Digital Sanskrit Buddhist Canon

यशः प्रभपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Yaśaḥ prabhaparivartaḥ
यशः प्रभपरिवर्तः।



तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमांश्चापरिमाणानाश्चर्याद्भुतान् बोधिसत्त्वधर्मानाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेनायं सर्वधर्मस्वभावसमताविपञ्चितः समाधिः श्रोतव्य उद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्योऽरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः। क्षान्तिबलं चानेन भावयितव्यम्। क्षान्तिरासेवयितव्या भावयितव्या बहुलीकर्तव्या। धर्मार्थिकेन च भवितव्यं धर्मकामेन धर्मप्रतिग्राहकेन धर्मानुधर्मप्रतिपन्नेन। बुद्धपूजाभियुक्तेन भवितव्यम्। तेन त्रिषु स्थानेष्वभियोगः करणीयः। कतमेषु त्रिषु ? यदुत क्लेशक्षयाय पुण्यबलाधिपतये बुद्धज्ञानमाकाङ्क्षता कुशलमूलान्यवरोपयितव्यानि नो तु खलु लोकसुखस्पर्शाभिकाङ्क्षिणा। एषु त्रिषु स्थानेष्वभियोगः करणीयः॥



अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य तमेवार्थमुद्योतयमान इममेव पूर्वयोगकथानिर्देशं गाथाभिगीतेन संप्रकाशयति स्म-

हन्त शृणोथ ममेतु कुमारा

कल्पसहस्र यथा चरिता मे।

पूजित बुद्धसहस्रशतानि

एषतु एति समाधि प्रणीतम्॥ १॥

कल्प अचिन्तिय एवमतीताः

क्षेत्रशतेषु ये वालिक अस्ति।

एष निदर्शनु कीर्तितु भोती

यं जिनु आसि गणेश्वरनामा॥ २॥

षष्टिरनूनक कोटिसहस्रा-

ण्यासि गणोत्तमु तस्य जिनस्थ।

सर्वि अनास्रवि क्षीणकिलेशा

अष्टविमोक्षप्रतिष्ठित ध्यायी॥ ३॥

तत्र च कालि इयमपि सर्वा

क्षेम सुभिक्ष अनाकुल आसीत्।

सौख्यसमर्पित सर्वमनुष्याः

प्रीणित मानुषकेभि सुखेभिः॥ ४॥

पुण्यबलेन च सर्व उपेता

दर्शनियास्तथ प्रेमणियाश्च।

आढ्य महाधन सर्व समृद्धा

दिव्यसुखेन समर्पितगात्राः॥ ५॥

सूरतु सुव्रत मन्दकिलेशाः

क्षान्तिबलाभिरता अभिरूपाः।

देवपुरेषु यथा मरुपुत्राः

शीलगुणोपगता मतिमन्तः॥ ६॥

तत्र च कालि महीपतिरासीद्

राजसुतो वरपुष्पसुनामा।

तस्य च पुत्र अनूनकमासन्

पञ्चशता स्मृतिमन्मतिमन्तः॥ ७॥

तेन च राजसुतेन जिनस्यो

षष्टि उद्यानसहस्रशतानि।

पुष्पफलप्रतिमण्डित सर्वे

तस्य निर्यातित कारुणिकस्य॥ ८॥

विचित्र उद्यान सहस्रशता

चंक्रमशय्यनिषद्यसहस्रैः।

चीवरकोटिसहस्रशतेभिः

संस्तृत चंक्रमणाश्च निषद्याः॥ ९॥

एवमनेकप्रकारसहस्रा

यात्तक श्रामणकाः परिभोगाः।

राजसुतेन प्रसन्नमनेना

तस्य उपस्थापिताः सुगतस्य॥ १०॥

सो दशसु शुभकर्मपथेषु

राज प्रतिष्ठित साधूजनेना।

प्राणसहस्रशतानयुतेभि-

र्गच्छि पुरस्कृतु नायकु द्रष्टम्॥ ११॥

पुष्पविलेपनधूप गृहीत्वा

छत्रपताकध्वजांस्तथ वाद्यान्।

पूज करित्व स तस्य जिनस्य

प्राञ्जलिकः पुरत स्थित आसीत्॥ १२॥

तुष्ट अभूत्तद भिक्षुसहस्रा

देवमनुष्यथ यक्षसुराश्च।

व्याकरु किं नु जिनो इमु पूजां

साधु किं वक्ष्यति धर्मु नरेन्द्रः॥ १३॥

तस्य च आशय ज्ञात्व स्वयंभू

राजसुतस्य निरुत्तरु चित्तम्।

पारगतो अभिमुक्तिपदेषु

तस्यिम देशयि शान्त समाधिम्॥ १४॥

याव प्रमुक्त गिरा सुगतेना

कम्पित मेदिनि सवनषण्डा।

पुष्प प्रवर्षि तदा गगनातः

पद्मशतापि च उद्गत भूमौ॥ १५॥

व्याकरि नायकु आशयु ज्ञात्वा

अर्थपदेषु सुशिक्षित शास्ता।

देशयि शान्त समाधि नरेन्द्र-

स्तत्रिमि अर्थपदानि शृणोथ॥ १६॥

सर्वि भवा अभवाः परिकल्पा-

स्तुच्छ मरीचिसमा यथ मायाः।

विद्यतमेघसमाश्चल शून्याः

सर्वि निरात्म निसत्त्व निजीवाः॥ १७॥

आदितु शून्य अनागत धर्मा

नागत अस्थित स्थानविमुक्ताः।

नित्यमसारक मायस्वभावाः

शुद्ध विशुद्ध नभोपम सर्वे॥ १८॥

नैव च नील न पित न श्वेता

नामतु रिक्तकु घोषस्वभावाः।

चित्तविविक्त अचित्तस्वभावाः

सर्वरूतापगताः क्षणिकत्वात्॥ १९॥

भाषतु अक्षरु संक्रमु नास्ति

नो पि अभाषतु संकरु भोति।

नापि च अक्षर देश व्रजन्ती

नो पुनरक्षरु क्रान्ति कुतश्चित्॥ २०॥

अक्षर अक्षय क्षीण निरुद्धा

भाषततो व अभाषततो वा।

नित्यमिमक्षर अक्षय उक्ता

यः परिजानति सोऽक्षयु भोति॥ २१॥

बुद्धसहस्रशता य अतीता

धर्मसहस्रशतानि भणित्वा।

नैव च धर्मु न चाक्षर क्षीणा।

नास्ति समुत्पत्ति तेन अक्षीणा॥ २२॥

येन प्रजानति अक्षयधर्मान्

नित्यु प्रजानति अक्षयधर्मान्।

सुत्रसहस्रशतानि भणित्वा

सर्वि अनक्षर जानति धर्मान्॥ २३॥

यं च प्रभाषति धर्म जिनस्यो

तं च न मन्यति सोऽक्षयताये।

आदि निरात्मनि ये त्विमि धर्मा

तांश्च प्रभाषति नो च क्षपेति॥ २४॥

सर्वगिरः स प्रभाषति विज्ञो

नो च गिराय हरीयति चित्तम्।

सर्वगिरो गिरिघोषनिकाशो

तेन न सज्जति जातु गिराये॥ २५॥

याय गिराय स कीर्तितु धर्मः

सा गिर तत्क्षणि सर्व निरुद्धा।

यादृशु लक्षणु तस्य गिराये

सर्विमि धर्म तल्लक्षणप्राप्ताः॥ २६॥

सर्विमि धर्म अलक्ष विलक्षा

सर्वि अलक्षण लक्षणशुद्धाः।

नित्य विविक्त विशुद्ध नभो वा

संख्य समासतु ते न उपेन्ति॥ २७॥

संस्कृतासंस्कृत सर्वि विविक्ता

नास्ति विकल्पन तेषमृषीणाम्।

सर्वगतीषु असंस्कृत प्राप्ता

दृष्टिगतेहि सदैव विविक्ताः॥ २८॥

नित्यमरक्त अदुष्ट अमूढा-

स्तस्य स्वभाव समाहितचित्ताः।

एष समाधिबली बलवन्तो

यो इमु जानति ईदृश धर्मान्॥ २९॥

शैलगुहागिरिदुर्गनदीषु

यद्व प्रतिश्रुत्क जायि प्रतीत्य।

एविमु संस्कृति सर्वि विजाने

मायमरीचिसमं जगु सर्वम्॥ ३०॥

प्रज्ञबलं गुण धर्मगतानां

ज्ञानबलेन अभिज्ञ ऋषीणाम्।

वाच उपायकुशल्य निरुक्ता

यत्र प्रकाशितु शान्त समाधिः॥ ३१॥

कल्पितु वुच्चति कल्पनमात्रं

अन्तु न लभ्यति संसरमाणे।

कोटि अलक्षण या पुरि आसी -

दपि अनागति प्रत्ययताये॥ ३२॥

कर्म क्रियाय च वर्तति एवं

हीन उत्कृष्टतया समुदेन्ति।

विविक्त धर्म सदा प्रकृतीये

शून्य निरात्म विजानथ सर्वान्॥ ३३॥

संवृति भाषितु धर्म जिनेना-

संस्कृतसंस्कृत पश्यथ एवम्।

नास्तिह भूततु आत्म नरो वा

एतकु लक्षण सर्वजगस्य॥ ३४॥

कृष्णाशुभ च न नश्यति कर्म

आत्मन कृत्व च वेदयितव्यम्।

नो पुन संक्रम कर्मफलस्य

नो च अहेतुक प्रत्यनुभोन्ति॥ ३५॥

सर्वि भवा अलिका वशिकाश्चो

रिक्तकु तुच्छ फेनसमाश्च।

मायमरीचिसमाः सद शुन्या

देशितु शब्दितु ते च विविक्ताः॥ ३६॥

एवं विजानतु मन्यन नास्ती

शीलवु भोती अनिश्रितचित्तः।

क्षान्तिबलेन न कल्पयि किंचि

एव चरन्तु समाहितु भोति॥ ३७॥

यात्तक धर्म विजानि स राजा

तात्तक देशित तेन जिनेन।

श्रुत्व नृपो इमु धर्म जिनस्यो

सपरिवारु समाददि शिक्षाम्॥ ३८॥

राजसुतो इमु श्रुत्व समाधिं

आत्तमना मुदितो भणि वाचम्।

सुष्ठु सुभाषितु एष समाधी

एष तवा चरणेषु पतामि॥ ३९॥

तत्र च प्राणिसहस्र अशीतिः

श्रुत्विमु धर्मस्वभाव प्रणीतम्।

भूतु अयं परमार्थ निर्देशो

ते अनुत्पत्तिक क्षान्ति लभिंसु॥ ४०॥

नास्ति उपादु निरोधु नरस्यो

एविमि धर्म सदा विविक्ताः।

एव प्रजानतु नो परिहाणि

राज लभी अनुत्पत्तिक क्षान्तिम्॥ ४१॥

राज तदा विजहित्वन राज्यं

प्रव्रजि शासनि तस्य जिनस्य।

तेऽप्यनु प्रव्रजिताः सुत राज्ञः

पञ्चशतानि अनूनक सर्वे॥ ४२॥

प्रव्रजितो यद राज सपुत्रो

अन्य तदा बहुप्राणिसहस्राः।

प्रव्रजिताः सुगतस्य समीपे

धर्म गवेषियु तस्य जिनस्य॥ ४३॥

विंशतिवर्षशतान् परिपूर्णान्

धर्म प्रकाशितु तेन जिनेना।

राज सपुत्रकु तेन जनेना

विंशतिवर्षशता चरि धर्मम्॥ ४४॥

अथ अपरेण पुनः समयेन

सोऽपि जिनः परिनिर्वृतु आसीत्।

ये जिनश्रावक तेऽपि अतीताः

सोऽपि च धर्मु परित्तकु आसीत्॥ ४५॥

तस्य च राजिन पुत्र अभूषी

पुण्यमती सद श्राद्धु प्रसन्नः।

तस्य च भिक्षु कुलोपगु आसीत्।

सो इमु देशयि शान्त समाधिम्॥ ४६॥

सो अखिलो मधुरो च अभूषी

सत्कृतु प्राणिसहस्रशतेभिः।

देवत कोटिशतान्यनुबद्धा

वर्ण भणन्ति कुलान् प्रविशित्वा॥ ४७॥

स स्मृतिमान् मतिमान् गतिमांश्चो

सुव्रतु सूरतु शीलरतश्च।

सुस्वरु अपरुष सो मधुरश्चो

धातुषु ज्ञानवशी वरप्राप्तः॥ ४८॥

चीवरकोटिशतान च लाभी

आसि स भिक्षु यशःप्रभु नाम्ना।

तस्य च पुण्यबलं असहन्ता

भिक्षुसहस्र तदा जनि ईर्षाम्॥ ४९॥

पुण्यबलेन च रूपबलेन

ज्ञानबलेन च ऋद्धिबलेन।

शीलबलेन समाधिबलेनो

धर्मबलेन समुद्गत भिक्षुः॥ ५०॥

हृष्टमनश्च प्रियश्च जनस्यो

भिक्षु उपासकभिक्षुणिकानाम्।

ये जिनशासनि सत्त्व प्रसन्ना-

स्तेषमभीप्सित पूजनियाश्च॥ ५१॥

यश्च स राजिनु पुत्रु अभूषी

पुण्यमती सद श्राद्धु प्रसन्नः।

ज्ञात्व प्रदुष्टमनान् बहुभिक्षूं

रक्ष स कारयि आचरियस्य॥ ५२॥

पञ्चहि प्राणिसहस्रशतेही

वर्मित खड्गगदायुधकेहि।

तेहि सदा परिवारित भिक्षु

भाषति भूतचरीमपर्यन्ताम्॥ ५३॥

सो परिषाय प्रभाषति धर्मं

शून्य निरात्म निर्जीविमि धर्माः।

ये उपलम्भिक आत्मनिविष्टा-

स्तेष न रोचति यं भणि भिक्षुः॥ ५४॥

उत्थितु भिक्षव शस्त्र गृहीत्वा

येष न रोचति शून्यत शान्ता।

एष अधर्म प्रभाषति भिक्षुः

एतु हनित्व भविष्यति पुण्यम्॥ ५५॥

दृष्ट्व च शस्त्र न भायति भिक्षुः

शून्यक धर्ममनुस्मरमाणः।

नास्तिह सत्त्व नरो वापहत्यै

कुड्यसमा इमि रिक्तक धर्माः॥ ५६॥

भिक्षु करोति स अञ्जलि मूर्ध्ना

भाषति वाच नमोऽस्तु जिनानाम्।

येन सत्येनिमि शून्यक धर्मा

भोन्तिमि शस्त्र मान्दारवपुष्पाः॥ ५७॥

शीलव्रतोपगतस्य मुनिस्यो

भाषितमात्र अनन्यथवाक्ये।

कम्पित मेदिनि सवनषण्डा

शस्त्र ते जात मान्दारवपुष्पाः॥ ५८॥

भिक्षु अभूत्तद मंकुशरीरा

ये उपलम्भिक शस्त्रगृहीताः।

भूयु य शक्युपसंक्रमणाये

त्रस्य अभूत् सुमहाद्भुतजाताः॥ ५९॥

ये पुन श्राद्ध प्रसन्न मुनीन्द्रे

येषिह रोचति शुन्यत शान्ता।

तेहि हुंकारसहस्र करित्वा

दूष्यशतैरभिछादित भिक्षुः॥ ६०॥

भिक्षु जनित्वन मैत्र स तेषु

सर्वजनस्य पुरस्त भणाति।

ये मयि सत्त्व प्रदोष करोन्ती

तेष कृते न हु बोधि चरामि॥ ६१॥

तेन च वर्ष अशीतिरनूना

भाषित शून्यत कोषु जिनानाम्।

भिक्षुसहस्र प्रत्यर्थिक आसन्

ये च निवारित राजसुतेन॥ ६२॥

सोऽपि तदा परिभूत् अभूषी

तस्य च भिक्षु परीत्तकु आसन्।

वाचमनिष्ट तदा श्रुणमानः

क्षान्तिबला च्युत नो च कदाचित्॥ ६३॥

सोऽपरेण च पुनः समयेन

प्राणिशतान करी महदर्थम्।

शीलमखिलमनुस्मरमाणः

पुण्यमतिस्य तदा भणि वाचम्॥ ६४॥

तत्र स गौरवु कृत्व उदारं

पुण्यमती अवची तद भिक्षुम्।

मा मम किनचिदाचरियस्यो

चेतसि किंचि कृतं अमनापम्॥ ६५॥

सो अवची शृणु राजकुमारा

क्षान्तिबलेन समुद्गत बुद्धाः।

येन मि भाषित वाचमनिष्टा-

स्तस्यिमि अन्तिकि मैत्र उदारा॥ ६६॥

येन स कल्पसहस्रशतानि

क्षान्ति निषेवित पूर्वभवेषु।

सो अहु भिक्षु यशःप्रभु आसं

शाक्यमुनिर्भगवान् भणि वाचम्॥ ६७॥

येन यशःप्रभु रक्षितु भिक्षुः

पुण्यमती तद राजिनु पुत्रः।

जातिसहस्र ममासि सहायः

सो मय व्याकृतु मैत्रकु बुद्धः॥ ६८॥

येन गणेश्वर पूजितु शास्ता

येन तु कारित श्रेष्ठ विहाराः।

पूर्वमसौ वरपुष्पसुनामा

सो पदुमोत्तुरु आसि मुनीन्द्रः॥ ६९॥

एव मया बहुकल्प अनन्ता

धारयितामिमु धर्म जिनानाम्।

क्षान्तिबलं समुदानित पूर्वे

श्रत्व कुमार ममा अनुशिक्षाः॥ ७०॥

निर्वृतिमप्यथ भेष्यति एवं

पश्चिमि कालि सद्धर्मविलोपे।

भिक्षु व तीर्थमतेष्वभियुक्ता

ते मम धर्म प्रतिक्षिपि शान्तम्॥ ७१॥

उन्नत उद्धत दुष्ट प्रगल्भा

पापसहायक भोजनलुब्धाः

चीवरपात्ररताः पटलुब्धाः

लाभसंनिश्रित ते क्षिपि धर्मम्॥ ७२॥

दुष्तप्रदुष्टमना अकृतज्ञा

हीनकुलेषु दरिद्रकुलेषु।

प्रव्रजिता इह शासनि मह्यं

तेऽपि प्रतिक्षिपि शान्तमु धर्मम्॥ ७३॥

मारमतेन च मोहित सत्त्वा

रागवशानुगताभिनिविष्टाः।

मोहवशेन तु मोहित बाला

येष न रोचति शून्यत शान्ता॥ ७४॥

भिक्षु च भिक्षुणिका गृहिणश्चो

ग्राहित मोहित पापमतीभिः।

तेष वशानुगता सद भूत्वा

पश्चिमि कालि प्रतिक्षिपि बोधिम्॥ ७५॥

श्रुत्व कुमार इमा मम वाचं

भिक्षु अरण्यकुले वसि नित्यम्।

येषिय रोचति शून्यत शान्ता

तैरयु धारितु धर्मु जिनानाम्॥ ७६॥

प्रव्रजि ते मम शासनि चरित्व

भिक्षु उपसंपदपोषधकर्मम्।

भुञ्जिमु पिण्डमसक्ता अदुष्टा

ये इमु धारयिष्यन्ति समाधिम्॥ ७७॥

जीवित काय अपेक्षि प्रहाया

शून्यत भावयथा सुप्रशान्ताम्।

युक्तप्रयुक्तमना च भवित्वा

सेव अरण्य सदा मृगभूताः॥ ७८॥

नित्य करोथ च पूज जिनानां

छत्रध्वजर्द्धियमाल्यविहारैः।

चेतिय पूजयथा प्रतिमानां

क्षिप्र लभिष्यथ एतु समाधिम्॥ ७९॥

स्तूप करापयथा सुगतानां

हेमविभूषित रूपियलिप्तान्।

प्रतिम सुनिष्ठित रत्नविचित्रा

बोधिनिधानु जनित्वन चित्तम्॥ ८०॥

यावति पूज जगेस्मि प्रणीता

दिव्यथ मानुषिका रमणीया।

सर्व गवेषिय बुद्ध महेथा

बोधिनिधानु करित्व प्रतिज्ञाम्॥ ८१॥

धर्मत पश्यथ सर्वि नरेन्द्रान्

यावत सन्ति दश दिशि लोके।

दृश्यति निर्वृति सर्वजिनानां

धर्मतया स्थित संमुख बुद्धाः॥८२॥

भोथ च सर्विषु त्यागाधिमुक्ताः

शीलविशुद्धगता स्थिरचित्ताः।

क्षान्तिरताः सद मैत्ररताश्चो

सर्वि प्रजानथ शून्यक धर्मान्॥ ८३॥

वीर्यु जनेथ अलीन अदीनाः

ध्यानरताः प्रविवेकरताश्च।

प्रज्ञ प्रजानथ प्रज्ञविशुद्धिं

भेष्यथ कारुणिका नचिरेण॥ ८४॥

रागु शमेथ सदा अशुभा ये

दोषु निगृह्णथ क्षान्तिबलेन।

मोहु निगृह्णथ प्रज्ञबलेना

प्राप्स्यथ बोधि जिनानु प्रशस्ताम्॥ ८५॥

कायु विभावयथा यथा फेनं

दुःखमसारकु पूतिदुर्गन्धम्।

स्कन्ध प्रजानथ रिक्तक सर्वां-

ल्लप्स्यथ ज्ञानमनुत्तरु क्षिप्रम्॥ ८६॥

दृष्टि म गृह्णथ पापिक जातु

आत्म अयं पुरुषो अथ जीवः।

सर्वि प्रजानथ शून्यक धर्मान्

क्षिप्र स्पृशिष्यथ उत्तमबोधिम्॥ ८७॥

लाभ म कुर्वथ गृद्धो कदाचित्

मा परितप्यथ पिण्डलमब्ध्वा

निन्दित शंसित मा खु चलेथा

मेरुसमाश्च अकम्पिय भोथा॥ ८८॥

धर्म गवेषथ गौरवजाताः

श्रत्व तदापि च तत्पर भोथ।

तिष्ठत गोचरि सर्वजिनानां

यास्यथ क्षिप्र सुखावतिक्षेत्रम्॥ ८९॥

सर्वजगे समचित्त भवित्वा

अप्रिय मा प्रिय चित्त करोथ।

मा न गवेषथ लाभु यशो वा

क्षिप्र भविष्यथ बुद्ध मुनीन्द्राः॥ ९०॥

बुद्धगुणांश्च प्रभाषथ नित्यं

भूतगुणेहि निरुक्तिपदेहि।

यान् गुण श्रुत्विह सत्त्व प्रसन्नाः

बुद्धगुणेषु स्पृहां जनयेयुः॥ ९१॥

नित्य सगौरव चाचरियेषु

मातु पितुस्तथ सर्वजगस्मिन्।

मा पुन मानवशानुग भोथा

लप्स्यथ लक्षण त्रिंश दुवे च॥ ९२॥

संगणिकां विजहित्व अशेषां

नित्यु विवेकरतापि च भोथ।

सूरत नित्युपशोभन शान्ता

आत्महिताः परसत्त्वहिताश्च॥ ९३॥

मैत्रि निषेवि तथा करुणां चो

मुदितपेक्षरताः सद भोथ।

शास्तुः प्रशासनु पश्यथ नित्यं

भेष्यथ क्षिप्र हितंकरु लोके॥ ९४॥

पापक मित्र म जातु भजेथ

सेवथ मित्र ये भोन्ति उदाराः।

येषिह रोचति शून्यत शान्ता

ये अभिप्रस्थिता उत्तमबोधिम्॥ ९५॥

श्रावकभूमि म शिक्षथ जातु

मा च स्पृहेष्यथ तत्र चरीये।

चित्तु म रिञ्चथ बुद्धगुणेषु

क्षिप्र भविष्यथ बुद्ध जिनेन्द्राः॥ ९६॥

सत्य गिरं सद भाषथ शुद्धां

मा मृष भाषथ मा परुषां च।

नित्य प्रियं मधुरं च भणेथा

लप्स्यथ वाच लोकाचरियाणाम्॥ ९७॥

कायि अनर्थिक जीवित भोथा

मात्म उत्कर्षक मा परपंसी।

आत्मगुणान् समुदानयमानाः

परचरियासु उपेक्षक भोथ॥ ९८॥

शून्यविमोक्षरताः सद भोथा

मा प्रणिधान करोथ गतीषु।

सर्वनिमित्त विवर्ज्य अशेषां

भोथ सदा अनिमित्तविहारी॥ ९९॥

अन्त विवर्जयथा सदकालं

शाश्वतुच्छेदस्थिता म भवाथ।

प्रत्ययता सद बुध्यत सर्वं

एव भविष्यथ यादृश शास्ता॥ १००॥

कामरतीषु रतिं विजहित्वा

दोषखिलांश्च मलान् विजहित्वा।

मोहतमो विजहित्वसे सर्वं

शान्तरता नरसिंह भवाथ॥ १०१॥

नित्यमनित्य च पश्यथ नित्यं

सर्वभवा सुखदुःख विमुच्य।

अशुभमनात्मत आत्मशुभेषु

भावयमानु भवेय नरेद्रः॥ १०२॥

लोकप्रदीपकरेभि जिनेभि-

र्येषिह योनिशो धर्म सुनीत।

तैरिह मारबलानि हनित्वा

प्राप्तमनुत्तरबोधिरुदारा॥ १०३॥

यात्तक भाषित एति गुणा मे

ये च प्रकाशित दोषशता मे।

दोष विवर्जिय शिक्ष गुणेषु

भेष्यसि बुद्धु तदेह कुमार॥ १०४॥



इति श्रीसमाधिराजे यशःप्रभपरिवर्तः सप्तत्रिंशतितमः॥ ३७॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project