Digital Sanskrit Buddhist Canon

सर्वतथागताधिष्ठानव्यूहम् सूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
सर्वतथागताधिष्ठानव्यूहम् सूत्रम्



एवं मया श्रुतमेकस्मिन् समये पोतलकपर्वते आर्यावलोकितेश्वरायतने दिव्यमणिरत्नश्री‍इन्द्रनीलमये पुष्पसंस्तृते देवसिंहासने भगवान् सार्धं महता भिक्षुसङ्घेन पञ्चमात्रैर्भिक्षुशतैः सर्वैरर्हद्भिः क्षीणास्रवैश्चेतोवशिताप्राप्तैः सद्धर्मपारंगतैश्च सार्धं बोधिसत्त्वैः सर्वैः महाकरुणाज्ञानप्राप्तैः सर्वैः एकजातिप्रतिबद्धैर्द्विजातिभ्यां च त्रिजातिभिर्दशजातिभिर्विशतिजातिभिस्त्रिंशज्जातिभिः शतजातिभिर्वा प्रतिबद्धैः सर्वैः अष्टफलप्राप्तैर्दशभूमिस्थितैः तद् यथा आर्यावलोकितेश्वरेण मंजुश्रियाविमलकेतुना रत्नश्रिया वज्रकेतुना विमलप्रभेण चन्दनेन अमृतकेतुना एवंप्रमुखैः सप्तशतैः बोधिसत्त्वैः सार्धम् उपासकोपासिकाभिः सर्वैश्च व्याकृतैः समाधिप्राप्तैः नानालोकधातुभिः सन्निपतितैः पञ्चसहस्रैः सर्वैः गन्धर्वशतसहस्रैः पूर्वबुद्धपर्युपासितैः तथागतप्रातिहार्यदृष्टैः सार्धं सर्वाभिः महायक्षिणीभिः बोधिसत्त्वज्ञानप्राप्ताभिः व्याकरणप्राप्ताभिरवैवर्तिकाभिः अनौपम्यया विमलप्रभया च प्रभावत्या भीमश्रिया यक्षिण्या च एवंप्रमुखाभिरशीत्या महायक्षिणीभिः। शतक्रतुब्रह्मवैश्रवण धृतराष्ट्रविरूढकविरूपाक्षमणिभद्रपुत्रपूर्णभद्राः एतैश्च लोकपालैः सार्धं निषण्णोऽभूत्।



अथ तैः सर्वैस्तथागतं सिंहासननिषण्णं ज्ञात्वा स्वकस्वकैः कुशलमूलैस्तथागतं दिव्यालंकारवस्त्रपुष्पमाल्यधूपविलेपनवाद्यशब्देन मानितः पूजितः शतसहस्रकोटिशः प्रदक्षिणीकृत्य अर्चितश्च। तेन खलु पुनः समयेन भगवान् सर्वसत्त्वमहाकरुणाज्ञानस्थितं नाम समाधिं समापन्नोऽभूत्। तेन समाधिधारणबलेन त्रिसाहस्रमहासाहस्रलोकधातवः आभया अवभासिता अभूवन्। सर्वरूपाणि स्फुटितानि। ये च सत्त्वा जात्यन्धाः चक्षुषा रूपाणि पश्यन्ति स्म। वधिराः श्रोत्रेण शब्दान् शृण्वन्ति स्म। रोगस्पृष्टा विगतरोगा भवन्ति स्म। नग्नाश्च वस्त्रावृता वभूवुः। उन्मत्ताः स्मृतिं प्रतिलभन्ते स्म। हीनकायाः परिपूर्णेन्द्रिया बभूवुः। दरिद्रा धनानि प्रतिलभन्ते स्म। सत्त्वानां यः खलु धनवस्तुभोगविहीन आसीत् स धनवस्तुभोगसम्पन्नोऽभूत्। सर्वसत्त्वाः सर्वसुखसमर्पिताः सर्वाशापरिपूर्णा अभूवन्। त्रिसाहस्रमहासाहस्रलोकधातौ ये केचित् सत्त्वा अनुशासनधर्मश्रवणाय येन भगवान् तेनांजलिं प्रणम्य उपसंक्रान्ताः। ये सत्त्वाः देवभूतास्ते सर्वदेवसुखं संप्रहाय बुद्धानुस्मृतिं कृत्वा धर्मश्रवणाय येन भगवान् तेन उपसंक्रान्ताः। ये सत्त्वा मनुष्यभूतास्ते च मनुष्यसुखं परित्यज्य धर्मश्रवणकामाय येन भगवांस्तेन उपसंक्रान्ताः। ये सत्त्वा नागयक्षराक्षसप्रेतपिशाचभूतास्ते बुद्धानुस्मृतिं प्राप्य सर्वसत्त्वेषु मैत्रचित्ता भूत्वा कायचित्तसुखं लब्ध्वा धर्मश्रवणाय येन भगवान् तेनोपसंक्रान्ताः। ये सत्त्वा यमलोके अन्धतमिस्रायां जातास्तेऽपि बुद्धानुभावेन एकक्षणं स्मृतिं लब्ध्वा परस्परं संजानते स्म। ते महातमिस्राभ्यः परिमुक्ता बभूवुः। सर्वे सत्वाः परस्परं मैत्रचित्ता बभूवुः। तेषामुपक्लेशाः क्षीणा अभूवन्। तेन खलु समयेन महापृथिवी षड् विकारं प्रकम्पते उन्नमति अवनमति स्म। अथ तस्यां पर्षदि मंजुश्रीकुमारभूतः सन्निषण्णः सन् बोधिसत्त्वं महासत्त्वमार्यावलोकितेश्वरमेतदवोचत्। कुलपुत्र महाबोधिसत्त्वपर्षदि अवभासितायां महापर्षदः पूर्वनिमित्तं परिस्फुटम्। अनेकबोधिसत्त्वकोटिनियुतशतसहस्राणां च व्याकरणं प्रकटितम्। धर्ममहावाक्यस्य पूर्वनिमित्तं संदृश्यते। कुलपुत्र अनेकानां च बोधिसत्त्वकोटिनियुतशतसहस्राणां सर्वाशापरिपूरि महाज्ञानप्रतिलम्भो भविष्यति। तत् कुलपुत्र सत्त्वानां कारुण्यमुत्‍पाद्य हिताय सुखाय यावदनुत्तरस्यां सम्यक्‍संबोधौ प्रतिष्ठापनाय तथागतं परिपृच्छ।



सन्ति कुलपुत्र सत्त्वाः पश्चिमे काले पश्चिमे समये भविष्यन्ति पापकारिणो दरिद्राः कृशा दुर्वर्णशरीरा जराव्याधिपरिपीडिताः परीत्तभोगा अपरिभावितकाया अल्पायुष्का अल्पबुद्धयो रागद्वेषमोहपरिपीडिताः। तेषामर्थाय कुलपुत्र तथागतमध्येषय धर्मदेशनायै तत् ते कृतं भविष्यति दीर्घरात्रं सत्त्वाना[मर्थाय] हिताय सुखाय सर्वाव्याधिप्रशमनाय सर्वपापनिवारणाय सर्वपापप्रशमनाय सर्वशापरिपूरणार्थं यावदनुत्तरपरिनिर्वाणार्थम्।



I

अथ आर्यावलोकिश्वरो बोधिसत्त्वो महासत्त्वो दशदिशमवलोक्य गङ्गानदीवालुकासमास्तथागतकोटीर्ममनसि कुर्वन् येन भगवांस्तेनांजलिं प्रणम्य त्रिःप्रदक्षिणीकृत्य पंचमण्डलेन प्रणिपत्य भगवन्तमेतदवोचत्। सन्ति भगवन् सत्त्वाः पश्चिमे काले भविष्यन्ति जराव्याधिशोकमृत्यु[दुःख]कालमृत्युपरिपीडिताः कृशा दुर्वर्णा अल्पायुष्काः परीत्तभोगा अपरिभावितकायास्ते परस्पराणि मात्‍सर्यदौःशील्यचित्ततया घातयिष्यन्ति परस्पराणि धनभोगैश्वर्याण्यापहरिष्यन्ति हास्यलास्यनाट्यक्रीडाभिरताः अनित्ये नित्यसंज्ञिनः अशुभे शुभसंज्ञिनः। ते तद्धेतौ तन्निदाना सत्त्वा नानाप्रकारैर्विह[ग]नरकतिर्यग्‍योनियमलोकेषु चोपपत्‍स्यन्ते। तत् तेषामहं भगवन् अर्थाय हिताय सर्वाशापरिपूरर्णार्थं यावत् तथागतज्ञानाहरणार्थं बुद्धक्षेत्रोपपत्तये सर्वपापनिवारणार्थं तथागतमध्येष्यामि। भाषस्व भगवन् भाषस्व सुगतो नास्ति तथागतस्य तज्‍ज्ञानं यदविदितम् अदृष्टम् अश्रुतम् अविज्ञातमेव। बहवो भगवन् बोधिसत्त्वभिक्षुभिक्षुण्युपासकोपासिका देवनागा यक्षगन्धर्वासुरकिन्नराश्च समागता धर्मसांकथ्यं श्रोतुकामाः पूर्वबुद्धपर्युपासिताः सप्रज्ञा जाताः ते निराशीभूता प्रक्रमिष्यन्ति।



अथ ते सर्वे यथा समागताः पर्षत् पंचमण्डलेन प्रणिपत्य एककण्ठेन एवमाहुः। साधु भगवन् भाषस्व भगवन् भाषस्व सुगतः।



अथ भगवान् द्विरपि त्रिरपि अध्येषणां विदित्वा दशदिशमवलोक्य वल्गुमणोज्ञस्वरेणार्यावलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत्। अस्ति कुलपुत्र सर्वतथागताधिष्ठान्-सत्त्वावलोकनबुद्धक्षेत्रसन्दर्शनव्यूहो नाम समाधिः यो मया पूर्वं प्रथमचित्तोत्पादमुपादाय श्रुतः। सुकुसुमज्योतिःसन्दर्शनस्य तथागतस्यान्तिकात् श्रुतः। तत् सहश्रवणादेव तस्य समाधेर्नामधेयस्य नवतीनां सत्त्वकोटीनां तथागतज्ञानप्रतिलम्भोऽभूत्। ते सर्वे च व्याकृतास्तथागतैर्नानाब्युद्धक्षेत्रेषु। मया च कुलपुत्र व्याकरणमनुप्राप्तम्। तत् स्मराम्यहं कुलपुत्र दिव्येन तथागतज्ञानेन त्रिंशत्या तथागतसहस्रैरयं धर्मपर्यायो भाषितः सत्त्वानामर्थाय। सर्वत्र त्वमेवार्यावलोकितेश्वर तथागताध्येषकः मंजुश्रियश्च कुमारभूतः। अयं च यथा समागता सर्वबोधिसत्त्वानां पर्षद् भिक्षुभिक्षुण्युपासकोपासिका पर्षद् [एते सर्वे] श्रुत्वा माननां पूजनां कुर्वन्ति स्म। ततश्चानेकानि सत्त्वकोटीनियुतशतसहस्राणि व्याकरणं प्रतिलभन्ते स्म। बोधिसत्त्वसमाधीनां च लाभिनो भवन्ति। सर्वकामं गताः कृतसर्वाशाः समृध्यन्ते विगतव्याधयः संवृत्ता परिपक्वकुशलमूलाः सर्वावरणप्रहीणा अभिरूपप्रासादिकदर्शनीया धनधान्यकोशकोष्ठागारसमृद्धाः सर्वराजराजपुत्रामत्याभिनन्दनीयाः सर्वसत्त्वैर्वन्दनीयाः स्मृतिमन्तः प्रज्ञावन्तः बुद्धे धर्मे संघे अभेद्यप्रसादेन समन्वागता धृतिमन्तः आयुर्वर्णतेजोबलरथामवन्तः सर्वाकारवरोपेताः समन्वागताः। न च कदाचित् प्रियविप्रयोगं न प्रियव्यसनं संवृत्तम्। एवं कुलपुत्र बहुगुणससन्वागतास्ते कुलपुत्रा वा कुलदुहितरश्च भविष्यन्ति। यदा सद्धर्मपर्यायं पंचमण्डलेन प्रणिपत्य पुष्पधूपगन्धमाल्यविलेपनच्छत्रध्वजपताकैः समलंकृत्य नमो बुद्धायेति कृत्वा नमस्करिष्यन्ति साधुकारं दास्यन्ति धारयिष्यन्ति वाचयिष्यन्ति वाचापयिष्यन्ति लिखिष्यन्ति लिखापयिष्यन्ति परमगौरवं चित्तमुत्‍पाद्य तस्य धर्मभाणकस्यान्तिके ते दृष्ट एव धर्मे सर्वसगुणसमन्वागता भविष्यन्ति अभिरूपाः प्रासादिका दर्शनीया विगतव्याधयो दीर्घायुष्काः स्थिरबुद्धयः स्मृतिमन्तः धृतिमन्तः सर्वराजानां सर्वराज्ञीनां राजपुत्रामात्यानां सर्वशत्रूणां सर्वसत्त्वानां चाभिनन्दनीया भविष्यन्ति वन्दनीयाः सत्‍करणीयाः। प्रभूतवित्तोपकरणा भविष्यन्ति। चन्दनगन्धः चास्य मुखात् प्रवास्यति। नीलोत्‍पलसदृशनेत्रो भविष्यति। रात्रिन्दिवं चास्य बुद्धबोधिसत्त्वदर्शनं भविष्यति। सर्वावरणं चास्य क्षयं यास्यन्ति पंचानन्तर्यप्रभृतयः कृत्वा। देवताश्आस्य रक्षिष्यन्ति। मरणकाले चास्य बुद्धदर्शनं बोधिसत्त्वदर्शन भविष्यति।



न ईर्ष्यालुको न विक्षेपचित्तं कालं करिष्यति। यावच्च्युतः सुखावत्यां लोकधातावुपपद्यते व्याकृतास्ते मया कुलपुत्र संमुखव्याकरणेन। दृष्टोऽहं तैः सत्‍कृतो मानितः। न तैः संशयमुत्‍पादयितव्यम्। बोधौ य इमं धर्मपर्यायं धारयिष्यन्ति सत्‍कृत्य लिखिष्यन्ति लिखापयिष्यन्ति वाचयिष्यन्ति पूजयिष्यन्ति उद्‍ग्रहीष्यन्ति नामधेयं च श्रोष्यन्ति। बोधिसत्त्व इति स मनसि कृत्वा सत्‍कर्तव्यः। येनास्य पूवकर्मविपाकेनास्य रूपवैकल्यं भोगवैकल्यं बुद्धिवैकल्यं परिभाष्यं च प्रियविप्रयोगं च राज्यक्षोभं च ते अस्य समाधेरनुभावेन श्रवणेन केचिच्छीर्षरोगेण केचिद्भक्तच्छेदेन केचित् कुचेलाभिधारणेन केचित् कायचित्तपीडेन केचित् दुःखसंस्पर्शशय्याकल्पनेन केचित् परिभाष्येण सर्वं तत् कर्मावरणं क्षयं यास्यन्ति। तेन चवं चित्तमुत्‍पादयितव्यं पूर्वं मया संसारे संसरद्भिः पापमकुशलं सत्त्वेषु नानाप्रकारमुपचितं तं प्रतिदेशयामि आविष्करोमि न प्रतिच्छादयामि। बुद्धे धर्मे संघे अभेद्यप्रसादचित्तमुत्‍पादयितव्यम्। येच तस्य कुलपुत्रस्य कुलुदुहितुर्वा छेदभोगफलं संवर्तनीयं कर्मावरणं भविष्यति बुद्धे वा धर्मे वा संघे वा श्रावकप्रत्येकबुद्धे वा मातापितृभिर्वा [पाप]कर्मकृतमुपचित्तं भविष्यति तत् सर्व परिक्षयं यास्यति। महैश्वर्यसमृद्धो भविष्यति। ये च तस्य कुलपुत्रस्य च कुलदुहितुर्वा दुःखनारकवेदनीयं कर्मावरणं भविष्यति प्रियविप्रयोगसंवर्तनीयं जात्यन्धसंवर्तनीयं स्त्रीसंवर्तनीयं द्विव्यंजनसंवर्तनीयं ईर्ष्यामानक्रोधवशेन यमलोकप्रेततिर्यग्‍योनिसंवर्तनीयं तत् सर्वं परिक्षयं यास्यति। एवं कुलपुत्र सर्वगुणाकरोऽयं समाधेः।



अस्ति कुलपुत्रास्य धर्मपर्यायस्य चिरस्थितिकराः। तेषां च कुलपुत्राणां कुलदुहितृणां रक्षावरणगुप्तानि। सर्वेषां गुणानां सर्वशापरिपूरकराणि महाभोगैश्वर्यसुखकराणि सर्वचिन्तितप्रार्थितसमृद्धिकराणि सर्वकर्मक्षयंकराणि सर्वाकालमृत्युदुःस्वप्नसर्वव्याधिप्रशमनकराणी सर्वयुद्धजयंकराणि आयुर्वर्णबलवीर्यस्थामकराणि सर्वयक्षभूतमनुष्यवशंकराणि सर्वज्वराविषादकप्रशमनकराणि यावद्‍व्याकरणप्रतिलंभकराणि धारणीमन्त्रपदानि यानि श्रुत्वा धारित्वा वाचित्वा सत्‍करित्वा लिखित्वा लिखापयित्वा गुप्तये। स ते कुलपुत्रा वा कुलदुहितरश्च सर्वानेतान् गुणान् प्रतिलभन्ते। अथ तस्मिन् समये इयं महापृथिवी षड्‍विकारमकंपत। सा च यथा समागता पर्षत् तथागतं पुष्पधूपगन्धमाल्यदुष्ययुगैः संच्छाद्य साधुकारमदात्। साधु साधु भगवन् कतमानि तानि मन्त्रपदानि।



नमः सर्वतथागतानाम् तद्यथा बुद्धे सुबुद्धे शुद्धमते। लोके विलोके लोकातिक्रान्ते। सत्त्वावलोकने सर्वतथागताधिष्ठानाधिष्ठिते। सर्वशापरिपूरणे द्युतिन्धरे नरके च पूजिते तथागतज्ञानददे तथागताधिष्ठाने च। सर्वलोकः सुखी भवतु। पूर्वकर्म क्षपय। मम



“नात्‍सेहं मारपतिशुक्षिणस्य आयषदिक महाश्राद्वोपासक शुलिवज्रस्य”

रक्षा भवतु सर्वभयेभ्यः तथागताधिष्ठानेन स्वाहा॥



इमानि तानि कुलपुत्राहो मन्त्रपदानि त्रिंशत्या तथागतसहस्रैर्भाषितानि अधिष्ठितानि मयाप्येतर्हि भाषिता[नि] सर्वसत्त्वानामर्थाय हिताय सुखाय रक्षावरणगुप्तये सर्वव्याधिप्रशमनकराणि बुद्धक्षेत्रोपपत्तये। यः कश्चित् पर्ष एवं जानीयुः कथं नु वयं सर्वानेतान् तथागतभाषितान् गुणान् प्रतिलभेय तेन कल्यमेवोत्थाय सर्वसत्त्वानां दयाचित्तेन करूणाचित्तेन मैत्रचित्तेन ईर्ष्यामानम्रक्षक्रोधपरिवर्जितेन एकाग्रचित्तेन बुद्धस्योदारतरां पूजां कृत्वा दशदिशं सर्वतथागतानां नमस्कृत्वा यथाकामं गुणान् मनसिकृत्य अष्टशतं जप्य पुष्पमेकैकं तथागते देयम्। ततस्तस्य सर्वाशासमृद्धिर्भविष्यति। स्वप्ने च तथागतदर्शनं भविष्यति। यं वरम् इच्छति तं लभते। मरणकाले च तथागतदर्शनं भविष्यति। च्युत्वा सुखावत्यां च लोकधातौ उपपत्‍स्यते। आयुर्बलवर्णवीर्यसमन्वागतः। सर्वशत्रवश्चास्य वशगामिनो भविष्यन्ति।



अस्यां खलु पुनर्धारण्यां भाष्यमाणायां षष्टीनां च प्राणिसहस्राणामनुत्‍पत्तिकेषु धर्मेषु क्षान्तिप्रतिलंभोऽभूत्। सर्वे च सर्व[कर्मा] वरणविनिर्मुक्ताः सर्वाभिप्रायपरिपूर्णाः संवृत्ताः।



II

अथ खलु वज्रपाणिर्बोधिसत्त्वो दशदिशं व्यवलोक्य भगवन्तमेतदवोचत्। अस्ति भगवन् अभयतेजं नाम धारणी बोधिसत्त्वानां प्रतिज्ञा या मया अभयव्यूहराजस्य तथागतस्यान्तिकादुद्‍गृहीता। उद्‍गृह्य सर्वसत्त्वेभ्यः प्रकाशिता। ततः पुनः भगवन् नाभिजानाभि यस्य स्वप्नेऽपि सा धारणी कर्णपुटे निपतितान्तर्गता तस्य स्याच्छरीरे दौर्बल्यं वा क्लेशो वा व्याधिर्वा ज्वरो वा कायशूलं वा चित्तपीडा वा अकालमृत्युर्वा उदकं वा शस्त्रं वा विषं वा गरं वा डाकिनी वा भूतो वा यक्षो वा शत्रवो वा मनुष्या वामनुष्या वा विहेठं वा कर्तुं हिंसां वा विधातुं वा नेदं स्थानं विद्यते। तदनुजानातु भगवन् यदहं बोधिसत्त्वप्रतिज्ञामुद्रां दास्यामि। तेषां धर्मभाणकानां धर्मश्रावणिकानामर्थाय श्रोतॄणां मानयितॄणां पूजयितॄणां धारयितॄणां वाचयितॄणां सर्वाशापरिपूरकराणि।



नमः सर्वबुद्धानाम्। सर्वबोधिसत्त्वानामर्हन्तानाम्। तद्यथा ओम् वज्रधर वज्रधर वज्रकाय वज्रबल वज्रतेज। हुम् हुम्। वज्रपाणे तथागताज्ञां पालय। स्मर प्रतिज्ञाम्। सर्वव्याधिं सर्वपापानि नाशय। देहि मे यथेप्सितं वरम्। मम



“नात्‍सेहं मारपति शुल्क्षिणस्य आयषादिक शुलिवज्रस्य”



यं यमेवाभियाचाम स्तं तमेव समृध्यतु। हे हे। तुरु तुरु। आगच्छ आगच्छ। मा विलम्ब। दर्शय वज्रकायं दर्शय वज्रकायम्। बुद्धाधिष्ठानेन स्वाहा।



अस्यां धारण्यां भाष्यमाणायाम् इयं महापृथिवी उन्मज्जनिमज्जनं करोतु। सर्वे च यक्षराक्षसाः संभ्रान्ताः सर्वे च देवा यावद् मनुष्यामनुष्या विस्मयमापन्नाः साधुकारं प्रददति। साधु साधु महासत्त्वाः परमसिद्धानि इमानि धारणीमन्त्रपदानि भाषितानि। अथ वज्रपाणिबोधिसत्त्वो भगवन्तमेतदवोचत्। यः कश्चिद् भदन्त भगवन् बोधिसत्त्वभूमिमभिप्रार्थयते धनधान्यभोगैश्वर्यं राज्यं विद्याधरत्वम् आयुर्बलवीर्यदीर्घायुष्कत्वं तेन शुक्लाष्टम्यां श्वेतचन्दनमयो वज्रधरः कार्यः अट्टहासः सर्वालंकारविभूषितः। सधातुकहृदयं कर्तव्यम्। सधातुकं वज्र[धरं] समाश्वासकं विद्याधरं धूपदह्यमानं शुचिना अहोरात्रोषितेन कार्यम्। ततोऽष्टम्यां पूर्वसेचं कृत्वा शुचे सतथागतस्थाने महता धूपपुष्पगन्धदीपैः पूजां कृत्वा त्रिस्कृत्वा अष्टशतिको जापो दातव्यः। तथागतस्य पूजा कर्तव्या। सर्वतथागतानां नमस्कृत्य चत्वारि पूर्णकुम्भा[नि]स्थाप्य रक्तचन्दनमयं मण्डलं कृत्वा श्वेतवस्त्राप्रावृतेन एकाग्रमानसेन चतुर्दिशे च रसगन्धमद्यपायसवलिं दत्त्वा अष्टशतसुमनःपुष्पैः वज्रपाणिराहर्तव्यः। यावत् पञ्चदशी ततो महानिर्घोषो भविष्यति पृथिवीकम्पश्च रश्मयो निश्चरिष्यन्ति। ततो यथेप्सितं वरं दास्यामि। सर्वकर्माणि सर्वकार्याणि जपितमात्रेण समृद्धिष्यन्ति। विगतव्याधयो चिरजीवी सर्वपापविवर्जितो भविष्यति। गुणसहस्रं प्रतिलप्स्यते। मरणकाले च बुद्धं पश्यति। अहं च दर्शनं दास्यामि। अथ भगवान् साधुकारमदात्। साधु साधु वज्रपाणे अनतिक्रमणीया इयं मुद्रा। नात्र कांक्षा न विमतिर्न विचिकित्‍सा कर्तव्या सदेवकेन लोकेन।



III

अथ मंजुश्रीः कुमारभूतो भगवन्तमेतदवोचत्। केनार्थेनायं भगवन् सर्वतथागताधिष्ठानसत्त्वावलोकनबुद्धक्षेत्रसन्दर्शनव्यूहो नाम समाधिरुच्यते। भगवानाह। सर्वतथागतानामधिष्ठानं सर्वबोधिसत्त्वानाम् अधिष्ठितश्च सर्वसमाधिं सर्वधारणीमुखानि प्रतिलभते। सर्वसत्त्वानां चित्तचैतसिकसमिंजितप्रसारितानि प्रजानाति। देवानां नागानां मनुष्याणां यक्षाणां गन्धर्वाणां प्रेतानां तिर्यग्‍योनिगतानां यामलौकिकानाम् अमी सत्त्वाः पुण्योपगाः सुकृतकरा बुद्धधर्मसंघेषु प्रसादं प्रतिलभन्ते। अमी नरकगामिदुष्कृतगामिपापकारिणः। तेषां सत्त्वानां पापदृष्टिगतानां धर्मं देशयति सर्वपापेभ्यो निवारयति। बुद्धबोधौ प्रतिष्ठापयति सर्वाभिप्रायं परिपूरयति। ईर्ष्या-मान-क्रोध-मात्‍सर्यं विनोदयति। ते च सत्त्वा बुद्धधर्मसंघेषु प्रसादं प्रतिलभ्य बुद्धक्षेत्रेषूपपद्यन्ते। न जातु दुःखमनुभवन्ति न दौर्मनस्यम्। तेनायं कुलपुत्र सर्वतथागताधिष्ठानसत्त्वावलोकनबुद्धक्षेत्रसन्दर्शनव्यूहो नाम समाधिरुच्यते। यं श्रुत्वा नियतावैवर्थिकभूमिं प्रतिलभन्ते।



[स]आह। केनार्थेन भगवंस्तेषां कुलपुत्राणां व्याकरणं भवति। कियत्तेषां पुण्यस्कन्धं भवति। किं दुष्करचर्या। दुष्करं च भगवन् अर्हत्त्वं प्रागेवानुत्तरा सम्यक्‍संबोधिः। भगवानाह। यश्च मया कुलपुत्र प्रथमचित्तोत्‍पादमुपादाय दानशीलक्षान्तिवीर्यध्यानप्रज्ञापारमिता परिपूरिता यश्च शिरःकर चरणनयनोत्तमांगप्रियपुत्रभार्यादुहितृदासदासीपरित्याग कृतः यश्चास्य धर्मपर्यायस्य पूजनसत्‍करणलिखनलेखापनवाचनोद्‍ग्रहणीयः पुण्याभिसंस्कारः परेभ्यः संप्रकाशनीयः पुण्याभिसंस्कारः तेषां च धर्मभाणकानां पूजनसत्‍करणपुण्याभिसंस्कारः तस्यायं पूर्विमकः पुण्याभिसंस्कारः शततमामपि कलां नोपैति। यश्च मया कुलपुत्र धर्मो भाषितः पर्यावाप्तः तं सर्वं सत्‍करे गुरुकरे मानये पूजये सत्‍कृत्य लिखये लिखापये। यश्चायं धर्मपर्यायः लिखे वाचये पूजये संप्रकाशये बहुतरम् इतः पुण्याभिसंस्कारं परिग्रहीष्यति। ततस्तथागतो व्याकरोत्यनुत्तरायां सम्यक्‍संबोधौ। तत् कस्य हेतोः। एवंरूपस्य दुष्करं धर्मपर्यायस्य श्रवणोद्‍ग्रहण-धारण-पूजन-लिखनम्।



ते च सत्त्वाः पापसमाचाराः खाद्यपेयहास्यनाट्याभिरता अशुभे शुभसंज्ञिनः कामक्रोधव्यापादबहुला असुखे सुखसंज्ञिनः प्रहाराक्रोशतर्जनताडनाभिरता न ज्ञास्यन्ति न मनसि करिष्यन्ति। ते ततः पापकर्मनिदानाज्ञाना अकल्याणमित्रपरिगृहीता जराव्याधिशोकमृत्युपरिपीडिता मरणकाले परितर्प्यन्ते। श्मशानसदृशमंचावलंव्यमानं परस्परं पश्यन्ति न च कुशलचित्तमुत्‍पादयिष्यन्ति नाभेद्यप्रसादम्। ते ततश्च्यवित्वा पुनरपि दुःखानि प्रत्यनुभविष्यन्ति। नायं कुलपुत्राकृतकुशलमूलैस्तथागतादर्शाविनो अव्याकरणप्राप्तैः श्रोतुं मानयितुं पूजयितुम् उद्‍ग्रहीतुं न लिखितुं न लिखापयितुं न श्रद्धधातुं न च तान् धर्मभाणकान् सत्‍कर्तुं मानयितुं पूजयितुम् [अपि न शक्यते।] तथागतकृत्यं कुलपुत्र तत्र विषये भविष्यति यत्रायं धर्मपर्यायः प्रचरिष्यति। अथ सा यथा समागता पर्षत् साधुकारमदात्। साधु साधु भगवन्। वयमपि भगवन् धर्मभाणकं धर्मश्रावणिकं तथागतकृत्येन सत्‍करिष्यामः गुरूकरिष्यामः मानयिष्यामः सर्वसुखोपधानं चास्योपसंहरिष्यामः। अयं च धर्मपर्यायं वैस्तरिकीकरिष्यामः रक्षिष्यामः येनायं धर्मपर्यायश्चिरश्तितिको भविष्यति। अथ भगवांस्तस्यां वेलायां यथा समागतां पर्षदमवलोक्यैवमाहुः। साधु साधु कुलपुत्र। अहो एवमपि युष्माकं करणीयम्। कायचित्तनिरपेक्षैर्भूत्वा सर्वोपप्लवन-परिभवन-परिभाषण-तर्जन-प्रहाराक्रोश-लभ्यमानम् [अपि] इमं धर्मपर्यायः श्रावयितव्यो लिखितव्यो वाचयितव्यः। तं च धर्मभाणकं धर्मश्रावणिकं सर्वसुखोपधानेन चोपस्थातव्यः। स च विषयः स च द्वीपः स च नगरो रक्षितव्यः सर्वभयोपद्रवोपसर्गोपायासेभ्यः। तस्य च कुलपुत्रस्य कुलदुहितुर्वा सततसमितं समन्वाहर्तव्यम्। अथ भगवांस्तस्यां वेलायामिमा गाथा अभाषत।



शृणुत कुलपुत्र अप्रमत्ता

मा पश्चकाले परित्ताप्यु भेष्यथ।

बुद्धस्य उत्‍पाद्यु कदाचि लभ्यते

कल्पानकोटीभि शतैः सहस्रैः॥

गुणाश्च शृण्वत्वभिश्रद्दधेत

न दुर्लभा तेषु समाधि भेष्यति।

कल्पानकोटीन् यथ गङ्गवालिका

यो दानु दद्या द्विपदोत्तमेषु॥

धनं चा धान्यं तथ वस्त्रभूषणं

गन्धं च माल्यं च विलेपनं च।

यश्चैव सुत्रमभिश्रद्दधित्वा

श्रुणेय वाचेय लिखापयेत।

न तस्य पुण्यस्य प्रमाणु विद्यते

ता चाप्रमाणं सुगतेन देशितम्॥

रण्यं च सेवेत सदाप्रमत्तो

ध्यानं च ध्यायेतु सदान्यचित्तः।

दानं च दद्या प्रियपुत्रधीतरा

हस्तौ च पादौ च परित्यजेत॥

यथैव सूत्रस्य धरेति कश्चि

अयं ततो पुण्यविशेष्यु प्राप्नुया।

अर्थस्य दाता वरसूत्रमेतत्

सर्वस्यापाया सदा वर्जितास्य॥

धनस्य धान्यस्य च दायको ह्ययं

गुणाश्च सर्वेऽपि न तस्य दुर्लभाः।

आयुर्बलं वीर्यु न तस्य दुर्लभं

धारेति सूत्रं य इमं विशुद्धम्॥

द्रक्ष्यन्ति बुद्धममिताभु नायकं

मयापि स व्याकृतु बुद्धबोधौ।

न तस्य पापं पि कदाचि विद्यते

सुखावतीं द्रक्ष्यति लोकधातुम्॥

यं चापि तस्य सद कर्मु भेष्यति

सर्वं क्षयं यास्यति चित्तनीडे।

कायस्य शूले तथ शीर्षतापे

न तस्य जातु विनिपातु भेष्यति।

सांदृष्टिकांश्चापि गुणां स लप्‍स्यते

सर्वं यथा चिन्तितु प्रार्थितं च॥

तस्माभि तेभि सद भिक्षुभिक्षुणी

उपासकोपासिक राजभिः सदा।

गुरुगौरवं कृत्वा च धर्मभाणके

यथा नरेन्द्रस्य तथागतस्य॥

इदं च सूत्रं सद धारितव्यं

सत्‍कारु नित्यं च कर्तव्यधारके।

गन्धैश्च माल्यैश्च विलेपनैश्च

सत्‍कारु कृत्वा च लिखापयेत॥

मा पश्चकाले जरव्याधिपीडिता

अनेक-आयाससहस्रव्याकुलाः।

नरकेषु तिर्यक्षु परिभ्रमाणाः

षण्ढाश्च पण्डाश्च जुगुप्सनीयाः।

जात्यन्धभूताः कुणपाश्च गन्धिनः

संजास्यते नीचकुलेषु स्त्रीषु॥

ईर्ष्यालुकस्य सद पापचारिणः

क्रोधाभिभूतस्य च मत्‍सरिष्य।

बुद्धेषु धर्मेषु करित्व गौरवम्

इमेषु जातीषूपपद्यतेऽसौ।

तत्रैव दुःखानि च वेदमाना

मा पश्चकाले परिताप्यु भेष्यथ॥

तस्माभि तेहि सद पूजितस्य

यश्चैव धारेत प्रकाशयेत।

यश्चैव परिभाषणु तस्य कुर्वते

जुगुप्सनां ताडनबन्धनञ्च॥

ममैव तेन परिभाषणा कृता

ममैव सत्‍कारु करित्व धारके।

तस्माच्च तैर्हि सद धर्मभाणके

यश्चैव धारेत लिखेत वाचये।

सत्‍कारु तैश्च सद नित्यु कुर्या

स्रिग्धाश्च वाचो मधुरा भणेत॥



IV

आर्यावलोकितेश्वरो बोधिसत्त्वो भगवतश्चरणयोर्निपत्य भगवन्तमेतदवोचत्। अनुस्मराम्यहं भगवन् अस्ति व्यवलोकनप्रातिहार्या नाम धारणी या मया पूर्वं ज्ञानकेतुप्रभाकरस्य तथागतस्यान्तिकादुद्‍गृहीता श्रुता [च]। यां श्रुत्वा मत्वा उद्‍गृह्य धारयित्वा वाचयित्वा सत्‍करित्वा लिखित्वा लिखापयित्वा अवैवर्तिकभूमिं प्रतिलभन्ते। सर्वानेतांस्तथागतभाषितान् गुणान् प्रतिलभन्ते। सर्वं चास्य यथाभिप्रायां समृध्यते। सर्वकर्माव[र]णं चास्य क्षयं गच्छति। समाधिं च प्रतिलभते। विगता व्याधयो भवन्ति। बुद्धदर्शनं बोधिसत्त्वदर्शनं भवति। तद् भगवान् साधुकारमदात्। साधु साधु कुलपुत्र प्रवर्तय अधिष्ठितं तथागतेन।



अथार्यावलोकितेश्वरो बोधिसत्त्वो दशदिशं सर्वतथागतेभ्यो नमस्कृत्य इमानि मन्त्रपदानि भाषते स्म।



नमः सर्वतथागतानां सर्वाशापरिपूरकराणाम्। नम आर्यावलोकितेश्वरस्य बोधिसत्त्वस्य महाकारुणिकस्य। तद्यथा



ह ह ह ह। मम मम। धिरि धिरि। शान्ते प्रशान्ते सर्वपापक्षयंकरे। अवलोकय कारुणिक बोधिचित्तं मनसि कुरु। व्यवलोकय मां स्मर स्मर यत् त्वया पूर्वं सत्याधिष्ठानं कृतम्। तेन सत्येन सर्वाशां मे परिपूरय। बुद्धक्षेत्रं परिशोधय। मा मे कश्चिद् विहेठं करोतु। बुद्धाधिष्ठानेन स्वाहा। तद्यथा



तेजे तेजे महातेजे। यन्मम कायदुश्चरितं वाग्दुश्चरितं मनोदुश्चरितं दारिद्रयं वा तन्मे क्षपय। आलोकय विलोकय। तथागतदर्शनं चाहमभिकांक्षामि बोधिसत्त्वदर्शनम्। धुधुप ददस्व मे दर्शनम्। सर्वे मे कुशला अभिवर्धन्तु। नमः सर्वतथागतानाम्। नमः अवलोकितेश्वरस्य। स्मर प्रतिज्ञा महासत्त्वाः। सिध्यन्तु मन्त्रपदाः स्वाहा।



अस्यां धारण्यां भाष्यमाणायां महापृथिवीकंपोऽभूत् महाकिलकिलाशब्दः। दिव्यं च पुष्पवर्षमभिप्रवर्षन् [सर्वः सपर्षत्] साधुकारमदात्। साधु साधु सुभाषितमिदं महासत्त्वेन सर्वसत्त्वानां त्राणार्थं सर्वाशापरिपूरकरम्। रक्ष सर्वभयेभ्यः सर्वकर्मक्षयंकर मरणदुःस्वप्नकान्तारप्रशमन। वयमपि सर्वे भूत्वा धारयिष्यामः सत्‍करिष्यामः। अवलोकितेश्वर आह।



यः कश्चित् कुलपुत्र इमान् गुणानभिकांक्ष[ते]। यथा तथागतेन परिकिर्तितं व्याकरणं मम कांक्ष[ते]। ममापि सम्मुखदर्शनं समाधिलम्भं बुद्धबोधिसत्त्वदर्शनं भोगैश्वर्यलम्भं बुद्धक्षेत्रोपपत्तिं तेन शुक्लपक्षे शुचिना सुस्नातगात्रेण भूत्वा आर्याष्टांगोपवासोपवसितैरष्टम्यामारभ्य शुचौ प्रदेशे बुद्धाधिष्ठिते गन्धपुष्पैर्ध्वजपताकैः पूर्णकुम्भैरभ्यर्च्य स पृथिवीप्रदेशः स च धर्मभाणकः शुचिः सुस्नातगात्रः श्वेतवस्त्रप्रावृतो नानापुष्पमाल्यगन्धैरभ्यर्च्य लिखापयितव्यः सर्वसत्त्वासाधारणानि कुशलमूलानि कृत्वा सर्वसत्त्वमैत्रचित्तेन दयाचित्तेन करुणाचित्तेन तथागतगुरुगौरवं चित्तमुपस्थाप्य तेन दिने दिने लिखता ताव लिखे यावदर्धदिवसम्। अष्टम्यामारभ्य यावत् पञ्चदशीं दिने दिने सैव पूजा कर्तव्या। ततोऽनेनैव विधिना लिखितमात्रेण पञ्चानन्तर्याणि कर्माणि सर्वपापानि चास्य क्षयं यास्यन्ति। कुशलैर्धर्मैर्विवर्धिष्यते। उत्तप्तवीर्यो भविष्यति। सर्वधर्मेषु कायसुखमनुप्राप्स्यति। तनूभविष्यन्ति राग-द्वेष-मोह-मान-क्रोधाः। तेन लिखापयित्वा पूर्वमुखीं सधातुकां तथागतप्रतिमामवलोकितेश्वरप्रतिमां च सधातुकां स्थाप्य सधातुके चैतायतने पुष्पधूपगन्धैर्दीपैश्च उदारतरा पूजा कर्तव्या। अष्टम्यामारभ्य यावत् पञ्चदशीं सर्वसत्त्वमहाकरुणाचित्तेन भवितव्यम्। शुचिशुक्लभोजिना आर्याष्टांगोपवासोपवसितेन सुहृत्‍सहायकेन मानक्रोधमात्‍सर्यपरिवर्जितेन दिने दिने उदारतरां पूजां कृत्वा त्रिसन्ध्यं जापः अष्टशतिको दातव्यः। दीपधूपपुष्पगन्धादि दत्त्वा सुमनःपुष्पाष्टशतैश्च आर्यावलोकितेश्वरप्रतिमा त्रिसन्ध्यमाहर्तव्या। वज्रपाणेश्च धूपो दातव्यः। दशदिशमभिनमस्कृत्य पश्चिमेन भीमाया देव्याः पूर्वेणानोपमायाः ऊर्ध्वेन शंखिन्या बलिर्नानारसपायसदध्योदनश्चतुर्दिशं क्षेप्तव्यः।



ततस्तस्य न कश्चिद् विक्षेपं करिष्यति। संत्रासो[ऽपि नोत्‍पद्यते।] नान्यथात्वं चित्तस्य। सर्वेषां चाष्टशतिको जापः अष्टशतसुमनःपुष्पैश्च संचोदनम्। [अने]नैव विधिना पूर्वसेचं कृत्वा ततः पूर्णपञ्चदश्यां चत्वारि पूर्णकुंभा[नि]स्थाप्य धूपचन्दनकुन्दुरुककर्पूरं दत्त्वा दीप[मुखानि] चत्वारि नानागन्धध्वजपटपताकासुवर्णरूप्यभाण्डैः तं पृथिवीप्रदेशं समलंकृत्य दधिमधुपायसदध्योदनमन्यानि च यथालम्भेन बलिं चतुर्दिशे दत्त्वा निवेद्य सुमनःपुष्पाष्टकशतैरेकैकं जप्य चतुर्दिशे क्षेप्तव्यम्। पूर्ववत् त्र्यष्टशतैः सुमनोजातिपुष्पैरेकैकं जप्य आर्यावलोकितेश्वरप्रतिमा आहर्तव्या।



ततः सत्प्रतिमा कंपिष्यति। महानिर्घोषो भविष्यति। रश्मयो निश्चरिष्यन्ति। पृथिवीकम्पः [भविष्यति।] ततः सर्वकर्माणि सर्वकार्याणि चास्य समृद्धिष्यन्ति। तथागतदर्शनं बोधिसत्त्वभूमिप्रतिलम्भः सर्वसत्त्ववन्दनीयो भविष्यति। धनधान्यकोशकोष्ठागारसमृद्धः सर्वव्याधिपरिवर्जितश्चिरजीवि [भविष्यति]। सर्वशत्रवः सर्वराजराजपुत्रामात्यदर्शनाभिकांक्षिणो भविष्यन्ति प्रियंकराः सर्वक्लेशरागद्वेषमोहप्रहीणाः। न च जातु प्रियविप्रयोगो भविष्यति। महादृढबलवीर्यसंपन्नस्तेजवांस्तीक्ष्णेन्द्रियो बुद्धिमान् सर्वसत्त्वदयाचित्तो धर्मज्ञो यावच्च्यवनकाले बुद्धं भगवन्तमार्यावलोकितेश्वरं पश्यति। मैत्रविहारी कालं करोति। धर्मं देशयमानं यथेप्सितेषु बुद्धक्षेत्रेषु महाचक्रवर्तिकुलेषु यत्रानुस्मृतिं करोति तत्रोपपद्यते। अन्यानि चानेकानि गुणसहस्राणि प्रतिलप्स्यते। एवं भगवन् बहुगुणकरोऽयं धर्मपर्यायः। इमानि ते धारणीमन्त्रपदानि न विना तथागताधिष्ठानस्यायं धर्मपर्यायं शक्यं श्रोतुं न धारयितुं न पूजयितुं न लिखितुं न लिखायितुं न श्रद्दधातुम्। सचे दर्शनं भवे न श्रवं भविष्यति। सचे श्रवणं तद्विक्षिप्तचित्तः श्रोष्यति न श्रद्धास्यति न सत्‍करिष्यति। सचे सत्‍करे क्लेशव्यापादचित्तः [सत्‍करिष्यति] सचे लिखे लिखापयेत व्याक्षिप्तचित्तः। [तत् कस्य हेतोः]। तथा हि तस्य पूर्वपापकर्मफलहेतुत्वात् कर्मानुभवितव्यम्। स विचिकित्‍साप्राप्तो भविष्यति। पंचानन्तर्यं करिष्यति। त्रिभिः साधनैः सर्वाशासमृद्धिर्भविष्यति। नात्र कांक्षा न विमतिर्न विचिकित्‍सोत्‍पादयितव्या। अथ भगवान् [अवलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय] साधुकारमदात्। साधु साधु कुलपुत्र। तथागतकृत्यमयं धर्मपर्यायः करिष्यति सर्वसत्त्वानाम्।



V

अथ खल्वनोपमा महायक्षिणी येन भगवांस्तेनोपसमक्रामत्। भगवन्तं नानापुष्पदुष्ययुगैराच्छाद्य भगवतः पादयोर्निपत्य भगवन्तमेतदवोचत्। एवं स्मराम्यहं भगवन्मया भगवतः कौशाम्ब्यां घोषिलस्यारामे विहरतः पुरतः प्रतिज्ञा समुदाहृता सर्वसत्त्वानामर्थाय। अहमपि भगवन् सर्वविद्याधराणां हृदयं जानामि। तन्मे भगवाननुजानातु बहुजनहिताय बहुजनसुखाय सर्वाशापरिपूरणार्थाय भिक्षुभिक्षुण्युपासकोपासिकानां च।



नमः सर्वतथागतानां संय्यथीद् ह ह। ही ही। हु हु। सर सर। लहुं लहुं। शीघ्रं शीघ्रं। महाविद्ये सर्वविद्याधरनमस्कृते। हसः हसः। किं तिष्ठसि किं तिष्ठसि। कनकविचित्राभरणविभूषितांगि पट पट। भर भर। भिरि भिरि। भूरु भूरु। सर्वार्थं मे साधय। तुरु तुरु। अर्थं साधय। अर्थं देहि मे

“नात्सहं मारपति शूल्क्षिणस्य”।



[सर्वसङ्घानाः]सिद्धिं हा हा। पद्मे पद्मे महापद्मे। विशदे विशदे महाविशदे। भव भव भवोद्भवाय। तमहं घोरे तमहं घोरे। तन्मे विद्यां प्रयोजय। सिद्धिं कुरु। सर्वशां मे परिपूरय बुद्धाधिष्ठानेन स्वाहा।



यः कश्चिद्भगवद्‍गुणार्थी धनधान्यार्थी सर्वसत्त्ववशीकरणार्थी भवे महैश्वर्यं राजत्वं विद्याधरत्वमभिकांक्ष[ते]ममापि संमुखदर्शनं तेन अष्टम्यां शुक्लपक्षे नवे पटके अच्छिन्नदशे केशापगते शुचिना चित्रकरेण आर्याष्टाङ्गोपवासोपवसितेन अश्लेषैरङ्गैर्नवभाजनस्थैश्चित्रापयितव्यम्। मध्ये तथागतप्रतिमा धर्मं देशयमाना दक्षिणेनार्यवज्रक्रोधो वज्रं भ्रामयमानः सर्वालङ्कारविभूषितः [पुष्प]माल्यार्धचन्द्रहारः श्वेतवस्त्रप्रावृतः वामपार्श्वे अनोपमा शरकाण्डगौरी सर्वालंकारविभूषिता श्वेतवस्त्रा पद्महस्ता समाश्वासयंती। ततः शुचिना विद्याधरेण आर्याष्टाङ्गोपवसितेन शुचौ सधातुके तथागतस्थाने क्षीरयावकाहारेण श्वेतवस्त्रप्रावृतेनात्मद्वितीयेन अष्टम्यां पूर्वसेचं कृत्वा नानापुष्पगन्धधूपदीपैः पूजां कृत्वा त्रिस्कृत्वा त्र्यष्टशतिको जापो दातव्यः। एकैकं सुमनःपुष्पं जाप्य त्र्यष्टशतैः सा प्रतिमा आहर्तव्या तथागतस्य वज्रपाणेश्च पूर्वतरं पुष्पधूपगन्धं दातव्यम्। बलिपायसदध्योदनं नानारसं नानामद्यं चतुर्दिशे क्षेप्तव्यम्। पूर्णपञ्चदश्यामनेनैव विधिना बलिः अन्या[नि] च यथालाभेन धूपकर्पूरकुन्दुरुकचन्दनम्रक्षं दातव्यम्। सुगन्धतैलेन द्वौ दिपौ दातव्यौ। तत्राहं स्वरूपेणोपतिष्ठामि। यथेप्सितं वरं दास्यामि समाधिलाभमाकाशगमनमन्तर्धानं राजत्वं बल-चक्रवर्तित्वं विद्याधरत्वं निधिवादं धातुवादं परचित्तज्ञानं दीर्घायुष्कत्वम्। सर्वसत्त्वानां मैत्रचित्तेन भवितव्यम्। मानक्रोधधेर्ष्यामात्सर्यपरिवर्जितेन स्तौपिक-धार्मिक-सांघिकार्थापहार-परिवर्जितेन भवितव्यम्। तथागतानामभेद्यप्रसादेन [भवितव्यम्]। यदि चाहं भगवन् पञ्चानन्तर्यं करिष्यामि त्रिभिः साधनैर्न समन्वाहेरयं मा चाहं भगवन्ननुत्तरां सम्यक्‍संबोधिमभिसंबुध्येयं सचे बुद्धे अप्रसादलब्धो भवे यश्च विमतिप्राप्तो यश्चं पापमकुशलं कृत्वा न विरतिमनुगृण्हाति क्लेशोपक्लेशचित्तस्तस्याहं चापि दर्शनं दास्यामि लाभमपि करिष्यामि।



अथ भगवान् साधुकारमदात्। साधु साधु भगिनि। साधु खलु पुनस्त्वं भगिनि यत्त्वया सर्वसत्त्वानामर्थाय पापसमाचारेषु सत्त्वेषु इमा एवंरूपा मन्त्रपदा भाषिताः प्रतिज्ञा कृता। शक्ष्यसि त्वमनया एवंरूपया महाकरुणया सर्वसत्त्वाननुत्तरायां सम्यक्‍संबोधौ प्रति[ष्ठा]पयितुम्। एवमेव त्वयापि करणीयम्।



अथ शंखिनि महादेवी भगवन्तं नानापुष्पैर्नानागन्धैरभ्यर्च्य प्रदक्षिणीकृत्य पादर्योनिपत्य भगवन्तमेतदवोचत्। अहमपि भगवंस्तथागताधिष्ठानेन प्रतिज्ञां करिष्यामि तथागतशासनचिरस्थित्यर्थम्। तेषां च धर्मभाणकानां धर्मश्रावणिकानां सर्वाशापरिपूरकराणि मन्त्रपदानि दास्यामि। रक्षायै तन्मे भगवान् अनुजानातु।



नमो नमः सर्वतथागतानाम्। ॐ शंखिनि देवि आगच्छ आगच्छ। तिष्ठ धने धनजये। वृ वृ वृद्धिकरि। धृ धृ धृतिकरि। नानाविविधवेशवस्त्रायुधधारिणि। यु यु आयुष्पालनि। तथागतानां स्मर बोधिचित्तं मा विलम्ब। देहि मे वरम्। शंखिनि स्वाहा।



इमैर्मन्त्रपदैः स भगवन् कायगतैर्यशोवृद्धिमनुप्राप्स्यति। तेजोवृद्धिं भोगवृद्धिम् ऐश्वर्यवृद्धिं दीर्घायुष्कतां शत्रुवशीकरणवृद्धिमनुप्राप्स्यति। अष्टशतजप्तेन यथालाभेन बलिं दत्त्वा चतुर्दिशे धूपं कुन्दुरुकं तथागतस्योदारतरपूजा कर्तव्या। दीपो दातव्यः। एकविंशतिदिवसानि मैत्रविहारिणा नियमस्थेन भवितव्यम्। ततः सर्वाभिप्रायं परिपूरयिष्यामि सद्धर्मप्रतिक्षेपकं स्थाप्य। शुचौ प्रदेशे कर्तव्यं देवायतने वा। अथ भगवान् सा च यथासमागता पर्ष साधुकारमदात्। साधु साधु भगिनि। सुभाषितमिदम्। प्रतिज्ञा बहुगुणसमन्वागता। एवमेव त्वमपि करणीयमनागतेऽध्वनि।



VI

अथ खलु भीमा महादेवी सुवर्णपुष्पैर्भगवन्तमभ्यर्च्य भगवतश्चरणयोर्निपत्य भगवन्तमेतदवोचत्। अहमपि भगवंस्तेषां धर्मभाणकानां धर्मश्रावणिकानां तेषां च लेखकानां तेषां च धारकाणां वाचकानां पूजकानामर्थाय सर्वाशापरिपूरकराणि हिरण्यमणिमुक्ता भोगैश्वर्यराजत्वदीर्घायुष्कराणि शत्रुवशीकरणानि मन्त्रपदानि दास्यामि। यः कश्चि राजा वा राज्ञी वा भिक्षुभिक्षुण्युपासकोपासिका वा धारयिष्यन्ति सत्‍करिष्यन्ति लिखिष्यन्ति लिखापयिष्यन्ति तथागतगुरुगौरवेण प्रतिप्रत्त्या यथोपदिष्टाः प्रतिपत्‍स्यन्ते तस्याहं भगवन् रक्षिष्यामि परिपालनं करिष्यामि यथोचितं वरं दास्यामि भोगैश्वर्यैरवैकल्यं करिष्यामि विवादयुद्धडिम्बडमरे जयं करिष्यामि। आयुःसंपदमुपसंहरिष्यामि। तस्य च विषयस्य नगरस्य परिपालनं करिष्यामि। तन्मे भगवाननुजानातु।



नमः सर्वतथागतानां सर्वबोधिसत्त्वानाम् आर्यावलोकितेश्वरवज्रपाणिप्रभृतीनाम्।



ॐ महादेवि भीमे भीममते। जये जयावहे। यशजवे तेजजवे। व्याकरणप्राप्ते सर्वसत्त्वावलोकने कृपतेजबहुले तथागतानुज्ञातं पालय। स्मर प्रतिज्ञाम्। बुद्धाधिष्ठानेन देहि मे वरम्। सिद्धिं कुरु। देवि महादेवि सत्यवचनदेवि भीमे सत्यवचनप्रतिष्ठिते गुह्यनिवासिनि स्वाहा।



इमानि तानि भगवन् मन्त्रपदानि तथागताधिष्ठितानि तथागतानुज्ञातानि मया भाषितानि सत्त्वानामर्थाय। यं यमेव कामं मनसिकृत्वा जपिष्यते तथागतस्य पुरतः पुष्पधूपगन्धदीपैः पूजां कृत्वा पायसरसबलिं चतुर्दिशे दत्त्वा तं तमेव अष्टशतजापेन सर्वाशां परिपूरयिष्यामि। यः कश्चि मां स्वरूपेणाभिकांक्षी भवे तेन अच्छिन्नदशे केशापगते अश्लेषैरङ्गैर्नवभाजनस्थैरष्टस्याम् आर्याष्टांगपरिगृहीतेन चित्रकरेण चित्रापयितव्या शरकाण्डगौरी सर्वालंकारविभूषितांगी श्वेतवस्त्रा मध्ये तथागतप्रतिमा ध[र्म देश]यमाना दक्षिणेनार्यावलोकितेश्वरः सांकथ्यं कुर्वन् वामपार्श्वे भीमा महादेवी कुण्डिगनेतृकपरिगृहीता समाश्वासयन्ती। ततोऽष्टम्यां पूर्वसेचं कृत्वा पुष्पधूपगन्धमाल्यविलेपनैः सधातुके चैत्यस्थाने बलिपायसदध्योदनं चतुर्दिशे यावत् पूर्णपञ्चदशीं शूचिना विद्याधरेण उदारतरां पुष्पधूपगन्धदीपैः पूजां कृत्वा बलिं दत्त्वा नानारसैरन्यानि च यथालाभेन शुक्लबलिं दत्त्वा सर्वसत्त्वानां मैत्रचित्तेन दयाचित्तेन भूत्वा जातीपुष्पा[णाम]ष्टभिः शतैः सा प्रतिमा आहर्तव्या। एकैकं जप्य तत्राहं स्वरूपेणोपतिष्ठिष्यामि यथेप्सितं वरं दास्यामि राज्यैश्वर्यम् आकाशगमनं निधिवादं धातुवादं विद्याधरत्वम् अन्यानि च यथेप्सितानि कर्माणि करिष्यामि अकालमृत्यु-प्रतिषेधनं सर्वरोगप्रशमनं परचक्रप्रमर्दनं पुत्रलम्भम् अर्थागमनं प्रीतिं सर्वसत्त्वेषु। यदि चाहं भगवन् पञ्चानन्तर्यं करिष्यामि न सर्वाशां परिपूरयेयं मा चाहं भगवन्ननुत्तरां सम्यक्संबोधिमभिसंबुध्येयं सद्धर्मप्रतिक्षेपकं स्थाप्य यश्च विचिकित्‍साप्राप्तो बुद्धधर्मसंघे। भगवानाह। साधु साधु भगिनि साधु खलु पुनस्त्वं भगिनि यत्त्वं सर्वसत्त्वानां हिताय सुखाय प्रतिपन्ना अस्यैव च धर्मपर्यायस्य चिरस्थित्यर्थं प्रतिपन्ना। तेन हि भगिनि नित्यमेव इमाः प्रतिज्ञास्त्वया नित्यमेव समन्वाहर्तव्याः। अथेयं महापृथिवी तस्मिन् समये प्रचचाल दिव्यञ्च कुसुमवर्षमभिप्रावर्षत्। सा च सर्वावती पर्षत् साधुकारमदात्। साधु साधु सुभाषितमिदम्। प्रतिज्ञा सर्वसत्त्वानां सर्वाशापरिपूरिका भविष्यति।



VII

अथार्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः पुनर्भगवन्तमेतदवोचत्। किं पुनर्भगवन् स कुलपुत्रो वा कुलदुहिता वा लिखन-वाचन-लिखापन- संप्रकाशन-पठन-स्वाध्ययन-पूजनसंप्रकाशनया पुण्यमनुप्राप्स्यति इमस्य धर्मपर्यायस्य। भगवानाह। तेन हि त्वामेवार्यावलोकितेश्वर परिप्रक्ष्यामि यथे ते क्षमं तथा व्याकुरु। अवलोकितेश्वर आह। भगवानेव व्याकुरुतां नास्ति तथागतस्य अदृष्टं वा अश्रुतं वा अविज्ञातं वा। भगवानाह। यश्च कुलपुत्र अस्य धर्मपर्यायस्य लिखन-लिखापन-वाचन-पूजन-संप्रकाशन-पठन-स्वाध्ययनात् पुण्यमनुप्राप्स्यति स उपमेनापि न शक्यं वर्णयितुम्। तत् कस्य हेतोः। सर्वसत्त्वानां यथाभिप्रायपरिपूरकम्। दानं दत्त्वा ते सत्त्वा अपरिमुक्ता एव भवन्ति जरा-व्याधि-मरण-शोक-परिदेव-दुःख-दौरमनस्योपायासेभ्यः। वर्षतसहस्रं पञ्चभिः कामगुणैः क्रिडापयित्वा अपरिमुक्ता एव ते सत्त्वा भवन्ति नरकतिर्यग्योनियमलोकप्रेतविषयेषु पुनरपि दुःखान्यनुभवन्ति। अस्य धर्मपर्यायस्य श्रवणं सत्त्वेभ्यः कृत्वा पूजनं संप्रकाशनं[च]कृत्वा अर्थं चास्यावश्रुत्य प्रतिपत्त्या प्रतिपद्य परिमुक्ता एव भवन्ति जातिजराव्याधि-मरण-शोक-परिदेव-दुःख दौर्मनस्योपायासेभ्य सर्वनरकतिर्यग्योनियमलोकेभ्यः। तस्मात् तथागत अयं पुण्यस्कन्ध उपमेनापि प्रमाणं न कुर्वन्ति। यश्च कुलपुत्र अस्य च धर्मपर्यायस्योद्दिश्य सर्षपफलमात्रकं च हिरण्यस्य एकपुष्पं वा एकफलं वा एकपताकां वा वाद्यं वा गन्धं वा वस्त्रं वा आसनं वा आभरणं वा परित्यजे लिखे लिखापये धारये वाचये पूजये सत्‍करे परेभ्यश्च विस्तरेण संप्रकाशये तं च धर्मभाणकं वाचये पूजये यश्च तिष्ठते तथागते संमुखपूजया सपर्ष पूजये मानये सर्वसुखोपधानेन वर्षशतसहस्रमुपतिष्ठे गन्धमाल्यविलेपनैर्ध्वजपताकाभिर्विहारचंक्रमोद्यानं कारापये अर्धयोजनोच्छ्रितं सप्तरत्नमयं स्तूपं कारये शतं वा सहस्रं वा तथागत [मुद्दिश्य]तांश्च दिव्यपूजया पूजये वर्षशतसहस्रम् अयं च ततो बहुतरपुण्यसंस्कारं स्या। अस्य धर्मपर्यायस्य लिखन-लिखापन-धारण-पठन-पूजन-संप्रकाशनया न इमां तथागतसंमुखपूजां न त्वेव सत्त्वेभ्यो दानं दत्त्वा पञ्चभिः कामगुणः क्रीडापयित्वा। तस्मात्तर्हि तैश्च कुलपुत्रैः कुलदुहितृभिर्वा राजराजपुत्रमहामात्रामात्यैर्वा सततस्मितमयं धर्मपर्यायः पूजयितव्यः। तथागतसंज्ञा एवोत्‍पादयितव्या। तेषां कल्याणमित्राणां य इमं धर्मपर्यायं श्रावयति कथयति अर्थं चास्योपसंहरति तः सत्‍कृत्य अयं धर्मपर्यायः श्रोतव्य उदग्रहीतव्यो धारयितव्यो वाचयितव्यो मनसि कर्तव्यः। एवं चित्तमुत्‍पादयितव्यम्। लाभा अस्माभिः सुलब्धाः। योऽस्माभिः श्रुतम् अपथगामिनां पथमुपदर्शयति अनर्थे अर्थसंज्ञिनाम् अनित्ये नित्यसंज्ञिनाम् असुखे सुखसंज्ञिनां यदस्माभिर्नरकतिर्योग्योनियमलोकपरिमोक्षणार्थं तथागतकृत्यं कृतम्। अवलोकितेश्वर आह। महाकृत्येन तथागतकृत्येन इमं धर्मपर्यायं सर्वसत्त्वानां प्रकाशितम्।



भगवानाह। अयं च कुलपुत्र धर्मपर्यायः पश्चिमे काले पश्चिमे समये दक्षिणापथे प्रचरिष्यति तत्रापि भिक्षुभिक्षुण्युपासकोपासिकाराजराजपुत्रमहामात्रामात्या भाजनीभूताः पूजका धारका वाचका भविष्यन्ति श्रद्धास्यन्ति पत्तीष्यन्ति। स चे उत्तरपूर्वपश्चिमायां प्रचरे तत् परकर्माभियुक्तास्ते सत्त्वा भविष्यन्ति न श्रोष्यन्ति श्रद्धास्यन्ति न पत्तीष्यन्ति न पूजयिष्यन्ति हीनवीर्यनष्टस्मृतयो नानाव्याक्षेप-कुटम्बदासदासीभोगैश्वर्य-हास्यलास्यनाट्यनृत्यगीतेर्ष्यामात्सर्यस्मृतयो न श्रोष्यन्ति न पत्तीष्यन्ति नपूजयिष्यन्ति ते अपरिमुक्ता एव जरा-व्याधि-मरण-शोक-परिदेव-दुःखदौर्मनस्योपायासेभ्य प्रेतयमलोकविषयेभ्यो भविष्यन्ति। तस्मात्तर्हि तैः कुलपुत्रैः कुलदुहितृभिर्वा सर्वापायैरात्मानं परिमोक्तुकामेन सत्‍कृत्य अयं धर्मपर्यायः पूजयितव्यो धारयितव्यः सत्‍कर्तव्यः परेभ्यः संप्रकाशतितव्यो मनसा धारयितव्यः। डिम्बडुमरदुःस्वप्नदुर्निमित्तेषु अकालमृत्यु-गोमर-पशुमर-मानुषमरेभ्यो नानाव्याधिभयोपद्रवेभ्य इमं धर्मपर्यायं पूजयित्वा वाचयितव्यः ध्वजे वा उच्छ्रपितं कृत्वा पूजयित्वा नानागन्धपुष्पधूपवाद्यैः प्रचेष्टव्यः। चतुर्दिशे बलिं ईत्त्वाभिनमस्कृत्य पुष्पधूपगन्धैः सर्व इत्युपद्रवाः प्रशमं यास्यन्ति।



अथ भगवान् तस्यां वेलायामिमा गाथा अभाषत।

[सर्वस्य सत्त्वस्य अनुग्रहार्थं]

या भाषिता पूर्वभवेषु नायकैः।

[अहं तथा त्वामपि देशयिष्ये]

गृण्हाहि आनन्द इमं समाधिम्॥१॥



यश्चैव त्रैधातुकदानु दद्या

सप्तान रत्नान च पूरयित्वा।

बुद्धेषु धर्मेषु सदाप्रमत्तः

उपमापि तस्य न स भोन्ति दानम्॥२॥



यश्चैव बुद्धेष्वभिश्रद्दधित्वा

विहारकारापयि चैत्यकानि।

यश्चैव सूत्रं[च] धरेति कश्चि

अयं ततो बहुतरु पुण्यु भेष्यते॥३॥



यश्चापि एकं क्षिपयेत पुष्पं

वस्त्रं च माल्यं च विलेपनं तथा।

इमं समाधिं च[य] सत्‍करेत

नायं ततो बहुतरु पुण्यु भोति॥४॥



यश्चापि कार्षापणु दानु दद्या

इमस्य सूत्रस्य च पूजनार्थम्।

जनित्वा बोधाय च मैत्रचित्ते

अयं ततो बहुतरु पुण्यु प्राप्नुया॥५॥



यश्चापि सत्त्वेषु इमं समाधिं

प्रकाशये देशयि बोधिसत्त्वः।

प्रतिपादये बोधिमनुत्तरे तथा

उपमापि पुण्यंपि न तस्य भोति॥६॥



इमं च श्रुत्वा तथ आनुशंसाः

कृत्वा च मैत्रं तथ सर्वसत्त्वैः।

तस्मापि सूत्रम् इमु धारयेत

लिखेत वाचेत तथा प्रकाशये॥७॥



जराव्याधिमृत्यु [भिस्तथातितीव्रैः

शतैश्चदुःखैः] परिपीडिताश्च।

उपपद्यमाना नरकेषु प्रेतयो

मा पश्चकाले परीताप्यु भेष्यथ॥८॥



स मृत्युकाले भयभीतमानसः

अभीक्ष्णमुच्छ्वासनमुच्छ्वसन्तः।

कोस्माभि त्राणं भवते परायणं

मुखे मुखं प्रेक्षति बालबुद्धिः॥९॥



[यस्मा तथागतमभिपूजयित्वा]

बौद्धं च धर्मं तथ सांघिकञ्च।

हरिष्य नेष्ये यमलोकि दारुणे

न तस्य त्राणं सद कश्चि भेष्यति॥१०॥



न पुत्रदारं न च मित्रबान्धवान्

न चापि राष्ट्रं न च हास्यलास्यम्।

धनं न धान्यं न च वस्त्रभूषणं

सर्वं जहित्वा पुन दुःखदारुणम्॥११॥



इमं समाधिं न च श्रद्दधित्वा

तथा [च दुःखं] दारुणं वेदयते।

इम दुःखु श्रुत्वा इमु आनुशंसाः

को बालबुद्धिर्न जने प्रसादम्॥१२॥



तस्माच्च तैर्हि सद भिक्षुभिक्षुणी

उपासकोपासिकराजभिः सदा।

इमं च सूत्रं सद धारयित्वा

सत्‍कारु नित्यं च कर्तव्यधारके॥१३॥



अथायुष्मानानन्दो भगवन्तमेतदवोचत्। उद्‍गृहीतं मया भगवन् इमं धर्मपर्यायं शास्तृसंज्ञया धारयिष्यामि पूजयिष्यामि सर्वसत्त्वेभ्यः संप्रकाशयिष्यामि। भगवानाह। यदि त्वमानन्द यन्मया धर्मो भाषितः श्रुतो धारयितुं तत् सर्वं न धारये न वाचये न पूजये न वैस्तारिकीकुर्या त्वया मम नापराध्ये न चाशुश्रूषा कृता भवे न चाश्रावकत्वम्। यश्च इमं धर्मपर्याय न धारये न वाचये न पूजये न संप्रकाशये न मनसिकुर्या स माम् अपराध्ये अशुश्रूषा कृता भवे अश्रावकत्वं भवे। तस्मात्तर्हि त्वमानन्द सत्‍कृत्य अयं धर्मपर्यायो धारयितव्यः। अयं ते तथागतस्यानुत्तरसम्यक्‍संबोध-तथागतकृत्यं करिष्यति पश्चिमे काले पश्चिमे समये सर्वसत्त्वानाम्।



अस्मिन् खलु पुनर्धर्मपर्याये भगवता भाष्यमाणे षष्टीनां प्राणिसहस्राणामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि सप्तानां शतानां बोधिसत्त्वसमाधिप्रतिलंभोऽभूत्। पञ्चानां शतानां नानाबुद्धक्षेत्रव्याकरणप्रतिलंभोऽभूत्। नवतीनां प्राणिसहस्राणां सर्वक्लेशविनिर्मुक्ताः सर्वाक्षणापायदुर्गतयः प्रहीणाः।



अथार्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः पुनर्भगवन्तमेतदवोचत्। अयं भगवन् धर्मपर्यायः पश्चिमकाले पश्चिमसमये तेषां कुलपुत्राणां श्रोतॄणां धारयितॄणां मानयितॄणां तेषां च लेखकानां तथागतकृत्यं करिष्यति। व्याकृतास्ते यथेप्सितेषु नानाबुद्धक्षेत्रेषु। ये च सत्त्वाः पश्चिमे काले पश्चिमे [सम]ये हास्यनाट्यगीतवादितेषु नानाव्याक्षेपबहुला रागद्वेषमोहान्धा रतिक्रीडासंज्ञिनः अनित्ये नित्यसंज्ञिनः ईर्ष्यामात्‍सर्यदौःशील्यपरिगृहीता न पूजयिष्यन्ति न मानयिष्यन्ति न श्रद्धास्यन्ति न पत्तीयिष्यन्ति न धारयिष्यन्ति न श्रोष्यन्ति न प्रतिपत्त्या प्रतिपत्‍स्यन्ते। ते तं पूर्वकर्मशुभफलं परिक्षेपं कृत्वा नानादुःखदौर्मनस्यं नारकं दुःखमनुभविष्यन्ति। ततस्ते अनेकानि कल्पकोटीशतानिदुःखमनुभवित्वा नरकतिर्यग्योनियमलोकेषु वोपपत्‍स्यन्ते। दीर्घरात्रमकल्याणमित्रवशाः पश्चानुतापिनो भविष्यन्ति इमं क्षणं विरागयित्वा। तस्मात्तर्हि काय[वाङ्म]नःसंवरेण भवितव्यम्। बुद्धधर्मसंघे [अ]भेद्यप्रसादेन सर्वसत्त्वेषु मैत्रचित्तेन ईर्ष्यामात्सर्यदौःशील्यचित्तपरिवर्जितेन क्रोधपरिवर्जितेन भवितव्यम्।



अथ सा यथासमागता पर्ष तैस्तैः पुण्याभिसंस्कारैः तथागतं पूजयति स्म। दिव्यपुष्पगन्धमाल्यविलेपनवस्त्राभरणैः किलिकिलि प्रक्ष्वेडितशब्दैश्च दिव्यतूर्यताडावचरसंगीतेः साधुकारं प्रददौ। तद् यथा साधु साधु भगवन् सुभाषितमिदं महाधर्मपर्यायं सर्वसत्त्वानामर्थाय तथागतशासनचिरस्थित्यर्थम्।



अथायुष्मानानन्दो भगवन्तमेतदवोचत्। किंनामायं भगवन् धर्मपर्यायः कथं च वयं भगवन् धारयामः। भगवानाह। तस्मात्तर्हि त्वमानन्द इमं धर्मपर्यायं सर्वतथागतज्ञानबोधिसत्त्वभूमिक्रमणमित्यपि नाम धारय। ऋद्धिविकुर्वाणमहात्मसन्निपातमित्यपि नाम धारय। सर्वतथागताधिष्ठानसत्त्वावलोकनबुद्धक्षेत्रसन्दर्शनव्यूहमित्यपि नाम धारय। इदमवोचद् भगवान्। आत्तमनाः आर्यावलोकितेश्वरमंजुश्रीवज्रपाणिप्रभृतयः सर्वे बोधिसत्त्वा महासत्त्वाः सर्वे च महाश्रावकाः सर्वे च शक्रब्रह्मलोकपालाश्चत्वारश्च महाराजा महायक्षिण्यः अनौपम्या विमलप्रभा [प्रभावती-भीमा-श्री-शंखिनी-हरिता-महादेवी-]प्रभृतयो देवनागयक्षगन्धर्वासुर[गरुडकिन्नरमहोरगाः]। सा च सर्वावती पर्षयथासमागता भगवतो भाषितमभिनन्द्य [साधुकारमदात्। साधु साधु भगवन्]। [इति सर्वतथागताधिष्ठानसत्त्ववलोकनबुद्धक्षेत्रसन्दर्शनव्यूहम् नाम महायानसूत्रम्]।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project