Digital Sanskrit Buddhist Canon

देवेन्द्रसमयराजशास्त्रपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Devendrasamayarājaśāstraparivartaḥ

॥ देवेन्द्रसमयराजशास्त्रपरिवर्तः॥



नमस्तस्य भगवतो रत्नकुसुमगुणसागरवैडूर्यकनकगिरिसुवर्णकाञ्चनप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य। नमस्यस्यानेकगुणकोटीनियुतशतसहस्रसमलंकृतशरीरस्य शाक्यमुनेस्तथागतस्य यस्येयं धर्मोल्का ज्वलति। नमस्तस्या अपरिमितपुण्यधान्यमाङ्गल्यसम्पन्नायाः श्रियो महादेव्याः। नमस्तस्या अपरिमितगुणप्रज्ञासमुदितायाः सरस्वत्या देव्याः॥



तेन खलु पुनः कालेन तेन समयेन राजा बलदकेतुः पुत्रस्य रुचिरकेतोरचिराभिषिक्तस्य च राज्यप्रतिष्ठितस्यैतदवोचत्। अस्ति पुत्र देवेन्द्रसमयं नाम राजशास्त्रम्। यन्मया पूर्वमचिराभिषिक्तेन च राज्यप्रतिष्ठितेन पितू राज्ञो बलेन्द्रकेतोः सकाशादुद्गृहीतम्। तेन मया देवेन्द्रसमयेन राजशास्त्रेण विंशतिवर्षसहस्राणि राजत्वं कारितं बभूव। नाभिजानाम्यहमन्तश एकचित्तक्षणप्रमाणमात्रेणापि कस्यचिदधर्मस्थितपूर्वम्। कतमत्तत्र देवेन्द्रसमयं नाम राजशास्त्रम्॥

अथ खलु कुलदेवते राजा बलदकेतुस्तेन कालेन तेन समयेन पुत्रस्य राज्ञो रुचिरकेतोरिमाभिर्गाथाभिर्देवेन्द्रसमयं नाम राजशास्त्रं विस्तरेण संप्रकाशयति स्म॥

राजशास्त्रं प्रवक्ष्यामि सर्वसत्त्वहितं करम्।

सर्वसंशयच्छेत्तारं सर्वदुष्कृतनाशनम्॥ १॥

हृष्टचित्ता भवित्वेह सर्वे नृपतयः पृथक्।

सर्वदेवेन्द्रसमयं शृणुध्वं प्राञ्जलिकृताः॥ २॥

वज्रप्राकारगिरीन्द्रेऽस्मिन्देवेन्द्राणां समागमैं।

उत्थितैर्लोकपालेभिर्ब्रह्मेन्द्रः परिपृच्छितः॥ ३॥

त्वं नः सुरगुरुर्ब्रह्मा देवतानां त्वमीश्वरः।

छेत्ता त्वं संशयानां च च्छिन्दयास्माकं संशयम्॥ ४॥

कथं मनुष्यसंभूतो राजा देवः स प्रोच्यते।

यदिह मानुषे लोके जायते च भवन्नृपः॥ ५॥

कथं देवमनुष्येषु राजत्वं च करिष्यते।

एवं हि लोकपालिभिर्ब्रह्मेम्द्रः परिपृच्छतः॥ ६॥

सर्वा सुरगुरुर्ब्रह्मा लोकपालानिहाब्रवीत्।

यदिह लोकपालेभिरेतर्हि मम पृच्छितः।

सर्वसत्त्वहितार्थाय वक्ष्येऽहं शास्त्रमुत्तमम्॥ ७॥

नाराणां संभवं वक्ष्ये युक्त्वाहं मनुजालये।

हेतुना येन राजानो भवन्ति विषयेषु च॥ ८॥

देवेन्द्राणामधिष्ठाने मातुः कुक्षौ प्रवेक्ष्यति।

पूर्वमधिष्ठितो देवैः पश्चाद् गर्भे प्रपद्यते॥ ९॥

किं चापि मानुषे लोके जायते श्रीयते नृपः।

अपि वै देवसंभूतो देवपुत्रः स उच्यते॥ १०॥

त्रायस्त्रिंशैर्देवराजेन्द्रैर्भागो दत्तो नृपस्य हि।

पुत्रस्त्वं सह देवानां निर्मितो मनुजेश्वरः॥ ११॥

अधर्मशमनार्थाय दुष्कृतानां निवारकः।

सुकृतौ स्थापयेत्सत्त्वान्प्रेषणार्थं सुरालये॥ १२॥

मनुष्यो वाथ देवो वा गन्धर्वो वा नराधिपः।

राक्षसो वाथ चण्डालो दुष्कृतानां निवारकः॥ १३॥

माता पिता वा नृपतिः सुकृतौ कर्मकारिणाम्।

विपाकफलदर्शी त्वं देवराजैरधिष्ठितः॥ १४॥

सुकृतदुष्कृतानां च कर्मणां दृष्टधार्मिकः।

विपाकफलदर्शी त्वं देवराजैरधिष्ठितं॥ १५॥

यदा ह्युपेक्षते राजा दुष्कृतं विषये स्थितम्।

नानारूपं न कुर्वीत दण्डं पापजनस्य च।

दुष्कृतानामुपेक्षायामधर्मो वर्धते भृशम्॥ १६॥

शाठ्यानि कलहाश्चैव भूयो राष्ट्रे भवन्ति च।

प्रकुप्यन्ति च देवेन्द्रास्त्रायत्रिंशद्भवनेषु च॥ १७॥

यदा ह्युपेक्षते राजा दुष्कृतं विषये स्थिरम्।

हन्यते विषयो घोरैः शठ्यैरपि सुदारुणैः॥ १८॥

विनश्यति च तद्राष्ट्रं परचक्रस्य चाक्रमे।

भोगानि च बलान्येव धनं यस्यास्ति संचितम्॥ १९॥

विविधानि च शाठ्यानि हरन्ति च परस्परम्।

येन कार्येण राजत्वं नैतत्कार्यं करिष्यति।

विलोपयति स्वं राष्ट्रं गजेन्द्र इव पद्मिनीम्॥ २०॥

विषमा वायवो वान्ति विषमा जलवृष्टयः।

विषमा ग्रहनक्षत्राश्चन्द्रसूर्यौ तथैव च॥ २१॥

सस्यं पुष्पं फलं बीजं व सम्यक्परिपच्यते।

दुर्भिक्षं भवते तत्र यत्र राजा ह्युपेक्षकः।

अनात्तमानसो देवा भवन्ति भवनेषु च॥ २२॥

यदा ह्युपेक्षते राजा दुष्कृतं विचरेत्परम्।

ते सर्वे देवराजाश्च वक्ष्यन्ति च परस्परम्॥ २३॥

अधार्मिको ह्ययं राजा ह्यधर्मपक्षमाश्रितः।

न चिरेण ह्ययं राजा देवतां कोपयिष्यति॥ २४॥

देवतानां परिकोपाद्विषयोऽस्य विनक्ष्यति।

शस्राणि च अधर्मश्च विषयेऽत्र भविष्यन्ति॥ २५॥

शाठ्यानां कलहानां च रोगाणां च समुद्भवः।

प्रकुप्यति च देवेन्द्र उपेक्ष्यन्ति च देवताः॥ २६॥

प्रलुप्यते च यद्राष्ट्रं स नृपः शोकमृच्छति।

इष्टवियोगं प्राप्नोति भ्रात्रा वाथ सुतेन वा॥ २७॥

प्रियभार्यावियोगो वा प्राप्यते दुहिताथ वा।

उल्कापाता भविष्यन्ति प्रतिसूर्यास्तथैव च॥ २८॥

परचक्रभयं वापि दुर्भिक्षं वर्धति भृशम्।

प्रियामात्यश्च म्रियतेऽप्रियस्तु गर्जते वचः॥ २९॥

सुताभीष्टं प्रियाश्वासं बालाभार्याविरोधिनः।

परस्परं हरिष्यन्ति कुलभोगं धनानि च॥ ३०॥

देशे देशे हनिष्यन्ति शस्त्रेण च परस्परम्।

विवादाः कलहाः शाठ्या भवन्ति विषयेषु च॥ ३१॥

ग्रहः प्रविशते राष्ट्रे व्याधिर्भवति दारुणः।

अधार्मिका भविष्यन्ति दिक्षणीयास्तदन्तरम्॥ ३२॥

अमात्याः परिषद्याश्च भवन्त्यस्याप्यधार्मिकाः।

अधार्मिकजने पूजा भविष्यन्ति तदन्तरम्॥ ३३॥

धार्मिकानां च सत्त्वानां निग्रहो भवति ध्रुवम्।

अधार्मिकजने मानं धार्मिकानां च निग्रहम्।

त्रयस्तत्र प्रकुप्यन्ते नक्षत्रजलवायवः॥ ३४॥

त्रयो भावा विनश्यन्ति अधार्मिकजनो ग्रहे।

सद्धर्मरसनोजश्च सत्त्वोजः पृथिवीरसः॥ ३५॥

असत्यजनसंमानं सत्यजनविमानता।

त्रयस्तत्र भविष्यन्ति दुर्भिक्षमथ निर्भरम्।

फलसस्यरसौजश्च न भवति तदन्तरे॥ ३६॥

ग्लानेन बहुलाः सत्त्वा भवन्ति विषयेषु च।

मधुराणि महान्ति च फलानि विषयेऽपि हि।

परीता च भविष्यन्ति तिक्तः कटुक एव च॥ ३७॥

पूर्वा रम्याणि भावानि क्रीडाहास्यरतीनि च।

सभा रम्या भविष्यन्ति आयासशतव्याकुलाः॥ ३८॥

धान्यानां च फलानां च स्निग्घभावो रसः क्षयेत्।

न तथा प्रीणयिष्यन्ति शरीरेन्द्रियधातवः॥ ३९॥

दुर्वर्णाः सत्त्वा भविष्यन्ति स्वल्पस्थामाः सुदुर्बलाः।

बहु च भोजनं भुक्त्वा तृप्तिं नासादयन्ति ते॥ ४०॥

बलं च स्थाम वीर्यं च न लभन्ति तदन्तरे।

हीनवीर्याणि सत्त्वानि भवन्ति विषयेषु च॥ ४१॥

सत्त्वा भविष्यन्ति रोगार्ता नानाव्याधिप्रपीडिताः।

ग्रहा भविष्यन्ति नक्षत्रा नानाराक्षससंभवाः॥ ४२॥

अधार्मिको भवेद्राजा अधर्मपक्षसंस्थितः।

त्रैधातुके विरुद्धोऽस्ति सर्वत्रैलोक्यमण्डलम्।

अनेके ईदृशा दोषा भवन्ति विषयेषु च॥ ४३॥

यदा पक्षस्थितो राजा दुष्कृतं समुपेक्षते।

येन कार्येण राजा वै देवेन्द्रेभिरधिष्ठितः।

न तत्करोति राजत्वं दुष्कृतं समुपेक्षतः॥ ४४॥

सुकृतेनोपपद्यन्ते सर्वदेवसुरालये।

दुष्कृतेन च गच्छन्ति प्रेततिर्यग्नरकेषु च।

त्रायस्त्रिंशद्देवस्थाने प्रतापयन्ति दुष्कृतात्॥ ४५॥

यदा ह्युपक्षते राजा दुष्कृतं विषये स्थितम्।

पितॄणां देवराजानां भवेन सापराधिकः।

न तद्भवति पुत्रत्वं न रजत्वं कृतं भवेत्॥ ४६॥

यदापि नश्यते कार्यं शाठ्यैरपि सुदारुणैः।

तस्मादधिष्ठितो राजा देवेन्द्रर्मनुजालये॥ ४७॥

दुष्कृतानां शमनार्थाय सुकृतानां प्रवर्तकः।

दृष्टधार्मिकः सत्त्वानां विपाकजनको नृपः॥ ४८॥

सुकृतदुष्कृतानां च कर्मणां यः पृथग्विधः।

विपाकफलदर्शार्थं कर्त्ता राजा हि प्रोच्यते।

अधिष्ठितो देवगणैर्देवेन्द्रैरनुमोदितः॥ ४९॥

आत्मनोऽर्थं परार्थाय धर्मार्थं विषयस्य च।

दमनार्थाय राष्ट्रेषु शठपापजनस्य च॥ ५०॥

त्यजेच्च जीवितं राज्यं धर्मार्थं विषयस्य च।

मा चाधर्ममपृच्छित्वा जानन्तं समुपेक्षत॥ ५१॥

न चान्यस्तादृशो नाशो विषयेऽस्मिन् सुदारुणः।

यदा शाठ्यसमुत्पन्नः शाठ्यकान्तारनिग्रहः॥ ५२॥

भूयो भवन्ति शाठ्यानि विषयेऽस्मिन् सुदारुणा।

विलुप्यते च तद्राष्ट्रं गजैरिव महासरः॥ ५३॥

प्रकुप्यन्ति च देवेन्द्रा विलुम्पते सुरालयम्।

विषमाः सर्वभावाश्च भवन्ति विषयस्य हि॥ ५४॥

तस्माद्दोषानुरूपं स्याद्दमनं पापकारिणाम्।

धर्मेण पालयेद्राष्टं मा चाधर्मं समाचरेत्॥ ५५॥

जीवितं च परित्यज्य मा पापे पतितो भवेत्।

बन्धुजने परजने सर्वराष्ट्रजनेषु च।

एकापेक्षो भवेद्राजा मा पक्षे पतितो भवेत्॥ ५६॥

त्रैलोक्यमापूरयते यशसा धार्मिको नृपः।

हर्षयिष्यन्ति देवेन्द्रास्त्रायस्त्रिंशद्भवेषु च॥ ५७॥

जम्बूद्वीपे तथास्माकं पुत्रो धर्मात्मको नृपः।

धर्मेण शास्यते राष्ट्रं सुकृते स्थाप्यते जनम्॥ ५८॥

सुकृतेन च राजा तं इह प्रेषयते जनम्।

देवैर्देवसुतैः पूर्णं करोति च सुरालयम्॥ ५९॥

धर्मेण शास्यते राष्ट्रं राजा नः सुप्रहर्षिताः।

प्रसन्ना भोन्ति देवेन्द्रा रक्षन्ते तान्नराधिपान्॥ ६०॥

सम्यग्वहन्ति नक्षत्रा चन्द्रसूर्यौ तथैव च।

कालेन वायवो वान्ति काले चैवं प्रवर्षति॥ ६१॥

सुभिक्षं कुर्वते राष्ट्रे तथा देवसुरालये।

अमरामरपुत्रेण पूर्णं भोति सुरालयम्॥ ६२॥

तस्मात्त्यज्येन्नरपतिः प्रियं जीवितमात्मनः।

आवर्तयेद्धर्मरत्नं येन लोकः सुखी भवेत्। ६३॥

धार्मिकीं च नयेत् सेवां यो गुणैः समलंकृतः।

स नित्यं सेवते तुष्टं सदा पापविवर्जितः॥ ६४॥

धर्मेण पालयेद्राष्ट्रं धर्मे समनुशासयेत्।

सुकृते स्थापयेत् सत्त्वान्दुष्कृते च विवारयेत्॥ ६५॥

सुभिक्षं भवते राष्ट्रे तेजस्वी भवते नृपः।

यथानुरूपं कुरुते दमनं पापकारिणाम्।

यशस्वी भवते राजा सुखं पालयते प्रजामिति॥ ६६॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे देवेन्द्रसमयं नाम

राजशास्त्रपरिवर्तस्त्रयोदशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project