Digital Sanskrit Buddhist Canon

कर्मविभङ्गोपदेशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Karmavibhaṅgopadeśaḥ

कर्मविभङ्गोपदेशः।



शङ्खक्षीरमृणालकुमुदप्रस्मेरहारप्रभैः

सौवर्णागरुधूपदुर्दिनतलैश्चञ्चत्पताकाधरैः।

श्लाध्यैर्धातुवरैधरनिभैर्(भूर्यस्य) संभूषिता

तं वन्दे सुरनागयक्षमुकुटाव्याघृष्टपादं मुनिम्॥

जयतु सद्धर्मः। इत्याह भिक्षा श्रुतसोमा।

अस्ति कर्म अल्पायुःसंवर्तनीयम्। अस्ति कर्म अल्पायुःसंवर्तनीयमिति कर्मगतिर्यथान्यायं विस्तरेण विभक्ताः। दशानुशंसाः प्रव्रज्यारण्यकत्वे भैक्ष्यचर्यायाम्। दश वैशारद्यानीति। सर्वे कामगुणा यथान्यायं युक्ताः। दशानुशंसास्तथागतचैत्याञ्जलिकर्मगन्धपुष्पच्छत्राणाम्। कथं दशानुशंसाः ? ननु भगवता सूत्रमुक्तमेकोत्तरिके-यावन्तो भिक्षवः सत्त्वा अपदा वा द्विपदा वा चतुष्पदा वा बहुपदा वा, तथागतस्तेषां सत्त्वानामग्रत आख्यायते यदिदमर्हन् सम्यक्संबुद्धः इति विस्तरः। गाथा चोक्ता -

एवमचिन्तियो बुद्धो बुद्धधर्मेऽप्यचिन्तियः।

यदि धर्मो न्वचिन्त्यो बुद्धोऽप्यचिन्त्यो

अचिन्त्यप्रसन्नस्य विपाकोऽपि अचिन्तियः।

कथं दश गुणाः पुष्पच्छत्रादीनाम् ? उच्यते। एवमेतद्यथासूत्रमुक्तम्, तथैव तन्नान्यथा। ये बुद्धे श्रद्दधन्ति, धर्मे चापि, संघे च प्रतिपन्नाः, तेषामचिन्त्यप्रसन्नस्य विपाकोऽप्यचिन्त्यः। ये तु मिथ्यादर्शनोपहतचित्ताः, यथा-बुद्धस्य परिनिर्वृतस्य स्तूपे दत्तस्य फलं कुतः ? यस्मान्नास्ति प्रतिग्राह इति, तेषां विपरीतदृष्टीनाम्। भगवानाह-देशेमे गुणाश्छत्रादीनाम्। अनेनापि तावत्सुखेन पुण्यानि कुर्वन्तु। तत्तेषां भविष्यति दीर्घरात्रं हिताय सुखाय। अपि च सर्वेऽपि गुणा एतेष्वेवान्तर्गताः उच्यन्ते। कथं पुनर्भगवति कृतः प्रसादोऽचिन्त्य इति ? उच्यते। यथा अत्रैव कर्मविभङ्गे उक्तम्, एवमन्येषु सूत्रान्तेषु। अपि तु मन्दबुद्धीनामर्थाय पुनरुक्तं क्रियते। यथा कर्णेसुमनःप्रभृतीनां स्थविराणाम् -

एकपुष्पप्रदानेन अशीतिकल्पकोटयः।

इदं अश्रद्धानीयम्। एवमचिन्त्यो विपाकः। तथा अशोकप्रभृतीनां पांशुदानेन चक्रवर्तिराज्यं स्रोतापत्तिफलं (च) इदमचिन्त्यमश्रद्धेयं च। तथा च अनिरुद्धप्रभृतीनां चैकपिण्डपातप्रदानेन चक्रवर्तिराज्यं सप्त देवराज्यानि पश्चिमे च भवेऽर्हत्त्वं च प्राप्तम्। एवमादीनि च बहूनि वक्तव्यानि। अपि च। एकेनाचिन्तनीयेन सर्वमाक्राम्यति। यथोक्तं भगवता अभिधर्मे बालकाण्डसूत्रे-एकचित्तप्रसादस्य विपाको वर्णितः-यदि आनन्द संसारे संसरतः एकचित्तप्रसादस्य विपाकेन सप्तकृत्वः परनिर्मित-वशवर्तिषु देवपुत्रो राज्यं कारयति, सप्तकृत्वो निर्माणरतिषु। सप्तकृत्वः सुखितेषु। सप्तकृत्वो यामेषु देवेषु भूत्वा राज्यं कारयति। षट् त्रिंशदिन्द्रराज्यानि कारयति। द्वासप्ततिमहाराजिकेषु देवेषु कारयति। चक्रवर्तिराज्यानां कोटिकोटीनां राज्यानि कारयति। यदि न राज्यं तत इदमेकचित्तप्रसादस्य फलम्। अपि च सर्वश्रावकबुद्धेनापि भूयते। यथा दीपंकरेण बुद्धेन दीपमालायाः प्रदानेन बुद्धत्वं प्राप्तम्। इदमप्यश्रद्धानामश्रद्धानीयम्। एवंरूपाणि कर्माणि, यानि लोके न प्रश्रद्दधति। तेषामश्रद्धानां हीनाधिमुक्तिकानां भगवानाह-दशेमे गुणाश्चैत्यवन्दनायाश्च। विस्तरः। गुणपूर्णानां तु बुद्धमाहात्म्यं न केवलमग्रतासूत्रे। उक्तं च यथा ब्राह्मणसूत्रे-अग्रोऽहं हि ब्राह्मणश्रेष्ठो लोके। इति सूत्रं योज्यम्। यथा च भगवान् कोटुस्य महर्षेः शेलस्य च तापसस्य विनयार्थमाश्रमं गतः। ताभ्यां च भक्तेन निमन्त्रितः। ताभ्यां च भगवान् ज्ञात्वेदमुदानमुदानीतवान् -

अग्निहोत्रमुखा वेदा गायत्री छन्दसां मुखम्।

राजा मुखं मनुष्याणां नदीनां सागरो मुखम्॥

नक्षत्राणां मुखं आदित्यस्तपतां मुखम्।

पुण्यमाकाङ्क्षमाणानां संबुद्धो यततां मुखम्।

एतद्दर्शयति भगवान्। यथा सर्वेषां यज्ञानां जायमानानामग्निहोत्रं मुखम्। वेदानां गायत्री मुखम्। सर्वेषां पुरुषाणां राजा मुखम्। नदीनां सागरः श्रेष्ठः। नक्षत्राणां चन्द्रमा अग्र्यः। तपतामादित्यः प्रधानः साहस्राणां लोकधातूनामवभासयति। एवं यश्चिन्तयति-अस्मिन्नेकपुरुषे दत्तं महाफलमिति। भगवानाह-संबुद्धो दक्षिणेयानामग्र्य इति। अनेनापि कारणेन भगवानग्र्य। एतत्सूत्रमप्यागमे ब्राह्मणनिपाते विस्तरेण प्रत्यवगन्तव्यम्। यथा च भगवता एतदग्रे दक्षिणाविभङ्गे सूत्र उक्तम्-एतदग्रमानन्द प्रतिपुद्गलिकानां दक्षिणीयानां यदिदं तथागतोऽर्हन् सम्यक्संबुद्धः। एवमग्र्यता भगवतो वक्तव्या। यथा च महासमाजीये परिनिर्वाणादिसूत्रेषु द्वादशयोजनिको देवानां संनिपातः। यथा महाप्रातिहार्येऽकनिष्ठिकादिभिर्देवैः पूजितः। महाप्रातिहार्यं च दृष्ट्वा अनेकानि तीर्थकरशतानि प्रव्रजितानि। यथा च तापसा उरुबिल्वाकाश्यपप्रभृतयः प्रव्रजिताः। परिव्राजकाश्च शारिपुत्रमौद्गल्यायनप्रभृतयः प्रव्रजिताः। ब्राह्मणाश्च ब्रह्मायु(पूरशायिनो) वसिष्ठभारद्वाजप्रभृतयोऽभिप्रसन्नाः। तथा राजानः प्रसेनजिद्बिम्बसारप्रभृतयः, गृहपतयः अनाथपिण्डदघोषिलप्रभृतयः। एवं देवानां येऽग्र्या मनुष्याणां च, तेऽभिप्रसन्ना भगवति। अनेनापि कारणेन भगवान् अग्र्यः। अपि च यथैकोत्तरिकाग्रतासूत्र उक्तम्-अग्रधर्मसमन्वागतो देवभूतमनुष्याग्र्यः प्राप्तः प्रमोदितः। एतदुक्तं भवति-निर्वाणगामी धर्मोऽधिगतः। तेनः कारणेनाग्र्यः। किं कारणं पूर्वमपि बोधिसत्त्वभूतं देवा उपसंक्रान्ताः। यथा गोविन्दसूत्रे, शतवर्गे च तापससूत्रे इन्द्र उपसंक्रान्तः। ननु तदा अग्रधर्मसमन्वागतः, सांप्रतं निर्वाणगामी मार्गोऽधिगतः। तेनाग्र्यः। एवमपि देशिता धर्माः। केचिदाहुः- बुद्धः परिनिर्वृतो मोक्षं प्राप्तः। तस्य यत् स्तूपे दत्तं प्रतिमायां वा धूपपुष्पादिकं कः प्रतिगृह्णातिः ? यदा बुद्धः परिनिर्वृत एवोच्यते। अश्रद्धैतद्वाक्यम्, पुरतो वा पापतरम्, येषां बुद्धशासनसिद्धान्तो न विदितः। य एष धर्मो भगवता दिशतः, एतद्भगवतः शरीरम्। स चाद्य तिष्ठति। तस्मिन्नन्तर्हिते बुद्धः परिनिर्वृतो भविष्यति। यावद्धर्मस्तिष्ठति तावद्बुद्धो न परिनिर्वापयति। किं कारणम् ? धर्मशरीरं भगवतः शरीरं पारमार्थिकम्। तेन धर्मेण यदा देशितेन स्रोतापत्तिफलं प्राप्स्यते,सकृदागामिफलम्, अनागामिफलम्, अनागामिफलं च अर्हत्त्वं (च)। एतदर्थं चास्माकं प्रव्रज्या फलप्राप्तिनिमित्तम्। बुद्धस्तिष्ठति।फलानि प्राप्स्यन्ते। न परिनिर्वृतः। तत्रायं दोषः स्यात्। अस्माकं त्वद्यापि फलानि प्राप्स्यन्ते। न परिनिर्वृतः। तत्रायं दोषः स्यात्। अस्माकं त्वद्यापि फलानि प्राप्यन्ते। आरब्धवीर्याणां न किंचिद् दुष्करम्। बुद्धे तिष्ठमाने कर्तव्यमेतत्सर्वं क्रियते। अनेनापि कारणेन ज्ञेयं धर्मशरीरस्तथागत इति। यथा महापरिनिर्वाणसूत्रे उक्तम्-स्यादेवमानन्द युष्माकं परिनिर्वृतो भगवान्। अद्याग्रे नास्ति शास्तेति। नैतदेवं द्रष्टव्यम्। अद्याग्रे वः आनन्द सूत्रान्तः शास्ता। एवं भगवता सूत्राभिधर्मविनया दत्ताः। अद्याग्रे चैष बुद्धः। एतद्दर्शयति। भगवान्। तथा न किंचिन्मातापितृसंभवेन शरीरेण कार्यं क्रियते। एतद्दर्शयति। यदाहं गृह आवासवसितः, न तदा मया कश्चिद्धर्मोऽभिसंबुद्धः। तस्मान्न मातापितृसंभवं शरीरं बुद्धः। यदा त्वहमेकोनत्रिंशद्वर्षाद्गृहान्निर्गतः, ये दुःखेन धर्ममिच्छन्ति ते दुष्करचर्यया विस्मापिताः। न च मे कश्चिद्दुःखेन धर्मेऽधिगतः। यथा रोमहर्षणीयसूत्रे उक्ताः, तथा प्रत्यवगन्तव्याः। षड्वर्षाणि दुष्करं कृतम्। न च तेन कश्चिद्धर्मोऽधिगतः। पश्चान्मया भोजनं भुक्तं शरीरबलं च प्राप्य वैशाखमासपूर्णपञ्चदश्यां बोधिमूले निषण्णेनानुत्तरा सम्यक्संबोधिः प्राप्ता। वाराणस्यां गत्वा धर्मचक्र प्रवर्तितम्। तेन धर्मेण फलाधिगमः क्रियते। स चा ---- ति। अनेनापि कारणेन धर्मकायास्तथागताः। यथा विनये पाठः। भगवन्तं भगवतो मातृष्वसाह-जीवन्तु भवन्त भग------। यत्तु भगवतोक्तम् ---- न तेऽहं गौतमि पुरेव वक्तव्यः। साह-अथ कथं भगवान् वक्तव्यः ? भगवानाह-एवं वक्तव्यम्-दी(र्घरात्रं भगव) तो धर्मस्तिष्ठतु। एतद्दर्शयति-न मम मातापितृसंभवेन शरीरेण किंचिन्निष्ठा। अतो धर्मशरीरं मे दीर्घरात्रं तिष्ठतु। यानि मया संसारे दुष्करसहस्राणि कृतानि, तान्यतीव धर्मस्यार्थाय। अनेनापि कारणेन य एव भगवतः शरीरं ---। महापरिनिर्वाणसूत्रे उक्तम्-आगता आनन्द देवाः, दिव्यानि च चन्दनचूर्णानि गृह्य, दिव्यानि च मान्दारवाणि पुष्पाणि, दिव्यानि ------ नन्द एवं तथागतः सत्कृतो भवति गुरुकृतो मानितो वा पूजितो वा। यः पुनः कश्चिदानन्द मम शासनेऽप्रमत्तो विहरति, आ ---- कुरुते धर्मं धारयति, तेनाहं सत्कृतो गुरुकृतो मानितः पूजितो भवामि। एतद्दर्शयति। काश्यपस्य सम्यक्संबुद्ध (स्य भिक्षु) भिक्षुणीभिरुपासकोपासिकाभिः। (तं च ) शरीरपूजा कृता, न धर्मो धारितः। यावद्धर्मोऽन्तर्हितः। एवमापूर्यमप्येवं करि------- (अप) चयितव्यः। एतन्मम शरीरम्। एतद्दर्शयतिमयि परिनिर्वृते यत्कर्तव्यम्। धर्मं सत्करिष्यत एवोक्तम्। धर्मकायास्त (थागताः)। महापरिनिवाणे आर्यानन्दः पृच्छति-कथमस्माभिर्भगवति परिनिर्वृते भगवच्छरीरप्रतिपत्तिः कार्या ? भगवानाह-अल्पोत्सुकैर्युष्माभिर्भवितव्यम्। उपासकाः शरीरं यथा ज्ञास्यन्ति, तथा करिष्यन्ति। एतद्दर्शयति-यदेतद्धर्मशरीरम्, एतद्युष्माभिः परिपालितव्यम्। उपासकाबहुव्यग्राः। असमर्थ धर्मधारणं कर्तुम्। अनेन चिरस्थितेनाहं चिरस्थितिको भविष्यामीति। यथा च देवावतारसूत्रे उत्पलवर्णाभिक्षुण्या चक्रवर्तिरूपं निर्माय भगवान् देवलोकावतीर्णः प्रथमं वन्दितः। सा तुष्टा। मया भगवान् प्रथमं वन्दितः। तस्याश्च (-------) तं ज्ञात्वा स्रोतापत्तिफलं प्राप्तम्। एतद्दर्शयति-न मातापितृसंभवेन शरीरेण वर्णितेन वन्दितो भवामि। येन फलं प्राप्तं वन्दितः। एतदर्थमेव च तत्र गाथोक्ताः-

मनुष्यप्रतिलाभेन स्वर्गाणां गमनेन च।

पृथिव्यामेकराज्यं च स्रोतापत्तिफलं परम्॥

अनेनापि कारणेन धर्म एव भगवतः शरीरम्। यथा च बोधिमूलसूत्रे भगवानयोध्यायां विहरति। अथ पश्चिमेषु जनपदेषु द्वौ भिक्षू प्रतिवसतः सखायौ। तौ भगवद्दर्शनाय प्रस्थितौ। महाटव्यां प्रपन्नौ। तृषार्ताभ्यां ताभ्यां पानीयं प्राप्तम्। एकेन तृषितेन पीतम्। द्वितीय आह-नाहं भगवतः शिक्षामतिक्रमिष्यामि। अपरिस्रावं सप्राणकमेतत्पानीयमिति। धर्मश्च भगवतः शरीरम्। तमनुपालयता दृष्ट एव मया भगवान्। स तृषार्तो भगवन्तं नमस्कुर्वन् कालगतः, प्रसन्नचित्तश्च देवेषूपपन्नः। द्वितीयो भिक्षुः सप्रमाणकं पानीयं पीत्वा अनुपूर्वेण बहुभिर्दिवसैर्भगवतः समीपं गतः। स च देवेषूपपन्नो भिक्षुः पूर्वं गतः। येन सप्राणकं पानीयं पीतं तस्य भिक्षोर्भगवता मातापितृसंभवं शरीरं दर्शितम्-एतन्मम शरीरं पश्य। स च देवलोकोपपन्नो भिक्षुर्भगवतोक्तः-दर्शय शरीरं ते। देवपुत्रशरीरं दिव्यं दर्शितम्। स भिक्षुः संविग्नः पृच्छति-भगवन्, किमिदम् ? भगवानाह-य एष देवपुत्रोऽनेन तृष्णार्तेन सप्राणकमुदकं न पीतम्। मया यथोक्ता शिक्षा रक्षिता। एष द्वितीयो मातापितृसंभवं शरीरं द्रष्टुकामः सप्रणाकं पानीयं पीत्वा एतस्य मया मातापितृसंभवं शरीरं दर्शितम्-एतच्छरीरं पश्य। यद्यनेन कश्चिद्गुणो न दृष्टः, तेन च मातापितृसंभवमेतच्छरीरं दृष्टम्, न तेनाहं दृष्टः। एतदर्थमेव गाथोक्ता -

चीवरकर्णकं चेन्निश्राय आक्रमन्ति पदे पदे।

अपराधेन तिष्ठन्ति न ते बुद्धस्य सान्तिके॥

योजनानां सहस्रेषु ये श्रुत्वा न सुभाषितम्।

तदर्थं प्रतिपद्यन्ति ते वै बुद्धस्य सान्तिके॥

यथा च भगवान् धर्मप्रीत्यर्थं नन्दकस्य भिक्षाधर्मश्रावणायोपसंक्रान्तः। यथा चोपस्थापनकसूत्रे उक्तम्-पर्येषत भिक्षवः। उपस्थापयति धर्मं च मे धारयिष्यति। सूत्रं गेयं व्याकरणमितिवृत्तं गाथोदानम्। एवं नवाङ्गशासनं यो मम धारयति, तं मार्गयत। न मातापितृसंभवस्य शरीरस्य उपस्थापकं मार्गयत। किं कारणम् ? यथोक्तं ऋद्धिपादनिपाते मृगारमातुः प्रासादे-एवं भावितेषु भिक्षवस्तथागतश्चतुर्षु ऋद्धिपादेषु कल्पं वा तिष्ठेत् कल्पावशेषं वा। एतद्दर्शयति-न यूयं समर्था मम शरीरं कल्पं वा धारयितुम्। एष तु धर्मो धारयितव्यः। एतन्मम शरीरम्। यथा च महादेवसूत्रे उक्तम्-मा मम भविष्यथ पश्चिम ----। -------- त्मनां यदिदं कौण्डिन्यः। महाप्रज्ञानां सारिपुत्रः। ऋद्धिमतां मौद्गल्यायनः। यावद्दक्षिणेयानां सुभूतिः कुलपुत्रः। एवं सर्वसूत्रं वक्तव्यम्। भिक्षुणीनामग्रतासूत्रे उक्तम्, एवमुपासकानामुपासिकानामग्रतासूत्रे उक्तम्। तथा चतुष्पर्षदसूत्रम् -

भिक्षवः। व्यक्तो विनीतः विशारदः। बहुश्रुतः। धर्मकथिकः। धर्मार्थप्रतिपन्नः संघं शोभयति। भिक्षुणी। उपासकः। उपासिका। भिक्षवः। व्यक्ता विनीता विशारदा बहुश्रुता धार्मिका धर्मार्थप्रतिपन्नाः संघं शोभयन्ति। तदपि सूत्रं वक्तव्यम्। अपि च। एकपुद्गलेऽपि तावच्च अस्माकं वीतरागेऽप्रमेया दक्षिणा। यथोक्तमुग्रसूत्रे-पश्योग्र भिक्षुः चीवरेण प्रावृतेनाप्रमाणं समाधिमुपसंपद्य विहरति। अप्रमेयस्तस्य पुण्यस्य पुण्याभिष्यन्दः। कुशलाभिष्यन्दः सुखस्याहारः। तथा पिण्डपातशयनासनग्लानप्रत्ययभैषज्यं परिभुक्त्वा अप्रमाणं समाधिमुपसंपद्य विहरति। तद्यथोग्र गृहपते संबहुला महानद्य एकीभावं गच्छन्ति । न शक्यं ते उदकं परिसंख्यातुम्। अथ च पुनरप्रमेयोऽसंख्येयो महानुदकस्कन्धः इति संख्यां गच्छन्ति। कतमा महानद्यः ? गङ्गा यमुना सरयू आर्यवती मही। न शक्यं तदुदकं परिसंख्यातुम्। अथ च पुनरप्रमेयोऽसंख्येयो महानुदकस्कन्धः संख्यां गच्छन्ति। एवमेवोग्र पश्य भिक्षुः चीवरं परिभुञ्जन्नप्रमाणं समाधिमुपसंपद्य विहरति। एवं पिण्डपातशयनासनग्लानभैषज्यं परिभुञ्जन्नप्रमाणं समाधिमुपसंपद्य विहरति। अप्रमाणस्तस्य पुण्यस्य पुण्याभिष्यन्दः कुशलाभिष्यन्दः सुखस्याहारः। एवमेव पुद्गलेऽपि तावच्छीलवति अस्माकं दत्तमप्रमेयफलं भवति। तथा आरामदानविहारदानानि। वेलामसूत्रे, दक्षिणासूत्रे विस्तरः प्रत्यवगन्तव्यः। तथा परिनिर्वृतस्य भगवतः स्तूपे कृतायाः पूजाया अप्रमेयो विपाकः। यथोक्तं कर्मविभङ्गे-दशानुशंसास्तथागतपूजायाः। किं कारणम् ? यः कश्चिद्दानपतिः, स महाभोगवत्तां वा प्रार्थयन् दानं ददाति, स्वर्गसुखं वा चिन्तयन्, मोक्षनिमित्तं वा। तच्च सर्वमुक्तम्-यथा महाभोगश्च भवति। स्वर्गेषूपपद्यते। क्षिप्रं च परिनिर्वाति। एवमप्रमेयः स्तूपे कृताधिकारस्य विपाकः। न यथान्येषां वाक्यानां देवदत्तमनेन गृह्णाति। अस्ति कर्म अस्माकं यः स्तूपे दत्तमपहरति, तस्यापरिमाणं पापम्। तेषामुपमानं न तेषां प्रमाणं क्रियते। यत्किंचिदस्मिन् पृथिवीमण्डले सर्वसत्त्वानां हिरण्यसुवर्णं धनधान्यं वस्त्रालंकारादिः, तस्य सर्वस्य यः कश्चिदपहारं करोति, तस्मात्पापात्प्रभूततरं पापं यः स्तूपे दत्तमपहरति। एषोऽस्माकं सिद्धान्तः-यत्स्तूपे दत्तं तत्स्तूपे एव योज्यम्। यत्संघे, तत्संघे एवोपयोज्यम्। एष स्वसिद्धान्तः प्रतिष्ठापितः। यथास्माकं भगवान् तिष्ठति, तस्मिंश्च कृतोऽधिकारोऽप्रमेयविपाकः। कथं पुनर्बाह्या ये देवास्तेषां दत्ते किं पुण्यं फलते ? एवं संप्रतिपन्नाः। बुद्धः परिनिर्वृतः। अस्माकं देवास्तिष्ठन्ति। एवं च ब्रूमः-यस्तिष्ठति यदेव भक्ता वा धूपं वा पुष्पं वा गन्धं वा दीपं वा भोजनं वा वस्त्रं वा अलंकारं वा हिरण्यं वा सुवर्णं वा प्रयच्छन्ति, किमयं हस्तेन हस्तं न प्रतिगृह्णाति ? अथ न प्रतिगृह्णाति, बुद्धस्य तेषां च कः प्रतिविशेषः ? अथ मतम्-देवानां वा अर्चास्तेषां प्रतिकृतयः पूज्यन्ते। अस्मापमपि बुद्धस्य धर्मशरीरं तिष्ठति। गुणाश्च पूज्यन्ते। प्रतिमासु ये धूपं गन्धं पुष्पं प्रतियच्छन्ति। एवं कृतेऽस्माकमेव दत्ते स्तूपेषु पुण्यमस्ति। पूज्यन्ते। यस्मान्न प्रतिगृह्णाति, तस्मान्नास्ति देवाः। अथास्ति देवाः, कस्मान्न प्रतिगृह्णन्ति ? किं कारणम् ? उक्तं भगवता-त्रयाणां समवायेन दक्षिणा महाफला भवति। यदि तावद्दाता भवति, यच्च द्रव्यं दातव्यं हिरण्यसुवर्णादि तच्च भवति, ये दक्षिणीयाः। प्रतिग्राहकाः देवा मनुष्या वा। एवं तेषां त्रयाणामपि समवायैः। न दानप्रतिदानं हस्तेन हस्तं दत्तं महाफलं भवति। यद्यस्त्येव, किं च न प्रतिगृह्णन्ति ? तद्भक्तानाम्। अथ प्रतिगृह्णन्ति, तद्भक्तानाम्। अथ न प्रतिगृह्णन्ति, किं कृत्वा ? अथ युक्तं च भक्तानामेवं क्रोधः कारणम्। अथ तेषां सत्यं नास्माकं देवः क्रुद्ध इति। उच्यते। यदि न क्रुद्धाः, किमर्थं न प्रतिगृह्णन्ति ? तस्मान्नास्ति सः। इदं तृतीयं कारणम्। यच्च तेषां देवानां देवभक्ताः सुवर्णं हिरण्यं वा पादमूले प्रयच्छन्ति, एवं देवस्य को बन्धो वा इति। तद्यदि तस्य धूपेषु पुष्पेषु गन्धेषु वा माल्यकरे वोपयुज्यते। येन तु दत्तं तस्य पुण्यफलमस्ति। अथ तद्द्रव्यमन्यैरेव गृहीतम्, यो दाता तस्य पुण्यफलं नास्ति। ये च गृह्णन्ति वयं देवभक्ता देवपादोपजीविनः। देवो वयं चैकमिति। तेषामदत्तदेवैश्वर्ये देवद्रव्यापहारे किं कारणम् ? देवद्रव्यमन्येन ग्राह्यम्। इह देवस्य समो वा द्रव्यं गृह्येत् प्रतिविशिष्टो वा ? न च देवस्य कश्चित्तुल्यः, प्रागेव विशिष्टतरश्च। ते प्रतिविशिष्टतराः। किं कारणम् ? यस्मात्ते तस्य प्रणिपातं कुर्वन्ति। देवपादे च स्वपन्ति। यदा ते विशिष्टतराः, किमर्थं देवः प्रसाद्यते ? अथ तत्र देवद्रव्यग्रहणे पापं नास्ति, अन्येषामपि तस्कराणां ये चौर्येण जीवन्ति, तद्द्रव्यपरस्वापहारं च कुर्वन्ति, तेषामपि पापं नास्ति। अथ माता पिता पुत्रो राजा भृत्यश्च यथाद्रव्यं यथापैत्र्यं द्रव्यं पुत्रो गृह्णाति। भृत्यो वा राज्ञो द्रव्यं गृह्णाति, तथा वयमपि। एवमप्ययुक्तम्। किं कारणम् ? पुत्रस्य तु पितुर्द्रव्यं गृह्णतो महान् पातकः। अथ मतम्-राजभृत्यवद्द्रव्यमिति। उच्यते। राजा अदत्तानां गृह्णमाणं पुत्रं च पिता च दद्यात् पिता, प्रागेव भृत्यम्। तस्मादस्मदर्थं सोऽयं दृष्टान्तः। यच्चैवं संप्रतिपन्नाः-वयं देवभक्तास्तत्पादोपजीविनश्च, तस्माद्गृह्णीम इति। तच्चायुक्तम्। किं कारणम् ? न च देवभक्तास्ते देवद्रव्यं गृह्णन्ति। अथ गृह्णन्ति, न ते तद्भक्ता भवन्ति। न कश्चिद्भक्तिमान् देवद्रव्यं गृह्णाति। न तेषां देवभक्तिर्भवति। देवद्रव्ये तेषां भक्तिः। न तेषां किंचित्पापं न विद्यते, येऽदत्तं गृह्णन्ति। किं कारणम् ? पूर्वर्षिभिर्मूले छिन्ने तपोवृक्षशाखायां यस्य लुप्तपितृस्नेहस्तस्येतरो जनः। एतदुक्तं भवति-योऽदत्तं देवद्रव्यं गृह्णाति, न तस्य किंचिदकरणीयम्। किं कारणम् ? न ते भक्तिमन्तः। अथ ते भक्तिमन्तः, शत्रवः के ख्यापिता देवस्य ? अथ मतम्-यथा अममास्तेन तेषां द्रव्यं न प्रयोजनम्। उच्यते। अस्ति केषांचिद्देवानां श्रुतिर्यथा देवयज्ञविध्वंसनं पृथिव्या अपहारश्च कृत इति। कस्मात्तेऽममा न भवन्ति ? अस्मादस्माकमेव दत्तं न देवस्य। उच्यते। दानपतिना किमर्थम् ? अस्माकमेव दत्तम्। यस्मादुत्सृज्य देवस्य, तस्मान्न युष्माकं दत्तम्। अथ मतम्-देवस्यैव तुष्टिर्यद्वयं गृह्वीमः। किमर्थं देवेन स दाता नोक्तः-एषां प्रयच्छ, एषां दत्तो ---- भविष्यामीति। यस्माद्दाता देवेन नोक्तः, तैश्च गृहीतम्, तस्माद्दातुः पुण्यफलं नास्ति। ये च गृह्णन्ति तेषामदत्तादानम्। अथ मतम्-देवस्य पुण्ये च ---- तच्चायुक्तम्। किं कारणम् ? यस्माद्देवेन तद् द्रव्यं स्वयमेव गृह्य हस्तेन हस्तं तेषां न प्रतिपादितम्। यथोक्तं भगवता-त्रयाणां समवायेन दक्षिणा महाफला भवत्येवेति। एवं किं न दत्तम् ? एवं चैते विशिष्टाः समानादेव। उच्यते-परद्रव्यापहारमपि करिष्यति। अस्ति च के --- नानापि जीवन्ति। तत्परद्रव्यमशक्तितो न गृह्णन्ति। केचिद्राजादत्तभयात्। एतानि देवानां च देवभक्तानां च देवधर्मस्य प ----- कानि। अद्यापि चात्र भूतं वक्तव्यमेतत्तावद्देवस्य तीर्थयात्रमपि तेषां कः प्रतिगृह्णति। तासां च नदीनां च कूलानि विशालानि पा ---- कालगताः। यत्तीर्थेषु श्रावयन्ति कस्तीर्थयात्रां तेषां प्रतिगृह्णाति ? अथ मतम्-नद्यां स्नायामस्तीर्थमुद्दिश्य अस्या नद्यास्तस्मात्तीर्थ ----- यते। सिद्धोऽस्मत्पक्षः। किं कारणम् ? अस्माकं बुद्धस्य शरीरं तिष्ठति। गुणाः पूज्यन्ते। स्तूपानि च धूपं पुष्पं प्रतिगृह्णन्ति। ---- ता नद्यः पौराणमार्गमुत्सृज्य अनेन पृथिवीप्रदेशेन वहन्ति। ते च ऋषयः कालगताः। तस्मात्तेषां न कश्चित्तीर्थयात्रां प्रतिगृह्णाति। एवंविधमेव ये ऋषीणां ते ब्रह्मर्षिणां पूजाप्रभृतयः। किं कारणम् ? केचित् तत्र संप्रतिपन्नाः। ब्रह्मास्य जातिः। केचिदाकाश्यपीयं पूजाः। केषांचिदीश्वरः कर्ता। अपरे त्वाहुः-प्रजापतिना सृष्टाः प्रजाः। तस्य ब्रह्मणो मुखम्। बाहुस्तु क्षत्रियाः। ऊरुभ्यां वैश्याः। पद्भ्यां शूद्राः। एवं ते संप्रतिपन्नाः। वयं ब्रूमः-पूर्वकालतो देवपरीक्षिता इदं पापतरमश्रोतव्यं च। किं कारणम् ? ये किचन सत्त्वा द्विपदा चतुष्पदा वा, तेषां योनिमुखान्निर्गमः। किं प्राप्तम् ? प्रजापतियोनिचतुष्टयं च प्रथमतः। न भगचतुष्टयम्। मनसा विचिन्त्यैव निर्मिताः। एवं च ---- सर्वे मुखत एव जाताः। कथमेकपुरुषेण वर्णचतुष्टयं जातम् ? यदि च चातुर्वर्ण्यं प्रजापतिना जातम्। एते वर्णाश्चण्डालम्लेच्छ ---- यश्च कुतः प्रादुर्भूताः ? तथा हस्तिगवाश्वादयः। किं कारणम् ? एषामत्र नामग्रहणं न कृतम्। किमर्थं नोक्तम् ? मूर्धातश्च ---- पादतलान्म्लेच्छाः। स्त्रियः पृष्ठतः। हस्तिगवाश्वादीनि पादाङ्गुष्ठाज्जातानि। अथ वा किं नोक्तम्। मूर्धादसुरा जाताः हस्ततः --- ति। यस्मादेतेषां च नामग्रहणं न कृतम्, तेन प्रभूततरा मृगपक्षिप्रभृतयः। यस्मादिदं पूर्वापरविरुद्धम्। यदिदं च ब्राह्मणाः ---- समा। ब्राह्मणस्य प्रथमः पुत्रो ब्राह्मणः। द्वितीयः क्षत्रियः। तृतीयो वैश्यः। चतुर्थः शूद्रः। पञ्चमश्चाण्डालः ----- ततो न्यूनतराः। किं कारणम् ? प्रजापतेः पुत्रचतुष्टयम्। तेषामपरिमिताः पुत्राः। एवं क्षत्रियस्यैव वैश्यस्य शूद्रस्य प्रथमः पुत्रो ब्राह्मणः। द्वितीयः क्षत्रियः। तृतीयो वैश्यः। चतुर्थः शूद्रः। पञ्चमश्चण्डालः। शेषा न्यूनतराः। किं कारणम् ? बीजसदृशं फलम्। यथा प्रजापतेश्चतुर्वर्णम्, एवं तस्य पुत्राणां गोत्राणां च चतुर्वर्णं भविष्यति। अथ ब्राह्मणानां पुत्राः सर्वे ब्राह्मणाः, तस्मात्प्रजापतेस्ते तु विशिष्टतराः। यदि च ते प्रतिविशिष्टतराः प्रजापतिना, किं प्रयोजनम् ? अथ मतम्-प्रजापतिना ब्राह्मणा न्यूनतरा इति। तस्माद्ब्राह्मणस्य प्रथमपुत्रः शूद्रः, शेषा न्यूनतराः। यावद्ब्रह्मणपुत्री ब्राह्मणी यद्यस्य मुखतो जाता, तस्मादगम्या। अथ पद्भ्यां जाता, शूद्रा। एवं तेषां प्रजापतिपरीक्षाया अपरिमाणा दोषाः। अथ मतम्-प्रजापतिः स्रष्टा। ईश्वरेण किं प्रयोजनम् ? अथेश्वरः कर्ता, किं कारणम् ? यस्मादुक्तम्-ब्रह्मणेदं जगत्सृष्टं लोकेश्वरनिर्मितं प्रजापतिकृतं चेति। स कं सत्यं भवेत्। एवं तेऽन्योन्यविरुद्धास्तीर्थकरा विवदन्ति। अथ मतम्-सहिता भूत्वा प्रजा निर्मिणन्ति, तदप्ययुक्तम्। किं कारणम् ? ते प्रतिसामन्तराजानो यथान्योन्याहंकाराः-अहं कर्ता, अहं कर्तेति। यथोक्तम्-

कर्मद्वेषाभिभूताश्च त्रय एवं यदा इमे।

अशाश्वतस्य चित्तस्य ते निर्मायुः कथं प्रजाः॥

एवं ते सहिता भूत्वा असमर्थाः प्रजानिर्माणे। एवं तेषां मातापि। महादोषः कर्मणा न किंचिन्मात्रैव प्रदर्शितम्। अथ मतम्-अद्यापि सावकाशम्, यस्मान्नामग्रहणं न कृतम्। उच्यते। अद्य निरवकाशं यस्मान्नामग्रहणं न कृतम्। किं कारणम् ? एकस्य दोषे दत्ते शेषा दोषा भवन्ति। एतदुक्तं भवति-यदि तव ब्राह्मणार्थं सह कथां कुर्यात्, स तस्य दोषो दातव्यः। यदि क्षत्रियेण, यदि वैश्येन, यदि शूद्रेण सह कथा क्रियते, यदेवमासृत्य शूद्रः कथां कुर्यात् सह वक्तव्यम्। तस्मादयं दोषः इत्येवं निरवकाशं कृतं भवति। य एवं प्रतिपन्नाः-बुद्धः परिनिर्वृतः, कस्ताः पूजाः परिगृह्णातीति, तेषामेव स्वसिद्धान्तदोषो वक्तव्यः। तस्मात्तेषामेव प्रतिस्वं स्वसिद्धान्तानां दोषो दातव्यः। किं कारणम् ? न ह्यभियुक्तस्य पश्चात्प्रत्यभियोगः। तस्मादनेकप्रकारेण तेषां पूर्वाभियोगः कार्य इति। न चैतदनर्थमुक्तम्। अत्रैकोत्तरिकासूत्रं प्रत्यवगन्तव्यम्-त्रीणीमानि भिक्षवः प्रच्छन्नवाहीनीति। कतमानि त्रीणि ? मातृग्रामः कूटकार्षापणो ब्राह्मणानां सिद्धान्तः। त्रीणीमानि भिक्षवः विवृतानि शोभन्ति इति। कतमानि त्रीणि ? चन्द्रमण्डलं सूर्यमण्डलं बुद्धवचनम्। इमानि त्रीणि विवृतानि शोभन्ति। यान्येतानि परीक्षाकारणानि देवपूजाप्रजापतिप्रभृतीनां सदा कार्यमधिकृत्य भगवतोक्तम्-ब्राह्मणानां सिद्धान्तः प्रच्छन्नवाही। महाकर्मविभङ्ग उच्यते-महान्ति कर्माणि। अत्र विस्तरेण विभक्तानि। तस्मान्महाकर्मविभङ्गः। संग्रहसारकर्मविभङ्गसर्वसारकर्मणां हीनोत्कृष्टमध्यमानि विस्तरेण कथामुखानि दर्शितानि। तस्मादपि महाकर्मविभङ्गः गोत्रान्तरीयाणामभिधर्मसंयुक्तेषु॥



महाकर्मविभङ्गो नाम समाप्तः॥



ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।

तेषां च यो निरोध एवं वादी महाश्रमणः॥

स्याद्राजा धार्मिकश्च प्रचुरगुणधृतो धर्मयुक्तश्च सर्वे

काले वर्षन्तु मेघाः सकलभयहरा रौद्रसंसारदुःखात्॥

उदकानलचौरेभ्यो मूषिकेभ्यस्तथैव च।

रक्षितव्यं प्रयत्नेन मया कष्टेन लेखितम्॥

यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया।

यदि शुद्धमशुद्धं वा मम दोषो न विद्यते॥

भग्नपृष्ठकटिग्रीवस्तप्तदृष्टिरधोमुखः।

रक्षितव्यं प्रयत्नेन जीवमिव प्रतिज्ञाय (ज्ञया)।

श्रेयोऽस्तु। संवत् ५३१ मार्गशिरोमासे शुक्लपक्षे त्रयोदश्यां तिथौ। रोहिणीनक्षत्रे शुभघटि २ सुकर्मयोगेऽङ्गारवासरे। त्व अनुराधाफलप्राप्तं भवतु॥

श्रीश्रीराजाधिराजपरमेश्वर परमभट्टारक विजयराज्याः। यजमानश्रियं ब्रूमो या शृङ्गाङ्गलगे श्रीश्री षडक्षरीमहाविहारे शाक्यभिक्षुश्री मम लिख्यते॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project