Digital Sanskrit Buddhist Canon

संज्ञेयमहायक्षसेनापतिपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Saṁjñeyamahāyakṣasenāpatiparivartaḥ
॥ संज्ञेयमहायक्षसेनापतिपरिवर्तः॥



अथ खलु संज्ञेयो नाम महायक्षसेनापतिरष्टाविंशतिभिर्महायक्षसेनापतिभिः सार्धमुत्थायासनादेकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्। अयं भदन्त भगवन्सुवर्णप्रभासोत्तमः सूत्रेन्द्रराज एतर्हि चानगतेऽध्वनि यत्र ग्रामे वा नगरे वा निगमे वा जनपदे वा जनपदप्रदेशे वारण्यायतने वा गिरिकन्दरे वा राजकुले वा गृहे वा प्रचरिष्यति। तत्राहं भदन्त भगवन्संज्ञेयो नाम महायक्षसेनापतिः सार्धमष्टाविंशति भिर्महायक्षसेनापतिभिस्तत्र ग्रामे वा नगरे वा निगमे वा जनपदे वारण्ये वा गिरिकन्दरे वा राजकुले वोपसंक्रमिष्यामि। अदृश्यमानेनात्मभावेन तस्य धर्मभाणकस्य भिक्षो रक्षां करिष्यामि। परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वरत्ययनं करिष्यमि। तेषां च सर्वेषां धर्मश्रवणिकानां स्त्रीपुरुषदारकदारिकाणां येषां केषांचिदितः सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादन्तश एका चतुष्पादिकापि गाथा श्रुता भवेदन्तश एकपदमपि सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादेकबोधिसत्त्वनामधेयमपि श्रुतं भवेदुद्गृहीतं वैकतथागतनामधेयं वान्तशश्चास्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य नामधेयं श्रुतं भवेदुद्गृहीतं वा तेषां सर्वेषामारक्षां करिष्यामि। परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वस्त्ययनं च करिष्यामि। तेषां च कुलानां तेषां च गृहाणां तेषां च नगराणां तेषां च ग्रामाणां तेषां च निगमानां तेषां चारण्यानां तेषां च राजकुलानामारक्षां करिष्यामि। परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वस्त्ययनं करिष्यामि॥



तत्कतमेन हेतुना। सर्वधर्माः परिज्ञाताः सर्वधर्मा अवबुद्धाः। यावन्तश्च सर्वधर्माः। यथा च सर्वधर्माः। संस्थिता ये च सर्वधर्माः। सम्यग्ज्ञाताश्च सर्वधर्माः। सर्वधर्मेष्वहं भदन्त भगवन्प्रत्यक्षः। अचिन्त्या मे भदन्त भगवञ्ज्ञानावभासाः। अचिन्त्यो ज्ञानालोकः। अचिन्त्यो ज्ञानप्रचारः। अचिन्त्यो ज्ञानस्कन्धः। अचिन्त्यो मे भदन्त भगवन्सर्वधर्मेषु ज्ञानविषयः प्रवर्तते। यथा च मे भदन्त भगवन्सर्वधर्माः समम्यग्ज्ञाताः। सम्यक्परीक्षिताः सम्यक्परिज्ञाताः सम्यग्व्यवलोकिताः सम्यगवबुद्धाः। तेन हेतुना मम भदन्त भगवन्संज्ञेयस्य महायक्षसेनापतेः संज्ञेय इति नामधेयं समुदपादि॥



अहं भदन्त भगवन्धर्मभाणकस्य भिक्षोर्वाक्यविभूषणार्थाय प्रतिभानमुपसंहरिष्यामि। रोमान्तरेषु च तस्यौजः प्रक्षेप्स्यामि। महान्तं च तस्य स्थाम च बलं वीर्यं च काये संजनयिष्यामि। अचिन्त्यं तस्य ज्ञानावभासं करिष्यामि। स्मृतिं च तस्य बोधयिष्यामि। महन्तं च तस्योत्सहं दास्यामि। यथा च स धर्मभाणको न क्लान्तकायो भवेत्। सुखेन्द्रियकायो भवेत्। प्रहर्षजातश्च भवेत्। येनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजस्तेषां बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे प्रचरेत्। न क्षिप्रमन्तर्धापयेत्। सत्त्वाश्चेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयुः। अचिन्त्यं च ज्ञानस्कन्धं प्रतिलभेयुः। प्रज्ञावन्तश्च भवेयुः। अपरिमितं च पुण्यस्कन्धं परिगृह्णीयुः। अनागतेऽध्वन्यनेककल्पकोटीनियुतशतसहस्राण्यचिन्त्यानि दिव्यमानुष्यकानि सुखान्यनुभवेयुः। तथागतसमवधानगताश्च भवेयुरनागतेऽध्वन्यनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन्। सर्वनरकतिर्यग्योनियमलोकदुःखानि चात्यन्तेन समुच्छिन्नानि भवेयुरिति॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे संज्ञेयमहायक्षसेनापति

परिवर्तो नाम द्वादशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project