Digital Sanskrit Buddhist Canon

शीलस्कन्धनिर्देशपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Śīlaskandhanirdeśaparivartaḥ

शीलस्कन्धनिर्देशपरिवर्तः।



तस्मात्तर्हि कुमार य आकाङ्क्षेद्बोधिसत्त्वो महासत्त्वः किमित्यहं सुखमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयमिति, तेन कुमार बोधिसत्त्वेन महासत्त्वेन शीलस्कन्धे सुप्रतिष्ठितेन भवितव्यम्, सर्वबोधिसत्त्वेषु च शास्तृप्रेमसंज्ञा उपस्थापयितव्या॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत-

यः शीलस्कन्धे प्रतिष्ठितु बोधिसत्त्वो

हितैषिचित्तो विचरति चारिकायाम्।

क्षिप्रं स गत्वा अभिरतिबुद्धक्षेत्रं

क्षान्तिंं लभित्वा भविष्यति धर्मराजः॥ १॥

तस्मात् समग्रा भवथ अदुष्टचित्ताः

सर्वे च भोगा सतत मनापकारी।

दृष्ट्वा च बुद्धान् शिरिघन अप्रमेयान्

बोधिं स्पृशित्वा भविष्यथ धर्मस्वामी॥ २॥

तस्माच्छ्रुणित्वा इम वर आनुशंसान्

दृष्टा च भिक्षून् परम सुशीलवन्ता।

निःशाठियेनो विदु सद सेवितव्याः

समाधिप्ताप्ता भविष्यथ नोचिरेण॥ ३॥

सचेन्निधानापरिमिताप्रमाण

पूर्णा भवेयु मणिरतनेभि सप्तैः।

तथैव भूयो रतनवराण पूर्णाः

क्षेत्रा भवेयुर्वालिकगङ्गतुल्याः॥ ४॥

दानाधिमुक्तो भविय स बोधिसत्त्व

एकैक रात्रिंदिवमिह दानु दद्यात्।

एवं ददन् सो बहुविध कल्पकोटीः

नो विष्ठितः स्याद् वालिक गङ्गतुल्याः॥ ५॥

यश्चो समाधिं इमुमिह बोधिसत्त्वो

श्रुत्वान धारेत सुगतवराण गञ्जम्।

यः पुण्यस्कन्धो भवति गृहीतु तेनो

तत् सर्वदानं कलमपि नानुभोति॥ ६॥

एषो वरो अनुपम पुण्यस्कन्धो

ज्ञानस्य कोश अपरिमिताकरोपम।

श्राद्धो नरो यो इमु आनुलोमिकं

धारेय्य अग्रं इमु विरजं समाधिम्॥ ७॥

धारेय्य एत विरज समाधि शान्त

महाधनो भवति स बोधिसत्त्वः।

महासमुद्रो बहुविधरतनस्य आकरो

न तस्य पुण्यस्य प्रमाणमस्ति॥ ८॥

वरेहि धर्मेहि अचिन्तियेहि

संबृहितो वुच्चति बोधिसत्त्वः।

न तस्य बोधाय कदाचि संशयो

य उद्दिशेयाति इमः समाधिम्॥ ९॥

संस्थाप्य लोकाचरियं विनायकं

बुद्धं महाकारुणिकं स्वयंभुवम्।

यः पुण्यस्कन्धेन वरेणुपेतो

अचिन्तियो यस्य प्रमाणु नास्ति॥ १०॥

न उत्तरो तस्य च सत्त्व कश्चित्

महासहस्राय कदाचि विद्यते।

यः पुण्यस्कन्धेन समो भवेत

ज्ञानेन वासादृशाचिन्तियेन॥ ११॥

अन्यत्र यः श्रुत्व समाधिमेतं

धारेय्य वाचेय्य पर्यापुणेय्या।

पर्येषमाणोऽतुल बुधबोधिं

न तस्य ज्ञानेन समो भवेत॥ १२॥

सचेत् कुमारा सिय अयु धर्मरूप

यः पुण्यस्कन्धो उपचितु तेन भोति।

धारतु वाचेतु इमं समाधिं

न सो विचेय्या इह पृथुलोकधातुषु॥ १३॥

तस्मात् कुमारेह य बोधिसत्त्वो

आकाङ्क्षते पूजितु सर्वबुद्धान्।

असङ्गनिर्देशपदार्थकोविदो

अतीत उत्पन्न तथागतांश्च

धारेतु वाचेतु इमं समाधिम्॥ १४॥

एषा हि सा बोधि तथागतानां

श्रद्धेहि मह्यं वचनं कुमाराः।

न भाषते वाचमृषां तथागतो

न हीदृशाः सत्त्व मृषां वदन्ति॥ १५॥

यस्मिन् मया शोधितु आत्मग्राहो

इतः पुरे कल्पशतानचिन्तियान्।

श्रेष्ठा चरन्तेन पि बोधिचारिकां

पर्येषमाणेन इमां समाधिम्॥ १६॥

तस्मादिमं श्रुत्व अथ धर्मगञ्जं

यः सूत्रकोटीनयुतान आगमः।

यः पुण्यस्कन्धो विपुलो अचिन्तियो

येनो लघुं बुध्यति बुद्धज्ञानम्॥ १७॥

सर्वेष सूत्राणिदमग्रसूत्र-

मचिन्तियस्यो कुशलस्य आकरम्।

पर्यन्तु धर्माण न तेष लभ्यते

यां सो सदा निर्दिशते विशारदः॥ १८॥

छिन्दित्व भिन्दित्व महासहस्रं

शक्यं गणेतुं परमाणुसंचयः।

न त्वेव ते सूत्रशता अचिन्तियान्

प्रमातु यं भाषति सो अविष्ठितः॥ १९॥

आश्वास प्रश्वास गणेतु शक्यं

सर्वेष सत्त्वानिह बुद्धक्षेत्रे।

पर्यन्तु सूत्राण न तेष शक्यं

यान् भाषते सोऽत्र समाधिये स्थितः॥ २०॥

बुद्धान क्षेत्रा यथ गङ्गवालिका

ये तेष सत्त्वा गति तेषूपपन्नाः।

गणेतु ते शक्यमथापि चिन्तितुं

न तेष सूत्राण य नित्यु भाषते॥ २१॥

गणेतु शक्यमित कल्पकोटिभिः

महासमुद्रेष्विह यात्ति वालिकाः।

नदीषु कुण्डेषु ह्रदेषु तद्वद्

अनन्त सूत्रान्त स यत् प्रभाषते॥ २२॥

शक्यं गणेतुं बहुकल्पकोटिषु

य आपस्कन्धः सद तत्र तिष्ठति।

शताय भिन्नाय वालाग्रकोटियो

स्वराङ्ग तेषां न तु शक्यु सर्वशः॥ २३॥

शक्यं गणेतुं बहुकल्पकोटिभि-

र्ये सत्त्व आसन् पुरिमेण तत्र।

य आत्मभावे विनिबद्धसारा

न तेष सूत्रान्तनिर्हार जानितुम्॥ २४॥

गणेतु शक्यं रुत सर्वप्राणिनां

ये सन्ति सत्त्वा दशसु दिशासु।

न शक्यु सूत्रान्त गणेतु तस्य

यद् भाषतेऽसौ सततमविष्ठितः॥ २५॥

सर्वेष धर्माण निदेशु जानति

निरुक्तिनिर्देशपदार्थकोविदः।

विनिश्चये भूतनयेषु शिक्षितो

विशालबुद्धिः सद हर्षप्रज्ञः॥ २६॥

अभिन्नबुद्धिर्विपुलार्थचिन्ती

अचिन्त्य चिन्तेति सदा प्रजानति।

घोषस्वभावं पृथु सर्व जानती

शब्दांश्च तान् निर्दिशतो न सज्जति॥ २७॥

असक्त सो वुच्चति धर्मभाणको

न सज्जते सर्वजगस्य भाषतः।

प्रश्नान निर्देशपदेहि कोविदः

तथाहि तेनो परमार्थु ज्ञातः॥ २८॥

एकस्य सूत्रस्युपदेशकोटियो

अचिन्तियां निर्दिशतो न सज्जति।

असङ्गनिर्देशपदार्थकोविदो

भाषन्तु सो पर्षगतो न सज्जते॥ २९॥

यः सुस्थितो भोति इहो समाधिये

स बोधिसत्त्वो भवती अकम्पियः।

धर्मे बलाधानविशेषप्राप्तः

करोति सोऽर्थं बहुप्राणकोटिनाम्॥ ३०॥

यथैव मेरुरचलो अकम्पियः

सर्वेहि वातेहि न शक्य कम्पितुम्।

तथैव भिक्षुर्विदु धर्मभाणकं

कम्पेतु शक्यं न परप्रवादिभिः॥ ३१॥

महासहस्रेष्विह लोकधातुषु

ये पर्वता उक्त अकम्पनीयाः।

ते शक्य वातेन प्रकम्पनाय

न त्वेव धर्मे स्थितु शून्यि भिक्षुः॥ ३२॥

य शून्यतायां सततं प्रयुक्तो

बुद्धान एषो नियतं विहारः।

प्रजानती निश्चितु धर्म शून्यां

स सर्ववादीभि न शक्यु क्षोभितुम्॥ ३३॥

अकम्पियो भोति परप्रवादिभिः

सवप्रवादेहि अनाभिभूतः।

अनाभिभूतश्च अनिन्दितश्च

इमुमुद्दिशित्वान समाधि शान्तम्॥ ३४॥

गतिं गतो भोति स शुन्यतायां

सर्वेषु धर्मेषु न काङ्क्षतेऽसौ।

अनन्तज्ञाने सद सुप्रतिष्ठितो

इमुमुद्दिशित्वान समाधि शान्तम्॥ ३५॥

बलानि बोध्यङ्ग न तस्य दुर्लभा

प्रतिसंविदो ऋद्धिविधी अचिन्तिया।

अभिज्ञ नो तस्य भवन्ति दुर्लभा

धारेत्व वाचेत्व इम समाधिम्॥ ३६॥

भवाभिवृत्तस्य न तस्य दुर्लभं

अनन्तज्ञानेन जिनान दर्शनम्।

संबुद्ध कोटीनयुतानचिन्तियान्

सो द्रक्ष्यते एतु समाधि धारयन्॥ ३७॥

सर्वेष चो तेष जिनान अन्तिके

स श्रोष्यते एतु समाधि शान्तम्।

वरेण ज्ञानेन उपेतु भेष्यती

प्रतिसंविदासु वश पारमिं गतः॥ ३८॥

सचेद् भवेन्मणिरतनान पूर्णा

महासहस्रा इय लोकधातुः।

ये दिव्य श्रेष्ठा मणिरतनाः प्रधाना

हेष्टं उपादाय भवाग्रु यावत्॥ ३९॥

यावन्त क्षेत्रा बहुविध ते अनन्ता

जाम्बूनदासंस्तृत पूर्ण सर्वे।

दानं ददे जिनवरेषु सर्वं

भूमीतलादुपरि भवाग्र यावत्॥ ४०॥

यावन्ति सन्ति बहु विविधा हि सत्त्वा

दानं ददेयुर्विविधमनन्तकल्पान्।

बुद्धान दद्युः सततमविष्ठिहन्तो

बोध्यर्थिको चो ददितु दानस्कन्धम्॥ ४१॥

यश्चैव भिक्षुरभिरतु शून्यतायां

बुद्धान्नमस्ये दशनखप्राञ्जलीयो।

न स दानस्कन्धः पुरिमकु याति संख्यां

यः शून्यतायामभिरतु बोधिसत्त्वः॥ ४२॥

तं चो लभित्वा स हि नरु पुण्यवन्तो

दानं ददेति विपुलु जनेत्व श्रद्धाम्।

पर्येषमाणो अतुलिय बुद्धबोधिं

औपम्यमेतं कृतु पुरुषोत्तमेन॥ ४३॥

यश्चो समाधिमिमु वरु श्रेष्ठ गृह्णे-

च्चतुष्पदां गाथ स तुष्टचित्तः।

यः पुण्यस्कन्धो उपचितु तेन भोति

तत् सर्वदानं शतिमकला नु भोति॥ ४४॥

न ताव शीघ्रं प्रतिलभि बुद्धज्ञानं

दानं ददेत् सो हितकरु बोधिसत्त्वः।

अश्रुत्व एतं विरजु समाधि शान्तं

यथ श्रुत्व शीघ्रं लभति स बुद्धज्ञानम्॥ ४५॥

यश्चो लभित्वा इमु वर शान्तभूमिं

श्रुतस्य गोत्रं इमु विरजं समाधिम्।

पुर्यापुणेय्या प्रमुदितु बोधिसत्त्वः

स शीघ्रमेतं प्रतिलभि बुद्धज्ञानम्॥ ४६॥

योऽपी निधानं प्रतिलभि एवरूपं

क्षेत्राननन्तान् यथरिव गङ्गवालिकाः।

ते चो भवेयुर्मणिरतनान पूर्णा

दिव्यान चो तथपि च मानुषाणाम्॥ ४७॥

दुर्धर्षु सो भोति प्रेभूतकोशो

महाधनो धनरतनेनुपेतः।

यो बोधिसत्त्वो लभति इमं समाधिं

पर्यापुणन्तः सततमतृप्तु भोति॥ ४८॥

राज्यं लभित्वा परमसमृद्ध स्फीतं

न तेन तुष्टो भवति कदाचि विज्ञः।

यथा लभित्वा इमु विरजं समाधिं

तुष्टो उदग्रो भवति स बोधिसत्त्वः॥ ४९॥

ते ते धर्मधरा भवन्ति सततं बुद्धान सर्वज्ञिनां

धारेन्ती वरधर्मनेत्रि विपुलां क्षीणान्तकाले तथा।

धर्मकोशधरा महामतिधराः सर्वज्ञगञ्जंधराः

ते ते सत्त्व सहस्रकोटिनियुतांस्तोषन्ति धर्मस्वरैः॥ ५०॥

ते ते शीलधनेनुपेत मतिमान् शिक्षाधनाढ्या नराः

ते ते शीलव्रते स्थिता अभिरता धर्मद्रुमस्याङ्कुराः।

ते ते रक्तकषायचीवरधरा नैष्क्रम्यतुष्टाः सदा

ते ते सत्त्वहिताय अप्रतिसमाः सर्वज्ञतां प्रस्थिताः॥ ५१॥

ते ते दान्त सुदान्त सत्त्वदमका दमथेनुपेताः सदा

ते ते शान्त सुशान्ततामनुगताः शान्तप्रशान्तेन्द्रियाः।

ते ते सुप्त प्रसुप्त सत्त्व सततं धर्मस्वनैर्बोधयी

बोधित्वा वरश्रेष्ठ धर्मरतनैः सत्त्वान् प्रतिष्ठापयी॥ ५२॥

ते ते दानपती भवन्ति सततं सद मुक्तत्यागी विदु

ते ते मत्सरियैर्न संवसि महात्यागे रमन्ते सदा।

ते ते सत्त्व दरिद्र दृष्ट्व दुखितान् भोगेहि संतर्पयी

ते ते सत्त्वहिते सुखाय सततं सर्वज्ञतां प्रस्थिताः॥ ५३॥

ते ते आहनि धर्मभेरि विपुलां ज्ञाने सदा शिक्षिताः

छिन्दन्ती जन सर्व संशयलतां ज्ञाने सदा प्रस्थिताः।

ते ते सुश्रुत धर्मधारि विरजा सूत्रान्तकोटीशतान्

पर्षायां स्थित आसने मतिधराः प्रव्याहरी पण्डिताः॥ ५४॥

ते ते भोन्ति बहुश्रुताः श्रुतिधराः संबुद्धधर्मंधराः

कोशान् धर्ममयान् धरन्ति मुनिनां धर्मान्निधाने रताः।

ते ते भोन्ति विशालप्रज्ञ विपुलां प्रीतिं जनेन्ति सदा

देशेन्ता वरधर्म शान्त निपुणं नैर्याणिकं दुर्दृशम्॥ ५५॥

ते ते धर्ममधर्मज्ञेय मतिमान् धर्मे स्थिताः सूरताः

धर्मराज्यि प्रशासि अप्रतिसमा वरधर्मचारी सदा।

ते ते भोन्ति विशिष्टधर्मगुरुका गुरुगौरवे च स्थिताः

धर्मे नगवरे स्थिता मतिधरा धर्मध्वजोच्छ्रायिकाः॥ ५६॥

ते ते मत्त प्रमत्त सत्त्व सततं दृष्ट्वा प्रमादे स्थितान्

दृष्ट्वा चैव प्रनष्ट उत्पथगतान् संसारमार्गे स्थितान्।

तेषू मैत्र जनित्वुदार करुणा मुदिताप्युपेक्षा स्थिता

तेषां मार्गवरं प्रदर्शयि शिवमष्टाङ्गिकं दुर्दृशम्॥ ५७॥

ते तु नाव करित्व धर्म सुदृढां धारेन्ति सत्त्वान् बहून्

उद्यन्तान् महार्णवेषु पतितान् संसारस्रोतोगतान्।

बोध्यङ्गा बल इन्द्रियैः कवचिताः सद्धर्मनावारुहाः

तीरे पारमि क्षेम नित्यमभये स्थापेन्ति सत्त्वान् सदा॥ ५८॥

ते ते वैद्यवरा व्रतेषु चरिता वैद्योत्तमा वेदका

विद्याज्ञानविमुक्तिपारगमिता सद्धर्मभैषज्यदाः।

दृष्ट्वा सत्त्व गिलान नेकविविधै रोगैः समभ्याहतान्

तेषां धर्मविरेचनं ददति तद्धर्मैश्चिकित्सन्ति तान्॥ ५९॥

ते ते वादि अपवादिमथना लोकेन्द्र वागीश्वराः

सर्वज्ञेयप्रभंकरा मतिधरा वरज्ञानभूमिस्थिताः।

शूर ज्ञानबला बलप्रमथनाः संवर्णिता ज्ञानिभिः

ज्ञानेनो बहुसत्त्वकोटिनियुतांस्तोष्यन्ति धर्मे स्थिताः॥ ६०॥

ते तेऽधिपति सार्थवाह विपदः सत्त्वान त्राणार्थिकाः

दृष्ट्वा सत्त्व प्रमूढ मार्गरतने सद मारपाशे स्थिताः।

तेषां मार्गवरं प्रकाशयि शिवं क्षेमं सदा निर्वृती

येन ज्ञानपथेन नेन्ति कुशलान् बहुसत्त्वकोटीशतान्॥ ६१॥

ते ते लेनु भवन्ति त्राणु शरणं चक्षुः प्रदीपंकराः

भीतानामभयप्रदाश्च सततं त्रस्तान चाश्वासकाः।

तेऽतिदुःखित सत्त्व ज्ञात्व परमान् जात्यन्धभूतानिमान्

धर्मालोकु करोन्ति धर्मरतने भूतनये शिक्षिताः॥ ६२॥

ये ये शिल्पवरा जगे बहुकराः सत्त्वान अर्थावहा

येभिः सत्त्व सदा भवन्ति सुखिताः शिल्पेषु संशिक्षिताः।

शिक्षापारमितां गताः सुकुशला आश्चर्यप्राप्ताद्भुता

ये बोधीनभिप्रस्थिता मतिधरा लोकस्य चक्षुर्ददाः॥ ६३॥

नो ते तृप्त कदाचिदप्रतिसमा वरबुद्धधर्मश्रुताः

शीलक्षान्तिसमाधिपारगमिता गम्भीरधर्मश्रुताः।

नो तृप्ताश्च परेषु धर्मरतनं ते देशयन्तः शिवं

मोक्षोपायु प्रवर्षमाणु वर्षं धर्मैर्नरांस्तर्पयी॥ ६४॥

यावन्तो बहु सत्त्व तेषुपगता धर्मार्थिकाः पण्डिताः

श्रोष्यामो वरधर्मश्रेष्ठरतनं मार्गं ऋजुं अञ्जसम्।

तेषां छिन्दिषु संशयान् मतिधरा धर्मेण संतोषयी

शीलक्षान्तिसमाधिपारमिगता जानन्त सत्त्वशयान्॥ ६५॥

ज्ञानी ज्ञानवराग्र पारमिगताः सत्त्वाशये कोविदाः

जानन्तः परसत्त्वचित्तचरितं येषां कथा यादृशी।

ये ये ज्ञानकथाय सत्त्वनयुता वरधर्मचक्षुर्लभाः

ते ते ज्ञानविशेषपारमिगता मार्गोपदेशंकराः॥ ६६॥

मारा कोटिसहस्र तेष विदुषां चित्तं पि नो जानिषु

आकाशे यथ पक्षिणां पदगतिं ज्ञातुं न शक्या क्वचित्।

शान्ता दान्त प्रशान्त ज्ञानवशिनो आर्यस्मि ज्ञाने स्थिताः

सर्वान् मार निहत्य शूर वृषभा बुध्यन्ति बोधिं शिवाम्॥ ६७॥

ऋद्धिपारमिप्राप्त भोन्ति सततं गच्छन्ति क्षेत्रान् शतान्

पश्यन्ति बहुबुद्धकोटिनियुतान् गङ्गा यथा वालिकाः।

चक्षुस्तेष न सज्जते दशदिशे पश्यन्ति रूपान् बहु

ये चो सत्त्व दशद्दिशे भवस्थिताः सर्वेष ते नायकाः॥ ६८॥

ते तस्यो भणि आनुशंस सकलां कल्पान कोटीशतान्

नो चो पूर्वचरीय वर्ण क्षपये प्रतिभानतो भाषतो।

बुद्धानां धनमक्षयं सुविपुलं ज्ञानस्य चो सागरं

यो एतं विरजं समाधिमतुलं धारेय कश्चिन्नरः॥ ६९॥



इति श्रीसमाधिराजे शीलस्कन्धनिर्देशपरिवर्तः षटत्रिंशतितमः॥ ३६॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project