Digital Sanskrit Buddhist Canon

तथागतायुःप्रमाणनिर्देशपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
॥ तथागतायुःप्रमाणनिर्देशपरिवर्तः॥



तेन खलु पुनः कालेन तेन समयेन राजगृहे महानगरे रुचिरकेतुर्नाम बोधिसत्त्वो महासत्त्वः प्रतिवसति पूर्वजिनकृताधिकारोऽवरोपितकुशलमूलो बहुबुद्धकोटिनियुतशतसहस्रपर्युपासितः। तस्यैतदभवत्, को हेतु कः प्रत्ययो यद्भगवतः शाक्यमुनेरेवं परीत्तमायुः प्रमाणं यदुताशीतिवर्षाणीति।

पुनस्तस्यैतदभवत्, उक्तं चैव भगवता द्वौ हेतू द्वौ च प्रत्ययौ दीर्घायुष्कतायाम्। कतमौ द्वौ प्राणातिपातविरमणं भोजनप्रदानं च। अथ बहुन्यसंख्येयकल्पकोटिनियुतशतसहस्राणि भगवाञ्छाक्यमुनिः प्राणातिपातविरतो बभूव। यावद्दशकुशलकर्मपथं समादापयेत्, तावद्भगवता भोजनमाध्यात्मिकं बाह्यानि च वस्तूनि सत्त्वानां परित्यक्तानि। अन्तशः स्वशरीरमांसरुधिरास्थिमज्जया बुभुक्षिताः सत्त्वाः संतर्पिताः प्रागेवान्येन भोजनेन।

अथ तस्य पुरुषस्य बुद्धानुस्मृतिमनसिकारस्येमामेवंरूपां चिन्तां चिन्तयमानस्य गृहं विपुलं विस्तीर्णं संप्रवृत्तमभवत्। वैडूर्यमयमनेकदिव्यरत्नप्रत्युप्तं तथागतविग्रहं दिव्यातिक्रान्तेन गन्धेन स्फुटम्। तस्मिंश्च गृहे चतुर्दिशि चत्वारि दिव्यरत्नमयान्यासनानि प्रादुर्भुतान्यभूवन्। तेषु चासनेषु दिव्यानि पर्यङ्कानि दिव्यरत्नपुष्पपत्रैः प्रज्ञप्तानि प्रादुर्भूतानि बभूवः। तेषु पर्यङ्केषु दिव्यान्यनेकरत्नप्रत्युप्तानि तथागतविग्रहाणि पद्मानि प्रादुर्भूतानि। तेषु च पद्मेषु चत्वारो बुद्धा भगवन्तः प्रादुर्भूताः बभुवुः। पुरान्तिकेन त्वक्षोभ्यस्तथागतः प्रादुर्भूतो दक्षिणेन रत्नकेतुस्तथागतः प्रादुर्भूतः पश्चिमेनामितायुस्तथागतः प्रादुर्भूत उत्तरेण दुन्दुभिस्वरस्तथागतः प्रादुर्भूतः। समनन्तरप्रादुर्भूताश्च ते बुद्धा भगवन्तस्तेषु सिंहासनेषु।

अथ तावदेव राजगृहं महानगरं महतावभासेनावभासितं स्फुटं बभूवु। यावत्रिसाहस्रमहासाहस्रलोकधातुर्यावत्समन्ताद्दशसु दिक्षु गङ्गानदीवालुकासमा लोकधातवस्तेनावभासेन स्फुटा बभूवः। दिव्यानि च पुष्पाणि प्रावर्षुर्दिव्यानि च तूर्याणि प्रवादयामासुः। सर्वे चास्मिंस्त्रिसाहस्रमहासाहस्रलोकधातौ सत्त्वा बुद्धानुभावेन दिव्यसुखेन समन्वागता बभूवुः। जात्यन्धाश्च सत्त्वा रूपाणि पश्यन्ति स्म। वधिराश्च सत्त्वाः सत्त्वेभ्यः शब्दानि शृण्वन्ति। उन्मत्ताश्च सत्त्वाः स्मृतिं प्रतिलभन्तेऽविक्षिप्तचित्ताश्च स्मृतिमन्तो बभूवुः। नग्नाश्च सत्त्वाश्चीवरप्रावृता बभूवुः। जिघत्सिताश्च सत्त्वाः परिपूर्णगात्रा बभूवुः। तृषिताश्च सत्त्वा विगततृष्णा बभूवः। रोगस्पृष्टाश्च सत्त्वा विगतरोगा बभूवुः। हीनकायाश्च सत्त्वाः परिपूर्णेन्द्रिया बभूवुः। विस्तरेण बहूनामाश्चर्याद्भुतधर्माणां लोके प्रादुर्भावोऽभूत्।

अथ खलु रुचिरकेतुर्बोधिसत्त्वो महासत्त्वस्तान्बुद्धान्भगवतो दृष्ट्वाश्चर्यप्राप्तो बभूव। कथमेतदिति सन्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो येन ते बुद्धा भगवन्तस्तेनाञ्जालिं प्रणाम्यकारतस्तान्बुद्धान्भगवतोऽनुस्मरमाणो भगवतः शाक्यमुनेर्गुणाननुस्मरमाणो भगवतः शाक्यमुनेरायुःप्रमाणसंशयप्राप्तस्तां चिन्तां चिन्तयमानः स्थितो बभुव। कथमेतत्,किमेतद् यद्भगवतः शाक्यमुनेरेवं परीत्तमायुःप्रमाणं यदुताशीति वर्षाणि।

अथ खलु ते बुद्धा भगवन्तः स्मृताः संप्रजानास्तं रुचिरकेतुं बोधिसत्त्वमेतदवोचन्। मा त्वं कुलपुत्रैवं चिन्तय एवं परीत्तं भगवतः शाक्यमुनेरायुःप्रमाणम्। तत्कस्य हेतोः। न च वै कुलपुत्र तं समनुपश्यामः सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायां सदेवमानुषासुरायां यः समर्थः स्याद्भगवतः शाक्यमुनेस्तथागतस्यायुःप्रमाणपर्यन्तमधिगन्तुं यावदपरान्तकोटिभिः स्थापयित्वा तथागतैरर्हद्भिः सम्यक्सम्बुद्धैः। समनन्तरोदाहृते तैर्बुद्धैर्भगवद्भिस्तथागतायुःप्रमाणनिर्देशे।

अथ तावद्बुद्धानुभावेन कामावचरा रूपावचराश्च देवपुत्राः संनिपतिता यावन्नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा अनेकानि च बोधिसत्त्वकोटिनियुतशतसहस्राणि तस्मिन् रुचिरकेतुबोधिसत्त्वस्य गृहे समागता आसन्। अथ ते तथागताः सर्वपर्षदो भगवतः शाक्यमुनेरायुःप्रमाणनिर्देशं गाथाभिरभ्यभाषन्।

जलार्णवेषु सर्वेषु शक्यन्ते बिन्दुभिर्गणयितुम्।

न तु शाक्यमुनेरायुः शक्यं गणयितुं क्वचित्॥ १॥

सुमेरुं परमाणवः कृत्वा शक्यं च संख्यया।

न तु शाक्यमुनेरायुः शक्यं गणयितुं क्वचित्॥ २॥

याः काश्चित् पृथिवीः सन्ति यावन्तः परमाणवः।

शक्यं गणयितुं सर्वा न तु चायुर्जिनस्य वै॥ ३॥

आकाशं यदि वा कश्चिदिच्छेत्प्रमितुं केनचित्।

न तु शाक्यमुनेरायुः शक्यं गणयितुं क्वचित्॥ ४॥

इत्युक्तानि च कल्पानि कल्पकोटिशतानि च।

एष तिष्ठेच्च संबुद्धः संख्यातो न हि लभ्यते॥ ५॥

यस्माद् द्वे कारणे तस्य तथैव द्वौ च प्रत्ययौ।

विरतः परहिंसाया बहु दत्तं च भोजनम्॥ ६॥

यस्मात्तस्य महात्मस्य ह्यायुःसंख्या न लभ्यते।

इत्युक्तानि च कल्पानि संख्यायां न तथैव च॥ ७॥

तस्मान्न संशयो भो हि मा किञ्चित् कुरु संशयम्।

न जिनस्यायुःपर्यन्तं काचित्संख्योपलभ्यते॥ ८॥

अथ खलु तस्मिन्समये तत्र पर्षद्याचार्यव्याकरणप्राप्तः कौण्डिन्यो नाम ब्राह्मणोऽनेकैर्ब्राह्मणसहस्रैः सार्धं भगवतः पूजाकर्म कृत्वा तथागतस्य महापरिनिर्वाणशब्दं श्रुत्वा सहसोत्थाय भगवतश्चरणयोर्निपत्य भगवन्तमेवमाह। सचेत्किल भगवन्सर्वसत्त्वानुकम्पको महाकारुणिको हितैषी सर्वसत्त्वानां मातापितृभूतोऽसमसमभूतश्चन्द्रभूत आलोककरो महाप्रज्ञाज्ञानसूर्यसमुद्गतः। यदि त्वं सर्वसत्त्वान् राहुलं स्वं संपश्यसि मह्यमेकं वरं देहि। भगवांस्तूष्णीम्भूतोऽभूत्।

अथ बुद्धानुभावेन तस्यां पर्षदि सर्वसत्त्वप्रियदर्शनो नाम लित्सविकुमारः। तस्य प्रतिभानमुत्पन्नम्। स आचार्यव्याकरणप्राप्तं कौण्डिन्यं ब्राह्मणमेवमाह। किं नु त्वं महाब्राह्मण भगवन्तमेकं वरं याचसे। अहं ते वरं ददामि। ब्राह्मण आह। अहमस्मिँल्लित्सविकुमार भगवतः पूजोपस्थानाय भगवतः सर्षपफलमात्रं धातुमिच्छामि निक्षेपितुं चूर्णं धातुमभिप्रयोजनायैनं सर्षपफलमात्रं धातुमभिपूजयित्वा त्रिदशाधिपत्यं लभ्यत इत्येवं श्रूयते। शृणु त्वं लित्सविकुमार सुवर्णप्रभासोत्तमसूत्रं दुर्विज्ञेयं सर्वश्रावकप्रत्येकबुद्धानां तादृशैर्लक्षणगुणैः समन्वागतं किल सुवर्णप्रभासोत्तमसूत्रं भावयिष्यति। एवं भो लित्सविकुमार दुर्विज्ञेयं दुरनुबोधं सुवर्णप्रभासोत्तमसूत्रम्। अस्माकमेव प्रत्यन्तद्वीपिकानां ब्राह्मणानां सर्षपफलमात्रं धातुं करण्डके निक्षिप्य धारणमुचितम्। अहं ते वरं याचे येन सत्त्वाः क्षिप्रमेव त्रिदशाधिपत्यं प्रतिलम्भिनो भविष्यन्ति। त्वं किल भो लित्सविकुमार सर्षपफलमात्रं धातुं तथागतस्य याचितुम्। धातुं रत्नकरण्डके निक्षिप्य धारणात् सर्वसत्त्वानां त्रिदशाधिपत्येश्वरलाभ इतीच्छसे। एवं मया च लित्सविकुमार इष्टं वरम्।

अथ सर्वसत्त्वप्रियदर्शनो नाम लित्सविकुमार आचार्यव्याकरणप्राप्तं कौण्डिन्यब्राह्मणं गाथाभिरभ्यभाषत।

यदा स्त्रोतःसु गङ्गाया रोहेयुः कुमुदानि च।

रक्ताः काका भविष्यन्ति शङ्खवर्णाश्च कोकिलाः॥ ९॥

जम्बुस्तालफलं दद्यात् खर्जूरश्चाम्रमञ्जरीम्।

तदा सर्षपमात्रं च व्यक्तं धातुर्भविष्यति॥ १०॥

यदा कच्छपलोमानां प्रावारैः सुवृतो भवेत्।

हेमन्ते शीतहरणो तदा धातुर्भविष्यति॥ ११॥

यदा मशकपादानामट्टकालम्बनं भवेत्।

दृढं चाप्यप्रकम्पि च तदा धातुर्भविष्यति॥ १२॥

यदा तीक्ष्णा महान्तश्च दन्ता जायन्ति पाण्डुराः।

जलौकानां हि सर्वेषां तदा धातुर्भविष्यति॥ १३॥

यदा शशविषाणेन निःश्रेणी सुदृढा भवेत्।

स्वर्गस्यारोहणार्थाय तदा धातुर्भविष्यति॥ १४॥

तां निश्रेणीं यदारुह्य चन्द्रं भक्षति मूषिकः।

राहुं च परिधावेत तदा धातुर्भविष्यति॥ १५॥

यदा मद्यघटं पीत्वा मक्षिका ग्रामचारिण्यः।

अगारे वासं कल्पेयुस्तदा धातुर्भविष्यति॥ १६॥

यदा बिम्बोष्ठसम्पन्नो गर्दभः सुखितो भवेत्।

कुशलं नृत्यगीतेषु तदा धातुर्भविष्यति॥ १७॥

यदा ह्युलूककाकाश्च रमयेयुः सहागताः।

अन्योन्यमनुकूलेन तदा धातुर्भविष्यति॥ १८॥

यदा पलाशपत्राणां छत्रं हि विपुलं भवेत्।

वर्षस्य प्रतिपाताय तदा धातुर्भविष्यति॥ १९॥

यदा सामुद्रिका नावः सयन्त्राः सपताकिकाः।

स्थलमारुह्य गच्छेयुस्तदा धातुर्भविष्यति॥ २०॥

यदा ह्युलूकशकुनाः पर्वतं गन्धमादनम्।

तुण्डेनादाय गच्छेयुस्तदा धातुर्भविष्यति॥ २१॥

एताश्च गाथाः श्रुत्वाचार्यव्याकरणप्राप्तः कौण्डिन्यो ब्राह्मणः सर्वलोकप्रियदर्शनं लित्सविकुमारं गाथाभिः प्रत्यभाषत।

साधु साधु कुमाराग्र जिनपुत्र महागिर।

उपायकुशलो वीरः प्राप्तव्याकरणोत्तमः॥ २२॥

मम कुमार शृणोहि लोकनाथस्य तायिनः।

तथागतस्य माहात्म्यं यथाक्रममचिन्तितम्॥ २३॥

अचिन्त्यं बुद्धविषयमसमाश्च तथागताः॥

सर्वबुद्धाः शिवा नित्यं सर्वबुद्धाः समाचराः॥ २४॥

सर्वबुद्धाः समवणा एषा बुद्धेषु धर्मता।

न कृत्रिमोऽसौ भगवान्नोत्पन्नश्च तथागतः॥ २५॥

वज्रसंहननकायो निर्मितकायदर्शकः।

नापि सर्षपमात्रं च धातुर्नाम महर्षिणाम्॥ २६॥

अनस्थिरुधिरे काये कुतो धातुर्भविष्यति।

उपायधातुनिक्षेपः सत्त्वानां हितकारणम्॥ २७॥

धर्मकायो हि सम्बुद्धो धर्मधातुस्तथागतः।

इदृशो भगवत्काय ईदृशी धर्मदेशना॥ २८॥

एतच्छ्रुतं मया ज्ञात्वाभियाचितं वरं मया।

तत्त्वव्याकरणार्थाय वरोत्पादं मुनेः कृतम्॥ २९॥

अथ खलु द्वात्रिंशद्देवपुत्रसहस्राणि तथागतस्य यं गम्भीरमायुःप्रमाणनिर्देशं श्रुत्वा सर्वैरनुत्तरायां सम्यक्सम्बोधौ चित्तान्युत्पादितानि ते प्रहृष्टमनःसंकल्पा एकस्वरनिर्घोषेण गाथामभाषन्।

न बुद्धः परिनिर्वाति न धर्म परिहीयते।

सत्त्वानां परिपाकाय परिनिर्वाणं निदर्शयेत्॥ ३०॥

अचिन्त्यो भगवान्बुद्धो नित्यकायस्तथागतः।

देशेति विविधान्व्यूहान्सत्त्वानां हितकारणात्॥ ३१॥

अथ खलु रुचिरकेतुर्बोधिसत्त्वस्तेषां बुद्धानां भगवतां तयोश्च द्वयोः सत्पुरुषयोरन्तिकाद्भगवतः शाक्यमुनेरायुःप्रमाणनिर्देशं श्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातश्चोदारेण प्रीतिप्रामोद्येन स्फुटोऽभूत्। अस्मिंस्तथागतायुःप्रमाणनिर्देशे निर्दिश्यमानेऽप्रमेयाणामसंख्येयानां सत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। ते च तथागता अन्तरिता इति।



इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे तथागतायुःप्रमाण

निर्देशपरिवर्तो नाम द्वितीयः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project