Digital Sanskrit Buddhist Canon

सुखावतीव्यूहः(विस्तरमातृका)

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Sukhāvatīvyūhaḥ (vistaramātṛkā)

सुखावतीव्यूहः।

[विस्तरमातृका]



ॐ नमो रत्नत्रयाय। ॐ नमः श्रीसर्वबुद्धबोधिसत्त्वेभ्यः। नमो दशदिगनन्तापर्यन्तलोकधातुप्रतिष्ठितेभ्यः सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धेभ्योऽतीतानागतप्रत्युत्पन्नेभ्यः। नमोऽमिताभाय। नमोऽचिन्त्यगुणान्तरात्मने॥

एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटपर्वते महता भिक्षुसंघेन सार्धं द्वात्रिंशता भिक्षुसहस्रैः, सर्वैरर्हद्भिः क्षीणास्रवैर्निःक्लेशैरुषितवद्भिः सम्यगाज्ञासुविमुक्तचित्तैः परीक्षचित्तैः परिक्षीणभवसंयोजनैरनुप्राप्तस्वकार्थैर्विजितवद्भिरुत्तमदमथप्राप्तैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर्महानागैः षडभिज्ञैर्वशीभूतैरष्टविमोक्षध्यायिभिर्बलप्राप्तैरभिज्ञाताभिज्ञैः स्थविरैर्महाश्रावकैः। तद्यथा-आज्ञातकौण्डिन्येन च, अश्वजिता च, बाष्पेण च, महानाम्ना च, भद्रजिता च, यशोदेवेन च, विमलेन च, सुबाहुना च, पूर्णमैत्रायणीपुत्रेण च, उरुबिल्वाकाश्यपेन च, नदीकाश्यपेन च, गयाकाश्यपेन च, कुमारकाश्यपेन च, महाकाश्यपेन च, शारिपुत्रेण च, महामौद्गल्यायनेन च, महाकौष्ठिल्येन च, महाकफिलेन च, महाचुन्देन च, अनिरुद्धेन च, नन्दिकेन च, कम्पिलेन च, सुभूतिना च, रेवतेन च, खदिरवनिकेन च, वकुलेन च, स्वागतेन च, अमोघराजेन च, पारायणिकेन च, पत्केन च, चुल्लपत्केन च, नन्देन च, राहुलेन च, आयुष्मतानन्देन च, एतैश्चान्यैश्च अभिज्ञाताभिज्ञैः स्थविरैर्महाश्रावकैरेकं पुद्गलं स्थापयित्वा शैक्षप्रतिद्युत्तरिकरणीयं यदिदमायुष्मन्तमानन्दम्। मैत्रेयपूर्वंगमैश्च संबहुलैर्बोधिसत्त्वैर्महासत्त्वैः॥ १॥



अथ खल्वायुष्मानान्द उत्थायासमादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्-विप्रसन्नानि तव भगवत इन्द्रियाणि, परिशुद्धश्छविवर्णः, पर्यवदातो मुखवर्णः पीतनिर्भासः। तद्यथापि नाम शारदं वनदं पाण्डुपरिशुद्धं पर्यवदातं पीतनिर्भासम्, एवमेव भगवतो विप्रसन्नानीन्द्रियाणि, परिशुद्धो मुखवर्णः, पर्यवदातश्छविवर्णः पीतनिर्भासः। तद्यथापि नाम भगवन् जाम्बूनदसुवर्णनिष्को दक्षेण कर्मारेण कर्मारान्तेवासिना वा उल्कामुखेन संप्रवेश्य सुपरिनिष्ठितः पाण्डुकम्बल उपरिनिक्षिप्तोऽतीव परिशुद्धो भवति पर्यवदातः पीतनिर्भासः, एवमेव भगवतो चिप्रसन्नानीन्द्रियाणि, परिशुद्धो मुखवर्णः, पर्यवदातश्छविवर्णः पीतनिर्भासः। न खलु पुनरहं भगवन् अभिजानामि इतः पूर्वतरमेवं विप्रसन्नानि तथागतस्येन्द्रियाणि एवं पोरिशुद्धं मुखवर्णं पर्यवदातं छविवर्णं पीतनिर्भासम्। तस्य मे भगवन् एवं भवति-बुद्धविहारेण बताद्य तथागतो विहारति, जिनविहारेण सर्वज्ञताविहाण। महानागविहारेण बताद्य तथागतो विहरति। अतीतानागतप्रत्युत्पन्नान् वा तथागतानर्हतः सम्यक्संबुद्धान् समनुस्मरतीति। एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्-साधु साध्वानन्द। किं पुनस्ते देवता एतमर्थमारोचयन्ति, उताहो बुद्धा भगव्न्तः ? अथ तेन प्रत्युत्पन्नमीमांसाज्ञानेनैवं प्रजानासीति? एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत्-न मे भगवन् देवता एतमर्थमारोचयन्ति, नापि बुद्धा भगवन्तः। अथ तर्हि मे भगवंस्तेनैव प्रत्यात्ममीमांसाज्ञानेनैवं भवति-बुद्धविहारेणाद्य तथागतो विहरति। जिनविहारेण सर्वज्ञताविहारेण बताद्य तथागतो विहरति। अतीतानागतप्रत्युत्पन्नान् वा बुद्धान् भगवतः समनुस्मरतीति।एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्-साधु साध्वानन्द। उदारः खलु ते उन्मिञ्जः, भद्रिका मीमांसा, कल्याणं प्रतिभानम्। बहुजनहिताय त्वमानन्द प्रतिपन्नो बहुजनसुखाय लोकानुकम्पायै महतो जनकाययार्थाय हिताय सुखाय देवानां च मनुष्याणां च, यस्त्वं तथागतमर्थं परिप्रष्टव्यं मन्यसे। एवमेव भगवत्सु आनन्दस्तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु अप्रमेयेषु असंख्येयेषु ज्ञानदर्शनमुपसंहरेत्, न तथागतस्य ज्ञानमुपहन्येत। तत्कस्य हेतोः ? अप्रतिहतहेतुज्ञानदर्शनो ह्यानन्द तथागतः। ज्ञानमाकाङ्क्षन्नानन्द तथागतः एकपिण्डपातेन कल्पं वा तिष्ठेत् कल्पशतं वा कल्पशतसहस्रं वा यावत्कल्पकोटीनियुतशतसहस्रं वा, ततो वोत्तरि तिष्ठेत्, न च तथागतस्येन्द्रियाण्युपनश्येयुः, न मुखवर्णस्यान्यथात्वं भवेत्, नापि च्छविवर्ण उपहन्येत। तत्कस्य हेतोः ? तथा हि आनन्द तथागतः समाधिमुखपारमिताप्राप्तः। सम्यक्संबुद्धानामानन्द लोके सुदुर्लभः प्रादुर्भावः। तद्यथा औदुम्बरपुष्पाणां लोके प्रादुर्भावः सुदुर्लभो भवति, एवमेव आनन्द तथागतानामर्थकामानां हितैषीणामनुकम्पकानां महाकरुणाप्रतिपन्नानां सुदुर्लभः प्रादुर्भावः। अपि तु खल्वानन्द तथागतस्यैव सोऽनुभावो यस्त्वं सर्वलोकाचार्याणां सत्त्वानां लोके प्रादुर्भावाय बोधिसत्त्वानां महासत्त्वानामर्थाय तथागतमेतमर्थं परिप्रष्टव्यं मन्यसे। तेन ह्यानन्द शृणु, साधु च सुष्ठु च मनसिकुरु। भाषिष्येऽहं ते। एवं भगवन् इत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत्॥ २॥



भगवानानन्दमेतदवोचत्-भूतपूर्वमानन्द अतीतेऽध्वनि इतोऽसंख्येये कल्पेऽसंख्येयतरे विपुलेऽप्रमेयेऽचिन्त्ये यदासीत्। तेन कालेन तेन समयेन दीपंकरो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि। दीपंकरस्यानन्द परेण परतरं प्रतापवान्नाम तथागतोऽभूत्। तस्य परेण परतरं प्रभाकरो नाम तथागतोऽभूत्। तस्य परेण परतरं चन्दनगन्धो नाम तथागतोऽभूत्। तस्य परेण परतरं सुमेरुकल्पो नाम तथागतोऽभूत्। एवं चन्दनो नाम, विमलाननो नाम, अनुपलिप्तो नाम, विमलप्रभो नाम, नागाभिभूर्नाम, सूर्योदनो नाम, गिरिराजघोषो नाम, मेरुकूटो नाम, सुवर्णप्रभो नाम, ज्योतिष्प्रभो नाम, वैडूर्यनिर्भासो नाम, ब्रह्मघोषो नाम, चन्द्राभिभूर्नाम, तूर्यघोषो नाम, मुक्तकुसुमप्रतिमण्डितप्रभो नाम, श्रीकूटो नाम, सागरवरबुद्धिविक्रीडिताभिज्ञो नाम, वरप्रभो नाम, महागन्धराजनिर्भासो नाम, व्यपगतखिलमलप्रतिघोषो नाम, शूरकूटो नाम, रणंजहो नाम, महागुणधरबुद्धिप्राप्ताभिज्ञो नाम, चन्द्रसूर्यजिह्मीकरणो नाम, उत्तप्तवैडूर्यनिर्भासो नाम, चित्तधाराबुद्धिसंकुसुमिताभ्युद्गतो नाम, पुष्पावतीवनराजसंकुसुमिताभिज्ञो नाम, पुष्पाकरो नाम, उदकचन्द्रो नाम, अविद्यान्धकारविध्वंशनकरो नाम, लोकेन्द्रो नाम, मुक्तच्छ्त्रप्रवातसदृशो नाम, तिष्यो नाम, धर्ममतिविनन्दितराजो नाम, सिंहसागरजूटविनन्दितराजो नाम, सागरमेरुचन्द्रो नाम, ब्रम्हस्वरनादाभिनन्दितो नाम, कुसुमसंभवो नाम प्राप्तसेनो नाम, चन्द्रभानुर्नाम, चन्द्रप्रभो नाम, विमलनेत्रो नाम, गिरिराजघोषोश्वरो नाम, कुसुमप्रभो नाम, कुसुमवृष्ट्यभिप्रकीर्णो नाम, रत्नचन्द्रो नाम, पद्मबिम्ब्युपशोभितो नाम, चन्दनगन्धो नाम, रत्नाभिभासो नाम निमिर्नाम, महाव्यूहो नाम, व्यपगतखिलदोषो नाम, ब्रम्हघोषो नाम, सप्तरत्नाभिवृष्टो नाम, महागुणधरो नाम, महातमालपत्रचन्दनकर्दमो नाम, कुसुकाभिज्ञो नाम, अज्ञानविध्वंसनो नाम, केसरी नाम, मुक्तच्छत्रो नाम, सुवर्णगर्भो नाम, वैडूर्यगर्भो नाम, महाकेतुर्नाम, धर्मकेतुर्नाम, रत्नकेतुर्नाम, रत्नश्रीर्नाम, कोलेन्द्रो नाम, नरेन्द्रो नाम, कारुणिको नाम, लोकसुन्दरो नाम, ब्रम्हकेतुर्नाम, धर्मकेतुर्नाम, सिंहो नामसिंहमतिर्नाम। सिंहमतेरानन्द परेण परतरं लोकेश्वरराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। तस्य खलु पुनरानन्द लोकेश्वरराजस्य तथागत, स्यार्हतः सम्यक्संबुद्धस्य प्रवचने धर्माकरो नाम भिक्षुभूदधिमात्रं स्मृतिमान् मतिमान् गतिमान् प्रज्ञावन्, अधिमात्रं वीर्यवान् उदाराधिमुक्तिकः॥ ३॥

अथ खल्वानन्द स धर्माकरो भिक्षुरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येनासौ भगवाँल्लोकेश्वरराजस्तथागतस्तेनाञ्जलिं प्रणम्य भगवन्तं नमस्कृत्य तस्मिन्नेव समये संमुखमाभिर्गाथाभिरभ्यष्टावीत् -

अमितप्रभ अनन्ततुल्यबुद्धे

न च इह अन्य प्रभा विभाति काचित्।

सूर्यमणिगिरीशचन्द्रआभा

न तपित भोसिषु एभि सर्वलोके॥ १॥

रूपमपि अनन्तु अत्त्वसारे

तथ अपि बुद्धस्वरो अनन्तघोषः।

शीलमपि समाधिप्रज्ञवीर्यैः

सदृशु न तेऽस्तिह लोकि कश्चिदन्यः॥ २॥

गभिरु विपुलु सूक्ष्मप्राप्तु धर्मो-

ऽचिन्तितु बुद्धवरो यथा समुद्रः।

तेनोन्नमना न चास्ति शास्तुः

खिलदोषान् जह्या अतोऽधिकालम्॥ ३॥

अथ बुद्धबला अनन्ततेजा

प्रतपति सर्वदिशा नरेन्द्रराजा।

तथ अहु बुद्ध भवि धर्मस्वामी

जरमरणात्प्रजां प्रमोचयेयम्॥ ४॥

दानशमथशीलक्षान्तिवीर्य

ध्यानसमाधितश्चैव अग्रश्रेष्ठां।

एभि अहु व्रतां समाददामि

बुद्ध भविष्यमि सर्वसत्त्वत्राता॥ ५॥

बुद्धशतसहस्र कोट्यनेका

यथरिव वालिक गङ्गया अनन्ता।

सर्वत अहु पूजयिष्य नाथां

शिववरबोधिगवेषको अतुल्यां॥ ६॥

गङ्गारजसमानलोकधातूं

तत्र भूयोऽन्तरि ये अनन्तक्षेत्राः।

सर्वत्र प्रभ मुञ्चयिष्य तत्रा

इति एतादृश वीर्यमारभिध्य॥ ७॥

क्षेत्र मम उदारु अग्र श्रेष्ठो

वरमिह मली(?) संस्कृतेऽस्मिं।

असदृश निर्वाणधातुसौख्यं

तश्च(च्च ?) असत्त्वतया विशोधयिष्ये॥ ८॥

दशदिशत समागतानि सत्त्वाः

तत्र गता सुख मे दिशन्ति क्षिप्रम्।

बुद्ध मम प्रमाणु अत्र शिक्षी

अवितथवीर्यबलं जनेमि छन्दम्॥ ९॥

दशदिशलोकविदसङ्गज्ञानी

सद मम चित्त प्रजानयन्ति तेऽपि।

अविचिगतु अहं सदा वसेयं

प्रणिधिबलं न पुनर्विवर्तयिष्ये॥ १०॥



अथ खल्वानन्द स धर्माकरो भिक्षुस्तं भगवन्तं लोकेश्वरराजं तथागतं संमुखमाभिर्गाथाभिरभिष्टुत्य एतदवोचत्-अहमस्मि भगवन् उत्तरां सम्यक्संबोधिमभिसंबोद्धुकामः। पुनः पुनरनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयामि परिणामयामि। तस्य मे भगवान् शास्ता तथा धर्मं देशयतु, यथाहं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्। असमसमस्तथागतो लोके भवेयम्। तांश्च भगवानाकारान् परिकीर्तयतु यैरहं बुद्धक्षेत्रस्य गुणव्यूहसंपदं परिगृह्णीयाम्। एवमुक्ते आनन्द भगवाँल्लोकेश्वरराजस्तथागतस्तं भिक्षुमेतदवोचत्-तेन हि त्वं भिक्षो स्वयमेव बुद्धक्षेत्रगुणालंकारव्यूहसंपदं परिगृह्णीष्व। सोऽवोचत्-नाहं भगवंस्तत्सहेयम्, अपि तु भगवानेव। भाषस्व अन्येषां तथागतानां बुद्धक्षेत्रगुणव्यूहालंकारसंपदम्, यां श्रुत्वा वयं सर्वाकारं परिपूरयिष्याम इति। अथानन्द स लोकेश्वरराजस्तथागतोऽर्हन् सम्यक्संबुद्धस्तस्य भिक्षुराशयं ज्ञात्वा परिपूर्णां वर्षकोटीमेकाशीतिबुद्धकोटीनियुतशतसहस्राणां बुद्धक्षेत्रगुणालंकारव्यूहसंपदं साकारां सोद्देशां सनिर्देशां संप्रकाशितवानर्थकामो हितैषी अनुकम्पकोऽनुकम्पामुपादाय बुद्धक्षेत्रानुपच्छेदाय सत्त्वेषु महाकरुणां संजनयित्वा। परिपूर्णाश्चत्वारिंशत्कल्पास्तस्य भगवतस्तथागतस्यायुःप्रमाणम्॥ ५॥



अथ खल्वानन्द स धर्माकरो भिक्षुर्यास्तेषामेकाशीतिबुद्धकोटीनियुतशतसहस्राणां बुद्धक्षेत्रगुणालंकारव्यूहसंपदः, ताः सर्वा एके बुद्धक्षेत्रे परिगृह्य भगवतो लोकेश्वरराजस्य तथागतस्य पादौ शिरसा वन्दित्वा प्रदक्षिणीकृत्य तस्य भगवतोऽन्तिकात्प्राक्रामत्। उत्तरि च पञ्च कल्पान् बुद्धक्षेत्रगुणालंकारव्यूहसंपदमुदारतरां प्रणीततरां च सर्वलोके दशसु दिक्षु अप्रचरितपूर्वां परिगृहीतवान्, उदारतरं च प्रणिधानमकार्षीत्॥ ६॥



इति ह्यानन्द या तेन भगवता लोकेश्वरराजेन तथागतेन तेषामेकाशीतिबुद्धक्षेत्रकोटीनियुतशतसहस्राणां संपत्तिः कथिता, ततो भिक्षुरेकाशीत्युदारप्रणीताप्रमेयतरां बुद्धक्षेत्रसंपत्तिं परिगृह्य येन स तथागतस्तेनोपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एतदवोचत्-परिगृहीता मे भगवन् बुद्धक्षेत्रगुणालंकारव्यूहसंपदिति। एवमुक्ते आनन्द स लोकेश्वरराजस्तथागतस्तं भिक्षुमेतदवोचत्-तेन हि भिक्षो भाषस्व, अनुमोदते तथागतः। अयं कालो भिक्षो, प्रमोदय पर्षदम्, हर्षं जनय, सिंहनादं नद, यं श्रुत्वा बोधिसत्त्वा महासत्त्वा एतर्ह्यनागतेऽध्वनि एवंरूपाणि बुद्धक्षेत्रगुणसंपत्तिप्रणिधिस्थानानि परिग्रहीष्यन्ति। अथानन्द स धर्माकरो भिक्षुस्तस्यां वेलायां भगवन्तमेतदवोचत्-तेन हि शृणोतु मे भगवान् ये मम प्रणिधानविशेषाः, यथा मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य अचिन्त्यगुणालंकारव्यूहसमन्वागतं तद् बुद्धक्षेत्रं भविष्यति॥ ७॥



१. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे निरयो वा तिर्यग्योनिर्वा प्रेतविषयो वा आसुरो वा कायो भवेत्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

२. सचेन्मे भगवंस्तस्य तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुः, ते पुनस्ततश्च्युत्वा निरयं वा तिर्यग्योनिं वा प्रेतविषयं वा आसुरं वा कायं प्रपतेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

३. सचेन्मे भगवंस्तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजातास्ते च सर्वे नैकवर्णाः स्युर्यदिदं सुवर्णवर्णाः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

४. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे देवानां च मनुष्याणां च नानात्वं प्रज्ञायेत अन्यत्र नाम संवृतिव्यवहारमात्रा देवमनुष्या इति संख्यागणनातः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

५. सचेन्मे भगवंतस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाताः, ते च सर्वे न ऋद्धिवशितापरमपारमिताप्राप्ता भवेयुः, अन्तश एकचित्तक्षणलवेन बुद्धक्षेत्रकोटीनियुतशतसहस्रातिक्रमणतयापि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

६. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुः, ते च सर्वे जातिस्मरा न स्युः, अन्तशः कल्पकोटीनियुतशतसहस्रानुस्मरणतयापि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

७. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरन्, ते सर्वे न दिव्यस्य चक्षुषो लाभिनो भवेयुः, अन्तशो लोकधातुकोटीनियुतशतसहस्रदर्शनतयापि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

८. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरन्, ते सर्वे न दिव्यस्य श्रोत्रस्य लाभिनो भवेयुः, अन्तशो बुद्धक्षेत्रकोटीनियुतशतसहस्रादपि युगपत्सद्धर्मश्रवणतया, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

९. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरन्, ते सर्वे न परचित्तज्ञानकोविदा भवेयुः, अन्तशो बुद्धक्षेत्रकोटीनियुतशतसहस्रपर्यापन्नानामपि सत्त्वानां चित्तचरितपरिज्ञानतया, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

१०. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरन्, तेषां काचित्परिग्रहसंज्ञोत्पद्येत, अन्तशः स्वशरीरेऽपि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

११. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरन्, ते सर्वे न नियताः स्युर्यादिदं सम्यक्त्वे यावन्महापरिनिर्वाणे, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

१२. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य कश्चित्सत्त्वः श्रावकाणां गणनामधिगच्छेत्, अन्तशस्त्रिसाहस्रमहासाहस्रपर्यापन्ना अपि सर्वसत्त्वाः प्रत्येकबुद्धभूताः कल्पकोटीनियुतशतसहस्रमभिगणयन्तः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

१३. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य प्रमाणिकी मे प्रभा भवेत्, अन्तशो बुद्धक्षेत्रकोटीनियुतशतसहस्रप्रमाणेनापि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

१४. सचेन्मे भगवन्ननुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य तस्मिन् बुद्धक्षेत्रे सत्त्वानां प्रमाणीकृतमायुष्प्रमाणं भवेत्, अन्यत्र प्रणिधानवशेन, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

१५. सचेन्मे भगवन् बोधिप्राप्तस्यायुष्प्रमाणं पर्यन्तीकृतं भवेत्, अन्तशः कल्पकोटीनियुतशतसहस्रगणयापि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

१६. सचेन्मे भगवन् बोधिप्राप्तस्य तस्मिन् बुद्धक्षेत्रे सत्त्वानामकुशलस्य नामधेयमपि भवेत्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

१७. सचेन्मे भगवन् बोधिप्राप्तस्य नाप्रमयेषु बुद्धक्षेत्रेषु अप्रमेयासंख्येया बुद्धा भगवन्तो नामधेयं परिकीर्तयेयुः, न वर्णं भाषेरन्, न प्रशंसामभ्युदीरयेरन्, न समुदीरयेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

१८. सचेन्मे भगवन् बोधिप्राप्तस्य ये सत्त्वा अन्येषु लोकधातुष्वनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य मम नामधेयं श्रुत्वा प्रसन्नचित्ता मामनुस्मरेयुः, तेषां चेदहं मरणकालसमये प्रत्युपस्थिते भिक्षुसंघपरिवृतः पुरस्कृतो न पुरतस्तिष्ठेयं यदिदं चित्ताविक्षेपतायै, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

१९. सचेन्मे भगवन् बोधिप्राप्तस्य अप्रमेयासंख्येयेषु बुद्धक्षेत्रेषु ये सत्त्वा मम नामधेयं श्रुत्वा तत्र बुद्धक्षेत्रे चित्तं प्रेरयेयुः, उपपत्तये कुशलमूलानि च परिणामयेयुः, ते तत्र बुद्धक्षेत्रे नोपपद्येरन्, अन्तशो दशभिश्चित्तोत्पादपरिवर्तैः स्थापयित्वा आनन्तर्यकारिणः सद्धर्मप्रतिक्षेपावरणकृतांश्च सत्त्वान्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

२०. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुः, ते सर्वे नैकजातिप्रतिबद्धाः स्युरनुत्तरायां सम्यक्संबोधौ स्थापयित्वा प्रणिधानविशेषान्, तेषामेव बोधिसत्त्वानां महासत्त्वानां महासंनाहसंनद्धानां सर्वलोकार्थसंबुद्धानां सर्वलोकाभियुक्तानां सर्वलोकपरिनिर्वाणाभियुक्तानां सर्वलोकधातुषु बोधिसत्त्वचर्यां चरितुकामानां सर्वबुद्धानां संवर्तुकामानां गङ्गानदीवालुकासमान् सत्त्वान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापकानां भूयश्च उत्तरचर्याभिमुखानां समन्तभद्रचर्यानिर्यातानाम्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

२१. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाता भवेयुः, ते सर्वे एकपुरोभक्तेन अन्यानि बुद्धक्षेत्राणि गत्वा बहूनि बुद्धशतानि बहूनि बुद्धसहस्राणि बहूनि बुद्धशतसहस्राणि बह्वीर्बुद्धकोटीर्यावद्बहूनि बुद्धकोटीनियुतशतसहस्राणि नोपतिष्ठेरन् सर्वसुखोपधानैः तदिदं बुद्धानुभावेन, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

२२. सचेन्मे भगवन् बोधिप्राप्तस्त तत्र बुद्धक्षेत्रे बोधिसत्त्वा यथारूपैराकारैराकाङ्क्षेयुः कुशलमूलान्यवरोपयितुं यदिदं सुवर्णेन वा रजतेन वा मणिमुक्तावैडूर्यशङ्खशिलाप्रवालस्फटिकमुसारगल्वलोहितमुक्ताश्मगर्भादिभिर्वा अन्यतमान्यतमैः सर्वै रत्नैर्वा सर्वगन्धपुष्पमाल्यविलेपनधूपचूर्णचीवरच्छत्रध्वजपताकाप्रदीपैर्वा सर्वनृत्यगीतवाधैर्वा, तेषां च तथारूपा आहाराः सहचित्तोत्पादान्न प्रादुर्भवेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

२३. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुः, ते सर्व न सर्वज्ञतासहगतां धर्मकथां कथयेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

२४. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये बोधिसत्त्वा एवं चित्तमुत्पादयेयुः-यदिहैव वयं लोकधातौ स्थित्वा अप्रमेयासंख्येयेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः सत्कुर्याम् गुरुकुर्याम् मानयेम पूजयेम यदिदं चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः पुष्पधूपदीपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्नानाविधनृत्यगीतवाद्यै रत्नवर्षैरिति, तेषां च बुद्धा भगवन्तः सहचित्तोत्पादान्न प्रतिगृह्णीयुर्यदिदमनुकम्पामुपादाय, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

२५. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाता भवेयुः, ते सर्वे न नारायणवज्रसंहतात्मभावस्थामप्रतिलब्धा भवेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

२६. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे यः कश्चित्सत्त्वोऽलंकारस्य वर्णपर्यन्तमुद्गृह्णीयात्-अन्तशो दिव्येनापि चक्षुषा एवंवर्णमेवंविभूति इदं बुद्धक्षेत्रमिति नानावर्णतां जानीयात्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

२७. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे यः सर्वपरीत्तकुशलमूलो बोधिसत्त्वः सोऽन्तशो योजनशतोत्थितमुदारवर्णं बोधिवृक्षं न संजानीयात्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

२८. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे कस्यचित्सत्त्वस्योद्देशो वा स्वाध्यायो वा कर्तव्यः स्यात्, न ते सर्वे प्रतिसंवित्प्राप्ता भवेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

२९. सचेन्मे भगवन् बोधिप्राप्तस्य नैवं प्रभास्वरं तद्बुद्धक्षेत्रं भवेद्यत्र समन्तादप्रमेयासंख्येयाचिन्त्यातुल्यापरिमाणानि बुद्धक्षेत्राणि संदृश्येरन् तद्यथापि नाम परिमृष्टे आदर्शमण्डले मुखमण्डलम्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

३०. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे धरणीतलमुपादाय यावदन्तरीक्षाद्देवमनुष्यविषयातिक्रान्तस्याभिजातस्य धूपस्य तथागतबोधिसत्त्वपूजाप्रत्यर्हस्य सर्वरत्नमयानि नानासुरभिगन्धघटिकाशतसहस्राणि सदा निधूपितान्यव न स्युः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

३१. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे न सदाभिप्रवृष्टान्येव सुगन्धिनानारत्नपुष्पवर्षाणि सदा प्रवादिताश्च मनोज्ञस्वरा वाद्यमेघा न स्युः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

३२. सचेन्मे भगवन् बोधिप्राप्तस्य ये सत्त्वा अप्रमेयासंख्येयाचिन्यातुल्येषु लोकधातुष्वाभया स्फुटा भवेयुः, ते सर्वे न देवमनुष्यसमतिक्रान्तेन सुखेन समन्वागता भवेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

३३. सचेन्मे भगवन् बोधिप्राप्तस्य समन्तादप्रमेयाचिन्त्यातुल्यापरिमाणेषु बुद्धक्षेत्रेषु बोधिसत्त्वा महासत्त्वा मम नामधेयं श्रुत्वा तच्छ्रवणसहगतेन कुशलेन जातिव्यतिवृत्ताः सन्तो न धारणीप्रतिलब्धा भवेयुर्यावद्बोधिमण्डपर्यन्तमिति, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

३४. सचेन्मे भगवन् बोधिप्राप्तस्य समन्तादप्रमेयासंख्येयाचिन्त्यातुल्यापरिमाणेषु बुद्धक्षेत्रेषु याः स्त्रियो मम नामधेयं श्रुत्वा प्रमादं संजनयेयुः, बोधिचित्तं नोत्पादयेयुः, स्त्रीभावं च न विजुगुप्सेरन्, जातिव्यतिवृत्ताः समानाः सचेद्द्वितीयं स्त्रीभावं प्रतिलभेरन्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

३५. सचेन्मे भगवन् बोधिप्राप्तस्य समन्ताद्दशसु दिक्षु अप्रमेयासंख्येयाचिन्त्यातुल्यापरिमाणेषु बुद्धक्षेत्रेषु ये बोधिसत्त्वा मम नामधेयं श्रुत्वा प्रणिपत्य पञ्चमण्डलनमस्कारेण वन्दिष्यन्ते ते बोधिसत्त्वचर्यां चरन्तो न सदेवकेन लोकेन सत्क्रियेरन्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

३६. सचेन्मे भगवन् बोधिप्राप्तस्य कस्यचिद्बोधिसत्त्वस्य चीवरधावनशोषणसीवनरञ्जनकर्म कर्तव्यं भवेत्, न त्वेव नवाभिजातचीवररत्नैः प्रावृतमेवात्मानं संजानीयुः सहचित्तोत्पादात्तथागतानुज्ञातैः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

३७. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे सहोत्पन्नाः सत्त्वा नैवंविधं सुखं प्रतिलभेरंस्तद्यथापि नाम निष्परिदाहस्यार्हतो भिक्षोस्तृतीयध्यानसमापन्नस्य, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

३८. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाताः, ते यथारूपं बुद्धक्षेत्रे गुणालंकारव्यूहमाकाङ्क्षेयुः, तथारूपं नानारत्नवृक्षेभ्यो न संजनयेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

३९. सचेन्मे भगवन् बोधिप्राप्तस्य मम नामधेयं श्रुत्वा अन्यबुद्धक्षेत्रोपपन्ना बोधिसत्त्वा इन्द्रियबलवैकल्यं गच्छेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

४०. सचेन्मे भगवन् बोधिप्राप्तस्य तदन्यबुद्धक्षेत्रस्थाने बोधिसत्त्वा मम नामधेयसहश्रवणान्न सुविभक्तवतीं नाम समाधिं प्रतिलभेरन्, यत्र समाधौ स्थित्वा बोधिसत्त्वा एकक्षणव्यतिहारेण अप्रमेयासंख्येयाचिन्त्यातुल्यापरिमाणान् बुद्धान् भगवतः पश्यन्ति, स चैषां समाधिरन्तरा विप्रणश्येत्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

४१. सचेन्मे भगवन् बोधिप्राप्तस्य तदन्येषु बुद्धक्षेत्रेषु मम नामधेयं श्रुत्वा तच्छ्रवणसहगतेन कुशलमूलेन सत्त्वा नाभिजातकुलोपपत्तिं प्रतिलभेरन् यावद्बोधिपर्यन्तम्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

४२. सचेन्मे भगवन् बोधिप्राप्तस्य तदन्येषु बुद्धक्षेत्रेषु ये बोधिसत्त्वा मम नामधेयं श्रुत्वा तच्छ्रवणकुशलमूलेन यावद्बोधिपर्यन्तं ते सर्वे बोधिसत्त्वचर्याप्रीतिप्रामोद्यकुशलमूलसमवधानगता न भवेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

४३. सचेन्मे भगवन् बोधिप्राप्तस्य सहनामधेयश्रवणात्तदन्येषु लोकधातुषु बोधिसत्त्वा न समन्तानुगतं नाम समाधिं प्रतिलभेरन्, यत्र स्थित्वा बोधिसत्त्वा एकक्षणव्यतिहारेण अप्रमेयासंख्येयाचिन्यातुल्यापरिमाणान् बुद्धान् भगवतः सत्कुर्वन्ति, स चैषां समाधिरन्तरा विप्रणश्येद्यावद्बोधिमण्डपर्यन्तम्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

४४. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुः ते यथारूपां धर्मदेशनामाकाङ्क्षेयुः श्रोतुम्, तथारूपां सहचित्तोत्पादान्न शृणुयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

४५. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे तदन्येषु बुद्धक्षेत्रेषु ये च बोधिसत्त्वा मम नामधेयं शृणुयुः, ते सहनामधेयश्रवणान्नावैवर्तिका भवेयुरनुत्तरायाः सम्यक्संबोधेः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम्॥

४६. सचेन्मे भगवन् बोधिप्राप्तस्य बुद्धशास्तुर्बुद्धक्षेत्रेषु ते बोधिसत्त्वा मम नामधेयं शृणुयुः, ते सहनामधेयश्रवनात्प्रथमद्वितीयतृतीयाः क्षान्तीः प्रतिलभेरन् नावैवर्तिका भवेयुर्बुद्धधर्मसंघेभ्यः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिबुध्येयम्॥८॥



अथ खल्वानन्द स धर्माकरो भिक्षुरिमानेवंरूपान् प्रणिधानविशेषान्निर्दिश्य तस्यां वेलायाम् बुद्धानुभावेन् इमा गाथा अभाषत—



सचि मि [सिय] विशिष्ट नैवरूपा

वरप्रणिधान सिया खु बोधिप्राप्तो।

माह सिय गवेन्द्रसत्त्वसारो

दशबलधारि अतुल्यदक्षिणीयः॥११॥



सचि मि सिय न क्षेत्र एवरूपं

बहु अध नानप्रभूतदिव्यवित्तम्।

सुखित नरक येय दुःखप्राप्तो

माह सिया रतनान [लोक]राजा॥१२॥



सचि मि उपगतस्य बोधिमण्डं

दशदिशि प्रव्रजि नामधेयु क्षिप्रम्।

पृथु बहव अनन्त बुद्धक्षेत्रा

माह सिया बलप्राप्तु लोकनाथः॥१३॥



सचि खु अहु रमेय कामभोगां

स्मृतिमतिया गतिया विहीनु सन्तः।

अतुल शिव समेयमान बोधिं

माह सिया बलप्राप्तु शास्त्र लोके॥१४॥



विपुलप्रभ अतुल्यनन्त नाथ

दिशि विदिशि स्फुरि सर्वबुद्धक्षेत्रा।

राग प्रशमि सर्वदोषमोहां

नरकगतिस्मि प्रशामि धूमकेतुम्॥१५॥



जनिय सुरुचिरं विशालनेत्रं

विधुनिय सर्वनराण अन्धकारम्।

अपनिय सु न अक्षणानशेषां

उपनयि स्वर्गगताननन्ततेजां॥१६॥



न तपति नभ चन्द्रसूर्यआभा

मणिगण अग्निप्रभा न देवतानाम्।

अभिभवति नरेन्द्र आभ सर्वां

पुरिमचरिं परिशुद्ध आचरित्वा॥१७॥



पुरुषवरु निधान दुःखितानां

दिशि विदिशासु न अस्ति एवरूपः।

कुशलशतसहस्रसर्वपूर्ण

पर्षगरो नदि बुद्धसिंहनादम्॥१८॥



पुरिमजिन स्वयंभु सत्करित्वा

व्रततपकोटि चरित्व अप्रमेयाम्।

प्रवरवरसमेऽस्मि ज्ञानस्कन्ध

प्रणिधिबलप्रतिपूर्ण सत्त्वसारो॥१९॥



यथ भगव असङ्गज्ञानदर्शी

त्रिविध प्रजानति संस्कृते नरेन्द्रः।

अहमपि सिय तुल्यदक्षिणीयो

विदुप्रवरो नरनायको नराणाम्॥२०॥



सचि मि अयु नरेन्द्र एवरूपा

प्रणिधि समृध्यति बोधि प्रापुणित्वा।

चलतु अय सहस्रलोकधातु

कुसुमप्रवर्षण भातु देवसंघां॥२१॥



प्रचलित वसुधा प्रवर्षि पुष्पाः

तूर्यशता गगनेऽथ संप्रणेदुः।

दिव्यरुचिरचन्दनस्य चूर्णा

अवकिरि चैव भविष्य लोकि बुद्धः॥ २२॥ इति॥ ९॥



एवंरूपया आनन्द प्रणिधानसंपदा स धर्माकरो भिक्षुर्बोधिसत्त्वो महासत्त्वः समन्वागतोऽभूत्। एवंरूपया चानन्द प्रणिधानसंपदा अल्पका बोधिसत्त्वाः समन्वागताः। अल्पकानां चैवंरूपाणां प्रणिधीनां लोके प्रादुर्भावो भवति परीत्तानाम्। न पुनः सर्वशो नास्ति। स खलु पुनरानन्द धर्माकरो भिक्षुस्तस्य भगवतो लोकेश्वरराजस्य तथागतस्य पुरतः सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः पुरत इमानेवंरूपान् प्रणिधानविशेषान्निर्दिश्य यथाभूतप्रतिज्ञाप्रतिपत्तिप्रतिष्ठितोऽभूत्। स इमामेवंरूपां बुद्धक्षेत्रपरिशुद्धिं बुद्धक्षेत्रमाहात्म्यं बुद्धक्षेत्रोदारतां समुदानयन् बोधिसत्त्वचर्यां चरन् अप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यापरिमाणानभिलाप्यानि वर्षकोटीनियुतशतसहस्राणि न जातु कामव्यापादविहिंसावितर्कान् वितर्कितवान्, न जातु कामव्यापादविहिंसासंज्ञामुत्पादितवान्, न जातु रूपशब्दगन्धरसस्प्रष्टव्यसंज्ञामुत्पादितवान्। स दहरमनोहर एव सुरतोऽभूत्सुखसंवासोऽधिवासनजातीयः सुभगः सुपोषोऽल्पेच्छः संतुष्टः प्रविविक्तोऽदुष्टोऽमूढोऽशङ्कोऽजिह्मोऽशठोऽमायावी सुखिलोमः प्रियालापो नित्याभियुक्तः शुक्लधर्मपर्येष्टौ सुनिक्षिप्तधुरः सर्वसत्त्वानामर्थाय महाप्रणिधानं समुदानितवान् बुद्धधर्मसंघाचार्योपाध्यायकल्याणमित्रसगौरवो नित्यसंनद्धो बोधिसत्त्वचर्यायामार्जवो मार्दवोऽकुहकोऽनिलपको गुणवान् पूर्वंगमः सर्वकुशलधर्मसमादापनतायै शून्यतानिमित्ताप्रणिहितानभिसंस्कारानुत्पादविहारैर्निर्मानः स्वारक्षितवाक्यश्चाभूत्। बोधिसत्त्वचर्यां चरन् स यद्वाक्कर्मोत्सृष्टमात्मपरोभयव्यापादाय संवर्तते, तथाविधं त्यक्त्वा यद्वाक्कर्म स्वपरोभयहितसुखसंवर्तकं तदेवाभिप्रयुक्तवान्। एवं च सम्प्रजानोऽभूत् यद्ग्रामनगरनिगमजनपदराष्ट्रराजधानीष्ववतरन्न जातु रूपशब्दगन्धरसस्प्रष्टव्यधर्मेष्वनुनीतोऽभूदप्रतिहतः। स बोधिसत्त्वचर्यायां चरन् स्वयं च दानपारमितायामचरत् परांश्च तत्रैव समादापितवान्, स्वयं च शीलक्षान्तिवीर्यध्यानप्रज्ञापारमितास्वचरत्, परांश्च तत्रैव समादापितवान्। तथारूपाणि च कुशलमूलानि समुदानीतवान्, यैः समन्वागतो यत्रयत्रोपपद्यते, तत्र तत्र अस्यानेकानि निधानकोटीनियुतशतसहस्राणि धरण्याः प्रादुर्भवन्ति। तेन बोधिसत्त्वचर्यां चरता तावदप्रमेयासंख्येयानि सत्त्वकोटीनियुतशतसहस्राण्यनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापितानि, येषां न सुकरं वाक्कर्मणा पर्यन्तमधिगन्तुम्। तावदप्रमेयासंख्येया बुद्धा भगवन्तः सत्कृता गुरुकृता मानिताः पूजिताश्चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानस्पर्शविहारैः प्रतिपादिताः। यावन्तः सत्त्वाः श्रेष्ठिगृहपत्यमात्यक्षत्रियब्राह्मणमहाशालकुलेषु प्रतिष्ठापिताः, तेषां न सुकरो वाक्कर्मनिर्देशेन पर्यन्तोऽधिगन्तुम्। एवं जाम्बूद्वीपेश्वराश्च प्रतिष्ठापिताश्चक्रवर्तित्वे लोकपालत्वे शक्रत्वे सुयामत्वे सुतुषितत्वे सुनिर्मितत्वे सुवशवर्तित्वे देवराजत्वे महाब्रह्मत्वे च प्रतिष्ठापिताः। तावदप्रमेयासंख्येया बुद्धा भगवन्तः सत्कृता गुरुकृता मानिताः पूजिताश्चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानस्पर्शविहारैः प्रतिपादिताः। यावन्तः सत्त्वाः श्रेष्ठिगृहपत्यमात्यक्षत्रियब्राह्मणमहाशालकुलेषु प्रतिष्ठापिताः, तेषां न सुकरो वाक्कर्मनिर्देशेन पर्यन्तोऽधिगन्तुम्। एवं जाम्बूद्वीपेश्वराश्च प्रतिष्ठापिताश्चक्रवर्तित्वे लोकपालत्वे शक्रत्वे सुयामत्वे सुतुषितत्वे सुनिर्मितत्वे वशवर्तित्वे देवराजत्वे महाब्रह्मत्वे च प्रतिष्ठापिताः। तावदप्रमेयासंख्येया बुद्धा भगवन्तः सत्कृता गुरुकृता मानिताः पूजिता धर्मचक्रप्रवर्तनार्थं चाधीष्टाः, येषां न सुकरो वाक्कर्मनिर्देशेन पर्यन्तोऽधिगन्तुम्। स एवंरूपं कुशलं समुदानयत्, यदस्य बोधिसत्त्वचर्यां चरतोऽप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यापरिमाणानभिलाप्यानि कल्पकोटीनियुतशतसहस्राणि सुरभिर्दिव्यातिक्रान्तचन्दनगन्धो मुखात्प्रवाति स्म। सर्वरोमकूपेभ्य उत्पलगन्धो वाति स्म। सर्वलोकाभिरूपश्चाभूत्प्रासादिको दर्शनीयः परमशुभवर्णपुष्कलतया समन्वागतः लक्षणव्यञ्जनसमलंकृतेनात्मभावेन। तस्य सर्वरत्नालकाराः सर्ववस्त्रचीवराभिनिर्हाराः सर्वपुष्पधूपगन्धमाल्यविलेपनच्छत्रध्वजपताकाभिनिर्हाराः सर्ववाद्यसंगीत्यभिनिर्हाराश्च सर्वरोमकूपेभ्यः पाणितलाभ्यां च निश्चरन्ति स्म। सर्वान्नपानखाद्यभोज्यलेह्यरसाभिनिर्हाराः सर्वोपभोगपरिभोगाभिनिर्हाराश्च पाणितलाभ्यां प्रस्यन्दन्तः प्रादुर्भवन्ति स्म। इति हि सर्वपरिष्कारवशिताप्राप्तः स आनन्द धर्माकरो भिक्षुरभूत् पूर्वं बोधिसत्त्वचर्यां चरन्॥१०॥



एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत्-किं पुनर्भगवन् स धर्माकरो भिक्षुर्बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यातीतः परिनिर्वृतः, उताहोऽनभिसंबुद्धः अथ प्रत्युत्पन्नोऽभिसंबुद्ध एतर्हि तिष्ठति ध्रियते यापयति धर्मं च देशयति? भगवानाह-न, खलु पुनरानन्द स तथागतोऽतीतो न अनागतः। अपि त्वेव स तथागतोऽर्हन् सम्यक्संबोधिमभिसंबुद्ध एतर्हिं तिष्ठति ध्रियते यापयति धर्मं च देशयति पश्चिमायां दिशि इतो कोटीनियुतशतसहस्रतमे च बुद्धक्षेत्रे सुखावत्यां लोकधातावमिताभो नाम तथागतोऽर्हन् सम्यक्संबुद्धोऽपरिमाणैर्बोधिसत्त्वैः परिवृतः पुरस्कृतोऽनन्तैः श्रावकैरनन्तया बुद्धक्षेत्रसंपदा समन्वागतः॥११॥



अमिता चास्य प्रभा यस्य न सुकरं प्रमाणपर्यन्तमधिगन्तुम्-इयन्ति बुद्धक्षेत्रशतानि, इयन्ति बुद्धक्षेत्रसहस्राणि, इयन्ति बुद्धक्षेत्रशतसहस्राणि, इयन्ति बुद्धक्षेत्रकोटीनि, इयन्ति बुद्धक्षेत्रकोटीशतानि, इयन्ति बुद्धक्षेत्रकोटीसहस्राणि, इयन्ति बुद्धक्षेत्रकोटीशतसहस्राणि, इयन्ति बुद्धक्षेत्रकोटीनियुतशतसहस्राणि स्फरित्वा तिष्ठतीति। अपि तु खलु पुनरानन्द संक्षिप्तेन पूर्वस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्रकोटीनियुतशतसहस्राणि तया तस्य भगवतोऽमिताभस्य प्रभया सदा स्फुटानि। एवं दक्षिणपश्चिमोत्तरास्वध ऊर्ध्वं दिग्विदिक्षु च एकैकस्यां दिशि समन्ताद्गङ्गानदीवालुकोपमानि यावद्बुद्धक्षेत्रकोटीनियुतशतसहस्राणि तस्य भगवतोऽमिताभस्य प्रभया सदा परिस्फुटानि स्थापयित्वा बुद्धान् भगवतः पूर्वप्रणिधानाधिष्ठानेन ये व्यामप्रभया एकद्वित्रिचतुःपञ्चदशविंशतित्रिंशच्चत्वारिंशत्पञ्चाशद्योजनप्रभया योजनशतप्रभया योजनसहस्रप्रभया योजनशतसहस्रप्रभया यावदनेकयोजनकोटीनियुतशतसहस्रप्रभया वा लोकं स्फरित्वा तिष्ठन्ति। नास्त्यानन्द उपमोपन्यासो येन शक्यं तस्यामिताभस्य तथागतस्य प्रभायाः प्रमाणमुद्ग्रहीतुम्। तदनेनानन्द पर्यायेण स तथागतोऽमिताभ इत्युच्यते, अमितप्रभोऽमितप्रभासोऽसमाप्तप्रभोऽसंगतप्रभः प्रभाशिखोत्सृष्टप्रभः सदिव्यमणिप्रभोऽप्रतिहतरश्मिरागप्रभो राजनीयप्रभः प्रेमणीयप्रभः प्रमोदनीयप्रभः संगमनीयप्रभ उपोषणीयप्रभो निबन्धनीयप्रभोऽतिवीर्यप्रभोऽतुल्यप्रभोऽभिभूयनरेन्द्रामून्नयेन्द्रप्रभः(?) श्रान्तसंचयेन्दुसूर्यजिह्मीकरणप्रभोऽभिभूय लोकपालशक्रब्रह्मशुद्धावासमहेश्वरसर्वदेवजिह्मीकरणप्रभ इत्युच्यते। सा च आर्यप्रभा विमला विपुला कायसुखसंजननी चित्तौद्विल्यकरणी देवासुरनागयक्षगन्धर्वगरुडमहोरगकिन्नरमनुष्यामनुष्याणां प्रीतिप्रामोद्यसुखकरणी कुशलाशयानां सत्त्वानां कल्यकुशलमिमिणेवद्विप्रामोद्यकरणी(?) येऽन्येष्वप्यनन्तापर्यन्तेषु बुद्धक्षेत्रेषु। अनेन चानन्द पर्यायेण तथागतः परिपूर्णं कल्पं भाष्येत् तस्यामिताभस्य तथागतस्य नाम कर्मोपादाय प्रभामारभ्य, न च शक्नोति गुणपर्यन्तमधिगन्तुं तस्याः प्रभायाः, तथागतस्य वैशारद्योपच्छेदो भवेत्। तत्कस्य हेतोः? उभयमप्येतदानन्द अप्रमेयमसंख्येयमचिन्त्यापर्यन्तं यदिदं तस्य भगवतोऽमिताभस्य तथागतस्य प्रभागुणविभूतिः, तथागतस्य चानुत्तरं प्रज्ञाप्रतिभानम्॥१२॥



तस्य खलु पुनरानन्द अमिताभस्य तथागतस्याप्रमेयः श्रावकसंघो यस्य न सुकरं प्रमाणमुद्ग्रहीतुम्-इयत्यः श्रावककोट्यः, इयन्ति श्रावककोटीशतानि, इयन्ति श्रावककोटीसहस्राणि, इयन्ति श्रावककोटीशतसहस्राणि, इयन्ति कंकराणि, इयन्ति बिम्बराणि, इयन्ति नयुतानि, इयन्त्ययुतानि, इयन्त्यक्षोभ्याणि, इयन्तो विवाहाः, इयन्ति स्रोतांसि, इयन्ति ओजांसि, इयन्त्यप्रमेयाणि, इयन्त्यसंख्येयानि, इयन्त्यगण्यानि, इयन्त्यतुल्यानि, इयन्त्यचिन्त्यानीति। तद्यथा आनन्द भिक्षुर्मौद्गल्यायन ऋद्धिवशिताप्राप्तः। स आकाङ्क्षन् त्रिसाहस्रमहासाहस्रलोकधातौ यावन्ति तारारूपाणि तानि सर्वाण्येकरात्रिदिने नगरेण गणयेत्, एवंरूपाणां च ऋद्धिमतां कोटीनियुतशतसहस्रं भवेत्, ते च वर्षकोटीनियुतशतसहस्रमनन्यकर्मणा अमिताभस्य तथागतस्य प्रथमश्रावकसंनिपातं गणयेयुः। एभिर्गणयद्भिः शततमोऽपि भागो न गणितो भवेत्, सहस्रतमोऽपि शतसहस्रतमोऽपि, यावत्कलामपि उपमामपि उपनिसामपि न गणितो भवेत्। तद्यथा आनन्द महासमुद्राच्चतुरशीतियोजनसहस्राण्यावेधेन तिर्यगप्रमेयात् कश्चिदेव पुरुषः शतधा भिन्नया बालाग्रकोट्या एकमुदकबिन्दुमभ्युत्क्षिपेत्, तत्किं मन्यसे आनन्द कतमोऽत्र बहुतरः- यो वा शतधा भिन्नया बालाग्रकोट्याभ्युत्क्षिप्त एक उदकबिन्दुः, यो वा महासमुद्रेऽप्सकन्धोऽवशिस्ट इति? आनन्द आह-योजनसहस्रमपि तावद्भगवन् महासमुद्रस्य परीत्तं भवेत् किमङ्ग पुनः शतधा भिन्नया बालाग्रकोट्या उत्क्षिप्त एक उदकबिन्दुः। भगवानाह-तद्यथा स एकबिन्दुः, इयत्तमः स प्रथमसंनिपातोऽभूत्। तैर्मौद्गल्यायनसदृशैर्भिक्षुभिर्गणयद्भिस्तेन वर्षकोटीनियुतशतसहस्रेण गणितं भवेत्, यथा महासमुद्रेऽप्स्कन्धोऽवशिष्टः। एवमगणितं द्रष्टव्यम्। कः पुनर्वादो द्वितीयतृतीयादीनां श्रावकसंनिपातानाम्। एवमनन्तापर्यन्तस्तस्य भगवतः श्रावकसंघो योऽप्रमेयासंख्येय इत्येव संख्यां गच्छति॥१३॥



अपरिमितं च आनन्द तस्य भगवतोऽमिताभस्य तथागतस्यायुःप्रमाणं यस्य न सुकरं प्रमाणमधिगन्तुम्, इयन्ति वा कल्पशतानि, इयन्ति वा कल्पसहस्राणि, इयन्ति वा कल्पशतसहस्राणि, इयत्यो वा कल्पकोट्यः, इयन्ति वा कल्पकोटीशतानि, इयन्ति वा कल्पकोटीसहस्राणि, इयन्ति वा कल्पकोटीशतसहस्राणि, इयन्ति वा कल्पकोटीनियुतशतसहस्राणीति। अथ तर्हि आनन्द अपरिमितमेव तस्य भगवत् आयुःप्रमाणमपर्यन्तम्। तेन स तथागतोऽमितायुरित्युच्यते। यथा चानन्द इह लोकधातौ कल्पगणनाप्रज्ञप्तिसंकेतः, तथा सांप्रतं दश कल्पास्तस्य भगवतोऽमितायुषस्तथागतस्योत्पन्नस्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य॥१४॥



तस्य खलु पुनरानन्द भगवतोऽमिताभस्य सुखावती नाम लोकधातुरृद्धा च स्फीता च क्षेमा च सुभिक्षा च रमणीया च बहुदेवमनुष्याकीर्णा च। तत्र खल्वानन्द लोकधातौ न निरयाः सन्ति न तिर्यग्योनिर्न प्रेतविषयो नासुराः काया नाक्षणोपपत्तयः। न च तानि रत्नानि लोके प्रचरन्ति यानि सुखावत्यां लोकधातौ विद्यन्ते॥१५॥



सा खल्वानन्द सुखावती लोकधातुः सुरभिनानागन्धसमीरिता नानापुष्पफलसमृद्धा रत्नवृक्षसमलंकृता तथागताभिनिर्मितमनोज्ञस्वरनानाद्विजसंघनिषेविता। ते चानन्द रत्नवृक्षा नानावर्णा अनेकवर्णा अनेकशतसहस्रवर्णाः। सन्ति तत्र रत्नवृक्षाः सुवर्णवर्णाः सुवर्णमयाः। सन्ति रूप्यवर्णा रूप्यमयाः। सन्ति वैडूर्यवर्णा वैडूर्यमयाः। सन्ति स्फटिकवर्णाः स्फटिकमयाः। सन्ति मुसारगल्ववर्णा मुसारगल्वमयाः। सन्ति लोहितमुक्तावर्णा लोहितमुक्तामयाः। सन्त्यश्मगर्भवर्णा अश्मगर्भमयाः। सन्ति केचिद् द्वयो रत्नयोः सुवर्णस्य रूप्यस्य च। सन्ति त्रयाणां रत्नानां सुवर्णस्य रूप्यस्य वैडूर्यस्य च। सन्ति चतुर्णां रत्नानां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य च। सन्ति पञ्चानां रत्नानां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य च। सन्ति षण्णां रत्नानां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितमुक्तायाश्च। सन्ति सप्तानां रत्नानां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितमुक्ताया अश्मगर्भस्य च सप्तमस्य। तत्रानन्द सुवर्णमयानां वृक्षाणां सुवर्णमयानि मूलस्कन्धविटपशाखापत्रपुष्पाणि, फलानि रूप्यमयाणि। रूप्यमयाणां वृक्षाणां रूप्यमयान्येव मूलस्कन्धविटपशाखापत्रपुष्पाणि, फलानि वैडूर्यमयाणि। वैडूर्यमयाणां वृक्षाणां वैडूर्यमयाणि मूलस्कन्धविटपशाखापत्रपुष्पाणि, फलानि स्फटिकमयानि। स्फटिकमयानां वृक्षाणां स्फटिकमयान्येव मूलस्कन्धविटपशाखापत्रपुष्पाणि, फलानि च मुसारगल्वमयानि। मुसारगल्वमयानां वृक्षाणां मुसारगल्वमयान्येव मूलस्कन्धविटपशाखापत्रपुष्पाणि, फलानि च लोहितमुक्तामयानि। लोहितमुक्तामयानां वृक्षाणां लोहितमुक्तामयान्येव मूलस्कन्धविटपशाखापत्रपुष्पाणि, फलानि चाश्मगर्भमयाणि। अश्मगर्भमयाणां वृक्षाणामश्मगर्भमयाण्येव मूलस्कन्धविटपशाखापत्रपुष्पाणि, फलानि च सुवर्णमयानि। केषांचिदानन्द वृक्षाणां सुवर्णमयानि मूलानि, रूप्यमयाः स्कन्धाः, वैडूर्यमया विटपाः, स्फटिकमयाः शाखाः, मुसारगल्वमयानि पत्राणि, लोहितमुक्तामयानि पुष्पाणि, अश्मगर्भमयाणि फलानि। केषांचिदानन्द वृक्षाणां रूप्यमयाणि मूलानि, वैडूर्यमयाः स्कन्धाः, स्फटिकमया विटपाः, मुसारगल्वमयाः शाखाः, लोहितमुक्तामयानि पत्राणि, अश्मगर्भमयाणि पुष्पाणि, सुवर्णमयानि फलानि। केषांचिदानन्द वृक्षाणां वैडूर्यमयाणि मूलानि, स्फटिकमयाः स्कन्धाः, मुसारगल्वमया विटपाः, लोहितमुक्तामयाः शाखाः, अश्मगर्भमयाणि पत्राणि, सुवर्णमयानि पुष्पाणि, रूप्यमयाणि फलानि। केषांचिदानन्द वृक्षाणां स्फटिकमयानि मूलानि, मुसारगल्वमयाः स्कन्धाः, लोहितमुक्तामया विटपाः, अश्मगर्भमयाः शाखाः, सुवर्णमयानि पत्राणि, रूप्यमयाणि पुष्पाणि, वैडूर्यमयाणि फलानि। केषांचिदानन्द वृक्षाणां मुसारगल्वमयानि मूलानि, लोहितमुक्तामयाः स्कन्धाः, अश्मगर्भमया विटपाः, सुवर्णमयाः शाखाः, रूप्यमयाणि पत्राणि, वैडूर्यमयाणि पुष्पाणि, स्फटिकमयानि फलानि। केषांचिदानन्द वृक्षाणां लोहितमुक्तामयानि मूलानि, अश्मगर्भमयाः स्कन्धाः, सुवर्णमया विटपाः, रूप्यमयाः शाखाः, वैडूर्यमयाणि पत्राणि, स्फटिकमयानि पुष्पाणि, मुसारगल्वमयाणि फलानि।केषांचिदानन्द वृक्षाणामश्मगर्भमयाणि मूलानि, सुवर्णमयाः स्कन्धाः, रूप्यमया विटपाः, वैडूर्यमयाः शाखाः, स्फटिकमयानि पत्राणि, मुसारगल्वमयानि पुष्पाणि, लोहितमुक्तामयानि फलानि। केषांचिदानन्द वृक्षाणां सप्तरत्नमयानि मूलानि, सप्तरत्नमयाः स्कन्धाः, सप्तरत्नमया विटपाः, सप्तरत्नमयाः शाखाः, सप्तरत्नमयानि पत्राणि, सप्तरत्नमयानि पुष्पाणि, सप्तरत्नमयानि फलानि। सर्वेषां चानन्द तेषां वृक्षाणां मूलस्कन्धविटपशाखापत्रपुष्पफलानि सुखसंस्पर्शानि सुगन्धीनि। वातेन प्रेरितेन च तेषां वल्गुमनोज्ञघोषो निश्चरत्यसेचनकोऽप्रतिकूलः श्रवणाय। एवंरूपैरानन्द सप्तरत्नमयैर्वृक्षैः संततं तद्बुद्धक्षेत्रं समन्ताच्च कदलीस्कन्धैः सप्तरत्नमयै रत्नतालपङ्क्तिभिश्चानुपरिक्षिप्तं सर्वतश्च हेमजालप्रतिच्छन्नं समन्तश्च सर्वरत्नमयैः पद्मैः संछन्नम्। सन्ति तत्र पद्मान्यर्धयोजनप्रमाणानि, सन्ति योजनप्रमाणानि, सन्ति द्वित्रिचतुःपञ्चयोजनप्रमाणानि, सन्ति यावद्दशयोजनप्रमाणानि। सर्वतश्च रत्नपद्मात्षट्त्रिंशद्रश्मिकोटीशतसहस्राणि निश्चरन्ति। सर्वतश्च रश्मिमुखात्षट्त्रिंशद्बुद्धकोटीशतसहस्राणि निश्चरन्ति सुवर्णमयवर्णैः कायैर्द्वात्रिंशन्महापुरुषलक्षणधरैः, यानि पूर्वस्यां दिश्यप्रमेयासंख्येयासु लोकधातुषु गत्वा सत्त्वेभ्यो धर्मं देशयन्ति। एवं दक्षिणपश्चिमोत्तरासु दिक्षु अध ऊर्ध्वमनुविदिक्षु गतावरणे लोकेऽप्रमेयासंख्येयाँल्लोकधातून् गतिं गत्त्वा सत्त्वेभ्यो धर्मं देशयन्ति॥१६॥



तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे सर्वशः कालपर्वता न सन्ति सर्वतो रत्नपर्वताः सर्वशः सुमेरवः पर्वतराजाः सर्वशश्चक्रवाला महाचक्रवालाः पर्वतराजाः। समन्ताच्च तद्बुद्धक्षेत्रं समं रमणीयं पाणितलजातं नानाविधरत्नमणिचितभूमिभागम्। एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत्-ये च पुनस्ते भगवंश्चातुर्महाराजकायिका देवाः सुमेरुपार्श्वनिवासिनस्त्रायस्त्रिंशा वा सुमेरुमूर्ध्नि निवासिनः, ते कुत्र प्रतिष्ठिताः? भगवानाह-तत्किं मन्यसे आनन्द ये ते इह सुमेरोः पर्वतराजस्योपरि यामा देवास्तुषिता वा निर्माणरतयो वा परनिर्मितवशवर्तिनो वा ब्रह्मकायिका वा ब्रह्मपुरोहिता वा महाब्रह्माणो व यावदकनिष्ठा वा, कुत्र ते प्रतिष्ठिता इति। आनन्द आह-अचिन्त्यो भगवन् कर्मणां विपाकः कर्माभिसंस्कारः। भगवानाह-लब्धस्त्वयानन्द इहाचिन्त्यः कर्मणां विपाकः कर्माभिसंस्कारो न बुद्धानां भगवतामचिन्त्यं बुद्धाधिष्ठानं कृतपुण्यानां च सत्त्वानामवरोपितकुशलमूलानाम्। तवाचिन्त्या पुण्या विभूतिः। आनन्द आह-न मेऽत्र भगवन् काचित्काङ्क्षा वा विमतिर्वा विचिकित्सा वा। अपि तु खल्वहमनागतानां सत्त्वानां काङ्क्षाविमतिविचिकित्सानिर्घाताय तथागतमेतदर्थं परिपृच्छामि। भगवानाह-साधु साध्वानन्द, एवं ते करणीयम्॥१७॥



तस्यां खल्वानन्द सुखावत्यां लोकधातौ नानाप्रकारा नद्यः प्रचरन्ति। सन्ति तत्र महानद्यो योजनविस्ताराः। सन्ति यावद्विंशतित्रिंशच्चत्वांरिशत्पञ्चाशद्योजनविस्तारा यावद्द्वादशयोजनावेधाः। सर्वाश्च ता नद्यः सुखवाहिन्यो नानासुरभिगन्धवारिवाहिन्यो नानारत्नलुलितपुष्पसंघातवाहिन्यो नानामधुरस्वरनिर्घोषाः। तासां चानन्द कोटिशतसहस्राङ्गसंप्रयुक्तस्य दिव्यसंगीतिसमूर्च्छितस्य तूर्यस्य कुशलैः संप्रवादितस्य तावन्मनोज्ञघोषो निश्चरति यथारूपस्तासां महानदीनां निर्घोषो निश्चरति गम्भीरोऽज्ञेयोऽविज्ञेयोऽनेलः कर्णसुखो हृदयंगमः प्रेमणीयो वल्गुर्मनोज्ञोऽसेचनकोऽप्रतिकूलः श्रवणाय, अनित्यं शान्तमनात्मेति सुखश्रवनीयो यस्तेषां सत्त्वानां श्रोत्रेन्द्रियाभासमागच्छति। तासां खलु पुनरानन्द महानदीनामुभयतस्तीराणि नानागन्धरत्नवृक्षैः संततानि, येभ्यो नानाशाखापत्रपुष्पमञ्जर्योऽवलम्बन्ते। तत्र ये सत्त्वास्तेषु नदीतीरेष्वाकाङ्क्षन्ति दिव्याभिरामरमणीयां रतिक्रीडां चानुभवितुम्, तेषां तत्र नदीष्ववतीर्णानामाकाङ्क्षतां गुल्फमात्रं वारि संतिष्ठते। आकाङ्क्षतां जानुमात्रं कटिमात्रं कक्षमात्रम्, आकाङ्क्षतां कर्णमात्रं वारि संतिष्ठते, दिव्याश्च रतयः प्रादुर्भवन्ति। तत्र ये सत्त्वा आकाङ्क्षन्ति शीतं वारि भवत्विति, तेषां शीतं वारि भवति। य आकाङ्क्षन्युष्णं भवत्विति, तेषामुष्णं भवति। य आकाङ्क्षन्ति शीतोष्णं भवत्विति, तेषां शीतोष्णमेव तद्वारि भवत्यनुसुखम्। ताश्च महानद्यो दिव्यतमालपत्रागरुकालानुसारितगरोरगसारचन्दनवरगन्धवासितवारिपरिपूर्णाः प्रवहन्ति दिव्योत्पलपद्मकुमुदपुण्डरीकसौगन्धिकादिपुष्पसंछन्ना हंससारसक्रौञ्चचक्रवाककारण्डवशुकशारिककोकिलकुणालकलविङ्कमयूरादिमनोज्ञस्वरास्तथागताभिनिर्मितपक्षिसंघनिषेवितपुलिना धार्तराष्ट्रोपशोभिताः सूपतीर्था विकर्दमाः सुवर्णवालुकासंकिर्णाः। तत्र यदा ते सत्त्वा आकाङ्क्षन्ति कीदृशा अस्माकमभिप्रायाः परिपूर्यन्तामिति, तदा तेषां तादृशा एवाभिप्राया परिपूर्यन्ते। यश्चासावानन्द तस्य वारिणो निर्घोषः स मनोज्ञो निश्चरति, येन सर्वावत्तद्बुद्धक्षेत्रमभिज्ञाप्यते। ये च सत्त्वा नदीतीरेषु स्थिता आकाङ्क्षन्ति मा अस्माकमयं शब्दः श्रोत्रेन्द्रियावभासमागच्छत्विति, तेषां न दिव्यस्यापि श्रोत्रेन्द्रियस्यावभासमागच्छति। यश्च यथारूपं शब्दमाकाङ्क्षति श्रोतुम्, स तथारूपमेव मनोज्ञं शब्दं शृणोति। तद्यथा-बुद्धशब्दं धर्मशब्दं संघशब्दं पारमिताशब्दं भूमिशब्दं बलशब्दं वैशारद्यशब्दमावेणिकबुद्धधर्मशब्दं प्रतिसंविच्छब्दं शून्यतानिमित्ताप्रणिहितानभिसंस्काराजातानुत्पादाभावनिरोधशब्दं शान्तप्रशान्तोपशान्तं महामैत्रीमहाकरूणामहामुदितामहोपेक्षाशब्दमनुत्पत्तिकधर्मक्षान्त्यभिषेकभूमिप्रतिलम्भशब्दम्। श्रुत्वा उदारप्रीतिप्रामोद्यं प्रतिलभते विवेकसहगतं विरागसहगतं शान्तसहगतं निरोधसहगतं धर्मसहगतं बोधिपरिनिष्पत्तिकुशलमूलसहगतं च। सर्वशश्चानन्द सुखावत्यां लोकधातावकुशलशब्दो नास्ति, सर्वशो नीवरणशब्दो नास्ति, सर्वशोऽपायदुर्गतिविनिपातशब्दो नास्ति, सर्वशो दुःखशब्दो नास्ति। अदुःखासुखवेदनाशब्दोऽपि तावदानन्द तत्र नास्ति, कुतः पुनर्दुःखशब्दो भविष्यति? तदनेन आनन्द पर्यायेण सा लोकधातुः सुखावतीत्युच्यते संक्षिप्तेन, न पुनर्विस्तरेण कल्पोऽप्यानन्द परिक्षयं गच्छेत्सुखावत्या लोकधातोः सुखकारणेषु परिकीर्त्यमानेषु, न त्वेव शक्यं तेषां सुखकारणानां पर्यन्तमधिगन्तुम्॥१८॥



तस्यां खलु पुनरानन्द सुखावत्यां लोकधातौ ये सत्त्वाः प्रत्याजाताः प्रत्याजनिष्यन्ते, सर्वे ते एवंरूपेण वर्णेन बलेन स्थाम्ना आरोहपरिणाहेन आधिपत्येन पुण्यसंचयेन अतिष्णभिर्वस्त्राभरणोद्यानविमानकूटागारपरिभोगैरेवंरूपशब्दगन्धरसस्पर्शपरिभोगैः एवंरूपैश्च सर्वैरपि भोगपरिभोगैः समन्वागताः, तद्यथापि नाम देवाः परनिर्मितवशवर्तिनः। न खलु पुनरानन्द सुखावत्यां लोकधातौ सत्त्वा औदारिकयूषफाणिताकाराहारमाहरन्ति। अपि तु खलु पुनर्यथारूपमेवाहरमाकाङ्क्षन्ति, तथारूपमाहृतमेव संजानन्ति, प्रीणितकायाश्च भवन्ति प्रीणितमानाः। न तेषां भूयः काये प्रक्षेपः करणीयः। ते प्रीणितकायास्तथारूपाणि गन्धजातान्याकाङ्क्षन्ति-ईद्दशैरेव गन्धजातैर्दिव्यैस्तद्बुद्धक्षेत्रं सर्वमेव निर्धूपितं भवति। तत्र यस्तं गन्धमाघ्रातुकामो भवति, तस्य सर्वशो गन्धर्वराज्ञो वासना न समुदाचरति। एवं ये यथारूपाणि गन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकातूर्याण्याकाङ्क्षन्ति, तेषां तथारूपैश्च तैः सर्वं तद्बुद्धक्षेत्रं परिस्फुटं भवति। चीवराण्याकाङ्क्षन्ति नानावर्णान्यनेकशतसहस्रवर्णानि, तेषां तादृशैरेव चीवररत्नैः सर्वं तद्बुद्धक्षेत्रं परिस्फुटं भवति, प्रावृतमेव चात्मानं संजानन्ति। ते यथारूपाण्याभरणान्याकाङ्क्षन्ति, तद्यथा-शीर्षाभरणानि वा कर्णाभरणानि वा ग्रीवाभरणानि वा हस्तपादाभरणानि वा यदिदं मुकुटानि कुण्डलानि कटककेयूराणि वत्सहारा रूचकहारा कर्णिका मुद्रिकाः स्वर्णसूत्राणि मेखलाः स्वर्णसूताणि जालानि मुक्ताजालानि सर्वरत्नजालानि स्वर्णरत्नकिङ्किणीजालानि, तथारूपैराभरणैरनेकरत्नशतसहस्रप्रत्युप्तैः स्फुटं तद्बुद्धक्षेत्रं पश्यन्ति यदिदमाभरणवृक्षावसक्तैः। तैश्चाभरणैरलंकृतमात्मानं संजानन्ति। ते यादृशं विमानमाकाङ्क्षन्ति यद्वर्णलिङ्गसंस्थानं यावदारोहपरिणाहं नानारत्नमयनिर्यूहशतसहस्रसमलंकृतं नानादिव्यपुष्पसंस्तीर्णं चित्रोपधानविन्यस्तपर्यङ्कम्, तादृशमेव विमानं तेषां पुरतः प्रादुर्भवति। तेषु मनोनिर्वृत्तेषु विमानेषु सप्तसप्तास्परसहस्रपरिवृताः पुरस्कृता विहरन्ति क्रीडन्ति रमन्ते परिचारयन्ति॥१९॥



न च तत्र लोकधातौ देवानां वा मनुष्याणां वा नानात्वमस्ति अन्यत्र संवृतिव्यवहारेण देवमनुष्याविति संख्यां गच्छन्ति। तद्यथा आनन्द राज्ञश्चक्रवर्तिनः पुरतो मनुष्यहीनो मनुष्यप्रेतको न भासते न तपते न विरोचते, न च भवति विशारदो न प्रभाश्वरः, एवमेव देवानां परनिर्मितवशवर्तिनां पुरतः शक्रो देवानामिन्द्रो न भासते न तपते न विरोचते यदिदमुद्यानविमानवस्त्राभरणैराधिपत्येन ऋद्ध्या वा प्रातिहार्येण वा ऐश्वर्येण वा आनन्द, स खलु धर्माभिसमयेन धर्मपरिभोगेण वा। तत्र आनन्द यथा देवाः परिनिर्मितवशवर्तिनः, एवं सुखावत्यां लोकधातौ मनुष्या द्रष्टव्याः॥२०॥



तस्यां खलु पुनरानन्द सुखावत्यां लोकधातौ पूर्वाह्णकालसमये प्रत्युपस्थिते समन्ताच्चतुर्दिशमाकुलाः समाकुला वायवो वान्ति। तेषां रत्नवृक्षाणां चित्रान् दर्शनीयान् नानावर्णाननेकवृन्तान् नानासुरभिदिव्यगन्धपरिवासितान् क्षोभयन्ति संक्षोभयन्ति ईरयन्ति समीरयन्ति यतो बहूनि पुष्पशतानि तस्यां रत्नमय्यां महापृथिव्यां प्रपतन्ति मनोज्ञगन्धानि दर्शनीयानि। तैश्च पुष्पैस्तद्बुद्धक्षेत्रं समन्तात्सप्तपौरुषं संस्कृतरूपं भवति। तद्यथापि नाम पुरुषः कुशलः पृथिव्यां पुष्पसंस्तरं संस्तृणुयात्, उभाभ्यां पाणिभ्यां समं रचयेत्सुचित्रं दर्शनीयम्, एवमेव तद्बुद्धक्षेत्रं तैः पुष्पैर्नानागन्धवर्णैः समन्तात्सप्तपौरुषं स्फुटं भवति। तानि च पुष्पजातानि मृदूनि काचिलिन्दिकसुखसंस्पर्शानि औपम्यमात्रेण, यानि निक्षिप्ते पादे चतुरङ्गुलमवनमन्ति, उत्क्षिप्ते पादे चतुरङ्गुलमेवोन्नमन्ति। निर्गते पुनः पूर्वाह्णकालसमये तानि पुष्पाणि निरवशेषमन्तर्धीयन्ते। अथे तद्बुद्धक्षेत्रं विविक्तं रम्यं शुभं भवत्यपरिक्लिष्टैः पूर्वपुष्पैः। ततः पुनरपि समन्ताच्चतुर्दिशं वायवो वान्ति, ये पूर्ववदभिनवानि पुष्पाण्यभिप्रकिरन्ति। यथा पूर्वाह्णे, एवं मध्याह्नकालसमये संध्यायां रात्र्याः प्रथमे यामे मध्यमे यामे पश्चिमे यामे। तैश्च वातैर्वायद्भिर्नानागन्धपरिवासितैस्ते सत्त्वाः स्पृष्टाः सन्तः एवं सुखसमर्पिता भवन्ति तद्यथापि नाम निरोधसमापन्नो भिक्षुः॥२१॥



तस्मिश्चानन्द बुद्धक्षेत्रे सर्वशोऽग्निसूर्यचन्द्रग्रहनक्षत्रतारारूपाणां तमोन्धकारस्य नामधेयप्रज्ञप्रप्तिरपि नास्ति। सर्वशो रात्रिंदिवं प्रज्ञप्तिरपि नास्ति अन्यत्र तथागतव्यवहारात्, सर्वशश्चारामपरिग्रहसंज्ञा नास्ति॥२२॥



तस्यां खलु पुनरानन्द सुखावत्यां लोकधातौ काले दिव्यगन्धोदकमेघा अभिप्रवर्षयन्ति दिव्यानि सर्ववर्णिकानि कुसुमानि, दिव्यानि सप्तरत्नानि, दिव्यं चन्दनचूर्णम्, दिव्याश्छत्रध्वजपताका अभिप्रवर्षयन्ति। दिव्यानि सर्ववर्णिकानि कुसुमानि, दिव्यानि वितानानि ध्रियन्ते, दिव्यानि च्छत्ररत्नानि सर्वाभरणान्याकाशे ध्रियन्ते, दिव्यानि वाद्यानि प्रवाद्यन्ते, दिव्याश्चाप्सरसो नृत्यन्ति॥२३॥



तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे ये सत्त्वा उपपन्ना उत्पद्यन्ते उत्पस्यन्ते, सर्वे ते नियताः सम्यक्त्वे यावन्निर्वाणम्। तत्कस्य हेतोः? नास्ति तत्र द्वयो राश्योर्व्यवस्थानं प्रज्ञप्तिर्वा यदिदमनियतस्य वा मिथ्यात्वनियतस्य वा। तदनेनाप्यानन्द पर्यायेण सा लोकधातुः सुखावतीत्युच्यते संक्षिप्तेन, न पुनर्विस्तरेण। कल्पोऽप्यानन्द परिक्षीयेत सुखावत्यां लोकधातौ सुखकारणेषु परिकीर्त्यमानेषु, न च तेषां सुखकारणानां शक्यं पर्यन्तमधिगन्तुम्॥२४॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत-



सर्वेऽपि सत्त्वाः सुखिता भवेयु-

र्विशुद्धज्ञानाः परमार्थकोविदाः।

ते कल्पकोटीमथ वापि चोत्तरिं

सुखावतीवर्ण प्रकाशयेयुः॥२३॥



क्षये कल्पकोटी वज्रे सुराश्च

सुखावतीये न च वर्णसारुः।

क्षयं न गच्छेत्प्रतिभा च तेषां

प्रकाशयन्तान तु वर्ण नानां॥२४॥



ये लोकधातू परमाणुसादृशां-

श्छिद्येय भिद्येय रजश्च कुर्यात्।

अतो बहू उत्तरि लोकधातु

पूरेत दानं रतनाहि दद्यात्॥२५॥



नैता कलापि उपमापि तस्य

पुण्यस्य भोन्ती पृथुलोकधातवः।

ये लोकधातूय सुखावतीये

श्रुत्वैव नामं भवतीह पुण्यम्॥२६॥



ततो बहू पुण्य भवेत तेषां

ये श्रद्धते जिनवचनं सप्रज्ञाः।

श्रद्धा हि मूलं जगतस्य प्राप्तये

तस्माद्धि श्रुत्वा विचितिं विनोदयेत्॥२७॥इति॥



एवमप्रमेयगुणवर्णा आनन्द सुखावती लोकधातुः॥२५॥



तस्य खलु पुनरानन्द भगवतोऽमिताभस्य तथागतस्य दशसु दिक्षु एकैकस्यां दिशि गङ्गानदीवालुकासमेषु बुद्धक्षेत्रेषु गङ्गानदीवालुकासमा बुद्धा भगवन्तो नामधेयं परिकीर्तयन्ते, वर्णं भाषन्ते, यशः प्रकाशयन्ति, गुणमुदीरयन्ति। तत्कस्य हेतोः? ये केचित्सत्त्वास्तस्य भगवतोऽमिताभस्य नामधेयं शृण्वन्ति, श्रुत्वा चान्तश एकचित्तोत्पादमप्यध्याशयेन प्रसादसहगतेन चित्तमुत्पादयन्ति, ते सर्वेऽवैवर्तिकतायां सन्त्यनुत्तरायाः सम्यक्संबोधेः॥२६॥



ये चानन्द केचित्सत्त्वास्तं तथागतं पुनः सत्कारमनसिकरिष्यन्ति, बह्वपरिमितं कुशलमूलमवरोपयिष्यन्ति बोधये चित्तं परिणाम्य, तत्र च लोकधातावुपपत्तये प्रणिधास्यन्ति, तेषां सोऽमिताभस्तथागतोऽर्हन् सम्यक्संबुद्धो मरणकालसमये प्रत्युपस्थितेऽनेकभिक्षुगणपरिवृतः पुरस्कृतः स्थास्यति। ततस्ते तं भगवन्तं दृष्ट्वा प्रसन्नचित्ताश्च्युताः सन्तस्तत्रैव सुखावत्यां लोकधातावुपपत्स्यन्ते। यश्च आनन्द आकाङ्क्षेत कुलपुत्रो वा कुलदुहिता वा किमित्यहं दृष्ट एव धर्मे तममिताभं तथागतं पश्येयमिति, तेनानुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य अध्याशयातिशयतया संतत्या तस्मिन् बुद्धक्षेत्रे चित्तं संप्रेष्य उपपत्तये कुशलमूलानि च परिणामयितव्यानि॥२७॥



ये पुनस्तं तथागतं न भूयो मनसिकरिष्यन्ति, न च बह्वपरिमितं कुशलमूलमभीक्ष्णमवरोपयिष्यन्ति, तेषां तादृशेनैव सोऽमिताभस्तथागतोऽर्हन् सम्यक्संबुद्धो वर्णसंस्थानारोहपरिणाहेन भिक्षुसंघपरिवारेण च तादृश एव बुद्धिनिर्मितो मरणकालसमये पुरतः स्थास्यति। ते तेनैव तथागतदर्शनप्रसादालम्बनेन समाधिना अप्रमुषितया स्मृत्या च्युतास्तत्रैव बुद्धक्षेत्रे प्रत्याजनिष्यन्ति॥२८॥



ये पुनरानन्द सत्त्वास्तं तथागतं दशचित्तोत्पादात्समनुस्मरिष्यन्ति, स्पृहां च तस्मिन् बुद्धक्षेत्र उत्पादयिष्यन्ति, गम्भीरेषु च धर्मेषु भाष्यमाणेषु तुष्टिं प्रतिलप्स्यन्ते, न विपत्स्यन्ते, न विषादमापत्स्यन्ते, न संसदनमापत्स्यन्ते, अन्तश एकचित्तोत्पादेनापि तं तथागतं मनसिकरिष्यन्ति, स्पृहां चोत्पादयिष्यन्ति तस्मिन् बुद्धक्षेत्रे, तेऽपि स्वप्नान्तरगता अमिताभं तथागतं द्रक्ष्यन्ति, सुखावत्यां लोकधातावुपपत्स्यन्ते, अवैवर्तिकाश्च भविष्यन्त्यनुत्तरायाः सम्यक्संबोधेः॥२९॥



इमं खल्वानन्द अर्थवशं संपश्य तथागता दशसु दिक्षु अप्रमेयासंख्येयासु लोकधातुषु तस्यामिताभस्य तथागतस्य नामघेयं परिकीर्तयन्तो वर्णं घोषयन्तः संप्रशंसामभ्युदीरयन्ति। तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे दशभ्यो दिग्भ्य एकैकस्यां दिशि गङ्गानदीवालुकासमा बोधिसत्त्वास्तममिताभं तथागतमुपसंक्रमन्ति दर्शनाय वन्दनाय पर्युपासनाय परिप्रश्नीकरणाय, तं च बोधिसत्त्वगणं तांश्च बुद्धक्षेत्रगुणालंकारव्यूहसंपद्विशेषान् द्रष्टुम्॥३०॥



अथ खलु भगवांस्तस्यां वेलायामिममेवार्थं भूयस्या मात्रया परिदीपयन्निमा गाथा अभाषत-



यथैव गङ्गानदीवालुकासमा

बुद्धान क्षेत्रा अमितायुनायकम्॥२८॥



बहुपुष्पपूटी गृहीत्व ते

नानावर्णं सुरभी मनोरमां।

ओकिरन्ति नरनायकोत्तमं

अमितायुं नरदेवपूजितम्॥२९॥



तथ दक्षिणपश्चिमोत्तरासु

बुद्धान क्षेत्रा दशतासु यात्तकाः।

यतो यतो आगमि बुद्ध वन्दितुं

सबोधिसत्त्वा अमितायुनायकम्॥३०॥



बहुगन्धापूटी गृहित्वा

नानावर्ण सुरभी मनोरमां।

ओकिरन्ति नरनायकोत्तमं

अमितायुं नरदेवपूजितम्॥३१॥



पूजित्व वा ते बहुबोधिसत्त्वा

वन्दित्व पादाममितप्रभस्य।

प्रदक्षिणीकृत्य वदन्ति चैवं

अहोऽद्भुतं शोभति बुद्धक्षेत्रम्॥३२॥



ते पुष्पपूटीहि पुनोकिरन्ति

उदग्रचित्ता अतुलाय प्रीतिये।

कामं प्रभाषन्ति पुरस्त नायके

अस्मापि क्षेत्रं सिय एवरूपम्॥३३॥



ये पुष्पपूटा इति क्षिप्त तत्र

छत्रंतया संस्थिहि योजनाशतम्।

स्वलंकृतं शोभति चित्ररवतो

छादन्ते बुद्धस्य समन्त कायम्॥३४॥



ते बोधिसत्त्वा तथा सत्करित्वा

कथं करोन्ती इति तुष्ट तत्र।

सुलब्ध लाभाः खलु तेहि सत्त्वैः

येही श्रुतं नाम नरोत्तमस्य॥३५॥



अस्मेहि पी लाभ सुलब्धपूर्वा

यदा गतास्य इम बुद्धक्षेत्रम्।

पश्याथ स्वप्नोपम मैत्र कीदृशं

यत्कल्पितं कल्पसहस्र शास्तुः॥३६॥



पश्याथ बुद्धा वर पुण्यराशिः

परिवृतो शोभति बोधिसत्त्वैः।

अमिताभस्य आभा अमिता च तेजा

अमितं च आयूरमितश्च संघः॥३७॥



स्मितं करोती अमितायुनाथं

षट्त्रिंशकोटीनयुतान अर्चिषाम्।

ये निश्चरित्वा मुखमण्डलातः

स्फूरन्ति क्षेत्राणि सहस्रकोटीः॥३८॥



ताः सर्वसूरीः पुनरेत्य तत्र

मूर्धे च अस्तं गमि नायकस्य।

देवा मनुष्या जनयन्ति प्रीतिं

अर्चिस्तदा अस्यमिदां विदित्वा॥३९॥



उत्तिष्ठते बुद्धसुतो महायशा

नाथ सो हि अवलोकितेश्वरः।

को हेतुरत्र भगवं कः प्रत्ययो

येन स्मितं कुर्वसि लोकनाथ॥४०॥



तं व्याकरोही यत्र सोऽर्थकोविदो

हितानुकम्पी बहुसत्त्वमोचकः।

श्रुत्वेति वाचं परमां मनोरमां

उदग्रचित्ता भविष्यन्ति सत्त्वाः॥४१॥



ये बोधिसत्त्वा बहुलोकधातुतः

सुखावतीं प्रस्थित बुद्ध पश्यतां।

ते श्रुत्वा प्रीतिं विपुलां जनेत्वा

क्षिप्रमिमं क्षेत्र विलोकयेयुः॥४२॥



आगत्य च क्षेत्रमिदं उदारं

ऋद्धीबलं प्रापुणि क्षिप्रमेव।

दिव्यं च चक्षुस्तथ श्रोत्र दिव्यं

जातिस्मराः पारमिकोविदाश्च॥४३॥



अमितायु बुद्धस्तद व्याकरोति

मम ह्ययं प्रणिधि बभूव पूर्वम्।

कथं पि सत्त्वा श्रुणियानि नाम

व्रजेयु क्षेत्रं मम नित्यमेव॥४४॥



स मे अयं प्रणिधि प्रपूर्ण शोभना

सत्त्वाश्च एभि बहुलोकधातुतः।

आगत्य क्षिप्रं मम अन्तिकस्मिं

अवैवर्तिका भोन्तिह एकजातिया॥४५॥



तस्माद्य इच्छतिह बोधिसत्त्वः

ममापि क्षेत्रं सिय एवरूपम्।

अहं पि सत्त्वान् बहु मोचयेयं

नामेन घोषेण थ दर्शनेन॥४६॥



स शीघ्रशीघ्रं त्वरमाणरूपः

सुखावतीं गच्छतु लोकधातुम्।

गत्त्वा च पूर्वममितप्रभस्य

पूजेतु बुद्धान सहस्रकोटीः॥४७॥



बुद्धान कोटी बहु पूजयित्वा

ऋद्धीबलेन बहु क्षेत्र गत्त्वा।

कृत्वान पूजां सुगतान सन्तिके

भक्त्या गमिष्यन्ति सुखावतीतः॥ ४८॥ इति॥ ३१॥



तस्य खलु पुनरानन्द अमितायुषस्तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिवृक्षः। स दश योजनशतान्युच्चैस्त्वेन, अष्टौ योजनशतान्यभिप्रलम्बितशाखापत्रपलाशः पञ्चयोजनशतमूलारोहपरिणाहः सदापत्रः सदापुष्पः सदाफलो नानावर्णोऽनेकशतसहस्रवर्णो नानापत्रो नानापुष्पो नानाफलो नानाविचित्रभूषणसमलंकृतश्चन्द्रभासमणिरत्नपरिस्फुटः शक्राभिलग्नमणिरत्नविचित्रितश्चिन्तामणिरत्नाकीर्णः सागरवरमणिरत्नसुविचित्रितो दिव्यसमतिक्रान्तः स्वर्णसूत्राभिप्रलम्बितो रुचकहाररत्नहारवत्सहारकटकहारलोहितमुक्ताहारनीलमुक्ताहारसिंहलतामेखलाकलापरत्नसूत्रसर्वरत्नवस्तुशताभिविचित्रितः स्वर्णजालमुक्ताजालसर्वरत्नजालकिङ्किणीजालततो मकरस्वस्तिकनन्द्यावर्तचन्द्रसमलंकृतः किङ्किणीमणिजालसौवर्णसर्वरत्नालंकारविभूषितो यथाशयसत्त्वविज्ञप्तिसमलंकृतश्च। तस्य खलु पुनरानन्द बोधिवृक्षस्य वातसमीरितस्य यः शब्दो घोषो निश्चरति सोऽपरिमाणाँल्लोकधातून् विज्ञापयति। तत्रानन्द येषां सत्त्वानां स बोधिवृक्षः श्रोत्रावभासमागच्छति, तेषां श्रोत्ररोगो न प्रतिकाङ्क्षितव्यो यावद्बोधिपर्यन्तम्। येषामप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यापरिमाणानभिलाप्यानां सत्त्वानां स बोधिवृक्षश्चक्षुष आभासमागच्छति, तेषां चक्षूरोगो न प्रतिकाङ्क्षितव्यो यावद्बोधिपर्यन्तम्। ये खलु पुनरानन्द सत्त्वास्ततो बोधिवृक्षाद्गन्धं जिघ्रन्ति, तेषां यावद्बोधिपर्यन्तं न जातु घ्राणरोगः प्रतिकाङ्क्षितव्यः। ये सत्त्वास्ततो बोधिवृक्षत्फलान्यास्वादयन्ति, तेषां यावद्बोधिपर्यन्तं न जातु जिह्वारोगः प्रतिकाङ्क्षितव्यः। ये सत्त्वास्तस्य बोधिवृक्षस्याभया स्फुटा भवन्ति, तेषां यावद्बोधिपर्यन्तं न जातु कायरोगः प्रतिकाङ्क्षितव्यः। ये च खलु पुनरानन्द सत्त्वास्तं बोधिवृक्षं धर्मतो निध्यायन्ति, तेषां तत उपादाय यावद्बोधिपर्यन्तं न जातु चित्तविक्षेपः प्रतिकाङ्क्षितव्यः। सर्वे च ते सत्त्वाः सहदर्शनात्तस्य बोधिवृक्षस्यावैवर्तिकाः संतिष्ठन्ते यदुतानुत्तरायाः सम्यक्संबोधेः। तिस्रश्च क्षान्तीः प्रतिलभन्ते यदिदं घोषानुगामनुलोमिकीमनुत्पत्तिकधर्मक्षान्तिं च तस्यैवामितायुषस्तथागतस्य पूर्वप्रणिधानाधिष्ठानेन पूर्वजिनकृताधिकारतया पूर्वप्रणिधानपरिचर्यया च सुसमाप्यया सुभावितयानूनाविकलतया॥३२॥



तत्रैव खलु पुनरानन्द ये बोधिसत्त्वाः प्रत्याजाताः प्रत्याजायन्ते प्रत्याजनिष्यन्ते वा, सर्वे ते एकजातिप्रतिबद्धास्तत एवानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते स्थापयित्वा प्रणिधानवशं ये ते बोधिसत्त्वा महासिंहनादनादिन उदारसंनाहसंनद्धाः सर्वसत्त्वपरिनिर्वाणाभियुक्ताश्च॥३३॥



तस्मिन खलु पुनरानन्द बुद्धक्षेत्रे ये श्रावकान्ते व्यामप्रभाः, ते बोधिसत्त्वास्ते योजनकोटीशतसहस्रप्रभाः, स्थापयित्वा द्वौ बोधिसत्त्वौ ययोः प्रभया सा लोकधातुः सततसमितं नित्यावभासस्फुटा। अथ खल्वायुष्मानानन्दो भगवन्तमेतदवोचत्-किंनामधेयौ भगवंस्तौ बोधिसत्त्वौ महासत्त्वौ? भगवानाह-एकस्तयोरानन्द अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः द्वितीयो महास्थामप्राप्तो नाम। इत एव चानन्द बुद्धक्षेत्राच्च्युता तौ तत्रोपपन्नौ॥३४॥



तत्र चानन्द बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाताः, सर्वे ते द्वात्रिंशन्महापुरुषलक्षणसमन्वागताः परिपूर्णगात्रा ध्यानाभिज्ञाकोविदाः प्रज्ञाप्रभेदकुशलास्तीक्ष्णेन्द्रियाः सुसंवृतेन्द्रिया आज्ञातावीन्द्रिया अदीनाबलेन्द्रियाः प्रतिलम्भक्षान्तिका अनन्तापर्यन्तगुणाः॥३५॥



तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे ये बोधिसत्त्वा प्रत्याजाताः, सर्वे तेऽविरहिता बुद्धदर्शनेनाविनिपातधर्माणो यावद्बोधिपर्यन्तम्। सर्वे ते तत उपादाय न जातु जातिस्मरा भविष्यन्ति स्थापयित्वा तथारूपेषु कल्पसंक्षोभेषु ये पूर्वस्थानप्रणिहिताः पञ्चसु कषायेषु वर्तमानेषु यदा बुद्धानां भगवतां लोके प्रादुर्भावो भवति तद्यथापि नाम ममैतर्हि॥३६॥



तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाताः, सर्वे ते एकपुरोभक्तेनान्याँल्लोकधातून् गत्वा अनेकानि बुद्धकोटीनियुतशतसहस्राण्युपतिष्ठन्ति यावदाकाङ्क्षन्ति बुद्धानुभावेन। ते यथा यथा चित्तमुत्पादयन्ति एवमेवंरूपैः पुष्पधूपदीपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीतूर्यसंगीतिवाद्यैः पूजां कुर्याम इति, तेषां सहचित्तोत्पादात्तथारूपाणि च सर्वपूजाविधानानि पाणौ प्रादुर्भवन्ति। ते तैः पुष्पैर्यावद्वाद्यैस्तेषु बुद्धेषु भगवत्सु पूजां कुर्वन्तो बह्वपरिमाणासंख्येयं कुशलमुपचिन्वन्ति। सचेत्पुनराकाङ्क्षन्ति एवंरूपाः पुष्पपुटाः पाणौ प्रादुर्भवन्त्विति, तेषां सहचित्तोत्पादान्नानावर्णा अनेकवर्णा नानागन्धा दिव्याः पुष्पपुटाः पाणौ प्रादुर्भवन्ति। ते तैस्तथारूपैः पुष्पपुटैस्तान् बुद्धान् भगवतोऽवकिरन्ति अभ्यवकिरन्ति अभिप्रकिरन्ति। तेषां च यः सर्वपरीतः पुष्पपुट उत्सृष्टः स दशयोजनविस्तरं पुष्पच्छत्रं प्रादुर्भवति उपर्यन्तरीक्षे। द्वितीये चानुत्सृष्टे न प्रथमो धरण्यां प्रपतति। सन्ति तत्र पुष्पपुटा य उत्सृष्टाः सन्तो विंशतियोजनविस्ताराणि पुष्पच्छत्राण्युपर्यन्तरीक्षे प्रादुर्भवन्ति। सन्ति त्रिंशच्चत्वारिंशत्पञ्चाशद्योजनविस्ताराणि, सन्ति यावद्योजनशतसहस्रविस्ताराणि पुष्पच्छत्राण्युपर्यन्तरीक्षे प्रादुर्भवन्ति।

तत्र ये उदारं प्रीतिप्रामोद्यं संजनयन्ति, उदारं च चित्तौद्विल्यं प्रतिलभन्ते, ते बह्वपरिमितमसंख्येयं कुशलमूलमवरोप्य बहूनि च बुद्धकोटीनियुतशतसहस्राण्युपस्थाय एकपूर्वाह्णेन पुनरपि सुखावत्यां लोकधातौ प्रतिष्ठन्ते तस्यैवामितायुषस्तथागतस्य पूर्वप्रणिधानाधिष्ठानपरिग्रहेण पूर्वदत्तधर्मश्रवणेन पूर्वजिनावरोपितकुशलमूलतया पूर्वप्रणिधानसमृद्धिपरिपूर्यात्मभूतया सुविभक्तभावितया॥३७॥



तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाताः, सर्वे ते सर्वज्ञतासहगतामेव धर्मकथां कथयन्ति। न च तत्र बुद्धक्षेत्रे सत्त्वानां काचित्परिग्रहसंज्ञास्ति। ते सर्वे च तद्बुद्धक्षेत्रमनुचंक्रममाणा अनुविचरन्तो न रतिं नारतिमुत्पादयन्ति। प्रक्रामन्तश्चानपेक्षाः, न च प्रक्रामन्ति सापेक्षाः। सर्वसत्त्वेषामेव चित्तं नास्ति। तत्र खलु पुनरानन्द सुखावत्यां लोकधातौ ये सत्त्वाः प्रत्याजाताः, नास्ति तेषामन्यतमकसंज्ञा, नास्ति स्वकसंज्ञा, नास्त्यसमसंज्ञा, नास्ति विग्रहः, नास्ति विवादः, नास्ति विरोधः। समचित्ता मैत्रचित्ता मृदुचित्ताः स्निग्धचित्ताः कर्मण्यचित्ताः प्रसन्नचित्ताः स्थिरचित्ता विनीवरणचित्ता अक्षुभितचित्ता अलुलितचित्ताः प्रज्ञापारमिताचर्याचरणचित्ताश्चित्ताधारबुद्धिप्रविष्टाः। सागरसमाः प्रज्ञया, मेरुसमा बुद्ध्या, अनेकगुणसंनिचयाः, बोध्यङ्गसंगीत्या विक्रीडिताः, बुद्धसंगीत्यभियुक्ता मांसचक्षुः प्रविचिन्वन्ति, दिव्यं चक्षुरभिनिर्हरन्ति, प्रज्ञाचक्षुर्गतिंगता धर्मचक्षुःपारगता बुद्धचक्षुर्निष्पादयन्तो दर्शयन्तो द्योतयन्तो विस्तरेण प्रकाशयन्तोऽसङ्गज्ञानमभिनिर्हरन्ति। त्रैधातुकसमतायामभियुक्ता दान्तचित्ताः शान्तचित्ताः सर्वधर्मधातूपलब्धिसमन्वागताः समुदयनिरुक्तिकुशला धर्मनिरुक्तिसमन्वागता हाराहारकुशला नयानयकुशलाः स्थानकुशला लौकिकीषु कथास्वनपेक्षा विहरन्ति। लोकोत्तराभिः कथाभिः सारं प्रत्ययन्ति। सर्वधर्मपर्येष्टिकुशलाः सर्वधर्मप्रकृतिव्युपशमज्ञानविहारिणोऽनुपलम्भगोचरा निष्किंचना निरुपादाना निश्चिन्ता निरुपधयोऽनुपादाय सुविमुक्ता अनङ्गणा अपर्यस्थायिनोऽभिज्ञासु अमूलस्थायिनोऽसङ्गाचारिका अनवलीना गम्भीरेषु धर्मेष्वभियुक्ता न संसीदन्ति दूरनुबोधबुद्धज्ञानप्रवेशोद्गता एकायनमार्गानुप्राप्ता निर्विचिकित्सास्तीर्णकथंकथा अपरप्रत्ययज्ञाना अनधिमानिनः। सुमेरुसमा ज्ञानाभ्युद्गताः। सागरसमा बुद्ध्यक्षोभ्याः। चन्द्रसूर्यप्रभातिक्रान्ताः प्रज्ञाभया पाण्डरसुशुक्लशुद्धशुभचित्ततया च। उत्तप्तहेमवर्णसदृशा अवभासनिर्भासतया च। वसुंधरासदृशाः सर्वसत्त्वशुभाशुभक्षमणतया। अप्सदृशाः सर्वक्लेशमूलनिर्धावनप्रवाहणतया च। अग्निराजसदृशाः सर्वधर्ममन्यनाक्लेशनिर्दहनतया। वायुसदृशाः सर्वलोकासञ्जनतया। आकाशसदृशाः सर्वधर्मनैर्वेधिकतया सर्वशो निष्किंचनतया च। पद्मसदृशाः सर्वलोकानुपलिप्ततया। कालानुसारिमहामेघसदृशा धर्माभिगर्जनतया। महावृष्टिसदृशा धर्मसलिलाभिप्रवर्षणतया। ऋषभसदृशा महागणाभिभवनतया। महानागसदृशाः परमसुदान्तचित्ततया। भद्राश्वाजानेयसदृशाः सुविनीततया। सिंहमृगराजसदृशा विक्रमवैशारद्यासंत्रस्ततया। न्यग्रोधद्रुमराजसदृशाः सर्वसत्त्वपरित्राणतया। पर्वतराजसदृशाः सर्वपरप्रवाद्यकम्पनतया। गगनसदृशा अपरिमाणमैत्रीप्रभावनतया। महाब्रह्मसमाः सर्वकुशलमूलधर्माधिपत्यपूर्वंगमतया। पक्षिसदृशा असंनिचयस्थानतया। गरुडद्विजराजसदृशाः सर्वपरप्रवादिविध्वंसनतया। उदुम्बरपुष्पसदृशा दुर्लभाप्रत्यर्थितया। नागवत्सुसमाहिता अविक्षिप्ताजिह्मेन्द्रियतया। विनिश्चयकुशलाः क्षान्तिसौरभ्यबहुलाः। अनीर्षुकाः परसंपत्त्यप्रार्थनतया। विशारदा धर्मकथा स्वतृप्ता धर्मपर्येष्टया। वैडूर्यसदृशाः शीलेन। रत्नाकराः श्रुतेन। मञ्जुस्वरा महाधर्मदुन्दुभिनिर्घोषेण। महाधर्मभेरीं पराघ्नन्तो महाधर्मशङ्खमापूरयन्तो महाधर्मध्वजमुच्छ्रापयन्तो धर्मोल्कां प्रज्वालयन्तः प्रज्ञाविलोकिनोऽसंमूढा निर्दोषाः शान्तखिलाः शुद्धा निरामगन्धा अलुब्धाः संविभागरता मुक्तत्यागाः प्रसृतपाणयो दानसंविभागरता धर्मामिषाभ्यां दानेऽमत्सरिणोऽसंसृष्टा उर्त्रस्तमानसा विरक्ता धीरा धौरेया धृतिमन्तो ह्रीमन्तः सुव्यूढसत्त्वा निर्गाढाः प्राप्ताभिज्ञाः सुरताः सुखसंवासा अर्थकरा लोकप्रद्योता नापदागन्तुं धीरा रागं तमः प्रनेकस्वष्ठः(?) शोकापगता निर्मला निमेषप्रहीणा विक्रीडिताभिज्ञा हेतुबलिकाः प्रणिधानबलिका अजिह्मा अकुटिला एते लक्षकोटीनियुतशतसहस्रावरोपितकुशलमूला उत्पाटितमानशल्या अपगतरागद्वेषमोहाः शुद्धाः शुद्धाधिमुक्ता जिनबलप्रशस्ता लोकपण्डिता उत्तप्तज्ञानसमुदागता जिनसुताश्चित्तौद्बिल्यसमन्वागताः शूरा दृढा अममा अखिला अतुला अरजस्काः सहिता उदारा ऋषभा ह्रीमन्तो धृतिमन्तः स्मृतिमन्तो मतिमन्तो गतिमन्तः प्रज्ञाशस्त्रप्रहरणा पुण्यवन्तो द्युतिमन्तो व्यपगतखिला मलप्रहीणाः स्मृतियुक्ताः शान्तज्ञानालम्भाः। ईदृशा आनन्द तस्मिन् बुद्धक्षेत्रे सत्त्वाः संक्षिप्तेन च। विस्तरेण पुनः सचेत्कल्पकोटीनियुतशतसहस्रस्थितिकेनाप्यायुष्प्रमाणेन तथागता निर्दिश्येरन्, नैव शक्यं तेषां सत्पुरुषाणां गुणपर्यन्तमधिगन्तुम्, न च तथागतस्य वैशारद्योपच्छेदो भवेत्। तत्कस्य हेतोः? उभयमप्येव आनन्द अचिन्त्यमतुल्यं यदिदं तेषां बोधिसत्त्वानां गुणास्तथागतस्य चानुत्तरप्रज्ञाप्रतिभानम्॥३८॥



अपि चानन्द उत्तिष्ठ, पश्चान्मुखीभूत्वा पुष्पावकीर्णाञ्जलीं प्रगृह्य प्रणिपत। एषा सा दिग् यत्र स भगवानमिताभस्तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति, धर्मं च देशयति विरजो विशुद्धं यस्य तन्नामधेयमनावरणे दशदिशि लोके विघुष्टम् एकैकस्यां दिशि गङ्गानदीवालुकासमा बुद्धा भगवन्तो वर्णयन्ति स्तुवन्ति प्रशंसन्त्यसकृदसकृदसङ्गवाचाप्रतिवाक्याः। एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत्-इच्छाम्यहं भगवंस्तममिताभममितप्रभममितायुषं तथागतमर्हन्तं सम्यक्संबुद्धं द्रष्टुम्, तांश्च बोधिसत्त्वान् महासत्त्वान् बहुबुद्धकोटीनियुतशतसहस्रावरोपितकुशलमूलान्। समनन्तरभाषिता आयुष्मतानन्देनेयं वाक्, अथ तावदेव सोऽमिताभस्तथागतोऽर्हन् सम्यक्संबुद्धः स्वपाणितलात्तथारूपं रश्मिं प्रामुञ्चद्यदिदं कोटीनियुतशतसहस्रतमं बुद्धक्षेत्रं महतावभासेन स्फुटमभूत्। तेन खलु पुनः समयेन सर्वत्र कोटीशतसहस्रबुद्धक्षेत्राणां ये केचित्कालपर्वता वा रत्नपर्वता वा मेरुमहामेरुमुचिलिन्दमहामुचिलिन्दचक्रवालमहाचक्रवाला वा चितयो वा स्तम्भा वा वृक्षगहनोद्यानविमानानि दिव्यमनुष्यकाणि, तानि सर्वाणि तस्य तथागतस्य तया प्रभयाभिनिर्भिन्नान्यभूवन् समभिभूतानि। तद्यथापि नाम पुरुषो व्याममात्रकेऽन्वितो द्वितीयं पुरुषं प्रत्यवेक्षेदादित्येऽभ्युद्गते, एवमेवास्मिन् बुद्धक्षेत्रे भिक्षुभिक्षुण्युपासकोपासिकादेवनागयक्षराक्षसगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याश्च तस्यां वेलायामद्राक्षुस्तममिताभं तथागतमर्हन्तं सम्यक्संबुद्धं सुमेरुमिव पर्वतराजं सर्वक्षेत्राभ्युद्गतं सर्वा दिशोऽभिभूय भासमानं तपन्तं विरोचमानं विभ्राजमानम्, तं च महान्तं बोधिसत्त्वगणं तं च भिक्षुसंघं यदिदं बुद्धानुभावेन तस्याः प्रभायाः परिशुद्धत्वात्। तद्यथेयं महापृथिवी एकोदकजाता भवेत्, तत्र न वृक्षा न पर्वता न द्वीपा न तृणगुल्मौषधिवनस्पतयो न नदीश्वभ्रप्रपाताः प्रज्ञापयेरन्, अन्यत्रैकार्णवीभूता महापृथिव्येका स्यात्, एवमेव तस्मिन् बुद्धक्षेत्रे नास्त्यन्यत्किंचिल्लिङ्गं वा निमित्तं वा अन्यत्रैव व्यामप्रभाः श्रावकास्ते च योजनकोटीशतसहस्रप्रभा बोधिसत्त्वाः। स च भगवानमिताभस्तथागतोऽर्हन् सम्यक्संबुद्धस्तं च श्रावकगणं तं च बोधिसत्त्वगणमभिभूय सर्वा दिशः प्रभासयन् संदृश्यते। तेन खल्वपि समयेन तस्यां सुखावत्यां लोकधातौ बोधिसत्त्वाः श्रावकदेवमनुष्याश्च सर्वे ते इमाः सहालोकधातुं शाक्यमुनिं च तथागतमर्हन्तं सम्यक्संबुद्धमर्हता भिक्षुसंघेन परिवृतं पश्यन्ति स्म धर्मं देशयन्तम्॥३९॥



तत्र खलु भगवानजितं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म-पश्यसि त्वमजित अमुष्मिन बुद्धक्षेत्रे गुणालंकारव्यूहसंपदम्? उपरिष्टाच्चान्तरीक्षे आरामरमणीयान्युद्यानरमणीयानि नदीपुष्करिणीरमणीयानि नानारत्नपद्मोत्पलकुमुदपुण्डरीकाकीर्णानि? अधस्ताच्च धरणीतलमुपादाय यावदकनिष्ठभवनाद्गगनतलं पुष्पाभिकीर्णं पुष्पावलिसमुपशोभितं नानारत्नस्तम्बपङ्क्तिपरिस्फुटं तथागताभिनिर्मितनानाद्विजसंघनिषेवितम्? अजितो बोधिसत्त्व आह-पश्यामि भगवन्। भगवानाह- पश्यसि पुनस्त्वमजित एतानमरान् द्विजसंघान् सर्वबुद्धक्षेत्रं बुद्धस्वरेणाभिविज्ञापयन्तं येनैते बोधिसत्त्वा नित्यमविरहिता बुद्धानुस्मृत्या? अजित आह- पश्यामि भगवन्। भगवानाह- पश्यसि पुनस्त्वमजित अत्र बुद्धक्षेत्रेऽमून् सत्त्वान् योजनशतसहस्रिकेषु विमानेष्वभिरूढानन्तरीक्षे ससत्कारान् क्रामन्तः? अजित आह- पश्यामि भगवन्। भगवानाह- तत्किं मन्यसे अजित अस्ति किंचिन्नानात्वं देवानां परनिर्मितवशवर्तिनां सुखावत्यां लोकधातौ मनुष्याणां वा? अजित आह- एकमप्यहं भगवन् नानात्वं न समनुपश्यामि यावन्महर्द्धिका अत्र सुखावत्यां लोकधातौ मनुष्याः। भगवानाह-पश्यसि पुनस्त्वमजित तत्र सुखावत्यां लोकधातावेतेषां मनुष्याणामुदारेषु पद्मेषु गर्भावासम्? आह-तद्यथापि नाम देवास्त्रायस्त्रिंशा देवा यामा वा पञ्चाशद्योजनिकेषु वा योजनशतिकेषु वा पञ्चयोजनशतिकेषु वा विमानेषु प्रविष्टाः क्रीडन्ति रमन्ति परिचारयन्ति, एवमेवाहं भगवन् अत्र सुखावत्यां लोकधातावेतेषां मनुष्याणामुदारेषु पद्मेषु गर्भावासं पश्यामि॥४०॥



सन्ति खलु पुनरत्र भगवन् सत्त्वा य औपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति। तत्कोऽत्र भगवन् हेतुः कः प्रत्ययो यदन्ये गर्भावासं प्रतिवसन्ति, अन्ये पुनरौपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति? भगवानाह-ये ते अजित बोधिसत्त्वा अन्येषु बुद्धक्षेत्रेषु स्थिताः सुखावत्यां लोकधातावुपपत्तये विचिकित्सामुत्पादयन्ति, तेन चित्तेन कुशलमूलान्यवरोपयन्ति, तेषामत्र गर्भावासो भवति। ये पुनर्निर्विचिकित्सामुत्पाद्य च्छिन्नकाङ्क्षाः सुखावत्यां लोकधातावुपपत्तये कुशलमूलान्यवरोपयन्ति, बुद्धानां भगवतामसङ्गज्ञानमेवाकल्पयन्ति अभिश्रद्दधति अधिमुच्यन्ते, ते औपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति। ये ते अजित बोधिसत्त्वा महासत्त्वा अन्यत्र बुद्धक्षेत्रेषु स्थिताश्चित्तमुत्पादयन्ति अमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय, न विचिकित्सामुत्पादयन्ति, न काङ्क्षन्ति असङ्गं बुद्धज्ञानम्, स्वकुशलमूलं चाभिश्रद्दधति, तेषामौपपादुकानां पर्यङ्कैः प्रादुर्भूतानां मुहूर्तमात्रेण एवंरूपः कायो भवति तद्यथान्येषां चिरोपपन्नानां सत्त्वानाम्। पश्य अजित प्रज्ञाविशेषं प्रज्ञावैमात्र्यं प्रज्ञापरिहाणिं प्रज्ञापरीत्तताम्-यत्तु हिताय पञ्चवर्षशतानि परिहीणा भवन्ति बुद्धदर्शनाद्बोधिसत्त्वदर्शनाद्धर्मश्रवणाद्धर्मसंकथनात्। कुशलमूलचर्यायाः परिहीणा भवन्ति सर्वकुशलमूलसंपत्तिभिः यदिदं विचिकित्सापतितैः संज्ञामनसिकारैः। तद्यथापि नाम अजित राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य बन्धनागारं भवेत्सर्वसौवर्णवैडूर्यप्रत्युप्तमवसक्तपट्टमाल्यदामकलापं नानारङ्गविभववितानं दूष्यपट्टसंछन्नं नानापुष्पकुसुमाभिकीर्णमुदारधूपनिर्धूपितं प्रासादहर्म्यनिर्यूहगवाक्षवेदिकातोरणविचित्रं सप्तरत्नं किङ्किणीजालसंछन्नं चतुरस्रं चतुःस्थूणं चतुर्द्वारं चतुःसोपानम्। तत्र तस्य स राज्ञः पुत्रः केनचिदेव कृत्येन प्रक्षिप्य जाम्बूनदसुवर्णमयैर्निगडैर्बद्धो भवति। तस्य च तत्र पर्यङ्कः प्रज्ञप्तः स्यादनेकगोणिकास्तीर्णस्तूलिकापर्णकास्तीर्णः कालिङ्गप्रावरणप्रत्यास्तरणसोत्तरपदच्छद उभयान्तलोहितोपधानश्चित्रो दर्शनीयः। स तत्र तदाभिषण्णो वा अभिसंपन्नो वा भवेत्। बहु चास्यानेकविधं शुचि विनीतं पानभोजनं तत्रोपनाम्येत। तत्किं मन्यसे अजित उदारस्तस्य राजपुत्रस्य स परिभोगो भवेत्? अजित आह-उदारो भगवन्। भगवानाह- तत्किं मन्यसे अजित अपि त्वास्वादयेत्तत्र निशामयेच्च, तेन वा तुष्टिं विद्यात्? आह-नो हीदं भगवन्। अपि तु खलु पुनर्यद्यपनीत्य राज्ञा तत्र बन्धनागारे प्रक्षिप्तो भवेत्, स ततो मोक्षमेवाकाङ्क्षेत्। अभिजातान् कुमारानमात्यान् स्त्र्यागारान् श्रेष्ठिनो गृहपतीन् कोट्टराजांश्च पर्येषयेत्, य एनं ततो बन्धनागारात्परिमोचयेयुः। किंचापि भगवंस्तस्य राजकुमारस्य तत्र बन्धानागारे नाभिरतिः, नात्र परिमुच्यते, यावन्न राजा प्रसादमुपदर्शयति। भगवानाह-एवमेव अजित ये ते बोधिसत्त्वा विचिकित्सापतिताः कुशलमूलान्यवरोपयन्ति, काङ्क्षति बुद्धज्ञानम्, किंचापि तेन बुद्धनामश्रवणेन तेन च चित्तप्रसादमात्रेण अत्र सुखावत्यां लोकधातावुपपद्यन्ते, न तु खल्वौपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति, अपि तु पद्मेषु गर्भावासं प्रतिवसन्ति। किंचापि तेषां तत्रोद्यानविमानसंज्ञाः संतिष्ठन्ते, नास्त्युच्चारप्रस्रावम्, नास्ति खेटसिंहाणकम्, न प्रतिकूलं मनसः प्रवर्तते, अपि तु खलु पुनः पञ्च वर्षशतानि विरहिता भवन्ति बुद्धदर्शनेन धर्मश्रवणेन बोधिसत्त्वदर्शनेन धर्मसांकथ्यविनिश्चयेन सर्वकुशलमूलेन धर्मचर्याभिश्च। किंचापि ते तत्र नाभिरमन्ते न तुष्टिं विजानन्ति, अपि तु खलु पुनः पूर्वापरान् क्षपयित्सते भूयस्ततः पश्चान्निस्क्रामन्ति। न चैषां ततो निष्क्रामतां निष्क्रमः प्रज्ञायते ऊर्ध्वमधस्तिर्यग्वा। पश्य अजित एतर्हि नाम पञ्चभिर्वर्षशतैर्बहूनि बुद्धकोटीनियुतशतसहस्रोपस्थानानि स्युर्बह्वपरिमाणासंख्येयाप्रमेयाणि च कुशलमूलान्यवरोपयितव्यानि। तत्सर्वं विचिकित्सादोषेण विनाशयन्ति। पश्य अजित कियन्महतेऽनर्थाय बोधिसत्त्वानां विचिकित्सा संवर्तत इति। तस्मात्तर्हि अजित बोधिसत्त्वैर्निर्विचिकित्सैर्बोधये चित्तमुत्पाद्य क्षिप्रं सर्वसत्त्वहितसुखाधानाय सामर्थ्यप्रतिलम्भार्थं सुखावत्यां लोकधातावुपपत्तये कुशलमूलानि परिणामयितव्यानि, यत्र भगवानमिताभस्तथागतोऽर्हन् सम्यक्संबुद्धः॥४१॥



एवमुक्ते अजितो बोधिसत्त्वो भगवन्तमेतदवोचत्-किं पुनर्भगवन् बोधिसत्त्वा इतो बुद्धक्षेत्रात्परिनिष्पन्ना अन्येषां वा बुद्धानां भगवतामन्तिकात्सुखावत्यां लोकधातावुपपत्स्यन्ते? भगवानाह-इतो ह्यजित बुद्धक्षेत्राद् द्वासप्ततिकोटीनियुतानि बोधिसत्त्वानां परिनिष्पन्नानि यानि सुखावत्यां लोकधातावुपपत्स्यन्ते परिनिष्पन्नानामवैवर्तिकानां बहुबुद्धकोटीनियुतशतसहस्राण्यवरोपितैः कुशलमूलैः, कः पुनर्वादस्ततः परीत्ततरैः कुशलमूलैः दुष्प्रसहस्य तथागतस्यान्तिकादष्टादशकोटीनियुतशतानि बोधिसत्त्वानां सुखावत्यां लोकधातावुपपत्स्यन्ते। पूर्वान्तरे दिग्भागे रत्नाकरो नाम तथागतो विहरति। तस्यान्तिकान्नवतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते। ज्योतिष्प्रभस्य तथागतस्यान्तिकाद्द्वाविंशतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते। अमितप्रभस्य तथागतस्यान्तिकात्पञ्चविंशतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते। लोकप्रदीपस्य तथागतस्यान्तिकात्षष्टिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते। नागाभिभुवस्तथागतस्यान्तिकाच्चतुःषष्टिर्बोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते। विरजःप्रभस्य तथागतस्यान्तिकात्पञ्चविंशतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते। सिंहस्य तथागतस्यान्तिकात्षोडशबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते। सिंहस्य तथागतस्यान्तिकादष्टादशबोधिसत्त्वसहस्रानि सुखावत्यां लोकधातावुपपतस्यन्ते। श्रीकूटस्य तथागतस्यान्तिकादेकाशीतिबोधिसत्त्वकोटीनियुतानि सुखावत्यां लोकधातावुपपत्स्यन्ते। नरेन्द्रराजस्य तथागतस्यान्तिकाद्दशबोधिसत्त्वकोटीनियुतानि सुखावत्यां लोकधातावुपपत्स्यन्ते। बलाभिज्ञस्य तथागतस्यान्तिकाद्द्वादशबोधिसत्त्वसहस्राणि सुखावत्यां लोकधातावुपपत्स्यन्ते। पुष्पध्वजस्य तथागतस्यान्तिकात्पञ्चविंशतिर्वीर्यप्राप्ता बोधिसत्त्वकोट्य एकप्रस्थानप्रस्थिता एकेनाष्टाहेन नवतिकल्पकोटीनियुतशतसहस्राणि पश्चान्मुखीकृत्य सुखावत्यां लोकधातावुपपत्स्यन्ते। ज्वलनाधिपतेस्तथागतस्यान्तिकाद्द्वादशबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते। वैशारद्यप्राप्तस्य तथागतस्यान्तिकादेकोनसप्ततिबोधिसत्त्वकोट्यः सुखावत्यां लोकधातावुपपत्स्यन्ते अमिताभस्य तथागतस्य दर्शनाय वन्दनाय पर्युपासनाय परिपृच्छनाय परिप्रश्नीकरणाय। एतेन अजित पर्यायेण परिपूर्णकल्पकोटीनियुतं नामधेयानि परिकीर्तयेयं तेषां तथागतानां येभ्यस्ते बोधिसत्त्वा उपसंक्रामन्ति सुखावत्यां लोकधातौ तममिताभं तथागतं द्रष्टुं वन्दितु पर्युपासितुम्, न शक्यश्च पर्यन्तोऽधिगन्तुम्॥४२॥



पश्य अजित कियत्सुलब्धलाभास्ते सत्त्वा येऽमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं श्रोष्यन्ति। नापि ते सत्त्वा हीनाधिमुक्तिका भविष्यन्ति येऽन्तश‍एकचित्तप्रसादमपि तस्मिंस्तथागतेऽभिलप्यन्ते, अस्मिंश्च धर्मपर्याये। तस्मात्तर्हि अजित आरोचयामि वः, प्रतिवेदयामि सदेवकस्य लोकस्य पुरतोऽस्य धर्मपर्यायस्य श्रावणाय। त्रिसाहस्रमहासाहस्रमपि लोकधातुमग्निपूर्णमवगाह्य अतिक्रमैकचित्तोत्पादमपि प्रतिसारो न कर्तव्यः। तत्कस्य हेतोः? बोधिसत्त्वकोट्यो ह्यजित अश्रवणादेषामेवंरूपाणां धर्मपर्यायाणां विवर्तन्तेऽनुत्तरायाः सम्यक्संबोधेः। तस्मादस्य धर्मपर्यायस्याध्याशयेन श्रवणोद्ग्रहणधारणार्थं पर्यावाप्तये विस्तरेण संप्रकाशाय भावनार्थं च सुमहद्वीर्यमारब्धव्यम्। अन्तश एकरात्रिंदिनमपि, एकगोदोहमात्रमपि, अन्तशः पुस्तकावरोपितं कृत्वा सुलिखितो धारयितव्यः। शास्तृसंज्ञा च तत्रोपाध्याये कर्तव्या य इच्छति क्षिप्रमपरिमितान् सत्त्वानवैवर्तिकत्वेऽनुत्तरायाः सम्यक्संबोधेः प्रतिष्ठापयितुम्, तच्च तस्य भगवतोऽमिताभस्य तथागतस्य बुद्धक्षेत्रं द्रष्टुम्, आत्मनश्च विशिष्टां बुद्धक्षेत्रगुणालंकारव्यूहसंपदं परिग्रहीतुमिति। अपि तु खलु अजित अत्यर्थं सुलब्धलाभास्ते सत्त्वा अवरोपितकुशलमूलाः पूर्वजिनकृताधिकारा बुद्धाधिष्ठिताश्च भविष्यन्ति, येषामनागतेऽध्वनि यावत्सद्धर्मविप्रलोपे वर्तमाने इमे एवंरूपा उदारा धर्मपर्यायाः सर्वबुद्धसंवर्णिताः सर्वबुद्धप्रशस्ताः सर्वबुद्धानुज्ञाता महतः सर्वज्ञज्ञानस्य क्षिप्रमाहारकाः श्रोत्रावभासमागमिष्यन्ति। ये श्रुत्वा चोदारप्रीतिप्रामोद्यं प्रतिलप्स्यन्त उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति परेभ्यो विस्तरेण संप्रकाशयिष्यन्ति, भावनाभिरताश्च भविष्यन्ति, अन्तशो लिखित्वा पूजयिष्यन्ति, बहु च ते पुण्यं प्रसविष्यन्ति, यस्य न सुकरा संख्या कर्तुम्। इति हि अजित यत्तथागतेन कर्तव्यम्, कृतं मया। युष्माभिरिदानीं निर्विचिकित्सायोगः करणीयः। मा संशयत असङ्गमनावरणं बुद्धज्ञानम्। मा भूत्सर्वाकारावरोपितरत्नमये बन्धनागारे प्रवेशः। दुर्लभो हि अजित बुद्धोत्पादः। दुर्लभा धर्मदेशना। दुर्लभा क्षणसंपत्। आख्याता च अजित मया सर्वकुशलमूलपारमिताप्राप्तिः। यूयमिदानीमभियुज्यत प्रतिपद्यध्वम्। अस्य खलु पुनरजित धर्मपर्यायस्य महतीं परीन्दनां करोमि। अविप्रणाशाय बुद्धधर्माणामनन्तर्धानाय पराक्रमिष्यथ। मा तथागताज्ञां क्षोभयिष्यथ॥४३॥



अथ खलु पुनर्भगवांस्तस्यां वेलायामिमा गाथा अभाषत-



न मे अकृतपुण्यानां श्रवा भेष्यन्ति ईदृशाः।

ये तु ते शूर सिद्धार्थाः श्रोष्यन्ति च इमां गिरम्॥४९॥



दृष्टो यैश्च हि संबुद्धो लोकनाथः प्रभंकरः॥

सगौरवैः श्रुतो धर्मः प्रीतिं प्राप्स्यन्ति ते पराम्॥५०॥



न शक्त हीनेहि कुसीददृष्टिभिः

बुद्धान धर्मेषु प्रसाद विन्दितुम्।

ये बुद्धक्षेत्रेषु अकार्षि पूजां

त्रैलोकनाथान चर्यासु शिक्षिषु॥५१॥



यथान्धकारे पुरुषो ह्यचक्षुः

मार्गं न जाने कुतु संप्रकाशयेत्।

सर्वं तथा श्रावक बुद्धज्ञाने

अजानकाः किं पुनरद्य सत्त्वाः॥५२॥



बुद्धो हि बुद्धस्य गुणां प्रजानते

न देवनागासुरयक्षश्रावकाः।

अनेकबुद्धान पि नो गती यथो

बुद्धस्य ज्ञाने हि प्रकाश्यमाने॥५३॥



यदि सर्वसत्त्वाः समता भवेयुः

विशुद्धज्ञाने परमार्थकोविदाः।

ते कल्पकोटीरथ वापि उत्तरे

नैकस्य बुद्धस्य गुणान् कथेयुः॥५४॥



अत्रान्तरे निर्वृत ते भवेयुः

प्रकाशमाना बहुकल्पकोटीः।

न च बुद्धज्ञानस्य प्रमाणु लभ्यते

तथा हि ज्ञानाश्चर्यं जिनानाम्॥५५॥



तस्मान्नरः पण्डित विज्ञजातियः

यो मह्य वाक्यमभिश्रद्दधेय।

कृत्स्नां स साक्षाज्जिनज्ञानमार्गान्

बुद्धः प्रजानं ति गिरामुदीरयेत्॥५६॥



कदाचि लभ्यति मनुष्यलाभः

कदाचि बुद्धान पि प्रादुर्भावः।

श्रद्धार्थप्रज्ञा सुचिरेण लभ्यते

तस्यार्थप्राप्त्यै जनयेत् वीर्यम्॥५७॥



य ईदृशां धर्म श्रुणित्व श्रेष्ठां

लभ्यन्ति प्रीतिं सुगतं स्मरन्तः।

ते मित्रमस्माकमतीतमध्वनि

ये चापि बोधाय जनन्ति छन्दम्॥ ५८॥ इति॥ ४४॥



अस्मिन् खलु पुनर्धर्मपर्याये भाष्यमाणे द्वादशानां सत्त्वनियुतकोटीनां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम्। चतुर्विंशत्या कोटिनियुतशतफलं प्राप्तम्। अष्टानां भिक्षुशतानामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि। पञ्चविंशत्या बोधिसत्त्वकोटीभिरनुत्पत्तिकधर्मक्षान्तिः प्रतिलब्धा। देवमानुषिकायाश्च प्रजायाश्चत्वारिंशत्कोटीनियुतशतसहस्राणामनुत्पन्नपूर्वाण्यनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि। सुखावत्यां लोकधातावुपपत्तये च कुशलमूलान्यवरोपितानि भगवतोऽमिताभस्य तथागतस्य दर्शनकामतया। सर्वे च ते तत्रोपपद्य अनुपूर्वेण मञ्जुस्वरा नाम तथागता अन्येषु लोकधातुषूपपत्स्यन्ते। अशीतिश्च नियुतकोट्यो दीपंकरे तथागते लब्धक्षान्तिका अवैवर्तिका अनुत्तरायाः सम्यक्संबोधेरमितायुषैव तथागतेन परिपाचिताः पूर्वबोधिसत्त्वचर्यां चरन्तस्ताश्च सुखावत्यां लोकधातावुपपद्य पूर्वप्रणिधानचर्याः परिपूरयिष्यन्ति॥४५॥



तस्यां वेलायामयं त्रिसाहस्रमहासाहस्रलोकधातुः षद्विकारं प्राकम्पत्। विविधानि च प्रातिहार्याणि संदृश्यन्ते स्म। पृथिव्यां संस्कृतमभूत्। दिव्यमानुष्यकानि च तूर्याणि संप्रवादितान्यभूवन्। अनुमोदनाशब्देन च यावदकनिष्ठभुवनं विज्ञप्तमभूत्॥४६॥



इदमवोचद्भगवानात्तमनाः। अजितो बोधिसत्त्वो महासत्त्व आयुष्मांश्चानन्दः सा च सर्वावती पर्षत् सदेवमानुषासुरगरुडगन्धर्वस्य लोको भगवतो भाषितमभ्यनन्दन्निति॥४७॥



भगवतोऽमिताभस्य तथागतस्य सुखावतीगुणवर्णपरिकीर्तनं बोधिसत्त्वानामवैवर्त्यभूमिप्रवेशः अमिताभस्य परिवर्तः सुखावतीव्यूहो महायानसूत्रं समाप्तम्॥



ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत्।

तेषां च यो निरोध एवं वादी महाश्रमणः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project