Digital Sanskrit Buddhist Canon

कायवाङ्भनःसंवरपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Kyavāṅbhanaḥsaṁvaraparivartaḥ

कायवाङ्भनःसंवरपरिवर्तः।



तस्मात्तर्हि कुमार कायसंवरसंवृतो भविष्यामीत्येवं त्वया कुमार शिक्षितव्यम्। तत्र कुमार कतमः कायसंवरः ? येन कायसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वधर्मेष्वसङ्गज्ञानं प्रतिलभते, अयमुच्यते कुमार कायसंवर इति। येन कायसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो द्वात्रिंशन्महापुरुषलक्षणानि प्रतिलभते, अयमुच्यते ------ इति। येन ------ महासत्त्वो दश तथागतबलानि चत्वारि वैशारद्यानि अष्टादशावेणिकान् बुद्धधर्मान् प्रतिलभते, अयमुच्यते ---- इति। येन ---- महासत्त्वस्त्रीणि विमोक्षमुखानि प्रतिलभते। कतमानि त्रीणि ? यदुत शून्यतामनिमित्तमप्रणिहितम्। इमानि त्रीणि विमोक्षमुखानि, अयमुच्यते ---- इति। येन ---- महासत्त्वश्चतुरो ब्राह्मान् विहारान् प्रतिलभते। कतमांश्चतुरः ? यदुत मैत्रीं करुणां मुदितामुपेक्षां इमांश्चतुरो ब्राह्मान् विहारान्, अयमुच्यते ---- इति। येन---- महासत्त्वश्चतस्रः प्रतिसंविदः प्रतिलभते। कतमाश्चतस्रः ? यदुत अर्थप्रतिसंवित् धर्मप्रतिसंवित् निरुक्तिप्रतिसंवित् प्रतिभानप्रतिसंवित्। इमाश्चतस्रः प्रतिसंविदः, अयमुच्यते---- इति। येन महासत्त्वः सप्तत्रिंशद्बोधिपक्षान् धर्मान् प्रतिलभते। कतमान् सप्तत्रिंशत् ? यदुत चत्वारि स्मृत्युपस्थानानि। चत्वारि सम्यक्प्रहाणानि। चतुर ऋद्धिपादान्। पञ्चेन्द्रियाणि। पञ्च बलानि। सप्त बोध्यङ्गानि। आर्याष्टाङ्गकं मार्गम्। इमान् सप्तत्रिंशद्बोधिपक्षान् धर्मान् प्रतिलभते। अयमुच्यते ---- इति। येन ---- महासत्त्वो महाकरुणाविहारं प्रतिलभते। महोपेक्षाविहारं प्रतिलभते, क्षेमांश्च वितर्कान् प्रतिलभते। प्रविवेकांश्च धर्मान् प्रतिलभते। अयमुच्यते कायसंवर इति॥



पुनरपरं कुमार येन कायसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः प्राणातिपातात्

प्रतिविरतो भवति। अदत्तादानात् अब्रह्मचर्यान्मृषावादात् पिशुनवचनात् परुषवचनात् संभिन्नप्रलापात् अभिध्यायादू व्यापादन्मिथ्यादृष्टेः प्रतिविरतो भवति। तुलाकूटान्मानकूटात्कांस्यकूटात् कर्षणबन्धनरोधनताडनच्छेदनभेदनविपरामोषालोकसाहसेभ्यः प्रतिवरतो भवति। न हस्तलोलः न पादलोलो हस्तपादसंयतः। तस्य सर्वं कायवाङ्भनोदौष्ठुल्यं प्रहीणं भवत्युच्छिन्नमूलं तालामस्तकवदायत्यामनुत्पादधर्मि। अयमुच्यते कुमार कायसंवर इति। तदनेनापि ते कुमार पर्यायेणैवं वेदितव्यम्॥



भूतपूर्वं कुमार अतीतेऽध्वन्यसंख्येये कल्पे असंख्येयतरे विपुले अप्रमाणे अचिन्त्ये अपरिमाणे यदासीत्। तेन कालेन तेन समयेन ज्ञानप्रभासो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। तेन खलु पुनः कुमार कालेन तेन समयेन तस्य भगवतो ज्ञानप्रभासस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य षष्टिवर्षकोट्यः आयुष्प्रमाणमभूत्। षष्टिरर्हत्कोट्यः श्रावकसंघोऽभूत्। अप्रमेयाश्च बोधिसत्त्वा महासत्त्वाः सद्धर्मपरिग्राहका अभूवन्॥



तेन च कुमार कालेन तेन समयेन राजाभूद्विशेषचिन्ती नाम। अथ खलु राजा विशेषचिन्ती अशीत्या प्राणिकोटिभिः सार्धं तथागतमुपसंक्रान्तः। उप्संक्रम्य तस्य तथागतस्य पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्यैकान्ते न्यषीदत्। एकान्तनिषण्णश्च राजा विशेषचिन्ती तं तथागतं पर्युपास्ते। अथ खलु कुमार ज्ञानप्रभासस्तथागतोऽर्हन् सम्यक्संबुद्धो राज्ञो विशेषचिन्तिनः सपरिवारस्याध्याशयं विदित्वा इतो धर्मपर्यायादिमं कायसंवरसमाधिमुखप्रवेशं गाथाभिगीतेन देशयति -

यथान्तरीक्षं गगनं विशुद्ध-

मत्यन्तशुद्धं प्रकृतिप्रभास्वरम्।

एमेव शुद्धो अयु कायसंवरो

न शक्यु घोषेण कदाचि देशितुम्॥ १॥

विविक्तु शून्यो अयु कायसंवरो

एतादृशे ते उभि कायलक्षणे।

अलक्षणास्ते यथ अन्तरीक्षं

तल्लक्षणो देशितु कायसंवरः॥ २॥

यो जानती संवरमेवलक्षणं

न तस्य जातु भवती नसंवरः।

ये चाप्रवृत्ताः कृतु तेष गोचरो

अनास्रवस्यो उपपत्ति नास्ति॥ ३॥

न शक्यु कामान् प्रतिसेवमानै

रूपेषु भोगेषु जहित्व तृष्णाम्।

भवेषु दोषानविजानमानै-

र्न शक्यु ज्ञातुमयु कायसंवरः॥ ४॥

अनास्रवं संवरु यः प्रजानते

न तस्य भोती उपपत्ति जातु।

अर्हन्तधर्मा इम एवरूपाः

न सुकरं जानितु तीर्थिकेभिः॥ ५॥

ये सर्वत्रैधातुकि त्रस्तमानसा

न कामभोगेषु स्पृहां जनेन्ति।

राज्येन भोगैश्च न जातु अर्थिका

ज्ञास्यन्ति ते ईदृश कायसंवरः॥ ६॥

अर्थो अयं वुच्चति कायसंवरो

अर्थश्च शब्देन न शक्यु देशितुम्।

यो जानती ईदृशु धर्मनेत्रीं

स संवरेऽस्मिन् भवति प्रतिष्ठितः॥ ७॥

अर्थे प्रयुक्तान मयार्थु देशितो

ये अर्थनेत्रीपरता विचक्षणाः।

अनर्थु वर्जेन्ति य अर्थयुक्ता

ते संवरेऽस्मिन् सततं प्रतिष्ठिताः॥ ८॥

अर्थो य उक्तो हि जिनान शासने

कथं स अर्थो भवती विजानतो।

यो अर्थनेत्रीय स्वभावु जानति

प्रतिष्ठितः सोच्यति कायसंवरे॥ ९॥

येनानिमित्तं भवती विजानितं

नैरात्म्यतः शून्यतु तुच्छतो वा।

न तस्य जातू भवति नसंवर-

स्तथाहि सो शिक्षितु भूतनिश्चये॥ १०॥

भावानभावानिति यः प्रजानति

स सर्वभावेषु न जातु सज्जते।

यः सर्वभावेषु न जातु सज्जते।

स आनिमित्तं स्पृशती समाधिम्॥ ११॥

विज्ञात येनेह निरात्मधर्माः

स्वभावशून्याः प्रकृतिप्रभास्वराः।

न तस्य जातु भवती असंवर-

स्तथाहि सो शिक्षितु भूतनिश्चये॥ १२॥

यो जानती शून्यत पञ्चस्कन्धान्

विदित्व नैरात्मस्वभावशून्यान्।

न तस्य जातु भवती असंवरो

यत् कर्म कायेन समाचरेत॥ १३॥

निमित्तग्राहिस्य असंवृतस्य

य आत्मसंज्ञाय सदा प्रतिष्ठितः।

रूपेषु आस्वादगतस्य जन्तुनः

प्रकुप्यते राग असंवृतस्य॥ १४॥

ये भूतकोटीय भवन्ति शिक्षिता

गतिंगताः सूरत शून्यतायाम्।

न तेष रागः पुन जातु कुप्यते

असंवरो येन व्रजेत दुर्गतिम्॥ १५॥

न शक्यु कम्पेतु यथा सुमेरु

अचालियः सर्वपिपीलिकैर्महान्।

तथा विदू भूतनयेषु शिक्षितो

रूपेहि दिव्यैरपि सो न कम्पते॥ १६॥

शक्येत रङ्गैर्गगनं विचित्रितुं

शक्येत चाकाश गृहीतु पाणिना।

न त्वेव शक्यं स विचालनाय

रागेण दोषेण न च मारकोटिभिः॥ १७॥

प्रतिश्रुका शक्यु गृहीतु केनचि-

च्छिला प्लवेदप्युदकस्य मध्ये।

द्रष्टुं न शक्यं त्विह तस्य आशया

यः शिक्षितो ईदृशि कायसंवरे॥ १८॥

यावन्त शब्दाः पृथु सर्वलोके

गृह्णित्व पेडागत शक्य कर्तुम्।

न तस्य शक्यं स्थितिरस्थितिर्वा

विजानितुं यः स्थितु कायसंवरे॥ १९॥

शक्यं प्रभा गृह्णितु सूर्यमण्डलात्

प्रगर्जतो मेघतु विद्युतो वा।

न तस्य कायस्य स्वभाव ज्ञातुं

यः शिक्षितः स्यादिह कायसंवरे॥ २०॥

जालेन पाशेन च शक्यु बन्धितुं

चतुर्दिशं वायति वातमण्डली।

न शक्यमाजानितु तस्य कायः

प्रतिष्ठितो यो इह कायसंवरे॥ २१॥

अगोचरोऽसाविह सर्वप्राणिनां

यत्र स्थितो यो विदु चित्तसंयमे।

यत्र स्थितो गोचरि कायसंवरे

न लिप्यते खमिव स लोकधर्मैः॥ २२॥

शक्यं पदं पश्यितु सर्वप्राणिनां

नमे चरन्तान पृथक् चतुर्दिशम्।

न तस्य कायस्य न चित्तगोचरो

प्रमाणु ज्ञातुमिह शक्य केनचित्॥ २३॥

एवं स्थितस्यो इह कायसंवरे

सर्वे न भोन्ति विविधाः किलेशाः।

प्रहीण तस्येह उपकिलेशा-

स्तथा ह्यसौ शिक्षितु कायसंवरे॥ २४॥

न तस्य अग्निः क्रमते न शस्त्रं

तथापि अग्राह्यु स तस्य कायः।

शन्तप्रशान्ते स्थितु सो समाधौ

तथा ह्यसौ शिक्षितु कायसंवरे॥ २५॥

एवं स्थितस्यो न भयं न त्रासो

न क्षोभु चित्तस्यु न चेर्ष्यु जायते।

मुक्तः स सर्वेभिरुपद्रवेभि-

र्यः शिक्षितो तादृश कायसंवरे॥ २६॥

विषस्य शस्त्रस्य न जातु भायति

न चाग्निमध्ये न जलस्य मध्ये।

सर्वेहि मुक्तः स उपद्रवेहि

य शिक्षितो ईदृश कायसंवरे॥ २७॥

चौराण धूर्तान च पापकारिणा-

माशीविषामध्यगतो न भायते।

तथा हि तस्यो विगतात्मसंज्ञा

संज्ञाविमुक्तस्य भयं न भोति॥ २८॥

भयैर्विमुक्तस्य न त्रासु जायते

असंत्रसन्तस्य न भोति इञ्जना।

अनिञ्जमानस्य कुतोऽस्ति त्रासो

न मारकोटीभि स शक्यु कम्पितुम्॥ २९॥

आचक्षितो देशितु संप्रकाशितो

यो बोधिसत्त्वस्य हिताय संवरः।

यः शिक्षते ईदृश कायसंवरे

सो भोति नो कम्पियु मारकोटिभिः॥ ३०॥

सर्वेषु धर्मेषु असंज्ञज्ञानं

पूर्णा अशीतिरनुव्यञ्जनानि।

द्वात्रिंश चो लक्षण चित्तशुद्धा

न दुर्लभा भोन्ति स्थितस्य संवरे॥ ३१॥

य इच्छते बुध्यितु बुद्धधर्मान्

अचिन्तियान् येष प्रमाणु नास्ति।

स शिक्षितु ईदृशुः कायसंवरे

भविष्यते चेतियु सर्वलोके॥ ३२॥

य इच्छते धर्ममिमं महर्षिणां

दशो बलान् बुद्धबलानचिन्तियान्।

स शिक्षितु ईदृश कायसंवरे

यः शिक्षितस्तस्य बला न दुर्लभाः॥ ३३॥

ये चापि अष्टादश बुद्धधर्मा

आवेणिका येषु जिना प्रतिष्ठिताः।

ते चापि तस्यो न भवन्ति दुर्लभा

यः शिक्षते ईदृश कायसंवरे॥ ३४॥

ये सप्त बोध्यङ्ग महामहर्षिणां

प्रतिसंविदश्चो तथ ऋद्धिपादाः।

ते चापि तस्यो न भवन्ति दुर्लभा

यः शिक्षते ईदृश कायसंवरे॥ ३५॥

ब्रह्माविहाराश्चतुरश्च ध्याना

विमोक्षद्वारास्त्रय संप्रकाशिताः।

क्षेमा वितर्का अथ प्राविवेक्या

न दुर्लभा भोन्ति स्थितस्य संवरे॥ ३६॥

करुणाविहारी तथुपेक्षलाभी

तथ ईर्यचर्यामिह मैत्रिवराम्।

हितचित्तु भोति च स सर्वजगे

यः कायसंवरि स्थितो भवति॥ ३७॥

स्मृती उपस्थान प्रहाण सम्यक्

पञ्चेन्द्रियाः पञ्च बला महर्षिणाम्।

आश्चर्य अष्टाङ्गिकु मार्गश्रेष्ठो

न दुर्लभो शिक्षितु कायसंवरे॥ ३८॥

ये चापि अन्ये वर बुद्धधर्मा

अचिन्तिया येष प्रमाणु नास्ति।

ते तस्य सर्वे न भवन्ति दुर्लभा

यः शिक्षते ईदृश कायसंवरे॥ ३९॥

श्रुत्वा इहो ईदृश कायसंवरे

विशेषप्राप्तो अभु राजपुत्रः।

तुष्टो उदग्रो अतुलाय प्रीतिया

स प्रव्रजी तस्य जिनस्य शासने॥ ४०॥

स प्रव्रजित्वा दश वर्षकोटी-

रचार्षि शुद्धं वर ब्रह्मचर्यम्।

भावेत्व ब्राह्मान् चतुरो विहारा-

नर्थाय लोकस्य सदेवकस्य॥ ४१॥

सुभाविता ब्रह्मविहार कृत्वा

अद्राक्षि बुद्धान अशीतिकोटियः।

ततोत्तरे यात्तिक गङ्गवालिका

इदं चरं सो वर ब्रह्मचर्यम्॥ ४२॥

सर्वेष चो शासनि प्रव्रजित्वा

अचार्षि शुद्धं वर ब्रह्मचर्यम्।

भिक्षु अभूषी वर धर्मभाणको

बहुश्रुतश्चो प्रतिभानवांश्च॥ ४३॥

अखण्डशीलश्च अच्छिद्रशीलो

विशुद्धशीलो अकल्माषशीलः।

आर्ये च शीले स अनास्रवे स्थितः।

प्रजानमानो इमु कायसंवरम्॥ ४४॥

सिया कुमारा तव अन्य सासीद्

विशेषचिन्ती तद राजकुञ्जरः।

न एव द्रष्टव्यमिहान्यु सोऽभू-

त्तदाहमासं चरमाणु चारिकाम्॥ ४५॥

तस्मात् कुमारा मम शिक्षमाणा

प्रतिष्ठिहेसी इह कायसंवरे।

अन्येष चो देशय प्राणकोटिनां

नचिरेण त्वं भेष्यसि यादृशोऽहम्॥ ४६॥



तस्मात्तर्हि कुमार परिशुद्धकायसमाचारो भविष्यामीत्येवं त्वया कुमार शिक्षितव्यम्। तत् कस्य हेतोः ? परिशुद्धकायसमाचारो हि कुमार बोधिसत्त्वो महासत्त्वो न निरयेभ्यो बिभेति। न तिर्यग्योनेर्न यमलोकान्न सर्वदुर्गतिभ्यो बिभेति। नोदकाद् बिभेति। न शस्त्रतो न सिंहेभ्यो न व्याघ्रेभ्यो न ऋक्षेभ्यो न हस्तिभ्यो नर्षभेभ्यो न मनुष्येभ्यो बिभेति। परिशुद्धकायसमाचारः कुमार बोधिसत्त्वो महासत्त्वः इममपि त्रिसाहस्रं महासाहस्रं लोकधातुं करतले कृत्वा तालमात्रं द्वितालमात्रं त्रितालमात्रं चतुस्तालमात्रं पञ्चतालमात्रं षट्तालमात्रं सप्ततालमात्रमुत्क्षिपेत्। यावन्तं वा पुनराकाङ्क्षेत्तावन्तमेवोत्क्षिपेत्॥



पुनरपरं परिशुद्धकायसमाचारः कुमार बोधिसत्त्वो महासत्त्व ऋद्धिप्रातिहार्ये परमपारमिप्राप्तो भवति। स ऋद्धिपादविपाकविशुद्धः पुण्यपरिगृहीतो विवेकविविक्तः सर्वत्रानुगत एतत्समाधिप्रतिलब्धः अनास्रवपुण्यपरिनिष्पन्नः सर्वलोकधातावप्रतिहतचक्षुः एवंरूपैः ऋद्धिप्रतिहार्यैः समन्वागतो भवति। तत्र कतमा ऋद्धिः ? यया ऋद्धया प्रार्थनासमृद्धिपरिनिष्पत्तिः। इयमुच्यते ऋद्धिरिति। तत्र कतमद् ऋद्धिप्रातिहार्यम् ? यया ऋद्धया समन्वागतो बोधिसत्त्वो महासत्त्व अनेकविधानृद्धिविषयान् प्रत्युनुभवति। एकोऽपि भूत्वा बहुधा भवति, बहुधापि भूत्वैको भवति। अविर्भावं तिरोभावमपि प्रत्यनुभवति। तिरःकुड्यं तिरःप्राकारः तिरःपर्वतमप्यसज्जमानो गच्छति। आकाशेऽपि क्रमते तद्यथापि नाम पक्षी शकुनिः। पृथिव्यामप्युन्मज्जननिमज्जनं करोति तद्यथापि नामोदके। उदकेऽप्यभिद्यमानो गच्छति तद्यथापि नाम पृथिव्याम्। धूमायत्यपि प्रज्वलत्यपि तद्यथापि नाम महानग्निस्कन्धः। इमावपि चन्द्रसूर्यावेवंमहर्द्धिकावेवंमहानुभावौ एवंमहौजस्कौ पाणिना परामृशति परिमार्जति। आकाङ्क्षमाणो यावद् ब्रह्मलोकादपि सत्त्वान् कायेन वशे वर्तयति॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत-

पृथिवीय उन्मज्ज निमज्ज गच्छती

अभिद्यमानो उदकेऽपि गच्छति।

पक्षी यथा गगनतलेन गच्छती

धूमायते प्रज्वलते च ऋद्धिया॥ ४७॥

यथान्तरीक्षस्मि न वायु सज्जते

गच्छन्ति चास्मिं बहवोऽभ्रकूटाः।

तथैव योगी गगनेन गच्छती

असज्जमानो यथ वातमेघः॥ ४८॥

यथा निषण्णो विदु योगि भोती

परिमार्जते पाणिन चन्द्रसूर्यौ।

आसन्न सो जानति ब्रह्मलोकं

ब्रह्माण कोटीन स धर्म देशयी॥ ४९॥

यदा च आकाङ्क्षति धर्म भाषितुं

महात्रिसाहस्र स विज्ञपेति।

आकाङ्क्षमाणो बहुक्षेत्रकोटिषु

देशेति धर्म बहुसत्त्वकोटिनाम्॥ ५०॥



तस्मात्तर्हि कुमार परिशुद्धकायसमुदाचारो भविष्यामीत्येवं त्वया कुमार शिक्षितव्यम्। तत् कस्य हेतोः ? परिशुद्धकायसमुदाचारो हि कुमार बोधिसत्त्वो महासत्त्वो दिव्येन श्रोत्रधातुना अतिक्रान्तमानुषकेण शब्दान् शृणोति दिव्यान् मानुष्यकांश्च। नैरयिकानामपि तिर्यग्योनिगतानामपि यामलौकिकानामपि। ये दूरे अन्तिके वा देवानां मनुष्याणां वा दूरावचराणां वा अन्तिकावचराणां वा॥



तस्मात्तर्हि कुमार परिशुद्धकायसमुदाचारो भविष्यामीत्येवं त्वया कुमार शिक्षितव्यम्। तत् कस्य हेतोः ? परिशुद्धकायसमुदाचारो हि कुमार बोधिसत्त्वो महासत्त्वः परसत्त्वानां परपुद्गलानां चेतसैव चेतःपरिवितर्कचरितानि यथाभूतं प्रजानाति। सरागं चित्तं सरागं चित्तमिति यथाभूतं प्रजानाति। वीतरागं चित्तं वीतरागं चित्तमिति यथाभूतं प्रजानाति। पेयालं। सदोषं वीतदोषं समोहं वीतमोहं सोपादानमनुपादानं संक्षिप्तं विक्षिप्तं विपरीतमविपरीतं सक्लेशं निष्क्लेशं महद्गतममहद्गतं प्रभास्वरमप्रभास्वरं सप्रमाणमप्रमाणं सोत्तरमनुत्तरं समाहितमसमाहितं विमुक्तमविमुक्तं ---- साङ्गणं चित्तं साङ्गणं चित्तमिति यथाभूतं प्रजानाति। अनङ्गणं चित्तमनङ्गणं चित्तमिति यथाभूतं प्रजानाति। इति हि सर्वसत्त्वानां परपुद्गलानां चेतसैव चेतःपरिवितर्कं यथाभूतं प्रजानाति॥



परिशुद्धकायसमुदाचारः कुमार बोधिसत्त्वो महासत्त्वः साकारं सोद्देशमनेकविधं पूर्वेनिवासमनुस्मरति। एकामपि जातिमनुस्मरति। द्वे तिस्रः पञ्च दश विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् जातिशतमप्यनुस्मरति। जातिसहस्रप्यनुस्मरति। जातिशतसहस्रमपि यावदनेकान्यपि कल्पकोटिनयुतशतसहस्राण्यनुस्मरति। संवर्तकल्पमप्यनुस्मरति विवर्तकल्पमपि। यावदनेकानपि संवर्तविवर्तकल्पाननुस्मरति। कल्पमप्यनुस्मरति कल्पशतमपि कल्पसहस्रमपि कल्पशतसहस्रमपि, यावदनेकान्यपि कल्पकोटीनयुतशतसहस्राण्यनुस्मरति। यावत् पूर्वान्तकोटीमप्यनुस्मरति। अमुत्राहमासमेवंनामा एवंगोत्र एवंजात्य एवंवर्ण एवमाहार एवमाजीव एवमायुष्प्रमाण एवंचिरस्थितिक एवंसुखदुःखप्रतिसंवेदी। ततश्च्युतः अमुत्रोपपन्नः। सोऽहं ततश्च्युत इहास्म्युपपन्न इति। साकारं सनिमित्तं सोद्देशमनेकविधं पूर्वेनिवासमनुस्मरति॥



परिशुद्धकायसमुदाचारः कुमार बोधिसत्त्वो महासत्त्वो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषकेण सर्वान् पश्यति च्यवमानानुपपद्यमानान् सुवर्णान् दुर्वर्णान् सुगतान् दुर्गतान् हीनान् प्रणीतान् सुगतिमपि गच्छतो दुर्गतिमपि गच्छतो यथाकर्मोपगान् सत्त्वान् यथाभूतं प्रजानाति इमे बत सत्त्वाः कायदुश्चरितेन समन्वागता वागदुश्चरितेन समन्वागता मनोदुश्चरितेन समन्वागता आर्याणामपवादका मिथ्यादृष्टिका मिथ्यादृष्टिकर्मसमादानहेतोः कायस्य भेदात् परं मरणादपायं दुर्गतिं विनिपातं निरयेषु उपपन्नाः। इमे पुनर्बत सत्त्वाः कायसुचरितेन समन्वागता वाकसुचरितेन समन्वागता मनःसुचरितेन समन्वागता आर्याणामनपवादकाः सम्यग्दृष्टिर्मसमादानहेतोः कायस्य भेदात् परं मरणात् सुगतौ स्वर्गलोके देवेषूपपन्नाः। इति हि देव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषकेण सत्त्वान् पश्यति च्यवमानानुपपद्यमानान् सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतिमपि गच्छतो दुर्गतिमपि गच्छतो यथाकर्मोपगान् सत्त्वान् यथाभूतं प्रजानाति॥



परिशुद्धकायसमुदाचारः कुमार बोधिसत्त्वो महासत्त्वः एकक्षणसमायुक्तया प्रज्ञया यत् किंचिज्ज्ञातव्यमधिमोक्तव्यं विकुर्वितव्यं तत्सर्वं यथाभूतं प्रजानाति शृणोति पश्यते बुध्यते॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत-

अभिज्ञाक्रमनिर्दिष्टो बोधिसत्त्वान तायिनाम्।

समाधीय स्थिहित्वान बोधिसत्त्वोऽधिगच्छति॥ ५१॥

श्रोत्रं च ते विशोधेन्ति दिव्यं श्रोत्रमचिन्तियम्।

येन शृण्वन्ति ते धर्मान् सर्वबुद्धेहि भाषितान्॥ ५२॥

सरागमसरागं वा सदोषं वीतदोषकम्।

समोहं वीतमोहं वा चित्तं जानन्ति प्राणिनाम्॥ ५३॥

पूर्वेनिवासं जानन्ति यत्र ते उषिताः पुरा।

कल्पकोटीसहस्राणि सङ्गस्तेषां न विद्यते॥ ५४॥

चक्षुश्च ते विशोधेन्ति दिव्यं चक्षुरनुत्तरम्।

अनुपश्यन्ति ते सत्त्वांश्च्यवतोऽप्युपपद्यतः॥ ५५॥

एकक्षणसमायुक्तप्रज्ञया सर्वजातिषु।

यत् किंचिदिह ज्ञातव्यं धर्माणां भूतलक्षणम्॥ ५६॥



तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मात्तर्हि कुमार वाक्संवरसंवृतो भविष्यामीत्येवं बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्। तत्र कुमार कतमो वाक्संवरः ? येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः षष्ट्याकारसमन्वागतमसङ्गबुद्धस्वरघोषमचित्यं प्रतिलभते। अयमुच्यते कुमार वाक्संवरः। येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः आदेयवाक्यतां प्रतिलभते। अयमुच्यते कुमार वाक्संवरः। येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः द्वात्रिंशन्महापुरुषलक्षणानि प्रतिलभते। दश तथागतबलानि, चत्वारि तथागतवैशारध्यानि, अष्टादशावेणिकान् बुद्धधर्मान् प्रतिलभते। अयमुच्यते कुमार वाक्संवरः। येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वस्त्रीणि विमोक्षमुखानि प्रतिलभते, चतुरो ब्रह्मविहारान् प्रतिलभते। अयमुच्यते कुमार वाक्संवरः। येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वश्चत्वारि स्मृत्युपस्थानानि प्रतिलभते। चत्वारि सम्यक्प्रहाणानि, चतुर ऋद्धिपादान्, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गं मार्गं प्रतिलभते। अयमुच्यते कुमार वाक्संवरः। येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो महाकरुणाविहारं प्रतिलभते, महोपेक्षाविहारं प्रतिलभते, क्षेमांश्च वितर्कान् प्रतिलभते, प्रविवेकांश्च वितर्कान् प्रतिलभते। अयमुच्यते कुमार वाक्संवर इति॥



पुनरपरं कुमार वाक्संवर उच्यते-येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो मृषावादात् प्रतिविरतो भवति। पैशुन्यात् पारुष्यात् संभिन्नप्रलापात् प्रतिविरतो भवति। मातापितृणामाचार्याणां चान्तिके असभ्यां वाचं न निश्चारयति। या अपि तदन्या दोषोपसंहिता वाचस्ताभ्यो बोधिसत्त्वः प्रतिविरतो भवति। ताश्च वाचः प्रतिश्रुत्कोपमा अवतरति। स्वप्नोपमा निर्मितोपमा मरीच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा मायोपमा अवतरति। स तामेवंभूतां वाचं नोपलभते, न कल्पयति, न मन्यते, नावलम्बते, नाभिनिविशते। अयमुच्यते कुमार वाक्संवरः। परिशुद्धवाक्संवरो हि कुमार बोधिसत्त्वो महासत्त्वः सर्वापायेभ्यो न बिभेति। सर्वबुद्धधर्मान् प्रतिलभते। सर्वबुद्धर्द्धि सर्वाभिज्ञां प्रतिलभते॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत-

येनेह वाक्संवरणेनुपेतो

लभत्यवशं स हि बोधिसत्त्वः।

सर्वेषु धर्मेषु असङ्गज्ञान-

मयं हि सो उच्यति वाचसंवरः॥ ५७॥

येनेह वाक्संवरणेन धीरा

लभन्ति द्वात्रिंशति लक्षणानि।

दशो बलावेणिकबुद्धधर्मा-

नयं हि सो उच्यति वाचसंवरः॥ ५८॥

येनह वाक्संवरणेन धीमान्

प्राप्नोति सर्वानिम बुद्धधर्मान्।

ये पूर्वमस्मिन् परिकीर्तिता मे

अयं हि सो उच्यति वाचसंवरः॥ ५९॥

येनेह वाचावरणेन धीमान्

लभेद्विहारान् प्रतिसंविदश्च।

अत्यद्भुतान् धर्म अचिन्तियांश्च

अयं हि सो उच्यति वाचसंवरः॥ ६०॥

येनेह वाचावरणेन धीमान्

स्मृत्युपस्थानानि सम्यक्प्रहाणा।

तथर्द्धिपादान् बल इन्द्रियाणि

लभत्ययं सोच्यति वाचसंवरः॥ ६१॥

येनेह वाक्संवरणेन धीमान्

महा उपेक्षां लभते विशारदः।

महाकृपां शुद्धविहारतां च

अयं हि सो उच्यति वाचसंवरः॥ ६२॥

येनेह वाक्संवरणेन धीमान्

क्षेमान् वितर्कांल्लभते विशुद्धान्।

तथा वितर्कान् प्रविवेकशान्ता-

नयं हि सो उच्यति वाचसंवरः॥ ६३॥

येनेह वाक्संवरणेन धीमान्

मृषा न भाषी पिशुनाश्च वाचः।

संभिन्नप्रलापं परुषां च वाचं

अयं खु सो उच्यति वाचसंवरः॥ ६४॥

येनेह वाक्संवरणेन धीमान्

सद्धर्मक्षेपं न करोति जातु।

न बुद्धसंघं च अभ्याचक्षेत

अयं खो सो उच्यति वाचसंवरः॥ ६५॥

येनेह वाक्संवरणेन धीमान्

मातापितृष्वाचरियानमन्तिके।

असत्यवाचं पुरतो न भाषी

अयं खु सो उच्यति वाचसंवरः॥ ६६॥

येनेह वाक्संवरणेन धीमान्

या अन्यवाचो इह दोषसंहिताः।

ताभ्योऽप्यशेषं विरतः स भोति

अयं खु सो उच्यति वाचसंवरः॥ ६७॥

येनेह वाक्संवरणेन धीमान्

प्रतिश्रुत्कसंनिभतां पि वाचम्।

सुपिनोपमामो तरते विशारदो

अयं खु सो उच्यति वाचसंवरः॥ ६८॥

निरात्मनिर्जीवनिरीहतां चा

प्रतीत्युत्पन्नां सुपिनोपमां मृषा।

यदेव वाचोत्तरि बोधिसत्त्वो

अयं खु सो उच्यति वाचसंवरः॥ ६९॥

निरोधसत्यं सुपिनं यथैव

स्वप्नस्वभावा अथ निर्वृतिं च।

यदेव वाचोत्तरि बोधिसत्त्वो

अयं खु सो उच्यति वाचसंवरः॥ ७०॥

नो चापि वाचं लभते स कांचि-

न्न कल्पयी नापि च मन्यते सः।

नालम्बते नाभिनिवेश जातू

अयं खु सो उच्यति वाचसंवरः॥ ७१॥



तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मात्तर्हि कुमार मनःसंवरसंवृतो भविष्यामीत्येवं बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्। तत्र कुमार कतमो मनःसंवरः ? येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो वज्रोपमं समाधिं प्रतिलभते। अयमुच्यते कुमार मनःसंवरः। येन मनःसंवरेण समन्वागतो बोधिसत्वो महासत्त्वो ज्वलनान्तराभां नाम रश्मिं प्रतिलभते। अयमुच्यते मनःसंवरः। येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वोऽष्टाङ्गोपेतस्वरघोषसंपदं प्रतिलभते। अयमुच्यते मनःसंवरः। येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो द्वात्रिंशन्महापुरुषलक्षणानि प्रतिलभते। दश तथागतबलानि, चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः, अष्टादशावेणिकांश्च बुद्धधर्मान् प्रतिलभते। अयमुच्यते मनःसंवरः। येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः त्रीणि विमोक्षमुखानि प्रतिलभते। शून्यतामनिमित्तमप्रणिहितं विमोक्षमुखं प्रतिलभते। अयमुच्यते मनःसंवरः। येन मनःसंवरेणः समन्वागतो बोधिसत्त्वो महासत्त्वश्चतुरो ब्रह्मविहारान् प्रतिलभते। महामैत्रीं महाकरुणां महामुदितां महोपेक्षां प्रतिलभते। अयमुच्यते मनःसंवरः। येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वश्चत्वारि स्मृत्युपस्थानानि प्रतिलभते। चत्वारि सम्यक्प्रहाणानि, चतुर ऋद्धिपादान्, पञ्चेन्द्रियाणि , पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गं मार्गं प्रतिलभते। अयमुच्यते मनःसंवरः। येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो महाकरुणाविहारं प्रतिलभते। महोपेक्षाविहारं प्रतिलभते। क्षेमांश्च वितर्कान् प्रतिलभते। प्रविवेकांश्च वितर्कान् प्रतिलभते। हितैषितां च ईर्यां च चर्यां च प्रतिलभते। अयमुच्यते मनःसंवरः॥



पुनरपरं कुमार मनःसंवर उच्यते-येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो मिथ्यादृष्टिप्रहाणाय मिथ्यादृष्ट्या सार्धं न संवसति। अभिध्याप्रहाणाय अनभिध्यालुर्भवति। व्यापादप्रहाणाय व्यापादेन सार्धं न संवसति। कौसीद्यप्रहाणाय कुसीदेन सार्धं न संवसति। गुरुणामन्तिके मातापित्रोराचार्यांणां चान्तिके शाठ्यचित्तं नोत्पादयति। रागद्वेषमोहचित्तं नोत्पादयति। न च तैः सार्धं संवसति। बोधिचित्तं नोत्सृजति। अध्याशयचित्तं च नोत्सृजति। ये चान्ये दोषोपसंहिता मनःसंकल्पास्तेभ्यः सर्वेभ्यः प्रतिविरतो भवति। न च तैः सार्धं संवसति। अयमुच्यते मनःसंवर। तच्च मनो मायोपममित्यवतरति। स्वप्नोपममपि मरीच्युपममपि। निर्मितोपममिति प्रतिभासोपममित्यवतरति। न कुतश्चिदागमनतोऽवतरति। स्वप्नोपमं सुखमवतरति। स्वप्नोपममनित्यतोऽवतरति। स्वप्नोपमं निर्जीवतोऽवतरति। स्वप्नोपमं शून्यतोऽवतरति। तच्च नोपलभते न कल्पयति न मन्यते नावलम्बते नाभिनिविशते।

अयमुच्यते कुमार मनःसंवरः॥



परिशुद्धमनःसमुदाचारो हि कुमार बोधिसत्त्वो महासत्त्वः सर्वाक्षणांश्च वर्जयति। अचिन्त्यांश्च सर्वबुद्धधर्मान् प्रतिलभते। सर्वबुद्धेभ्यश्च सर्वबुद्धाभिज्ञां अकोप्यां च चेतोविमुक्तिं प्रतिलभते। अयमुच्यते मनःसंवरः॥



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत-

शृणोथ सर्वि अविक्षिप्तमना

मम भाषतो मनःसंवरणम्।

श्रुत्वा च तत्र प्रतिपद्यथा मे

यदीच्छथा लघु विशोधनताम्॥ ७२॥

मनःसंवरेण लभि येन विदु

परम प्रशान्त विपुलानचलान्।

जिनधर्मचिन्तिय तथाद्भुततां

मनःसंवरुच्यति विशुद्ध अयम्॥ ७३॥

मनःसंवरेण लभि येन विदु

चेतोविमुक्तिमचलां सततम्।

वज्रोपमं तथ समाधिवरं

मनःसंवरूच्यति हि श्रेष्ठ अयम्॥ ७४॥

निष्पादयत्यपि च येन विदु

उपचाररश्मिं विपुलार्थकरीम्।

आर्याष्टाङ्गुपेतश्वर येन लभी

मनःसंवरूच्यति विशुद्ध अयम्॥ ७५॥

मनःसंवरेण विदु येन वरां

द्वात्रिंशलक्षण लघू लभते।

यश चो बलान्यखिलबुद्धगुणान्

मनःसंवरः कथितु श्रेष्ठ अयम्॥ ७६॥

मनसंवरेण लभि येन विदु

प्रतिसंविदस्तथ विशारदताम्।

परमाद्भुतान् गुण अचिन्त्य तथा

मनःसंवरः कथितु श्रेष्ठु अयम्॥ ७७॥

मनःसंवरेण लभि येन विदु

स्मृत्युपस्थान चतु ऋद्धिपादान्।

सम्यक्प्रहाण बल इन्द्रिय चो

मनःसंवर कथितु श्रेष्ठ अयम्॥ ७८॥

मनःसंवरेण लघु येन विदु

बोध्यङ्ग सप्त लभते विमलान्।

अष्टाङ्गिकं च तथ मार्गवरं

मनःसंवरः कथितु श्रेष्ठ अयम्॥ ७९॥

मनःसंवरेण लभि येन विदु

महुपेक्षताविहरणं प्रवरम्।

करुणाविहारिममलं च परं

मनःसंवरः कथितु श्रेष्ठ अयम्॥ ८०॥

मनःसंवरेण लभि येन शिवान्

क्षेमान् वितर्क विदु शुद्ध सदा।

लभते गुणाढ्यु प्रविवेककथां

मनःसंवरः कथितु श्रेष्ठ अयम्॥ ८१॥

मनसंवरेण विदु येन युतो

मिथ्याकुदृष्ट्या सह न वसति।

व्यापादाभिध्या न च संजनयी

मनःसंवरः कथितु श्रेष्ठ अयम्॥ ८२॥

मनःसंवरेण विदु येन युतः

कुहनां करोति न मुहूर्तमपि।

गुरूणां च शाठियु न संजनयी

मनःसंवरः कथितु श्रेष्ठ अयम्॥ ८३॥

मनःसंवरेण विदु येन युतो

रागथ द्वेष न जनेति मनः।

तथ मोहचित्तु न जनेति क्वचित्

मनःसंवरः कथितु श्रेष्ठु अयम्॥ ८४॥

मनःसंवरेण विदु येन युतो

बोधाय चित्त न विनिःसृजती।

अध्याशयं च न विकोपयती

मनःसंवरः कथितु श्रेष्ठ अयम्॥ ८५॥

मनःसंवरेण विदु येन युतो

ये चान्य दोष विविधा मनसः।

सर्वेभि सार्ध न च संवसती

मनःसंवरः कथितु श्रेष्ठु अयम्॥ ८६॥

मायोपमं च मन ओतरती

सुपिनोपमं तथ मरीचिसमम्।

प्रतिभासलक्षणमथो सततं

मनःसंवरः कथितु श्रेष्ठु अयम्॥ ८७॥

सुपिमोपमं च सुखमोतरती

तथनित्य शून्यत अशाश्वततः।

मन एव ओतरति येन विदु

मनसंवरः कथितु श्रेष्ठु अयम्॥ ८८॥

निर्जीवमोतरति निःसत्त्व मनो

उत्पन्नु प्रत्ययत चक्रसमम्।

न कुतश्चिदागतु न चापि गतं

मनसंवरः कथितु श्रेष्ठ अयम्॥ ८९॥

न च तन्मन्ये उपलभाति क्वचि

न च कल्पयत्यथ न मन्यत्यसौ।

नालम्भते विनिविशति न चो

मनसंवरः कथितु श्रेष्ठु अयम्॥ ९०॥

परमार्थसत्य सुपिनेन समं

निर्वाण स्वप्नसममोतरति।

मन एवमोतरति येन विदु

मनसंवरः कथितु श्रेष्ठ अयम्॥ ९१॥



इति श्रीसमाधिराजे कायवाङ्भनःसंवरपरिवर्तः अष्टत्रिंशतितमः॥ ३८॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project