Digital Sanskrit Buddhist Canon

व्याघ्रीपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Vyāghrīparivartaḥ
॥ व्याघ्रीपरिवर्तः॥



पुनरपरं कुलदेवते परहितार्थायात्मपरित्यागमपि बोधिसत्त्वभूतेन भवितव्यम्। तत्कथमिदम्। दिवि भुवि च विसृतविपुलविमलविविधगुणशतकिरणोऽप्रतिहतज्ञानदर्शनबलपराक्रमो भगवान्भिक्षुशतसहस्रपरिवृतः पञ्चविधचक्षुप्राप्तः प्रञ्चालेषु जनपदेषु जनपदचारिकां चरमाणोऽन्यतमेव वनखण्डमनुप्राप्तो बभूव। स तत्र ददर्श हरितमृदुनीलशाद्वलतलविविधकुसुमप्रतिमण्डितं पृथिवीप्रदेशं दृष्ट्वा च भगवानायुष्मन्तमानन्दमामन्त्रयति स्म। रुचिरोऽयमानन्द ! पृथिवीप्रदेशः। अस्मिंश्चास्मिकस्थाननिष्ठा संज्ञायते। एतर्हि तथागतस्यासनं प्रज्ञापय। ततस्येन भगवत आज्ञयासनं प्रज्ञप्तम्। प्रज्ञप्य च भगवन्तमेतदवोचत्। प्रज्ञप्तमासनं भगवन्निषीद ज्ष्ठेष्ठ श्रेष्ठ नृणां वरद वरिष्ठ मोक्षवह परमामृतकथां विसृज नृणां हिताय भगवन्निधनविप्रयुक्तं। अथ भगवांस्तस्मिन्नासने निषद्य भिक्षूनामन्त्रयते स्म। इच्छथ यूयं भिक्षवो दुष्करकारिकाणां बोधिसत्त्वानां शरीराणि द्रष्टुम्॥

एवमुक्ते भिक्षवो भगवन्तमेतदवोचन्।

अयमृषिवरकालप्राप्त

सत्त्वार्थसारमद्वयनीरतस्य द्रष्टुम्।

अस्माभिरस्थीण्यपरिमित

गुणश्रितस्य तत्साधु घाटय॥ १॥

अथ भगवान्सहस्रारचक्रचरणविलिखिततलेन स्थूलितनवकमलकोमलेन पाणिना धरणीतलं जघान व्याहतमात्रेण षड्विकारं पृथिवी चचाल। मणिकेन करजातविकृतं च स्तूपं ततोऽभ्युज्जगाम। अथ भगवानायुष्मन्तमानन्दमामन्त्रयते स्म। विघाटयानन्देमं स्तूपम्। अथायुष्मानानन्दो भगवते प्रतिक्षुत्य स्तूपं विघटयामास। स तत्र ददर्श कनकविसृतमुक्तासंछादितं हिरण्यमयं समुद्रकम्। दृष्ट्वा च भगवन्तमेतदवोचत्। हिरण्यमयं भगवन्समुद्रकः समुद्धृतः। भगवानुवाच। सप्तैते समुद्रकान्सर्व उद्धाटनीयाः। तदोद्धाटयामास। स तत्र ददर्श हिमकुमुदसदृशान्यस्थीनि। दृष्ट्वा च भगवन्तमेतदवोचत्। भगवन्नस्थीन्युपलक्ष्यन्ते। भगवानाह। आनीयतामानन्द महापुरुषस्यास्थीनि॥



अथायुष्मानानन्दस्तान्यस्थीन्यादाय भगवते बुद्धायोपनामयामास। भगवांश्चास्थीनि गृहीत्वा संघस्य पुरतः संस्थाप्योवाच।इमान्यस्थीनि महाप्रवरगुणामुक्तस्य समन्तदमध्यानक्षान्तिप्रवरदृढोत्साहयशःसंस्कृतो भूयः सततसमितं बोधौ मतिमतो दृढोत्साहिनो धृतिमतः सदादाननिरतस्य। ततो भगवान्भिक्षूनामन्त्रयामास। वदन्त भिक्षवो बोधिसत्त्वशरीराणि शीलगुणवासितानि परमदुर्लभदर्शनानि पुण्यक्षेत्रभूतानि। ततस्ते भिक्षवः कृतकरपुटा आवर्जितमनसस्तानि शरीराणि मूर्ध्ना वन्दन्ते स्म॥



अथायुष्मानानन्दः कृतकरपुटो भगवन्तमेतदवोचत्। भगवानतीतानागतप्रत्युत्पन्नसर्वलोकाभ्युद्भतः सर्वसत्त्वैर्नमस्कृतः तत्कथं तथागत एवैतान्यस्थीनि नमस्यते। अथ भगवानायुष्मन्तमानन्दमेतदवोचत्। वन्दनीयानीमान्यस्थीन्यानन्द। तत्कस्य हेतोः। एभिरानन्दास्थिभिर्मयैवं क्षिप्रमनुत्तरा सम्यक्संबोधिरभिसंबुद्धेति। भूतपूर्वमानन्दातीतेऽध्वन्यनेकधनधान्यवाहनबलोपपन्नोऽप्रतिहतबलपराक्रमो महारथो नाम राजाभूत्। तस्य देवकुमारसदृशास्त्रयः पुत्रा बभूवः। महाप्रणादो महादेवो महासत्त्वाश्चेति। अथ राजा क्रीडनार्थमुद्यानमभिनिष्क्रमते स्म। ते च कुमारास्तस्योद्यानस्य गुणानुराधितया कुसुमलोलया चेतस्ततोऽनुविचरमाना महाद्वादशवनगुल्मं प्रविविशुः। तेषु प्रसृतेषु कुमारोपस्थायका अन्योन्यप्रसृता बभूवुः। राजकुमारोत्सृष्टा उद्यानमहत्यामलक्षितायां तं द्वादशवनगुल्मं प्रविविशुः। अथ महाप्रणादो भ्रातृद्वयमुवाच। भीर्मे हृदयमाविशते। आगच्छत मा वयं श्वापदे विनाशमापद्येम। महादेव उवाच। न मे भयमस्त्यपि त्विष्टजनवियोगाद्धि मे हृदये प्रवर्तते। महासत्त्व उवाच॥

न च मम भयमिहास्ति नापि शोको

वनवरे मुनिजनसंस्तुते विविक्ते।

परमसुविपुलमहार्थता लाभा

हृदयमिदं मम संप्रपुष्पति च॥ २॥

अथ ते राजकुमारास्तद् द्वादशवनगुल्मविवरं चञ्चूर्यमाणा एकां व्याघ्रीं ददृशुः सप्ताहप्रसुतां पञ्चसुतपरिवृतां क्षुत्तृषपरिकर्षितां परमदुर्बलशरीरां दृष्टा महाप्रणादोऽब्रवीत्। भो कष्टमियं तपस्विनी षडहप्रसुता वा सप्ताहप्रसुता वा भविष्यति। इदानीं भोजनमलभमाना स्वसुतानि भक्षयिष्यति जिघत्सया वा कालं करिष्यति। महासत्त्व उवाच। किमस्यास्तपस्विन्या भोजनम्। महाप्रणाद उवाच।



मांसोष्णानि रूधिराणि रससंकाशं भवेद्यदिह।

एतद्भोजनमुक्तं व्याघ्रतरक्ष्वृक्षसिंहानाम्॥ ३॥

महादेव उवाच। इहैषा तपस्वीनी क्षुत्तुषपरीतशरीरा अलं प्राणावशेषा परमदुर्बला न शक्यमन्यस्थाने भोजनमन्वेष्टुम्। कोऽस्याः प्राणपरिरक्षणार्थमात्मपरित्यागं कुर्यादिति। महाप्रणाद उवाच। भो दुष्कर आत्मपरित्यागः। महासत्त्व उवाच।

अस्मद्विधान् दुष्कर शरीर

अभियुक्तानां एष नयः।

अन्येषां परहिताभियुक्तानां

सत्पुरुषाण न दुष्करः॥ ४॥

अपि च।

कृपाकरुणममवतारिय

सत्त्वो दिवि चेह लभ्यते सः।

स्वदेह शतश इह कृत्व

मुदितमनाः परजीवशरीरे॥ ५॥

अथ ते राजकुमाराः परमसंदीप्ता एषा व्याघ्रीति द्रुतमनिमिषिमनुनिरीक्षन्तः प्रचङ्क्रमुस्ततो महासत्त्वस्यैतदभूत्। अयमिदानीमात्मपरित्यागस्य कालः। कुतः -

सुचिरमपि ऋतोऽयं पूतिकायो महाहैः

शयनवसनान्नैर्भोजनैर्वाहनैश्च।

श्तनयकृतधर्माभैदनान्तैरनन्तं

न विजहति अनुपूर्वं स्वस्वभावं कृतघ्नुः॥ ६॥

अपि च।

नास्ती तस्योपजीव्यं सर्वतु

मध्ये भुतत्वात्तं नियोज्य।

तस्मै जरामरणस्य समुद्र-

उत्तरणपोतभूतु भविस्सम्॥ ७॥

अपि च।

त्यक्त्वाहं पुण्ड्रभूतं

भवशतभरितं विष्टान्तः पूर्णम्।

निःसारफेनकल्पं कृमिशत-

भरितं कार्यकृत्यं तनु हि॥ ८॥

निःशोक निर्विकारं

निरुपधिममलं ध्यानप्रज्ञादिगुणैः।

संपूर्णं धर्मकाय गुणशत -

भरितं प्राप्स्येव सुशुद्धम्॥ ९॥

स खल्वेवं कृतव्यवसायः परमकरुणोपरिगतहृदयः तयोर्विक्षेपं चकार। गच्छेतां तावद्भवन्तौ स्वकार्येणाहं द्वादशवनगुल्मं प्रवेक्ष्यामीति॥

अथ स महासत्त्वो राजकुमारः तस्मादुपवनात्प्रतिनिवृत्य व्याघ्र्या आलयमुपगम्य वनलतायां प्रावरणमृत्सृज्य प्रणिधानं चकार। एषोऽहं जगतो हितार्थमनुत्तरां बोधिं विबुध्य शिवां कारुण्यात्प्रददामि निश्चलमतिर्देहं परैर्दुस्त्यजम्। तन्मे बोधिरनामया या जिनसुतैरभ्यर्चिता निर्ज्वला त्रैलिक्यं भवसागरात्प्रतिभयादुत्तारयेयान्माम्। इत्यथ व्याघ्र्या अभिमुखं महासत्त्वः प्रपतितः। ततो व्याघ्री मैत्रीवतो बोधिसत्त्वस्य न किञ्चिच्चक्रे। ततो बोधिसत्त्वो दुर्बलावर्तोऽयमथेत्युत्थाय शस्त्रं पर्येषते स्म। कृपामतिर्न क्वचिच्छस्त्रमलभत्। सोऽतिबलां वर्षशतिकां वंशलतां गृहीत्वा तया स्वबालमुत्क्षेप्य व्याघ्रीसमीपे पपात। प्रपतितमात्रे च बोधिसत्त्वे भूमिरियं प्रचरविहीनेव नौः सलिलमध्ये गता षड्विकारं प्रचचाल। राहुग्रस्त इव दिनकरकिरणो न बभ्राजे। दिव्यगन्धचूर्णसंनिश्रितं च कुसुमवर्षं पपात। अथान्यतरा विस्मया वर्जितमनसा देवता बोधिसत्त्वं तुष्टाव॥

यथा कारुण्यं ते विसृतमिह सत्त्वेषु सुमते

यथा वै तद्देहं त्यजसि नरवीर प्रमुदितः।

शिवं श्रेष्ठं स्थानं जननमरणार्थे विरहितं

निरायासं शान्तं त्वमिह न चिरात्प्राप्स्यसि शुभम्॥ १०॥

अथ खलु सा व्याघ्री रुधिरम्रक्षितशरीरं बोधिसत्त्वमवेक्ष्य मुहूर्तमात्रेण निर्मांसरुधिरमस्थ्यवशेषं चकार॥

अथ महाप्रणादस्तं भूमिकम्पमनुनिशम्य महादेवमेतदवोचत्॥

प्रचलित ससमुद्रा सागरा

वसुमतिदशदिक्षू सुप्तरश्मिश्च सूर्यः।

पतति कुसुमवर्षं व्याकुलं वा मनो मे

स्वतनुरिह विसृष्टः सांप्रतं भ्रातृणा मे॥ ११॥

महादेव उवाच।

यथा च सो करुणवचो ह्यवोचत

समीक्ष्य तां स्वतनायभक्षणोद्यतां।

क्षुधान्वितां व्यशनशतैः समन्वितां

सुदुर्बला मतिरिह संशया तु मे॥ १२॥

अथ तौ राजकुमारौ परमशोकाभिभूतौ वाष्पपरिप्लुताक्षौ तमेनं पन्थानं प्रतिनिवृत्य गच्छन्तौ व्याघ्रीसमीपमेवाभिजग्मतुः। तं ददृश्तुः शतं वंशलतासमायुक्तं प्रावरणं कृष्णविकृष्णानि चास्थीनि रुधिरकर्दमानि। नानादिग्विदिक्षु केशान्विस्तीर्णान्दृष्ट्वा च समूर्च्छन्नौ भूमौ निपेततुः। सचिरात्संज्ञामुपलभ्योत्थायोच्चेयबाहू आर्तस्वरं मुमुचतुः।

अहो प्रियभ्रातृक पार्थिवायं

तथा जननी सुतवत्सला या

पृच्छिष्यते सा जननी तृतीयः

क्व वा युवाभ्यां कमलायतेक्ष्णः॥ १३॥

अहो हि अस्माकमिहैव शोभितं

ननू प्रदेशे मरणं न जीवितम्।

कथं महासत्त्वविवर्जिता वयं

दास्यामहे दर्शनमम्बतातयोः॥१४॥

अथ तौ राजकुमारौ बहुविविधकरुणं विलाप्य प्रचक्रमतुः। तत्र कुमारस्योपस्थायका दिशि विदिशि प्रधावन्तः कुमारान्वेषणाः परस्परं दृष्ट्वा च पप्रच्छुः क्व कुमारः क्व कुमार इति। तस्मिंश्च समये देवी शयनतलगता प्रियविप्रयोगसूचकं स्वप्नं ददर्श। तद्यथा स्तनौ छिद्यमानौ दन्तोत्पातनं च क्रियमाणं त्रयः कपोतशावकाः प्रतिलम्भमानास्ते भीता एव श्येनेनाच्छिद्यमानाः। अथ देवी भूमिकाम्पादुत्रस्तहृदया सहसा प्रतिविबुध्य चिन्तापरा बभूव॥

किमेषा भूतधात्री जलनिधिवसना कम्पति भृशं

सूर्यः शूली न रश्मिर्मम च किच भूभजं वयति वा।

दुःखं कुर्वति मे गात्रं चलति च नयनं स्वस्तनं छिद्यती च।

स्वस्ति मे स्यात्सुतानां वनविवरमिदं क्रीडनार्थं गतानाम्॥ १५॥

अथैवं चिन्तयन्त्याश्चेटी च संत्रस्तहृदया प्रविश्य देव्या निवेदयामास। देवि कुमारपरिचारकाः कुमारमन्वेषन्ते नष्टः श्रूयते। तत्र पुत्रहतश्रवणाच्च देवी संकम्पिताहृदया वाष्पाकुलनयनवदना राजानमभिगम्योवाच। देव नष्टो मे प्रियसुतः श्रूयते। राजापि संकम्पितहृदयः परमसंत्रासमापेदे। हा कष्टं वियुक्तोऽस्मि प्रियसुतेन। अथ राजा देवीमाश्वासयामास। मा भीर्देवि पुत्रार्थं वयं कुमारान्वेषणोपलभन्तः। तत्र प्रवृत्ते कुमारान्वेषणाभिद्रुते जनकाय अथाचिरादेव राजा ददर्श दूरत एवागच्छन्तौ राजकुमारौ। दृष्ट्वा राजाब्रवीत्। एतावालभन्तौ कुमारौ न तु सर्वे। हा कष्टं सुतवियोगो नाम।

न भवति निरुपलम्भे न प्रीतिरेवं नराणां

भवति सुतवियोगाद्यादृशं दौर्मनस्यम्।

ननु वरसुखिनस्ते येन पुंसाभियोगा

मरणमुपगता वा ये न जीवन्ति पुत्राः॥ १६॥

अथ देवी परमशोकाभिभूता मर्महन्तेव कलभी आर्तस्वरमुवाच॥

यदि तनयास्त्रयस्य भृत्यवर्गा

वनवरे कुसुमाकुले प्रविष्टाः।

क्व स हृदयसमो समस्तृतीयः

सुतमनयापदवैति कनीयसमेतत्॥ १७॥

तयोरागतयो राजा पुत्रावेतत्पर्यपृच्छतोत्सुकः कुमारौ परिपृच्छति स्म। क्व दारकः कनीयस इति। ततः शोकार्तावश्रुद्रुतनयनौ परिशुष्कताल्वोष्ठदशनवदनौ न किञ्चिदूचतुः॥ देव्युवाच॥

कथयतां लघु विमुह्यति स्मृतिश्च

परमभृशं परिपीड्यते च देहः।

क्व स मम पुत्रस्तृतीय हृदयं

इदं स्फुटितं तु संमूर्च्छति वा॥ १८॥

अथ तौ कुमारौ विस्तरेण तं वृत्तान्तं निवेदयामास। सहश्रवणेन राजा देवी परिजनाश्च मोहमुपगताः। मोहप्रत्यागताश्च करुणार्तस्वरं रोदमानास्तं देशमभिजग्मुः। अथ राजा देवी च तण्यस्थीन्यपगतरुधिरमांसानि वायुना दिशो विदिशश्च केशविकीर्णा दृष्ट्वा चाहर इव द्रुमो भूमौ निपतितौ। ततः पुरोहितः सुचिरं तामवस्थां दृष्ट्वा सलिलमलयचन्दनपङ्कै राज्ञो देव्याश्च शरीरं प्रह्लादयामास। अथ सुचिरात्संज्ञामुपलभ्य राजोत्थाय करुणकरुणं विललाप॥

हा कष्टं पुत्र क्व मनोरस दर्शनीय

मृत्योर्वशं शीघ्रमुपगतासि।

मृत्योः प्रश्ममेव हि चागतो

विना ते परं मम भविष्यति दुःखमन्यत्॥ १९॥

देवी च मोहात्यागता प्रकीर्णकेशी बाहुभ्यामुरस्ताडयन्ती स्थान्यां प्लुत इव मत्स्या धरण्यास्तले परिवर्तमाना महिषीव नष्टवत्सा कलभीव नष्टशावका करुणकरुणं रोदिति॥

हा कान्त प्रियसुत केन व्रजसे भग्नो

ऽयं पद्मो धरणीतले हि विकीर्णः।

शत्रुणा मम भुवि केन नाशं गतोऽद्य

पुत्रो मे नयनमनोहरचन्द्रः

हा किं शरीरमिह अद्य न याति भग्नं

पश्यामि हं सुतवरं निहतं पृथिव्याम्॥ २०॥

संव्यक्तं हृदयमयो ममैतं

धिग्व्यसनं अवेक्ष्य नो चेद्भेदयते।

हा चैतत्पापकं स्वप्नफलं

यच्छिन्नाविमावद्य केनचिदसिना।

स्वप्नान्तरे द्वौ स्तनौ दंष्ट्रोत्पाट्य

मे प्रियसुतो नाशं गतः शीघ्रमतः॥ २१॥

स श्येनेनापहृतो

यथैव इह मे लब्धैः कपोतैस्त्रिभिः।

सो मेऽद्य त्रिभिरात्मजैः

परिवृत एको हतो मृत्युना॥ २२॥

अथ राजा देवी च बहुविधं करुणकरुणं परिदेवतस्तयोः सर्वभरणान्यवमुच्य महता जनकायेन सार्धं पुत्रस्य

शरीरपूजां कृत्वा तस्मिन्पृथिवीप्रदेशे सुवर्णमयचैत्येषु न्यस्तानि तानि शरीराणि॥



स्यात्ते खलु पुनरानन्दान्यः स तेन कालेन तेन समयेन महासत्त्वो नाम राजकुमारोऽभूत्। नैवं द्रष्टव्यम्। तत्कस्य हेतोः। अहं स तेन कालेन तेन समयेन महासत्त्वो नाम राजकुमारोऽभूत्। तदापि मयानन्द राजद्वेषमोहापरिमुक्तेन नरकादिभ्यश्च दुःखेभ्यः कृपया जगदनुगृहीतम्। किं खलु पुनरिदानीं सर्वदोषापगतेन सम्यक्संबुद्धेनेति। एवं ह्येकैकस्य सत्त्वस्यार्थे कल्पं समुदेयं नरकेषु जातिं संसाराद्विमोचयेयम्। खलु सत्त्वसारैश्च जगत्परिगृहीतं दुष्करमनेकविधविचित्रमिति॥

अथ भगवांस्तस्यां वेलायामिमा गाथा अभाषत॥

बहूनि कल्पानि मयात्मा त्यक्तः

पर्येषयेता इममग्रबोधिम्।

यथासि राजा यथ राजपुत्रम्

तथैव त्यक्ता मय आत्मभावाः॥ २३॥

अनुस्मरमि पुरिमासु जातिषु

महारथो नाम बभूव राजा।

तस्यापि पुत्रौ महात्यागवन्तो

नाम्ना महासत्त्व वरो बभूव॥ २४॥

द्वौ तस्य आसीदथ भ्रातरौ च

नाम्ना महादेव महाप्रणादः।

वनखण्ड गत्वा व समानगोत्रै-

स्तैर्दृष्ट व्याघ्री क्षुधयाभिभूता॥ २५॥

तस्याग्रसत्त्वस्य कृपाभिजाता

यन्नून हं आत्म त्यजेय मांसम्।

एषा हि व्याघ्री क्षुधतर्षपीडिता

खादीय एतानि स्वकात्मजानि॥ २६॥

पतितश्चासीत्तदा स

महारथसुतो महासत्त्वः।

दृष्ट्वा च व्याघ्रीं

क्षुधार्तां व्याघ्रसुतमोक्षार्थम्॥ २७॥

करुणामये पतितेऽत्र कम्पित सशैल धरणी

विद्रुत पक्षिसंघ विविधानि।

संत्रस्तो मृगसंघस्तदाकुल -

संस्थितोऽभूल्लोकोऽयम्॥ २८॥

द्वौ तस्य भ्रातरौ च

महाप्रणादस्तथा महादेवः।

न लभेते महासत्त्वं दृष्ट्वा

तत्र महावनखण्डेऽस्मिन्॥ २९॥

अतिशोकशल्यहृदया

विचरन्ति वनान्तरे विसंज्ञाश्च।

पर्येषन्ति भ्रातरमश्चुमुखानि

विचरन्ति वनमध्ये॥ ३०॥

उभौ तौ राजकुमारौ

महाप्रणादस्तथा महादेवः।

तत्रोपसंक्रमित्व यत्र व्याघ्री

सुदुर्बला शयिता व्याघ्रीसुता॥ ३१॥

दृष्ट्वा रुधिरलिप्ताङ्गानि

केशास्थिचर्ममात्रं धरण्याम्।

अवकीर्ण पतितानि यत्किञ्चिन्मात्रं

तस्य पतितं धरणीयं पश्यन्ति॥ ३२॥

उभौ तौ नृपसुतौ संमूर्च्छितौ हि

तत्र पतन्ति धरणीयम्।

नष्टमनाः सर्वपाण्डु रजोलिप्तगात्राः

स्मृतीन्द्रियविहीनमूढचित्ताश्च। ३३॥

तेषां चो पार्षद्याः

करुणस्वररोदमानशोकार्त्ताः।

सिञ्चन्ति ते जलेनोत्थितो -

र्ध्वबहवश्च क्रदन्तः॥ ३४॥

तस्मिन्पतितमात्रेण सान्तर्जने

विप्रियाग्रमहिषी च।

पश्यति पञ्चस्त्रीशतेभी

राजकुलान्तर्गता सुखप्रविष्टकाया॥ ३५॥

ताभ्यां स्तनाभ्यां

क्षीरप्रमुक्तं प्रस्त्रवन्त्य वेगैः।

सर्वाङ्गमस्या हि

सूचीभिरिव भिद्यमानापि॥ ३६॥

अतिशोकघूर्णहृदया

पुत्रवियोगार्त्तशोकशरविद्धा।

उपसंक्रमित्व नृपतिं

सुदीनमनसा अतिशोकसंतप्ता।

करुणस्वरं रोदमान

राज्ञोऽथ महारथस्यैवावोचत्॥ ३७॥

शृणु मम नृपते नरेन्द्र

शोकाग्निना मम दह्यते शरीरम्।

उभाभ्यां स्तनमुखाभ्यां

क्षीरप्रमुक्तमचिरेण॥ ३८॥

सूचीभिरिवाङ्गमङ्गं पीड्यन्ति

स्म तानि मम हृदयं च।

यथा निमित्तं यादृश न भूय

पश्यामि दर्शनं प्रियसुतान॥ ३९॥

पुत्राणां मे विजान ददाहि

मम जीवितं क्षेमं कुरुष्व।

स्वप्नो मया दृष्टस्त्रयो

मम कपोतसुतानि

योऽस्य तृतीयमहं

कपोतसुतं प्रियमना॥ ४०॥

श्येनस्तत्र प्रविष्टः श्येनेनापहृतं

कपोतकं च स्वप्नान्तरे च।

मम ईदृश शोकं

प्रविष्टिं हृदयेऽस्मिन्॥ ४१॥

अतिदाहशोकचिन्ता

मरणं मम भविष्यति न चिरेण।

पुत्राण मे विजान

ददस्व मम जीवितं भवान्स्वकारुण्यम्॥ ४२॥

एवमुक्त्वाग्रमहिषी संमूर्च्छति पतति तत्र धरणीये

स्मृतीय परिहीना विनष्टचित्ता विसंज्ञमना।

सर्वान्तःपुरणाश्च करुणस्वरं

रोदमानाः क्रन्दन्तः॥ ४३॥

दृष्ट्वा तामग्रमहिषीं

संमूर्च्छितपतितां च तत्र धरणीये।

समनन्तरशोकार्त्तः

पुत्रवियोगः सामात्यो राजेन्द्रः।

अमात्याश्च प्रयुक्ता जिज्ञासार्थं

गताः कुमाराणाम्॥ ४४॥

सर्वनगरान्तर्जना

नानाशस्त्रगृहीतोत्थिताः।

तथा आगताश्चाश्रुमुखा रोदमानाः

पृच्छिन्ति पथेषु तं महासत्त्वम्॥ ४५॥

किं जीवितो वां क्व गतः

सांप्रतं महासत्त्वः किं द्रक्ष्याम्यहमद्य।

मनापं सत्त्वदर्शन प्रियमनापं

न चिरेण विनष्टश्रमम्॥ ४६॥

सशोकवदनः प्रयाति विषये

ऽस्मिन्दारुणनिर्दनाकरः।

अनन्तायाससंकटानि घोषः

राजा महारथोत्थाय रोदमानः॥ ४७॥

शोकार्त्तः सिञ्चति सलिलधारैः

अग्रमहिषीं च धरणीये पतन्तीं।

सिञ्चति उदकेन यावत्स्मृतिं लभ्यते

उत्थाय पृच्छिरं दीनमानसा॥ ४८॥

किं मम पुत्रा हि मृता जीवन्ति

राजा महारथश्चाग्रमहिषीं च।

एवमेवावोच दिशि विदिशासु

अमात्या पार्षद्या जिज्ञासार्थं गताः॥ ४९॥

कुमाराणां मा त्वमतिदीनमानसा

भवा हीनायास शोकहृदया।

एवं महारथश्च क्षमापयित्वा

तदाग्रमहिषीं च कम्पो निष्क्रमे॥ ५०॥

राजकुलतोऽथाश्रुमुखो रोदमानः

शोकार्त्तः अमात्यगणपरिवृत्तः।

सुदीनमनसाथ दीनचक्षुश्च

निष्क्रम्य नगरपुरतो जिज्ञासार्थाय॥ ५१॥

राजा पुत्राणां बहुप्राणिनः

अश्रुमुखो रोदमानो धावति।

निर्गतं दृष्ट्वा राजानं पृष्ठतः

समनुबुद्धोऽथ समनन्तरनिष्क्रान्तः॥ ५२॥

राजा स महारथः समनन्तरा-

त्प्रियपुत्रदर्शनार्थं प्रेक्षति।

दिशतां सुगौलनयनो

दृष्ट्वान्यतरं पुरुषं मुण्डितशीर्षं च॥ ५३॥

रुधिरालिप्ताङ्ग पांशुलशरीरं

अश्रुमुखं रोदमानं गच्छन्तम्।

दारुणशोकार्त्तः महारथस्य

हृदयस्थोऽश्रुमुखो रोदमानः॥ ५४॥

स्थित ऊर्ध्वबाहुश्च क्रन्दन्तः

अथान्यतमोऽमात्यस्त्वरागत्य।

शीघ्रभारादुपसंक्रम्य नृपते

राज्ञो महारथस्य आवचिंसु॥ ५५॥

मा शोकचित्तस्त्वं भव नृपते

तिष्ठन्ति ते पुत्राः प्रियमनापाः।

न चिरेणागम्य इह तवान्तिके

द्रक्ष्यसि त्वं पुत्रवरं मनापम्॥ ५६॥

मुहूर्तमात्रमभिगम्य - - राज्ञो

द्वितीयोऽमात्य आगतस्ततः।

रजोऽवकीर्णो मलवस्त्रप्रावृतः

साश्रुमुखो राजानमिदमब्रवीद्॥ ५७॥

द्वै च ते पुत्रै महानृपेन्द्र

तिष्ठतः शोकानलसंप्रदीप्तौ।

एकस्तवो पुत्रवरो न दृश्येत नृप

ग्रस्तो महासत्त्व अनित्यतया॥ ५८॥

दृष्ट्वा च व्याघ्रीमचिरप्रसुतां

स्वीयाञ्च पुत्रानुपभोक्तुकामाम्।

तेषां महासत्त्व वरकुमारो

महान्त कारुण्य बलं जनेत्वा॥ ५९॥

बोधौ च कृत्वा प्रणिधिमुदारां

सर्वांश्च सत्त्वानिह बोधयिष्ये।

तं बोधिं गम्भीरमुदारमिष्ट्वा

अनागतेऽध्वनि अहं स्पृशेयम्॥ ६०॥

पतितो महासत्त्वो गिरि तटतु

सोऽग्रे स्थितो व्याघ्र्यः क्षुधाभिभूतायाः।

मुहूर्त निर्मासकृतः स अङ्गं च

अस्थावशेषं कृतः राजपुत्रः॥ ६१॥

एवं च श्रुत्वा स वचः सुधारें

संमूर्च्छितो राज महारथश्च।

पतितश्च धरणीय विनष्टचित्तः

शोकाग्निना प्रज्वलितः सुदारुणा॥ ६२॥

आमात्यपार्षद्य करुणास्वररोदमाना

शोकार्त सिञ्चन्तिते जलेन।

सर्वे स्थिता ऊर्ध्वबाहुश्च स कन्दमानाः

तृतीयोऽमात्यो नृपमब्रवीत्॥ ६३॥

दृष्टौ मयाद्य उभौ कुमारौ

समुच्छतौ तत्र महावनेऽस्मिन्।

पतितौ धरण्यां च विनष्टचित्तौ

अस्माभिरुदकेन च सिञ्चितानि॥ ६४॥

यावत्स्मृतिं लभ्यते पुनः स्थितौ हि

आदीप्त पश्यन्ति दिशश्चतस्त्रः।

मुहूर्त तिष्ठन्ति पतन्ति भूमौ

कारुणस्वरेण परिदेवयन्ति॥ ६५॥

ता ऊर्ध्वबाहु सततं स्थिहन्ति

वर्णमुदीरन्तयोर्भ्रातरस्य

स चैव राजा हृदि दीनचित्तः

पुत्रवियोगात्सुविक्षिप्तचित्तः॥ ६६॥

शोकप्रविद्धः परिदेवयित्वा

एवं हि राजा परिदेवयन्ति।

एकश्च मे पुत्र प्रियमनापः

ग्रस्त कनिष्ठो वनराक्षसेन॥ ६७॥

मा मे इमौ अन्य च द्वौ हि पुत्र

शोकाग्निना जीवितसंक्षयं व्रजेत्।

यन्नून हं शीघ्र व्रजेय तत्र

पश्येय पुत्रौ प्रियदर्शनौ तौ॥ ६८॥

शीघ्रेण यानेन च राजधानीं

प्रवेशयेद्राजकुलान्त शीघ्रम्।

मा एषा मातुर्हि जनेतु कामं

शोकाग्निना तद्धृदय स्फटे तत्॥ ६९॥

पुत्रौ च दृष्ट्वा लभते प्रशान्तिं

न जीवितेनालभते वियोगम्।

राजापि चामात्यगणेन सार्धं

द्विपाभिरूढो गत तत्र दर्शितु॥ ७०॥

दृष्ट्वा च पुत्रौ भ्रातृनामाह्वानौ

करुणास्वरं क्रन्दतौ आत्तमाना।

राजा हि तत्पुत्रद्वयं गृहीत्वा

प्ररोदमानोपि पुरं व्रजित्वा।

सा शीघ्रशीघ्रं त्वरमान स्वपुत्रां

देवीं अदर्शेत्सुतपुत्रकामाम्। ७१॥

अहं च स शाक्यमुनिस्तथागतः

पूर्वं महासत्त्ववरो बभूव॥

पुत्रश्च राज्ञो हि महारथस्य

येनैव व्याघ्री सुखिता कृतासीत्॥ ७२॥

शुद्धोदनो हि वरपार्थिवेन्द्रो

महारथो नाम बभूव राजा।

महिषी च आसीद्वरमायदेवी

महाप्रणादस्तथ मैत्रियोऽभूत्॥ ७३॥

महादेवी आसीदथ राजपुत्रो

मञ्जुश्रीरभूद्वीरकुमारभूतः।

व्याघ्री अभूत्तत्र महाप्रजापती

व्याघ्रीसुता पञ्चक अमी हि भिक्षवः॥ ७४॥

अथ महाराजा महादेवी व बहुविधकरुणापरिदेवनं कृत्वा भरणान्येवमुच्य महतो जनकायेन सार्धं पुत्रस्य शरीरपूजां कृत्वास्मिन्प्रदेशे तस्य महासत्त्वस्येमे शरीरा प्रतिष्ठापिता अयं सप्तरत्नयमस्तूपः। तत्र देवेन महासत्त्वेनास्यै व्याघ्र्या आत्मभावं परित्यक्तम्। एवं रूपं च प्रणिधानं करुणया कृतम्। इमं मया शरीरस्य परिदेशनाऽनागतेऽध्वनि गणनासमतिक्रान्तैः कल्पैः सर्वसत्त्वानां बुद्धकायं च कारिता। अस्मिन्देशने निर्दिश्यमान अप्रमेयाणां सत्त्वानां सदेवमानुषिकायाः प्रजायाः अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। अयं च हेतुरयं च प्रत्ययः। अस्य स्तूपस्येह निदर्शनतायाः। स च स्तूपो बुद्धाधिष्ठानेन तत्रैवान्तर्धानमनुप्राप्त इति॥



इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे व्याघ्रीपरिवर्तो

नामोनविंशतितमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project