Digital Sanskrit Buddhist Canon

निदानपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Nidānaparivartaḥ
सुवर्णप्रभाससूत्रम्



॥ सुवर्णप्रभासोत्तमसूत्रेन्द्रराजः॥

॥ निदानपरिवर्तः॥

ॐ नमः श्रीसर्वबुद्धबोधिसत्त्वेभ्यः।

ॐ नमः श्रीभगवत्यै आर्यप्रज्ञापारमितायै॥ तद्यथा।

ॐ श्रुतिस्मृतिगतिविजये स्वाहा॥

यस्मिन् पारमिता दशोत्तमगुणास्तैस्तैर्नयैः सूचिताः

सर्वज्ञेन जगद्धिताय दश च प्रख्यापिता भूमयः।

उच्छेदध्रुववर्जिता च विमला प्रोक्ता गतिर्मध्यमा

तत्सूत्रं स्वर्णप्रभानिगदितं शृण्वन्तु बोध्यर्थिनः॥

श्रुतं मयैकसमये गृध्रकूटे तथागतः॥

विजहार धर्मधातौ गम्भीरे बुद्धगोचरे॥ १॥

बोधिसत्त्वसमुच्चयया महाकुलदेवतया, सरस्वत्या च महादेवतया, श्रिया च महादेवतया, दृढया च महापृथिवीदेवतया, हारीत्या च महादेवतया, एवं प्रमुखाभिर्महादेवताभिरनेकदेवनागयक्षराक्षसगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यैः सार्धम्। अथायुष्मानानन्दो भगवन्तमेतदवोचत्। किं तासां भगवन्धर्मविनयं भविष्यतीति ?

भगवानाह गाथाभिः। भावनं च न दुःपृच्छया विरजस्कं समाधिं धर्मसारं प्रतिष्ठितम्।

शुद्धेषु विरजस्केषु बोधिसत्त्वोत्तमेषु च।

निदानं सूत्रराजेन्द्रं स्वर्णप्रभासोत्तममिदम्॥ २॥

ततो गम्भीरश्रवणेन गम्भीरव्युपपरीक्षणेन।

दिक्षु चतसृषु बुद्धैरधिष्ठानमधिष्ठितम्॥ ३॥

अक्षोभ्यराजः पूर्वस्मिन्दक्षिणे रत्नकेतुना।

पश्चिमायाममिताभ उत्तरे दुन्दुभिस्वरः॥ ४॥

तं प्रवक्ष्याम्यधिष्ठानं माङ्गल्यदेशनोत्तमम्।

सर्वपापविनाशार्थं सर्वपापक्षयंकरम्॥ ५॥

सर्वसौख्यप्रदातारं सर्वदुःखविनाशनम्।

मूलं सर्वज्ञतत्त्वस्य सर्वश्रीसमलङ्कृतम्॥ ६॥

उपहतेन्द्रिया ये हि सत्त्वा नष्टा हतायुषः।

अलक्ष्म्या परिविष्टा हि देवतासु पराङ्मुखाः॥ ७॥

कान्तया ते जना द्विष्टाः कुटुम्बादिष्वपद्रुताः।

परस्परविरुद्धा वा अर्थनाशैरुपद्रुताः॥ ८॥

शोकायासेष्वनर्थे च भये व्यसन एव च।

ग्रहनक्षत्रपीडायां काखोर्ददारुणग्रहैः॥ ९॥

पापकं पश्यति स्वप्नं शोकायाससमुच्छ्रितम्।

तेन च स्नानशुचिना श्रोतव्यं सूत्रमुत्तमम्॥ १०॥

शृण्वन्ति य इदं सूत्रं गम्भीरं बुद्धगोचरम्।

प्रसन्नचित्ताः सुमनसः शुचिवस्त्रैरलङ्कृताः॥ ११॥

तेषां सर्वे तथा नित्यमुपसर्गाः सुदारुणाः।

तेजसा चास्य सूत्रस्य शाम्यन्ते सर्वप्राणिनाम्॥ १२॥

स्वयं ते लोकपालाश्च सामात्याः सगणेश्वराः।

तेषां रक्षां करिष्यन्ति ह्यनेकैर्यक्षकोटिभिः॥ १३॥

सरस्वती महादेवी तथा नैरञ्जनवासिनी।

हारीती भूतमाता च दृढा पृथिवीदेवता॥ १४॥

ब्रह्मेन्द्रैस्त्रिदशेन्द्रैश्च महर्द्धिकिन्नरेश्वरैः।

गरुडेन्द्रैस्तथा सार्धं यक्षगन्धर्वपन्नगैः॥ १५॥

ते च तत्रोपसंक्रम्य ससैन्यबलवाहनाः।

तेषां रक्षां करिष्यन्ति दिवारात्रौ समाहिताः॥ १६॥

इदं सूत्रं प्रकाशिष्ये गम्भीरं बुद्धगोचरम्।

रहस्यं सर्वबुद्धानां दुर्लभं कल्पकोटिभिः॥ १७॥

शृण्वन्ति य इदं सूत्रं ये चान्ये श्रावयन्ति च।

ये केचिदनुमोदन्ते ये च पूजां करोन्ति हि॥ १८॥

ते पूजिता भविष्यन्ति ह्यनेकैः कल्पकोटिभिः।

देवनागमनुष्यैश्च किन्नरासुरगुह्यकैः॥ १९॥

पुण्यस्कन्धमपर्यन्तमसंख्येयमचिन्तितम्।

यत्तेषां प्रसृतं भोति कृतपुण्यान प्राणिनाम्॥ २०॥

प्रगृहीता भविष्यन्ति सर्वबुद्धैर्दिशो दश।

गम्भीरचरितेभिश्च बोधिसत्त्वैस्तथैव च॥ २१॥

चौक्षचीवरप्रावृत्य सुगन्धजलपावनैः।

मैत्रीचित्तं समुत्थाप्य पूजितव्यमतन्द्रितैः॥ २२॥

विपुलं विमलं चित्तमात्मानं प्रकरिष्यति।

प्रसादयंश्च चेतांसि शृणुध्वं सूत्रमुत्तमम्॥ २३॥

स्वागतं च मनुष्येषु सुलब्धं मनुषं फलम्।

सुजीविताश्च जीवन्ति सूत्रं शृण्वन्ति ये त्विदम्॥ २४॥

उप्तकुशलमूलास्ते बहुबुद्धप्रकाशिताः।

येषामिदं कर्णपुटे देशितं संप्रविश्यतीति॥ २५॥

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे

निदानपरिवर्त्तो नाम प्रथमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project