Digital Sanskrit Buddhist Canon

दशदेवपुत्रसहस्रव्याकरणपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Daśadevaputrasahasravyākaraṇaparivartaḥ
॥ दशदेवपुत्रसहस्रव्याकरणपरिवर्तः॥



एवमुक्ते बोधिसत्त्वसमुच्चया कुलदेवता भगवन्तमेतदवोचत्। केन भदन्त भगवन् हेतुना केन कारणेन कीदृशेनोत्तप्तवीर्येण कुशलमूलेन यस्य कृतत्वादुपचितत्वादेवतानि ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राण्येतर्हि त्रायस्त्रिशद्देवभवनादागतानि भगवतोऽन्तिके धर्मश्रवणायोपसंक्रामन्ति।



एतेषां त्रयाणां सत्पुरुषाणां बोधिसत्त्वव्याकरणं श्रुत्वा बोधौ चित्तमुत्पादयन्ति। यथायं रुचिरकेतुः सत्पुरुषोऽनागतेऽध्वनि गणनासमतिक्रान्तेष्वनेकेष्वसंख्येयकल्पकोटीनियुतशतसहस्रेष्वतिक्रान्तेषु सुवर्णप्रभासितायां लोकधातावनुत्तरां सम्यक्यंबोधिमभिसंभोत्स्यते। सुवर्णरत्नाकरच्छत्रकूटो नाम तथागतोऽर्हन्सम्यक्संबुद्धो लोक उत्पत्स्यते विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवन्। यावत्तस्य भगवतः सुवर्णरत्नाकरच्छत्रकूटस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सद्धर्मान्तर्हिते सर्वेण सर्वे सर्वथा सर्वं तस्य शासनस्यान्तर्हितस्यायं रूप्यकेतुर्नाम दारकः। तस्य तथागतस्यानुसंघौ तत्र चैव विरजध्वजलोकधातौ सुवर्णजम्बुध्वजकाञ्चनाभो नाम तथागतोऽर्हन्सम्यक्संबुद्धो लोक उत्पत्स्यते। यावत्तस्य सुवर्णध्वजकाञ्चनावभासस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सर्वेण सर्वे सर्वथा सर्वं तस्य शासनस्यान्तर्हितस्यायं रूप्यप्रभो दारकः। तस्य तथागतस्योनुसंघौ तत्र चैव विरजध्वजलोकधातावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते। सुवर्णशतरश्मिप्रभासगर्भो नाम तथागतोऽर्हनसम्यक्संबुद्धो लोक उत्पस्यते विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्॥ ते सर्व एतर्हि भगवतानुत्तरायां सम्यक् संबोधौ व्याकृताः॥



न चैतेषां भदन्त भगवज्ज्वलनान्तरतेजोराजप्रमुखानां दशानां देवपुत्रसहस्राणां यावद्विस्तीर्णा बोधिसत्वचर्या अभूवन्। न षट्सु पारमितासु पूर्वं चरितवन्तः श्रुतपूर्वा अभूवन्। नयनचरणोत्तमाङ्गप्रियपुत्रभार्यादुहितरः परित्यक्तपूर्वा न श्रूयन्ते। धनधान्यहिरण्यसुवर्णमणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवाडजातरूपरजतमरकतरत्नानि परित्यक्तपूर्वाणि न श्रूयन्ते। नानान्नपानवस्त्रयानशयनासनभवनविमानारामपुष्करिणीतडागाः परित्यक्तपूर्वा न श्रूयन्ते। नानाहस्तिगोऽश्ववडवादासीदासाः परित्यक्तपूर्वा न श्रूयन्ते। यथा तान्यनेकानि बोधिसत्त्वकोटीनियुतशतसहस्राणि पूर्वेष्वसंख्येयकल्पकोटीनियुतशतसहस्रेष्वनेकानामसंख्येयतथागतकोटीनियुतशतसहस्राणामनेकाचिन्त्यैः नानाविचित्रैः पूजाशतसहस्रैः सर्वोपकरणैः पूजां करिष्यन्ति। सर्वरत्नपरित्यागानि परित्यजिष्यन्ति। करचरणनयनोत्तमाङ्गप्रियपुत्रभार्यादुहितापरित्यागानि करिष्यन्ति। धनधान्यहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडरजतजातरूपाणि परित्यागानि परित्यजन्ति। अन्नपानवस्त्रशयनासनभवनविमानारामोद्यानपुष्करिणीहस्तिगवाश्चवडवादासीदासपरित्यागानि परित्यक्ष्यन्ति। अनुपूर्वेण षट्पारमिताः परिपूरयिष्यन्ति। अनुपूर्वेण षट्पारमिताः परिपूरयित्वानेकानि सुखशतसहस्राण्यनुभविष्यन्ति । यावद्बुद्धेभ्यो भगवद्भयः तथागतनामधेये व्याकरणं प्रतिलप्स्यन्ते॥



तत्केन भदन्त भगवन् हेतुना केन कारणेन कीदृशेनोप्तकुशलमूलेन च तानि ज्वलनान्तरते जोराजप्रमुखानि दशदेवपुत्रसहस्राणीह भगवतोऽन्तिकं धर्मश्रवणायोपसंक्रामन्ति। तान्येतर्हि भगवतानुत्तरायां सम्यक्संबोधौ व्याकृतानि। यदुतानागतेऽध्वन्यनेकेष्वसंख्येयकल्पकोटीनियुतशतसहस्रेष्वतिक्रान्तेषु तत्रेव शालेन्द्रध्वजाग्रवत्यां लोकधातावेककुलगोत्रैकनामधेयेनानुपूर्वेणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते। प्रसन्नवदनोत्पलगन्धकूटानाम्ना दशसु दिक्षु दशबुद्धसहस्राणि लोक उत्पत्स्यन्ते विद्याचरणसंपन्नाः सुगता लोकविदोऽनुत्तराः पुरुषदम्यसारथयः शास्तारो देवानां च मनुष्याणां च बुद्धा भगवन्तः॥



एवमुक्ते भगवांस्तां बोधिसत्त्वसमुच्चयां कुलदेवतामेतदवोचत्। अस्ति कुलदेवते सहेतुरस्ति तत्कारणम्। अस्ति तदुप्तं कुशलमूलं यस्य कृतत्वादुपचितत्वादेतानि ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राण्येतर्हि त्रायस्त्रिंशद्भवनादिह धर्मश्रवणायोपसंक्रामन्ति। एतेषां त्रयाणां सत्पुरुषाणामिदं बोधिव्याकरणं श्रुत्वा सहश्रवणेन कुलदेवतेऽस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यान्तिके चित्रीकारप्रीतिप्रसादप्रतिलब्धा भवन्ति। तावद्विमलवैडुर्यसदृशेन परिशुद्धचित्तेन समन्वागता भवन्ति। विमलविपुलविस्तीर्णगगणकल्पसदृशेन गम्भीरेण चित्तप्रसादेन समन्वागता भवन्ति। अपरिमितं च पुण्यस्कन्धं परिगृहीतवन्तो भवन्ति तावच्चैत्यदैवते ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राणि सहश्रवणेनास्य सूत्रेन्द्रराजस्यान्तिके चित्रीकारप्रसादप्रतिलब्धा भवन्ति। तावद्विमलवैडूर्यसदृशेन परिशुद्धेन चित्तेन समन्वागता भवन्ति यावद्याकरणभूमिमनुप्राप्ताः। अनेन कुलदेवते धर्मश्रवणकुशलमूलप्रचयेनापि पूर्वप्रणिधानवशेनैतानि ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राण्येतर्ह्यनुत्तरायां सम्यक्संबोधौ व्याकृतानि। कतमानि च कुलदेवते पूर्वप्रणिधानानीति।



इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे दशदेवपुत्रसहस्रव्याकरणपरिवर्तः षोडशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project