Digital Sanskrit Buddhist Canon

बोधिसत्त्व-प्रातिमोक्ष-सूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Bodhisattva prātimokṣa sūtram
बोधिसत्त्व-प्रातिमोक्ष-सूत्रम्



ॐ नमः सर्व्वबुद्धबोधिसत्त्वेभ्यः। ये च ते बोधिसत्त्वानां त्रयः शीलस्कन्धा उक्ताः। संवर शीलं कुशलधर्म्मसंग्राहकशीलं सत्त्वार्थक्रियाशीलं च तेषु शिक्षितुकामेन गृहिणा वा प्रव्रजितेन वाऽनुत्तरायां सम्यक्संबोधौ कृतप्रणिधानेन सहधार्म्मिकस्य बोधिसत्त्वस्य महापुण्यनिधानस्य वाग् विज्ञप्त्यर्थ ग्रहणावबोधसमर्थस्य पादयोर्न्निपत्याध्येषणा कार्या। तवाहं कुलपुत्रायुष्मन् भदन्तेति वाऽन्तिकात् बोधिसत्त्वशीलसंवरसमादानमाकाङ्क्षाभ्यादातुम्। तदर्हस्यनुपरोधेन मुहूर्त्तमदनुकम्पया दातुं श्रोतुञ्चेति॥ त्रिरेवमध्येष्य एकांसमुत्तराङ्गं कृत्वादशसु दिक्ष्वतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां महाभूमिप्रविष्टानां च बोधिसत्त्वानां सामीचीं कृत्त्वा तेषां गुणानामुखीकृत्य घनरसं चेतःप्रसादं संजनय्य नीचैर्जानुमण्डलेनोत्कुटुकेन वा स्थित्वा तथागतप्रतिमां पुरतः संस्थाप्य संपूज्य पुरस्कृत्यैवं स्याद्वचनीयः।

अनुप्रयच्छ मे कुलपुत्रायुष्मान् भदन्तेति वा बोधिसत्त्वशीलसंवरसमादानमिति।



तत् एकाग्रां स्मृतिमुपस्थाप्य चित्त प्रसादमेवानुवृंहयत। न चिरस्येदानी मेऽक्षयस्याप्रमेयस्य निरुत्तरस्य महापुण्यनिधानस्य प्राप्तिर्भविष्यतीति। एवमेवार्थमनुविचिन्तयता तूष्णीं भवितव्यम्। तेन पुनर्व्विज्ञेन बोधिसत्त्वेन स तथा प्रतिपन्नो बोधिसत्त्वोऽविक्षिप्तेन चेतसा स्थितेन वा निषण्णेन वा एवं स्याद्वचनीयः। शृणु त्वमेवन्नामन् कुलपुत्रायुष्मन् भदन्तेति वा बोधिसत्त्वोऽसि बोधौ च कृतप्रणिधानः। तेन ओमिति प्रतिज्ञातव्यं। स पुनरुत्तरि एवंस्याद्वचनीयः। प्रतीच्छसि त्वमेवन्नामन् कुलपुत्रायुष्मान् भदन्तेति वा बोधिसत्त्वोऽसि बोधौ कृतप्रणिधानो ममान्तिकात् सर्व्वाणि बोधिसत्त्वशिक्षापदानि सर्व्वञ्च बोधिसत्त्वशीलं संवरशीलं कुशलधर्म्मसंग्राहकशीलं सत्त्वार्थक्रियाशीलं च यच्छीलमतीतानां बोधिसत्त्वनामभूत् यानि च शिक्षापदानि। यच्छीलमनागतानाम् बोधिसत्त्वानां भविष्यति यानि च शिक्षापदानि। यच्छीलमेतर्हि दशसु दिक्षु प्रत्युत्पन्नानां बोधिसत्त्वानां भवति यानि च शिक्षापदानि। येषु च शिक्षापदेषु येषु शीलेष्वतीताः सर्व्वबोधिसत्त्वाः शिक्षितवन्तः। अनागताः सर्व्वबोधिसत्त्वाः शिक्षिष्यन्ते। प्रत्युत्पन्नाः सर्व्वबोधिसत्त्वाः शिक्षन्ते। तेन प्रतिगृण्हामीति प्रतिज्ञातव्यं॥ त्रिरेवम्॥



समन्वाहरन्तु मां दशदिग्लोकधानुसन्निपतिता बुद्धा भगवन्तो बोधिसत्त्वाः। समन्वाहरत्वाचार्य्योऽहमेवन्नामा यत्किञ्चित्कायवाङ्मनोभिर्बुद्ध बोधिसत्त्वान् मातापितरौ तदन्यान् वा सत्त्वान् समागम्येहजन्मन्यन्येषु वा जन्मां तरेषु मयापायं कृतं कारितमनुमोदितम् वा तत् सर्व्वमैकध्यमभिसंक्षिप्य पिण्डयित्वा तुलयित्वा सर्व्वबुद्धबोधिसत्त्वानामाचार्य्यस्य चान्तिकेऽग्रया प्रवरया प्रतिदेशनया प्रतिदेशयामि जानन् स्मरन् न प्रतिच्छादयामि॥ त्रिरेवम्॥



सोहमेवंनामा एवंदेशितात्यय इमं दिवसमुपादाय आवोधिमण्डनिषदनात् बुद्धं भगवन्तं महाकारूणिकं सर्व्वज्ञं सर्व्वदर्शिनं सर्व्ववैरभयातीतं महापुरुषमभेद्यकायमनुत्तरकायं धर्म्मकायं शरणं गच्छामि द्विपदानामग्र्यम्॥ सोऽहमेवंनामा एवंदेशितात्यय इमं दिवसमुपादाय आबोधिमण्डदिषदनाद्धर्म शरणं गच्छामि शान्तं विरागाणां प्रवरम्। सोऽहमेवंनामा एवंदेशितात्यय इमं दिवसमुपादाय आबोधिमण्डनिषदनादवैवर्त्तिकबोधिसत्त्वसंघं शरणं गच्छामि गणाणां श्रेष्ठम्॥ त्रिरेवम्॥



सोहमेवंनामा एवंदेशितात्ययस्त्रिशरणगतोऽनन्तसत्त्वधातूत्तारणायाभ्युद्धरणाय संसारदुःखात् परित्राणाय सर्व्वज्ञज्ञाने अनुत्तरे प्रतिष्ठापनाय। यथा ते अतीतानागतप्रत्युत्पन्ना बोधिसत्त्वा बोधिचित्तमुत्पाद्य बुद्धत्वमधिगतवन्तोऽधिगमिष्यन्ति अधिगच्छन्ति च। यथा सर्व्वबुद्धाऽनावरणेन बुद्धज्ञानेन बुद्ध् चक्षुषा जानन्ति पश्यन्ति यथा धर्म्माणां निःस्वभावताम (?) नुजानन्ति। तेन विधिना अहमेवंनामा एवंनाम्न आचार्य्यस्यान्तिकात् सर्व्वबुद्धबोधिसत्त्वानां च पुरतोऽनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादयामि॥ त्रिरेवम्॥



इदं चाहमत्ययदेशनात्रिशरणगमनबोधिचित्तोत्पादजनितं कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयामि यदहं लोके अशरणे अलयने अपरायणेऽद्विपे त्राणं शरणं लयणं परायणं द्वीपो भवेयम्। सर्व्वसत्त्वांश्च भवार्णवादुतीर्णस्तारयेयम्। अपरिनिर्वृताननावरणेन धर्म्मधातुपरिनिर्वाणेन परिनिर्व्वापयेयम्। अनाश्वस्तानाश्वाशयेयम्॥ त्रिरपि॥



सोहमेवंनामा एवमुत्पादितबोधिचित्तोऽनन्तसत्त्वधातुं यथा मातापितृभगिनीभ्रातृपुत्रदुहित्रन्यतमान्यतमज्ञातिसालोहितस्थानीयांस्तथा प्रतिगृण्हामि। प्रतिगृह्य च यथाशक्ति यथाबलम् यथाज्ञानं कुशलमूलं समारोपयामि। इतः प्रभृति यत्किञ्चित् दानं दास्यामि शीलं रक्षिष्यामि क्षांति संपादयिष्यामि वीर्यमारभ्य ध्यानं समापत्स्ये प्रज्ञया व्यवचार्य्य उपायकौशल्यं वा शिक्षिष्ये तत् सर्व्वसत्त्वानामर्थाय हिताय सुखाय॥



उत्तरां च सम्यक्संबोधिमारभ्य तेषां महाभूमिप्रविष्टानां बोधिसत्त्वानां महाकारुणिकाणां महायाने सामिचीमनुप्रव्रजामि। अनुप्रव्रज्य बोधिसत्त्वोऽहं बोधिसत्त्व इति मामितः प्रभृत्याचार्य्यो धारयतु॥ त्रिरेवम्॥



ततस्तेनाचार्य्येण तस्याः प्रतिमायाः पुरतो दशसु दिक्षु बुद्धबोधिसत्त्वानां तिष्ठतां ध्रियतां यापयतां पादयोर्न्निपत्य सामिचीं कृत्वा एवमारोचयितव्यम्। गृहीतमनेनैवंनाम्ना बोधिसत्त्वेन ममैवंनाम्नो बोधिसत्त्वस्यान्तिकात् यावत् त्रिरपि बोधिसत्वशीलसंवरसमादानम्। सोहमेवंनामा बोधिसत्त्व आत्मानं साक्षिभूतं प्रजानन् अस्यैवंनाम्नो बोधिसत्त्वस्य परमार्य्याणां विपरोक्षाणामपि सर्वत्र सर्व्वसत्त्वानां विपरोक्षबुद्धीनां दशदिक्ष्वनन्तापर्य्यन्तेषु लोकधातुष्वारोचयामि। अस्मिन् बोधिसत्त्वशीलसंवरसमादानम्॥ त्रिरेवम्॥



एवं पुनः शीलसंवरसमादानकर्म्मसमाप्त्यनन्तरं धर्म्मता खल्वेषा यद् दशसु दिक्ष्वनन्तापर्य्यन्तेसु लोकधातुषु तथागतानां तिष्ठतां ध्रियतां यापयतां महाभूमिप्रविष्टानां च बोधिसत्त्वानां तद्रुपं निमित्तम् प्रादुर्भवति येन तेषामेवं भवति। एवंनाम्ना बोधिसत्त्वेन एवंनाम्नो बोधिसत्त्वस्यान्तिकात् बोधिसत्त्वशीलसंवर समादानं समात्तमिति॥ एवं तावत् परतः समादानविधिरुक्तः॥



यदि तैर्गुणैर्युक्तः पुद्गलो न सन्निहितः स्यात् ततो बोधिसत्त्वेन तथागतप्रतिमायाः पुरतः स्वयमपि बोधिसत्त्वशीलसंवरसमादाने वचनीयम्। एवं च करणीयम्। एकांसमुत्तरासङ्गं कृत्वा दशसु दिक्ष्वतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां महाभूमिप्रविष्टानां च बोधिसत्त्वानां सामीचीं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य उत्कुटुकेन वा इदम् स्याद्वचनीयम्। अहमेवंनामा दशसु दिक्षु सर्वतथागतान् महाभूमिप्रविष्टांश्च बोधिसत्त्वान् विज्ञापयामि। तेषां पुरतः सर्व्वाणि बोधिसत्वशिक्षापदानि सर्व्वं च बोधिसत्त्वशीलं समाददे। यच्छीलमित्यादि पूर्व्ववत् यावत् बोधिसत्त्वो बोधिसत्त्व इति। मामितः प्रभृति बुद्ध भगवन्तो बोधिसत्त्वाश्च धारयन्त्विति विज्ञप्तिः॥0॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project