति उक्त्वा पश्चात् स्वयम् एव उपादीयेय निःसर्गिका(क)-पाचत्तिकं।

निःसर्गिक-पाचत्तिक-धर्म १७
निःसीवेति

१७८. भगवान् श्रावस्तीयम् विहरति। अपराय दानि भिक्षुणीय पुराण-संघाटी ओमलिन-मलिना धोवित्वा निःसीवित्वा आतपे दत्त्वा वातो च प्रवापितो। अग्निश् च उत्थितः। संघाटी दग्धा। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेंति। पेयालं यावद् भगवान् आह। एवन् नाम त्वं पुराण-संघाटीं निःसीवित्वा न प्रतिस[ं]धैसि न प्रतिसन्धापयसि। तेन हि प्रतिसन्धेतव्यं प्रतिसन्धापेतव्यं।

एषा चार्थोत्पत्तिः। ता दानि भिक्षुणीयो शाकिय-कन्यायो मल्लकन्यायो लेच्छवि -कन्यायो सु-कुमारायो भारिकां संघाटिं धोवन्तीयो किलम्यन्ति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। महाप्रजापती पि गौतमी भगवतो आरोचेति। यावद् भगवान् आह। तेन हि अनुजानामि षट्-पञ्च-रात्रं। अथ खलु भगवान् महाप्रजापतीम् गौतमीम् आमन्त्रयति। यावद् भगवान् आह।

या पुन भिक्षुणी पुराण-संघाटिं निःसीवित्वा निःसिवापेत्वा वा उत्तरि षट्-पञ्च-रात्रम् अ-गिलाना न प्रतिसन्धाये न प्रतिसन्धापयेन निःसर्गिक-पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। पुराण-संघाटीति पुराणचीवरं। संघाटीति द्वि-पुटा। निःसीवित्वा ति स्वयं। निःसीवापेत्वा ति परेण। उत्तरीति षट्-पञ्च-रात्रम् इति न दानि षट्-पञ्च च। अथ खलु परमं षट्-रात्रन् न प्रतिसन्धेयैति स्वयं न प्रतिसन्धापेया ति परेण। न प्रतिसन्धापेयन् निस्सर्गिक-पाचत्तिकं। पेयालं। यावत् प्रज्ञप्तिः।

एषा दानि भिक्षुणीये संघाटी मलिना भवति। यदि ताव लहुका भोति तथा येव धोवितव्या। न क्षमति निःसीवयितुं। अथ दानि सारिका भोति निःसीवेत्वा निःसीवित्वा धोवितव्या। प्रत्यर्गलकानि दत्त्वा आतपे दातव्या। साहरित्वा गोपिटके वा कुण्डके वा पटलके वा स्थापयित्वा काष्ठ-खण्डेन वा उपल-खण्डेन वा आक्रमितव्या। न क्षमति प्रकीर्णम् ओसारयितुं। अथ दानि भाजनन् न भवति एकस्थाने आक्रमिय इष्टकेन वा उपल-खण्डेन वा स्थापयितव्या। पश्चाद् अन्तेवासिणीय वा समानोपाध्यायिनीया वा भिक्षुणीय प्रतिसन्धापयितव्या स्वयम् वा प्रतिसन्धेतव्या। अथ दानि जरा-दुर्बला व्याधि-दुर्बला वा भवति किञ्चापि चिरेण प्रतिसन्धेति अन्-आपत्तिः। तेन भगवान् आह।

या पुन भिक्षुणी पुराण-संघाटीन् निःसीवित्वा वा निःसीवापेत्वा वा उत्तरि षट्-पञ्च-रात्रं अग्लाना न प्रतिसन्धे वा न प्रतिसन्धापेय वा निःसर्गिक-पाचत्तिकं।

निःसर्गिक-पाचत्तिक-धर्म १८

उक्त्वा शिक्षमाणां

१७९. भगवान् श्रावस्तीयम् विहरति। अपरा दानि शिक्षमाना उपसम्पाद्या। सा दानि स्थूलनन्दां भिक्षुणीम् आह। आर्ये नन्दे उपसम्पादय मां। सा आह। यदि चीवरम् देति(सि) ततो हम् उपसम्पादेमि। ताय दानि तस्याश् चीवरं दत्तं। सा दान् आह। आर्ये उपसम्पादय मां। सा विलक्षेति। सा भिक्षुणीनाम् आह। एवम् एव याव सा विलक्षेति नोपसम्पादेति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यावद् भगवान् आह।

या पुन भिक्षुणी शिक्षमाणाम् एवम् उक्त्वा यदि मे चीवरं देसि ततो हम् उपसम्पादयिष्यामीति ताये चीवरं गृह्य नोपसम्पादयेन् निःसर्गिक-पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। शिक्षमाणा ति देशित-शिक्षा। यदि मे चीवरं देति(सि)ततो हम् उपसम्पादयिष्यन् ति। चीवरन् ति चीवरं नाम कम्बलं कर्पासं यावत् संकक्षिका। उपस्थापयिष्यन् ति उपसंपादयिष्यं। सा तं चीवरं गृह्णित्वा ति यथा स्थूलनन्दा भिक्षुणी न उपसम्पादयेद् इति स्वयन् न उपसम्पादयेत् निःसर्गिकपाचत्तिकं। यावत् प्रज्ञप्तिः। एषा ताव भिक्षुणी शिक्ष्यमाणाया चीवरं गृह्णाति। अहन् ते उपसम्पादयिष्यामीति। ताय उपसंस्थापयितव्या। अथ दानि अप्रतिबला भवति जरा-दुर्बला व्याधि-दुर्बला वा अन्या अध्येषितव्या। वक्तव्या एतस्या मया चीवरं गृहीत्वा इमाम् उपस्थापेहि। अथ सा नेच्छति तं चीवरं प्रतिदातव्यं। गच्छ यत्रेच्छसि तत्र उपसंपद्याहीति। सा एषा भिक्षुणी चीवरं गृहीत्वा न उपस्थापेति न चीवरं प्रतिददाति निःसर्गिक-पाचत्तिकं। भिक्षुर् अपि विनयातिक्रमः। तेन भगवान् आह।

या पुन भिक्षुणी शिक्षमानाम् एवन्(एवं) [व]दित्वा यदि मे चीवररं देसि ततो हम् उपसंपादयिष्यन् ति तस्याश् चीवरं प्रतिगृह्णीत्वा न उपसंपादयेन् निःसर्गिक-पाचत्तिकं।

निःसर्गिक-पाचत्तिक-धर्म १९

गुरु-प्रावरणं

१८०. भगवान् वैशालीयम् विहरति। अपरो दानि वाणिजको शतसहस्र-मूल्यं कम्बल-रतनम् आदाय उत्तरा पथातो आगतो। सो दानि अपरेहि पृच्छितो किम् अस्य मूल्यं। आह। शत-सहस्र-मूल्यन् ति। नैव राजा क्रीणाति न राज-पुत्राः न वणिजाः न सार्थवाहाः। सो दानि वाणिजको वीथीम् अभिरुहित्वा चिन्ता-सागरम् अनुप्रविष्टो आसति। इमं महार्घं मूल्यं भाण्डं बहु-शुल्कं न विक्रायति। अपरो दानि पृच्छति। विक्रीतं ते भाण्डं। आह। नहि इच्छसि विक्रीणितुं। आह। इच्छामि। आह। गच्छ एषा भद्रा नाम श्रमणिका सा क्रीणीष्यति। सो दानि तं चेटकस्य स्कन्धे आरोपयित्वा भिक्षुणी -विहारं गत्वा पृच्छति। कतमा (मं) आर्याये भद्राये परिवेणं। अपराहि भिक्षुणीहि आख्यातं। सो दानि प्रविश्य आह। वन्दाम्य् आर्ये आर्या [भद्रा]नाम आह। बाढं। किं कर्तव्यं। आह। इमं कम्बल-रतनं विक्रेयं विक्रीणामि। आह। किम् एतस्य मूल्यं। आह। शतसहस्रं। सा दानि न पणेति न पणापेति। अन्तेवासिनीये आह। गच्छ सालोहितं जल्पाहि इमस्य शतसहस्रं वीथीकातो दापेहीति। सो दानि अपरेहि पृच्छितो। विक्रीतं ते भाण्डं। आह। विक्रीतं। आह। केन क्रीतं। आह। एषा भद्रा नाम श्रमणिका। ताय क्रीतं। ते दानि ओज्झायन्ति। अद्याप्य् एषा प्रव्रजिता पि मह-च्छन्दा। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। महाप्रजापती पि गौतमी भगवतो आरोचेति। भगवान् आह। शब्दापयथ भद्रां। सा दानि शब्दापिता। तद् एव सर्वं यावद् आम् भगवन्। भगवान् आह। ननु भद्रे पश्चिमा पि नाम जनता अवलोकयितव्या। तेन हि न क्षमति उत्तरि चतुष्कर्षेण गुरु-प्रावरणं चेतापयितुं। यावद् भगवान् आह।

या पुन भिक्षुणी उत्तरि चतुष्-कर्षेण गुरु-प्रावरणं चेतापयति ङिस्सर्गिक-पाचत्तिकं।

उत्तरि चतुष्-कर्षेणेति कर्षो नाम चत्वारः पुराणाः। चत्वारः कार्षाः षोडष-कार्षापणाः। गुरु-प्रावरणम् इति कम्बल-रत्नं। चेतापयेद् इति जानापयेत्। तद् उत्तरिं परं षोडषेहि पुराणेहि चेतापयति निःसर्गिक-पाचत्तिकं। यावत् प्रज्ञप्तिः। सा एषा भिक्षुणी गुरु-प्रावरणं चेतापयितु-कामा भवति चतुष्-कर्ष-मूल्यं जानापयितव्यं। प्रत्यवरो वा तद् उत्तरिं न क्षमति।

अथ दानि कोचिद् अयाचितो अविज्ञप्तो महार्घ-मूल्यं पि ददाति प्रतिगृह्णात्य् अन्-आपत्तिः। तद् एवं भिक्षुणीये परिमाण-बद्धं। किञ्चापि भिक्षुर् महार्घ-मूल्यं पि जानापयित्वा परिभुञ्जात्य् अनापत्तिः। तेन भगवान् आह।

या पुन भिक्षुणी उत्तरि चतु[ष्-क]र्ष-मूल्यातो गुरु-प्रावरणं चेतापयेन् निःसर्गिक-पाचत्तिकं।

निःसर्गिक-पाचत्तिक-धर्म २०

सुखुमं

१८१. भगवान् वैशालीयं विहरति। अपरो दानि वाणिजको दक्षिण-पथातो आगतो। दश-सहस्र-मूल्यं हंस-लक्षण-पटम् आदाय। सो दानि अपरेहि पृच्छितो। किं मूल्यं। आह। दश-पुराण-सहस्राणि। नैव राजा क्रीणाति। पेयालं। यावद् अत्र भद्रा नाम श्रमणिका। सा क्रीणिष्यति। सो दानि तम् आदाय भिक्षुणी-विहारं गतो। पृच्छति। कतमं आर्याये भद्राये परिवेणं। अपराहि आख्यातं। सो दानि प्रविश्य आह। वन्दाम्य् आर्ये आर्य(या) भद्रा नाम। आह। बाढं। किं कर्तव्यं। आह। अयं हंस-लक्षणो पटो विक्रायति। आह। किम् एतस्य मूल्यम्। आह दश-पुराण -सहस्राणि। सा न स्वयं पणेति न पणापेति। अन्तेवासिनीम् आह। गच्छ सालोहितं जल्पाहि इमस्य पीठिकातो दश-पुराण-सहस्राणि देहीति। सो दानि अपरेहि पृच्छितो विक्रीतं ते भाण्डं। आह। विक्रीतं। आह। केन क्रीतं। एषा तु भद्रा नाम श्रमणिका। ताय क्रीतं। ते दानि ओज्झायन्ति। अद्याप्य् एषा प्रव्रजिता पि मह-च्छन्दा।

एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। महाप्रजापती पि गौतमी भगवतो आरोचयति। यावद् भगवान् आह। ननु भद्रे पश्चिमा पि नाम जनता अवलोकयितव्या। तेन हि न क्षमति उत्तरि अटा(ड्ढा)ति[य] -कर्ष-मूल्यातो सुखुमं चीवरं चेतापयितुं। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी उत्तरि अड्ढातिय-कर्ष-मूल्यातो सूक्ष्मं चीवरं चेतापयेन् निस्सर्गिक-पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। उत्तरिन् ति अति-रेक। अयातिय (अड्ढातिय)-कर्षन् ति। कर्षो नाम चत्वारः पुराणाः। चतापयेद् इति जानापयेन्। निःसर्गिक पाचत्तिकं यावत् या पुन भिक्षुणी सुखुमं चीवरं जानापयति दश-पुराण-मूल्यं जानापयितव्यं। प्रत्य् अवरं वा। एतं भिक्षुणीये परिमाण-बद्धं। अथ दानी कोचिद् अयाचितो अविज्ञप्तो महार्घ-मूल्यं पि ददाति शतिकम् वा साहस्रिकम् वा यदि किञ्चापि परिभुञ्जाति अन्-आपत्तिः। किञ्चापि भिक्षु शतसहस्र-मूल्यं पि जानापयत्य् अन्-आपत्तिः। तेन भगवान् आह।

या पुन भिक्षुणी उत्तरि अड्ढातिय-कर्ष-मूल्यातो सुखुमं चीवरं चेतापयेन् निःसर्गिक-पाचत्तिकं। उद्दानं।

शय्यासनस्यार्थाय [११]।
अन्योद्देशिको [१२]। अन्येषां [१३]।
पात्राणां सन्निचयो [१४]।
ऽथ चीवरं [१५]। निःशृजाति [१६]।
न(निः)सीवेति [१७] उक्त्वा शिक्षमाणां [१८]।
गुरु-प्रावरणं [१९]। सुखुमं [२०]॥
द्वितीयो वर्गः।

निःसर्गिक-पाचत्तिक-धर्म २९
परोपगतं

१८२. भगवान् श्रावस्तीयं विहरति। अपरो दानि मनुष्यो काष्ठ-वाणिज्यां करोति। सो दानि काष्ठ-वाहम् आदाय अन्तरापणम् ओकस्तो। आपणिको आह। किं काष्ठ-वाहस्य मूल्यं। आह। कार्षापणं गच्छ गृह-द्वारे अवतारिया गच्छाहि। इतो येव कार्षापणं गृहीत्वा यास्यसीति। भवति च शेषं व्यवहार-कालो(ले)। सो दानि काष्ठ-वाहम् आदाय गच्छति। स्थूलनन्दा नाम भिक्षुणी उपाश्रयातो निःक्रमति। तया च दृष्टो। आह। दीर्घायु विक्रयो काष्ठ-वाहो। आह। विक्रीतो। आह। कथं विक्रीतो। आह। कार्षापणेन। अहं द्वौ कार्षापणं (णा) दास्यामि। सो दानि मनुष्य पश्यति यद्य् अहं द्वौ कार्षापणा लभामि मह्ऽ-अर्घम् मया विक्रीतं भविष्यति। सो तं अधिकरित्वा काष्ठ-वाह-मूल्यं गृह्णिय शक[ट]म् आरुहित्वा तस्यापणिकस्याग्रतेनोपयाति। सो दान् आह। आगच्छ कार्षापणं गृह्णाहि। सो दान् आह। मया अन्यंहि विक्रीतो। सो दान् आह। कथं। विक्रीतो। आह। द्वाभ्यां कार्षापणाभ्यां। केन क्रीतो। आह। एषात्र नन्दा नाम श्रमणिका। तया क्रीतो। सो दानि ओज्झायति। कियन्तो ताये श्रमणिकाये कार्षापनाः। मया कार्षापणेन पणितं। सा द्विहि कार्षापणेहि पणेति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचेन्ति यावद् भगवान् आह।

या पुन भिक्षुणी जानन्ती परोपगतं चेतापयेन् निःसर्गिकपाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय आकारवन्तेन दर्शनेन आकारवन्तेन श्रमणेन। परोपगतं ति परेण गृहीतं। चेतापयेद् इति जानापयेत्। निस्सर्गिकपाचतिकं। पेयालं। एतं दानि आपणिकस्य वा प्रावरिकस्य वा किञ्चिद् भाण्डम् उपगतम् भवति। तेन च भिक्षुणी अर्थीका भवति न दानि क्षमति तहिं अन्तराययितुं। यतति निस्सर्गिकं भवति। अथ खु एका श्च स्थित्वा प्रतिपालयितव्यं। यदानेन प्रतिमुक्तं। भवति ततो सो पृच्छितव्यो वक्तव्यो। किं त्वया मुक्तो। यदि तावद् आह। परिमण्डाम्य् अहं मे भन्ते। न क्षमति जानापयितुं। अथ दान् आह। जानापयतु आर्यो(ये) नाहम् अर्थिको एतेनेति। जानापयति अन्-आपतिः। अथ दानि भिक्षुणीये किञ्चिद् उपक्रेयम् भवति पात्रम् वा चीवरम् वा न क्षमति अन्तरा यतितुं। यतति विनयातिक्रमः। अथ दानि संघ-मध्ये वड्ढो वड्ढिकाय जानापयति अन्-आपत्तिः। भिक्षुर् अपि परोपगतं चेतापयति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी जानन्ती परोपगतं चेतापयेन् निस्सर्गिक-पाचत्तिकं।

शेषा साधारणा। उद्दानं।

पात्र[२१]। बन्ध[न] [२२]। भैषज्यं[२३]।
आच्छेदो [२४]। विकृति[२५]। सूत्रेण। [तन्त्र-
वायेन] द्वे [२६, २७]। [द] शाहानागतं [२८]।
[पर] [२९]। परिणामनेन [३०]॥
तृतीयो वर्गः।

तत्र त्रयो न मत वर्गात्। स्वहस्तं क्रय-विक्रयो विकृतिश् च।

वर्गावशेषाः। चतुर्थं च भिक्षुणीनां प्रतिग्रहं उद्धरित्वा न जातरूपं समोदहेत्। धोवनाम् उद्धरित्वा न क्रयविक्रयं। तत्र निर्दिष्टं। शाटिकाम् उद्धरित्वा न विकृतिं। विज्ञः समोदहे। तत्र उत्क्षिप्य अरण्य-वासं [न] परोपगतं।

तत्र निर्दिष्टा त्रिंशद् दश च अनूनाः कारणे समुत्पन्ने नैःसर्गिक भगवता निर्दिष्टा भिक्षुणी-सूत्रे॥

समाप्ता त्रिंशन् नैस्सर्गिकाः॥

पाचत्तिका धर्मा १-७०

१८३. इमे खो पुनर् आर्ये-मिश्रिकायो एक-चत्तालं शतं शुद्धपाचत्तिका धर्माः। अन्वर्ध-मासं सूत्रे प्रातिमोक्षे उद्देशम् उद्दानं।

मृष[१]। ओष्ठस्य (उष्ट्रस्य) [२]। पैशुन्यम् [३]।
उद्घाटनं [४]। संचिन्त्य तिर्यग्योनि[५]। पदशो [६]।
उत्तरि मनु-धर्मे [७]। आरोचनाय [८]।
यथा-संस्तुत [९] विगर्हणाय च [१०]॥

प्रथमो वर्गः।

उद्दानं।
बीजं [११] अन्य-वादम् [१२]। ओध्यापन[१३]।
मञ्च [१४] शय्या[१५] निकड्ढनं [१६]।
पूर्वोपगतं [१७]। वैहायसं [१८]।
उदके[१९]। कौकृत्येन [२०]॥
द्वितीयो वर्गः॥

उद्दानं।
अवसथो [२१]। परंपर[२२]।
प्रावरणा[२४]। अप्रत्युद्धारम् [२३]।
अदिन्नं[२५]। विकालो [२६]। सन्निधि[२७]।
मच्छा (मन्थ) [२८]। अपनिहे [२९]। गण-भोजनेन [३०]॥
तृतीयो वर्गः॥

उद्दानं।

ज्योतिः [३१]। सह्ऽ-अकार (सह्ऽ-अगार) [३२]। च्छन्दम् [३३]।
उद्योजना [३४]। त्रयो न्तरायिका [३५]। [३६]। [३७]।
[अ]कृत-कल्प [३८]। रतन [३९]। भीषनेन [४०]॥
चतुर्थो वर्गः॥

उद्दानं।
स-प्राणकम् [४१]। अचेलके [४२]।
अनुपखज्ज [४३]। प्रतिच्छन्नासनं [४४]।
त्रयो सेनायां [४५]। [४६]। [४७]। प्रहरति [४८]।
तल-शक्तिका [४९]। उदक-हास्येन [५०]॥
पञ्चमो वर्गः॥

उद्दानं।
अङ्गुलि-प्रतोद [५१]। स्तेय-सार्थो [५२]।
पृथिवी [५३]। प्रवारणा [५४]। न शिक्षिष्यं [५५]।
मद्य-पानं [५६]। नादर्य[५७]। उपश्रोत्र[५८]।
विनिश्चय [५९]। संमोहेन [६०]॥
षष्ठो वर्गः॥

उद्दानं।
सभक्तो [६१]। राज्ञः [६२]। सूची-गृहं [६३]।
मञ्च [६४]। तूल[६५]। निषीदनं [६६]।
कण्डु-प्रतिच्छादनं [६७]। सुगत-चीवरं [६८]।
अभ्याख्यानं [६९]। परिणामनेन [७०]॥
सप्तमो वर्गः॥
एते सप्त वर्गाः साधारणाः। यथा येच(व) भिक्षुणा तथा येव कर्तव्याः।

पाचत्तिक-धर्म ७१

संक्रमणं

१८४. भगवान् वैशालीयं विहरति। अथ भद्रा कापिलेयी अन्तेवासिनीये अप्रतिसंविदिता संघाटिं प्रावरित्वा ज्ञाति-कुलं गता। भिक्षुणीयो गोचरं प्रस्थितायो। ता दान् आहंसुः। एह्य् आर्ये पिण्डपातं गच्छामः। आह। यावत् संघाटीं गृह्णामि। सा दानि मार्गयति आत्मनः संघाटिन् न पश्यति। ताये दानि भवति अवश्यम् आर्याय संघाटीं (टी) प्रावरिता। अर्हति आर्या मम संघाटीं प्रावरित्वा गन्तुं। सा दान् आह। गच्छथ यूयं आर्यमिश्रिकायो नाहं गच्छामि किम् अर्थं। आर्या संघाटीं प्रावरित्वा गता। ता दान् आहंसुः। आर्याये संघाटीं प्रावरित्वा आगच्छाहीति। सा दान् आह। नोत्सहामि आर्या मम गुरु-वर-भावनीया चेति। न गता। सा छिन्न-भक्ता संवृता। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। महाप्रजापती पि गौतमी भगवत आरोचयेत्। यावद् भगवान् आह। शब्दापयथ भद्रां। सा दानि शब्दपिता यावत् सत्यं भद्रेति। एतद् एव सर्वं। भगवान् विस्तरेण पृच्छति। यावद् एवन् नाम त्वं चीवर-संक्रमणं करोषि। दुष्कृतन् ते भद्रे। तेन हि न क्षमति चीवर-संक्रमणं कर्तुं। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। पेयालं। यावत्।

या पुन भिक्षुणी चीवर-संक्रमणं कुर्यात् पाचत्तिकं।

या पुन भिक्षुणीति। पेयालं चीवरन् ति चीवरं नाम संघाटि यावत् दक-शाटिका। संक्रमणन् ति अन्या अन्याय। पाचत्तिकं यावत् प्रज्ञप्तिः। न दानि क्षमति अन्तेवासिनीये अप्रतिसंविदिता संघाटीं प्रावरितुं। अथ दानि प्रावरति वक्तव्या इयम् मया संघाटी प्रावरिता। यदि प्रविशेषि मम संघाटीं प्रावरित्वा प्रविशेसि। अथातिरेकं चीवरम् भवति वक्तव्या। इयम् मया तव संघाटी प्रावरिता। यदि प्रविशेसि इमिना चीवरेण प्रविशेसीति।

अथ दानि भिक्षुणी संघाटिं धोवेति वा सीवेति वा रंजेति वा। यदि प्रतिबला भवति तस्या अपि संविभागं कर्तव्यं। वक्तव्या। तिष्ठ त्वं इहेव अहन् तव पिण्डपात-संविभागं करिष्यामीति। भिक्षुणाप्य् एवं वक्तव्यं। न वदति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी चीवर-संक्रमणं कुर्यात् पाचत्तिकं।

पाचत्तिक-धर्म ७२

श्रमण-चीवरं

१८५. भगवान् श्रावस्तीयं विहरति। राष्ट्रपाला भागिनेय। यस्यार्थोत्पत्ति विस्तरेण कर्तव्या।

एषा एवार्थोत्पत्तिः। भगवान् श्रावस्तीयम् विहरति। गर्तोदरो च गर्तोदर-माता च गर्तोदर-पिता च आगरस्यानागरियं प्रव्रजिताः। गर्तोदर-पिता गर्तोदरमाता च शाक्येहि प्रव्रजिता गर्तोदरो तीर्थिकेहि। सो दानि हस्त-कम्बलेन प्रावृतो शीतेन खणखणायन्तो दन्त-वीणिकां वादयन्तो विहारम् आगतो। स्नेह-चरितो मातृग्रामो। सो दान् आह। पुत्र गर्तोदर शीत कितो सि। सो दान् आह। आम। ताय तस्य उत्तरासङ्गो सुरभो सुफोषितो दिन्नो प्रावरणाय। सो दानि प्रावरित्वा पानागारं गत्वा पिबन्तो आसति। जनो दनि ओज्झायति किम् एषां मिथ्या-दृष्टिकानां विनिपतितानां यान-गर्दभानां सुरा-भ्रस्ता (ष्टा)नां ऋषिध्वजनेन दिन्नेन भिक्षुणीहि श्रुतं। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यावद् भगवान् आह। शब्दापयथ गर्तोदर-मातां। सा दानि शब्दापिता। तद् एव सर्वं। भगवान् विस्तरेण पृच्छति। यावद् आम् भगवन्। भगवान् आह दुष्कृतं ते गर्तोदर-माते। तेन हि न क्षमति आगारिकस्य वा परिव्राजकस्य वा स्व-हस्तं श्रमण-चीवरं दातुं। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। पेयालं यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी आगारिकस्य वा परिव्राजकस्य वा स्व-हस्तं प्रमाण-चीवरं दद्यात् पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। आगारिकस्येति गृहिणः। परिव्राजकस्येति गौतम-जटिलक-पर्यन्तं कृत्वा। स्व-हस्तन् ति हस्तेन हस्तं। श्रमण-चीवरन् ति ऋषि-ध्वजं। दद्यात् पाचत्तिकं यावत् प्रज्ञप्तिः। न क्षमति आगारिकस्य वा परिव्राजकस्य वा स्व-हस्तं श्रमण-चीवरं दातुं। अथ दानि भिक्षुणी भवति कृत-पुण्या स्त्रियो दानि मङ्गलार्थाय दारकस्य दारिकाये वा काषाय -खण्डं याचन्ति। न क्षमति स्व-हस्तं दातुं कल्पिय-कारिकाय दातव्यं। भिक्षुर् अपि आगारिकस्य वा परिव्राजकस्य वा स्व-हस्तं श्रमण-चीवरं देति विनयातिक्रमम् आसादयति। अथ दानि भिक्षुः कृतपुण्यो भवति यावत् कल्पिय-कारकेण दातव्यं। न क्षमति महान्तं पटं दातुं। अथ खु पोत्ति-खण्डं दातव्यं। तेन भगवान् आह।

या पुन भिक्षुणी आगारिकस्य वा परिव्राजकस्य वा स्व-हस्तं श्रमण-चीवरं दद्यात् पाचत्तिकं।

१८६. भगवान् श्रावस्तीयम् विहरति। भिक्षुणीयो दानि कुमारीनिवस्तं निवासेन्ति। जनो दानि ओज्झायति। एतं प्रकरणं भिक्षुणीहि श्रुतं। भिक्षुणीयो महा-प्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यावद् भगवान् आह। तेन हि न क्षमति कुमारी-निवस्तेन अन्तर-गृहं प्रविशितुं। भगवता दानि अन्तरवासोऽनुज्ञातो। भिक्षु[णी]यो दानि यथागतान् पटान् नवात्(न्) तन्त्रोद्गतान् पुष्प-दशान् अन्तर-वासं कुर्वन्ति। भगवान् आह। प्रामाणिको कर्तव्यो। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपात्य गौतमीये यावत्।

अन्तर्वासं भिक्षुणीय कारापयन्तीय प्रामाणिको कारापयितव्यो तत्रेदं प्रमाणं दीर्घसो चत्वारि वितस्तियो। सुगत वितस्तिना। तिर्यग् द्वे तद् उत्तरिं कारापेय च्छेदन-पाचत्तिकं।

पाचत्तिक-धर्म ७३, ७४

अन्तर्वासन् ति यत् तद् भगवतानुज्ञातं। भिक्षुणीय कारापयन्तीयेति स्वयं वा कुर्यात् परेण वा कारापयेत्। तत्रेदं प्रमाणं दीर्घशो ति आयामो। विस्तरो ति तिर्यग् चत्वारि वितस्तियो। सुगत-वितस्तिना ति तथागतो ऽर्हन् सम्यक्सम्बुद्धो तस्य यो वितस्ति सो द्व्य्-अर्धो मञ्चक-पादो तद् उत्तरिम् कारापयेद् इति परं प्रमाणतो च्छेदनपाचत्तिकं। यावत् प्रज्ञप्तिः।

सा एषा भिक्षुणी दीर्घशो करोति प्र(प्रा)माणिकं तिर्यक् करोति अतिरेकं। एवं करोति कारापेति निष्ठ(ष्ठा)पनान्तिकं आपत्तिः। कृतं लभति परिभोगान्तिकं विनयातिक्रमम् आसादयति। एवं तिर्यक् करोति प्रामाणिकं दीर्घशो करोति अतिरेकं। अन्ते करोति प्र(प्रा)माणिकं मध्ये करोति अतिरेकं। मध्ये करोति प्र(प्रा)माणिकं अन्ते करोति अतिरेकं। द्वि-गुणं मापेति उदकेन सं[कु]चति संकुचितं मापेति उदकेन फोषेति शुष्कं वड्ढिष्यतीति पाचत्तिकम् आसादयति। तेन भगवान् आह।

अन्तर्वासं भिक्षुणीय कारापयन्तीय प्रामाणिकं कारापयितव्यं तत्रेदं प्रमाणं। दीर्घा(र्घ)शो चत्वारि वितस्तियो। सुगत-वितस्तिना। तिर्यग् द्वे तद् उत्तरिं कारापेय च्छेदन-पाचत्तिकं॥

पाचत्तिक-धर्म ७४

संकक्षिका

१८७. भगवान् श्रावस्तीयं विहरति। अपरा दानि भिक्षुणी प्रासादिका दर्शनीया। ताये दानि पीनेहि स्तनेहि चीवरम् उत्क्षिप्तं। सा मनुष्येहि उच्चग्घीयति। पश्यथ भणे श्रमणिकाय कीदृशं चीवरम् उत्क्षिप्तं। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यावद् भगवान् आह। तेन हि संकक्षिका नाम कर्तव्या। भगवता दानि संकक्षिका अनुज्ञाता। भिक्षुणीयो तथागतान् पटान् पुष्प-दशान् संकक्षिकां कुर्वन्ति। यावत् तेन हि न क्षमति तथागतान् पटान् पुष्प-दशान् संकक्षिकां कर्तुं। यावत् तेन हि प्र(प्रा)माणिका कर्तव्या। यथान्तर्वासे तथैव कर्तव्यं। यावत् तेन भगवान् आह।

संकक्षिकां भिक्षुणीय कारापयन्तीय प्रामाणिका कारापयितव्या तत्रेदं प्रमाणं। दीर्घशो चत्वारि वितस्तियो। सुगत-वितस्तिना। तिर्यग् द्वे। तद् उत्तरिं कारापेय च्छेदन-पाचत्तिकं। ण्क॥

दक-शाटिका

१८८. वैशाल्यां निदानं। भद्रा दानि कापिलेयी सर्पिणिकां नदीं स्नानाय गता। चीवरन् निक्षिपित्वा अवतीर्णा स्नानाय। पञ्च लिच्छवि-कुमाराः स्ता(ता)ये प्रतिबद्धचित्ताः नदी-तीरे स्थिताः। भद्राये अङ्ग-यष्टिं पश्यितु-कामाः। सा दान् आह दीर्घायुः गच्छथ गच्छथ यावद् अहम् उत्तरामि। ता दान् आहंसुः। नहि। आर्याये वयम् अष्ट(अङ्ग)-यष्टिं पश्यितु-कामाः। सा दान् आह। दिर्घायुः किम् अनेन पूति-कायेन नव-द्वारेणाशुचि-प्रघरन्तेन दृष्टेन। प्रक्रमथ यावद् अहम् उत्तरामि। ते दान् आहंसुः। नहि नहि। आर्याये वयम् अङ्ग-यष्टिं पश्यितु-कामाः। ते दानि यदा [न] गच्छन्ति चिरञ् च भवति। सा दानि अन्धो बाल-जनो ति कृत्वा एकं हस्तम् अग्रतो कृत्वा अपरं पृष्ठतः कृत्वा उत्तीर्णा। ते तां वि-वसनां दृष्ट्वा मूर्च्छिताः पतिताः। उष्णं शोणितम् मुखाद् आगतं। काल-गतं काल-गताः। एतं प्रकरणं। पेयालं। यावद् भिक्षुणीयो भगवन्तम् आहंसुः। पश्य भगवन् कथम् इय पञ्च लिच्छविकुमाराः प्रतिबद्ध-चित्ताः भद्रायां मूर्च्छिताः पतिताः। भगवान् आह। नैतर्हि येव एते भद्रायां प्रतिबद्ध-चित्ताः मूर्च्छिताः पतिताः। अन्यदाप्य् एते भद्रायां प्रतिबद्ध-चित्ताः अन्यदापि भगवन् अन्यदापि भिक्षुणीयो।

भूत-पूर्वं भिक्षुणीयो अतीतम् अध्वानं यावत् त्रिंश-भवने। अन्यत[र]स्मिं भवने भरणी नाम अप्सरा उपपन्ना। प्रासादिका दर्शनीया अति-र्-इवान्यासाम् अप्सराणां अभिभूय भास[ते]। अति-र्-इवान्यासाम् अप्सराणां अभिभूय भासते तपति विराजते। तस्याः पञ्च देवपुत्राः प्रतिबद्ध-चित्ताः। शक्रश् च नाम देवानाम् इन्द्रः। मातलिसंग्राहको। जयो। विजयो। खाणु देवपुत्रो पञ्चमः। ते दान् आहंसुः। न तावद् एशा(षा) शक्या अस्माभिः पञ्चधा कर्तुं। एष गाथां कुर्मः। यो ऽत्र सर्व-सुष्ठु अध्यवसितो भविष्यति स ग्रहीष्यतीति।

शक्रो देवानाम् इन्द्रो गाथां भाषते।
उत्थितो वा निषण्णो वा आसने न लभते सुखं।
शयितो च [सुखं लभे] यदा कामा जहन्ति मा॥[१]॥

मातलि संग्राहको गाथां भाषयति।
सुखं त्वम् असि देवेन्द्र यं सुप्तो लभसे सुखं।
भेर्या संग्राम-शीर्षे वा सदा कामा हनन्ति मां॥[२]॥

जयो देव-पुत्रो गाथां भषते।
भेर्यास् तु हन्यमानाया भवेद् वीची मुहुर् मुहुः।
काष्ठ-स्रोता उपपन्नं वा सदा कामा हनन्ति मे॥ [३]॥

विजयो देवपुत्रो गाथां भाषते।
काष्ठस्य वुह्यमानस्य भोति संगो[जातु] तहिं।
पतङ्गस्येव अक्षीणि नित्यम् उन्मिलिता मम॥[४]॥

खाणु देव-पुत्रो गाथां भाषते।
सर्वे भवन्तो सुखिता येषां गाथा प्रतिभान्ति।
अहं खलु न जानामि किं जीवामि मरामि वा॥[५]॥

ते देव-पुत्रा आहंसुः।
त्वं सुष्ठु अध्यवसितो तथैव [ए]षा भरणी।
[युष्माकं ]भवतु देवी [या] सर्व-अङ्ग-शोभना॥ [६]॥

भगवान् आह। स्याद् वो भिक्षुणियो युष्माकम् एवम् अस्याद् अन्या सा भरणी नाम अप्सरा अभूषि। नैतद् एवं द्रष्टव्यं। एषा सा भद्रा अप्सरा अभूषि। अन्ये ते देवपुत्राः एतद् एव ते पञ्च लिच्छवि-कुमाराः। तदाप्य् एते एताय प्रतिबद्ध-चित्ताः। एतर्ह्य् अप्य् एते एताय प्रतिबद्ध-चित्ताः। भिक्षुणीयो आहंसुः। कस्य भगवन् कर्मणो विपाकेन भद्रा प्रासादिका दर्शनीया महा-कुलीना महेशाख्या महाभोगा क्षिप्राधिगमा च। अथ खलु भगवान् भद्रां कापिलेयीम् आमन्त्रयति। प्रतिभातु ते भद्रे भिक्षुणीनाम् आत्मोपनायिकं (कां) पूर्वे-निवास-प्रतिसंयुक्तां कथां। अथ खलु भद्रा अनेक-विधं पूर्वे-निवासम् अनुस्मरन्ती भिक्षुणीयो आमन्त्रेति।

भूत-पूर्वं भगिन्यः अतीतम् अध्वानं नगरं वाराणसी काशी-जनपदो। तत्र दानि स्त्री अभूषि दरिद्रा। सा दानि अन्यतराय श्रेष्ठि-भार्याय शब्दापिता केशान् प्रशा(सा)धनाय। सा ताये श्रेष्ठि-भार्याये केशान् प्रसाधयति।

बुद्धानां भगवताम् अनुत्पादात् प्रत्येक-बुद्धा उत्पद्यन्ते।

अथ शुण्ठीक नाम प्रत्येक-बुद्धो पिण्ड-पाताय चरन्तो तस्मिन् गृहे पिण्डाय प्रविष्टो। प्रत्येक-बुद्धस् तूष्णीम् एव तिष्ठति। न कोचिद् आलापिय देति। सा दानि स्त्री तां श्रेष्ठि-भार्यां आह। देहि एतस्य भिक्षां। सा श्रेष्ठि-भार्या ऊर्ध्वम् अवलोकयित्वा आह। का इमस्यैवं दुर्वर्णस्य अल्पेशाख्यस्य भिक्षान् दास्यति। सा जल्पति। न एते कायप्रासादिका इच्छीयन्ति। चित्त-प्रासादिका एते इच्छीयन्ति। सा दान् आह। मे(नो) तस्य देमि। सा दानि दरिद्रा स्त्री आह। आर्य-धीते देहि मे यन् ममाद्यभक्तं त्वया दातव्यम् तम् अहम् इमस्य ददामि। ताय दानि आज्ञप्तं। यन् तवाद्य-भक्तं प्रापुणति तं गृहीत्वा उदके प्रक्षिपाहि एतस्य वा देहीति। ताय तं भक्तं प्रतिलद्भं। हस्तस्यैवं कृत्वा प्रसादेन तस्य प्रत्येक-बुद्धस्य दत्तं। स प्रत्येकबुद्धस् वत एव वैहायसे प्रक्रान्तः। सा दानि दृष्ट्वा तुष्टा उदग्रा आत्त-मना गृहं प्रविष्टा। श्रेष्ठिना च दृष्टो गृहातो ऋषी वैहायसेन प्रक्रान्तो। ततः श्रेष्ठि गृहं प्रविष्टो पृच्छति। कोचिद् इह ऋषिः प्रविष्टः। आह। प्रविष्टो। आह। किञ्चित् तस्य दत्तं। आह। नहि। इमाय दरिद्र-स्त्रियाय दत्तं श्रेष्ठी उत्कण्ठितो ईदृशो दक्षिणीयो मम गृहं प्रविष्टो न च संमानितो। सो दानि श्रेष्ठी तां स्त्रियम् आह। देहि मे एतं पुण्यं यं त्वया अद्य सञ्चितं। ददामि ते प्रभूतं हिरण्यं सुवर्णं। सा दान् आह।

क्षीयति सर्वं धन-धान्यं जातरूपं [रजतं च]।
न क्षीयन्ते पुण्ये-फलं दत्तं मुनीनां सर्वथा। [७]॥
यद् अहम् एवं दरिद्रा पर वक्तव्या अन्यथा।
एतादृशानाम् अदर्शनात् असंविभागाच् च भोगानां। [८]।
दुर्वर्णताय मुच्ये हं अवैकल्यता च भोगेहि।
मा पर-दत्त-जीविनी आवशा पर-कुलेहि। [९]॥
एवं चंक्रमेयं न भे यथा चंक्रमसे वीर।
एवं सीया वीत-रागा भव-बन्धन-विमुक्ता। [१०]॥
पारत्रिकं सुनिहितं अवैकल्यता हृष्टा।
भवामि मुदिता [---] दत्त्वा ऋषिस्य आहारं। [११]॥
इतो च्यवित्वा उपपद्यिष्यामि (ष्यं ) नन्दने रम्ये
तत्र प्रविचारिष्यं देव-गण-समाकुले। <रम्ये>॥
भक्तं समये दानं दत्तं मया
सुविहितस्य दुःख-प्रहाणाय॥ [१२]॥

अथ श्रेष्ठिना सा भार्या अवसादिता। सा दरिद्रा स्त्री भट्टारिका स्थापिता।

स्याद् वो भगिन्यः अन्या सा दरिद्रा स्त्री नैतद् एवं द्रष्टव्यं। अहम् एव सा दरिद्रा स्त्री। यं सो मया प्रत्येक-बुद्धो पिण्डपातेन प्रतिमानितो प्रसन्न-चित्ताय तस्य कर्मणो विपाकेनाहं प्रासादिका। पेयालं। अपि तु भगिन्यः नैतद् एवं मया कुशल-मूलम् अवरोपितं येनाहं प्रासादिका दर्शनीया। क्षिप्राधिगमा य(च)। अन्यदा पि मया कुशल-मूलं अवरोपितं।

१८९. भूत-पूर्वं भगिन्यो ऽतीते ऽध्वनि वाराणसीयं नगरे कायचि स्त्रियाय लोह-चक्रं पटलके कृत्वा पुष्पेहि ओकिरित्वा काशिकेन वस्त्रेण प्रतिच्छादेयित्वा भगवतो काश्यपस्य दत्तं। दत्त्वा च प्रणिधानम् अकार्षीत्। रथस्य चक्रं स-नाभि-नेमिकं वस्त्रोत्तमेन प्रति-च्छादयित्वा ये मुनि-वर-साक्षि-कृता हि धर्मा अहम् अपि तं साक्षिकरोमि धर्मं। सा दानि केनचित् कार्येण अपराधिनी स्वामिना अवसादिता। सा दानि उत्कण्ठिता। आह। धिग् अस्तु स्त्रीभावः। परिभूतो मातृग्रामः। गच्छामि उद्बन्धिष्यं। सा रज्जुम् आदाय निर्गता। तत्र च नातिदूरे भगवतो काश्यपस्य स्तूपं दृष्ट्वा प्रसाद-जाता। अलंकार-विभूषिता काशिक-वस्त्र-प्रावृता चन्दानुलिप्तगात्रा सा चिन्तयति। अहं मरिष्यं। भगवतो काश्यपस्य स्तूपे पूजां करिष्यं। सा प्र[स]न्न-चित्ता तानि अलंकाराणि मुञ्चित्वा स्तूपे अवकिरित्वा काशिकेन वस्त्रेणाच्छादयित्वा चन्दनेनानुलिम्पित्वा प्रणिधानं अकार्षीत्। अन्-आगते ऽध्वनि एवम्-विधं शास्तारम् आरागीयेयं। स च मे धर्मन् देशेय तस्याहं धर्मन् देशितम् आजानेयन् ति। सा तहिम् उद्बन्धित्वा काल-गता। तावत्त्रिंश-भवने उपपन्ना। अप्सर-सहस्र-परिवृता सा तहिं यावद्-आयुः स्थित्वा ततश् च्यवित्वा मनुष्येषूपपन्नाः। वैशलीयं कापिलस्य गोत्रस्य ब्राह्मण-कुले उपपन्ना। ताये दानि ज्ञातिकेहि भद्रेति नाम कृतं। अन्-अर्थिका काम-गुणेहि पञ्चहि या निष्-क्रमित्वा प्रव्रजिता सर्वास्रव-क्षयम् अकार्षीत्। काशिकानि वस्त्राणि प्रत्यग्रं चानुलेपनं भगवतो काश्यपस्य या प्रसन्नाभिरोपयेत्। सा कापिलेयी भगवतो पादां वन्दति शास्तुनो। यावद् भगवान् आह। तेन हि दक-शाटिका नाम कर्तव्या। भिक्षुणीयो आहंसुः। पश्य भगवन् कथम् इयं भद्रा स्थविर-महा-काश्यपेन सार्धं प्रव्रजिता। भगवान् आह। न एतर्हि मे(ये)व एते उभये प्रव्रजिता। अन्यदाप्य् एते उभये प्रव्रजिताः। अन्यदापि भगवन् अन्यदापि भिक्षुणीयो।

भूत-पूर्वं भिक्षुणीयो अतीतम् अध्वानं चत्वारो राज-ऋषयः कुम्भकार-कुले वासम् उपगताः।

खाणुवर्णः कलिङ्गानां गन्धारानाञ् च भार्गवो।
निमी राजा विदेहानां उग्रसेनश् च क्षत्रियः॥ [१३]॥

एते चत्वारो राज-ऋषयः उग्र-तेजा महा-बला कुम्भकार-कुले वास एक-रात्रम् उपागमत्। कुम्भ-कारम् उपसम्क्रम्य तान् एव परिपृच्छति। किं दृष्ट्वा श्रुत्वा वा प्रव्रज्याम् आरोचथ।

खाणुवर्णः [महाराजा] कलिङ्गानां नर-ऋषभः।
पृच्छितो कुम्भकारेण इदम् वचनम् अब्रवीत्॥ [१४]॥

शंखां सुवर्णोत्तर-निष्ठितान् नारि।
पिनन्धन पिनन्धति
शब्द द्वितीया तु समागता यतो रमागता यतो
संसर्ग-दोषं दृष्ट्वा श्रुत्वा च
भिक्षु-चर्याञ् चरामि॥[१५]॥

भार्गवो पि महाराजा गन्धाराणां नरर्षभः।
पृच्छितो कुम्भकारेण इदम् वचनम् अब्रवीत्॥ [१६]॥

द्विजा तु कुणपस्य कारणा।
एकस्यास्ति बहुका पतन्ति।
आहार-हेतोः परिधावन्ति।
तां दृष्ट्वा भिक्षु-चर्याञ् चरामि॥ [१७]॥

निमी अपि महाराजा वैदेहो मिथिलाधिपः।
पृच्छितो कुम्भकारेण इदम् वचनम् अब्रवीत्॥ [१८]॥

अह् अदृशी मेघ-समान-वर्णां।
तेलापकांश -च्छुरितान् समानान्।
ताम् ए[व फल-हेतोर्] विभग्न-गतां
दृष्ट्वा संविग्नो भिक्षु-चर्याञ् चरामि॥ [१९]॥

उग्रसेनो पि महाराजा क्षत्रियाणां नरर्षभो।
पृच्छितो कुम्भकारेण इदम् वचनम् अब्रवीत्॥ [२०]॥

र्षभस् तादृशाय शोभाय मध्ये।
चलत्-ककुद-वर्णेन वपुषा उपेतो।
तम् अदृशासि काम-हेतोर् विभग्न-।
भग्नं तं दृष्ट्वा भिक्षु-चर्याम् चरामि॥ [२१]॥

सर्वे इमे देव-समा समागताः।
अग्निर् यथा प्रज्वलितो निशाय।
अहं [अपि] प्रव्रजिष्यं .....।
अपहाय कामानि मनोरमाणि॥ [२२]॥

कुम्भकार-भार्या कथयति।
अयम् एव कालो नहि अन्यद् अस्ति।
अनुशासको नास्ति इतो बहिर्धा।
अहं अपि प्रव्रजिष्यं।
पुत्रका मह्यं कहिं गमिष्यन्ति॥ [२३]॥

आमं पक्वन् न जानन्ति अथ लोणम् अलोणकं।
शकुनीव मुक्ता पुरुषस्य हस्तात्।
अजात-पक्षा बाला पुत्रका अजानकाः॥ [२४]॥

प्रव्रजितम् अनुप्रव्रजामि
चरन्तम् अनुचराम्य् अहं॥ [२५]॥

निमी राजा बोधिसत्त्वः कलिङ्ग पि शारिसुतः।
उग्रसेनश् च मौद्गल्यो आनन्दो आसि भार्गवो।
कुम्भकारः काश्यपो आसि भद्रा सा कुम्भकारिका॥[२६]॥

तदाप्य् एते उभये प्रव्रजिताः।
एतर्ह्य् अप्य् एते उभय प्रव्रजिताः॥ [२७]॥

भगवता दानि भिक्षुणीनाम् उदक-शाटिका अनुज्ञाता। भिक्षुणीयो दानि तथागतान् पटं (टान्) दक-शाटिकां कुर्वन्ति। भगवान् आह। तेन हि न क्षमति यथागतं पटं दक-शाटिकां कर्तुं। यावच् छिक्षापदं प्रज्ञप्तं।

दके-शाटिकां भिक्षुणीय कारापयन्तीय प्र(प्रा)माणिका कारापयितव्या। तत्रेदं प्रमाणन्। दीर्घशो चत्वारि वितस्तियो। सुगत-वितस्तिना। तिर्यग् द्वे तद् उत्तरिं कारापये च्छेदन-पाचत्तिकं।

दक-शाटिका ति या सा भगवता अनुज्ञाता। कारापयन्तीये ति स्वयं कुर्यात् परेण वा कारापये। प्रामाणिकन् ति तत्रेदं प्रमाणं चत्वारि वितस्तियो। सुगत-वितस्तिना ति सुगतो नाम तथागतो ऽर्हन् सम्यक्सम्बुद्धो तस्य यो वितस्ति सो द्व्य् अर्धो मञ्चक-पादो तिर्यग् द्वे तद् उत्तरिं कारापये पाचत्तिकं। अथ दानि एकान्ते निकुञ्जे प्रदेशे स्नायन्ति विना दक-शाटिकाय अन्-आपत्तिः। भिक्षुर् अपि विना दक-शाटिकाय स्नायति विनयातिक्रमम् आसादयति। अथ निकुञ्ज-प्रदेशे स्नायति विना दक-शाटिकाय अन्-आपत्तिः। तेन भगवान् आह।

दक-शाटिकां भिक्षुणीय कारापयन्तीय प्रामाणिका कारापयितव्या। तत्रेदं प्रमाणं। दीर्घशो चत्वारि वितस्तियो। सुगत-वितस्तिना। तिर्यग् द्वे। तद् उत्तरिम् कारापये च्छेदन-पाचत्तिकं॥

पाचत्तिक-धर्म ७६

कठिन

१९०. भगवान् श्रावस्तीयम् विहरति। स्थूलनन्दा नाम भिक्षुणी भिक्षुणी-संघेन अध्येष्टा। शक्यसि आर्ये संघस्य कृतेन पटान् याचितुं। सा दान् आह। शक्यं। सा दानि दुर्बल-कुलेषु गत्वा आह। महा-पुण्यो शक्यसि संघस्य पटं दातुं। आहंसुः। आर्ये आज्ञास्यामः पुनर् अप्य् आगमिष्यसि। सा पुनः पुनर् आगच्छति। आहंसुः। ज्ञास्यामः ज्ञास्याम इति। सा दानि जल्पति। यदि यूयं दातुकामा ददथ। अयं संघस्य चीवर-कालो अति-क्रमति। किं ज्ञास्याम इति वदथ। तेहि दानि न दत्तं। चीवर-कालो ऽतिक्रान्तो। एतं प्रकरणं भिक्षुणीयो महा-प्रजापतीये गौतमीये आरोचयेंसुः यावद् भगवान् आह।

या पुन भिक्षुणी दुर्बलाय चीवर-प्रत्याशाय संघस्य कठिनास्तारं व्यति-नामयेत् पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। दुर्-बलायेति अ-प्रति-बलाय। चीवर-प्रत्याशायेति चीवरं नाम कालं यावत् क्षौमुनिका। संघस्य कठिनास्तारिकं। व्यतिनामयेद् इति अतिक्रामयेत् पाचत्तिकं यावत् प्रज्ञप्तिः। एषा दानि भिक्षुणी उत्साहीयति। आर्ये शक्ष्यसि संघस्य कठिनं याचितुं। यदि प्रतिबला भवति उत्सहितव्यं। उत्सहित्वा न दुर्बल-कुलानि याचितव्यानि। अथ खलु ये प्रतिबलाः पिता पुत्रा वा भ्रातरौ वा भगिनीयो वा ज्ञाति-सम्बन्धा वा गोत्र-सम्बन्धा वा ते याचितव्या। ते प्रतिबला दातुं ते याचित्वारोचयितव्याः। अथ दान् आहंसुः ज्ञास्याम ज्ञास्याम इति वक्तव्या। देथ वा प्रत्याख्याथ वा चीवर-कालो ऽति-क्रमति। अथ दानि अ-प्रतिबला भवति उत्साहयितव्या सा एषा भिक्षुणी संघस्य कठिन-विवरार्थाय। उत्स[ह]यित्वा नैव याचति नैव यावयेति न भिक्षुणी-संघस्यारोचयति न लभ्यतीति पाचत्तिकम् आसादयति। फु। भिक्षुर् अपि दुर्बलाय चीवर-प्रत्याशाय संघस्य कठिनास्त(स्ता)रं व्यतिनामयेति विनयातिक्रमम् आ[सा]दयति। तेन भगवान् आह।

या पुन भिक्षुणी दुर्बलाय चीवर-प्रत्याशाय संघस्य कठिनास्तारं व्यतिनामयेत् पाचत्तिकं। फु॥

पाचत्तिक-धर्म ७७

चीवर-पारिहारिकं

१९१. भगवान् श्रावस्तीयं विहरति। ता दानि भिक्षुणीयो सान्तररोत्तरेण प्रावृता भगवतो पाद-वन्दिका आगता तासां निर्गतानां अग्नि-दाह उत्पन्नः। तासां दग्धानि चीवराणि। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यावद् आम भगवन्। भगवान् आह। एतं व [त] दानि यूयं पारिहारिकं चीवरं न परिहरथ। तेन हि पारिहारिकं चीवरं परिहरितव्यं।

एषा येवार्थोत्पत्तिः। भगवान् श्रावस्तीयं विहरति। ता दानि भिक्षुणीयो शाकीय-कन्यायो च मल्ल-कन्यायो च कोलित-कन्यायो च सुकुमार-प्रव्रजिता च। भारिकां संघाटिं परिहरन्तीयो किलम्यन्ती। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यावद् भगवान् आह। तेन हि अनुजानामि ग्लानाये। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि। पेयालं। यावत्।

या पुन भिक्षुणी अ-गिलाना पारिहारिकं चीवरं न परिहरति पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। पारिहारिकं चीवरन् ति संघाटी यावत् दक-शाटिका। परिहरन्(र)तीति येन गच्छेय तहिं नेतव्या। अ-गिलाना ति प्रत्युद्धृतं पदं भगवता अन्-आपत्तिः गिलानाय। सा एषा भिक्षुणी अ-गिलाना पारिहारिकं चीवरं न परिहरति पाचत्तिकम् आसादयति। अथ दानि चेतियं वन्दति चंक्रमति वा अन्तो सीमम् वा गच्छति अन्-आपत्तिः। भिक्षुर् अपि पारिहारिकं चीवरं न परिहरति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी अ-गिलाना पारिहारिकं चीवरं न परिहरति पाचत्तिकं।

पाचत्तिक-धर्म ७८

पचति

१९२. भगवान् वैशालीयं विहरति। भद्राये दानि कापिलेयीये ज्ञाति-कुलातो देवसिकं भक्तम् आनीयति। सा तं विहारके पचित्वा खादति। ताये दानि पुत्र-भ्रातृका आगताः। भद्राये अवलोकनाय गताः। सान्येषाम् आह भुञ्जिष्यथ। ते दान् आहंसुः भुञ्जिष्यं। ताये ततो दिन्नं। आह। मृष्टं खल्व् इमं। कुतो इमं। सा दान् आह। युष्माकं गृहातो आनीतं। आहंसुः। अस्माकं गृहे न एवं मृष्टं पच्यति। आह। किं युष्माकं भद्रायिणीयो चेटियो जानिष्यन्ति। कथं परितव्यन् ति। एवम् एवोपकरणानि अस्फातिका कुर्वन्ति। ते दानि गृहं गत्वा ता दासीयो दण्ड-कशा-हतायो कृतायो। इति-कितिकाये धीतरो एवम् एत्तकम् उपकरणं ददामो यूयम् अस्फातिकं करोथ। ता रोदमाना आहंसुः। आर्य-धीता अस्माकं हनायेति। भिक्षुणीहि श्रुतं। एतं प्रकरणं। पेयालं। यावद् भगवान् आह। दुष्कृतं ते भद्रे। तेन हि न क्षमति पराहृतं खादनीयम् वा भोजनीयम् वा पचितुम् वा पचायितुम् वा भृज्जितुम् वा भृज्जापयितुम् वा।

एषा एवार्थोत्पत्तिः। भगवां च्छ्रावस्तीयम् विहरति। ता दानि भिक्षुणीयो शाकिय-कन्यायो च कोलित-कन्यायो च पिण्डाय चरन्तीयो। पर्युपाषि(सि)तं भोजनं लभन्ति। पर्युपासितं ओदनम्। पर्युपासितं सूपं। पर्युपासितं शाकं। पर्युपासितं कुल्माषं। तायो भुक्त्वा भुक्त्वा वमन्ति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यावत् लभ्यं भगवन् भिक्षुणीय तूष्णीं कृत्वा भोक्तुं। भगवान् आह लभ्यं। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी पराहृतं खादनीयं वा भोजनीयम् वा पुनो पुनो पचित्वा वा पचापेत्वा वा भृज्जित्वा वा भृज्जापेत्वा वा कठित्वा वा कठापेत्वा वा अ-गिलाना खादये वा भुञ्जेय वा पाचत्तिकं॥

या पुन भिक्षुणीति। पेयालं। पराहृतन् ति ग्रामतो वा आनीतं नगरतो वा आनीतं। खादनीयन् ति खादनीयं भोजनीयन् ति भोजनीयं। पचित्वा ति स्वयं। पचापयित्वा ति परेहि। भृज्जित्वा ति स्वयं। भृज्जापयित्वा [ति परेहि]। कठित्वा ति स्वयं। कठापयित्वा ति परेहि। अ-गिलाना ति प्रत्युद्धृतं भगवता पदं अन्-आपत्तिर् गिलानाये। किन् दानि अत्र गैलान्यम् अभिप्रेतं। जरा-दुर्बला वा भोति व्याधि-दुर्बला वा भुक्त्वा वा वमति। अफासुं वा भोति इदम् अत्र गैलान्यम् अभिप्रेतं। सा एषा भिक्षुणी रस-गृध्या पराहृतं पिण्डपातं पुनो पुनो पचेय वा पचापेय वा पाचात्तिकम् आसादयति। अथ दानि शीतलम् भवति लभ्या उष्णी-कर्तुं। न दानि थालिकाय वा पिठरिकाय वा। अथ खलु ताम्र-पात्रेण वा कुपात्रेण वा कांसिकाय वा उष्णी-कर्तव्यं। भिक्षुर् अपि स्वयं पचति विनयातिक्रमम् आसादयति। अथ दानि कल्पिय-कारेण पचापेति अन्-आपत्तिः। अथ दानि शीतलो भवति पिण्डपातो उष्णी-करोति अन्-आपत्तिः। तेन भगवान् आह।

या पुन भिक्षुणी पराहृतं खादनीयम् वा भोजनीयम् व पुनो पचित्वा वा [पचापेत्व वा ] भृज्जित्वा वा भृज्जापयित्वा वा कठित्वा वा कठापयित्वा वा अगिलाना खादेय वा भुञ्जेय वा पाचत्तिकं। ह्रा॥

पाचत्तिक-धर्म ७९

दक-विजनेन

१९३. भगवान् श्रावस्तीयम् विहरति। गर्तोदरो च गर्तोदर-माता च गर्तोदर-पिता च अगारस्यानगारियं प्रव्रजिताः। गर्तोदर-पिता च गर्तोदर-माता च शाक्येहि प्रव्रजिता गर्तोदर तिर्थकेषु। गतोदर-पिता भुञ्जति गर्तोदर-माता वीजयन्ती अग्रतो तिष्ठति पानीय-मल्लकं धारेति। सो दानि ताये कानिचित् कानिचित् पूर्व-चरितानि जल्पति। यानि ताये अ-मन-आपानि। ताय तस्य पानीय-मल्लकं मस्तके आपिट्टितं। वीजन-दण्डेन च मस्तके आहतो। अखल्ल-महल्ल-अकुशल-अप्रकृतिज्ञः। अद्यापि त्वं अ-जल्पितव्यानि जल्पसि। सा भिक्षुणीहि दृष्टा। ता दान् आहंसुः। मा आर्ये एवं करोहि। अग्र-परिषा एषा न लभ्या एवं कर्तुं। सा दान् आह। अयं खलु अखल्ल -अकुशलो अप्र[कृ]तिज्ञो अद्यापि यानि तानि अजल्पितव्यानि [जल्पति]। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। दुष्कृतं ते गर्तोदर-माते। नैष धर्मो नैष विनयो। एवं च दानि भिक्षुं भुञ्जन्तं दक-वीजनेन उपस्थिहसि। तेन हि न क्षमति दक-वीजनेन उपस्थिहितुं। यावद् भगवान् आह।

या पुन भिक्षुणी भिक्षुं भुञ्जन्तं दक-वीजनेन उपस्थिहेय पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। पेयालं। भिक्षुन् ति उपसम्पन्नं। पे। भुञ्जन्तं ति पञ्च-जातकम् वा पञ्च-जातक-संसृष्तम् वा यद् वा किञ्चित् खाद्यं भोज्यं। दक-वीजनेन उपस्थिहेया ति पानीय-मल्लकं धारयेत्। वीजन-वातम् वा दद्यात् पाचत्तिकं। यावत्-प्रज्ञप्तिः। सा एषा भिक्षुणी उदक-मल्लकन् धारयति नीवीजनं विनयातिक्रमम् आसादयति। वीजयति न उदक-मल्लकन् धारेति विनयातिक्रमम् आसादयति। उभयं करोति पाचत्तिकं। नोभयं अन्-आपत्तिः। सा एषा आपत्तिः एकस्य भिक्षुस्य एक-भिक्षुणीये। अथ दानि संबहुला भिक्षू भवन्ति अन्-आपत्तिः। अथ दानि भिक्षुणीये पिता वा भ्राता वा भिक्षुर् भवति किञ्चापि वीजयत्य् अन्-आपत्तिः। तेन भगवान् आह।

या पुन भिक्षुणी भिक्षुं भुञ्जन्तं दक-वीजनेन उपस्थिहेय पाचत्तिकं॥ ०॥

पाचत्तिक-धर्म ८०

लशुनञ् च खादति

१९४. भगवान् राजगृहे विहरति। मेघीयो नाम लशुनवाणिजको। तेन भिक्षुणी-संघो लशुनेन उपनिमन्त्रितो। ता दानि षड्वर्गिणीयो खादन्ति पि मर्देन्ति पि उज्झेन्ति पि विश्राणेन्ति पि आदाय पि गच्छन्ति। सो दानि कदाचित् वाटं प्रत्यवेक्षितुङ् गतः। तेन दानि सा(सो) दृष्टो वाटो विध्वस्तो। सो दान् आह। केनायं वाटो विध्वस्तो। अहं (आह ) त्वया आर्यमिश्रिका उपनिमन्त्रिताः। लशुनेन तायो दानि खादन्ति मर्देन्ति पि उज्झेन्ति पि विश्राणेन्ति पि आदाय पि गच्छन्ति। तस्य दानि अप्रसादो जातो। आह। यदि खा[द]न्ति किम् मर्देन्ति। पेयालं। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह।

या पुन भिक्षुणी लशुनं खादय(देय) पाचत्तिकं॥ लशुनन् ति लशुनं नाम जातिमं सेविमं नागरं कच्छरुहं पार्वतेयं ब्रह्मदेयं आवरन्तकं मागधकं कोसलकं। यं चा पुनर् अन्य पि किञ्चिल् लशुनं सर्वं लशुनं न क्षमति। आमन् न क्षमति पक्वन् न क्षमति। यकृन् न क्षमति। कापि कापि न क्षमति अभ्यन्तर-परिभोगाय।

अथ दानि भिक्षुणीय गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा भवति लभ्यन् तं म्रक्षितुं। म्रक्षयित्वा न क्षमति अभ्यागमे प्रदेशे स्थातुं। अथ खु प्रतिगुप्ते प्रदेशे स्थातव्यं यावद् वर्त्ता भवति। +++++ धोविय निष्क(क्र)मितव्यं। तेन भगवान् आह।

या पुन भिक्षुणी लशुनं खादेय पाचत्तिकं॥ १॥

उद्दानं।
संक्रमणं [७१] श्रमण-चीवरम् [७२]।
अन्तर्वासं [७३]। संकक्षिका [७४]।
दश (क)-शाटिका [७५] कठिन[७६]।
चीवर-पारिहारिकं [७७]।
पञ्च (पच)ति [७८]। दक-वीजनेन [७९]।
लशुनञ् च खादति [८०]।
अष्टमो वर्गः॥

पाचत्तिक-धर्म ८१

देति

१९५. भगवान् श्रावस्तीयं विहरति। राष्ट्रपालाय भिक्षुणीय भगिनी काल-गता। सा दानि तासां भागिनेयकानां नाना-प्रकारं खज्जं भोज्जं भक्षयित्वा देति। जनो दानि ओज्झायति। पश्यथ भणे श्रमणिका श्रद्धा-देयं गृहिणान् ददाति। एतम् प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावच् छब्दापयथ राष्त्रपालां। सा दानि शब्दापिता। तद् एव सर्वं भगवान् विस्तरेण पृच्छति। आह। आम् भगवन्। भगवान् आह। तेन हि न क्षमति आगारिकस्य स्वहस्तं खादनीयं भोजनीयं दातुं।

एषा एवार्थोत्पत्तिः। गर्तोदरो च गर्तोदर-पिता च गर्तोदरमाता च अगारस्यानगारियं प्रव्रजिता। गर्तोदर-पिता गर्तोदरमाता च शाक्येहि प्रव्रजिताः। गर्तोदर तीर्थिकेहि प्रव्रजितः। यावत् स गर्तोदर-मातुः सकाशम् उपसंक्रान्तो ताय गर्तोदर-माताय तस्य नाना-प्रकारस्य खज्जकस्य पूरं पात्रं दिन्नं। सो दानि तं गृह्य पानागारं गत्वा आत्मना च खादति पारांश् च छन्देति। ते दान् आहंसुः। कहिं त्वया इमं लब्धं। सो दान् आह। मा शब्दं। शाकियायिनानां श्रमणीयो दक्षिणीयायो। तासां पि वयं दक्षिणीयायो। तासां पि वयं दक्षिणीयाः। जनो दानि ओज्झायति। भिक्षुणीहि श्रुतं। एतं प्रकरणं। पेयालं। यावद् भगवान् आह। दुष्कृतन् ते गर्तोदर-माते। तेन हि न क्षमति आगारिकस्य वा परिव्राजकस्य वा खादनीयम् वा भोजनीयम् वा दातुं। अथ खलु भगवान्। पेयालं। यावत्।

या पुन भिक्षुणी आगारिकस्य वा परिव्राजकस्य वा स्व-हस्तं खादनीयम् वा भोजनीयम् वा दद्यात् पाचत्तिकं। या पुन भिक्षुणीति उपसम्पन्ना। आगारिकस्येति गृहिणः। परिव्राजकस्येति गौतम-जटिलक-पर्यन्तस्य। स्व-हस्तन् ति हस्तेन हस्तं। भाजनेन वा भाजनं। खादनीयन् ति यं खादनीयं। भोजनीयन् ति यं भोजनीयं। दद्यात् पाचत्तिकं। एष दानि भिक्षुणीय कोचिद् आगच्छति। सालोहितो वा भ्राता वा। यदि तावद् अस्य किञ्चिद् दातुं भवति न क्षमति स्व-हस्तं दातुं। कल्पिय-कारि[का]य दातव्यं। अथ दानि कल्पिय-कारी न भवति वक्तव्यं। अतो स्वयं गृह्णीय खादथ। अथ दानि पश्यति। रस-गृद्धी य एषो सर्वं खादतीति। यत्तकं परित्यक्तं तत्तकं प्रतिग्राहयित्वा शेषं। वक्तव्यो। गोपेहीति। ततो भूमीयन् निक्षिपिय वक्तव्यो। गृह्णीय खादथ। अथ दानि प्रव्रजितको आगच्छति न क्षमति स्व-हस्तं खादनीयम् वा भोजनीयम् वा दातुं। कल्पिय-कारीय दातव्यं। अथ दानि कल्पिय-कारी न भवति अतो येव गृह्णीय खादाहीति। अथ दान् आह। सालोहिते किम् अस्माकं चण्डालेहि विय प्रवर्तसि। वक्तव्यं। तथा यूयं दुराख्याते प्रवचने प्रव्रजिताः। अथ दानि ग्रामान्तरं गच्छति लभ्यन् तेन कल्पिय-कृत्यं कारापयितुं। अतो आत्मा च खादथ अस्माकञ् च प्रतिग्राहथ। अथ दानि जानाति। रस-गृध्रा इति शेषं पूर्व-वत्। तेन भगवान् आह।

या पुन भिक्षुणी आगारिकस्य वा परिव्राजकस्य वा स्व-हस्तं खादनीयम् वा भोजनीयम् वा दद्यात् पाचत्तिकं॥

पाचत्तिक-धर्म८२, ८३

चिकितसति

१९६. भगवान् कौशाम्बीयं विहरति। छन्दक-माता भिक्षुणी राज्ञो ऽनतःपुरं प्रविशति। कुशला मूल-भैषज्यानां पत्र-भैषज्यानां फल-भैषज्यानां। सा दानि राज-कुलेहि अमात्य-कुलेहि आपणिक-कुलेहि श्रेष्ठि-कुलेहि स्त्रीणां बस्तिं स्थपेति। मूढग्रभां चिकित्सति। अञ्जनं प्रत्यञ्जनं वमनं विरेचनं स्वेदकर्म नस्त-कर्म शस्त्र-कर्म भैषज्याम् अनु-प्रयच्छति। सा उपसर्पणं भवति खज्जं भोज्जं लभति। ता दानि भिक्षुणीयो ओज्झायन्ति। नेयं प्रव्रज्या वैद्यिका इयं। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। शब्दापयथ छन्दक-मातां। सा दानि शद्बापिता। भगवान् आह। सत्यं छन्दक-माते चिकित्सित-विद्यया जीविकां कल्पयसि। आम् भगवन्। भगवान् आह। दुष्कृतं छन्दक-माते। [ते]न हि न क्षमति चिकित्सित-विद्यया जीविकां कल्पयितुं। अथ खलु भगवान्। पेयालं। यावत्।

या पुन भिक्षुणी चिकित्सित-विद्यया जीविकां कल्पयेत् पाचत्तिकं।

चिकित्सित-विद्या नाम अहि-विद्या विष-विद्या यावद् ग्रह-चरितं। तेन जीविकां कल्पयति पाचत्तिकं। यावत् प्रज्ञप्तिः। न क्षमति भिक्षुणीय चिकित्सितुं। लभ्यम् उपदिशितुं। भिक्षुर् अपि चिकित्सितविद्यया जीविकां कल्पयति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी चिकित्सित-विद्यया जीविकां कल्पयेत् पाचत्तिकं॥

पाचत्तिक-धर्म ८३

वाचयति

१९७. भगवान् कौशाम्बीयं विहरति। भगवता शिक्षापदं प्रज्ञप्तं। न क्षमति चिकित्सितुन् ति। छन्दक-माता न भूयो चिकित्सति। जनो दानि आगच्छति। साध्व् आर्ये चिकित्साहि। सा दान् आह। न क्षमति चिकित्सितुं भगवता शिक्षापदं प्रज्ञप्तं। अपि तु एष देथ मम किञ्चिद् वाचिष्यं। सा आगारिकांश् च परिव्राजकांश् च चिकित्सित-विद्यां वाचयति। भिक्षुणीयो दानि ओज्झायन्ति। नेयं किञ्चित् प्रव्रज्या वैद्यक-वाचिका इयं। यावद् भगवान् आह।

या पुन भिक्षुणी आगारिकम् वा परिव्राजकम् वा चिकित्सित-विद्यां वाचयेत् पाचत्तिकं।

या पुन भिक्षुणीति। पे। आगारिक इति गृहिणः। परिव्राजक इति गौतम-जटिलक-पर्यन्तं कृत्वा। चिकित्सित-विद्याम् इति अहि-विद्या विषविद्या यावद् ग्रह-चरितं। कायं चिकित्सितं वाचयेद् इति उद्दिशेत्। यावत् प्रज्ञप्तिः। न क्षमति भिक्षुणीये आगारिकम् वा परिव्राजकम् वा चिकित्सित-विद्यां वाचयितुं। लभ्यं उपदिशितुं। भिक्षुर् अपि चिकित्सित-विद्यां वाचयति विनयातिक्रमम् आसाद्यति। तेन भगवान् आह।

या पुन भिक्षुणी आगारिकम् वा परिव्राजकम् वा चिकित्सित-विद्यां वाचयेत् पाचत्तिकं॥

पाचत्तिक-धर्म ८४

गृहि-वैयापृत्यं

१९८. भगवान् श्रावस्तीयम् विहरति। विशाखाय दानि मृगारमाताय उभयतो संघो भक्तेनोप-निमन्त्रितो। ता दानि भिक्षु[णी]यो कल्यतो येवागत्वा आहंसुः। उपासिके यं दानि त्वया उभयतो संघो भक्तेनोपनिमन्त्रितो किन् दानि वयम् उपासिकाय उपकारं करोम। सा दान् आह। किम् आर्यमिश्रिका उपकारं करिष्यन्ति। उद्दिशथ स्वाध्यायथ। योनिशो मनसि करोथ। एवं ममोपकारो कृतो भविष्यति। एवम् एतद् अपि तु उपकारं करिष्यामः। तायो दानि तलकम् अभिरुहित्वा कर्पासं गृहीत्वा अन्याहि चिकित्सितं। अन्याहि विलोपितं। अन्याहि पिञ्जितं। अन्याहि विहतं। अन्याहि कर्तितं। तायो सूत्र-पिण्डकं गृह्णीय उपासिकाम् उपसंक्रान्ताः। उपासिके उपकारः कृतः। आह। नैष मम उपकारो यं ममार्य-मिश्रिका पिञ्जेयुर् वा लोढेयुर् वा विकड्ढेयुर् वा कर्तेयुर् वा। एषो ममोपकारो यम् आर्यमिश्रिका मत्सकाशाद् भुक्त्वा उद्दिशथ स्वाध्यायेथ यावद् बुद्धानां शासने योगम् आपद्येथ। यत् ताय उपासिकाय अवध्यापितं तं दानि भिक्षुणीहि श्रुतं। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यावद् भगवान् आह। दुष्कृतं वो भिक्षुणीयो। तेन हि न क्षमति गृहि-वैयापृत्यं कर्तुं। यावत्।

या पुन भिक्षुणी गृहि-वैयापृत्यं कुर्यात् पाचत्तिकं। या पुन भिक्षुणीति उपसम्पन्ना। गृहीति आगारिको। वैयापृत्यम् इति कर्तेय वा पिञ्जेय वा यावत्। ओहनेय वा पीषेय वा पचेय वा सीवेय वा। या पुनर् अन्य पि किञ्चिद् गृहि-वैयापृत्यम् कुर्यात् पाचत्तिकं। यावत् प्रज्ञप्तिः। न क्षमति भिक्षुणीय गृहि-वैयापृत्यं कर्तुं। अथ दानि माल्योपहारो भवति। गन्धारोपणं वा। सा आह। आर्य-मिश्रिकाहि साहाय्यं कर्तव्यम् इति किञ्चापि गन्धम् वा पीषयति। स(सु)मनां वा ग्रन्थयति अन्-आपत्तिः। भिक्षुर् अपि गृहि-वैयापृत्यं करोति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी गृहि-वैयापृत्यं कुर्यात् पाचत्तिकं॥ ४॥

पाचत्तिक-धर्म ८५

संभोजनीयं

१९९. भगवां च्छ्रावस्तीयं विहरति। स्थूलनन्दा नाम भिक्षुणी मध्याह्ने विघने अपरं कुलम् उपसंक्रान्ता। तहिन् दानि द्वे भार्या-पतिका क्लेषोत्पीडिता रहो संज्ञिनो मैथुनं प्रतिषेतुकामाः। सा दानि अप्रतिसंविदिता सहसा तहिं प्रविष्टा। सो दानि मनुष्यो उद्धावितो उत्कण्ठितो कर्मण्य् एनां राजा तेन परिवातेति। इमान् तावद् इति-कितिकाय धीतां श्रमणिकां विट्टालयिष्यन् ति। सा दानि भीता। प्रपलाना भिक्षुणीनां कथयति। मनास्मि आर्य-मिश्रिकायो ब्रह्मचर्यातो च्याविता यावद् एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यावद् भगवान् आह। दुष्कृतं ते नन्दे एवन् नाम त्वं जानन्ती सम्भोजनीयं कुलन् दिवा पूर्वे अप्रतिसंविचिता उपसंक्रामसि। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणीयो। पेयालं। यावत्।

या पुन भिक्षुणी जानन्ती संभोजनीयं कुलं दिवा पूर्वे अप्रतिसंविदिता उपसंक्रमेय पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय। कुलं ति ब्राह्मणादि कुलं। यहिं स्त्री-पुरुष-कं स्थाली-पिठरकं कण्टिका-मुसलकं सूपेल्लकं यव-प्रस्थकं इमं पश्चिमकं कुलं। सम्भोजनीयन् ति स्त्री पुरुषस्य भोजनं पुरुषस्यापि स्त्री भोजनं। यदि विगते मध्याह्ने पूर्वे अ-प्रतिसंविदिता ति अ-शब्द-कर्णिकाय। अन्-आहूता उपसं-क्रमेया ति प्रविशेत् पाचत्तिकं यावत् प्रज्ञप्तिः। यं दानि ज्ञायते एतं संभोजनीयं कुलन् ति नहि क्षमति तहिं पूर्वे अ-प्रतिसंविदितं अन्-आहूताय उपसंक्रमितुं। यदि ताव हौ(दौ)वारिको भवति वक्तव्यं। प्रविशामीति। यद्य् आह। मा प्रविशेहीति न प्रविशितव्यं। अथ दान् आह। प्रतिपालेहि तावत् यावत् प्रतिसंविदायामीति। यदि प्रविशित्वा न निष्क्रामति न क्षमति प्रविशितुं। अथ दानि तुणु-तुणा शब्दो भवति अच्छटिका दातव्या उत्काशितव्यं वा। यदि ताव तूष्णीका भवति न क्षमति प्रविशितुं। अथ दानि प्रत्युद्गच्छन्ति स्वागतम् आर्यायेति प्रविशेति प्रवेष्टव्यं। भिक्षुर् अपि संविदितो उपसम्क्रमति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी जानन्ती संभोजनीये कुले दिवा उपसंक्रमेय पूर्वे अप्रतिसंविदिता अन्-आहूता पाचत्तिकं॥

पाचत्तिक-धर्म ८६

संसर्गो

२००. भगवान् वैशालीयम् विहरति। या दानि सा कालीयन् त्रिय्ऽ-अन्तरा लिच्छवि-धीता प्रव्राजिता। सा दानि आगारिकेहि च प्राव्राजकेहि च सार्धं संसृष्टा विहरति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। दुष्कृतं ते कालि। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणीयो। पेयालं।

या पुन भिक्षुणी आरामिकैर् वा परिव्राजिकैर् वा संसृष्टा विहरेय दिवसं वा मुहूर्तं वा अन्तमसतो आरामिक-श्रमणोद्देशेहि पाचत्तिकम्॥

या पुन भिक्षुणीति उपसम्पन्ना। पेयालं। यावत्। आगारिकेहीत्। गृहीभिः। परिव्राजिकेहीति गौतम-जटिलक-पर्यन्तेहि तीर्थिकेहि। संसृष्टा विहरेद् इति कायिकेन संसर्गेण वाचिकेन संसर्गेण। कायिकवाचिकेन संसर्गेण। दिवसम् वा मुहूर्तम् वा अन्तमसतो तत्-क्षणन्-तल्-लवं तन्-मुहूर्तम् वा अन्तमसतो। आरामिक-श्रमणोद्देशेहीति। आरामिकाः संघोपस्थायकाः। श्रमण्ऽ-उद्देशा इति पञ्च-दश-वर्षान् उपादाय यावत् सप्ततिकाः। सा एषा भिक्षुणी आरामिकेहि वा परिव्राजकेहि वा संसृष्टा विहरति पाचत्तिकं। अथ दानि भिक्षुणीयो अन्यमन्यं संसृष्टा हि(वि)हरन्ति हि (वि)हरन्त्य् अभिरता विवेचयितव्याः। वीचीकारापयितव्याः। त्रिर् अपि भिक्षुणा सार्धं संसृष्टो(टा) विहरति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी आरामिकैर् वा परिव्राजिकैर् वा सार्धं संसृष्टा विहरेत् दिवसम् वा मुहूर्तम् वा अन्तमसतो आरामिक-श्रमण्ऽ-उद्देश-कैः सार्धं पाचत्तिकं॥ ६॥

पाचत्तिक-धर्म ८७

उपशपति

२०१. भगवान् श्रावस्तीयम् विहरति। स्थूलनन्दा नाम भिक्षुणी भिक्षुणीहि सार्धं कलहं करोति। सा दानि यादा पराजीता भवति तदा उपसम्पति। नमो भगवतो भगवतः पादेहि शपामि। काषायेहि शपामि। दुःखस्यान्तेन शपामि। यद्य् अहम् एवं ब्रवीमि। मा काषायेहि कालं करोमि। मा दुःखस्यान्तं करोमि। मातृ-घातिकस्य गतिङ् गच्छामि। पिट्र्-घातिकस्य गतिङ् गच्छामि। अर्हन्त-घातिकस्य गतिङ् गच्छामि। यावद् अकृत-ज्ञस्य गतिङ् गच्छामि। मित्रद्रोहस्य गतिङ् गच्छामि। आर्यापवादकस्य गतिङ् गच्छामि। नैरयिकीभवामि। तिर्यग्योनिगतिं गच्छामि। प्रेती भवामि। या पि भद्रायणी माम् एवम् आह सा प्य् एवम् भवतु। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावत् शब्दापयथ नन्दां। एतद् एव सर्वं भगवां विस्तरेणाचोचयति। यावत् आम भगवन्। भगवान् आह। दुष्कृतं ते नन्दे यावद् भगवान् आह।

या पुन भिक्षुणी उपशपन्ती विहरेत् आत्मानं सन्धाय पराम् वा सन्धाय पाचत्तिकं।
या पुन भिक्षुणीति उपसम्पन्ना। पे। उपशं(श)पन्ती विहरेया ति शपथं कुर्यात्। नम भगवतो भगवतः पादेहि शपामि। सर्वं पूर्ववत्। यावत् सा एषा भिक्षुणी आत्मानं सन्धाय परम् वा उपस(श)पति पाचत्तिकम्। भिक्षुर् अपि उपशपति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी उपशपन्ती विहरेद् आत्मानं वा सन्धाय परं वा पाचत्तिकं॥

पाचत्तिक-धर्म ८८

रोदति

२०२. भगवान् श्रावस्तीयम् विहरति। स्थूलनन्दा नाम भिक्षुणी भिक्षुणीहि सार्धं कलहं करोति। सा यदा पराजिता भवति तदा आत्मानं खट-चपेट-मुस्तकेहि पिट्टायति। उदरम् आहनयति। बल-बलाय रोदति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। सत्यं त्वं नन्दे एवं नाम भिक्षुणीहि सार्धं कलहं करोषि। पेयालं। यावद् बल-बलाय रोदसि। आम भगवन्। भगवान् आह। दुष्कृतं ते नन्दे नैष धर्मो यावत् तेन हि न क्षमति आत्मानं हनित्वा रोदितुं। अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी आत्मानं हनित्वा रोदेय पाचत्तिकं॥ या पुन भिक्षुणीति। पेयालं। आत्मानं हनित्वा ति खटेहि वा पाषाणेहि वा यावद् अन्येन वा केनचित्। रोद(दे)या ति अश्रुणि वा प्रवर्तयेत् पाचत्तिकं। यावत् प्रज्ञप्तिः। सा एषा भिक्षुणी आत्मानं हन्ति न रोदयति विनयातिक्रमम् आसादयति। रोदति [न] हनति विनयातिक्रमम् आसादयति। हनति च रोदति च पाचत्तिकम् आसादयति। नैव हनति न रोदति अन्-आपत्तिः। भिक्षुर् अपि आत्मानं हनित्वा रोदति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी आत्मानं हनित्वा रोदेय पाचत्तिकं॥ ८॥

पाचत्तिक-धर्म ८९

क्षियति

२०३. भगवान् श्रावस्तीयम् विहरति। स्थूलनन्दाय दानि भिक्षूणीय जेता भिक्षुणी कुलेहि संवर्णिता। सा जेता भिक्षुणी भद्रिका कुलान्य् उपसंक्रमति प्रासादिकेनातिक्रान्तेन प्रतिक्रान्तेनाव-लोकितेन व्यवलोकितेन संमिंजितेन प्रसारितेन संघाटी-पात्र-चीवर-धारणेन अन्-उद्धता अन्-उन्नडा अ-चपला अ-मुखरा अ-प्रकीर्णा वाचा। सा प्रासादिका ति प्रसन्ना देव-मनुष्याः। ते तेहिं कारा कुर्वन्ति। प्रत्या-लपन्ति प्रत्युत्थिहिन्ति। निमन्त्रयन्ति पात्रेण चीवरेण ग्लान-प्रत्यय-भैषज्य(ज्य)-परिष्कारेहि। स्थूलनन्दा भिक्षुणी अनाकल्प-सम्पन्ना अनीर्या-पथ-सम्पन्ना ओमलिन-मलिनेहि चीवरेहि पाटित-विपटितेहि वड्ड-डिंगर-पुष्टालब्(लंब्)एहि स्तनेहि वड्डेहि स्फिचकेहि उद्धता उन्नडा चपला मुखरा प्रकीर्णा वाचा। ते तस्या न गौरवं कुर्वन्ति न निमन्त्रयन्ति।

सा दानि भिक्षुणीनाम् आह। पश्यथ आर्यमिश्रिकायो ममैवार्या जेता कुलेहि संवर्णिता मह्य्ऽ एवावर्णं ब्रवीति। सा दान् आह। नास्त्य् एतं आर्ये। नाहम् आर्याये अवर्णं भाषामि। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह।दुष्कृतं ते नन्दे। पेयालं। यावद् एव नाम त्वं दुः-श्रुतेन दुर्-अवधारितेन क्रि(क्षि)या-धर्मम् आपद्यसि। तेन हि न क्षमति दुः-श्रुतेन दुर्-अवधारितेन क्षिया-धर्मम् आपद्यसि। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयसि (ति)। सन्निपातये गौतमि यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी भिक्षूणीनाम् एवं वदेय। यदाहम् आर्ये अमुकं कुलम् उपसंक्रामि। ततो इत्थन्-नामाये भिक्षुणीये भगवत्य् आघातो अप्रत्यय इति दुः-श्रुतेन दुर्-अवधारितेन क्षिया-धर्मम् आपद्येय पाचत्तिकं॥

या पुन भिक्षुणीति उपसम्पन्ना। भिक्षुणीनां एवम् वदेया ति यथा स्थूलनन्दा भिक्षुणी यावद् आहम् आर्ये अमुकं कुलन् ति कुलन् नाम क्षत्रिय-कुलं कुलन् नाम क्षत्रिय-कुलं ब्राह्मण-कुलं राजन्य-कुलं यानि च पुनर् अन्यानि कुलानि। ततो इत्थन्-नामाये ति यथा जेता पि भिक्षुणीये। भगवत्य् आघात इति न च आघात-वस्तूनि अस्थान-प्रकोप-दशमानि। अप्रत्यय इति दुः-श्रुतेन दुर्-अवधारितेनेति न आकारवन्तेन दर्शनेन न आकारवन्तेन श्रमणेन क्षियाधर्मम् आपद्येया ति अवध्यापेय पाचत्तिकं। यावत् प्रज्ञप्तिः न क्षमति भिक्षुणीये दुः-श्रुतेन दुर्-अवधारितेन क्षिया-धर्मम् आपद्यितुं। आपद्यति पाचत्तिकम् आसादयति। भिक्षुर् अपि दुः-श्रुतेन दुर् अवधारितेन क्षिया-धर्मम् आपद्यति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी भिक्षुणीनाम् एवम् वदेय यदाहम् आर्ये अमुकं कुलं उपसम्क्रमामि। ततो इत्थन्-नामाये भिक्षुणीये भगवत्य् आघातो ऽप्रत्यय इति दुः-श्रुतेन दुर्-अवधारितेन क्षिया-धर्मम् आपद्येय पाचत्तिकं॥ ९॥

पाचत्तिक-धर्म ९०

कुल-मात्सर्येण

२०४. भगवान् श्रावस्तीयम् विहरति। स्थूलनन्दा नाम भिक्षुणी कालस्यैव निवासयित्वा पात्र-चीवरम् आदाय महात्मेहि कुलेहि द्वार-कोष्ठकेहि तिष्ठति। भिक्षूणां प्रविशन्तानाम् आह। प्रविशन्तु आर्याः प्रविशन्तु आर्यमिश्राः अस्माकं कृतेन सिध्यति। अग्र-पिण्डन् तावद् दत्त्वा युष्माकं प्रथमानाम् एव पश्चाद् आत्मना परिभुञ्जिष्यन् ति। मा अन्यानि कुलानि उपसं-क्रमथ। नहि अन्येहि सिध्यति। ते दानि व्रीडिताः प्रत्य्-ओसक्षन्ति। भिक्षुणीनाम् अप्य् एवं कर्तव्यं। एवं चरक-परिव्राजकाजीवक-नि(निर्)ग्रन्थाः यावद् धर्म-चिन्तकाः प्रविशन्ति। सा दानि तेषां प्रविशन्तानाम् आक्रोशति। चण्डायू नष्टाशा भग्नाशाः। सुरा-भ्रस्ता याना -गर्दभाः नग्नाः अह्रीकाः अनोत्रापिणो मिथ्या-दृष्टिकाः विनिपतिताः प्रविशथ युष्माकं कृतेन सिध्यति। युष्माकम् अग्र-पिण्डन् तावद् दत्त्वा प्रथमानाम् एव पश्चाद् आत्मानं परिभोक्ष्यन् ति। मा अन्यानि कुलान्य् उपसंक्रमथ। नहि अन्येहि क्लेशेहि सिध्यति। ते दानि व्रीडिताः प्रत्य्-ओसक्षन्ति। एवं सर्व-भिक्षाचरणाम् आवा(व)रणं करोति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यावद् भगवान् आह। शब्दापयथ नन्दां। सा दानि शब्दापिता। तद् एव सर्वं। भगवान् विस्तरेण पृच्छति। यावद् आम भगवन्। भगवान् आह। दुष्कृतन् ते नन्दे यावद् एवन् नाम त्वं कुल-मात्सर्यं करोषि। तेन हि न क्ष[म]ति कुल-मात्सर्यं करोषि। तेन हि न क्षमति कुल-मात्सर्यं कर्तुं। अथ खलु भगवान् माहाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि। पेयालं। यावत्।

या पुन भिक्षुणी कुल-मात्सर्यं कुर्यात् पाचत्तिकं। या पुन भिक्षुणीति उपसम्पन्ना। कुल-मात्सर्यन् ति आवरणं कुर्यात् पाचत्तिकं यावत् प्रज्ञप्तिः। न क्षमति भिक्षुणीय कु[ल]-मात्सर्यं कर्तुं। करोति पाचत्तिकम् आसादयति। यदि तावद् भिक्षुर् वा भिक्षुणी वा पृच्छति भूतो गुणो वक्तव्यो। अथ दानि अन्य-तीर्थिका पृच्छन्ति मा एते मिथ्या-दृष्टिं ग्राहयिष्यन्तीति भृकुटिं करोति अन्-आपत्तिः। भिक्षुर् अपि कुल-मा (त्स)र्यं करोति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी कुल-मात्सर्यं कुर्यात् पाचत्तिकं। ळ्ं॥ उद्दानं।

देति [८१]। चिकित्सिति [८२]।
वाचयति [८३]। गृहि-वैयावृत्तः [८४]।
सम्भोजनीयं [८५]। संसर्गो [८६]।
उपशपति [८७]। रोदति [८८]।
क्षियति [८९]। कुल-मात्सर्येण [९०]॥

पूर्यते नवमो वर्गः।

पाचत्तिक-धर्म ९१

सम्मुखं

२०५. भगवान् श्रावस्तीयम् विहरति। गर्तोदरो च गर्तोदरमाता च गर्तोदर-पिता च आगारस्यानगारियं प्रव्रजिताह्। पे। यावत् सो महल्लको भुञ्जाति। सा गर्तोदर-माता परिविषति। सो दानि ताये कानिचित् पूर्व-चरितानि जल्पति स्त्री-उत्सद-दौष्ठुल्यानि यानि तस्या अमन-आपानि। सा दान् आह। चण्डायुः। अखल्ल-महल्लः। अव्यक्त-अकुशल-अप्रक्र्तिज्ञ। अद्यापि त्वम् अजल्पितव्यानि जल्पसि। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यावद् आम भगवन्। भगवान् आह। दुष्कृतं ते गर्तोदर-माते। पेयालं। तेन हि न क्षमति भिक्षुं सम्मुखम् आक्रोशितुं परिभाषितुं। अथ भगवान् यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी भिक्षुणी-भिक्षुं सम्मुखम् आक्रोशयेद् रोषयेद् परिभाषयेत् पाचत्तिकं। या पुन भिक्षुणीति उपसम्पन्ना। सम्मुखन् ति चातुर्-अक्षं। आक्रोशयेद् इति अ-कार-श-कार-ए-कारैः रोषयेत् परिभाषयेत् चण्डालु। अखल्ल-महल्ल-अकुशल-अप्रकृतिज्ञ ति पाचत्तिकं यावत् प्रज्ञप्तिः। न क्षमति भिक्षुणीये भिक्षुणीय भिक्षुं सम्मुखम् आक्रोशितुं रोषितुं परिभाषितुम्। आक्रोशति रोषति परिभाषति पाचत्तिकं। अथ भिक्षुण्या पिता वा भ्राता ज्ञातिको वा प्रव्रजितको भवति। सो च भवति उद्धतो उन्नडो असमाहितो लभ्या दानि सो वक्तुं। न दानि क्षमति धर्षिय वक्तुं। अथ खलु प्रज्ञया सम्ज्ञापयितव्यो। यदि तावत् तरुणको भवति वक्तव्यो। सालोहित इदानीं त्वं न शिक्षसि कदा त्वं शिक्षिष्यसि। यदा जीर्णो वृद्धो भविष्यति (सि)। अथ दानि महल्लको भवति वक्तव्यो। इदानीं त्वं न शिक्षसि कदा शिक्षिष्यसि यदा मण्डल-द्वारम् अनुप्राप्तो भविष्यसि। भिक्षुणापि भिक्षुणीयो न क्षमति सम्मुखम् आक्रोशितुं मुण्ड-स्त्री वेश्य-स्त्री ति। पे। सा एषा भिक्षुणी भिक्षुं समुखम् आक्रोशति पाचत्तिकं॥१॥

पाचत्तिक-धर्म ९२

ऊन-द्वादश-वर्षा

२०६. भगवान् श्रावस्तीयम् विहरति। भिक्षुणीयो दानि एक-वर्षा द्वि-वर्षा यावत् षट्-वर्षा उपस्थापेन्ति। ते नैव ओवदन्ति नानुशासन्ति। ता इन्द्र-गवा इव वर्धन्ति शिव-स्थ(च्छ)गला विय वर्धन्ति। अनाकल्प-सम्पन्ना अनीर्य-पथ-सम्पन्नो(न्ना) न जानन्ति कथम् उपाध्यायिनीये प्रतिपत्तव्यं। कथम् आचार्याये प्रतिपत्तव्यं। कथं वृद्धातरकाणां भिक्षुणीनां प्रतिपत्तव्यं। कथं ग्रामे। कथम् अरण्ये। कथं संघ-मध्ये। कथं संघाटीपात्र-चीवर-धारणे प्रतिपत्तव्यं। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पे। यावद् भगवान् आह। शब्दापयथ तायो भिक्षुणीयो। ता दानि शब्दापिताः। एतद् एव सर्वं भगवान् विस्तरेण पृच्छति। यावद् आम भगवन्। भगवान् आह। तेन हि न क्षमति ऊन-द्वादशोदक-वर्षा[य] उपस्थापयितुं। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी ऊन-द्वादश-वर्षा उपस्थापयेत् पाचत्तिकं॥

या पुन भिक्षुणीति उपसम्पन्ना। ऊन-द्वादश-वर्षा ति ऊन-द्वादश-वर्षा नाम ऊन-द्वादशोदक-वर्षो ऊन-द्वादशो सम्वत्सरो ऊन-द्वादश-वर्षा भिक्षुणी।

ऊन-द्वादशोदक-वर्षो पूर-द्वादशो सम्वत्सरो ऊन-द्वादश-वर्षा भिक्षुणी।

ऊन-द्वादशोदक-वर्षो अतिरेको द्वादशो सम्वत्सरो ऊन-द्वादश-वर्षा भिक्षुणी।

हेमन्ते उपसम्पन्ना तेन द्वादशमेन उपशम्(सम्)-पादिति। अक्ष(कृ)तायां प्रवारणायां ऊन-द्वादश-वर्षा भिक्षुणी। एवं ग्रीष्मे वर्षासु उपसम्पन्ना।

एवं पुरिमिकायां वर्षोपनायिकायां उपसम्पन्ना। अकृतायां प्रवारणायां उपशम्(सम्)पादेति। पश्चिमिकायां वर्षोपनायिकायां उपसम्पन्ना। अकृताहि द्विहि प्रवारणाहि उपसम्पादेति ऊन-द्वादश-वर्षा भिक्षुणी।

पूर-द्वादशोदक-वर्षो ऊनद्वादशो सम्वत्सरो पूर-द्वादश-वर्षा भिक्षुणी।

पूर-द्वादशोदक-वर्षो पूर-द्वादशो सम्वत्सरो पूर-द्वादश-वर्षा भिक्षुणी।

पूर-द्वादशोदक-वर्षो अतिरेक-द्वादशो सम्वत्सरो पूर-द्वादश-वर्षा भिक्षुणी।

हेमन्ते उपसम्पन्ना तेन द्वादशमेन उपसम्पादेति कृतायां प्रवारणायां पूर-द्वादश-वर्षा भिक्षुणी।

एतं (एवं ) ग्रीष्मे वर्षासु उपसम्पन्ना।

एवं पुरिमिकायां वर्षोपनायिकायां उपसम्पन्ना कृतायां प्रवारणायाम् उपसम्पादेति पूर-द्वादश-वर्षा भिक्षुणी। पश्चिमिकायां वर्षोपनायिकायां उपसम्पन्ना तेन द्वादशमेन उपसम्पादेति कृताहि द्विहि प्रवारणाहि पूर-द्वादश-वर्षा भिक्षुणी।

ऊन-द्वादश-वर्षा उपसम्पादयेत् पाचत्तिकं। सा एषा भिक्षुणी ऊन-द्वादश-वर्षा उपस्थापयति पाचत्तिकं प्रव्राजयति विनयाति-क्रमम् आसादयति। भिक्षुर् अपि ऊन-द्वादश-वर्षो उपसम्पादयति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी ऊन-द्वादश-वर्षा उपस्थापयेत् पाचत्तिकं॥

पाचत्तिक-धर्म ९३

अन्-अङ्गोपेता

२०७. भगवान् श्रावस्तीयम् विहरति। भगवता शिक्षापदं प्रज्ञप्तं। न क्षमति ऊन-द्वादश-वर्षाय उपस्थापयितुं। तेन दानि कालेन तेन समयेन षड्-वर्गिणीयो भिक्षुणीयो पूर-द्वादश-वर्षा भवन्ति। तायो दानि प्रव्राजेन्ति उपस्थापेन्ति। ता नैव ते(ओ)-वदन्ति नानुशासन्ति। पेयालं। यावत् कथं संघाटी-पात्र-धारणे प्रतिपत्तव्यं। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पे। यावच् छब्दापिता। तद् एव सर्वं भगवान् विस्तरेण पृच्छति। यावद् आम भगवन्। भगवान् [आह]। तेन हि न क्षमति अन्-अङ्गोपेताय उपस्थापयितुं। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। यावत् पर्यवदातानि भविष्यन्ति।

पूर-द्वादश-वर्षा पि च भवति सा च अन्-अङ्गोपेता उपस्थापयेत् पाचत्तिकं।

पूर-द्वादश-वर्षा ति यथा प्रथमके शिक्षापदे।

सा च अन्-अङ्गोपेता इति अङ्गोपेता नाम यस्या दशाङ्गानि सम्विद्यन्ते संयथ-ईदं।

प्रातिमोक्ष-सम्वर-संवृता भवति॥ [१]॥ बहुश्रुता भवत्य् अभिधर्मे॥२॥ बहु-श्रुता भवत्य् [अभि]विनये॥३॥ प्रतिबला भवत्य् अधिशील-शिक्षायां निवेशयितुं॥४॥ प्रतिबला भवत्य् अधिचित्त-शिक्षायान् निवेशयितुं॥५॥ प्रतिबला भवत्य् अधिप्रज्ञ-शिक्षायां निवेशयितुं॥६॥ प्रतिबला भवत्य् आपत्तिम् आपन्नां व्युत्थापयितुम् वा व्युत्थापाययितुम् वा॥७॥ प्रतिबला भवत्य् आपदासु व्युपकर्षयितुं वा व्युपकर्षापयितुम् वा॥८॥ प्रतिबला भवति गिलानम् उपस्थिहितुम् वा उपस्थापयितुम् वा॥०॥ द्वादश-वर्षा भवति सातिरेक-द्वादश-वर्षा वा॥ळ्ं॥

यस्या इमानि दशाङ्गानि सम्विद्यन्ते इयम् उच्यते अङ्गोपेता। विपर्ययाद् अन्-अङ्गोपेता। सा एषा अन्-अङ्गोपेता उपस्थापयेत् पाचत्तिकं। पेयालं। यावत् प्रज्ञप्तिः। सा एषा अन्-अङ्गोपेता प्रव्राजयति विनयातिक्रमम् आसादयति। उप-सम्पादयति पाचत्तिकं। भिक्षुर् अपि अन्-अङ्गोपेतो प्रव्राजयति उपसम्पादयति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

पूर-द्वादश-वर्षा पि च भवति सा च अन्-अङ्गोपेता उपस्थापयेत् पाचत्तिकं॥३॥

पाचत्तिक-धर्म ९४

असंमता

२०८. भगवान् श्रावस्तीयम् विहरति। भगवता शिक्षापदं प्रज्ञप्तं। द्वादश-वर्षाये अङ्गोपेताय उपस्थापयितव्येति। ता दानि भिक्षुणीयो द्वादश-वर्षा अङ्गोपेतायो उपस्थापयन्ति। भिक्षुणीयो दानि ओज्झायन्ति। अस्त्य् एषा द्वादश-वर्षा न पुनर् ज्ञायते। अङ्गोपेता वा अन्-अङ्गोपेता वा ति। एतत् प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयंसुः। यावद् भगवान् आह। उपस्थापना-संमुती ताय याचितव्या।

कर्म-कारिकाय कर्म कर्तव्यं। शृणोतु मे आर्या संघो। यदि संघस्य प्राप्त-कालं इयम् इत्थन्-नामा भिक्षुनी द्वादश-वर्षा अङ्गोपेता। सा संघं उप[स्थाप]ना -संमुतिं याचेया। यचिष्यति आर्य-मिश्रिका इत्थन्-नामा भिक्षुणी द्वादश-वर्षा अङ्गोपेता उपस्थापनासंमुतिं संघं। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतन् धारयामि।

ताय दानि याचितव्यं। वन्दाम्य् आर्या संघं। अहम् इत्थन्-नामा भिक्षुणी द्वादश-वर्षा अङ्गोपेता। साहं संघम् उपस्थापनासंमुतिं यचामि। साधु तव(बत) मे आर्या संघो उपस्थापनासम्मुतिन् देतु। एवम् भिक्षुत्तो याचयितव्यं॥

कर्म। शृणोतु मे आर्या संघो। इयम् इत्थन्-नामा भिक्षुणी द्वादश-वर्षा अङ्गोपेता। सा संघम् उपस्थापना-संमुतिं याचति। यदि संघस्य प्राप्त-कालं संघो इत्थन्-नामाये भिक्षुणीये द्वादश-वर्षाये अङ्गोपेताये उपस्थापना-संमुतिं दद्यात्। ओवयिका एषा ज्ञप्तिः।

शृणोतु मे आर्या संघो। इयं इत्थन्-नामा भिक्षुणी द्वादशवर्षा अङ्गोपेता। सा संघम् उपस्थापना-संमुतिं याचति। ताये संघो इत्थन्-नामाये भिक्षुणीये द्वादश-वर्षाये अङ्गोपेताये उपस्थापना-संमुतिन् देति। यासाम् आर्यमिश्रिकाणां क्षमति इत्थन्-नामाये भिक्षुणीये द्वादश-वर्षाये अङ्गोपेताये उपस्थापना-सम्मुतिन् दीयमानां संघेन। सा तूष्णीम् अस्य। यस्या न क्षमति सा भाषतु। इयम् प्रथमा कर्म-वाचना। एवं द्वितीया तृतीया कर्मवाचनेति। दिन्ना अर्य-मिश्रिकायो इत्थन्-नामाये भिक्षुणीये द्वादश-वर्षाये अङ्गोपेताये उपस्थापना-सम्मुति संघेन। क्षमति तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि। अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति।

पूर-द्वादश-वर्षा पि च भवति अङ्गोपेता सा च अ-सम्मता उपस्थापयेत् पाचत्तिकं।

अङ्गोपेता इति दशभिर् अङ्गेहि भिक्षुणी अङ्गोपेता भवति। शेषं पूर्व-वत्। अ-सम्मता इति असम्मता एव असम्मता। अन्-अङ्गोपेता च असम्मता तम् च से कर्म कुर्वन्ति ज्ञप्ति-विपन्नं गण-विपन्नं अनुश्रावणा-विपन्नं अन्यतरान्यतरेण कर्मोपक्लेशेन उपक्लिष्टं एवम् एषा अ-सम्मता। उपस्थापयेद् इति उपसम्पादयेत् पाचत्तिकं। सा एष भिक्षुणी अ-सम्मता उपस्थापयति पाचत्तिकं। प्रव्राजयति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

पूर द्वादश-वर्षा पि च भवति अङ्गोपेता[सा] च अ-सम्मता उपस्थापयेत् पाचत्तिकं॥४॥

पाचत्तिक-धर्म ९५

दुःशिला

२०९. भगवान् वैशालीयम् विहरति। या सा कालीय भिक्षुणीय त्रि-य्-अन्तरा लेच्छवि-धीता प्रव्राजिता। सा देशित-शिक्षा। प्रति-तालकेहि प्रति-कुञ्चिकाहि च पर-विहारान् उद्घाटिय आगारिकेहि परिव्राजकेहि च सह तिष्थति। सा ताय उपसंपादिता। भिक्षुणीयो दानि ओज्झायन्ति। किम् इमाय दुः-शीलाय प्रतितालकिनीय पुरुष-सहायिकाय उप-स्थापिताय। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावत् शब्दापयथ कालीं। सा दानि शब्दापिता। भगवान् विस्तरेण पृच्छति यावद् आम भगवन्। भगवान् आह। दुष्कृतन् ते कालि। नैष कालि धर्मो यावद् एव नामा त्वं दुः-शीलां प्रति-तालकिनीं पुरुष-सहायिकाम् उपस्थापयसि। तेन हि न क्षमति जानन्ती दुःशीलां प्रतितालकिनीं पुरुष-सहायिकाम् उपस्थापयितुं। अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी जानन्ती दुः-शीलां प्रतितालकिनीं पुरुष-सहा-यिकाम् उपस्थापयेत् पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय। दुः-शीलेति शील-विपन्ना शीलातिक्रान्ता। प्रतितालकिनीति प्रतितालकेहि प्रतिकुञ्चिकाहि च अन्यातकान् विहारकान् उद्घाटयति। पुरुष-सहायिनीति। आगारिकेहि च परिव्राजकेहि च सार्धं संसृष्टा विहरति। उपस्थापयेद् इति उपसम्पादयेत् पाचत्तिकं यावत् प्रज्ञप्तिः या दानि एषा आगारिकेहि परिव्राजकेहि च सार्धं संसृष्टा विहरति सा न क्षमति उपस्थापयितुं। अथ दानि शक्नोति ब्रह्मचर्यं संपादयितुं लभ्या ततो संसर्गातो विवेचयित्वा उपस्थापयितुं। भिक्षुर् अपि जानन् दुः-शीलं श्रामणेरं स्त्री-संसृष्टं अ-प्रत्योसारायेत्वा उपसम्पादेति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी जानन्ती दुः-शिलां प्रति-तालकिनीं पुरुष-सहायिकाम् उपस्थापयेत् पाचत्तिकं॥५॥

पाचत्तिक-धर्म ९६

ऊन-विंशति-वर्षा कुमारि-भूता

२१०. भगवान् श्रावस्तीयम् विहरति। भिक्षुणीयो दानि दशद्वादश-वर्षां कुमारी-भूताम् उपसम्पादयन्ति। अ-प्रतिसंख्यान-वर्तिन्यो भवन्ति अन्-आकल्प-सम्पन्ना। न जानन्ति कथम् उपाध्यायीये प्रतिपद्यितव्यं यावत् संघाटी-पात्र-चीवर-धारणे प्रतिपद्यितव्यं। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। शब्दापयथ ता भिक्षुणीयो। ता दानि शब्दापिताः। तद् एव सर्वं भगवान् विस्तरेण पृच्छति यावद् आम भगवन्। भगवान् आह। तेन हि न क्षमति ऊन-विंअति-वर्षां कुमारी-भूताम् उपस्थापयितुं। अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी ऊन-विंशति-वर्षां कुमारी-भूतां उपस्थापयेत् पाचतिकं।

ऊन-विंशति-[वर्षा ति] ऊन-विंशोदक-वर्षो ऊन-विंशो सम्वत्सरो ऊन-विंशति-वर्षा।

ऊन-विंशोदक-वर्षो पूर-विंशो सम्वत्सरो ऊन-विंशति-वर्षा।

ऊन-विंशोदक-वर्षो अतिरेक-विंशो सम्वत्सरो ऊन-विंशति-वर्षा।

हेमन्ते जाता तेन विंशेन उपसंपादेति अकृतायां प्रवारणायां ऊन-विंशति-वर्षा। एवं ग्रीष्मे जाता।

एवं पुरिमिकायां वर्षोपनायिकायां जाता तेन विंशे[न] उपसंपादेति ऊन-विंशति-वर्षा।

पश्चिमिकायां वर्षोपनायिकायां जाता तेन विंशेन उपसंपादेति। अकृताहि द्विहि प्रवारणाहि। ऊन-विंशति-वर्षा।

कुमारी-भूताम् एताम् ऊन-विंशति-वर्षां सर्वा ऊन-विंशति-वर्ष-सम्ज्ञिनीयो उपसम्पादेन्ति सर्वायो पाचत्तिकम् आसादयन्ति।

सा च अन्-उपसम्पन्ना। ताम् एताम् ऊन-विंशति-वर्षां कुमारी-भूतां एक ऊन-विंशति-वर्ष-सम्ज्ञिनीयो उपसम्पादेन्ति एका पूर-सम्ज्ञिनीयो। या ऊन-संज्ञिनीयो उपसम्पादेन्ति तायो पाचत्तिकम् आसादयन्ति। पूर-संज्ञिनाम् अन्-आपत्तिः। सा चान्-उपसम्पन्ना। ऊन-विंशति-वर्षां सर्वायो ऊन-विंशति-वर्ष-सम्ज्ञिनीयो उपसम्पादेन्ति सर्वासाम् अन्-आपत्तिः। सा च सूपसम्पन्ना।

पूर-विंशति-वर्षां सर्वायो ऊन-विंशति-वर्ष-संज्ञिनीयो उपसम्पादेन्ति सर्वा विनयातिक्रमम् आसादयन्ति। सा च सूपसम्पन्ना।

पूर-विंशति-वर्षाम् एका ऊन-विंशति-वर्ष-संज्ञिनीयो एका पूर-विंशति-वर्ष-संज्ञिनीयो उपसम्पादेन्ति। या ऊन-विंशति-वर्ष-संज्ञिनीयो ता विनयातिक्रमम् आसादयन्ति। या पुन(पूर)-विंशति-वर्ष-संज्ञिनीयो तासाम् [अन्]-आपत्तिः। सा च सूपसम्पन्ना।

पूर-विंशति-वर्षां सर्वा पूर-संज्ञिनीयो उपसम्-पादेन्ति सर्वासाम् अन्-आपत्तिः। सा च सूपसम्पन्ना।

कुमारी-भूता ति कुमारी-भूता अ-विकोपित-ब्रह्मचर्या। उपस्था-पयेद् इति उपसम्पादयेत् पाचत्तिकं। पे। यावत् प्रज्ञप्तिः।

या एषा कुमारी-भूता आकांक्षति तथागत-प्रवेदिते धर्म-विनये उपसम्पदं सा दानि समनु-ग्रहितव्या। कदा त्वं जाता। अथ न जानाति जन्म-पद्धिका निशामयितव्या। जन्म-पद्धिका न भवन्ति माता-पितरौ पृच्छितव्यौ। अथ दानि ते पि न जानन्ति पृच्छितव्या। कतरस्मिं राज्ये जाता। केत्तिका वा तदा त्वं अभूषि। सुदृष्टिर् दुर्-दृष्टिर् वा। पृच्छितव्या। न उद्धिकस्य वा चित्रिकस्य वा वशेन गन्तव्यं। अथ खु हस्त-पादा निशामेतव्याः। तेन भगवान् आह।

या पुन भिक्षुणी ऊन-विंशति-वर्षां कुमारी-भूतां उपस्थापयेत् पाचत्तिकं॥६॥

पाचत्तिक-धर्म ९७

अदेशित-शिक्षा

२११. भगवान् श्रावस्तीयम् विहरति। भगवता दानि शिक्षापदम् प्रज्ञप्तं। न क्षमति ऊन-विंशति-वर्षां कुमारी-भूताम् उपस्थापयितुन् ति। ता दानि भिक्षुणीयो पूर-विंशति-वर्षां कुमारी-भूताम् [अदेशित-शिक्षाम्] उपस्थापयन्ति। भिक्षुणीयो दानि ओज्झायन्ति। को जानाति पूर-विंशति-वर्षा वा एषा न वा ति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यावद् भगवान् आह। या एषा कुमारी-भूता आकांक्षति। तथागत-प्रवेदिते धर्म-विनये उपसंपदां भिक्षुणी-भावं। ताय संघो द्वे वर्षाणि शिक्षा-देशना-सम्मुतिं याचितव्यो। कर्म-कारिकाय कर्म कर्तव्यं। शृणोतु आर्या संघो। इयम् इत्थन्-नामा अष्टादश-वर्षा कुमारी-भूता आकांक्षति तथागत-प्रवेदिते धर्म-विनये उपसंपदं भिक्षुणी-भावं। यदि संघस्य प्राप्त-कालं इयम् इत्थन्-नामा संघं द्वे-वर्षाणि शिक्षा-देशना-सम्मुतिं याचेय्या। याचिष्यति आर्यमिश्रिका अष्टादश-वर्षा कुमारी-भूता द्वे-वर्षाणि शिक्षा-देशना-सम्मुतिं संघं। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतं धारयामि। ताय दानि याचितव्यं। वन्दाम्य् आर्या संघं। अहम् इत्थन्-नामा अष्टादश-वर्षा कुमारी-भूता आकांक्षामि तथागत-प्रवेदिते धर्मविनये उपसंपदं भिक्षुणी-भावं। साहं द्वे वर्षाणि शिक्षा-देशनासम्मुतिं याचामि। साधु वत मे आर्या संघो द्वे वर्षाणि शिक्षा-पदानि सम्मुतिं देतु। एवं त्रि-ख्हत्तो याचितव्यं।

कर्म। शृणोतु मे आर्या संघो। इयम् इत्थन्-नमा अष्टादश-वर्षा कुमारी-भूता आकांक्षति तथागत-प्रवेदिते धर्म-विनये उपसंपदं भिक्षुणी-भावं। सा संघं द्वे वर्षाणि शिक्षा-देशनासम्मुतिं याचति। यदि संघस्य प्राप्त-कालं संघो इत्थन्-नामाये अष्टादश-वर्षाये कुमारी-भूताये द्वे वर्षाणि शिक्षा-देशना-सम्मुतिं दद्यात्। ओवयिका एषा ज्ञप्तिः।

शृणोतु मे आर्या संघो। इयम् इत्थन्-नामा अष्टादश-वर्षा कुमारी-भूता आकांक्षति तथागत-प्रवेदिते धर्म-विनये उपसंपदं भिक्षुणी-भावं। सा संघं द्वे वर्षाणी शिक्षा-देशना-सम्मुतिं याचति। तस्याः संघो इत्थन्-नामाये अष्टादश-वर्षाये कुमारी-भूताये द्वे वर्साणी शिक्षा-देशना-सम्मुतिं देति। यस्या आर्यमिश्रिकाणां क्षमति इत्थन्-नामाये अष्टादश-वर्षाये कुमारी-भूताये द्वे वर्षाणि शिक्षा-देशना-सम्मुतिं दीयमानां संघेन। सा तूष्णीम् अस्य। यस्या न क्षमति सा भाषितु। इयं प्रथमा कर्म-वाचना। एवं द्वितीया तृतीया कर्म-वाचनेति। दिन्ना आर्यमिश्रिकायो इत्थन्-नामाये अष्टादशवर्षाये कुमारी-भूताये द्वे वर्षाणि शिक्षा-देशना-सम्मुतिः सम्घेन। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमान्त्रयति। सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति।

पूर-विंशति-वर्षा पि च भवति कुमारी-भूता। तां चादेशित-शिक्षाम् उपस्थापयेत् पाचत्तिकं।

पूर-विंशति-वर्षा ति पूर-विंशोदक-वर्षा। पूर-विंशो सम्वत्सरो। पूर-विंशो सम्वत्सरो। पूर-विंशति-वर्षा। कुमारी-भूता ति अ-विरोपित-ब्रह्मचर्या। अ-देशित-शिक्षा ति अ-देशित-शिक्षैव अ-देशित-शिक्षा। तं च से कर्म कुर्वन्ति ज्ञप्ति-विपन्नं गण-विपन्नं अनु-श्रावणा-विपन्-नं अन्यतरान्यतरेण कर्मोपक्लेशेन उपक्लिष्टं। एवम् अप्य् एषा अ-देशित-शिक्षा। उपस्थापयेद् इति उपसंपादयेत् पाचत्तिकं। यावत् प्रज्ञप्तिः। तेन भगवान् आह।

पूर-विंशति-वर्षा पि च भवति कुमारी-भूता। तञ् चादेशित-शिक्षाम् उपस्थापयेत् पाचत्तिकं॥७॥

पाचत्तिक-धर्म ९८

अपरिपूर-शिक्षा

२१२. भगवान् श्रावस्तीयम् विहरति। भिक्षुणीयो दानि [देशित] शिक्षाम् उपस्थापयन्ति। भिक्षुणीयो दानि ओज्झायन्ति। अस्त्य् एषा देशित-शिक्षा न ओज्झायते(ज्ञायते) परिपूर-शिक्षा वा न वेति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। तेन हि न क्षमति देशित-शिक्षाम् अपि अ-परि-पूर-शिक्षाम् उपस्था-पयितुं। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। यावत् पर्यवदातानि भविष्यन्ति।

देशित-शिक्षा पि च भवति कुमारीभूता तां चापरिपूर-शिक्षाम् उपस्थापयेत् पाचत्तिकं।

देशित-शिक्षा ति देशित-शिक्षैव देशित-शिक्षा अन्-अङ्गोपेताये। देशित-शिक्षा तञ् च से कर्म कुर्वन्ति। ज्ञप्ति-सम्पन्नं गण-सम्पन्नं अनु-श्रावणा-सम्पन्नं अन्यतरान्यतरेण कर्मोपक्लेशेन अन्-उपक्लिष्टं। एवम् एषा देशित-शिक्षा।

अ-परि-पूर-शिक्षा ति अष्टादशहि वर्त्तेहि द्वे वर्षाणि अशिक्षित-शिक्षा। कतमेहि अष्टादशहि सर्व-भिक्षुणीनां नविकेत्य् आदि पूर्ववत् यथा गु[रु]-धर्मेषु। न च ताये क्षमति एकाकिनीय ग्रामं पिण्डाय प्रविशितुं। अथ खु भिक्षुणीय वा श्रमणेरीय वा सह पिण्डाय प्रविशितव्यं। न क्षमति एकाकिनीय अध्वानं गन्तुं। यदि सा अष्टानाम् अन्यतरान्यरापत्तिम् आपद्यति पुनः शिक्षा देशितव्या। एकान्नविंशतिम् आरभ्य सर्वं दुष्कृतेन कारापयितव्या यानि ऊनकानि द्वे वर्षाणि शिक्षति सापरिपूर-शिक्षा। उपस्थापयेद् इति उपसंपादयेत् पाचत्तिकं। तेन भगवान् आह।

देशित-शिक्षा पि च भवति कुमारी-भूता। तां चापरिपूर-शिक्षाम् उपस्थापयेत् पाचत्तिकं॥८॥

पाचत्तिक-धर्म ९९

अ-संमता

२१३. भगवान् श्रावस्तीयम् विहरति। भगवता दानि शिक्षापदं प्रज्ञप्तं। न क्षमति अ-परि-पूर-शिक्षाम् उपस्थापयितुं। ता दानि भिक्षुणीयो विंशति-वर्षां कुमारी-भूतां देषित-शिक्षां परि-पूर-शिक्षाम् उपस्थापयन्ति। भिक्षुणीयो दानि ओज्झायन्ति। अस्त्य् एषा देशित-शिक्षा। नो तु [जा]नाम परिपूर-शिक्षा वा न वा ति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यावद् भगवान् आह। तेन हि या एषा विंशति-वर्षा कुमारी-भूता आकांक्षति तथागत-प्रवेदिते धर्म-विनये भिक्षुणी-भावं ताय संघो उपथापना-सम्मुतिं याचितव्यो।

शृणोतु मे आर्य संघो। इयम् इत्थन्-नामा विंशति-वर्षा कुमारी-भूता देशित-शिक्षा आकांक्षति तथागत-प्रवेदिते धर्म-विनये उपसंपदं भिक्षुणी-भावं। यदि संघस्य प्राप्त-कालं इयम् इत्थन्-नामा संघं उपस्थापना-सम्मुतिं याचेय्या। याचिष्यति आर्या संघो इयम् इत्थन्-नामा संघं उपस्थापना-सम्मुतिं। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि। ताय दानि याचितव्यं। वन्दाम्य् आर्या संघं। अहम् इत्थन्-नामा विंशति-वर्षा कुमारी-भूता देसित-शिक्षा परिपूर-शिक्षा आकांक्षामि तथागत-प्रवेदिते धर्म-विनये उपसंपदं भिक्षुणी-भावं। साहं संघम् उपस्थापना-सम्मुतिं याचामि। साधु वत मे आर्या संघो उपस्थापना-सम्मुतिं देतु। एवं द्विर् अपि त्रिर् अपि याचितव्यं।

कर्म। शृणोतु मे आर्या संघो। इयम् इत्थन्-नामा विंशति-वर्षा कुमारी-भूता देशित-शिक्षा परिपूर-शिक्षा आकांक्षति तथागत-प्रवेदिते धर्म-विनये उपसंपदं भिक्षुणी-भावं। सा संघम् उपस्थापना-सम्मुतिं याचति। यदि संघस्य प्राप्त-कालं सम्घो इत्थन्-नामायो(ये) उपस्थापना-सम्मुतिं दद्यात्। ओवयिका एषा ज्ञप्तिः।

शृणोतु मे आर्या संघो। इयम् इत्थन्-नामा विंशति-वर्षा कुमारी-भूता देशित-शिक्षा परिपूर-शिक्षा आकांक्षति तथागत-प्रवेदिते धर्म-विनये उपसंपदं भिक्षुणी-भावं। सा संघम् उपस्थापना-सम्मुतिं याचति। तस्या सम्घो इत्थन्-नामाये उपस्थापना-सम्मुतिं देति। त(य)स्या आर्यमिश्रिकाणां क्षमति इत्थन्-नामाये विंशति-वर्षाये उपस्थापना-सम्मुतिं दीयमानां संघेन। सा तूष्णीम् अस्य। यस्या न क्षमति सा भाषतु। एवं द्वितीया तृतीया कर्म-वाचना। दिन्ना आर्यमिश्रिकायो इत्थन्-नामाये विंशतिवर्षाये कुमारी-भूताये देशित-शिक्षाये परिपूर्ण-शिक्षाय उपस्थापनासम्मुतिः संघेन। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति। [१] परिपूर-शिक्षा पि च भवति तां चासंमताम् उपस्थापयेत् पाचत्तिकं।

परिपूरशिक्षा पि च भवतीति अष्टादश-वर्त्तेहि द्वे वर्षाणि देशित-शिक्षा। तां चासंमताम् इति असंमता एवम् असंमता अपरिपूर-शिक्षा पि असंमता तम् च से कर्म करोन्ति प्रज्ञप्ति-विपन्नं गण-विपन्नं अनुश्रावणा-विपन्नं अन्यतरान्यतरेण कर्मोपक्लेशेन उपक्लिष्टं। एवं पि एषा असंमता। उपस्थापयेद् इति उपसम्पादयेत् पाचत्तिकं। यावत् प्रज्ञप्तिः। तेन भगवान् आह।

।[२] पूर-विंशति-वर्षा पि च भवति कुमारी-भूता देशित-शिक्षा च परिपूर-शिक्षा च। तां चासंमताम् उपस्थापयेत् पाचत्तिकं॥९॥

पाचत्तिक-धर्म १००

ऊन-द्वादश-वर्षा गृहि-चरिता

२१४. भगवान् श्रावस्तीयम् विहरति। ता दानि शाकिय-कन्यायो मल्ल-कन्यायो कोलीय-कन्यायो गृहि-[च]वि(रि)तायो प्रव्रजितायो पटु कायो उच्चक्षुकायो क्षिप्र-निशान्तिकायो। महाप्रजापती गौतमी भगवन्तं पृच्छति। लभ्या दानि भगवन् ऊन-विंशति-वर्षां गृहि-चरिताम् उपस्थापयितुं। भगवान् आह। लभ्या। तायो अष्ट-वर्षाम् नव-वर्षां गृहि-चरिताम् उपस्थापयन्ति। ता अ-प्रति-संख्यान-वर्तिन्यो भवन्ति। यथा ऊन-विंशति-वर्षाः। यावद् भगवान् आह। न क्षमति ऊन-द्वादश-वर्षां गृहि-चरिताम् उपस्थापयितुं। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी ऊन-द्वादश-वर्षां गृहि-चरिताम् उपस्थापयेत् पाचत्तिकं।

गृहि-चरिता ति विकोपित-ब्रह्मचर्या। उपस्थापयेद् इति उपसंपादयेत् पाचत्तिकं। यावत् प्रज्ञप्तिः। या एषा गृहि-चरिता आकांक्षति तथागत-प्रवेदिते धर्म-विनये उपसंपदं भिक्षुणी-भावं सा ताय अनुग्राहितव्या। पेयालं। यावत् हस्त-पादा निवासयितव्याः। तेन भगवान् आह।

या पुन भिक्षुणी ऊन-द्वादश-वर्षां गृहि-चरिताम् उपस्थापयेत् पाचत्तिकं॥१०॥

उद्दानं।
सम्मुखम्[९१]। ऊन-द्वादश-वर्षा [९२]।
अन्-अङ्गोपेता [९३]। असम्मता[९४]। दुःशीला [९५]।
ऊन-विंशति-वर्षा कुमारी-भूता [९६]।
अ[दे]शित-शिक्षा [९७]। अपरिपूर-शिक्षा [९८]।
असम्मता [९९]। ऊन-द्वादश-वर्षा गृहि-चरिताय [१००]
पूर्यते दशमो वर्गः॥

पाचत्तिक-धर्म १०१

अ-देशित-शिक्षा

२१५. भगवान् श्रावस्तीयम् विहरति। भगवता शिक्षापदं प्रज्ञप्तं। न क्षमति ऊन-द्वादश-वर्षां गृहि-चरिताम् उपस्थापयितुन् ति। तायो दानि भिक्षुणीयो पूर-द्वादश-वर्षां गृहि-चरिताम् उपस्थापयन्ति। भिक्षुणीयो दानि ओज्झायन्ति। को जानाति पूर-द्वादश-वर्षा वा न वेति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पे। यथा कुमारि-भूताय [अष्टा]-दश-वर्षाय द्वे वर्षाणि शिक्षा-देशना-सम्मुतिर् याचितव्या। विस्तरेण। तेन भगवान् आह।

पूर-द्वादश-वर्षा पि च भवति गृहि-चरिता तां चादेशित-शिक्षाम् उपस्थापयेत् पाचत्तिकं॥१॥

पाचत्तिक-धर्म १०२

अपरिपूर-शिक्षा

२१६. भगवान् श्रावस्तीयम् विहरति। सुदिन्ना नाम अभट-गणक-भार्या प्रव्रजिता। ताय कल्याये शिक्षा देशिता। ताय दानि गृहिभूताय कुक्षि प्रतिलब्धो। सो वि(पि) वृद्धो। भिक्षुणीयो दानि ओज्झायन्ति। इयन् ताव देशित-शिक्षा। इयं च कुक्षिवती। स निर्वेठेति। आर्य-मिश्रिकायो यतो हं प्रव्रजिता ना-म्-अभिजानाम्य् अहं एतद् धर्मम् प्रतिषेवितुं। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं यावद् भगवान् आह। यतो दानि एषा प्रव्रजिता। न एषा जानात्य् एतं धर्म प्रतिषेवितुं। गृहिभूताय एताय कुक्षिः प्रतिलब्धो। या दानि एषा ईदृशी भवति न क्षमति उपस्थापयितुं। अथ खलु यदि तावद् दानि(रि)कां जनयति यदा स्तरि(नि)का गृहान् निर्गता भवति ततो उपस्थापयितव्या। अथ दारकं जनयति यदा अयं स्तनी-भूतो भवति ततो उपस्थापयितव्या। अथ दानि ताये सालोहितो भवति ज्ञातिको वा आहंसुः। वयं एतन् दारकम् उपस्थास्याम इति उपसंपादयितव्या। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। तथैव कर्तव्यं यथा कुमारीभूताये। तेन भगवान् आह।

देशित-शिक्षा पि च भवति गृहि-चरिता नां अ-परिपूर-शिक्षाम् उपस्थापयेत् पाचत्तिकं॥२॥

पाचत्तिक-धर्म १०३

अ-सम्मता

२१७. भगवान् श्रावस्तीयम् विहरति। भगवता शिक्षापदं प्रज्ञप्तं। न क्षमति ऊन-द्वादश-वर्षाम् गृहि-चरिताम् उपस्थापयितुन् ति। ता दानि भिक्षुणीयो पूर-द्वादश-वर्षां गृहि-चरितां देशित-शिक्षाम् उपस्थापयन्ति। ता दानि भिक्षुणीयो ओज्झायन्ति। अस्त्य् एषा देशित-शिक्षा न तु जानाम परिपूर-शिक्ष वा न वेति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यथा कुमारी-भूताये यावत् तेन भगवान् आह।

परिपूर-शिक्षा [पि] च [भवति गृहि-चरिता]। तां चासम्मताम् उपस्थापयेत् पाचत्तिकं॥३॥

पाचत्तिक-धर्म १०४

नानुशासेत्

२१८. भगवान् श्रावस्तीयम् विहरति। तायो दानि भिक्षुणीयो उपस्थापिय उपस्थापिय नाव[व]दन्ति नानुशासन्ति। तायो दानि इन्द्रगवा इव वर्धन्ति यावत् कथं संघाटी-पात्र-चीवर-धारणे प्रतिपत्तव्यं। पेयालं। यावद् भगवान् आह। दुष्कृतं वो भिक्षुणीयो एवञ् च नामा यूयं उपस्थापयित्वा [ना]ववदथ नानुशासथ। तेन हि द्वे वर्षाणि ओवदितव्या अनुशासितव्या।

अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी उपस्थायिका उपस्थापितां द्वे वर्षाणि नाववदेय नानुशासयेत् पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। पेयालं। उपस्थायिका ति उपाध्यायिनी। उपस्थापितान् ति सार्धं विहारिणी। द्वे वर्षाणीति द्वे दकवर्षाणि। नाववदेद् इति अभिधर्मे वा अभिविनये वा। अभिधर्मो नाम नव-विधः सूत्रान्तः।

अभिविनयो नाम प्रातिमोक्षः विस्तर-प्रभेदेन। नानुशासेद् इति आचारम् अकुर्वन्तीम् अन्-आचारं कुर्वन्तीं न निर्द्धमेया न दण्डकर्म दद्यात् पाचत्तिकं। अथ दानि सा उपस्थापिता दुर्-वचा भवति शैथिलिका वा बाहुलिका वा अशिक्षा-कामा निर्द्धमितव्या। भिक्षुर् अपि सार्धं विहारि[नं] नावावदति नानुशासति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी उपस्थायिका उपस्थापितां द्वे वर्षाणि नाव-वदेन् नानुशासेत् पाचत्तिकं॥४॥

पाचत्तिक-धर्म १०५

नोपस्थिहेत्

२१९. भगवान् श्रावस्तीयम् विहरति। ता दानि भिक्षुणीयो उपस्थापिताः अन्येन गच्छन्ति। ता दानि उपाध्यायिनीयो ओज्झायन्ति। अस्माकं भगवता दण्ड-कर्म प्रज्ञप्तं। इमा सामोक्तिका। या दानि उपस्थापिता अन्येन गच्छन्ति। कथम् इमाः अस्माभिर् अववदितव्यायो अनुशासितव्यायो। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यावच् छब्दापिता। तद् एव सर्वं पृच्छीयन्ति। आम भगवन्। भगवान् आह। दुष्कृतं या(वो) भिक्षुणीयो एवं नाम यूयम् उपस्थापिताः अन्येन गच्छथ। तेन हि उपस्थापिताय उपस्थायिका द्वे वर्षाणि अनुबन्धितव्या। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी उपस्थापिता उपस्थायिकां द्वे वर्षाणि नोपस्थिहेन् नानुबन्धेत् पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। उपस्थापितेति सार्ध-विहारिणी। उपस्थायिकाम् इति उपाध्यायिनी। द्वे वर्षाणीति द्वे वर्षाणी। नोपस्थिहेद् इति काय-परिचर्यां कुर्यात्। नानुबन्धेद् इति येन गच्छति तेन न गच्छति पाचत्तिकं। यावत् प्रज्ञप्तिः। अथ दानि सा उपस्थायिका अशिक्षा-कामा भवति शैथिलिका वा बाहुलिका वा। भिक्षुणी पश्यति। सा मे ब्रह्मचर्यान्तरायो भवेय दृष्ट्वानुकृतिम् आपद्यन्तीयेति अन्येन गच्छति अन्-आपत्तिः। भिक्षुणी उपस्थायिकां नोपस्थिहति नानुबन्धति पाचत्तिकं। भिक्षुर् अपि उपाध्यायं द्वे वर्षान् नोपस्थिहति नानुबन्धति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी उपस्थापिता उपस्थायिकां द्वे वर्षाणी नोपस्थिहेन् नानुबन्धेत् पाचत्तिकं॥५॥

पाचत्तिक-धर्म १०६

अनुवर्षम्

२२०. भगवान् श्रावस्तीयम् विहरति। ता दानि भिक्षुणीयो अनुवर्षम् उपस्थापयन्ति। तासां दानि कौकृत्यं। किन् नु खल्व् एतं लभ्यं कर्तुं। उताहो न लभ्यं। पेयालं। यावद् भगवान् आह। तेन हि न क्षमति अनु-वर्षम् उपस्थापयितुं। अथ खलु वीचिः कर्तव्या।

या पुन भिक्षुणी अनु-वर्षम् उपस्थापयेत् पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। अनु-वर्षन् ति अनु-सम्वत्सरं। उपस्थापयेद् इति उपस्थापयेत् पाचत्तिकं। यावत् प्रज्ञप्तिः। सा एषा भिक्षुणी अनु-वर्षम् उपस्थापयेति पाचत्तिकं। एकं वर्षम् उपस्थापयितव्यं। अपर-वर्षे वीचिः कर्तव्या। अथ दानि भिक्षुणी कृतपुण्या भवति एकं वर्षं शिक्षा देशयितव्या। अपरं वर्षम् उपस्थापयितव्या। किञ्चापि भिक्षुः अनु-वर्षम् उपस्थापयेद् अन्-आपत्तिः। तेन भगवान् आह।

या पुन भिक्षुणी अनु-वर्षम् उपस्थापयेत् पाचत्तिकम्॥६॥

पाचत्तिक-धर्म १०७

एकतो विशुद्धां

२२१. भगवान् राजगृहे विहरति। तहिं दानि जेता नाम भिक्षुणी। सा अन्तेवासिनीं भिक्षुणीहि उपसंपादीयान स्थूलनन्दां भिक्षुणीम् आह। आर्ये मम अन्तेवासिनी उपसम्पाद्या साधु आर्ये आर्यमिश्रिकानां गणं पर्येषेहि। ताय गत्वा षद्-वर्गिका भिक्षू आनीता। सा दान् आह। नाहम् एतेहि उपसंपादयेयं। ताय दानि अपरं दिवसं भद्रकाणां भिक्षुणां गणं समुदानयित्वा उपसंपादयित्वा। एतं प्रकरणं भिक्षुणीयो मजाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। दुष्कृतं ते जेते एवन् नाम त्वं एकतो विशुद्धां परिवासिकिनीम् उपस्थापयसि। एवन् नाम त्वं गणम् अवजानासि। तेन हि न क्षमति गणम् अवजानितुं। पेयालं। यावद् भगवान् आह।

या पुन भिक्षुणी एकतो विशुद्धां परिवासिकिनीम् उपस्थापयेत् पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। एकतो विशुद्धाम् इति भिक्षुणीगणेनोपसम्पन्नां। पारिवासिकिनीम् इति परिवसित-रात्रिं। उपस्थापयेद् इति उपसम्पादयेन् न भिक्षु-गणेन पाराजिकं। यावत् प्रज्ञप्तिः। न क्षमति एकतो पारिवासिकिनीम् उपस्थापयितुं। नापि क्षमति अ-परिशुद्धेन उपसंपादयितुं। अथ खलु प्रतिकृत्य् एव ताव भद्रकाणां भिक्षूणां गणो समुदानयितव्यो। अथ दानि अन्ये भद्रकाः अन्ये अ-भद्रकाः तथा कर्तव्यं यथा भद्रोत्तराणि कर्माणि भवन्ति। भिक्षुणा पि भद्रोत्तराणि कर्माणि कर्तव्यानि। अथ दानि गणम् अवजानाति विनयातिक्रमम् आसादयति। अथ दानि सेनाभयं वा भवति पर-चक्र-भयं वा नगरोपरोधो वा किञ्चापि पारिवासिकिनीम् उपस्थापयेत्य् अन्-आपत्तिः। तेन भगवान् आह।

या पुन भिक्षुणी एकतो विशुद्धां पारिवासिकीनीम् उपस्थापयेत् पाचत्तिकं॥७॥

पाचत्तिक-धर्म १०८

षट्पञ्च योजना

२२२. भगवान् वैशालीयम् विहरति। या सा कालीय त्रिय्-अन्तरा लेच्छवि-धीता उपस्थापिता। सा दानि आगारिकेहि च सार्धं संसृष्टा विहरति। सा भिक्षुणीहि वुच्चति। आर्ये कालि या दानि [उपस्थापिता] त्वं जानासि आगारिकेहि च परिव्राजकेहि च संषृष्टां। किम् अर्थं न व्यपकर्षसि न व्यपकर्षापयसि। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। दुष्कृतं ते कालि यावत् पर्यवदातानि भविष्यन्ति

या पुन भिक्षुणी उपस्थायिका उपस्थापितां तथा-रूपासु अ(आ)पदासु न व्यपकर्षेन् न व्यपकर्षापयेद् अन्तशः षट्-पञ्च योजना ति पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। उपस्थायिका ति उपाध्यायिनी। उपस्थापिता ति सार्धे-विहारिणी। तथा-रूपासु आपदासू ति स्वयम् वा प्रत्योधावितु-कामो(मा) ज्ञातिका वा प्रत्योधावयितु-कामा अन्येहि वा संसृष्टा भवति। न व्युपकर्षतीति स्वयं न व्युपकर्षापयतीति परेहि। अन्तमसतो षट्-पञ्च योजना ति न दानि षट्-पञ्च च परमं। षड् एव पाचत्तिकं। यावत् प्रज्ञप्तिः। एषा दानि भिक्षुणीये सार्धम् विहारिणी वा अन्तेवासिनी वा संसृष्टा भवति व्यपकर्षितव्या वा व्यपकर्षापयितव्या वा चारिकाय वर्णो भाषितव्यः। अथ दानि जरा-दुर्बलावा व्याधि-दुर्बला वा भोति अन्याहि भिक्षुणीहि व्यक्पकर्षयितव्या। वक्तव्या। चेतीय -वन्दना भविष्यति। भिक्षु-दर्शनम् भविष्यति। यदा वयं तरुणीयो आसि एवम् अस्माभिर् अटितं।

भिक्षुर् अपि सार्धं विहारिं उत्कण्ठितन् न व्यपकर्षयति न व्यपकर्षापयति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी उपस्थायिका उपस्थापितां तथा-रूपास्व् आपदासु न व्यपकर्षयेत् न व्यपकर्षापयेत् अन्तमसतो षट्-पञ्च योजना ति पाचत्तिकं॥८१॥

पाचत्तिक-धर्म १०९

किं पुनः

२२३. भगवान् श्रावस्तीयम् विहरति। स्थूलनन्दा नाम भिक्षुणी अन्-अङ्गोपेता उपस्थापयति। सा नाववदति नानुशासति। ता इन्द्र-गवा विय वर्धन्ति शिव-च्छगला विय वर्धन्ति। पेयालं। यावत् कथं संघाटी-पात्र-चीवर-धारणे प्रतिपद्यितव्यं। सा दानि भिक्षुणीहि वुच्चति किम् पुनर् आर्याये अन्-अङ्गोपेताये उपस्थापितेन यं आर्या-म्-एवं वक्तव्या अनुशासितव्या। सा दान् आह। किं भद्रायिणीयो इर्ष्या-पथा मम पर्षाम् उपस्थापयन्तीयो। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। दुष्कृतं ते नन्दे एवन् नाम त्वं क्षिया-धर्मम् आपद्येसि। तेन हि न क्षमति क्षिया-धर्मम् आपद्यितुं। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि। यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी [भिक्षुणी]हि एवम् उच्यमाना। हिम् पुनर् आर्याये [अन्-अङ्गोपेताये] उपस्थापितेन। यं आर्या एवम् वक्तव्या अनुशासितव्येत्य् उक्ता समाना क्षिया-धर्मम् आपद्येय पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। भिक्षुणीहीति संघेन महाजनेन एक-पुद्गलेन। किम् पुनर् आर्याये अन्-अङ्गोपेताये ति दशहि अङ्गेहि समन्वागता अङ्गोपेता। प्रातिमोक्ष-सम्वर-सम्वृता भवति [१]। बहु-श्रुता भवत्य् अभिधर्मे [२]। बहु-श्रुता भवत्य् अभिविनये [३]। यावत्। द्वादश वर्षा च भवति [१०]। यस्या इमानि दशाङ्गानि न सम्विद्यन्ते सा भवति अन्-अङ्गोपेता। क्षियाधर्मम् आपद्येय ति विवाचयेत् पाचत्तिकं यावत् प्रज्ञप्तिः। सा एषा भिक्षुणी भिक्षुणीहि युच्यमाना किम् पुनर् आर्याये अन्-अङ्गोपेताये उ[प] स्थापितेनेति क्षिया-धर्मम् आपद्येय पाचत्तिकं। भिक्षुर् अपि भिक्षूहि वुच्यमानो किम् पुनर् आयुष्मतो अन्-अङ्गोपेतस्य उपस्थापितेनेति क्षिया-धर्मम् आपद्येय विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी भिक्षुणीहि एवं वुच्यमाना किम् पुनर् आर्याये अन्-अङ्गोपेताये उपस्थापितेनेति उक्ता क्षिया-धर्मम् आपद्येय पाचत्तिकं॥९॥

पाचत्तिक-धर्म ११०

न विसर्जयेत्

२२४. भगवान् वैशालीयम् विहरति। अपरा दानि शिक्षमाणा स्थूलनन्दाम् आह। साधु मे आर्ये नन्दे उपसंपादय मां। सा दान् आह। बाढं अहं ते उपसंपादयिष्यन् ति। सा विलक्षेति। नैवोपसंपादेति न विसर्जयति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यावत् शब्दापयथ नन्दां। सा दानि शब्दापिता। तद् एव सर्वं पृच्छीयति। यावद् आम भगवन्। भगवान् आह। दुष्कृतं ते नन्दे।

या पुन भिक्षुणी शिक्षमाणाम् एवं वादेत्। यदा पूर-शिक्षा भविष्यसि ततो हम् उपस्थापयिष्यन् ति वदित्वा नैवोपसंपादयेन् न विसर्जयेत् पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। पेयालं। शिक्षमाणेति अष्टादशेहि वर्त्तेहि द्वे वर्षाणि देश्तित-शिक्षा। एवम् वदेया ति यथा स्थूलनन्दा भिक्षुणी। अहन् ते उपस्थापयिष्यन् ति उपस्थापयितव्या। अथ दानि न प्रतिबला भवति अन्या अध्येषितव्या। अथ दानि नैवात्मना उपस्थापयति नाप्य् अन्यां अध्येषयति न विसर्जयति। गच्छ यत्रेच्छसि तहिं उपसम्पद्याहीति। सा एषा भिक्षुणी शिक्षमाणाम् उक्त्वा अहन् ते उपस्थापयिष्यन् ति पश्चान् नोपसम्पादयेन् न विसर्जयेत् पाचत्तिकं॥१०॥

पाचत्तिक-धर्म १११

यानम्

२२५. भगवान् वैशालीयम् विहरति। अथ भद्रा कापिलेयी चतुर्-युक्तं यानम् अभिरुहित्वा ज्ञाति-कुलं गच्छति। जनो दानि ओज्झायति। पश्यथ भणे श्रमणिका मह-च्छन्दा। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी यानम् अभिरुह्येत् पाचत्तिकं। एषैवार्थोत्पत्तिः। भगवान् श्रावस्तीयम् विहरति। ता दानि शाकीय-कन्याः कोलीयकन्याः लेच्छवि-कन्याश् च प्रकृति-सुकुमाराः प्रव्रजिताः। पादेहि गच्छन्तीयो किलम्यन्ति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। तेन हि अनुजानामि गिलानाये। अथ खलु भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति यावत्।

या पुन भिक्षुणी अ-गिलाना यानम् अभिरुहेत् पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। अ-गिलाना ति प्रत्युद्धृतं भगवता पदं अन्-आपत्तिः गिलानाये। ग्लान्यं नाम जरा-दुर्बला वा व्याधि-दुर्बला वा प्रकृति-सुकुमारा वा न शक्नोति पद आगच्छन्तु इदम् अत्र गैलान्यम् अभिप्रेतं। यानन् नाम हस्ति-यानं अश्वयानम् उष्ट्र-यानं गो-यानं गर्दभ-यानं नावा-यानं शिविका-यानं यान-यानम् एव अष्टमं। अभिरुह्येत् पाचत्तिकं। न क्षमति भिक्षुण्या यानम् अभिरुहितुं। यत्र उष्ट्रा वा गोणा वा युक्ता भवन्ति। अथ खलु स्त्री-यानम् अभिरुहितव्यं। यहिं उष्ट्रीयो वा गोणीयो वा युक्ता भवन्ति तहिं आरुहितव्यं। अथ दानि अ-संज्ञिका भवति न स्त्रीं न पुरुषं जानाति अन्-आपत्तिः। अथ [दानि] नावाय अपरात् परम् उत्तरत्य् अन्-आपत्तिः। ऊर्ध्वङ्-गामिनीयम् वा अधो-गामिनीयम् वा प्रत्ययो अधिष्ठिहितव्यो मा मरिष्यामीति। भिक्षुर् अपि अ-गिलानो यानम्-अभिरुहति विनयातिक्रमम् आसादयति। प्रत्ययम् अधिष्ठिहति अनापत्तिः। तेन भगवान् आह।

या पुन भिक्षुणी अ-गिलाना यानम् अभिरुहेत् पाचत्तिकं॥ह्रा॥

पाचत्तिक-धर्म ११२

छत्र

२२६. भगवान् वैशालीयम् विहरति। भद्रा कापिलेयी छत्रेण गृहीतेन उपानहाभ्याम् आबद्धाभ्यां ज्ञाति-कुलं गच्छति। जनो दानि ओज्झायति। पश्यथ भणे श्रमणिका अद्यापीयं प्रव्रजिता पि मह-च्छन्दा। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। तेन हि न क्षमति छत्रोपानहं।

एषैवार्थोत्पत्तिः। भगवान् श्रावस्तीयम् विहरति। ता दानि शाकीय-कन्याः लेच्छवि-कुमाराः प्रव्रजिता गच्छन्तीयो आतपेन दह्यन्ते। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं यावद् भगवान् आह। तेन हि अनुजानामि गिलानाये। यावात्।

या पुन भिक्षुणी अ-गिलाना छत्रोपानहं धारयेत् पाचत्तिकं।

या पुन भिक्षुणी ति उपसम्पन्ना। अ-गिलाना ति प्रत्युद्धृतं भगवता पदं अन्-आपत्तिर् गिलानाये। किन् तावद् अत्र गैलान्यम् अभिप्रेतं। जरा-दुर्बला वा व्याधि-दुर्बला व प्रकृति-सुकुमारा वा। शक्नोति गन्तुं आतपेन दह्यते। छत्रोपानह इति छत्रन् नाम भूर्ज-छत्रं ताल-छत्रं वेणु-छत्रं पर्ण-छत्रं चैल-छत्रम्। उपानहा नाम एक-पलासिका संपुटा वा। धारयेद् इति परिभुञ्जेत् पाचत्तिकं। यावत् प्रज्ञप्तिः। सा एषा भिक्षुणी अ-गिलाना छत्रन् धारेति न उपानहां विनयातिक्रमम् आसादयति। उपानहान् धारेय न छत्रं विनयातिक्रमम् आसादयति। उभयन् धारेति पाचत्तिकं। नोभयं अन्-आपत्तिः। भिक्षुर् अपि पिचु-मस्तकादि छत्रं धारेति संपुटाम् वा अनिर्मोकां विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी अ-गिलाना छत्रोपानहं धारयेत् पाचत्तिकं।

पाचत्तिक-धर्म ११३

मञ्च

२२७. भगवान् वैशालीयम् विहरति। भद्रा दानि कापिलेयी ज्ञाति-कुलं गच्छति। तेषां शय्या आस्तृत-प्रत्यास्तृता द्वि-कडेवर त्रि-कडेवरेहि निश्रेणीय आरुह्यति। चरक-परिव्राजका भिक्षुणीयो च भिक्षार्थं प्रविशन्ति। ते तां दृष्ट्वा ओज्झायन्ति। पश्यथ भणे श्रमणिका अद्यापीयं मह-च्छन्दा। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावच् छब्दापयथ भद्रां। सा दानि शब्दापिता। तद् एव सर्वं भगवान् विस्तरेण पृच्छति। यावद् आम भगवन्। भगवान् आह। एवं नाम त्वं अतिरेक-प्रामाणिके मञ्चे वा पीठे वा अभिनिषीदति(सि) अभिनिपद्यसि। तेन हि न क्षमति अतिरेक-प्रामाणिके मञ्चे वा पीठे वा अभिनिषीदितुं वा अभिनिपद्यितुम् वा। अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी अतिरेक-प्रामाणिके मञ्चे वा पीठे वा अभिनिषीदेय वा अभिनिपद्येय वा पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। अतिरेक-प्रामाणिके इति सुगताष्टाङ्गुल-प्रमाणतो उत्तरि। मञ्चे वा पीठे वा ति चतुर्दश मञ्चाः चतुर्दश पीठाः। अभिनिषीदेय वा ति आसेय। अभिनिपद्येय वा ति शय्यां कल्पयेत् पाचतिकं। यावत् प्रज्ञप्तिः। सा एषा भिक्षुणी सकृन् निषण्णा दिवसं पि निषीदति एकं पाचत्तिकम् आसादयति। अथ पुनो पुनो निषीदति तावत्यः पाचत्तिकाः। अतिरेक-प्रमाणं भूमौ निखनित्वा उपविशति वा निपद्यति वा अन्-आपत्तिः। भिक्षुर् अपि अतिरेक-प्रामाणिके मञ्चे वा पीठे वा निषीदति वा अभिनिपद्यति वा विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी अतिरेण(क)-प्र(प्रा)माणिके मञ्चे वा पीठे वा अभिनिषीदेय वा अभिनिपद्येय वा पाचत्तिकं॥२॥

पाचत्तिक-धर्म ११४

एकास्तरणा

२२८. भगवान् श्रावस्तीयम् विहरति। ता दानि षड्-वर्गिणीयो भिक्षुणीयो एकास्तरण-प्रावरणां शय्यां कल्पयन्ति। तायो मञ्चां भञ्जन्ति बिशिकां पाटेन्ति चतुर्-अस्रकां पाटेन्ति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावत् ता दानि शब्दापिताः पृच्छीयन्ति। यावद् आम भगवन्। भगवान् आह। दुष्कृतं वो भिक्षुणीयो यावत्।

या पुन भिक्षुणी एकास्तरण-प्रावरणां सह-शय्यां कल्पयेत् पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। एकास्तरणा ति एक-मञ्चास्तरणा। एक-प्रावरणा ति एक-चेला। शेय्या ति पंगुल-मञ्चो पंगुल-पीठो यावत् कट-किलंजादयो। कल्पयेद् इति कुर्यात्। पाचत्तिकम् यावत् प्रज्ञप्तिः। न क्षमति भिक्षुणीये सह-शय्यां कल्पयितुं। अथ खलु मञ्चे एकाकिनीय शयितव्यं। त्रिहि पीठेहि द्विहि जनाहीति पादां प्रासारयन्तीहि तथा प्रसारयितव्याः यथा अन्यमन्यस्य जान(नु)का नाक्रमेयुः। बिस्याम् एकाकिन्या शयितव्या। तिर्यक् प्रज्ञप्ताया तृहि जनेहि शयितव्यं पाटियक-पाटियकेहि प्रत्यास्तरणेहि यथा चतुरस्रके यथा पीठे। अथ दानि तृणादि संस्तरो भवति न क्षमति अति-बहुं आक्रमितुं। अथ खु निर्-मुष्टिकं समं प्रज्ञापयितव्यं पाटियक-पाटियकेहि प्रत्यास्तरणेहि। अथ दानि शीतम् भवति स्वक-स्वकान्य् अन्तरी-करणानि कृत्वा एकं संचेली कर्तव्या। भिक्षुर् अपि सह-शय्यां कल्पयति विनयाति-क्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी सह-शय्यां कल्पयेत् पाचत्तिकं॥३॥

पाचत्तिक-धर्म ११५

प्रक्रमति

२२९. भगवान् श्रावस्तीयम् विहरति। स्थूलनन्दा नाम भिक्षुणी सांघिके विहारे शय्यासनं रुन्धित्वा चारिकां प्रक्रान्ता। भिक्षुणीयो आगन्तुकायो आगतायो। तायो भिक्षुणीयो यथा-वृद्धिकाय उत्थापीयन्ति तस्मिन् विहारे सांघिकं शय्यासनं। ता भिक्षुणीयो दानि ओज्झायन्ति। किम् अस्य दानि सांघिकं शयनासनं नि[रु]न्धिय चारिकां प्रक्रमीयति। न [शय]ना[सन]म् अनिःसरित्वा गन्तव्यं। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावच् छब्दापयथ नन्दां। सा दानि शब्दापिता। एतद् एव पृच्छियति यावद् आम भगवन्। भगवान् आह। दुष्कृतं ते नन्दे एवं च नाम त्वं सांघिकं शयनासनं अनिःसरित्वा चारिकां प्रकरमसि। तेन हि न क्षमति सांघिकं शयनासनम् अनिःसरिव्ता चारिकां प्रक्रमितुं। अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी सांघिकं शयनासनम् अनिःसरित्वा चारिकां प्रक्रामेय पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। सांघिकं शयनासनन् ति मञ्चम् वा पीठम् वा बिसिकाम् वा चतुर्-अस्रकाम् वा कुच्चम् वा बिम्बोहनम् वा। अनि[ःसरि]त्वा ति अनिर्यातयित्वा। चारिकां प्रक्रमेया ति अन्यत्र गच्छेत् पाचत्तिकं यावत् प्रज्ञप्तिः। न क्षमति भिक्षुणीये सांघिकं शयनासनम् अनिःसरित्वा चारिकां प्रक्रमितुं। प्रक्रमन्तीय वक्तव्यं यथा पलिगुद्धं शयनासनं निःसरामीति। अनिःसरित्वा प्रक्रामति पाचत्तिकम् आसादयति। अथ दानि एक-वस्तुको संघारामो भवति अनिःसरित्वा चारिकां प्रक्रमति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी सांघिकं शयनासनम् अनिःसरित्वा चारिकां प्रक्रमेय पाचत्तिकं॥ण्क॥

पाचत्तिक-धर्म ११६

प्रविशति

२३०. भगवान् श्रावस्तीयम् विहरति। सो दानि गर्तोदर-पिता स्व-विहारे स्नापयति। गर्तोदर-माता अ-प्रतिसम्विदिता विहारं गच्छति। प्रविशित्वा पृष्ठिम् अस्य मर्दति। तेनावलोकिता। सो दान् आह। अये हि स्त्री ति। सा दान् आह। अ-पापा गर्तोदर-पिता। कस् तावद् अत्र दोषो ऽयं दानि अहं अन्यदापि अन्यदापि स्नापयामि। सो दान् आह। अन्यदाहम् गृही आसि इदानीं प्रव्रजितो। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावच् छब्दापयथ गर्तोदर-मातां। सा दानि शब्दापिता तद् एव सर्वं। भगवान् विस्तरेण पृच्छति। यावद् आम भगवन्। भगवान् आह। अन्यदापि स्नापयामि। सो दान् आह। दुष्कृतन् ते गर्तोदर-माते यावद् एवन् नाम त्वं जानन्ती पूर्वे अ-प्रतिसम्विदिता अन्-आहूता उपसम्क्रमसि। तेन हि न क्षमति यावद् भगवान् आह।

या पुन भिक्षुणी जानन्ती स-भिक्षुकं संघारामं पूर्वे अ-प्रतिसम्विदिता अन्-आहूता उपसम्क्रमेय पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। स-भिक्षुकन् ति अन्तमसतो यहिं एक-भिक्षुर् अपि भवति। संघाना(रा)मन् ति आरण्यकम् वा ग्राम्ऽ-अन्तिकम् वा। पूर्वे अ-प्रतिसम्विदिता ति अ-निवेदिता। अन्-आहूता ति अ-शब्दापिता। उपसम्क्रमेया ति प्रति(वि)शेय। यथा गर्तोदर-माता भिक्षुणी। पाचत्तिकं पेयालं यावत् प्रज्ञप्तिः।

एता दानि यो भिक्षुणीयो परिवेणं गच्छन्ति द्वार-कोष्ठके स्थित्वा निवेदयितव्यं। वन्दाम्य् आर्य प्रविशामः। तेनापि दानि भिक्षुणा भिक्षवो जानापयितव्या मा दानि बि(भि)क्षू विप्रकटा भवेंसू ति। यदि विप्रकटा भोन्ति मृत्तिका-कर्मेण वा इष्टका-कर्मेण वा। [अ]पलिगुद्धा भवन्ति वक्तव्यं। आगमेथ तावद् भगिनीयो। तेन ते भिक्षू उपसंक्रामित्वा वक्तव्याः। आयुष्मन्तो निवासेथ प्रावरथ भिक्षुणीयो प्रविशन्ति। न च अकुशलेन अप्रकृतिज्ञेन वक्तव्यं। सहसा मा प्रविशथेति। अथ खलु वक्तव्यं। विप्रकटा भिक्षवो मा प्रविशथ। अथ दानि अप्रतिसंविदिता प्रविशन्ति पाचत्तिकं। एकं पादं प्रवेशयति विनयातिक्रमम् आसादयति। द्वितीय-पादं प्रवेशयति पाचत्तिकं। तत एव प्रत्योशक्कति विनयातिक्रमम् आसादयति। भिक्षुर् अपि अप्रतिसंविदितो भिक्षुनी-उपाश्रयं प्रविशति विनयातिक्रमम् आसादयति। अथ खु द्वार-कोष्ठके स्थित्वा अच्छटिका कर्तव्या। तेन भगवान् आह।

या पुन भिक्षुणी जानन्ती सभिक्षुकं संघारामं पूर्वे अप्रतिसंविदिता अन्-आहूता उपसंक्रमेय पाचत्तिकं॥तृ॥

पाचत्तिक-धर्म ११७

स-मनुष्य

२३१. भगवान् श्रावस्तीयम् विहरति। भिक्षुणीयो दानि कोशलेहि जनपदेहि चारिकां चरन्तीयो ग्राम-वासके वासम् उपगताः। तेहि दानि अपरा स्त्री विप्रवस्त-पतिका उक्ता। प्रजापति देहि अस्माकं प्रतिश्रयं। सा दान् आह। आर्ये कुटुम्बिको मम विप्रवुस्तो। मा सहसा आगमिष्यति। ता दान् आहंसुः। कः पुनर् एवं ज्ञास्यति आगमिष्यति वा न वेति। ताय दिन्नो प्रतिस्र(श्र)यो तासान् दानि भिक्षुणीनां प्रतिक्रान्तानां। सो पुरुषो विकाले आगतो। सो दानि खादित्वा पिबित्वा क्लेशे पीडितो भार्याय सार्धं म्श्री-भूतो। ता दानि भिक्षुणीयो तेन शब्देन प्रतिबुद्धाः। या दानि अ-विगत-रागाः तासाम् अस्पर्श-संज्ञा उत्पन्ना।

एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पे। यावद् भगवान् आह। शब्दापयथ तायो दानि भिक्षुणीयो। तायो शब्दापितायो तद् एव सर्वं। भगवान् विस्तरेण पृच्छति। यावद् आम भगवन्। भगवान् आह। एतम्(वं) च नाम यूयं जानन्तीयो संभोजनीये कुले अनु-पखज्जासनं शय्यां कल्पयथ। तेन हि न क्षमति।

एषैवार्थोत्पत्तिः। भगवान् श्रावस्तीयम् विहरति। भिक्षुणीयो दानि कोशलेहि जनपदेहि चारिकां चरन्तीयो अन्यतरस्मिं ग्रामवासके वासम् उपगताः। तायो दानि सर्व-ग्रामम् अण्विताः न कहिंचिद् अ-पुरुषं गृहं लभन्ति। ता दानि रथ्यायां प्रतिक्रान्ताः रात्रौ वात-वृष्टिर् उत्थिताः। विहेठिता दुःखिताः संवृत्ताः। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। तेन हि अनुजानामि वात-समये वृष्टि-समये।

एषैवार्थोत्पत्तिः। भगवान् श्रावस्तीयम् विहरति। यावत् रथ्यायाम् वा सोपगता भिक्षुणीयो। स्त्रियो आरोचयेंसुः। इमं गृहंसुः इमं गृहं प्रविशथ धूर्तकानाम् इह भयं। भिक्षुणीयो आहंसुः। नहि। भगवता शिक्षापदं प्रज्ञप्तं। न क्षमति स-पुरुषके गृहे शय्यां कारयितुं। तायो तहिं रात्रौ धूर्तकेहि विहेठिताः तत्रान्यतरा ब्रह्मचर्यातो च्याविताः। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। तेन हि अनुजानामि पुरुषाशंकित-समयं यावत्।

या पुन भिक्षुनी जानन्ती संभोजनीये कुले अन्-उपखज्जेशय्यां कल्पयेद् अन्यत्र समये पाचत्तिकं।

तत्रायं समयो वात-समयो वृष्टि-समयो पुरुषाशंकित-समयो अयम् अत्र समयो॥

या पुन भिक्षुणीति उपसम्पन्ना। जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय। संभोजनीयन् ति स्त्रीया पुरुषो भोजनं पुरुषस्यापि स्त्री भोजनं। कुलन् ति ब्राह्म-कुलं यावद् राज-कुलं यानि वा पुनर् अन्यान्य् अपि कांचित् कुलानि। अनु-पखज्ज नाम वास-वस्तु यहिं भार्या-पतिका प्रतिक्रमन्ति। शय्यां कल्पयन् ति पार्श्वन् दद्यात्। अन्यत्र समय इति प्रत्युद्धृतं भगवता पदम् अनापत्तिः। समयो वात-समयो वृष्टि-समयो पुरुषाशंकित-समयो। तत्र वात-समयो नातीतो नान्-आगतो। अथ खु वर्तमानो येव। एवं वृष्टि-समयो। पुरुषाशंकित-समयो नाम मा ब्रह्मचर्यान्तरायो भविष्यतीति। सो एषा(षो) पुरुषाशंकित-समयो नानी(ती)तो नान्-आगतो। अथ खु वर्तमानो येव। पाचत्तिकं यावत् प्रज्ञप्तिः। न क्षमति भिक्षुणीये जानन्तीये संभोजनीये कुले अन्-उपखज्जे शय्यां कल्पयितुं।

अथ दानि ज्ञायते अयं मनुष्यः श्राद्धो आलप्तका(को) वा किञ्चापि अनुपखज्जो शय्यां कल्पयन्ति अनापखज्जो शय्यां कल्पयति अन्-आपत्तिः। तेन भगवान् आह।

या पुन भिक्षुणी जानन्ती संभोजनीये कुले अन्-उपखज्जे शय्यां कल्पयेद् अन्यत्र समये पाचत्तिकं। तत्रायं समयो वात-समयो वृष्ति-समयो पुरुषाशंकित-समयो। अयम् अत्र समयो॥ह्रा॥

पाचत्तिक-धर्म ११८

अध्वानं

२३२. भगवान् श्रावस्तीयम् विहरति। भिक्षू दानि [वै]शालीयं वर्षोषिताः श्रावस्तीं प्रस्थिताः भगवतो पादा-वन्दाः। भिक्षुणीहि श्रुतं भिक्षू किल भगवतो पाद-वन्दा गमिष्यन्तीति। तायो परिवेणं गत्वा आहंसुः। वन्दाम्य् आर्य श्रुणोमः आर्यमिश्राः श्रावस्तीयं गमिष्यन्ति भगवतः पाद-वन्दा। आहंसुः। आम किङ् कर्तव्यं। आहंसुः। वयम् अपि गमिष्यामः। आहंसुः। भगवता शिक्षा-पदं प्रज्ञप्तं न क्षमति भिक्षुणीये सह अध्वान-मार्गं प्रतिपद्यितुम्। तायो दानि आहंसुः। कदा पुनर् आर्यमिश्रा गमिष्यन्ति। आहंसुः। अमुकं दिवसं। तायो एक-द्विकाय दिवसानि गणयन्ति तद्-अहो गमिष्यन्तीति। तायो दानि प्रकृत्येव कृत-भक्तकृत्याः निवासयित्वा प्रावरित्वा पात्र-चीवरम् आदाय मार्गे स्थिताः। ते च भिक्षवो तां वेलां प्रस्थिताः। ते तां दृष्ट्वा आहंसुः। आयुष्मन्तो इमायो तायो भगिनीयो शीघ्र-शीघ्रं गच्छन्ति। ता अपि भिक्षुणीयो शीघ्र-शीघ्रं गच्छन्ति। ते दानि भिक्षू प्रधाविताः। ता अपि भिक्षुणीयो प्रधावितायो। तहिं दानि या भिक्षुणीयो तरुणीयो बलवन्तीयो ताहि ते भिक्षू अनुजविताः। या तंहि जरा-दुर्बलायो व्याधि-दुर्बलायो प्रकृति-सुकुमारायो तायो चे एहि मुषिताः परिपिट्टिताश् च। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। एवं च नाम तवे तिरो-राज्यन् तिरो-जनपदं अ-सार्थिका प्रक्रमथ। तेन हि न क्षमति तिरो-राज्यां तिरो-जनपदम् अ-सार्थिका चारिकां प्रक्रमितुं। यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी तिरो-राज्यं तिरो-जनपदं अ-सार्थिका चारिकां प्रक्रमेय पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। तिरो-राज्यन् ति पर-राज्यं। तिरो-जनपदन् ति पर-जनपदं। अ-सार्थिका ति सालो नाम गृहि सार्थो वा प्रव्रजित-सार्थो वा शकट-सार्थो वा पर्येषितव्यो। चारिका ति अन्यत्र प्रक्रमति। पाचत्तिकं यावत् प्रज्ञप्तिः। सा एषा भिक्षुणी अ-सार्थिका चारिकां प्रक्रमति। यदा मार्गो नि-स्तीर्णो भवति पाचत्तिकं। अथ दानि सार्थे[ण] सार्धं गच्छन्ति। समं प्रस्थिताः विषमं प्रविशन्ति विनयातिक्रमम् आसादयन्ति। विषमं प्रस्थिताः समं प्रविशन्ति विनयातिक्रमम् आसादयन्ति। समं प्रस्थिताः समं प्रविशन्ति अन्-आपत्तिः। विषमं प्रस्थिताः विषमं प्रविशन्ति पाचत्तिकम् आसादयन्ति।

भिक्षुर् अपि अ-सार्थिको स-भयं स-प्रति-भयं साशङ्कसम्मतं मार्ग प्रतिपद्यति विनयातिक्रमम् आसादयति। तेन भगावन् आह।

या पुन भिक्षुणी तिरो-राज्यन् तिरो-जनपदम् अ-सार्थिका चारिकां प्रक्रमेय पाचत्तिकं॥ ग्रा॥

पाचत्तिक-धर्म ११९

उद्यानं

२३३. भगवान् श्रावस्तीयं विहरति। भिक्षुणीयो दानि स्त्रीभिः सह उद्यान-भूमिं निर्गताः। स्त्रियो खादन्ति च पिबन्ति च। तत्र भिक्षुण्यः स्त्री-वेषेण चंक्रमन्ति आराम-गृहकानि वन-गृहकानि चित्र-गृहकानि नीर्-ईक्षन्तीयो। तायो दानि गूढे प्रदेशे पुरुषेहि विहेठिताः। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह।

अन्तो-राज्यं कं पि च भवति अन्तो-राष्ट्रं। तत्र च भिक्षुणी आराम-गृहकानि वा वन-गृहकानि [वा चित्र-गृहकानि वा ] दर्शनाय गच्छेत् पाचत्तिकं।

अन्तो-राज्यं कंपि भवतीति स्व-राज्यं। अन्तो-राष्ट्रकम् अपीति स्व-राष्ट्रं। तत्र च भिक्षुणी आराम-गृहकानीति एते दानि भवन्ति। चंपकारामा वा पनसारामा वा अतिमुक्तकारामा वा। वन-गृहकानीति एते भवन्ति। न्यग्रोध-वना वा द्राक्षा-वना वा कदली-वना वा दाडिम-वना वा मातुलुङ्ग-वना वा। चित्र-गृहकानीति एते भवन्ति सभा वा कूटागारा वा। दर्शनाय गच्छेद् इति प्रेक्षणाय। पाचत्तिकं। यावत् प्राज्ञप्तिः। न क्षमति आराम-गृहं वा वन-गृहं वा चित्र-गृहं वा दर्शनाय गन्तुं। गच्छति विनयातिक्रमम् आसादयति। यदागता भवति तदा पाचत्तिकम् आसादयति। अथ दानि तत्रैव स्त्रीभिः सह चंचूर्यते अन्-आपत्तिः। भिक्षुर् अपि आराम-गृहं वा वन-गृहं वा चित्र-गृहं वा दर्शनाय गच्छति यत्र कामोपभोगिनः क्रीडन्ति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

अन्तो-राज्यं [कं]पि च भवति अन्तो-राष्ट्रं पि। तत्र च भिक्षुणी आराम-गृहकानि वा वन-गृहकानि वा चित्र-गृहकानि वा दर्शनाय [गच्छेत्] पाचत्तिकं॥८॥

पाचत्तिक-धर्म १२०

रहो

२३४. भगवान् वैशालीयम् विहरति। सुजाता नाम भिक्षुणी आयुष्मतो उदायिष्य पुराण-द्वितीया। ताय दानि तस्य दूतो(ते)न प्रेषितो। एहि त्वं मम ओहेय्यक-वारो भविष्यति। सहितका आसिष्यामः। यदा तायो भिक्षुणीयो गोचरं प्रविष्टाः तदायुष्मान् उदायी कालस्यैव निवासयित्वा प्रावरित्वा पात्र-चीवरम् आदाय तहिं प्रविष्टो। ते दानि विहारस्य पश्चात् वस्तुके अम्बरीयकेण निषण्णा रक्त-चित्ता कर्मण्येनाङ्गजातेन अन्यमन्यस्य अङ्गजातानि निध्यायत्ता आसन्ति। अपरा दानि भिक्षुणी महल्लिका उच्चारकर्माय वा प्रस्राव-कर्माय वा पश्चाद् वस्तुकं गता। ताय दृष्टो। सा दानि व्रीडिता प्रत्योसक्किता। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पेयालं। यावद् आम भगवन्। भगवान् आह। दुष्कृतन् ते सुजातिके यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी भिक्षुणा सार्धं एका एकेन रहो निषद्यां कल्पयेत् पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। एका एकेनेति सा च भवति अन्यो च तत्र भोति। सुप्तो मत्तो उन्-मत्तोत्क्षिप्त-चित्तो वेदना-भिन्नो उत्तान-शय्याको अ-मानुषो तिर्यग्योनिगतो। एवम् अप्य् एषा एका एकेन। रहो ति मिथो। निषद्यां कल्पयति। सहितका आसेयुः। पाचत्तिकं। पेयालं। यावत् प्रज्ञप्तिः। सा एषा भिक्षुणी भिक्षुणा सार्धं सकृन् निसण्णा दिवसम् पि निषीदति एकं पाचत्तिकम् आसादयति। अथ दानि पुनो पुनो उच्छति च निषीदति च तत्तिका पाचत्तिकम् आसादयति। अथ दानि द्वे जना भवन्ति एको विहारं प्रविशति कस्यचिद् अर्थाय भिक्षुणीय शीघ्रम् उत्थिहितव्यं। नापि दानि सहस्राम् आजानेय मां एषा विहेठयितु-कामा ति। अथ खु प्रतिसंवेदितव्यं। उत्थास्याम्य् अहं। आह। कस्यार्थाय। वक्तव्यं। एकाये एकेन स्थातुं। सो एषो ऊन-सप्त-वर्षो चेल्लको भवति। सो आसादनाय न मोचनाय केत्तावता अन्तरेणापत्तिर् भवति। येनान्तरेणानभिसंस्कृता भिक्षा दीयते। अथ दानि आकीर्ण-जन-मनुष्यो भिक्षुणी उपाश्रयो भवति निष्क्रमन्ति च प्रविशन्ति च स्थपति-वर्धकि-चित्र-कराः किञ्चापि तेहि कल्पिय-कारेहि आसति अन्-आपत्तिः। अथ दानि रथ्यामुखं द्वारं भवति अ-वीचिः स्त्रियो च पुरुषा च गच्छन्ति अ-किञ्चापि तेहि कल्पिय-कारेहि आसति अन्-आपत्तिः। अथ दानि अन्तरावीचिः छिन्ना भवति पाचत्तिकं। कल्पिय-कारो प्रवलायति अच्छटिकाय बोधयितव्यो। अथ दानि द्वे भूमके कल्पिय-कारो तिष्ठति त्रयाणाम् अन्यतमान्यतरं पश्यत्य् अन्-आपत्तिः। तत्र वायो वा वेमान्तरेण त्रयाणाम् अन्यतमान्यतरं पश्यत्य् अन्-आपत्तिः। अस्ति दर्शनोपविचारो न श्रमणोपविचारो। अस्ति श्रमणोपविचारो न दर्शनोपिविचारो। अस्ति दर्शनोपविचारो च श्रमणोपविचारो च। अस्ति नैव दर्शनोपविचारो न श्रमणोप-विचारः। किन् ति दानि अस्ति दर्शनोपविचारो न श्रमणोपविचारः। प्राकृतेन चक्षुषा पश्यति भिक्षुर् एषो आसति भिक्षुणी वेति नो तु प्राकृतेन श्रोत्रेण तयोर् आयं शृणोति। एवं चतुष्को योजयितव्यः। यावद् एषा आपत्तिः। ग्रामे वारण्ये वा रात्रौ वा दिवा वा छन्ने वा अभ्यवकशे वा एकस्य न महाजने सन्तिके न दूरे। तेन भगवान् आह।

या पुन भिक्षुणी भिक्षुणा सार्धं एका एकेन रहो निषद्यां कल्पयेत् पाचत्तिकं॥०॥

पाचत्तिक-धर्म १२१

पुरुष

२३५. भगवान् श्रावस्तीयम् विहरति। भद्रा दानि कापिलेयी ज्ञाति-कुलं गता भ्रातृकेहि भ्रातृ-पुत्रकेहि मातुलेहि मातुल-पुत्रकेहि सार्धं एका एकेन सह तिष्ठति। भिक्षुणीयो दानि पिण्डपातं अण्वन्तीयो दृष्ट्वा ओज्झायन्ति। किन् तावद् इमाये प्रव्रजिताये पुरुषेण सार्धं एकाय एकेन रहो निषीदितुं। एतं प्रकरणं भिक्षुणीयो महा-प्रजापतीये गौतमीये आहंसुः। यावद् भगवान् आह। शब्दापयथ भद्रां। सा दानि शब्दापिता। तद् एव सर्वं पृच्छीयति। यावद् आम भगवन्। भगवान् आह। तेन हि न क्षमति। एकाये एकेन पुरुषेण सार्धं रहो निषीदितुं यावद् भगवान् अह।

या पुन भिक्षुणी पुरुषेण सार्धं एका एकेन रहो निषद्यां कल्पेय पाचत्तिकं।

या पुन भिक्षुणी उपसम्पन्ना। पुरुषेण सार्धं एका एकेनेति सा च भवति यावद् एवम् अप्य् एषा एका एकेन। रहो ति मिथ्या। निषद्यां कल्पेया ति सहितका आसेयुः। पाचत्तिकं यावत् प्रज्ञप्तिः सा एषा भिक्षुणी पुरुषेण सार्धं सन्निषण्णा दिवसन् निषीदति एकं पाचत्तिकम् आसादयति। एवं विस्तरेण यथैव भिक्षुणा। तेन भगवान् आह।

या पुन भिक्षुणी पुरुषेण सार्धं एका एकेन रहो निषद्यां कल्पेय पाचत्तिकं ॥लृं॥

पाचत्तिक-धर्म १२२

उप-कर्णकेन

२३६. भगवान् श्रावस्तीयम् विहरति। अथ भद्रा दानि कापिलेयी ज्ञाति-कुलं गता। भ्रातृ-दुहितृ-पुत्रेहि मातुल-पुत्रेहि सह अन्तो हस्त-पाशस्य तिष्ठति संलपति उप-कर्णकं जल्पति। भिक्षुणीयो दानि ओज्झायन्ति। किन् तावद् इमाये प्रव्रजिताये उप-कर्णकं जल्पितेन।

अवश्यम् एषा अस्माकम् अर्थाय जल्पति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आहंसुः यावत्।

[या] पुन भिक्षुणी पुरुषेन सार्धं अन्तो हस्त-पाशस्य [सं]-तिष्ठेय वा संलपेय वा उप-कर्णम् वा जल्पेय पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। पुरुषेण सार्धम् इति गृहस्थेन वा प्रव्राजितेन वा। अन्तो हस्त-पाशं ति व्यायामाभ्यन्तरे तिष्ठेय। संलपतीति किञ्चि जल्पेय। उप-कर्णकं जल्पेया ति कर्ण-कल्पिकम् जल्पेय। पाचत्तिकं यावत् प्रज्ञप्तिः। न क्षमति भिक्षुणीय पुरुषेण सार्धं अन्तो हस्त-पाशस्य तिष्ठतुम् वा सम्लपितुम् वा उपकर्णकम् वा जल्पितुम् वा। अथ दानि किं जल्पितव्यं भवति। परं हस्त-पादा स्थिताय जल्पयितव्यं। अथ दानि गुह्यं जल्पितव्यं भवति भित्तिम् वा कुड्यम् वा स्तम्भम् वा वृक्षम् वा यमनिकाम् वा अन्तरी-कृत्वा जल्पयितव्यं। सा एषा भिक्षुणी पुरुषेण सार्धम् अन्तो हस्त-पाशस्य तिष्ठति वा संलपति वा उप-कर्णकम् वा जल्पति पाचत्तिकं। भिक्षुर् अपि स्त्रिया सार्धं अन्तो हस्त-पाशस्य तिष्ठति वा संलपति वा उप-कर्णम् वा जल्पति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी-पुरुषेण सार्धं अन्तो हस्त-पाशस्य सन्तिष्ठेय वा संलपेय वा उप-कर्णं वा जल्पेय पाचत्तिकं॥१॥ उद्दानं।

छत्र [१(११२)], मञ्च [२(११३)], एकास्तरणा [३(११४)]। प्रक्रमति [४(११५)], प्रविशति [५(११६)]। समनुष्य [६(११७)], अध्वानं [७(११८)], उद्यानम् [८(११९)]। रहो [९(१२०)], पुरुष [१०(१२१)], उपकर्णकेन [११(१२२)]॥ द्वादशमो मा (व)र्गः॥

पाचत्तिक-धर्म १२३

उपसंक्रमति

२३७. भगवान् वैशालीयम् विहरति। अथ भद्रा दानि कापिलेयी ज्ञाति-कुलं गत्वा पुत्र-भ्रातृ-भागिनेयानां रहो गतानां अन्धकारे अ-प्रतिसम्विदिता सहसा छत्ति प्रविशति। ते दानि तहिं वेडा भवन्ति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गुतमीये आरोचयेंसुः। पेयालं। यावद् आम भगवन्। भगवान् आह। एवं नाम त्वं जानन्ती स-पुरुषम् आवासं अन्धकारे अ-प्रदीपिका उपसंक्रमसि। तेन हि न क्षमति एतद् एव यावत् पर्यवदातानि भविष्यन्ति

या पुन भिक्षुणी जानन्ती स-पुरुषम् आवासम् अन्धकारे अ-प्रदीपिका उपसंक्रमेय पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय। स-पुरुषो ति यहिं पुरुसो ति यहिं पुरुषो भवेय अन्धकारे अ-प्रदीपिकेति यहिन् न स्यात् तैल-प्रदीपो वा कण्डोल्का वा। उपसंक्रमेय ति प्रविशेत पाचत्तिकं यावत् प्रज्ञप्तिः। न क्षमति भिक्षुणीय स-पुरुषम् आवासम् अन्धकारे अप्रदीपिकाय उपसंक्रमितुं। अथ दानि किञ्चित् कार्यं भवति यदि तहिं उच्च-शब्दो भवति प्रविशत्य् अन्-आपत्तिः। अथ दानि अग्निर् न भवति प्रतिसंवेदयितव्यो। अच्छटिका वा कर्तव्या उक्कासितव्यम् वा। यद्य् आह प्रविशेति प्रविशितव्यं। स एषा भिक्षुणी नैव प्रतिसंवेदयति नाच्छटिकां करोति उपसंक्रमति पाचत्तिकम् आसादयति।

भिक्षुर् अपि स-स्त्रीकम् आवासम् अन्धकारे अप्रतिसंविदितो उपसंक्रमति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी जानन्ती स-पुरुषम् आवासम् अन्धकारे अप्रदीपिका उपसंक्रमेय पाचत्तिकं॥

पाचत्तिक-धर्म १२४
विशोको

२३८. भगवान् राजगृहे विहरति। तायो दानि षड्-वर्गिणो भिक्षुणीयो गिर्य्-अग्र-समाजं गच्छन्ति। ता दानि तहिं गत्वा पृथग् मञ्च गृह्णन्ति नटो नाटयति स-प्रहासं वस्तु-पदा नाटितम् भवति। सर्वो जनो हसति। तायो दानि तूष्णीकास् तिष्ठन्ति योगाचरा इव। यदा प्रशान्तम् भवति नाटकम् अवतारितं भवति। ततो दा (ता)यो अट्ट-हासं मुञ्चन्ति। सर्वो जनो ततो सुखो भोति। जनो दानि ओज्झायति। अतिहास्यं इमासां श्रमणिकानां। ते दानि वि-चक्षु कृता नेलाटिकं न प्रयच्छन्ति। ओज्झायन्ति। इमासाम् श्रमणिकानां बाह-नेलाटिकं न लभामः। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् आम भगवन् भगवान् आह। तेन हि न क्षमति विशोक-दर्शनाय गन्तुं। अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति।

या पुनर् भिक्षुणी विशोक-दर्शनाय गच्छेत् पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। वि-शोकम् इति नट-नर्तनकसल्ल-मल्ल-पाणि-स्वरिकाः कुम्भ-भूमीराः अन्तमसतो यहिं चत्वारो पि जनाः सन्निपतन्ति क्रीड्यार्थं तहिं दर्शनाय गच्छन्ति। पाचत्तिकं यावत् प्रज्ञप्तिः। न दानि क्षमति विशोक-दर्शनाय गन्तुं। अथ दानि भिक्षुणी पिण्डचारम् अण्वति पश्यति देव-यानं निष्क्रमन्तं राज्ञोऽन्तःपुरं निष्क्रान्तं दानि शक्यम् अक्षीणि निमीलयितुं किञ्चापि पश्यति अन्-आपत्तिः। अथ दानि आभोगं करोति इमे पश्यामि इतो पश्यामीति पाचत्तिकं। अथ दानि भगवतो माल्यारोपणं भवति उपासकोपासिका आहंसुः। आर्यमिश्रिकाहि शो[भा] भावयितव्यं। सामग्री दातव्येति लभ्या सामग्री दातुं। अथ दानि तहिं कोचिच् चित्तस्य विकारो भवति न क्षमति स्थातुं। भिक्षुर् अपि विशोक-दर्शनाय गच्छति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी विशोक-दर्शनाय गच्छेत् पाचत्तिकं॥

पाचत्तिक-धर्म १२५

कलहो

२३९. भगवान् श्रावस्तीयम् विहरति। अथ खलु महाप्रजापती गौतमी भिक्षुणीनां कलह-जातानां भण्डन-जातानां विग्रहविवादम् आपन्नानां विहरन्तीनां वृषभी समाना अधिकरणानि न व्युपशमयति न व्युपशमापयति न व्युपशमनायौत्सुक्यं करोति। एतं प्रकरणं भिक्षुणीयो भगवतो आरोचयेम्सुः। यावद् भगवान् सर्वं पृच्छति। यावद् आम भगवन्। भगवान् आह। एवं नाम त्वं भिक्षुणीनां कलह-जातानां भण्डन-जातानां विग्रह-विवादम् आपन्नानां वृषभी समाना [अधिकरणानि] न व्युपसमयसि न व्युपसमापयसि न व्युपसमनायौत्सुक्यं करोसि। तेन हि न क्षमति। अथ खलु यावत् पर्यवदातानि भविष्यन्ति। या पुन [भिक्षुणी] भिक्षुणीनां कलह-जातानां भण्डन-जातानां विग्रह-विवादम् आपन्नानां विहरन्तीनां [वृषभी समना] अधिकरणानि न व्युपशमयेन् न व्युप-समापयेन् न व्युपसमनायौत्सुख्यं कुर्यात् पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। कलह-जातानाम् इति वाचा-कलहं कुर्वन्तीनां वात-युक्तं मम युक्तम् इत्य् आदि। भण्डन-जातानाम् इति अन्यमन्यं मम घटनं कुर्वन्तीनां। विग्रह-विवादम् आपन्नानां विहरन्तीनाम् इति तद्यथा। धर्मो अ-धर्मो विनयो अ-विनयो। आपत्तिर् अन्-आपत्तिः। गुरुका लघुका स-प्रतिकर्मा अ-प्रतिकर्मा सावशेषा निर्-अवशेषा। धर्म-कर्म अ-धर्म-कर्म समग्र-कर्म व्यग्र-कर्म यावत् स्थानार्हं कर्म इति विहरन्तीनां। वृषभी समाना ति प्रभू समाना। अधिकरणानि न व्युपसमयेद् इति स्वयन्। न व्युपसम्[आप]येद् इति परेहि। न व्युपसमानायौत्सुक्यं कुर्यात् पाचत्तिकं यावत् प्रज्ञप्तिः। एतम्(एता) दानि भिक्षुणीयो कलह-जाता भण्डन-जाता विग्रह-विवादम् आपन्ना विहरन्ति न दानि क्षमति तायो अद्युपेक्षितुं। अथ खु व्युपसमितव्याः व्युपसमापयितव्याः। औत्सुक्यं कर्तव्यं उपसमनाय प्रत्याशंसितव्यं परस्परं क्षमापयितव्याः प्राप्त-कालं यथारूपं परिभाषयितव्याः समग्रीकर्त्व्याः। अथ दानि न शक्नोति अन्या भिक्षुणी अध्येसितव्या उद्योजयितव्या उपासकोपासिकायो भिक्षु-भिक्षुणीयो। अथ तान्य् अधिकरणानि कर्क्कशानि भवन्ति दुर्-व्युपसमानि तेषाम् एव अधिकरणानां कालम् आगमयति समयम् आगमयति परिपाकम् आगमयति। कालं च समयम् च परिपाकं चागम्य व्युपशमयत्य् अनापत्तिः भिक्षुर् अपि भिक्षूणां कलह-जातानां भण्डण-जातानां विग्रह-विवादम् आपन्नानाम् विहरन्तानां वृषभो समानो अधिकरणानि न व्युपशमयति न व्युपसमापयति न व्युपसमानायौत्सुक्यं करोति विनयातिक्रमम् आसादयति। तेन भगवान् आह। या पुन भिक्षुणी भिक्षुणीनां कलह-जातानां भण्डन-जातानां विग्रह-विवादम् आपन्नानां विहरन्तीनां वृषभी समाना अधिकरणानि न व्युपसमयेन् न [व्युपसमापयेन्] न व्युपसमानायौत्सुक्यं कुर्यात् पाचत्तिकं॥३॥

पाचत्तिक-धर्म १२६

उद्वर्तनं

२४०. भगवान् वैशालीयम् विहरति। भद्रा दानि कापिलेयी ज्ञाति-कुलं नीयते उद्वर्तनाय स्नापनाय गृह-पतिनीहि नीयते। वयम् आर्याम् उद्वर्तयामः स्नापयिष्यामः अस्माकं पुण्यं भविष्यति। केचित् प्रसादेन केचिद् अङ्ग-यष्टिं पश्यितु-कामाः। सा दानि प्रासादिका दर्शनीया। कौतूहल-जातिको मातृ-ग्रामः। वर्ण-लोलां उद्वर्तयन्ति कालेयकेन तुंगेयकेन स्वङ्गकेन पद्मकेन गन्धचूर्णेहि। सा पि दानि अधिवासयति। भिक्षुणीयो दानि ओज्झायन्ति। पश्य्-थार्यमिश्रिकायो अद्यापीयं प्रव्रजिता मह-च्छन्दा। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पे। यावद् आम भगवन्। भगवान् आह। एवन् नाम त्वं गृहिणीनाम् उद्वर्त्नपरिमर्दन-स्नापन-सम्मतेन उद्वर्तापयसि। तेन हि न क्षमति। अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति।

यानि खलु पुनर् इमानि गृहिणीनाम् उद्वर्तन-परिमर्दन-स्नापनसम्मतानि तथारूपेहि भिक्षुणी अ-गिलाना उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं।

यानि खलु [पु]नर् इमानि गृहिणीनम् इति क्षत्रिय-कन्यकानां ब्राह्मण-कन्यकानां गृहपति-कन्यकानां। उद्वर्तन-परिमर्दन-स्नापन-सम्मतानीति कालेयकम् वा तुंगेयकम् वा चिक्कसम् वा। यद्य् एको वा तेहि भिक्षुणीहि अ-गिलाना उद्वर्तापयेत्। किन् तावद् अत्र गैलान्यम् अभिप्रेतं जरा-दुर्बला वा व्याधिदुर्बला वा भवति उद्वर्तापयत्य् अन्-आपत्तिः। उद्वर्तापयेद् इति परिमर्दापयेत् पाचत्तिकं। अथ दानि गण्डम् वा पिटकम् वा भवति लभ्या भैषज्येहि उद्वर्तापयितुं परिमर्दापयितुं। अथ दानि पित्तसंक्षोभो भवति लभ्या चिक्कसेनालिंपितुं। अथ दानि वात-संक्षोभो भवति लभ्या गो-धूम-चिक्कसेनालिंपितुं। अथ दानि सन्निपातो भवति संयुक्तेहि भैषज्येहि उद्वर्तापयितव्यं परिमर्दापयितव्यं आलिंपितव्यं। ताय पि दानि आलिंपिय न क्षमति अभ्यागमे प्रदेशे स्थातुं। अथ खलु प्रति-गुप्ते प्रदेशे स्थातव्यं। यदावर्ति(त)भवति तदा उद्वर्तयित्वा निष्क्रमितव्यं। भिक्षुर् अपि अ-गिलानो चिक्कसेनोद्वर्तापयेत् परिमर्दापयेद् विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी गृहिणीनाम् उद्वर्तन-परिमर्दन-स्नान-सम्मतेहि उद्वर्तापयेत परिमर्दापयेत पाचत्तिकं॥

पाचत्तिक-धर्म १२७

भिक्षुणी

२४१. भगवान् वैशालीयम् विहरति। भगवता दानि शिक्षापदं प्रज्ञप्तं न क्षमति गृहिणीनाम् उद्वर्तन-परिमर्दन-स्नान-सम्-मतेहि उद्वर्तापयितुं परिमर्दापयितुं। सा दानि भद्रा भिक्षुणीहि उद्वर्तापयितु(यति) परिमर्दापयति। भिक्षुणीयो दानि ओज्झायन्ति। पेयालं। यावद् भगवान् आह।

या पुन भिक्षुणी अ-गिलाना भिक्षुणीय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। भिक्षुणीयेति उपसम्पन्नाय। अ-गिलाना ति किन् तावद् अत्र गैलान्यम् अभिप्रेतं जरा-दुर्बला वा व्याधि-दुर्बला वा भोति। प्रत्युद्धृतं भगवता अन्-आपत्तिः गिलानाय। उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं यावत् प्रज्ञप्तिः। सा एषा भिक्षुणी अ-गिलाना भिक्षुणीय उद्वर्तापयति न परिमर्दापयति विनयातिक्रमः। परिमर्दापयति नोद्वर्तापयति विनयातिक्रमः। उभयं करोति पाचत्तिकं। नोभयम् अन्-आपत्तिः। भिक्षुर् अपि अ-गिलानो भिक्षुणा उद्वर्तापयति परिमर्दापयति विनयातिक्रमः। तेन भगवान् आह।

या पुन भिक्षुणी अ-गिलाना भिक्षुणीय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं॥ फु॥

पाचत्तिक-धर्म १२८

श्रामणेरि

एवं एव श्रामणेर्या [ना]स्ति नाना-करणं। तेन भगवान् आह।

या पुन भिक्षुणी अ-गिलाना श्रामणेरीय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं॥ फु॥

पाचत्तिक-धर्म १२९

शिक्षमाणा

एतद् एव शिक्षमाणायाः। शिक्षमाणा नाम अष्टादशहि वर्तेहि द्वे वर्षाणि शिक्षमाणा यावत्। तेन भगवान् आह।

या पुन भिक्षुणी अ-गिलाना शिक्षमाणाय उद्वर्तापयेत् [परिमर्दापयेत्] पाचत्तिकं॥ग्रा॥

पाचत्तिक-धर्म १३०

गृहिणी

एतद् एव गृहिणीय। नास्ति नाना-करणं। गृहिणीति गृह-स्था। तेन भगवान् आह।

या पुन भिक्षुणी अगिलाना गृहिणीय उद्वर्तापयेत् परिमर्दापयेत् पाचत्तिकं॥ ह्रा॥

पाचत्तिक-धर्म १३१

विशुद्धि-संवासेन

२४२. भगवान् श्रावस्तीयम् विहरति। भिक्षुणीयो दानि सन्निपतिताः पोषध -[क]र्माय। जेता नाम भिक्षुणी। सा नागच्छति। ताये दूतो ऽनुप्रेषितो। आर्ये आगच्छाहि भिक्षुणीयो सन्निपतिताः पोषधकर्माय। सा दान् आह। भगवता विशुद्धस्य विशुद्धि-पोषधः प्रज्ञप्तः। यावतिका का विशुद्धा अहन् तासाम् अन्यतमासां तत्र नागच्छति(च्छामि)। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पे। यावद् आम भगवन्। भगवान् आह। दुष्कृतं ते जेते। त्वञ् च नाम पोषधन् न सत्करोषि। का अन्या सत्करिष्यति को च पोषधस्य सत्कारो। अ-गिलानाय उपसंक्रमितव्यं। गिलानाय छन्दो दातव्यो। अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी अन्वर्ध-मासं[अ-गिलाना] विशुद्धि-संवासं न सत्करेय पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। अन्वर्ध-मासं विशुद्धिसंवासं ति चातुर्दशिकेन वा चातुर्दशिकं याव(पाञ्च)-दशिकेन वा याव(पाञ्च)-दशिकं। अ-गिलाना पोषधन् न सत्कारोति। किन् दानि अत्र गैलान्यम् अभिप्रेतं। एषा भवति जरा-दुर्बला वा व्याधि-दुर्बला वा शिरा-विद्धिका वा भवति अ-सुखा भैषज्यं वा पीतम् भवति। घृतं वा पीतम् भवति। छन्दो दातव्यो।

सा एषा भिक्षुणी अ-गिलाना पोषधन् न गच्छति। गिलाना वा छन्दन् न देति पाचत्तिकं।

भिक्षुर् अपि अ-गिलानो नैव पोषधं गच्छति न च्छन्दन् देति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी अन्वर्धमासं अ-गिलाना विशुद्धिसंवासन् न सत्करेय पाचत्तिकं।

उद्दानं।

उपसंक्रमति [१(१२३)]। कलहो [३(१२४)]। विशोको [२(१२५)] । उद्वर्तनं [४(१२६)]। भिक्षुणी [५(१२७)]। श्रामणेरी [६(१२८)]। शिक्षमाणा [७(१२९)]। गृहिणीय [८(१३०)]। विशुद्धि-संवासेन [९(१३१)]॥

पूर्यते त्रयो-दशमो वर्गः॥

पाचत्तिक-धर्म १३२

ओवादोपसंक्रमणं
विशुद्धि-पोषधं

२४३. भगवान् श्रावस्तीयम् विहरति। थेर-भिक्षू पर्यायेण भिक्षुणीयो ओवदन्ति। ते दानि आयुष्मन्तो षड्-वर्गिकाः ओवादक-वारं न लभन्ति। ते दान् आहंसुः। न एते युष्माकं ओवादक-वारं दास्यन्ति। कस्य दानि वयम् ओवादक-वारं गच्छामः। ते दान् आहंसुः। आयुष्मां च्छारिपुत्रः स खिलो च मृदुको च। विस्तारेण यावद् भगवता शिक्षापदं प्रज्ञप्तं। न क्षमति अ-सम्मतेन भिक्षुणा भिक्षुणीयो ओवदितुं। एष निःसीमं गत्वा परस्परं सम्मन्यामः। ते दानि निः-सीमं गत्वा अन्यमन्यं संमन्यित्वा कल्यतो येव निवासयित्वा प्रावरित्वा च भिक्षुणी -उपाश्रयं गत्वा आहंसुः। सन्निपतथ भगिनीयो ओवादो भविष्यति। यायो षड्-वर्गिणीयो तायो ऽच्छन्ति सन्निपतिताः। यायो योगाचारायो भिक्षुणीयो तायो न सन्निपतन्ति। आहंसुः। किम् अर्थम् वयम् एषाम् अ-विनीतानाम् अववादं गमिष्यामः। ते दानि ताहि सह मुहूर्तम् अन्तरं काक-वंहा भञ्जित्वा गताः। आयुष्मान् दानि शारिपुत्रो कालस्यैव निवासयित्वा पात्र-चीवरम् आदाय आयुष्मता आनन्देन पश्चाच् छ्रमणेन सार्धं विस्तरेण। यावद् आह। सन्निपतथ भगिनीयो ओवादो भविष्यति। यायो भिक्षुणीयो योगाचाराः तायो ऽच्छन्ति सन्निपतितायो। षड्-वर्गिणीयो भिक्षुणीयो नागच्छन्ति। थेरो पृच्छति। समग्रो हि भिक्षुणी-संघो। आहंसुः। नहि को नागच्छति। आहंसुः षड्-वर्गिणीयो। तासान् दूतः प्रेषितो। आगच्छथ भगिनीयो ओवादो भविष्यति। ता दान् आहंसुः। न वयम् आगमिष्यामः। ओवदिता वयम् आर्यमिश्रकेहि षड्-वर्गिकेहि अन्य-विहितकेन ओवादेन। अथायुष्मान् शारिपुत्रो व्यग्रो भिक्षुणी-संघो ति कृत्वा उत्थायासनातो प्रक्रान्तो। भगवान् जानन्तो येव पृच्छति किन् दानि गौतमी माता शीघ्रम् आगतो सि। ओवदिता भिक्षुणीयो। आह। अहं भगवन् कालस्यैव निवासयित्वा यावद् भिक्षुणी-उपाश्रयं प्रविष्टो ओवदितुं मयोक्तं सन्निपतथ भगिनीयो ओवादो भविष्यति। यायो योगाचारायो भिक्षुणीयो तायो ऽच्छन्ति सन्निपतितायो। यायो षड्-वर्गिणीयो भिक्षुणीयो ता न सन्निपतन्ति। अहं जल्पामि समग्रो भिक्षुणी-संघो। आहंसुः। नहि। को नागच्छति। आहंसुः षड्-वर्गिणीयो। तासान् दूतः प्रेषितः। आगच्छथ भगिनियो ओवादो भविष्यति। आहंसुः। न वयम् आगमिष्यामः ओवदिता वयम् आर्यमिश्रिकेहि षड्-वर्गिकेहि अन्य-विदि(हि)तकेन ओवादेन। अहं पि भगवन् व्यग्रो भिक्षुणी-संघो ति कृत्वा उत्थायासनातो सन्निर्गतो। भगवान् आह। शब्दापयथ षड्-वर्गिणीयो भिक्षुणीयो। ता दानि शब्दापिताः। तद् एव सर्वं भगवान् विस्तरेण पृच्छति। यावद् आम भगवन्। भगवान् आह। दुष्कृतं वो षड्-वर्गिणीयो यावत् पर्यवदातानि भवन्ति।

या पुन भिक्षुणी अन्वर्ध मासं भिक्षु-संघे ओवादोपसं-क्रमणं न सत्करेय पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। अन्वर्ध-मासन् ति चातुर्दशिकेन वा चातुर्दशिकं। पाञ्चदशिकेन वा पाञ्चदशिकं। भिक्षुसंघे ओवदोपसंक्रमणं न सत्करेय पाचत्तिकं यावत् प्रज्ञप्तिः। अथ दानि जरा-दुर्बला वा व्याधि-दुर्बला वा घृत-पीतिका वा भवति वक्तव्यं। ओवादस्य छन्दन् देमि त्रिक्खत्तो। सा एषा भिक्षुणी अ-गिलाना ओवादोपसंक्रमणं न गच्छति गिलाना वा छन्दन् न देति पाचत्तिकम् आसादयति। यदा पोषधो भवति तदा च्छन्द-हारिकाहि भिक्षु-विहारङ् गत्वा वक्तव्यं। समग्रो भिक्षुणी-संघो समग्रस्य भिक्षु-संघस्य पादां च्छिरसा वन्दति पोषधञ् च प्रतीच्छति अववादं च याचति एवं त्रिक्खत्तो याचितव्यं। यदि तावत् कोचिद् भिक्षुणी-ओवादको भवति वक्तव्यं। एष भगिनीयो ओवादको आगमिष्यति। अथ न कोचिद् भवति यो तंहि अङ्गोपेतो भवति सो संमन्यितव्यो। अथ न कोचिद् वक्तव्यं। नास्ति भगिनीयो भिक्षुणी-ओवादको अप्रमादेन संपादेथ आपत्तिञ् च पोषधं प्रतिजाग्रथ स-गौरवा च भवथ स्थविरेहि भिक्षूहि मध्येहि नवकेहीति। तेन भगवान् आह।

या पुन भिक्षुणी अन्वर्ध-मासं विशुद्धि-पोषधं न सत्करेय पाचत्तिकं॥

पाचत्तिक-धर्म १३३

गण्डम् वा पिटकम् वा

२४४. भगवान् राजगृहे विहरति। जेताये भिक्षुणीये संबाधे प्रदेशे गण्डम् उत्पन्नं। ताये अन्तेवासिनीयो गोचरञ् गतायो। हिण्डिकवैद्यो आगतो। सा दान् आह। दीर्घायुः शक्यसि मम शस्त्र-कर्म कर्तुं। सो दान् आह। बाढं। सो दानि पाटयित्वा धोवायित्वा उपनाहयित्वा गतो। तायो भिक्षुणीयो आगतायो। ताहि दानि सो प्रदेशो दृष्टो पूयम्रक्षितो। ता दान् आहंसुः। आर्ये किम् इदं। आह। शस्त्र-कर्म कारितं। आहंसुः। साहसम् आर्याय कृतं संबाधे प्रदेशे शस्त्रकर्म कारयन्तीय। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये [आरोचयें]सुः। पे। यावद् आम भगवन्। भगवान् आह। एवं च नाम त्वं उपरि जानु-मण्डलाभ्यां अधो कक्षाभ्यां गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा अकृत्वा पूर्व-कृत्यं अन्-अवलोकयित्वा संघं शस्त्र-कर्म कारापयसि। तेन हि न क्षमति। पेयालं। यावत्।

या पुन भिक्षुणी उपरि जानु-मण्डलाभ्याम् अधो कक्षाभ्यां गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा अकृत्वा पूर्व-कृत्यं अन्-अवलोकयित्वा संघं पुरुषेण पातापयेद् वा धोवापयेद् वा [उपनाहापयेद् वा ] पाचत्तिकं॥

या पुन भिक्षुणीति उपसम्पन्ना। उपरि जानु-मण्डलाभ्याम् इति ऊरु-नाभिभ्यां। अधो कक्षाभ्याम् इति स्तनोदरस्य। गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा अकृत्वा पूर्व-कृत्यन् ति भिक्षुणी वक्तव्यो शस्त्र-कर्म कारापयिष्यन् ति।

अन्-अवलोकयित्वा संघा ति संघ-मध्ये अवलोकना कर्तव्या। शृणोतु मे आर्या संघो यदि संघस्य प्राप्त-कालं इत्थन्-नामा भिक्षुणी शस्त्र-कर्म कारापेय। कारापयिष्यति आर्या संघो इत्थन्-नामा भिक्षुणी शस्त्र-कर्म। क्षमते तं संघस्य यस्मात् तूष्णीम् एवम् एतद् धारयामि।

पुरुषेणेति गृहस्थेन वा प्रव्रजितेन वा पाटापयेद् वा धोवापयेद् वा उपनाहापेय वा ति यथा जेता भिक्षुणीति पाचत्तिकं यावत् प्रज्ञप्तिः। अथ दानि संबाधे प्रदेशे गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा भवति अन्तेवासिनीये वा समानोपाध्यायिनीये वा समानाचार्याये वा यस्या विश्वासो ताय आख्यातव्यं। कण्टकेन वा नखेन वा मे(भे)दापयितव्यं भैषज्येन वा आलिम्पापेयतव्यं अथ दानि अधो जानु-मण्डलाभ्याम् उपरि कक्षाभ्याम् भवति गण्डम् वा पिटकम् वा क्षतम् वा पुरुषेण वा(पा)टापयति वा धोवापयति वा उपना[हाप]यति वा एवम् शिराम् वा वेधापयति नेलाटिकम् वा बाहु-शिराम् वा गुल्फ-शिराम् वा अपराय भिक्षुणीय आक्रमितव्या तेन भगवान् आह।

या पुन भिक्षुणी उपरि जानु-मण्डलाभ्यां अधो कक्षाभ्यां गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा अकृत्वा पूर्व-कृत्यं अन्-अवलोकयित्वा संघं पुरुषेण पाटापयेद् वा धोवापयेद् वा उपनाहापयेद् वा पाचत्तिकं॥

पाचत्तिक-धर्म १३४

वर्षोपगता

२४५. भगवान् श्रावस्तीयम् विहरति। अथ काली नाम भिक्षुणी वर्षोपगता सांघिकं विहारं बन्धित्वा चारिकां प्रक्रान्ताः। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पे। यावद् आम भगवन्। भगवान् आह। दुष्कृतम् ते कालि एवन् नाम त्वं वर्षोपगतानां चारिकां प्रक्रमसि। तेन हि न क्षमति वर्षोपगताय चारिकां प्रक्रमितुं। अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी वर्षोपगता चारिकां प्रक्रामेय पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। वर्षा ति वर्षारात्रं। उपगता ति पुरिमिकां पश्चिमिकाम् वा वर्षोपनामयिकां उपगता। चारिकां प्रक्रामेया ति अन्यत्र गच्छेय ग्रामान्तरं पि पाचत्तिकं यावत् प्रज्ञप्तिः। सा एषा भिक्षुणी एक-रात्रम् पि विप्रवसति पाचत्तिकं। अथ दानि राज-भयम् वा सेना-भयम् वा पर-चक्र-भयम् वा जीवितान्तरायो वा ब्रह्मचर्यान्तरायो वा भवेय किञ्चापि गच्छति अनापत्तिः। नास्ति भिक्षुण्या अवलोकना-कर्म सप्ताहं वा किञ्चापि भिकुः अवलोकना-कर्म कृत्वा सप्ताहं वा अधिष्ठिहेय गच्छत्य् अनापत्तिः। तेन भगवान् आह।

या पुन भिक्षुणी वर्षोपगता चारिकां प्रक्रमेय पाचत्तिकं॥३॥

पाचत्तिक-धर्म १३५

वर्षावुस्ता

२४६. भगवान् श्रावस्तीयम् विहरति। भिक्षुणीयो दानि श्रावस्तीयं वर्षोषिताः वैशालीम् आगताः। तायो भद्राये कापिलेयीये ज्ञाति-कुलं प्रविष्टाः। ता स्त्रियो आहंसुः। कहिं आर्यमिश्रिका वर्षोषिताः। ता दान् आहंसुः। श्रावस्तीयं। आहंसुः। कीदृशी श्रावस्ती। आहंसुः। इदृशी च इदृशी च एवम् आराम-रमणीया। एवं। जेत-वनं। एवं गन्धकुटी। एवम् भगवान् विहरति। एवम् आर्य-मिश्रिका शारिपुत्र-मौद्गल्यायनाः। यदि प्रव्रज्या एषा प्रव्रज्या इयं पुनर् अस्माकम् आर्य-धीता इहैव जाता। इहैव सम्वृद्धा। नैव कहिंचि गच्छति कूप-मण्डूक इव तिष्ठति अ-निःक्रमा। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। तेन हि वर्षा-वुस्ताया भिक्षुणीय चारिका प्रक्रमितव्या। यावद् भगवान् आह।

या पुन भिक्षुणी वर्षा-वुस्ता चारिकां न प्रक्रमेय पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। वर्षोषितेति वार्षिकां त्रयो मासान् चारिकां न प्रक्रमेया ति अन्तमसतो ग्रामान्तरं पि वा पाचत्तिकं यावत् प्रज्ञप्तिः। सा एषा भिक्षुणी एवं रात्रं पि प्रक्रमति पाचत्तिकं। अथ दानि जरा-दुर्बला वा व्याधि-दुर्बला वा भोति न प्रतिबला गन्तुं किञ्चापि गच्छति अन्-आपत्तिः। भिक्षुर् अपि वर्षा-वुस्तो चारिकां न प्रक्रमति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी वर्षा-वुस्ता चारिकां न प्रक्रमेय पाचत्तिकं॥ ण्क॥

पाचत्तिक-धर्म १३६

उद्वहेय

२४७. भगवान् श्रावस्तीयम् विहरति। स्थूल-नन्दाय भिक्षुणीय जेता भिक्षुणी राजगृहं गच्छमानी निवारिता। इहार्याय वर्षा वसितव्या ताय सा कुलेहि सम्वर्णिता। आर्या जेता भद्रिका गुणवती अनुबद्धा ता संवृता च। एताय अधिकारं करोथ सा दानि कुलानि उपसंक्रमति प्रासादिकेन अतिक्रान्तेन प्रतिक्रान्तेन अवलोकितेन व्यवलोकितेन सम्मिञ्जित-प्रसारितेन संघाटी-पात्र-चीवर-धारणेन अनुबद्धा अन्-उन्नडा अ-चपला अ-मुखरा अ-प्रकीर्ण-वाचा। [सा] प्रासादिका ति प्रसन्ना देव-मनुष्याः। ते तंहि कारां कुर्वन्ति। प्रत्यालपन्ति प्रत्युत्थिहेन्ति निमन्त्रयन्ति पात्रेण चीवरेण ग्लान-प्रत्यय-भैषज्य परिष्कारेहि। स्थूलनन्दा भिक्षुणि अन्-आकल्प-संपन्ना अन्-ईर्यापथ-सम्पन्ना ओमलिन-मलिनेहि चीवरेहि पाटित-विपाटितेहि वड्ड-डिङ्गर-पुष्टालंबेहि स्तनेहि वड्ढेहि स्फिचकेहि उद्धता उन्नडा चपला मुखरा प्रकीर्णवाचा। ते तस्या न गौरवं कुर्वन्ति न निमन्त्रयन्ति। सा दानि तां उद्वहति कायेन वाचा। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। शब्दापयथ नन्दां सा दानि शब्दापिता तद् एव सर्वं पृच्छीयतीति यावद् आम भगवन्। भगवान् आह दुष्कृतं ते नन्दे यावत्।

या पुन भिक्षुणी भिक्षुणीम् एवम् उक्त्वा इहार्ये वर्षं वसितव्यं इत्य् उक्त्वा पश्चाद् उद्वहेय वा उद्वहापेय वा पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। भिक्षुणीम् एवम् वदे इहार्ये वर्षां वसितव्यम् इति त्रयो मासां उक्त्वेति निवारयित्वा पश्चाद् उद्वहेय वा ति कायेन वा वाचा वा स्वयं उद्वहति। उद्वाहापेय वा ति परेण कायेन वा वाचाय पाचत्तिकं। यावत् प्रज्ञप्तिः। न क्षमति निवारयित्वा पश्चाद् उद्वहितुं अथ भवति शिथिलिका वा बाहुलिका वा अ-शिक्षा-कामा वा कलह-कारिका वा पश्यति यदीह वशिष्यति आश्रयम् उत्पादयिष्यतीति। किञ्चापि उद्वहति अन्-आपत्तिः। सा एषा भिक्षुणी भिक्षुणीम् उद्वहति पाचत्तिकं। श्रामणेरीम् वा शिक्षमाणां वा उद्वहति विनयातिक्रमः। अन्तमसतो गृहिणी पि उद्वहति सम्वर-गामी-विनयातिक्रमम् आसादयति।

या पुन भिक्षुणी येवम् वदित्वा इहार्ये वर्षम् वसितव्यन् ति उक्त्वा पश्चाद् उद्वहेय वा उद्वहापेय वा पाचत्तिकं॥ तृ॥

पाचत्तिक-धर्म १३७

पूर्वोपगतं

२४८. भगवान् श्रावस्तीयम् विहरति। अथ काली नाम भिक्षुणी। सा उपगच्छति। ता कालं ग्रामान्तरं गता। सा भिक्षुणीहि उपगताहि आगता। तत्र च भिक्षुणीहि विहारोद्देशः शयनासनोद्देशः कृतः। सा दान् आह। आर्ये मह्यं विहारं देथ। सा विहारं न लभति। आहंसुः। कहिं आर्या वर्षोपनायिका कालङ् गता। सा कलहं करोति। अपरा दानि भिक्षुणी योगाचारा। सा दान् आह। आर्ये अयं मम विहारो। अत्र मञ्चकं प्रवेशेहि सहितिका वसिष्यामः। तया तहिं मञ्चको प्रवेशितो। सा काष्ठ-खण्डा ति यत्र शाखानि प्रवेशयति। सा दान् आह। आर्ये मा विहारे ओविलयं करेहि। सा दान् आह। भद्रायणि किन् त्वया विहारो कृतो किम् विक्रीतो। सांघिको विहारो किम् अर्थं न प्रवेशयिष्यम्। सा उद्वहति कायेनापि वाचाये पि। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावत् शब्दापयथ कालिं सा दानि शब्दापिता। एतद् एव सर्वं पृच्छीयति। यावद् आम भगवन्। भगवान् आह। दुष्कृतं ते कालि।

या पुन भिक्षुणी जानन्ती भिक्षुणीं पूर्वोपगतां पश्चाद् आगत्वा उद्वहेय वा उद्वहापेय वा कायेन वा वाचाय वा पाचत्तिकं।

या पुन भिक्षुणीति उपसम्पन्ना। जानन्तीति स्वयं वा जानेय परतो वा श्रुणेय। भिक्षुणीम् पूर्वोपगताम् इति पुरिमिकायां वर्षोपनायिकायां। पश्चाद् आगत्वेति पश्चिमिकायां। उद्वहेय वा ति स्वयं। उद्वहापेय। वा ति परेण कायेण वा वाचा वा पाचत्तिकं यावत् प्रज्ञप्तिः। सा एषा भिक्षुणीम् उद्वहति पाचत्तिकं। श्रामणेरीम् वा शिक्षमाणाम् वा उद्वहति देशना-गामि-विनयातिक्रमम् आसादयति। अन्तमसतो गृहिणीं पि उद्वहति सम्वर-गामि-विनयातिक्रमः। तेन भगवान् आह।

या पुन भिक्षुणी जानन्ती भिक्षुणीं पूर्वोपगतां पश्चाद् आगत्वा उद्वहेय वा उद्वहापेय वा कायेन वा वाचा वा पाचत्तिकं॥ फु॥

पाचत्तिक-धर्म १३८

विघसं

२४९. भगवान् काशिषु विहरति। अपराय दानि भिक्षुणीय उच्चार-मल्लकं अप्रत्ये(त्य)वेक्षित्वा रथ्यायां छोरितं। तहिं दानि अपरो ब्राह्मणो शीर्ष-स्नातो आहत-वस्त्र-निवस्त्रो ताय रथ्याय अतिक्रमति। उच्चार-मल्लकं तस्य शीर्षे पतितं। तस्य शीर्षं वस्त्राणि च विनाशितानि। जनेन चोपहासितं ब्राह्मण सु-स्नातः सु-विलिप्तस् त्वम् इति। सो दानि ताम् आक्रोशति। आह। इति-कितिकाय धीते श्रमणिके न पश्यसि मम शीर्षं वस्त्राणि च विष्ठेन विनासि(शि)तानि। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। पे। यावद् आम भगवन्। भगवान् आह। दुस्कृतन् ते एवन् नाम त्वम् अप्रत्यवेक्षिय छोरेसि। तेन हि न क्षमति अप्रत्यवेक्षिय छोरयितुं। अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी तिरो-कुड्यं उच्चारम् वा प्रास्रावम् वा खेटकम् वा सिंघाणकम् वा विघसम् वा संक(का)रम् वा अप्रत्यवेक्षित्वा छोरयेत् पाचत्तिकं।

या पुन भिक्षुणीति [उप]सम्पन्ना। तिरो-कुड्यन् ति तिरः-प्रकारम् उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा विघसम् वा संकारम् वा वस्त्र-धोवनम् वा भाण्ड-धोवनम् वा केशान् वा नखान् वा। अप्रत्यवेक्षित्वेति अ-निर्-ईक्ष्य। छोरेया ति उज्झौय (उज्झेय)। पाचत्तिकं यावत् प्रज्ञप्तिः। यदि किञ्चित् उज्झितु-कामो भवति प्रत्यवेक्षितव्यं। यदि तावद् आकीर्ण-बहु-जन-मनुष्या रथ्या भवन्ति आरामयितव्यं। अथ दानि अन्-आकीर्णा भवन्ति किञ्चापि छोरयत्य् अन्-आपत्तिः। तं पि दानि न क्षमति अ-शब्द-कर्णिकाये छोरयितुं अपि तु अच्छटिका दातव्या उक्कासितव्यम् वा। सा एषा भिक्षुणी नैव प्रत्यवेक्षति नापि अच्छटिकां दत्त्वा छोरयति पाचत्तिकम् आसादयति। भिक्षुर् अपि अप्रत्यवेक्ष्य अच्छटिकाम् अकृत्वा छोरयति विनयातिक्रमम् आसादयति। तेन भगवान् आह।

या पुन भिक्षुणी तिरो-कुड्यं उच्चारम् वा प्रस्रावम् वा खेटं वा सिंघाणकम् वा विघसम् वा [संकारम् वा ] अप्रत्यवेक्ष्य छोरेय पाचत्तिकं॥ ग्रा॥

पाचत्तिक-धर्म १३९, १४०

हरित तृणे

उदक
२५०. भगवान् श्रावस्तीयं विहरति। राज्ञो दानि प्रसेनजितस्य कोशलस्य पूर्व-कोष्ठकं नाम उद्यानम् पुष्किरिणी-सम्पन्नं। अन्-आवृतं भिक्षूनां भिक्षुणीनां आवृतं इतराये जनताये। राजा दानि आरामिकस्याह। हो भणे आरामिक पूर्वकोष्ठकम् उद्यानं सिक्तसंसृष्टं करेहि। श्वो हं सान्तःपुरो निर्यास्यं। तं दानि षड्वर्गिणीहि श्रुतं। श्वो राजा सान्तःपुरो उद्यान-भूमिन् निर्यास्यतीति। तायो दानि प्रतिकृत्य् एव गत्वा तहिं हरित-शाद्वलोपस्तराणायां पक्व-खेटेन च पक्व-सिंघाणकेन च विनाशयित्वा पदुम-पत्रेहि उच्चारस्य पुटकानि बन्धित्वा पुष्किरिणीयं प्रवाहयेंसुः। तायो दानि दिवसं तहिं काका-वाहां भञ्जिय सायाह्न-समये नगरं प्रविष्टाः राजा दानि प्रसेनजित कोशलो अपरेज्जुकातो निरगतो सान्तःपुरो। तायो दानि अन्तःपुरिकायो कथंचिद् एव सम्रोधाद् अवमुक्ता रन्धनमोक्षम् इव मन्यमानाः चंचूर्यन्ते। काश्चिन् निषण्णाः काश्चिन् निपन्नाः। काश्चिद् इतो च इतो च धावन्ति अवकासं (शं) गृह्णन्ति शाद्वलोपस्तरणे परिभ्रामन्ति। तासां दानि पक्व-खेटेन पक्वसिंघाणकेन वस्त्राणि विनाशितानि। पुष्किरिणीं ओतीर्णाः स्नानाय। तायो पश्यन्ति पुटकान् प्लवमानान्। तासां भवति कुल-पुत्रकेहि श्रुतं श्वो राजा शा(सा)न्तःपुरो उद्यानं प्रवेक्ष्यतीति तेहि एते गन्ध-पुटकाः प्रवाहिता इति कृत्वा तायो गृह्णन्ति। ते उदकेन क्लिन्ना उच्चारेण चा खादिताः प्रकृति-सुकुमारं च पद्म-पत्रं। गृहीत-मात्रम् एव विलीनं। ही ही विष्ठं ता दानि राज्ञो उपसंक्रान्ता आहंसु। महाराज एष तावद् ईदृशी अवस्था राजा आह शब्दापयथ आरामिकं। सो दानि शब्दापितो। राजा आह। हो भणे आरामिक केन उद्यानं विट्टालितं। आह षड्-वर्गिणीयो श्रमणीयो एव दिवसं काय(क)-वाहा भञ्जित्वा गताः। राजा हसित्वा आह। तासाम् अविनीतानां कर्म भविष्यति। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। महाप्रजापती पि गौतमी भगवतो आरोचयेत्। यावद्

या पुन भिक्षुणी हरिते तृणे उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा कुर्यात् पाचत्तिकं॥

या पुन भिक्षुणी उदके उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा कुर्यात् पाचत्तिकं॥

या पुन भिक्षुणीति उपसम्पन्ना। उच्चारन् ति गूथं। प्रस्रावन् ति मूत्रं। खेटम् इति श्लेष्मा। सिंघाणकन् ति पक्व-सिंघाणकं। हरिते तृणे इति शाद्वले अच्छिन्नालूनस्मिं उदन् ति उदकानि नाम दश। नादिकं ताडागं औदुपानिकं श्वभ्रोदकं प्रघारिमं वृष्टि-स्थितं उच्छोदकं अन्तरीक्ष-पानीयं हिम-विलीनं सामुद्रम् वा उच्चारम् वा प्रस्रावं वा कुर्यात् पाचत्तिकं यावत् प्रज्ञप्तिः। अथ दानि प्रावृषेण्या से सर्व-भुमिः शाद्वलोपस्तरेणा भवति यहिं प्रदेशे स्वल्प-हरितम् भवति तहिं कर्तव्यं। अथ दानि अल्प-हरितं न भवति कटाहके वा इष्टकायम् वा उपले वा शुष्क-तृणे वा काष्ठखण्डे वा यत्र वा अन्येन उच्चारो कृतो भवति बलीवर्देन वा। यत्र वा अन्येन मनुष्येन कृतो तहिं कर्तव्यं अथ दानि एवं न भवति अन्तमसतो कनीयसिं पि अङ्गुलिं उपद्राहयित्वा कर्तव्यं। तथा कर्तव्यं यथा तहिम् प्रथमम् निपतति। अथ दानि चंक्रमति न क्षमति हरित-शाद्वले श्लेष्मं छोरयितुं। अथ खु कटे वा पत्रपुटिकायां वा छोरयितव्यं। तेन भगवान् आह।

या पुन भिक्षुणी हरिते तृणे उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा कुर्यात् पाचत्तिकं।

या पुन भिक्षुणी उदके उच्चारम् वा प्रस्रावम् वा खेटम् वा सिंघाणकम् वा कुर्यात् पाचत्तिकं॥

पाचत्तिक-धर्म १४१

गण-लाभ

२५१. भगवान् श्रावस्तीयम् विहरति। तायो दानि षड्-वर्गिणीयो छन्दकं अण्वन्ति। [आहंसुः ]। प्रजापति देथ च्छन्दकं आर्यमिश्रिकाणां भक्तं करिष्यामः। ता दानि स्त्रियो प्रयच्छन्ति। ता दान् आहंसुः आर्या यं दिवसं संघ-भक्तं करिष्यथ तदास्माकम् अपि आरोचयेथ। वयम् अपि परिवेषका आगमिष्यामो ति। ताहि दानि निमन्त्रिताः। आयुष्मन्तो शारिपुत्र-मौद्गल्यायनौ अनिरुद्धो रेवतः कप्फिणो श्रोण-कोटी-विंश उपवानो आयुष्मान् राहुलो षड्-वर्गिकाश् च। ताहि दानि द्वे-आसन-प्रज्ञप्ती कृता। एका स्थविराणां अपरा षड्-वर्गिकाणां। तहिं दानि भिक्षू कालस्यैव निवासयित्वा प्रावरित्वा च प्रविष्टाः। ततो आयुष्मतो शारिपुत्रस्य दातुं शालिना-म्-ओदनं मुद्गानां सूपो घृतं दधि च। आयुष्मतो मौद्गल्यायनस्य यवकोदनो माष-सूपो तैलं च। अपरेषाम् षष्टिको-दनो सूपो च। अपरेषां कोद्रवोदनो। अपरेषां व्यञ्जनानि दिन्नानि ओदनो न दीयते। अपरेषां शाकं दिन्नं ओदनो न दीयते। अपरेषां वाटिकोदनो व्यञ्जनं न दीयते। आयुष्मतो राहुलस्य पि श्याक-शाकं

ता दानि स्त्रियो भक्ष्य-भोज्यम् आदाय गताः पृच्छन्ति। कहिन् ते आर्यमिश्रिकाः। तायो दानि स्थविरान् भिक्षून् आवरित्वा षड्-वर्गिकान् दर्शेन्ति। ततस् तेषान् दीयते शालिना -म्-ओदनं मुद्गानां सूपो घृतं। नवनीतं अम्बु मधुराणि गौडन् दधि श्वेतं दधि क्षीरं समितासमितं यस्यार्थं याव् अर्थं दीयति। यत् किञ्चित् प्रणीत-सम्मतं भक्ष्य-भोज्यं पेयं चोष्मं तं षड्-वर्गिकाणान् दापयन्ति। इमे ते आर्यमिश्रिकाः भिक्षू पि भुक्त-विभुक्तकाः उत्थायोत्थाय भगवतः पाद-वन्दा उपसंक्रान्ता। भगवान् जानन्तो येव पृच्छति। अपि तु शारिपुत्र शोभने मासि मृष्टम् वा प्रणीतम् वा प्रभूतम् वा। स्थविरो आह। कृतं भगवन् आहारेणाहार-कृत्यं। द्वितीयम् पि तृतीयम् पि। भगवान् आह। थेरो आह। लब्धो भगवन् शालिना-म्-ओदनं मुद्गानां सूपो नवनीतं अम्बु मधुराणि व्यञ्जननि गौडन् दधि क्षीरं यस्यार्थं यावद् अर्थं दीयति यथापीदं भगिनीनां श्रद्धा-प्रसन्नानां परिग्रहे। भगवान् आह। के तहिं सं[घ]स्थविरो भूत। आयुष्मां च्छारिपुत्रो। भगवान् आह। सत्यं शारिपुत्र आह। आम भगवन्। भगवान् आह। दुर्भुक्तं ते शारिपुत्र एवं च नाम त्वं भिक्षु-संघं विहेठयन्तं अध्युपेक्षसि। यस्य भगवान् दुर्भुक्तम् इत्य् आह तस्य तं कल्पम् वा कल्पावशेषम् वा तिष्ठेय नैव जरा गच्छेय। स्थविरेण काक-पोटं दत्त्वा सर्व दरदराय वान्तं। भगवान् आह। शब्दापयथ भिक्षुणीयो तायो शब्दापिताः। एतद् एव पृच्छीयन्ति। आहंसुः। आम भगवन्। भगवान् आह दुष्कृतं वो भिक्षुणीयो एवम् च नाम यूयं जानन्तीयो गण-लाभं गणस्य परिणामयथ। तेन हि न क्षमति। अथ खलु भगवान् यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी जानन्ती गण-लाभं गणस्य परिणतं गणस्य परिणामयेत् पाचत्तिकम्।

या पुन भिक्षुणीति उपसम्पन्ना। जानन्तीति स्वयम् वा जानेय परतो वा श्रुणेय। गण-लाभम् इति भिक्षु-गणस्य भिक्षुणी-गणस्य। लाभम् इति अष्ट लाभाः यावत् कालिको याम-यामिको यावत् कल्पिकाकल्पिको परिणतन् ति परिनिष्पन्नं। गणस्य परिणामयेत् पाचत्तिकं यावत् प्रज्ञप्तिः। एष दानि कोचिद् आगच्छति देय-धर्मं दातु-कामो। आह। आर्ये इच्छामि परिगृह्यमाणन् ति परिगृह्णीतव्यं।

प्रातिदेशनिका धर्मा १-८

सर्पिस् तैलं एत्च्

२५२. ति। ते दानि भिक्षू षड्-वर्गिकाः सर्पिकेहि सर्पि तैलकेहि तैलं गौडकेहि गुडं माधुकेहि मधुं मात्सिकेहि मत्स्यं मांसिकेहि मांसं दुग्धिकेहि दुग्धं दोधिकेहि दधिं विज्ञपिय खादन्ति। जनो दानि ओज्झायति। पश्यथ भणे श्रमणो गौतमो ऽनेकपर्यायेणाल्पेच्छताय वर्णवादी यावच् छिक्षापदं प्रज्ञप्तं। तस्माद् इह गौतमि भिक्षुणीभिर् अवि अत्रैव शिक्षितव्यं।

एषैवार्थोत्पत्तिः। एकम् इदम् गौतमि समयं तथागतो शाक्येषु विहरति। यावद् भगवान् महाप्रजापतीं गौतमीम् आमन्त्रयति। सन्निपातय गौतमि भिक्षुणीयो यावत् पर्यवदातानि भविष्यन्ति।

या पुन भिक्षुणी आत्मार्थाय अगिलाना कुलेहि सर्पिं विज्ञापेत्वा वा विज्ञापायेत्वा वा खादेय वा भुञ्जेय वा प्रतिदेशयितव्यं ताय भिक्षुणीय असंप्रेयम् मे आर्यमिश्रिका प्रातिदेशनिकं धर्मम् आपन्ना तन् धर्मं प्रतिदेशयामि। अयन् धर्मो प्रातिदेशनिको।

एवम् सर्पिस् [१]। तैलं[२]। मधु-[३]। फाणितं [४]। दुग्धं [५]। दधि[६]। मत्स्यं [७]। मांसं [८]।

या पुन भिक्षुणीति उपसम्पन्ना। आत्मार्थायेति आत्मानं सन्धाय आत्मानम् उपनिध्याय। अगिलाना ति प्रत्युद्धृतं भगवता पदं अन्-आपत्ति गिलानाय। किन् तावद् अत्र गैलान्यम् अभिप्रेतम्। जरा-दुर्बला वा व्याधि-दुर्बला ता विरेचन-पीता वा शिरा-विद्धा वा श्लेष्मा वा सन्निपाता वा। कुलेहीति क्षत्रिय-कुलानि वा ब्राह्मण-कुलानि वा यानि वा पुनर् अन्यान्य् अपि कानिचित् कुलानि। सर्पीति सर्पिन् नाम गाविय माहिषीये अजाये एडकाय उष्ट्रीय। विज्ञपेत्वा ति स्वयं विज्ञापेत्वा। विज्ञपायेत्वा ति परेण विज्ञपायेत्वा। खादेया ती यं खादनीयं। भोजनीयन् ति यं भोजनीयं। प्रतिदेशयितव्यं ताय भिक्षुणीय यावद् अयम् धर्मो प्रातिदेशनिको।

अथ दानि पित्त-संक्षोभो भवति लभ्या सर्पि विज्ञापेतुं पेयालं। अथ दानि पिण्ड-पातम् अण्वन्ति पश्यति घृतं विक्रायन्तं न दानि वक्तव्यं। “दिर्घायुः लाभो लभ्यतु बहुञ् च भवतु।” लब्धो च स्थावरो भवतु। अथ दान् आह। केनार्थो आर्याये। वक्तव्यं पिण्ड-चारं अण्वामि। अथ दान् आह। अर्थो आर्याय सर्पिणा यद्य् अर्थिका भोति। वक्तव्यम् अर्थो। यदि पूरं पि पात्रं लभति अन्-आपत्तिः। अथ दानि अपरा पि काचिद् भवति लभ्या प्रत्युत्पन्नप्रायेण (!) वक्तुं इमाये पि देहीति।

एतं (वं) तैलं। यदि वात-विकारो भवति लभ्या तैलं विज्ञपयितुं तं पि दानि न तैल-पीडकानां तेन विज्ञपयितव्यं। अथ दानि पिण्ड-चारम् अण्वन्ति पश्यति तैलं मापियन्तं यावत् पूरं पि पात्रं लभति अन्-आपत्तिः। यावत् लभ्या प्रत्युत्पन्न-प्रयोगेण वक्तुं इमाये पि देहीति।

एवं मधु। यदि श्लेष्म-विकारो भवति लभ्यं मधु विज्ञपयितुं। तं पि दानि ना क्षमति मधु-घातकानां तेन विज्ञपयितुं।

एवं फाणितं। यदि गिलाना भवति वैद्यो आह आर्ये गुड-प्र-योगं करोहीति लभ्यं गुडं विज्ञपयितुं।

एवम् दुग्धं। लभ्यं दुग्धं पिययितुं। अथ दानि पिण्डचारम् अण्वति पश्यति यो कुलेहि गावो दुह्यन्तां न दानि वक्तव्यं। बहु-लाभो लभ्यतु क्षेमेण गावो चरन्तु। आहंसुः। केन आर्याये अर्थो। वक्तव्यं। पिण्ड-चारम् अण्वामि। आहंसुः। अर्थो आर्याये दुग्धेनापूरम् पि पात्रं प्रतीच्छत्य् अन्-आपत्तिः यावत् प्रत्युत्पन्नप्रयोगेन लभ्या वक्तुं इमाय पि देहीति। अथ दानि श्वेत-मयं सिक्षति। नास्ति श्वेत-मयं। इच्छसि दुग्धं। आह। इच्छामि। पूरम् पि पात्रं लभति अन्-आपत्तिः।

अथ दानि प्रतिश्यायो भवति। वैद्यो आह दधिकृत्यं करोहीति लभ्यं दधि विज्ञपयितुं। अथ दानि पिण्ड-चारम् अण्वति पश्यति दधि मापीयमानं लभ्या मस्तु विज्ञपयितुं। अथ दान् आह। नास्ति मस्तु इच्छसि दधिं। आह इच्छामि। पूरं पि पात्रं प्रतिगृह्णाति अन्-आपत्तिः।

अथ दानि भिक्षुणी वमनं विरेचनं वा कर्तुकामो (मा) भवति वैद्यो जल्पति आर्ये अभिष्यन्देहि मत्स्य-रसेहीति। यावन् न क्षमति कैवर्तानां विज्ञपयितुं। अथ दानि पिण्ड-चारम् अण्वति लभ्यं आम्बूकांजिकं विज्ञपयितुं।

अथ दानि सिरा-विद्धिका भवति। विरेचन-पीतिका भवति। वैद्यो आह। आर्ये मांस-रसं प्रतिसेवाहि। लभ्यं मांस-रसं विज्ञपयितुं। न क्षमति ओरोभ्रिकानां तेन। अथ दानि पिण्ड-चारम् अण्वति लभ्यं शाक-रसं विज्ञपयितुं। अथ दान् आह। नास्ति आर्ये शाक-रसो इच्छसि मांस-रसं। आह। इच्छामि। पूरं पि पात्रं लभति अन्-आपत्तिः।

अथ दानि जानाति अमुकस्मिं काले कदाचिद् गैलान्यं भविष्यति इमानि भैषज्यानि दुर्लभानि भविष्यन्तीति प्र[ति]कृत्य् एव याचति अन्-आपत्तिः। ग्लाना विज्ञपिय अगिलाना खादति विनयातिक्रमः। अगिलाना विज्ञपिय ग्लाना खादति अन्-आपत्तिः। अग्लाना विज्ञापिय अग्लाना खादति प्रतिदेशयितव्यं।

असंप्रेयं सिद्धं संप्रेयं खादति अन्-आपत्तिः। संप्रेयं सिद्धं। असंप्रेयं सिद्धं। असंप्रेयं खादति विनयातिक्रमः। संप्रेयं सिद्धं संप्रेयं खादति अन्-आपत्तिः। पर-प्रतिबद्धाय जीविकाय अन्-आपत्तिः। तेन भगवान् आह।

यानि खो पुनर् इमानि प्रणीत-सम्मतानि भोजनानि भवन्ति सय्यथ्ऽ ईदं सर्पिः एवं-रूपं तं भिक्षुणी अगिलाना कुलेहि विज्ञपेत्वा वा विज्ञापायेत्वा वा खादेय वा भुंजेय वा प्रतिदेशयितव्यं ताय भिक्षुणीय। असंप्रेयम् मे आर्ये गार्ह्यं प्रातिदेशनिकं धर्मम् आपन्ना तं धर्मं प्रति-देशयामि। अयं धर्मो प्रातिदेशनिको।

एवं तैलेन कर्तव्यं। मधु-फाणितं दुग्धं दधि मत्स्यं मांसं।

यानि खो पुनर् इमानि प्रणीत-सम्मतानि भोजनानि भवन्ति सय्यथ्ऽ ईदं मांसं एवं-रूपं भिक्षुणी अगिलाना कुलेहि विज्ञपेत्वा वा विज्ञपायेत्वा वा खादेय वा भुञ्जेय वा प्रति-देशयितव्यं ताय भिक्षुणीय। असंप्रेयम् मे आर्ये गार्ह्यं प्रातिदेशनिकं धर्मपर्यायं वा तन् धर्मं प्रतिदेशयामि। अयं पि धर्मो प्रातिदेशनिको॥

उद्दानं।

सरिपिस् [१]। तैलं [२]। मधु [३]। फाणितं [४]। दुग्धम् [५] दधि [६]। मत्स्य [७]। मांसं [८]। इदम् अष्टमं। भिक्षुणीनां प्रातिदेशनिकां॥

शैक्षा धर्मा १-६६

२५३. शैक्षा विस्तरेण कर्तव्या यथा भिक्षुणां सर्वे षड्-वर्गाह् स्थापयित्वा हरितोदके।

उद्दानम्।

निवासनं [१]। प्रावरणं [२]। सु-संवृतं [३]। चक्षुः [४]। शब्दं [५]। नोच्चस्थि(ग्घि)का [६]। नोगुण्ठिका [७]। नोत्क्षिप्तिका [८]। न उत्कुटुके [९]। न खम्भ [१०]। न काय [११]। न शीर्ष [१२]। न बाहुकेन [१३]॥ प्रथमो वर्गः॥

उद्दानं।

सुसंवृता [१४]। चक्षुः [१५]। न शब्द [१६]। उच्चग्घयिका [१७]। न ओगुण्ठिका [१८]। नोत्क्षिप्तिका [१९]। न ओसक्तिका [२०]। न पल्लत्थिका [२१]। न खम्भ [२२]। न हस्त-पाद-कौकृत्येन [२३]। द्वितीयो वर्गः॥

उद्दानं।

द्वे सत्कृत्य [२४, २५]। सम-सूप [२६]। न स्तूप [२७]। नावकीर्ण [२८]। नावगण्ड[२९]। न जिह्वा[३०]। नातिमहन्त[३१]। नाना-गत[३२]। न कवडोत्क्षेपक [३३]। न कवड-च्छेदक [३४]। न स-कवडेन [३५]। तृतीयो वर्गः॥

उद्दानं॥

त्रयो निर्लेहा [३६, ३७, ३८]। चुच्चु [३९]। सुरु-सुरु [४०]। गुलु-गुलु [४१]। न हस्त [४२]। न सित्थ [४३]। नोध्यायन [४४]। पात्र-संज्ञी [४५]। विज्ञप्ति [४६]। छादयति [४७]। न पात्रोदके [४८]। न स-सित्थेन [४९]। चतुर्थो वर्गः॥

उद्दानं।

न स्थिता [५०]। न निषण्णा [५१]। न उच्चासना [५२]। उपनह [५३]। न पादुका [५४]। न ओगुण्ठिका [५५]। न संमुख [५६]। न ओसक्तिका [५७]। न पल्लत्थिका [५८]। पूर्यते पञ्चमो वर्गः॥

उद्दानं।

न शस्त्रायुध [५९, ६०]। दण्ड [६१]। छत्र [६२]। उत्पथ [६३]। पृष्ठतो [६४]। यान [६५]। स्थितकेन [६६]। षष्ठो वर्गः॥

सप्त अधिकरण-समथा धर्मा
धर्मा अनुधर्मा

२५४. सप्ताधिकरण-समथा धर्मा यथा भिक्षूणां।
सम्मुख [१]। स्मृति [२]। अमूढ [३]। प्रतिज्ञा [४]। तस्य पापेयशिक [५]। यो भुयसिक [६]। तृणप्रस्तारको [७] च सप्तमः॥

धर्मश् चानुधर्मश् च यथा भिक्षूणां।
समाप्तो भिक्षुणीनां प्रातिमोक्ष-विभङ्गः॥

भिक्षुणी प्रकीर्णक १

निषद्या-प्रतिसंयुक्तं

२५५. आर्य-महासांघिकानां लोकोत्तरवादिनां भिक्षुणीप्रकीर्णकस्यादिः।

भगवान् श्रावस्तीयम् विहरति। तायो दानि भिक्षुणीयो पश्चिमं प्रहाणं स्वस्तिक-पर्यङ्केन निषीदन्ति। अथापराये दानि भिक्षुणीये व्रण-मुखेन दीर्घको ऽनु-स्रोतेन प्रविष्टो। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। महाप्रजापती गौतमी भगवतो आरोचयेत्। भगवान् आह। गच्छथ ताये अमुकं भैषज्यं देथ ततो सो दीर्घको निष्क्रमिष्यति। ताये दानि तं भैषज्यं दिन्नं पिबनाये। सो दीर्घको अनुस्रोतम् आगतो न च मृतो। भगवान् आह। एवं च नामा यूयं स्वस्तिक-पर्यङ्केन निषीदथ। तेन हि न क्षमति स्वस्तिक-पर्यङ्केन निषीदितुं। निषद्याप्रतिसंयुक्तं। न क्षमति भिक्षुणीये पर्यङ्केन निषीदितुं। अथ खल्व् एकिना पदेन पर्यंको बद्धव्यः। अपराय पार्ष्णिकाय व्रणमुखं पिथयितव्यं। सा एषा भिक्षुणी स्वस्तिक-पर्यङ्केन निषीदति विनयातिक्रमम् आसादयति। इदम् उच्यते निषद्या-प्रतिसंयुक्तं॥

भिक्षुणी-प्रकिर्णक २

कठिन-प्रतिसंयुक्तं

२५६. भगवान् श्रावस्तीयम् विहरति। ता दानि भिक्षुणीयो कठिने चीवरं निक्षिपिय सीवन्ति। अपराये भिक्षुणीये वंस-विदलिकाय व्रण-मुखेन कृतं रुधिरम् उत्पादितं। एतं प्रकरणं। पेयालं। भगवान् आह। तेन हि न क्षमति कठिने निषीदितुं। कठिन-प्रतिसंयुक्तं। एता दानि भिक्षुणीयो चीवर निषीदितु-कामा भवन्ति। न क्षमति कठिने निषीदितुं। अथ खु उपस्थान-शालायाम् वा प्रासादे वा प्रहाण-शालायाम् वा आकार्षान् दत्त्वा चीवरकं प्रज्ञपिय सीवितव्यं। अथ एवं पि न भवति। पीठस्य वा मञ्चस्य वा उपरि प्रज्ञपयित्वा सीवितव्यं। अथैवं पि न भवति जानुकानाम् उपरि स्थापय्यित्वा सीवितव्यं। सा एषा भिक्षुणी कठिने निषीदति विनयातिक्रमम् आसादयति। इदम् उच्यते कठिन-प्रतिसंयुक्तं॥२॥

भिक्षुणी-प्रकीर्णक ३

वेठक-प्रतिसंयुक्तं

२५७. भगवान् श्रावस्तीयम् विहरति। स्थूलनन्दा दानि भिक्षुणी संबहुलानि स्त्रीहि सार्धं नदीम् अजिरावतीङ् गत्वा एकान्ते चीवरकाणी निक्षिपिय स्नानायावतीर्णा। सा दानि प्रतिकृत्येवोत्तरित्वा वेठकेन कायं वेठयित्वा स्त्रीणाम् आह। प्रजापति निध्यापयथ मां। किम् अहं शोभामि न शोभामीति। ता दान् आहंसुः। किम् पुनर् आर्याय मुण्डाय पिण्डिलिकाय एतेन कार्यं। वयं कामोपभोगनीया मानार्थाय एवं करोमः। कुटुम्बिकानां प्रियतरिका भविष्यामो ति। आर्य(आर्ये) किम् [ए]तेन। यं ताहि स्त्रीहि अवध्यापितं तं दानि भिक्षुणीहि श्रुतं। एतं प्रकरणं। पे। यावद् आम भगवन्। भगवान् आह। दुष्कृतं ते नन्दे यावत् तेन हि न क्षमति वेठकेन कायं वेठयितुं। वेठक-प्रतिसंयुक्तं। सा एषा भिक्षुणी वेठकेन पट्टकेन वा कायं वेठयति विनयातिक्रमम् आसादयति। अथ दानि पट्टिकाय वा लोहकेन वा कायं वेठयति। न क्षमति द्विर् अपि वेल्लकं त्रिर् अपि वेल्लकं वेठयितुं। अथ खु एक परिवेल्लकं वेठयितव्यं। अथ दानि वातेन पार्श्वं गृहीतं भवति। गण्डम् वा पिटकम् वा क्षतम् वा उपहतम् वा भवति किञ्चापि पट्टकेन कायं वेठयत्य् अन्-आपत्तिः। इदम् उच्यते वेठक-प्रतिसंयुक्तं॥३॥

भिक्षुणी -प्रकीर्णक ४

श्रोणि-भण्डक-प्रतिसंयुक्तं

२५८. भगवान् श्रावस्तीयम् विहरति। यथैव वेठकस्य एवम् एवार्थोत्पत्तिः कर्तव्या। सा प्रतिकृत्य्ऽ एव उत्तरित्वा श्रोणी-भण्डकम् आबन्धित्वा आह। प्रजापती प्रजापति निध्यायथ मां किम् अहम् शोभामि न शोभामीति। ता दान् आहंसुः। किम् आर्याय। पेयालम्। यावद् आम भगवन्। भगवान् आह तेन हि न क्षमति श्रोणी-भण्डं। श्रोणी-भण्डक-प्रतिसंयुक्तं। श्रोणी-भण्डकन् नाम एते भवन्ति। शंखावर्त्तका वा शिरिका वा पीलुका वा विद्रुमा वा अक्षरक्षा वा सुवर्ण-रूप्य-मया वा मणि-मया वा प्रकालका वा अन्तमसतो सूत्र-मणिका वा बन्धति। तेन च श्रोणी-भण्डक-छन्दं विनोदयति विनयातिक्रमम् आसादयति। इदम् उच्यते श्रोणी-भण्डक-प्रतिसंयुक्तं॥ ण्क॥

भिक्षुणी-प्रकिर्णक ५

गृहिणि-भण्डक-प्रतिसंयुक्तं

२५९. भगवान् श्रावस्तीयम् विहरति। एषैवार्थोत्पत्तिः यावद् गृहिणी-भण्डकम् आबन्धित्वा यावद् भगवान् आह। तेन हि न क्षमति गृहिणी-भण्डकं। गृहिणी-भाण्डकन् नाम एते भवन्ति। मूर्धापिधानका वा। वलया वा। कर्णिका वा। टिक्का वा। वेठका वा। हर्षका वा। हारा वा। अर्ध-हारा वा अपरंजग वा। कटका वा। शंखका वा। नूपुरा वा। अङ्गुलीयका वा। यद् वा पुनर् अन्यद् अपि किञ्चिद् गृहिणी-भाण्डं सर्वन् न क्षमति। सा एषा भिक्षुणी गृहिणी-भण्डकम् आबन्धयति विनयातिक्रमम् आसादयति। अथ दानि भैषज्य-भण्डकम् आबन्धति ज्वर-सूत्रकम् वा अन्-आपत्तिः। इदम् उच्यते गृहिणी-भाण्डक-प्रतिसंयुक्तं॥ तृ॥

भिक्षूणी-प्रकिर्णक ६

गृहिणी-अलंकार-प्रतिसंयुक्तं

२६०. भगवान् श्रावस्तीयम् विहरति। तायो दानि शाकिय-कन्यायो कोलित-कन्यायो मल्ल-कन्यायो महान्तेहि कुलेहि प्रव्रजिता अलंकारिकान्य् आदाय। कुमारिकानां वुह्यन्तीनां उत्सव-समये तिथि पर्वण्या देव-यात्रादिषु कृतकानि भाण्डकानि ददन्ती। जनो दानि ओज्झायति। नेयं प्रव्रज्या वाणिजेयं। एतं प्रकरणं। पेयालं यावद् भगवान् आह। तेन हि न क्षमति गृहिणी-अलंकारं धारयितुं। यदि काचिद् गृहिणी प्रव्रजति यदि ताय किञ्चिद् अलंकारं भवति वक्तव्या विसर्जेहि। अथ दानि पश्यति दुर्भिक्ष वा भवेय पिण्डपातो वा न लभ्येत जरा-दुर्बला वा भवति व्याधि-दुर्बला वा गैलान्यम् वा किञ्चिद् भविष्यति अल्प-लाभो मातृग्रामो मा विहन्येया ति। पिण्डं कारयित्वा पर्व्राजयितव्या। सा एषा भिक्षुणी अलंकारम् अ-परित्याजयित्वा प्रव्रजेति विनयातिक्रमम् आसादयति। भिक्षोर् अप्य् एष एवं विधिर्। इदम् उच्यते गृहिणी-अलंकार-प्रतिसंयुक्तं॥ फु॥

भिक्षुणी-प्रकिर्णक ७

वेश्या-प्रतिसंयुक्तं

२६१. भगवान् श्रावस्तीयम् विहरति। तायो दानि भिक्षुणीयो शाकीय-कन्यायो कोलिय-कन्यायो मल्ल-कन्यायो महा-कुलेहि [प्रव्रजिता] चेटिकाम् आदाय प्रव्रजन्ति। तायो चेटिकायो प्रासादिकायो दर्शनीयायो वेश्यं (!) वाहयन्ति। जनो दनि ओज्झायति। नेयं प्रव्रज्या गणिका इमा। एतं प्रकरणं भिक्षुणीहि श्रुतं। यावद् आम भगवन्। भगवान् आह। एवं च नाम यूयं वेश्याम् उपस्थापयथ। तेन हि न क्षमति वेश्याम् (!) उपस्थापयितुं। सा एषा भिक्षुणी वेश्याम् उपस्थापयति तेन जीविकां कल्पयति विनयातिक्रमम् आसादयति। इदम् उच्यते वेश्या-प्रतिसंयुक्तं॥ ग्रा॥

भिक्षुणी-प्रकीर्णक ८

आरामिकिनि-प्रतिसंयुक्तं

२६२.भगवान् श्रावस्तीयम् विहरति। भगवता दानि शिक्षा-पदं प्रज्ञप्तं। न क्षमति वेश्याम् उपस्थापयितुं ति। तायो दानि शाकिय-कन्यायो मल्ल-कन्यायो कोलित-कन्यायो महा-कुलेहि प्रव्रजन्ति। तायो दानि पौद्गलिकाम् आरामिकिनीम् उपस्थापेन्ति। तायो दानि आरामिकिनीयो प्रासादिकायो जनो दानि ओज्झायति। नेयं प्रव्रज्या गणिका इयं। एतं प्रकरणं भिक्षुणीहि श्रुतं यावद् आम भगवन्। भगवान् आह। तेन हि न क्षमति पौदगलिकाम् आरामिकिनीम् उपस्थापयितुं। न क्षमति आरामिकिनी। ना क्षमति चेटी। न क्षमति कल्पिय-कारी। सा एषा भिक्षूणी यो(या) पौद्गलिकाम् आरामिकिनीम् उपस्थापयति विनयातिक्रमम् आसादयति। इदम् उच्यते आरामिकिनी-प्रतिसंयुक्तम्॥ ह्रा॥

भिक्षूणी-प्रकीर्णक ९

संकक्षिका-प्रतिसंयुक्तं

२६३. भगवान् श्रावस्तीयम् विहरति। अपरा दानि भिक्षुणी प्रासादिका दर्शनीया। ताये दानि पीनेहि स्तनेहि गच्छन्तीय चीवरम् उत्क्षिपीयति। सा दानि जनेन उच्चग्घीयति। एतं प्रकरणं भिक्षुणीहि श्रुतं। पेयालं। यावद् आम भगवन्। भगवान् आह तेन संकक्षिका नाम कर्तव्या। सम्कक्षिकां प्रावरन्तीय तथा प्रावरितव्यं यथा दानि स्तनापीडिता भवन्ति। सा एषा भिक्षुणी संकक्षिकान् नोपस्थापयति विनयातिक्रमम् आसादयति। सन्ती न प्रावरयति विनयातिक्रमः इदम् उच्यते संकक्षिका-प्रतिसंयुक्तं॥ ०॥

भिक्षुणी-प्रकीर्णक १०

दकशाटिका-प्रतिसंयुक्तं

२६४. भगवान् वैशालीयम् विहरति। भद्राय दानि कापिलेय्या अर्थोत्पत्तिः कर्तव्या। यावद् भगवान् आह। तेन हि न क्षमति नग्निकाया स्नातुं। दकशाटिकाय स्नापितव्यं। दक-शाटिका-प्रतिसंयुक्तं। न क्षमति नदीयम् वा ओघे वा पुष्किरिणीयम् वा तडागे वा नग्निकाय स्नापितुं। दक-शाटिकाय स्नापितव्यं। नग्निका स्नायति विनयातिक्रमः। अथ दानि विहारे गुप्ते प्रदेशे नग्निका स्नायत्य् अनापत्तिः। इदम् उच्यते दक-शाटिका-प्रतिसंयुक्तं॥ ळ्॥

॥ प्रथमो वर्गः॥

भिक्षुणी-प्रकीर्णक ११

तल-घात-प्रतिसंयुक्तं

२६५. भगवान् श्रावस्तीयं विहरति। भिक्षुणी-विहारो च गृहिकुलं च कच्छान्तरिता। तायो दानि भिक्षुणीयो काम-रागेण खज्जन्ति। तायो दानि हस्त-तलेनाङ्गजातं प्रस्फोटयन्ति। सो मनुष्यो पुनो पुनो शब्दं शृणोति। सो दान् आह। किम् एतन् ति। सा दानि स्त्री आह। भवतु आर्यपुत्र अहम् एतं जानामि किन् तवानेन ज्ञानेन। आह। नहि आचिक्षाहि। आह। एता आर्यमिश्रिकायो ब्रह्मचारिणीयो काम-रागेन खज्जन्तीयो हस्त-तलेन आस्फोटयन्ति आङ्ग-जातं। तेन दानि मनुष्येण ओज्झापितं। एतं प्रकरणं भिक्षूणीहि श्रुतं। यावद् भगवान् अह। तेन हि न क्षमति तल-घातकं। तल-घात-प्रतिसंयुक्तं। सा एषा भिक्षुणी हस्त-तलेनाङ्गजातम् आस्फोटयति पात्रेण वा कु-पात्रेण वा कंसिकाय वा विडल्लाय वा अन्येन वा पुन केनचित् तेन च काम-रागं विनोदयति विनयातिक्रमम् आसादयति। इदम् उच्यते तल-घातक-प्रतिसंयुक्तं॥[1]॥

भिक्षूणी -प्रकीर्णक १२

जतु-मट्ठक-प्रतिसंयुक्तं

२६६. भगवान् श्रावस्तीयं विहरति। अपराय दानि भिक्षुणीय काम-रागेण खज्जन्तीय जतु-मट्ठकं मञ्चकं यन्त्रितं। अत्र विप्रतिपद्यिष्यन् ति। तद् अनन्तरम् अग्निर् उत्थितो। ताय दानि संभ्रान्-ताय असमन्वाहरित्वा स मञ्चको बहिन् निष्कासितो। मनुष्यो दानि प्रत्यवेक्षमाणा अण्वन्ति। कहिं अग्निर् उत्थितो कस्य गृहाद् उत्थितो। तेहि दानि सो दृष्टो। ते दानि ओज्झायन्ति। एतं प्रकरणं भिक्षुणीहि श्रुतं। पे। यावद् भगवान् आह। तेन हि न क्षमति जतु-मट्ठकं। जतु-मट्ठक-प्रतिसंयुक्तं। जतु-मट्ठकं नाम जतुस्य वा लोहस्य वा त्रपुस्य वा नाग्रस्य वा हार-कूटस्य वा दन्तस्य वा चोडकस्य वा मृत्तिकाय वा अङ्गजातकाकारं कृत्वा स्वे अङ्गजाते प्रवेशेति तेन च काम -रागं विनोदेति थुल्ऽ अच्चयम् आसादयति। इदम् उच्यते जतु-मट्ठक-प्रतिसंयुक्तं॥२॥

भिक्षुणी-प्रकीर्णक १३, १४

धोवना-प्रतिसंयुक्तं
प्रवेशना-प्रतिसंयुक्तं

२६७. भगवान् श्रावस्तीयम् विहरति। अथ खलु महाप्रजापती गौतमी येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि। एकान्त-स्थिता महाप्रजापती गौतमी भगवन्तं याचति। भगवन्तं वन्दित्वा [आह]। मातृग्रामस्य भगवन् अङ्गजातं दुर्गन्धं उपवायति। लभ्यं। भगवन् धोवितुं। भगवान् आह। लभ्या। तायो दानि भिक्षुणीयो बाहिरबाहिरेण धोवन्ति तथैव दुर्गन्धं वायति। एतं प्रकरणं महाप्रजापती गौतमी भगवन्तं पृच्छति। लभ्या भगवन् प्रवेशिय धोवितुं। भगवान् आह। लभ्या धोवना-प्रतिसंयुक्तं प्रवेशना-प्रतिसंयुक्तं। भिक्षुणीय धोवन्तीय एकम् अङ्गुलि-वेठकं प्रवेशयित्वा धोवितव्यं। न क्षमति अति-दूरं प्रवेशयितुं। अतिदूरं प्रवेशेति तेन च कामरागं विनोदेति थूल्ऽ अच्चयम् आसादयति। इदम् उच्यते धोवना-प्रतिसंयुक्तं प्रवेशना-प्रतिसंयुक्तं॥ ण्क॥

भिक्षुणि-प्रकीर्णक १५, १६, १७

आनिचोलक-प्रतिसंयुक्तं

२६८. भगवान् श्रावस्तीयम् विहरति। तासान् दानि भिक्षुणीनाम् अनुमासं अनुमासं ऋतुर् आगच्छति। लोहितं शय्यासनं नाशीयति। एतं प्रकरणं महाप्रजापती गौतमी भगवतो आरोचेति। लभ्या भगवन् शयनासन-गुप्त्य्-अर्थं आनीचोलं धारयितुं। भगवान् आह। लभ्यं आनीचोलक-प्रतिसंयुक्तं। यस्या एष ऋतुर् आगच्छति शोणितं स्रवति तया आनीचोलकं धारयितव्यं। लेंटक-खण्डानि। नापि क्षमति गाढं नापि क्षमति अतिदूरं प्रवेशयितुं यथा तेनैव काम-रागम् विनोदयेत्। अथ खलु प्रशिथिलं व्रणमुखस्य प्रवेशयितव्यं। सा एषा भिक्षुणी अतिदूरम् वा प्रवेशेति गाढम् वा प्रवेशेति यथा तेनैव काम-रागम् विन्दोदेति स्थूल्ऽ अच्चयम् आसादयति। इदम् उच्यते आनीचोलक-प्रतिसंयुक्तं॥ तृ॥

भिक्षुणी-प्रकीर्णक १६

स्त्री-तीर्थ-प्रतिसंयुक्तं

२६९. भगवान् श्रावस्तीयम् विहरति। तायो दानि भिक्षुणीयो स्त्री-तीर्थे आनीचोलं धोवन्ति। स्त्रियो दानि ओज्झायन्ति। सर्वम् इदम् तीर्थं रुधिरेण विट्टालितं। एतं प्रकरणं। पेयालं। यावद् भगवान् आह। तेन हि न क्षमति स्त्रि-तीर्थे आनीचोलकं धोवितुं। स्त्री-तीर्थ-प्रतिसंयुक्तं। सा एषा भिक्षुणी आनीचोलकं स्त्री-तीर्थे धोवति विनयातिक्रमम् आसादयति। इदम् उच्यते स्त्री-तीर्थ-प्रतिसंयुक्तं॥ फु॥

भिक्षुणी-प्रकीर्णक १७

पुरुष-तीर्थ-प्रतिसंयुक्तं

२७०.भगवान् श्रावस्तीयम् विहरति। भगवता शिक्षा-पदं प्रज्ञप्तं। न क्षमति स्त्री-तीर्थे आनीचोलकं धोवितुं। तायो दानि भिक्षुणीयो पुरुष-तीर्थे आनीचोलकं धोवन्ति। पेयालं। यावत् सा एषा भिक्षुणी आनीचोलकं पुरुष-तीर्थे धोवति विनयातिक्रमम् आसादयति। इदम् [उच्यते] पुरुष-तीर्थ-प्रतिसंयुक्तं॥ ग्रा॥

भिक्षुणी-प्रकीर्णक १८

रजक-तीर्थ-प्रतिसंयुक्तं

२७१. भगवान् श्रावस्तीयम् विहरति। एवम् एव रजक-तीर्थे कर्तव्यं। भगवान् आह। तेन हि न क्षमति रजक-तीर्थे धोवितुं। अथ खु कुण्डालके वा कटाहके वा मल्लके वा दकानके वा उदकं गृह्य एकान्ते धोवितव्यं। यहिं पर्यादानं गच्छेय। अथ दानि बाहिरोदकं भवति यहिं निर्वाहो तहिन् धोवितव्यं। तानि लेण्टकानि शोषयितव्यानि यदा पुनो ऋतु नागच्छति तदा पुनो दातव्यानि। सा एषा भिक्षुणी रजक-तीर्थे आनीचोलं धोवति विनयातिक्रमम् आसादयति। इदम् उच्यते रजक-तीर्थ-प्रतिसंयुक्तं॥ ह्रा॥

भिक्षुणी-प्रकीर्णक १९

उदक-धारा-प्रतिसंयुक्तं

२७२. भगवान् श्रावस्तीयम् विहरति। अपराय दानि भिक्षुणीय रक्त-चित्ताय अङ्गजातं उदके धारितं। तस्याशुचिर् मुक्तं। ताये दानि कौकृत्यं। कौकृत्येन भिक्षुणीनाम् आरोचयति। यावद् भगवान् आह। सा एषा भिक्षुणी उदक-धारायाम् वा कुण्डिक-धारायाम् वा उदकचोडेन वा आलुक-वेण्टिकायाम् वा प्रणाल्याम् वा अङ्गजातं धारेति तेन च काम-रागं विनोदेति थूल्ऽ-अच्चयम् आसादयति। अथ दानि स्नायति तडागे वा प्रस्रवणे वा प्रणालियम् वा न दानि अग्रतो उदकधारां कृत्वा स्नायितव्यं यथा पृष्ठीय वा शीर्षेण वा उदक-धारां प्रतिच्छेय तथा स्नायितव्यं। सा एषा भिक्षुणी अग्रतो -मुखां उदक-धारां कृत्वा स्नायति ताय च काम-रागं विनोदेति थूल्ऽ-अच्चयम् आसादयति। इदं उच्यते उदक-धारा-प्रतिसंयुक्तं॥०॥

भिक्षुणि-परिकीर्णक २०

उदक-स्रोत-प्रतिसंयुक्तं

२७३. भगवान् श्रावस्तीयम् विहरति। अपराय दानि भिक्षुणीय रक्त-चित्ताय उदक-स्रोते अङ्गजातं धारितं। ताये अशुचिर् आगतो यथा उदक-धाराय यावत्। तेन हि न क्षमति उदक-स्रोते अङ्गजातं धारयितुं। उदक-स्रोत-प्रतिसंयुक्तं। या दानि तायो भवन्ति गिरि-नदीयो शीघ्र-स्रोतायो तहिं अङ्गजातं धारेति तेन च काम-रागं विनोदेति थूल्ऽ अच्च्यम् आसादयति। अथ दानि स्नायति न क्षमति अग्रतो-मुखं स्रोतं कृत्वा स्नायितुं पृष्ठतो-मुखं स्रोतं कृत्वा स्नायितव्यं। सा एषा भिक्षुणी अग्रतो-मुखं स्रोतं कृत्वा स्नायति विनयातिक्रमम् आसादयति। इदम् उच्यते उदक-[स्रोत]प्रतिसंयुक्तं॥ ळ्॥

॥ द्वितीयो वर्गः॥

भिक्षुणी-प्रकीर्णक २१

विकृति-प्रतिसंयुक्तं

२७४. भगवान् श्रावस्तीयम् विहरति। तायो दानि भिक्षुणीयो नाना-प्रकारेहि मोचयन्ति मूलकेन पलाण्डू-केबुकाये सोभञ्जनकेन लतिकाय। एतं प्रकरणं यावद् भगवन्। भगवान् आह। तेन हि न क्षमति विकृतीहि मोचयितुं। विकृति-प्रतिसंयुक्तं। सा एषा भिक्षुणी मूलकेन वा पलाण्डूय वा केबुकाय वा सोभञ्जनकेन वा लतिकाय वा इल्लादुकाय वा त्रपुसेन वा अल्लाबूय वा कक्षारुकेन वा अन्येन वा पुन केनचिन् मोचयति तेन च काम-रागं विनोदेति थूल्ऽ अच्चयम् आसादयति। इदम् उच्यते विकृति-प्रतिसंयुक्तं॥

भिक्षुणी-प्रकीर्णक २२

कर्म-प्रतिसंयुक्तं

२७५. भगवान् श्रावस्तीयम् विहरति। अपरस्य दानि भिक्षुस्य उत्क्षेपनीयं कर्म क्रियते। तहिं नास्ति कोचि परिकुशलो कर्म-कारको। भिक्षुणीय कर्म कृतं। ताये दानि कौकृत्यं। किन् नु खलु लभ्या एतं कर्तुं उताहो न लभ्यं। कौकृत्येन भिक्षुणी[ना]म् आरोचयति। भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् भगवान् आह। अग्र-परिषा एषा। न क्षमति भिक्षुणीय भिक्षुस्य कर्म कर्तुं। कर्म-प्रतिसंयुक्तं न क्षमति भिक्षुणीय भिक्षुस्य कर्म कर्तुं (!)। अथ दानि न कोचित् परिकुशलो कर्म-कारको भवति लभ्यं भिक्षुणीये भिक्षुस्य उद्देशितुं। अथ दानि कर्म-करेन्तस्य विस्मरति लभ्या भिक्षुणीय अनुप्रदातुं। सा एषा भिक्षुणी भिक्षुस्य कर्म करोति विनयातिक्रमः। किञ्चापि भिक्षुः भिक्षुणीये कर्म करोति अन्-आपत्तिः। इदम् उच्यते कर्म-प्रतिसंयुक्तं॥

भिक्षुणी-प्रकीर्णक २३

कौशेय-प्रतिसंयुक्तं

२७६. भगवान् श्रावस्तीयम् विहरति। भद्रा दानि कापिलेयी कौशेय-चीवरेण प्रावृता ज्ञाति-कुलं गच्छति स्थूल-वृषितो देवो ओवृष्टो कौशेय-चीवरमोवृष्टं कायेश्लिष्टं स्फटिक-प्रत्युष्टो विय कायोदृश्यति जनो सन्निपातितो भद्राये अङ्ग-यष्टिं पश्यितु-कामो। सा दानि उत्कुटुका उपविष्टा अन्तेवासिनीहि परिवृता। एतं प्रकरणं। यावद् आम भगवन्। भगवान् आह। तेन हि न क्षमति कौशेयं। कौशेय-प्रतिसंयुक्तं। कौशेयन् नाम जातिमं कर्त्तिमं च। सा एषा भिक्षुणी जातिमं प्रावरति। देशना-गामी-विनयातिक्रमः। कर्त्तिमं प्रावरति सम्वर-गामी-विनयातिक्रमः किञ्चापि भिक्षुर् उभयं प्रावरति अन्-आपत्तिः। इदम् उच्यते कौशेय-प्रतिसंयुक्तं॥३॥

भिक्षुणि-प्रकीर्णक २४

गण्ड-प्रतिच्छादन-प्रतिसंयुक्तं

२७७. भगवान् श्रावस्तीयम् विहरति। स्थूलनन्दा नाम भिक्षुणी विहारस्याकाश-तलके एक-संकक्षिकाय चंक्रमति। ताये दानि। स्तनावड्डाश् चंक्रमन्तीय उत्पतन्ति। जनेन उच्चग्घायति पश्यथ भणे श्रमणिका अलाबु-तुम्बकेन विय नदीं तरतीति। एतं प्रकरणं भिक्षुणीहि श्रुतं। पेयालं। यावद् भगवान् आह। तेन हि गण्ड-प्रतिच्छादनन् नाम कर्तव्यं। गण्ड-प्रतिच्छादन-प्रतिसंयुक्तं। संकक्षिकाये उपरिटो ओसारयितव्यो यथा गण्डा प्रतिच्छन्ना भवेंसुः सा एषा भिक्षुणी गण्ड-प्रतिच्छादनं पटं न प्रावरति विनयातिक्रमम् आसादयति। न दानि क्षमति प्राकटे प्रदेशे एक-संकक्षिकाय आसादयति। न दानि क्षमति प्राकते प्रदेशे एक-संकक्षिकाय चंक्रमितुं। अथ दानि विहारस्य गुप्ते प्रदेशे चंक्रमति [एक] संकक्षिकाय अनापत्तिः। इदम् उच्यते गण्ड-प्रतिच्छादन-प्रतिसंयुक्तं॥

भिक्षुणी-प्रकीर्णक २५

स्त्री-अलंकार-प्रतिसंयुक्तं

२७८. भगवान् श्रावस्तीयम् विहरति। तायो दानि शाकिय-कन्यायो महा-कुलेहि प्रव्रजिताः। अभिज्ञायो अलं-करितुं।

या दानि कुमारियो वुह्यन्ति नव-वधुकायो वा आनीयन्ति तायो अलंकरेन्ति गृहेण गृहन् नीयन्ति। अलंकरितुं खज्ज-भोज्जं लभन्ति तेन वृत्तिं कल्पेन्ति। जनो दानि ओज्झायति। नेयं प्रव्रज्या अलंकारिका एताः। एतं प्रकरणं भिक्षुणीहि श्रुतं। पेयालं यावद् भगवान् आह। तेन हि न क्षमति अलंकर्तुं। स्त्री-अलंकार-प्रतिसंयुक्तं। सा एषा भिक्षुणी शीर्षम् वा प्रसाधेति अक्षिणी वा अञ्जेति चूर्णकेन वा मुखं ओचूर्णेति तेन च जीविकां कल्पेति विनयातिक्रमम् आसादयति। अथ दानि अक्षिणी-दुःखम् ति शिरो-वेदना वा भवति। अर्धावभेदका वा लभ्या अक्षिणी अञ्जयितुं शीर्षम् वा मार्जयितुं। इदम् उच्यते [स्त्री]-अलंकार-प्रतिसंयुक्तं॥तृ॥

भिक्षुणी -प्रकीर्णक २६

उत्पल-वापक-प्रतिसंयुक्तं

२७९. भगवान् श्रावस्तीयम् विहरति। तायो दानि शाकिय-कन्यायो कोलित-कन्यायो मल्ल-कन्यायो महा-कुल प्रव्रजितायो उत्पलानि वापेन्ति विक्रीणन्ति च। तेन च जीविकां कल्पयन्ति। जनो दानि ओज्झायति। नेयं प्रव्रज्या उत्पल-वापिका इयं। एतम् प्रकरणं यावत् पेयालं। यावद् भगवान् आह। तेन हि न क्षमति उत्पलानि वापयितुं उत्पल-वापकप्रतिसम्युक्तं। सा एषा भिक्षुणी वापेति विक्रीणाति च तेन च जीविकां कल्पेति विनयातिक्रमम् आसादयति। अथ दानि चैत्यार्थाय वापेति भगवतः पूजा-कर्माय वापेति अन्-आपत्तिः। इदम् उच्यते उत्पल-वापक-प्रतिसंयुक्तं॥

भिक्षुणी-प्रकीर्णक २७

सुमना-वापना-प्रतिसंयुक्तं

२८०. भगवान् श्रावस्तीयम् विहरति। एवम् एव सुमना-वापनाय कर्तव्यं यावत् इदम् उच्यते सुमना-वापना-प्रतिसंयुक्तं॥ग्रा॥

भिक्षुणी-प्रकीर्णक २८

उत्पल-ग्रन्थिका प्रतिसंयुक्तं

२८१. भगवान् श्रावस्तीयम् विहरति। भगवता दानि शिक्षापदं प्रज्ञप्तं। न क्षमति सुमनां वापयितुम् ति। तायो दानि शाकियकन्यायो कोलित-कन्यायो मल्ल-कन्यायो लिच्छविकन्यायो उत्पलानि ग्रन्थयित्वा विक्रीणन्ति। जनो दानि ओज्झायति। नेयं प्रव्रज्या कारिका इयं। एतं प्रकरणं भिक्षुणीहि श्रुतं। पेयालं। यावद् आम भगवन्। भगवान् आह। तेन हि न क्षमति उत्पलानि ग्रन्थयितुं। उत्पल-ग्रन्थिका-प्रतिसंयुक्तं। सा एषा भिक्षुणी उत्पल-दामाम् वामल्लिका-दामाम् वा आरङ्गण-दामाम् वा कृत्वा विक्रीणन्ति। तेन च जीविकां कल्पयन्ति विनयातिक्रमः। अथ दानि माल्योपहारो भवति जातिमहा वा बोधि-महा वा धर्म-चक्र-महा वा आनन्द-महा वा राहुल-महा वा पञ्चवार्षिका वा। महा-पञ्च-वार्षिका। जनो दानि आह। आर्यमिश्रिकाहि शोभापयितव्यं। किञ्चापि भिक्षुणी -म्-उत्पल-मालाम् वा मल्लिका-मालाम् वा आरङ्गण-मालाम् वा ग्रन्थयत्य् अन्-आपत्तिः। इदम् उच्यते उत्पल-ग्रन्थिका-प्रतिसंयुक्तं॥ ह्र॥

भिक्षुणी प्रकीर्णक २९

सुमना-ग्रन्थिका-प्रतिसंयुक्तं

एवम् एव सुमना-ग्रन्थिकाय नाना-करणं ग्रन्थि-गुणं वा माला-गुणम् वा पुष्प-कञ्चुकम् वा कृत्वा विक्रीणाति। तेन जीविकां कल्पयति विनयातिक्रमः। इदम् उच्यते सुमना-ग्रन्थिका-प्रतिसंयुक्तं॥ ०॥

भिक्षुणी-प्रकीर्णक ३०

कर्तना-प्रतिसंयुक्तं

२८२. भगवान् श्रावस्तीयम् विहरति। तायो दानि भिक्षुणीयो शाकिय-कन्यायो यावन् महा-कुल-प्रव्रजितायो संज्ञिकाः सूत्रं कर्तयित्वा विक्रीणन्ति। जनो दानि ओज्झायति। नेयं प्रव्रज्या पिचु-कारिका इयं। एतं प्रकरणं भिक्षुणीहि श्रुतं। पेयालं। यावद् भगवान् आह। तेन हि न क्षमति कर्तितुं। कर्तना-प्रतिसंयुक्तं। सा एषा भिक्षुणी कम्बलम् वा कर्पासम् वा क्षौमम् वा कौशेयम् वा शाणम् वा भङ्गम् वा अन्यम् वा कर्तयित्वा विक्रीणाति तेन जीविकां कल्पयति विनयातिक्रमम् आसादयति। अथ दानि भिक्षुणीये चीवरं परिश्रामणं वा क्षीनं वा भवति लभ्यं सी

भिक्षुणी-प्रकीर्णक ३१

आचार-विकोपना-प्रतिसंयुक्तं

२८३. मनास्मि। ब्रह्मचर्यातो च्याविता। आह। केन। आह। सो मे देवरो परिपातेति। सो मे नयितु-कामो। आह। उपविश माता याहि। वयं ते रक्षिष्यामः सा दान् आह गमिष्यामि आर्याये मूलं आर्या मे रक्षिष्यति। ताहि ताये नूपुराणि आबद्धानि कर्णिका आबद्धा वलयानि आविद्धानि अलंकृता रक्षोपरक्तेहि वस्त्रेहि परिहिता वावागुण्ठिता च। चतुहि पञ्चहि चेटिकाहि परिवृता। सो दानि मनुष्यो तान् द्वारे स्थित्वा अवलोकेति। यां वेलां निष्क्रमिष्यति ततो हं गृह्णीष्यामीति। तेन सा दृष्टा निष्क्रमन्ती। तस्य भवति अर्हति कुटुम्बिक-भार्या एषा। न एषासा सा दानि भिक्षुणी। सा दानि भिक्षुणी उपाश्रयं गता भिक्षुणीहि दृष्टा। आहंसुः। आर्ये इयं सुदिन्ना प्रत्योधावित। आह। नाहं प्रत्योधाविता अपि तु मम देवरो प्रत्योधावयितु-कामो। तस्य भयाद् आरक्षाभिप्राया एवं कृतं। पेयालं यावत् एतद् एव। भगवान् सर्वं पृच्छति। आम् भगवन्। भगवान् आह। एवञ् च नाम त्वं आचारं विकोपयसि। तेन हि न क्षमति आचारं विकोपयितुं। सा एषा भिक्षुणी त्यक्त-मुक्तेन [चित्तेन] आचारं विकोपयति अभिक्षुणी भवति। अथ रक्षाभिप्राया आचारम् विकोपयति विनयातिक्रमः। न च अभिक्षुणी भवति। भिक्षुर् अपि अ-त्यक्त-मुक्तेन चित्तेन रक्षार्थं आचारं विकोपयति अन्-आपत्तिः। इदम् उच्यते आचार-विकोपना-प्रतिसंयुक्तं॥१॥

भिक्षुणी-प्रकीर्णक ३२

पात्र-प्रतिच्छादना-प्रतिसंयुक्तं

२८४. भगवान् श्रावस्तीयम् विहरति। स्थूलनन्दा भिक्षुणी पिण्डचारम् अण्वन्ती। सा दानि अपरं महान्तं कुलं पिण्डाय प्रविष्टा। तंहि स्त्रियाय लोल-गर्भो दारको। सा दान् आह। आर्ये इमं दारकं उज्झेहि। आह। उज्झेतु आर्या। अहं आर्याये किञ्चिद् दास्यामि। आह। नाहम् एनम् उज्झामि। आह। आर्याय अहं एत्तकं चैत्तकं च दास्ये। ताय लुब्धाय उक्तं। इह पात्रे [दे]हि। सा तं प्रतिच्छादयित्वा निष्क्रमति। थेरो दानि महा-काश्यपो पिण्डचारं प्रविष्टो। थेरस्यापि समदानं। या प्रथमा भिक्षा लक्षति तां भिक्षुस्य वा भिक्षुणीये वा प्रतिष्ठाये ति। थेरेण दानि सा दृष्टा। आह। आहर पात्रं। सा संकुसायति प्रतिच्छादेति न दर्शने(ये)ति। थेरो आह। आहर पात्रं। सा महेशाख्येन शास्तृ-कल्पेन थेरेणाभिगर्जिता। ताय दानि भीताय थरथरापन्तीय पात्रं प्रणामितं। थेरेण दृष्टं। आह। हि हीयाय धर्मो। एतं प्रकरणं आयुष्मान् महा-कश्यपो भिक्षुणाम् आरोचयति। भिक्षू भगवतो आरोचयेंसुः। भगवान् आह। शब्दापयथ नन्दां। सा दानि शब्दापिता। एतद् एव पृच्छीयति। यावद् आम भगवन्। भगवान् आह। दुष्कृतन् ते नन्दे नैष धर्मो नैष विनयो यावत्। एवञ् च नाम त्वं पात्रं प्रतिच्छादेसि। तेन हि न क्षमति पात्रं प्रतिच्छादयितुं। पात्र-प्रतिच्छादना-प्रतिसंयुक्तं। न क्षमति भिक्षुणीय प्राकटेन पात्रे[ण] पिण्डाय अटितुं प्रतिच्छादयित्वा अटितव्यं। यदा भिक्षां प्रतिच्छति तदा उग्घाटिय प्रतिच्छितव्यं। यदि भिक्षुं रथ्यायां पश्यति उग्घाटिय उपदर्शयितव्यं। सा एषा भिक्षुणी प्राकटेन पात्रेण अटति विनयातिक्रमम् आसादयति। भिक्षुं दृष्ट्वा न उग्घाटिय दर्शेति विनयातिक्रमम् आसादयति। इदम् उच्यते पात्र-प्रतिच्छादना-प्रतिसंयुक्तं॥

भिक्षुणी-प्रकीर्णक ३३

वर्च-कुटि-प्रतिसंयुक्तं

२८५. भगवान् श्रावस्तीयं विहरति। ता दानि भिक्षुणीयो ओनद्ध-वर्चे वर्च-कुटीये उपविशन्ति। वर्च-कुटीये स्त्रियाय लोल-गर्भो प्रतिक्षिप्तो। चण्डालाश् चित्र-घटकेहि उच्चारं छोरयन्ति। तेहि सो दारको दृष्टो। ते तं दारकं एकायां बाहायां गृहीत्वा ओज्झायन्ति। श्रमणिका वर्च-कुटीयं प्रसूता हि। एतं प्रकरणं भिक्षुणीहि श्रुतं। पेयालं। यावत् तेन हि न क्षमति ओनद्ध-वर्चे उपविशितुं। वर्च-कुटी-प्रतिसंयुक्तं। न दानि क्षमति भिक्षुणीय ओनद्ध-वर्च-कुटिं कारापयितुं। अथ खु विवृत-पादका कारापयितव्या। न क्षमति आगतोदकं कारापयितुं। निः-सीमा कारापयितवया। सा एषा भिक्षुणी ओनद्ध-वर्च-कुटीयं आगतोदकायम् वा उपविशति विनयातिक्रमम् आसादयति। इदम् उच्यते वर्च-कुटी-प्रतिसंयुक्तं॥

भिक्षुणी-प्रकीर्णक ३४

जेन्ताक-प्रतिसंयुक्तं

२८६. भगवान् श्रावस्तीयम् विहरति। ताय दानि भिक्षुणीय शाकिय-कन्यायो लिच्छवि-कन्यायो मल्ल-कन्यायो जेन्ताके स्नायन्ति। कुल-पुत्रकेहि अनुप्रविश्य ब्रह्मचर्यातो च्याविताः। एतं प्रकरणं भिक्षुणीहि श्रुतं। पेयालं। यावत् तेन हि न क्षमति भिक्षुणीये जेन्ताके स्नायितुं। अथ दानि गिलाना भवति लभ्या विहारे स्वेदयित्वा तैलेन अङ्गानि म्रक्षयित्वा स्नायितुं। सा एसा भिक्षुणी जेन्ताके स्नायति विनयातिक्रमम् आसादयति। इदम् उच्यते जेन्ताक-प्रतिसंयुक्तं॥३॥

भिक्षुणी-प्रकीर्णक ३५

आरण्यक-शयनासन-प्रतिसंयुक्तं

२८७. भगवान् श्रावस्तीयम् विहरति। तेन कालेन तेन समयेन भिक्षुणीनाम् आरङ्यकानि शयनासनानि न प्रतिक्षिप्तानि ग्रामान्तिकानि च अकृतानि। तेन खलु पुनः समयेन पञ्च-मात्राणि भिक्षुणी-शतानि महाप्रजापती-प्रमुखानि राजकारामे विहरन्ति। तायो दानि शाकिय-कन्यायो लिच्छवि-कन्यायो कोलित-कन्यायो प्रासादिकायो दर्शनीयायो। तायो दानि कुल-पुत्रकेहि ओचरितायो। तायो पुरिमं यामं प्रहाणम् उपविष्टा। कुल-पुत्रकाश् च अल्लीना ग्रहेष्यामो ति। ताः स्रत्ति वैहायसम् अभ्युद्गताः। ते कुल-पुत्राः प्रत्योसक्किताः। तायो पुनो मध्यम-यामं एवम् पश्चिमं यामं प्रहाणम् उपविष्टाः। कुल-पुत्रकाश् च अल्लीना ग्रहेष्यामो ति। तंहि तदा नीयाः क्षिप्रसमापत्तिकाः। याहि च मिद्धम् अनोक्रान्तं ताः स्रत्ति वैहायसम् अभ्युद्गताः। यावन्त समापत्तिका याहि च मिद्धम् अवक्रान्तं तायो कुल-पुत्रकेहि गृह्य विहेठिताः। एतं प्रकरणं। पेयालं। यावत् तेन हि न क्षमति आरण्यके शयनासने वस्तुं। अथ दानि चातुष्पथिका सर्व-रात्रिका भवति उपासकोपासिका गच्छन्ति लभ्यं वस्तुं। तहिं पि न क्षमति प्रतिगुप्ते प्रदेशे वस्तुं। सा एषा भिक्षुणी आरण्यके शयनासने वासं उपगच्छति वर्षम् वा वसति विनयातिक्रमम् आसादयति। इदम् उच्यते आरण्यक-शयनासन-प्रतिसंयुक्तं॥ तृ॥

भिक्षुणी-प्रकीर्णक ३६-४१

भिक्षुणी-प्रकीर्णक ३६, ३७

२८८. यो भिक्षूणाम् आस्तारो अन्-आस्तारो सो भिक्षुणीनां। [यो भिक्षुणीनां ] आस्तारो अन्-आस्तारो सो भिक्षूणां॥ ग्रा॥

भिक्षुणी-प्रकीर्णक ३८, ३९

यो भिक्षूणाम् उद्धारो अन्-उद्धारो सो भिक्षुणीनां। ग्रा। यो भिक्षुणीनाम् उद्धारो अन्-उद्धारो सो भिक्षूणां॥ ०॥

भिक्षुणी-प्रकीर्णक ४०, ४१

यो भिक्षूणाम् अभिहारो अन्-अभिहारो सो भिक्षुणीनां॥ळ्॥
यो भिक्षुणीनाम् अभिहारो अन्-अभिहारो सो भिक्षूनां॥ळ्॥

॥ चतुर्थो वर्गः॥

भिक्षुणी-प्रकीर्णक ४२-४८

भिक्षुणी-प्रकीर्णक ४२, ४३

२८९. यं भिक्षूणाम् आमिषं अकल्पियं। अकल्पियं तं भिक्षुणीनां॥
यं भिक्षुणीनाम् आमिषं अकल्पियं कल्पियं तम् भिक्षूणां॥२॥

भिक्षुणी-प्रकीर्णक ४४, ४५

लभ्यं भिक्षुस्य भिक्षुणीय प्रतिग्रहयितुं स्थापयित्वा जतरूप-रजतं अग्नि-कल्पियञ् च॥ ३॥

लभ्यं भिक्षुणीये भिक्षूणा प्रतिग्राहापयितुं स्थापयित्वा जातरूपं [रजतं] अग्नि-कल्पियञ् च॥ ण्क॥

भिक्षुणी-प्रकीर्णक ४६

२९०. त्रीणि भिक्षुस्य अभिक्षु-करणानि। कतमानि त्रीणि। त्यक्त-मुक्तेन चित्तेन शिक्षां प्रत्याख्याति [1]। संघो वासति वस्तुस्मिन् नाशेति [2]। स्त्री-लिङ्गम् वा सा प्रादुर्भवति [3]। इमानि त्रीणि भिक्षुष्य अभिक्षु-करणानि। तेन भिक्षुणा भिक्षुणी-विहारं गन्तव्यं। न क्षमति भिक्षुणीनाम् एक-पिटके एके पि विचारे वस्तुं। अथ खु च्छिन्नोपविचारे वस्तव्यं। यदास्य भूयो भिक्षु लिङ्गं प्रादुर्भवति तदा भिक्षु-विहारम् आगन्तव्यं। सा एवास्योपसम्पदा तद् एव वर्षाग्रं॥ तृ॥

भिक्षुणी-प्रकीर्ंअक ४७

त्रीणि भिक्षुणीये अभि[क्षु]णी-करणानि। कतमानि त्रीणि। त्यक्तमुक्तेन चित्तेन आचारं विकोपयति। [1]। संघो वासति वस्तुस्मिन् नाशेति। [2]। पुरुष-लिङ्गं वास्य प्रादुर्भवति [3]। इमानि त्रीणि भिक्षुणीये अभिक्षुणी-करणानि। तथैव यथा भिक्षोः॥ फु॥

भिक्षुणी-प्रकीर्णक ४८,

नास्ति भिक्षुणीये अतिरिक्त-कर्म॥ ग्र॥

भिक्षुणी-प्रकीर्णक ४९

रतन-प्रतिसंयुक्तं

२९१. भगवान् श्रावस्तीयम् विहरति। अपरं दानि कुलं राजकुलेन उपहतं। राज-भटाः परिवारि वारिय रक्षन्ति। स्थूलनन्दा नाम भिक्षुणी पिण्डचारम् अन्वण्टी तंहि प्रविष्टा। सा स्त्री ताम् आह॥ आर्ये इदं कुलं राज-कुलेनोपहतं उत्कच-प्रकचो। इमम् आर्ये निष्क्रामेतु यदि जीवन्तीयो मुच्चिष्यामो अस्माकं भविष्यति आर्याये वृत्तिं दास्यामो आर्याये एतं भविष्यति। ताय तस्याः पात्रं उपनामितं इमंहि देहीति। नाना-काराणां रत्नानां पात्रं पूरयित्वा दिन्नं मुक्तायाः मणीनां स्फोटिकस्य मुसार-गल्वस्य लोहिकायाः। सा दानि प्रतिच्छादयित्वा निष्क्रमति। भटेहि च दृष्टा ते दान् आहंसुः। आहर किम् इदं। सा संकुसायति न दर्शेति। थरथरापन्तीय भीत-भीताय दर्शितं। भिक्षुणीहि श्रुतं। एतं प्रकरणं भिक्षुणीयो महाप्रजापतीये गौतमीये आरोचयेंसुः। यावद् छब्दापिता। तद् एव पृच्छीयति। आह। आम भगवन्। भगवान् आह। तेन हि न क्षमति रतनं प्रतिच्छादयितुं। रतन-प्रतिसंयुक्तं। एतं दानि महान्तं कुलं राज-कुले नोफतम् भवति यावन् न लेख्यं कृतम् भवति। न सारज्यं कृतम् भवति। यदि किञ्चिद् ददन्ति लभ्यं निष्कासयितुं। अथ दानि लेख्यं कृतम् भवति रक्षा वा कृता भवति भटेहि परिवारितम् भवति। आह। इमं गृहं राज-कुलेनोपहतं यदि तावज् जीवन्तीयो मुच्यामः अस्माकं भविष्यति आर्याया एव भविष्यतीति न क्षमति निष्कासयितुं। वक्तव्यं। भगवता शिक्षापदं प्रज्ञप्तं न क्षमति निष्कासयितुं। अथ दान् आह। चैत्यस्य देमः संघस्य वा देमः आर्या[ये] एव देमो ति गृह्णीतव्यं। गृह्णीत्वा न क्षमति प्रतिच्छादयित्वा निष्कासयितुं। प्राकटं कृत्वा निष्कास्यितव्यं। अथ पृच्छीयति कस्येदन् ति चैत्यस्य संघस्य ममेति। यदि मुच्यते नन्दं भद्रं। अथाछिद्यति दातव्यं। सा एषा भिक्षुणी रतन-पूर्ण-पात्रं प्रतिच्छादेति विनयातिक्रमम् आसादयति। इदम् उच्यते रतन-प्रतिसंयुक्तं॥ ह्रा॥

भिक्षुणी-प्रकीर्णक ५०

यथा-वृद्धिकाय

२९२. भगवान् श्रावस्तीयम् विहरति। नदीये अजिरावतीये पारे उभयतो सांघिकं भक्तं। तहिं भिक्षवो गच्छन्ति नावाय। भिक्षुणीयो न लभन्ति अ[भि]रुहितुं। भिक्षू आहंसुः। मा भगिनीयो अ[भि]रु[ह]थ। भगवता शिक्षापदं प्रज्ञप्तम्। न क्षमति भिक्षुस्य भिक्षुणीय सह एक-नावाम् अभिरुहितुं ति। ते दानि भिक्षू ओसरन्तिकाय उत्तरन्ति। एक-भिक्षुणापि नावा पलिगुद्धा भवति द्विहि त्रिहि एवं पलिगुद्धा भवति। यदा ते भिक्षू उत्तरिताः तदा भिक्षुणीयो एक-नावा-परिपूरकेन तारिताः। तासां वर्षाग्रं परिग्राहन्तीनां अकालि-भूतं। अथ खो महाप्रजापती गौतमी सायाह्न-समये परिकिलन्तेहि महा-भूतेहि भगवतो पादवन्दीकां उपसंक्रान्ता। भगवान् जानन्तो येव पृच्छति। केन भे गौतमि परिकिलन्तानि महाभूतानि। अथ महाप्रजापती गौतमी भगवतो तद् एव सर्वम् आरोचेति। भगवान् आह। तेन हि अष्टाहि भिक्षुणीहि यथा-वृद्धिकाय उपवेष्टव्यं। शिष्टाहि यथागतिकाय। एते दानि भवन्ति भक्ता वा तर्पणा वा यवागुपाना वा परं वार्षिका वा महापञ्च-वार्षिका वा अष्टानां भिक्षुणीनां आसनानि स्थापयितव्यानि यथा-वृद्धिकाय। अष्ट वा निर्मुष्टिका हस्ताः प्रतिकृत्य्ऽ एव गन्तव्यं। ता एता भिक्षुणीयो अष्टानाम् आसनानि स्थापयित्वा निषीदन्ति विनयातिक्रमम् आसादयन्ति। तेन भगवान् आह।

अष्टाभिर् भिक्षुणीभिर् यथा-वृद्धिकाय उपवेष्टव्यम् उ शिष्टाभि यथागतिकाय॥ ०॥

॥पञ्चमो वर्गः॥

भिक्षुणी-प्रकीर्णक

(concluding supplement)

२९३. परिवासो[1]। लशुनं [2]। छत्त्रं [3]। यानं [4]। तथैव शस्त्र-कर्माणि [5]। उपानहो [6]। शय्या [7]। निषद्या [8]। नवमं प्रेक्षणं [9]। इमे न[व] पदा प्रकीर्णकातो समुद्धृताः।

सर्वे अन्ये नव पदा अनूना प्रतिषितव्या पुन तहिं। यत्रासि परिवासो सत्त्व-विकृतिन् तहिम् समोदहे। यत्रासि उपानहो वृक्षविकृतिम् तहिं समोदहेत्। यत्रासि लशुनं काष्ठ-विकृतिं तहिं समोदहे। यत्रासि शय्या निर्दिशेत् तहिं पुष्प-विकृतिं। यत्रासि यानं फल-विकृतिं निर्दिशेत् तहिं विज्ञः। यत्रासि सह-निषद्या एकोर्त्तकं तहिं समादिशेत् छत्रं। यत्रासि आपत्तिं तत्र निर्देशेद् विज्ञः। यत्रासि शस्त्र-कर्म निर्दिशेत् तहिं अन्द् आपत्तिः। यत्रासि विशोक-दर्शनं आपत्ति-प्रतिकर्म तत्र निर्दिशेद् विज्ञः। एतावता उद्धाराः प्रकीर्णके ये च ओवृषाः वर्गं सम्-उद्धरिय द्वादशमं। नव पदानि पुनर् एव भिक्षुणीनां प्रकीर्णके सर्वं प्रतिक्षिप्तं भिक्षु-प्रकीर्णकतो वर्गास् त्रयोदश कार्याः। अन्ये च पञ्च वर्गायुतका यथा भिक्षुणी-सूत्रे। आरण्यकं। जेन्ताकं वर्च कठिनं उद्धरित्वा अवशेषा तथैव कार्याः। अभिसमाचारिका धर्माः। तं सर्वं सङ्कले पुन वर्गा अष्टादश प्रकीर्णके स्वयंभुना निर्दिष्टा। भिक्षुणी-सूत्रे उभेसूत्रे संकलेत्वान शिक्षापद-संग्रहो यथा-भूतं। पञ्च-शतानि अनूनानि अपरे च पदा चतुस्त्रिंशत्।

समाप्तं भिक्षुणी-प्रकीर्णकं आर्य-महासांघिकानां लोकोत्तर-वादिनां॥

भिक्षु-प्रकीर्णक १-२३

२९४. प्रकीर्णकोद्दानं। तत्र उपसंपदा [१]। अनुपसम्पदा [२]। उपसम्पाद्यो [३]। अन्-उपसम्पाद्यो [४]। कर्म [५]। कर्म-वस्तु [६]। तर्जनीयं [७]। निघर्षणीयं [८] प्रव्राजनीयं [९]। प्रतिसारणीयं [१०]॥

॥ प्रथमो वर्गः॥

उद्दानं। उत्क्षेपनीयं कर्म [११]। परिवास-दानं [१२]। मानत्व-दानं [१२]। आह्वयनं [१४]। स्थानार्हं कर्म [१५]। अ-स्थानार्हं कर्म [१६]। निषृत-वर्तं [१७]। स्थल-स्थ-वर्तं [१८]। नाना-सम्वास-वर्तं [१९]। पाराजिकाय आपत्तीये [२०]। शिक्षाये [१२]। दिन्न-वर्तं [२२]। तस्य पापेयसिक शमथ [२३]। दिन्न-वर्तं॥

॥ द्वितीयो वर्गः॥

भिक्षु-प्रकिर्णक २४-५४

उद्दानं। चोदना-वस्तु [२४]। कारणा-वस्तु [२५]। नाशना-वस्तु [२६]। नाना-सम्वास-वस्तु [२७]। अर्थ-सामीची [२८]। सम्मुति-प्र[ति]-संयुक्तं [२९]। वस्तु-प्रतिसंयुक्तं [३०]। विहार-वस्तु-प्रतिसंयुक्तं [३१]। नव-कर्मिक-प्रतिसंयुक्तं [३२]। शय्यासन-प्रतिसंयुक्तं [३३]। सामीची-कर्म-प्रतिसंयुक्तं [३४]॥

॥ तृतीयो वर्गः॥

उद्दानं। पोषध-प्रतिसंयुक्तं [३५]। छन्द-दान-प्रतिसंयुक्तं [३६]। पारिशुद्धि-प्रतिसंयुक्तं [३७]। वर्षोपनायिका-प्रतिसंयुक्तं [३८]। प्रवारणा-प्रतिसंयुक्तं [३९]। अस्तारो अनस्तारो [४०]। उद्धारो अन्-उद्धारो [४१] चीवर-प्रतिसंयुक्तं [४२]

॥ चतुर्थो वर्गः॥

उद्दानं। ग्लान-प्रतिसंयुक्तं [४३]। भैषज्य-प्रतिसंयुक्तं [४४]। उपाध्याय-प्रतिसंयुक्तं [४५]। सार्धे-विहारि-प्रतिसंयुक्तं [४६]। आचार्य-प्रतिसंयुक्तं [४७]। अन्तेवासि-प्रतिसंयुक्तं [४८]। श्रामणेर-प्रतिसंयुक्तं [४९]। पात्र-प्रतिसंयुक्तं [५०] यवागुप्रतिसंयुक्तं [५१]। यूप(ष)-प्रतिसंयुक्तं [५२]। पानकप्रतिसंयुक्तं [५३]। सौवीरक-प्रतिसंयुक्तं [५४]।

॥ पञ्चमो वर्गः॥

भिक्षु-प्रकीर्णक ५५-८४

२९५. उद्दानं। अकर्माणि विनीतानि [५५]। अन्तरायिक-प्रतिसंयुक्तं [५६]। अन्-अन्तरायिक-प्रतिसंयुक्तं [५७]। भिक्षुणी-प्रतिसंयुक्तं [५८]। अन्तो-वुस्तं [५९]। अन्तो-पक्वं [६०]। आम-धान्य-प्रतिग्रह-प्रतिषेधः [६१]। आम-मांस-प्रतिग्रह-प्रतिषेधः [६२]। उद्गृहीत-प्रतिगृहीतं [६३]॥

॥ [षष्ठो वर्गः ]॥

उद्दानं॥ गुरु-परिष्कारो [६४]। मृत-परिष्कारो [६५]। उन्मत्तक-सम्मुति-प्रतिसंयुक्तं [६६]। दृष्ट्वा त्रि-कर्म-प्रतिसंयुक्तं [६७]। श्रद्धादेय-विनिपातना-प्रतिसंयुक्तं [६८]। उपानह-प्रतिसंयुक्तं [६९]। पादुक-प्रतिसंयुक्तं [७०]। अष्टन-प्रतिसंयुक्तं [७१]। वृन्त-प्रतिसंयुक्तं [७२]। दण्ड-शिक्य-प्रतिसंयुक्तं [७३]।

॥ सप्तमो वर्गः॥

उद्दानं। लशुन-प्रतिसंयुक्तं [७४]। पात्र-निकुब्जना [७५]। सम्मुति-प्रतिसंयुक्तं [७६]। गन्ठी-पाशक-प्रतिसंयुक्तं [७७]। काय-बन्धन-प्रतिसंयुक्तं [७८]। वीडा-प्रतिसंयुक्तं [७९]। यान-प्रतिसंयुक्तं [८०]। सह-शय्या [८१]। सहनिषद्या [८२]। सह-भोजन [८३]। भक्तोपधान-प्रतिसंयुक्तं [८४]॥

॥ अष्टमो वर्गः॥

भिक्षु-प्रकिर्णक ८५-१२१

उद्दानं। उद्दिश्य कृत-प्रतिसंयुक्तं [८५]। मानुषमांस-प्रतिसंयुक्तं [८६]। चर्म-प्रतिसंयुक्तं [८७] कतक-प्रतिसंयुक्तं [८८]। अञ्जन-प्रतिसम्युक्तं [८९]। अञ्जनी-प्रतिसंयुक्तं [९०]। अञ्जनि-शलाका-प्रतिसंयुक्तं [९१]। छत्र-प्रतिसंयुक्तं [९२]। व्यञ्जन-प्रतिसंयुक्तं [९३]। वाल-वीजनी-प्रतिसंयुक्तं [९४]॥

॥ नवमो वर्गः॥

उद्दानं। शस्त्र-कर्म [९५]। वस्ति-कर्म [९६]। मुण्ड-कर्म [९७]। केशारोपण-प्रतिसंयुक्तं [९८]। नापित-कुंचीर-प्रतिसंयुक्तं [९९]। संघ-भेदः संघ-सामग्री [१००]। पञ्चशतानि नय-संगीतिः [१०१]। सप्त-शतानि नय-संगीतिः [१०२]। विनयसमुत्कर्षो [१०३]॥

॥ दशमो वर्गः॥

२९६. उद्दानं। क्षेपन-प्रतिसंयुक्तं [१०४]। महासमाज-विहरण-प्रतिसम्युक्तं [१०५]। गन्ध-माल्य-प्रतिसंयुक्तं [१०६]। आदर्श-प्रतिसंयुक्तं [१०७]। वृक्षारोहण-प्रतिसंयुक्तं [१०८]। ज्योतिः प्रतिसंयुक्तं [१०९]। कांस-भाजन-प्रतिसंयुक्तं [१०१]। काय-प्रतिसंयुक्तं [१११]। सम्मीली-प्रतिसंयुक्तं [११२]। परिणामना-प्रतिसंयुक्तं [११३]॥

॥ एकादशमो वर्गः॥

उद्दानं। सत्त्व-विकृति-प्रतिसंयुक्तं [११४]। वृक्ष-विकृति-प्रतिसंयुक्तं [११५]। काष्ठ-विकृति-प्रतिसंयुक्तं [११६]। पुष्पविकृति-[प्रति]सम्युक्तं [११७]। फल-विकृति-प्रतिसंयुक्तं [११८]। एकर्तु-विकृति-[प्रति]सम्युक्तं [११९]। आपत्ति-प्रतिसंयुक्तं [१२०]। अनापत्ति-प्रतिसंयुक्तं [१२१]॥

॥ द्वादशमो वर्गः॥

भिक्षु-प्रकीर्णक १२२-१४१

उद्दानं। समथो [१२२]। शमथ-वस्तु [१२३]। दशमो (दमथो) [१२४]। दश(म)थ-वस्तु [१२४]। अनुज्ञात-प्रतिक्षिप्त-प्रतिसंयुक्तं [१२६]। मुख-तैलक-प्रतिसंयुक्तं [१२७]। मुखचूर्णक-प्रतिसंयुक्तं [१२८]। कुच्च-प्रतिसंयुक्तं [१२९]। कंकत प्रतिसंयुक्तं [१३०]। वीजनी-प्रतिसंयुक्तं [१३१]।

॥ त्रयोद[श]मो वर्गः॥

उद्दानं। स्तूप-प्रतिसंयुक्तं [१३२]। स्तूप-वस्तु-प्रतिसंयुक्तं [१३३]। स्तूप-गृह-प्रतिसंयुक्तं [१३४]। स्तूपराम-प्रतिसंयुक्तं [१३५]। स्तूप-पुष्किरिणी-प्रतिसंयुक्तं [१३६]। चेतिय-प्रतिसंयुक्तं [१३७]। चेतियालंकार-प्रतिसंयुक्तं [१३८]। नटनर्तक-प्रतिसंयुक्तं [१३९]। साहरणा-प्रतिसंयुक्तं [१४०]। आपदा-प्रतिसंयुक्तं [१४१]॥

॥ चतुर्दशमो वर्गः॥

भिक्षु-प्रकिर्णक
(End)

वर्गोद्दानं।

उपसम्पदा [१]। वा उत्क्षेपश् [२]। चोदना च [३]। पोषधो [४]। ग्लानश् च [५]। अकर्माणि [६]। गुरुकं [७]। लशुनोद्दिश्य [८, ९]। शस्त्र-कर्म [१०]। च क्षेपः [११]। सत्त्व [१२]। समथः [१३]। स्तूप-वर्गेण पूर्यते [१४]॥

समाप्तो भिक्षु-प्रकीर्णक-विनयः आर्य-महासांघिकानां लोकोत्तर-वादिनां॥

ये धर्मा हेतु-प्रभवा।
हेतुन् तेषान् तथागतो ह्य् अव[द]त्।
तेषाञ् च यो निरोध।
एवंवादी महा-श्रमणः॥

श्रीः॥ श्रीः॥ श्रीः॥ .......थ॥ थ॥ थ........॥

ऽफग्-स्प द्गे-ऽदुन्-फल्-छेन् -पै ऽजिग् र्तेन्-लस् -ऽदस्-पर्-स्म्र-बै द्गे- स्लोङ्-गि ऽदुल्-ब सिल्-बु र्द्ज़ोग्स्-सो॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project