Digital Sanskrit Buddhist Canon

देशनापरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Deśanāparivartaḥ

॥ देशनापरिवर्तः॥



एकरात्रमतन्द्रेण स्वप्नान्तरगतं मया।

दुन्दुभी रुचिरा दृष्टा समन्तकनकप्रभा॥ १॥

ज्वलमानं यथा सूर्यं समन्तेन विरोचितम्।

प्रभासिता दश दिशो दृष्टा बुद्धाः समन्ततः॥ २॥

निषण्णा रत्नवृक्षेषु वैडूर्ये च प्रभास्वरे।

अनेकशतसाहस्र्या परिषदा प्रभास्कृताः॥ ३॥

दृष्टा ब्राह्मणरूपेण पराहन्यन्ती दुन्दुभी।

तेनास्यास्ताड्यमानाया इमे श्लोका अभिश्रुताः॥ ४॥

सुवर्णप्रभासोत्तमदुन्दुभेन

शाम्यन्तु दुःखा त्रिसहस्रलोके।

अपायदुःखा यमलोकदुःखा

दारिद्रदुःखानि तथैव लोके॥ ५॥

अनेन चो दुन्दुभिशब्दनादिना

शाम्यन्तु सर्वव्यसनानि लोके।

समन्तसत्त्वा हृदयाहता तथा

तथाभया शान्तभया मुनीन्द्र॥ ६॥

यथैव सर्वार्यगुणोपपन्नः

संसारसर्वज्ञमहामुनीन्द्रः।

तथैव भोन्तु गुणसागराः प्रजाः

समाधिबोध्यङ्गगुणैरुपेताः॥ ७॥

अनेन चो दुन्दुभिघोषनादिना

भवन्तु ब्रह्मस्वर सर्वसत्त्वाः।

स्पृशन्तु बुद्धत्ववराङ्गबोधिं

प्रवर्तयन्तू शुभधर्मचक्रम्॥ ८॥

तिष्ठन्तु कल्पानि अचिन्तियानि

देशेन्तु धर्मं जगतो हिताय।

हनन्तु क्लेशान्विधमन्तु दुःखां

शमेन्तु रागं तथ दोषमोहम्॥ ९॥

ये सत्त्व तिष्ठिन्ति अपायभूमौ

आदीप्तसंप्रज्वलिताग्निगात्राः।

शृण्वन्तु ते दुन्दुभिसंप्रवादितां

नमोऽस्तु बुद्धाय वचो लभन्तु॥ १०॥

जातिस्मराः सत्त्व भवन्तु सर्वे

जातीशता जातिसहस्रकोट्यः।

अनुस्मरन्तः सततं मुनीन्द्रं

शृण्वन्तु तेषां वचनं ह्युदारम्॥ ११॥

अनेन चो दुन्दिभि घोषनादिना

लभन्तु बुद्धेहि सदा समागमम्।

विवर्जयन्तू खलु पापकर्म

चरन्तु कुशलानि शुभक्रियाणि॥ १२॥

नरासुराणामपि सर्वप्राणीनां

याचन्तु तां देशनप्रार्थनाय।

अनेन चो दुन्दुभिघोषनादिना

तत्सर्वि तेषां परिपूरयेयम्॥ १३॥

ये घोरनरके उपपन्नसत्त्वा

आदीप्तसंप्रज्वलिताग्निगात्राः।

निस्तीर्णशोकाश्च परिभ्रमन्ति

निर्वापणं भेष्यति तेषु चामुना॥ १४॥

ये दुःखसत्त्वाः सुदारुणार्श्च

घोरा नरकेषु प्रेतेषु मनुष्यलोके।

अनेन च दुन्दुभिघोषनादिना

सर्वे च तेषां प्रशमन्तु दुःखाः॥ १५॥

निस्राणमपरित्राणमशरण्यं कृतानि च।

त्राता तेषां भवेयं च शरण्यः शरणोत्तमः॥ १६॥

समन्वाहरन्तु मां बुद्धां कृपाकारुण्यचेतसः।

अत्ययं प्रतिगृह्णन्तु दशदिक्षु व्यवस्थिताः॥ १७॥

यच्च मे पापकं कर्म कृतपूर्वं सुदारुणम्।

तत्सर्वं देशयिष्यामि स्थितो दशबलाग्रतः॥ १८॥

मातापितॄनवजानन्ता बुद्धानामप्रजानता।

कुशलं चाप्रजानन्ता यत्तु पापं कृतं मया॥ १९॥

एश्चर्यमदमत्तेन कुलरूपमदेन च।

तारुण्यमदमत्तेन यत्तु पापं कृतं मया॥ २०॥

दुश्चिन्तितं दरुक्तं च दुष्कृतेनापि कर्मणा।

अनादीनवदृष्टेन यत्तु पापं कृतं मया॥ २१॥

बालबुद्धिप्रचारेण अज्ञानावृतचेतसा।

पापमित्रवशाच्चैव क्लेशव्याकुलचेतसा॥ २२॥

क्रीडारतिशाच्चैव शोकरोगवशेन च।

अतृप्तधनदोषेण यत्तु पापं कृतं मया॥ २३॥

अनार्यजनसंसर्गादीर्ष्यामात्सर्यहेतुना।

शाठ्यदारिद्रदोषेण यत्तु पापं कृतं मया॥ २४॥

व्यसनागमकालेऽस्मिन्कामानां भयहेतुना।

अनैश्वर्यगतेनापि यत्तु पापं कृतं मया॥ २५॥

चलचित्तवशेनैव कामक्रोधवशेन वा।

क्षुप्तिपासार्दितेनापि यत्तु पापं कृतं मया॥ २६॥

पानर्थां भोजनार्थं च वस्त्रार्थं स्त्रीप्सुहेतुना।

विविधक्लेशसंतापैर्यत्तु पापं कृतं मया॥ २७॥

कायवाङ्भानसं पापं त्रिधातुचरितं च तत्।

यत्कृत्मीदृशैः रूपैस्तत्सर्वं देशयाम्यहम्॥ २८॥

यत्तद्बुद्धेषु धर्मेषु श्रावकेषु तथैव च।

अगौरवं कृतं स्याद्धि तत्सर्वं देशयाम्यहम्॥ २९॥

यत्तत्प्रत्येकबुद्धेषु बोधिसत्त्वेषु वा पुनः।

अगौरवं कृतं स्याद्धि तत्सर्वं देशयाम्यहम्॥ ३०॥

सद्धर्मः प्रतिक्षिप्तः स्यादजानन्तेन मे सदा।

मातापितृष्वगौरवं तत्सर्वं देशयाम्यहम्॥ ३१॥

मूर्खत्वेनापि बालत्वान्मानदर्पावृतेन च।

रागद्वेषेण मोहेन तत्सर्वं देशयाम्यहम्॥ ३२॥

पूजयित्वा दशदिशि लोके दशबलाञ्जिनान्।

उद्धरिष्याम्यहं सत्त्वान्सर्वदुःखाद्दशद्दिशि॥ ३३॥

स्थापयिष्ये दशभुवि सर्वसत्त्वानचिन्तियान्।

दशभूमौ हि स्थित्वा च सर्वे भोन्तु तथागताः॥ ३४॥

एकैकस्य हि सत्त्वस्य चरेयं कल्पकोटयः।

यावच्छक्यं हि तत्सर्वं मोक्षितुं दुःखसागरात्॥ ३५॥

तेषां सत्त्वानां देशेयं गम्भीरां देशनामिमाम्।

स्वर्णप्रभोत्तमां नाम सर्वकर्मक्षयंकरीं॥ ३६॥

येन कल्पसहस्रेषु कृतं पापं सुदारुणम्।

एकवेलं प्रकाशन्तु सर्वे व्रजन्तु संक्षयम्॥ ३७॥

देशयिष्ये इमां धर्मां स्वर्णप्रभामनुत्तराम्।

ये शृण्वन्ति शुभां तेषां संयान्तु पापसंक्षयम्॥ ३८॥

स्थास्यामि दशभूमौ तान्दशरत्नाकरे वरे।

आभासयन्बुद्धगुणैस्तरेयं भवसागरात्॥ ३९॥

यच्च बुद्धसमुदौघं गम्भीरं गुणसागरम्।

अचिन्तियबुधगुणैः सर्वज्ञत्वं प्रपूरये॥ ४०॥

समाधिशतसाहस्रैर्धारणीभिरचिन्तितैः।

इन्द्रियबलबोध्यङ्गैर्भवे दशबलोत्तमः॥ ४१॥

व्यवलोकय मां बुद्ध समन्वाहृतचेतसा।

अत्ययं प्रतिगृह्णातु विमोचयतु मां भयात्॥ ४२॥

यत्तु पापं कृतं पूर्वं मया कल्पशतेषु च।

तस्यार्थे शोकचित्तोऽहं कृपणस्तृष्णयार्दितः॥ ४३॥

विभेमि पापकर्मोऽहं सततं हीनमानसः।

यत्र यत्र चरिष्यामि न चास्ति मङ्गलं क्वचित्॥ ४४॥

सर्वे कारुणिका बुद्धाः सत्त्वभयहराः जिनाः।

अत्ययं प्रतिगृह्णन्तु मोचयन्तु च मां भयात्॥ ४५॥

क्लेशकर्मफलं मह्यं प्रवाहन्तु तथागताः।

स्नापयन्तु च मां बुद्धाः कारुण्यविमलोदकैः॥ ४६॥

सर्वपापं देशयामि यत्तु पूर्वं कृतं मया।

यच्च ह्येतर्हि मे पापं तत्सर्वं देशयाम्यहम्॥ ४७॥

आयत्या सर्वमापद्यन्सर्वदुष्कृतकर्मणा।

न च्छादयामि तत्पापं यद्भवेन्मम दुष्कृतम्॥ ४८॥

त्रिविधं कायिकं कर्म वाचिकं तु चतुर्विधम्।

मानसं त्रिप्रकारं च तत्सर्वं देशयाम्यहम्॥ ४९॥

कायकृतं च वाक्कृतं मनसा च विचिन्तितम्।

कृतं दशविधं कर्म तत्सर्वं देशयाम्यहम्॥ ५०॥

दशाकुशल वर्जित्वा सेवित्वा कुशलान्दश।

स्थास्यामि दशभूमौ च पश्ये दशबलोत्तमम्॥ ५१॥

यच्च मे पापकं कर्म अनिष्टफलवाहकम्।

तत्सर्वं देशयिष्यामि बुद्धानां पुरतः स्थितः॥ ५२॥

ये चापि जम्बुद्वीपेऽस्मिन्ये चान्यलोकधातुषु।

कुर्वन्ति कुशलं कर्म तत्सर्वमनुमोदये॥ ५३॥

यच्च पुण्यार्जितं मह्यं कायवाङ्भनसापि च।

तेन कुशलमूलेन स्पृशेयं बोधिमुक्तमाम्॥ ५४॥

भवगतिसंकटबालबुद्धिना

पापं ह्यपि यच्च कृतं सुदारुणम्।

दशबलसंमुखमग्रतः स्थित-

स्तत्सर्वपापं प्रतिदेशयामि च॥ ५५॥

तत्पापं समुच्चितं जन्मसंकटे विविधकामप्रचारसंकटे।

लोकसंकटे भवसंकटे च सर्वमूर्खकृतक्लेशसंकटे॥ ५६॥

चापल्यमदनचित्तसंकटे पापमित्रागमसंकटैरपि।

संसारसंकटरागसंकटे द्वेषमोहतमसंकटैरपि॥५७॥

अक्षयसंकटकालसंकटे पुण्यमपार्जनसंकटैरपि।

अतुलियजिनसंमुखस्थितः तत्सर्वपापं प्रतिदेशयामि च॥ ५८॥

वन्दामि बुद्धान् गुणसागरोपमान्

सुवर्णवर्णानवभासितदिगन्तान्।

तेषां जिनानां शरणं व्रजामि

मूर्ध्रा च तान्सर्वजिनान्नमामि॥ ५९॥

सुवर्णवर्णं ---- कनकाचलाभम्

वैडूर्यनिर्मलविशुद्धसुलोचनाङ्गम्।

श्रीतेजकीर्तिज्वलनाकरबुद्धसूर्यं

करुणाप्रभं विधमकं तमसान्धकानाम्॥ ६०॥

सुनिर्मलं सुरुचिरं सुविराजिताङ्गं

संबुद्धसूर्यकनकामलनिःसृताङ्गम्।

क्लेशाग्नितप्तमनसां ज्वलनाग्निकल्पं

प्रह्लादनं मुनिनिशाकररश्मिजालम्॥ ६१॥

द्वात्रिंशलक्षणधरं ललितेन्द्रियाङ्गम्

अनुव्यञ्जनः सुरुचिरं सुविराजिताङ्गम्।

श्रीपुण्यतेजज्वलनाकुलरश्मिजालं

संतिष्ठसे तमसि सूर्य इव त्रिलोके॥ ६२॥

वैडूर्यनिर्मलविशालविचित्रवर्ण-

स्ताम्रारुणै रजतस्फटिकलोहिताङ्गम्।

नानाविचित्रसमलङ्कृतरश्मिजालं

त्वं संविरोचसि महामुनि सूर्यकल्पः॥ ६३॥

संसारनद्यपतितव्यसनौघमध्ये

शोकाकुले मरणतोयजरातरङ्गे।

दुःखार्णवे परमकम्पितचण्डवेगे

संतारय सुगतभास्कररश्मिजालैः॥ ६४॥

वन्दामि बुद्धान् कनकोज्वलाङ्गान्

सुवर्णवर्णव्यवभासिताङ्गान्।

ज्ञानाकरान् सर्वत्रिलोकसारान्

विचित्ररूपान् शुभलक्षणाङ्गान्॥ ६५॥

यथा समुद्रे जलमप्रमेयं

यथा मही चाणुरजैरनन्ता।

यथोपलैर्मेरुरनन्ततुल्यो

यथैव चाकाशमनन्तपारम्॥ ६६॥

तथैव बुद्धस्य गुणा अनन्ताः

न शक्य ज्ञातुं खलु सर्वसत्त्वैः।

अनेककल्पानि तु चिन्तयन्ते

न शक्य पर्यन्तगुणानि ज्ञातुम्॥ ६७॥

मही सशैला सगिरिः ससागरा

गणं तु कल्पैरपि शक्य जानितुम्।

जलं च वालाग्रमपि प्रमाणं

न शक्य बुद्धस्य गुणाग्रपारम्॥ ६८॥

एतादृशी सत्त्व भवन्तु सर्वे

गुणेन वर्णेन यशेन कोट्या।

गात्रेण ते शोभितलक्षणेन

अशीत्यनुव्यञ्जनमण्डितेन॥ ६९॥

अनेन चाहं कुशलेन कर्मणा

भवेय बुद्धो न चिरेण लोके।

देशेय धर्मं जगतो हिताय

मोचेय सत्त्वान्बहुदुःखपीडितान्॥ ७०॥

जयेय मारं सबलं ससैन्यं

प्रवर्तयेयं शुभधर्मचक्रम्।

तिष्ठेय कल्पानि अचिन्तियानि

तर्पेय सत्त्वानमृतेन पाणिना॥ ७१॥

पूरेय षट्पारमिता अनुत्तरा

यथैव पूर्वं जिनपूर्वकानाम्।

हनेय क्लेशान्विधमेय दुःखान्

शमेय रागांस्तथ द्वेषमोहान्॥ ७२॥

जातिस्मरो नित्य भवेय चाहं

जातिशता जातिसहस्रकोट्यः।

अनुस्मरेयं सततं मुनीन्द्रं

शृण्वीय तेषां वचनं ह्युदारम्॥ ७३॥

अनेन चाहं कुशलेन कर्मणा

लभेय बुद्धेहि सदा समागमम्।

विवर्जयेयं खलु पापकर्म

चरेय पुण्यानि शुभाकराणि॥ ७४॥

सर्वत्र क्षेत्रेषु च सर्वप्राणिनां

सर्वे च पापाः प्रशमन्तु लोके।

ये सत्त्वा विकलेन्द्रिय अङ्गहीनाः

ते सर्वि कुशलेन्द्रिय भोन्तु सांप्रतम्॥ ७५॥

ये व्याधिना दुर्बलक्षीणगात्रा

निश्राणभूताश्च दशोदिशासु।

ते सर्वि मुच्यन्तु च व्याधितो लघु

लभन्तु चारोग्यबलेन्द्रियानि॥ ७६॥

कुराजचौरसमार्जितबध्यप्राप्ता

नानाविधैर्मयशतैर्व्यसनोपपन्नाः।

ते सर्वि सत्त्वा व्यसनागतदुःखिता हि

मुच्यन्तु ते भयशतैः परमैः सुघोरैः॥ ७७॥

ये पीडिता बन्धनबद्धपीडिता

विविधेषु व्यसनेषु संस्थिता हि।

अनेकआयाससहस्रव्याकुला

विचित्रभयदारुणशोकप्राप्ताः॥ ७८॥

ते सर्वे मुच्यन्तु च बन्धनेभ्यः

संताडिता मुच्यन्तु च ताडनेभ्यः।

वध्याश्च मुच्यन्तु जीवितेभ्यो

व्यसनागता निर्भया भोन्तु सर्वे॥ ७९॥

ये सत्त्व क्षुत्तर्षनिपीडिताश्च

लभन्तु ते भोजनपानचित्रम्।

अन्धाश्च पश्यन्तु विचित्ररूपान्

वधिराश्च शृण्वन्तु मनोज्ञघोषान्॥ ८०॥

नग्नाश्च वस्त्राणि लभन्तु चित्रा

दरिद्रसत्त्वाश्च धनाँल्लभन्तु।

प्रभूतधनधान्यविचित्ररत्नाः

सर्वे च सत्त्वाः सुखिनो भवन्तु॥ ८१॥

मा कस्यचिद्धावतु दुःखवेदना

सुदर्शनाः सत्त्व भवन्तु सर्वे।

अभिरूपप्रासादिकसौम्यरूपा

अनेकसुखसंचित नित्य भोन्तु॥ ८२॥

मनःशान्तपौराः सुसमृद्धपुण्याः

वीणा मृदङ्गा पटहा सुघोषा।

उत्साः सराः पुष्करिणी तडागाः

सुवर्णपद्मोत्पलपद्मिनीभिः॥ ८३॥

सहचित्तमात्रेण तु तेष भोन्तु

अन्नं च पानं च तथैव वस्त्रम्।

धनं हिरण्यं मणिमुक्तिभूषणं

सुवर्णवैडूर्यविचित्ररत्नम्॥ ८४॥

मा दुःखशब्दाः क्वचि लोकि भोन्तु

भा चैकसत्त्वः प्रतिकूलदर्शी।

सर्वे च ते भोन्तु उदारवर्णाः

प्रभाकरा भोन्तु परस्परेण॥ ८५॥

या काचि संपत्ति मनुष्यलोके

सा तेषु भोतू मनसोपपत्तिः।

सर्वाभिप्राया सहचित्तमात्रैः

पुण्येन फलेन परिपूरयन्तु॥ ८६॥

गन्धं च माल्यं च विलेपनं च

धूपं च चूर्णं कुसुमं च पूर्णम्।

त्रिकाले वृक्षेहि प्रवर्षयन्तु

गृह्णन्तु ते सत्त्व भवन्तु तुष्टाः॥ ८७॥

कुर्वन्तु पूजां दशसू दिशासु

अचिन्तियां सर्वतथागतानाम्।

सबोधिसत्त्वान् सश्रावकाणां

धर्मस्य बोधिप्रतिसंस्थितस्य॥ ८८॥

नीचां गतिं सर्वि विवर्जयन्तु

तरन्तु अष्टाङ्गिकवीचिवृत्ताः।

आसादयन्तु जिनराजमूर्ति

लभन्तु बुद्धेहि सदा समागमम्॥ ८९॥

उच्चैः कुलीना हि भवन्तु नित्यं

प्रभूतधनधान्यसमृद्धकोशाः।

रूपेण शौर्येण यशेन कीर्त्या

समलङ्कृता भोन्तु अनेककल्पान्॥ ९०॥

सर्वा स्त्रियो नित्य नरा भवन्तु

शूराश्च वीराश्च विज्ञपण्डिताश्च।

ते सर्वि बोधाय चरन्तु नित्यं

चरन्तु ते पारमितासु षट्सु॥ ९१॥

पश्यन्तु बुद्धान् दशसू दिशासु

रत्नोत्तमवृक्षसुखोपविष्टान्।

वैडूर्यसिंहासनि संनिषण्णान्

शृण्वन्तु धर्मांश्च प्रकाश्यमानान्॥ ९२॥

पापानि कर्माणि मया जितानि

पूर्वार्जिता यद्भवसंकटेषु।

ये पापकर्माभिरता वहन्ते

ते सर्वि क्षीयन्तु च निर्विशेषाः॥ ९३॥

ते सर्वसत्त्वा भवबन्धनस्थाः

संसारपाशैर्दृढबन्धबद्धाः।

प्रज्ञाकरैर्भासित भोन्तु बन्धना -

न्मुच्यन्तु दुःखैरुपजा भवन्तु॥ ९४॥

ये चापि सत्त्वा इह जाम्बुद्वीपे

ये चापि अन्यषु च लोकधातुषु।

कुर्वन्तु गम्भीरविचित्रपुण्यं

तत्सर्वपुण्यं ह्यनुमोदयामि॥ ९५॥

तेनैव पुण्याभ्यनुमोदनेन

कायेन वाचा मनसार्जितेन।

प्रणिधानसिद्धिः सफला मयास्तु

स्पृशेय बोधिं विरजामनुत्तराम्॥ ९६॥

यो वन्दते तोष्यति दशबलान् सदा च

प्रसन्नशुद्धामलमानसेन।

इमाय परिणामनदेशनाय

षष्टिं च कल्पान् जहते अपायान्॥ ९७॥

एतेभि श्लोकेभि च वर्णितेभिः

पुरुषाः स्त्रियो ब्रह्मणक्षत्रिया च।

यस्तोष्यते मुनिं स कृताञ्जलिभिः स्थिहित्व

सर्वत्र जातिस्मरु शतजातिषु॥ ९८॥

सर्वाङ्ग सर्वेन्द्रिय शोभिताङ्गो

विचित्रपूर्णेभिर्गुणैरुपेतः।

नरेन्द्रराजैश्च सुपूजितः सदा

एतादृशो भेष्यति तत्र तत्र॥ ९९॥

न तैरेकस्य बुद्धस्य चान्तिके कुशलं कृतम्।

न द्वयोरपि त्रयेषु न पञ्चसु न दशसु॥ १००॥

तथा बुद्धसहस्राणामान्तिके कुशलं कृतम्।

येषामिदं कर्णपुटे देशनं प्रविष्यतीति॥ १०१॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे

देशनापरिवर्तो नाम चतुर्थः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project