Digital Sanskrit Buddhist Canon

यक्षाश्रयरक्षापरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Yakṣāśrayarakṣāparivartaḥ

॥ यक्षाश्रयरक्षापरिवर्तः॥



यः कश्चिच्छ्रीमहादेवि श्राद्धः कुलपुत्रो वा कुलदुहिता वातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतामचिन्त्यां महतीं विपुलां विस्तीर्णां सर्वोपकरणैः पूजां कर्त्तुकामः स्यात्। अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां गम्भीरं बुद्धगोचरं परिज्ञातुकामो भवेत्। तेनावश्यं तत्र प्रदेशे विहारे वारण्यप्रदेशे वा यत्रायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः विस्तरेण संप्रकाश्यते। तेनाविक्षिप्तचित्तेनाविरहितश्रोत्रेणायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः श्रोतव्यः॥



अथ खलु भगवानिममेवार्थं भूयस्या मात्रया संपरिदीपयमानस्तस्यां वेलायामिमा गाथा अभाषत॥

य इच्छेत्सर्वबुद्धानां पूजां कर्तुमचिन्तियाम्।

गम्भीरं सर्वबुद्धानां गोचरं च प्रजनितुम्॥ १॥

सर्वदेशोपसंक्रम्य विहारं लयनं तथा।

यावद्देशीयते सूत्रं स्वर्णभासोत्तमं त्विदम्॥ २॥

अचिन्तियमिदं सूत्रमनन्तगुणसागरम्।

मोचकं सर्वसत्त्वानामनेकदुःखसागरात्॥ ३॥

आदिं सूत्रस्य पश्यामि मध्यमनिधनं तथा।

अतिगम्भीरसूत्रेन्द्र उपमानं न विद्यते॥ ४॥

न गङ्गारजसा चैव न धरण्यां न सागरे।

न चाम्बरतलस्थस्य किंचिच्छक्योपमा कृतुम्॥ ५॥

धर्मधातुप्रवेशेन प्रवेष्टव्यं तदन्तरम्।

यत्र धर्मात्मकस्तूपं गम्भीरं सुप्रतिष्ठितम्॥ ६॥

तत्र च स्तूपमध्येऽस्मिन्पश्येच्छाक्यमुनिं जिनम्।

इदं सूत्रं प्रकाशन्तं मनोज्ञेन स्वरेण च॥ ७॥

यावन्ति कल्पकोट्यो वै असंख्येया अचिन्तियाः।

दिव्यमानुष्यकाण्येव सुखानि ह्यनुभूयते॥ ८॥

यदा स एवं जानीयाद्यत्तत्र सूत्र श्रूयते।

एवमचिन्तियं मह्यं पुण्यस्कन्धं समार्जितम्॥ ९॥

आक्रमेद्योजनशतं पूर्णमग्निखदावृतम्।

यः सकृच्छुणितुं सूत्रं सहेतु वेदनां भृशम्॥ १०॥

समनन्तरप्रविष्टस्य विहारं लयनं तथा।

अपगच्छति पापानि सर्वदुःस्वप्नलक्षणा॥ ११॥

ग्रहनक्षत्रपीडा च काखोर्दग्रहदारुणा।

समनन्तरप्रविष्टस्य सर्वे भोन्ति पराङ्मुखाः॥ १२॥

तादृशमासनं तत्र कुर्वीत पद्मसंनिभम्।

यादृशं नागराजैश्च दर्शितं सुपिनान्तरे॥ १३॥

तत्रासनोपविष्टस्य इदं सूत्रं प्रकाशयेत्।

लिखितं वाचयेच्चैव तथैव पर्यवाप्नुयात्॥ १४॥

अवतीर्यासनादेव अन्यदेशे गतो भवेत्।

दृश्यन्ते प्रतिहार्याणि तत्रासनगतानि च॥ १५॥

धर्मभाणकरूपं च कदाचित्तत्र दृश्यते।

कदाचिद्बुद्ध रूपं च बोधिसत्त्वं कदाचन॥ १६॥

समन्तभद्ररूपाणि क्वचिन्मञ्जुश्रियस्तथा।

क्वचिन्मैत्रैयरुपाणि दृश्यन्ते तत्र आसने॥ १७॥

क्वचित्केवलमाभासं क्वचिद्देवोपदर्शनम्।

मुहूर्तेनाभिदृश्यन्ते पुनश्चान्तरहायिषु॥ १८॥

सर्वत्र संसिद्धिकरं प्रशस्तं बुद्धशासनम्।

धन्यमङ्गलसम्पन्नं संग्रामे च जयावहम्॥ १९॥

जम्बुद्वीपमिदं सर्वं यशसा पूरयिष्यति।

सर्वे च रिपवस्तस्य निर्जिता भोन्ति सर्वथा॥ २०॥

निहतशत्रुः सदा भोति सर्वपापविवर्जितः।

सदा विजितसंग्रामः श्रिया स च प्रमोदति॥ २१॥

ब्रह्मेन्द्रास्त्रिदशेन्द्राश्च लोकपालास्तथैव च।

वज्रपाणिश्च यक्षेन्द्रः संज्ञेयश्च नरर्षभः॥ २२॥

अनवतप्त नागेन्द्रः सागरश्च तथैव च।

किंनरेन्द्राः सुरेन्द्राश्च गरुडेन्द्रास्तथैव च।

एतांश्च प्रमुखान् कृत्वा सर्वाणि देवतानि च॥ २३॥

ते च ता नित्यं पूजन्ति धर्मस्तूपमचिन्तियम्।

प्रहर्षिता भविष्यन्ति दृष्ट्वा सत्त्वाः स गौरवाः॥ २४॥

तेऽप्येवं चिन्तयिष्यन्ति देवेन्द्राः सर्व उत्तमाः।

देवताश्चैव तास्सर्वा वक्ष्यन्ति च परस्परम्॥ २५॥

एता पश्यथ सर्वाणि तेजः श्रीपुण्यसंचिता।

उप्तकुशलमूलेन आग्तास्ते नरा इह॥ २६॥

य इमं सूत्रगम्भीरं श्रवणार्थमिहागताः।

अचिन्तियप्रसादेन धर्मस्तूपे सगौरवाः॥ २७॥

एते कारुणिका लोके एते सत्त्वहितंकराः।

एते गम्भीरधर्माणां सद्धर्मरसभोजनम्॥ २८॥

धर्मधातुप्रवेशेन य एते प्रविशन्ति च।

ये शृण्वन्ति इदं सूत्रं ये चान्याञ्श्रावयन्ति च॥ २९॥

बुद्धा शतसहस्राणि तेभिस्ते पूर्वपूजिताः।

एतेन कुशलमूलेन इदं सूत्रं शृण्वन्ति च॥ ३०॥

ते सर्वे देवराजेन्द्राः सरस्वती तथैव च।

श्रीश्च वैश्रवणश्चैव तथा चतुर्महाधिपाः॥ ३१॥

यक्षशतसहस्रेभिरृद्धिमद्भिर्महाबलैः।

तेषां रक्षां करिष्यन्ति दिवारात्रावतन्द्रिताः॥ ३२॥

महाबलैश्च यक्षेन्द्रैर्नारायणमहेश्वरौ।

अष्टाविंशतिश्चाप्यन्ये संज्ञेयप्रमुखाणि च॥ ३३॥

यक्षशतसहस्रेभिरृद्धिमद्भिर्महाबलैः।

तेषां रक्षां करिष्यन्ति सर्वत्रासभयेषु च॥ ३४॥

वज्रपाणिश्च यक्षेन्द्रः पञ्चयक्षशतैरपि।

सर्वेभि बोधिसत्त्वेभिस्तेषां रक्षां करिष्यति॥ ३५॥

मणिभद्रश्च यक्षेन्द्रः पूर्णभद्रस्तथैव च।

कुम्भीरोऽटावकश्चैव पिङ्गलश्च महाबलः। ३६॥

एकैकश्चैव यक्षेन्द्रः पञ्चयक्षश्तैर्वृतः।

तेषां रक्षां करिष्यति येभिः सूत्रमिदं श्रुतम्॥ ३७॥

चित्रसेनश्च गन्धर्वो जिनराजो जिनर्षभः।

मणिकण्ठो नीलकण्ठश्च वर्षाधिपतिरेव च॥ ३८॥

महाग्रासो महाकालः स्वर्णकेशी तथैव च।

पाञ्चिकश्छगलपादश्च महाभागस्तथैव च॥ ३९॥

प्रणाली महापालश्च मर्कटो वालिरेव च।

सूचिरोमः सूर्यमित्रो रत्नकेशस्तथैव च॥ ४०॥

महाप्रणाली नकुलः कामश्रेष्ठश्च चन्दनः।

नागायनो हैमवतः सातागिरिस्तथैव च॥ ४१॥

सर्वे त ऋद्धिमन्तश्च महाबलपराक्रमाः।

तेषां रक्षां करिष्यन्ति येषां सूत्रमिदं प्रियम्॥ ४२॥

अनवतप्तो हि नागेन्द्रः सागरोऽपि तथैव च।

मुचिलिन्न्दैरेलापत्रौ उभौ नन्दोपनन्दकौ॥ ४३॥

नागशतसहस्रेभिरृद्धिमद्भिर्महाबलैः।

तेषां रक्षां करिष्यन्ति सर्वतो भयभैरवात्॥ ४४॥

वली राहुर्नमुचिश्च वेमचित्रश्च संवरः।

प्रह्रादः खरस्कन्धश्च तथान्ये चासुराधिपाः॥ ४५॥

असुरशतसहस्रेभिरृद्धिमद्भिर्महाबलैः।

तेषां रक्षां करिष्यन्ति उत्पातभयभैरवात्॥ ४६॥

हारीती भूतमाता च पञ्चपुत्रशतैरपि।

तेषां रक्षां करिष्यन्ति सप्तमातृस्थितानि च॥ ४७॥

चण्डा चण्डालिका चैव यक्षिणी चण्डिका तथा।

दन्ती च कूटदन्ती च सर्वसत्त्वौजहारिणी॥ ४८॥

एते सर्व ऋद्धिमन्तो महाबलपराक्रमाः।

तेषां रक्षां करिष्यन्ति समन्तेन चतुर्दिशः॥ ४९॥

सरस्वती च प्रमुखा देवता च अचिन्तिया।

तथा श्रीप्रमुखाश्चैव सर्वाणि देवतानि च॥ ५०॥

पृथिवी देवता चैव फलशस्याधिदेवता।

आरामवृक्षचैत्यानि वासिन्योनदि देवता॥ ५१॥

ते सर्वे देवतासंघाः सुप्रहर्षितचेतसाः।

तेषां रक्षां करिष्यन्ति येषां सूत्रमिदं प्रियम्॥ ५२॥

योजयन्ति च ते सत्त्वा आयुर्वर्णबलेन च।

श्रीपुण्यतेजलक्ष्मीभिस्ते नित्यालंकरोन्ति च॥ ५३॥

ग्रहनक्षत्रपीडाश्च सर्वास्ते शमयन्ति च।

अलक्ष्मीपापदुःस्वप्नं सर्वे ते नाशयन्ति च॥ ५४॥

पृथिवीदेवता चैव गम्भीरा च महाबला।

सुवर्णप्रभासोत्तमसूत्रेन्द्ररसतर्पिता॥ ५५॥

अष्टषष्टिसहस्राणि शतानि योजनानि च।

यावद्वज्रतलस्थानं वर्घते पृथिवीरसैः॥ ५६॥

पूर्णं च शतयोजनं पुरस्तात्संनिवर्तति।

ऊर्ध्वं स्नेहयते मही इतः सूत्रश्रवणबलात्॥ ५७॥

सर्वाश्च देवताश्चापि दशदिक्षु व्यवस्थिताः।

सुवर्णप्रभसोत्तमसूत्रेन्द्ररसतर्पिताः॥ ५८॥

ओजोवन्तो वरा भोन्ति लक्ष्मीवीर्यवलान्विताः।

सुखेन प्रीणिता भोन्ति नानारससमर्पिताः॥ ५९॥

सर्वत्र जम्बुद्वीपेऽस्मिन्फलशस्यवनदेवताः।

प्रहर्षिता भविष्यन्ति इह सूत्रे प्रकाशने॥ ६०॥

शस्यानि च तृणान्येव विचित्रकुसुमानि च।

विचित्राः फलवृक्षाश्च रोहयन्ति समन्ततः॥ ६१॥

सर्वाणि फलवृक्षाणि आरामाणि वनानि च।

सुपुष्पितं करिष्यन्ति नानागन्धप्रमोदितम्॥ ६२॥

विचित्रेभिश्च पुष्पेभिर्विचित्रेभिः फलैरपि।

सर्वास्तृणवनस्पत्यो रोहयन्ति महीतले॥ ६३॥

सर्वत्र जम्बुद्वीपेऽस्मिन्नागकन्या अचिन्तियाः।

प्रहृष्टचेतसोद्भूताः पद्मिनीषूपसंक्रमन्॥ ६४॥

रोहयन्ति विचित्राणि सर्वासु पद्मिनीषु च।

पद्मकुमुदोत्पलानि च पुण्डरीकस्तथैव च॥ ६५॥

धूमात्र जालिनी मुक्तं भवते गगणं शुभम्।

तमोरजोविनिर्मुक्ता दिशो भोन्ति प्रभास्वराः॥ ६६॥

सूर्यः सहस्रकिरणै रश्मिजालेन सुप्रभः।

गम्भीरेणावभासेन हर्षितश्चोदयिष्यति॥ ६७॥

जम्बूनदसुवर्णस्य विमानान्तरसंस्थितः।

सूर्येन्द्रदेवपुत्राश्च इतः सूत्रात् सुतर्पिताः॥ ६८॥

उपयान्ति जम्बुद्वीपे सूत्रेन्द्राः संप्रहर्षिताः।

अनन्तरश्मिजालेन भो भास्यन्ति समन्ततः॥ ६९॥

सहबोधितमात्रेण रश्मिजालप्रचोदने।

नानापद्मिनीसंछन्ना कमला बोधयिष्यन्ति॥ ७०॥

सर्वत्र जम्बुद्वीपेऽस्मिन्नानाशस्य फलौषधीः।

परिपाचयन्ति सम्यक् तं चातपयते महिम्॥ ७१॥

चन्द्रसूर्यौ विशेषेण अवभासेतां तदन्तरम्।

सम्यग्वहन्ति नक्षत्रा वातवर्षं तथैव च॥ ७२॥

सुभिक्षं भवते सर्वं जम्बुद्वीपे समन्ततः।

विशेषेण च तद्राष्ट्रं यत्र सूत्रमिदं भवेत्॥ ७३॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे यक्षाश्रयो

नामरक्षापरिवर्तः पञ्चदशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project