Digital Sanskrit Buddhist Canon

जलवाहनस्य मत्स्यवैनेयपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Jalavāhanasya matsyavaineyaparivartaḥ

॥ जलवाहनस्य मत्स्यवैनेयपरिवर्तः॥



पुनरपरं कुलदेवते राज्ञः सुरेश्वरप्रभस्य विषये जलवाहनेन श्रेष्ठिदारकेण सर्वसत्त्वा आरोगाः कृता अल्पा बाधा यथापूर्वेणोत्साहबलकायेन संवृताः सर्व उत्साहसुखेन रमन्ति स्म। क्रीडन्ति स्म। परिचारयन्ति स्म। दानानि च ददन्ति स्म। पुण्यानि च कुर्वन्ति स्म। जलवाहनः श्रेष्ठिदारको महावैद्यदानानां च सुखानां व्याधिविचिकित्सको नियतप्रत्यक्षेण बोधिसत्त्वेन भवितव्यम्। सर्वेनाष्टाङ्गायुर्वैद्यमधिगतोऽभूत्। तस्य खलु पुनः जलवाहनस्य श्रेष्ठिदारकस्य जलाम्बुजगर्भा नाम भार्याऽभूत्। तस्य खलु पुनः कुलदेवते जलाम्बुजगर्भाया द्वौ दारकौ पुत्रावभूताम्। एको जलाम्बरो नाम द्वितीयो जलगर्भो नाम॥

अथ खलु पुनः कुलदेवते जलवाहनः श्रेष्ठिपुत्रस्याभ्यां दारकाभ्यां सार्धमनुपूर्वेण ग्रामनगरनिगमजनपदराष्ट्रराजधानीष्वनुचङ्क्रमति॥



अथ खलु पुनः कुलदेवतेऽपरेण तेन कालेन तेन समयेन जलवाहनः श्रेष्ठिपुत्रोऽन्यतरमटवीकान्तारप्राप्तोऽध्वनि ददर्शात्रान्तरे मांसभक्षा वृकशृगालकाकपक्षिणस्तां दिशं धावन्ति यत्राटवीकान्तारेऽटवीसंभवा पुष्करिणी। तदृटष्ट्वा तस्यैतदभूत्। कस्यार्थमिमे मांसभक्षा वृकशृगालकाकपक्षिण इमां दिशं धावन्ति। तस्यैतदभूत्। यं नूनमहं तां दिशमुपसंक्रमेयम्। यस्यां दिशीमे मंसभक्षाश्च वृकशृगालकाकपक्षिणो धावन्ति॥



अथ खलु पुनः कुलदेवते जलवाहनः श्रेष्ठिपुत्रोऽनुपूर्वेणानुचङ्क्रमन्ननुविचरन्यत्राटवीसंभवा पुष्करिणी तत्र संप्राप्तः। तत्र महापुष्करिण्यां दशमत्स्यसहस्राणि प्रतिवसन्ति स्म। स तत्रापश्यद्बहूनि मत्स्यशतानि जलविप्रहीणानि तत्रास्य कारुण्यचित्तमुत्पन्नम्। तत्राद्राक्षीदर्धकायां देवतां निष्क्रमन्तीम्। सा च देवता जलवाहनं श्रेष्ठिदारकमेतदवोचत्। साधु साधु कुलपुत्र यस्त्वं जलवाहनो नाम मत्स्यानामुदकं प्रयच्छ। द्वाभ्यां कारणाभ्यां जलवाहन इत्युच्यते। यश्चोदकं वाहयति ततः स्वनामानुरूपं कुल। जलवाहनः प्राह। कियन्तीमानि देवते मत्स्यानि। देवता प्राह। परिपूर्णानि दशमत्स्यसहस्राणि॥

अथ खलु कुलदेवते जलवाहनस्य श्रेष्ठिदारकस्य भूयस्या मात्रया परमकारुण्यचित्तमुत्पन्नम्। तेन खलु पुनः कुलदेवते समयेनाटवीसंभवायां पुष्करिण्या किंचिन्मात्रमवशिष्टमुदकमभूत्। तानि दशमत्स्यसहस्राणि मृत्युमुखप्रविष्टानि जलविप्रहीणानि धावन्ति॥

अथ खलु कुलदेवते जलवाहनः श्रेष्ठिदारकश्चतुर्दिशं धावति स्म। यस्यां दिशि जलवाहनः श्रेष्ठिदारकोऽनुचङ्कमति तस्यां दिशि दशम्त्स्यसहस्राणि जलवाहनं करुणं प्रेक्षन्ते॥

अथ खलु कुलदेवते जलवाहनः श्रेष्ठिदारकश्चतुर्दिशं धावति स्म। उदकं प्रेषयमाणो न चैवात्रोदकमुपलभ्यते। चतुर्दिशं प्रेक्षते। सोऽद्राक्षीन्नातिदूरे महान्तं वृक्षसमूहं तं वृक्षमभिरुह्य द्रुमशाखाञ्छित्त्वा येन सा पुष्करिणी तेनोपजगाम। उपगम्य तेषां दशानां मत्स्यसहस्राणां द्रुमशाखाभिः सुशीतलाञ्छायां कृतवान्॥



अथ खलु कुलदेवते जलवाहनः श्रेष्ठिदारकस्तस्यां पुष्करिण्यामुदकागमं पर्येषते कुत उदकस्यागमनं भवेत्। चतुर्दिशं धावति न चोदकमुपलभ्यते। स शीघ्रं शीघ्रं तमुदकस्त्रोतं समनुगच्छति। तस्याः खलु पुनः कुलदेवते अटवीसंभवायाः पुष्करिण्या जलागमा नाम महानदी यतस्तस्यामुदकस्यागमनम्। तेन च समयेन सा न्द्यन्यतरेण पापसत्त्वेन तेषां दशानां मत्स्यसहस्राणामर्थेन सा नदीत्यदृष्टे स्थाने महाप्रपाते पातिता यत्तेषां मत्स्यानां न भूय उदकस्यागमनं भविष्यति। स तं दृष्ट्वा चिन्तयति न शक्यत एषा नदी जनसहस्रेणापि तेनैव यथा वाहयितुं किमङ्ग पुनर्मयैकेन शक्यो बाहयितुं स प्रतिनिवृत्तः॥



अथ खलु कुलदेवते जलवाहनः श्रेष्ठिपुत्रः शीघ्रं शीघ्रमुपसंक्रान्तो येन राजा सुरेश्वप्रभस्तेनोपजगाम। उपगम्य राज्ञः सुरेश्वरप्रभस्य पादौ शिरसा नत्वैकान्ते निषण्णः। इमां प्रकृतिमारोचयाति स्म। मया खलु देवस्य विषये सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषु सत्त्वानां व्याधयः प्रशमिताः। तत्रामुष्मिन्स्थानेऽटवीसंभवा नाम पुष्करिणी। तत्र दशमत्स्यसहस्राणि प्रतिवसन्ति जलप्रहीणान्यादित्यपरितापितानि। तद्ददातु मे देवो विंशतिगजा यथा तेषां तिर्यग्योनिगतानां जीवितं ददामीति। यथा मनुष्याणां दत्तमाज्ञप्तं खलु राज्ञा सुरेश्वरप्रभेणामात्यानां ददत महावैद्यराजस्य विंशतिगजान्। अमात्या आहुः। उपसंक्रम महासत्त्व येन हस्तिशाला उपगृह्णीष्व विंशतिगजान् कुरु सत्त्वानां सुखम्॥



अथ खलु कुलदेवते जलवाहनः सार्धं जलाम्बरेण च स्वपुत्रेण विंशतिगजान् गृहीत्वा नागशौण्डिकानां सकाशाच्छतशो दृशीनां प्रतिगृह्य प्रतिनिवृत्तः। यत्र जलागमा नाम महानदी प्रवहति। तत्रोपसंक्रम्योदकेन ता दृतीः पूरयित्वा गजपृष्ठ उदकमारोप्य शीघ्रं शीघ्रं येनाटवीसंभवा पुष्करिणी तेनोपसंक्रान्तः। उपसंक्रम्य तदुदकं हस्तिपृष्ठादवतार्य तां पुष्करिणीं चतुर्दिशमुदकेन पूरयित्वा चतुर्दिशं च क्रमति। येन येन जलवाहनोऽनुचङ्क्रमति तेन तेन दशमत्स्यसहस्राण्यनुधावन्ति॥



अथ खलु कुलदेवते जलवाहनस्यैतदभवत्। किमर्थमेतानि दशमत्स्यसहस्राणि येनाहं तेन प्रधावन्ति। तस्य पुनरेतदभवत्। नूनमेते मत्स्याः क्षुधाग्निना परिपीडिता मम सकाशाद्भोजनं परिमार्गयन्ति। यन्नूनमहं भोजनं प्रयच्छेयम्॥



अथ खलु कुलदेवते जलवाहनः स्वपुत्रं जलाम्बरमेतदवोचत्। गच्छ कुलपुत्र स्वकं निवेशनं सर्वबलतरं हस्तिनमभिरूह्य च शीध्रं शीघ्रमुपसंक्रम्य पितामहस्य श्रेष्ठिन एवं वदेह भो तात जलवाहन एवं वदति यत्किंचिदत्र गृहेऽभिसंस्कृतं भोजनं स्यान्मातापित्रोर्भ्रातृभगिन्योर्दासीदासकर्मकरस्य कृतशः सर्वमेकत्र पिण्डीकृत्वा जलाम्बरस्य हस्तिपृष्टमवरोप्य जलवाहनाय शीघ्रं शीघ्रं विसर्जय॥



अथ खलु जलाम्बरो दारको हस्तिनमभिरुह्य शीघ्रं शीघ्रं धावति स्म। येन स्वकं निवेशनं तेनोपसंक्रामदुपसंम्यैतां प्रकृतं पितामहस्याग्र आरोचयामास विस्तरेण यथा पूर्वोक्तम्। तत्सर्वं पितामहेन जलाम्बराय विसर्जितम्॥



अथ खलु जलम्बरो दारकस्तद्भोजनं हस्तिपृष्ठमुपनाम्य हस्तिनमभिरुह्य येनाटवीसंभवा पुष्करिणी तेनोपसंक्रामत्॥



अथ खलु जलवाहनः स्वकं पुत्रं जलाम्बरमागतं दृष्ट्वा हृष्टस्तुष्ट उदग्रः पुत्रस्यान्तिकाद्भोजनं प्रतिगृह्य च्छित्त्वा तत्र पुष्करिण्यां प्रक्षिपति स्म। तेनाहारेण तानि दशमत्स्यसहस्राणि संतर्पितानि। पुनस्तस्यैतदभवत्। श्रुतं मे परेण कालसमयेनारण्यायतने भिक्षुर्महायानधारयमान इत्याह। यो रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य मरणकालसमये नामधेयं शृणुयात्। स स्वर्गलोक उपपत्स्यतीति। यन्नूनमहमेषां मत्स्यानां गम्भीरं प्रतीत्यसमुत्पादं धर्मं देशयेयम्। रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं श्रावयेयम्। तेन च समयेन तस्मिञ्जम्बुद्वीपे द्विघादृष्टिः सत्त्वानामभूत्। केचिन्महायानमभिश्रद्धयन्ति केचित्क्लेशयन्ति॥



अथ खलु पुनर्जलवाहनः श्रेष्ठिपुत्रस्तस्यां वेलायामुभौ पादौ जानुमात्रं तत्र पुष्करिण्यां प्रवेश्यैवं चिदानमुदानयामास। नमस्तस्य भगवतो रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य पुर्वबोधिसत्त्वचर्यां चरमाणस्य एवं प्रणिधानमभूत्। ये केचिद्दशसु दिक्षु मरणकालसमये मम नामधेयं शृणुयुस्ते ततश्च्युत्वा देवानां त्रायस्त्रिंशानां सभागतायामुपपद्येयुः॥



अथ खलु जलवाहनः श्रेष्ठिदारकस्तेषां तिर्यग्योनिगतानामिमं धर्मं देशयति स्म। यदुतास्मादिदं भवत्यस्योत्पादादिदमुत्पद्यते। यदुताविद्याप्रत्यया संस्कारा। संस्कारप्रत्ययं विज्ञानम्। विज्ञानप्रत्ययं नामरूपम्। नामरूपप्रत्ययं षडायतनम्। षडायतनप्रत्यय स्पर्शः। स्पर्शप्रत्यया वेदना। वेदनाप्रत्यया तृष्णा। तृष्णाप्रत्ययमुपादानम्। उपादानप्रत्ययो भवः। भवप्रत्यया जातिः। जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा भवत्येवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति यदुताविद्यानिरोधात्संरकारनिरोधः। संस्कारनिरोधाद्विज्ञाननिरोधः। विज्ञाननिरोधान्नामरूपनिरोधः। नामरूपनिरोधात्षडायतननिरोधः। षडायतननिरोधात्स्पर्शनिरोधः। स्पर्शनिरोधाद्वेदनानिरोधः। वेदनानिरोधात्तृष्णानिरोधः। तृष्णानिरोधादुपादाननिरोधः। उपादाननिरोधाद्भवनिरोधः। भवनिरोधाज्जातिनिरोधः। जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यते। केवलमस्य महतो दुःखस्कन्धस्य निरोधो भवति। इति हि कुलदेवते तेन कालेन तेन समयेन जलवाहनः श्रेष्ठिपुत्रस्तेषां तिर्यग्योनिगतानामिमां धार्मिककथां कथयति स्म। सार्धं पुत्राभ्यां जलाम्बरेण जलगर्भेण च पुनरपि स्वगृहमनुप्राप्तः॥



अथापरेण कालेन समयेन जलवाहनः श्रेष्ठिपुत्रो महोत्सवं परिभुज्य महोत्सवमत्तो शयने शयितः। तेन च कालेन तेन समयेन महानिमित्तः प्रादुर्भूतः। यत्तस्या रात्र्यामत्ययेन तानि दशमत्स्यसहस्राणि कालगतानि देवेषु त्रायस्त्रिंशत्सु सभागतायामुपपन्नानि। सहोपपन्नानां चैषामेवंरूपश्चेतसः परिवितर्क उत्पन्नः। केन वयं कुशलकर्महेतुनेह देवेषु त्रायस्त्रिंशेषूपपन्नाः। तेषामेतदभूत्। वयमस्मिञ्जम्बुद्वीपे दशमत्स्यसहस्राण्यभूवन्। ते वयं तिर्यग्योनिगता जलवाहनेन श्रेष्ठिदारकेण प्रभूतेनोदकेन संतर्पिता भोजनवरेण च। गम्भीरश्चास्माकं प्रतीत्यसमुत्पादधर्मो देशितः। रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं श्राविताः। तेन कुशलधर्महेतुना तेन प्रत्ययेनेह वयं देवेषूपपन्नाः। यन्नूनं वयं येन जलवाहनः श्रेष्ठिदारकस्तेनोपसंक्रमेमः। उपसंक्रम्य तस्य पूजां करिष्यामः।



अथ तानि दशदेवपुत्रसहस्राणि देवेषु त्रायस्त्रिंशत्स्वन्तर्हितानि जलवाहनस्य श्रिष्ठिनो गृहे तस्थुः। तेन खलु पुनः समयेन च जलवाहनः श्रेष्ट्युपशयने शयितः। तस्यैतैर्देवपुत्रैर्दशमुक्ताहारसहस्राणि शीर्षान्ते स्थापितानि। दशमुक्ताहारसहस्राणि पादतले स्थापितानि। दशमुक्ताहारसहस्राणि दक्षिणपार्श्वे स्थापितानि। दशमुक्ताहारसहस्राणि वामपार्श्वे स्थापितानि। गृहान्तरे जानुमात्रं मान्दारवपुष्पवर्षं प्रावर्षत्। दिव्याश्च दुन्दुभयः पराहताः। येन सर्वे जम्बुद्वीताः प्रतिविबुद्धाः। अथ जलवाहनः श्रेष्ठी प्रतिविबुद्धं॥



अथ तानि दशदेवपुत्रसहस्राणि खगपथेनोपक्रान्तानि। ते च देवपुत्रा राज्ञः सुरेश्वरप्रभस्य विषये स्थानस्थानान्तरे मान्दारवपुष्पवर्षं प्रवर्षयन्तो येनाटवीसंभवा पुष्करिणी तेनोपसंक्रान्ताः ते तत्र पुष्करिण्यां मान्दारवपुष्पं प्रवर्षयन्तस्तत एवान्तर्हिताः पुनरपि देवालयं गताः। तत्र पञ्चभिः कामगुणै रमन्ति स्म। क्रीडन्ति स्म। परिचालयन्ति स्म। महतीं श्रीसौभाग्यतामनुभवन्ति स्म। जम्बुद्वीपे च रात्रीप्रभाताभूत्॥



अथ खलु राजा सुरेश्वरप्रभो गणकमहामात्यान्पृच्छति। किमर्थमद्य रात्रावेतानि निमित्तानि प्रादुर्भूतानि।

तेऽवोचन्। यत्खलु देवो जानीयात्। जलवाहनस्य श्रेष्ठिदारकस्य चत्वारिंशन्मुक्ताहारसहस्राणि प्रवर्षितानि दिव्यानि च मान्दारवपुष्पाणि निर्गच्छन्ति। राजाह। भवन्तो जलवाहनं श्रेष्ठिनं दारकं प्रियवचनेन शब्दापयन्॥



अथ ते गणकमहामात्या येन जलवाहनस्य गृहं तेनोपसंक्रान्ताः। उपसंक्रम्य जलवाहनस्य श्रेष्ठिन एतदवोचन्। राजा सुरेश्वरप्रभस्त्वामामन्त्रयते। अथ जलवाहनः श्रेष्ठी महामात्यैः सार्धं येन राजा सुरेश्वरप्रभस्तेनोपजगाम। उपसंक्रम्यैकान्ते निषण्णः। राजा पृच्छति। जलवाहन किं निमित्तं जानीया यदद्य रात्रावीदृशानि शुभनिमित्तानि प्रादुर्भूतानि। अथ जलवाहनः श्रेष्ठी सुरेश्वरप्रभस्यैतदवोचत्। जानाभि देव नियतं दशमत्स्यसहस्राणि कालगतानि। राजाह। कथं जानासि। जलवाहन आह। गच्छतु देव जलाम्बरस्तां महापुष्करिणीं प्रविशतु। किं तानि दशम्त्स्यसहस्राणि जीवन्ति अथ कालगतानि। राजाह। एवमस्तु॥



अथ जलवाहनः श्रेष्ठिदारको जलाम्बरं दारकमेतदवोचत्। गच्छ कुलपुत्राटवीसंभवायां पुष्करिण्यां पश्य। किं तानि दशमत्स्यसहस्राणि जिवन्ति अथ कालगतानि। अथ जलाम्बरो दारकः शीघ्रं शीघ्रं येनाटवीसंभवा पुष्करिणी तेनोपजगाम। उपसंक्रम्य ददर्श। तानि दशम्त्स्यसहस्राणि कालगतानि महान्तं च मान्दारवपुष्पवर्षं दृष्ट्वा पुनरपि निवृत्तः पितुरेतदवोचत्। कालगतानीति। अथ जलवाहनः श्रेष्ठी दारको जलम्बरस्य दारकस्यान्तिकादिदं वचनं श्रुत्वा येन राजा सुरेश्वरप्रभस्तेनोपसंक्रम्यैतां प्रकृतिमारोचयति स्म। यत्खलु देवो जानीयात्तानि दशम्त्स्यसहस्राणि सर्वाणि कालगतानि देवेषु त्रायस्त्रिंशत्स्वुपपन्नानि। तेषां देवपुत्राणामनुभावेनाद्य रात्राविदृशानि शुभनिमित्तानि प्रादुर्भूतानि। यदस्माकं गृहे चत्वारिंशन्मुक्ताहारसहस्राणि दिव्यानि च मान्दारवपुष्पाणि प्रवर्षितानि। अथ स राजा हृष्टस्तुष्ट उदग्रात्तमना बभूव॥





अथ खलु भगवान्पुनस्तां बोधिसत्त्वसमुच्चयां कुलदेवतामेतदवोचत्॥ स्यात्खलु पुनर्युष्माकं कुलदेवतेऽन्यः स तेन कालेन तेन समयेन सुरेश्वरप्रभो नाम राजा बभूव। न खलु पुनरेवं द्रष्टव्यम्। तत्कस्य हेतोः। दण्डपाणिः शाक्यस्तेन कालेन तेन समयेन सुरेश्वरप्रभो नाम राजा बभूव। स्यात्खलु पुनः कुलदेवतेऽन्यः स तेन कालेन तेन समयेन जटिंधरो नाम श्रेष्ठी बभूव। न खलु पुनरेवं द्रष्टव्यम् । तत्कस्य हेतोः। राजा शुद्धोदनः स तेन कालेन तेन समयेन जटिंधरो नाम श्रेष्ठ्यभूत्॥



स्यात्खलु पुनस्ते कुलदेवतेऽन्यः स तेन कालेन तेन समयेन जलवाहनः श्रेष्ठिदारकोऽभूत्। न खलु पुनरेवं द्रष्टव्यम्। तत्कस्य हेतोः। अहं स तेन कालेन तेन समयेन जलवाहनः श्रेष्ठिदारकोऽभूत्॥ स्यात्खलु पुनस्ते कुलदेवतेऽन्या सा तेन कालेन तेन समयेन जलवाहनस्य जलाम्बुजगर्भा नाम भार्याभूत्। न खलु पुनरेवं द्रष्टव्यम्। तत्कस्य हेतोः। गोपा नाम शाक्यकन्या तेन कालेन समयेन जलवाहनस्य जलाम्बुजगर्भा नाम भार्याभूत्। राहुलभद्रस्तेन कलेन तेन समयेन जलाम्बरो नाम दारकोऽभूत्। आनन्दः स तेन कालेन तेन समयेन जलगर्भो नाम दारकोऽभूत्। स्यात्खलु पुनस्ते कुलदेवतेऽन्यानि तानि तेन कालेन तेन समयेन दशमत्स्यसहस्राणि बभूवः। न पुनरेवं द्रष्टव्यम्। तत्कस्य हेतोः। अमूनि तानि ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राणि तेन कालेन तेन समयेन दशमत्स्यसहस्राणि बभूवुः। यानि मयोदकेन संतर्पितानि। भोजनवरेण च गम्भीरश्च प्रतीत्यसमुत्पादो धर्मो देशितः। रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं श्रावितः। तेन कुशलधर्महेतुना ममान्तिक इहागतानि येनैतर्ह्यनुत्तरायां सम्यक्संबोधौ व्याकृतानि। अतीव प्रीतिप्रासादप्रामोद्येन धर्मश्रुतिगौरवेण सर्वव्याकरणनामधेयानि प्रतिलब्धानीति॥



स्यात्खलु पुनस्ते कुलदेवतेऽन्या सा तेन कालेन तेन समयेन वृक्षदेवताभूत्। नैवं द्रष्टव्यम्। तत्कस्य हेतोः। त्वमभूः कुलदेवते तेन कालेन तेन समयेन वृक्षदेवता। अनेन कुलदेवते पर्यायेणैवं वेदितव्यम्। यथा मया संसारे संसरता बहवः सत्त्वाः परिपाचिता बोधौ। ये ते सर्वे व्याकरणभूमिं प्रतिलप्स्यन्तेऽनुत्तरायां सम्यक्संबोधाविति॥



इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे जलवाहनस्य

मत्स्यवैनेयपरिवर्तोऽष्टादशः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project