Digital Sanskrit Buddhist Canon

परीन्दनापरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Parīndanāparivartaḥ
परीन्दनापरिवर्तः।



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

विपुला बुद्धधर्मा हि विपुलो देशितो नयः।

विपुलं धर्म देशित्वा विपुलांल्लभते गुणान्॥ १॥

यथा विपुलमाकाशमेवं धर्माण लक्षणम्।

रत्नानि विपुलान्यत्र तस्माद्वैपुल्यमुच्यते॥ २॥

विपुला चरि सत्त्वानां विपुला तेषु देशिता।

विपुलो आगमो यस्य तस्माद्वैपुल्यमुच्यते॥ ३॥

अस्मिन् खलु पुनः सर्वधर्मस्वभावसमताविपञ्चितसमाधिनिर्देशे धर्मपर्याये भाष्यमाणे अप्रमेयैः सत्त्वैरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि, अप्रमेयाश्च सत्त्वा अवैवर्तिका अभूवन्ननुत्तरायां सम्यक्संबोधौ। अप्रमेयाणां च सत्त्वानां प्रत्येकबोधौ चित्तमुत्पन्नम्। अप्रमेयाणां च सत्त्वानामर्हत्त्वफलसाक्षात्क्रियायां चित्तान्युत्पन्नानि। अयं च त्रिसाहस्रमहासाहस्रलोकधातुः षडविकारं कम्पितः प्रकम्पितः संप्रकम्पितः। चलितः प्रचलितः संप्रचलितः। वेधितः प्रवेधितः। संप्रवेधितः। क्षुमितः प्रक्षुभितः संप्रक्षुभितः। रणितः प्ररणितः संप्ररणितः। गर्जितः प्रगर्जितः संप्रगर्जितः। पूर्वा दिगवनमति पश्चिमा दिगुन्नमति। पश्चिमा दिगवनमति पूर्वा दिगुन्नमति। उत्तरा दिगुन्नमति दक्षिणा दिगवनमति। उत्तरा दिगवनमति दक्षिणा दिगुन्नमति। अन्तादवनमति मध्यादुन्नमति। मध्यादवनमति अन्तादुन्नमति। अप्रमेयस्य चावभासस्य लोके प्रादुर्भावोऽभूत्। महच्च दिव्यगन्धवर्षमभिप्रावर्षत्। देवताश्च महान्तं दिव्यं पुष्पवर्षमुत्सृजन्ति स्म। दिव्यानि च तूर्यशतसहस्राण्युपर्यन्तरीक्षे भ्रामयन्ति। एवं च वाचमभाषन्त-



सुलब्धा लाभास्तेषां सत्त्वानां य इमं महाकरुणावतारधर्मपर्यायं श्रोष्यन्ति। बहुबुद्धपर्युपासितास्ते सत्त्वा भविष्यन्ति य इमं सर्वधर्मस्वभावसमताविपञ्चितसमाधिं पुनः पुनः श्रोष्यन्ति, श्रुत्वा च लिखिष्यन्ति उद्ग्रहीष्यन्ति धारयिष्यन्ति पर्यवाप्स्यन्ति अरणाभावनया भावयिष्यन्ति, बहुलीकरिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति। सर्वसत्वानां ते दक्षिणीया भविष्यन्ति॥



अथ खलु भगवानायुष्मन्तमानन्दमामन्त्रयते स्म-उद्गृह्वीष्व त्वमानन्द इमं धर्मपर्यायं धारय वाचय पर्यवाप्नुहि, परेषां च विस्तरेण संप्रकाशय। अथ खल्वायुष्मानानदो भगवन्तमेतदवोचत्-को नामायं भगवन् धर्मपर्यायः, कथं चैन धारयामि? भगवानाह-महाकरुणावतारो नामानन्द इदं सूत्रं धारय। सर्वधर्मसमताविपञ्चितो नाम समाधिरिति धारय। आनन्द आह-उद्गृहीतो मे भगवन्नयं धर्मपर्याय इति॥

इदमवोचद् भगवान्। आत्तमनाश्चन्द्रप्रभः कुमारभूत आयुष्मांश्चानन्दः ताश्चतस्रः पर्षदो भिक्षुभिक्षुण्युपासकोपासिकाः अनेके च शुद्धावासकायिका देवपुत्राः सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति॥

इत्यार्यसर्वधर्मस्वभावसमताविपञ्चितात् समाधेर्यथालब्धं समाधिराजं नाम महायानसूत्रं (परिवर्तो नाम चत्वारिंशतितमं) समाप्तम्॥ ४०॥



ये धर्मा हेतुप्रभवा हेतुस्तेषां तथागतो ह्यवदत्।

तेषां च यो निरोध एवं वादी महाश्रमणः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project