Digital Sanskrit Buddhist Canon

सुपुष्पचन्द्रपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Supuṣpacandraparivartaḥ

सुपुष्पचन्द्रपरिवर्तः।



अथ खल्वायुष्मानानन्द उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्-पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशं सचेन्मे भगवानवकाशं कुर्यात् प्रष्टव्यप्रश्नव्याकरणाय। एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्-तेन ह्यानन्द स्वके आसने निषद्य पृच्छ त्वं तथागतमर्हन्तं सम्यक्संबुद्धं यद् यदेवाकाङ्क्षसि, अहं ते तस्य तस्य प्रश्नस्य व्याकरणेन चित्तमाराधयिष्ये। एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत्-कृतावकाशोऽस्मि भगवन्, कृतावकाशोऽस्मि सुगत प्रश्नव्याकरणाय। अथ खल्वायुष्मानानन्दो भगवतः पुरतः आसने निषद्य भगवन्तमेतदवोचत्- को नु भगवन् हेतुः कः प्रत्ययो यदिह एकत्या बोधिसत्त्वा बोधिसत्त्वचारिकां चरमाणा हस्तच्छेदान् पादच्छेदान् कर्णच्छेदानक्ष्युत्पाटनानि अङ्गोत्तमाङ्गच्छेदान् निगच्छन्ति प्रत्यङ्गच्छेदांश्च ? विविधानि दुःखानि प्रत्यनुभवन्ति ? नो च हीयन्ते ? न च परिक्षीयन्तेऽनुत्तरायाः सम्यक्संबोधेः ? एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्-सचेत् त्वमानन्द जानीया यानि मे दुःखानि प्रत्यनुभूतानि इमामनुत्तरां सम्यक्संबोधिं समुदानयितुम्, एतदपि ते च प्रतिभायात्। किं पुनर्यत्तथागतं परिप्रष्टव्यं मन्यथाः। तद् यथापि नाम आनन्द इह काश्चिदेव पुरुषः अधस्तात् पादतलमुपादाय यावन्मूर्धकादादीप्तो भवेत् प्रज्वलितः एकज्वालीभूतः, तं कश्चिदेव पुरुष उपसंक्रम्य एवं वदेत्-एहि त्वं भोः पुरुष अनिर्वापितेनात्मभावेन पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडस्व रमस्व परिचारयस्वेति। तत् किं मन्यसे आनन्द अपि तु स पुरुषः अनिर्वापितेनात्मभावेन पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडेत रमेत परिचारयेत ? आनन्द आह-नो हीदं भगवन्। भगवानाह-क्रीडेतानन्द स पुरुषो रमेत परिचारयेत परिकल्पमुपादायानिर्वापितेनात्मभावेन पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतः। न त्वेव तथागतस्य पूर्वं बोधिसत्त्वचारिकां चरमाणस्य सत्त्वांस्त्रिभिरुपायैर्दुःखितान् दृष्ट्वा दरिद्रान्नाभूत् सुखं वा सौमनस्यं वा चित्तप्रहर्षो वा। ये आनन्द बोधिसत्त्वा महासत्त्वाः पूर्वं बोधिसत्त्वचारिकां चरमाणा अखण्डशीला भवन्ति अछिद्रशीलाः अकल्माषशीला अशबलशीलाः अपरामृष्टशीलाः अचलितशीलाः, अलुलितशीला अकोप्यशीलाः, नोत्तानशीलाः, न परदर्शनशीलाः न विसंवादशीलाः, ऋजुशीलाः यथाप्रतिज्ञाशीलाः सत्त्वानुग्रहशीलाः। एवंरूपेण शीलेन समन्वागता भवन्ति, ते आनन्द बोधिसत्त्वा महासत्त्वा अनन्तां बोधिसत्त्वचारिकां चरमाणा न हस्तच्छेदेन परिहाणिं निगच्छन्ति। न पादच्छेदेन परिहाणिं निगच्छन्ति। न कर्णनासाच्छेदेन परिहाणिं निगच्छन्ति। न नेत्रोत्पाटनशीर्षच्छेदेन परिहाणिं निगच्छन्ति। नाङ्गप्रत्यङ्गच्छेदेन परिहाणिं निगच्छन्ति। न च विविधानि दुःखानि प्रत्यनुभवन्ति। क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते॥



भूतपूर्वमानन्द अतीतेऽध्वन्यसंख्येयकल्पैरसंख्येयतरैर्विपुलैरप्रमाणैरचिन्त्यैरतुल्यैरमाप्यैरपरिमाणैर्यदासीत्। तेन कालेन तेन समयेन रत्नपद्मचन्द्रविशुद्धाभ्युद्गतराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान्। तेन खलु पुनरानन्द समयेन तस्य भगवतो रत्नपद्मचन्द्रविशुद्धाभ्युद्गतराज्ञस्तथागतस्यार्हतः सम्यक्संबुद्धस्य नवतिकल्पकोटीनियुतशतसहस्राण्यायुष्प्रमाणमभूत्। सर्वत्र च दिवसे नवतिकल्पकोटीसहस्राणि सत्त्वानामवैवर्तिकतायां बुद्धधर्मेषु प्रतिष्ठापयति स्म। तेन खलु पुनरानन्द समयेन तस्य भगवतो रत्नपद्मचन्द्रविशुद्धाभ्युद्गतराज्ञस्तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य चरमिकायां पञ्चाशति सद्धर्मान्तर्धानकालसमये सद्धर्मविप्रलोपे वर्तमाने इमे एवंरूपाः सूत्रान्ता बहुजनजुगुप्सिता बहुजनविवर्जिता बहुजनविरुद्धा महाजनोत्सृष्टाश्चाभूवन्। महाभयभैरवकाले वर्तमाने महोपद्रवे अतिवृष्टिकालसमये अनावृष्टिकालसमये वर्तमाने व्यालकालसमये वर्तमाने विद्युत्कान्तारकल्पसमये दुर्भिक्षकालसमये मिथ्यादृष्टिकालसमये असम्यग्दृष्टिकालसमये तीर्थिकमन्त्रपर्येष्टिकालसमये बुद्धबोधेः प्रलुज्यमानकालसमये वर्तमाने सप्त बोधिसत्त्वसहस्राणि ग्रामनगरनिगमरा राजधानीजनपदेभ्यो निर्वासितानि समन्तभद्रं नाम वनखण्डं तदुपनिश्रित्य विहरन्ति स्म सार्धं सुपुष्पचन्द्रेण धर्मभाणकेन, यस्तेषां भिक्षूणां धारणीधर्मपयाय देशयति स्म। स खलु पुना राजा सुपुष्पचन्द्रो धर्मभाणक एको रहोगतः प्रतिसंलीनो दिव्येन चक्षुषा अतिक्रान्तमानुषेण पश्यति स्म-बह्वीर्बोधिसत्त्वकोटिरवरुप्तकुशलमूला अन्योन्येभ्यो बुद्धक्षेत्रेभ्यः इहोपपन्नाः। सचेत्ते लभेरन् धारणीधर्मपर्यायश्रवणाय, न निवर्तेरन्ननुत्तरायाः सम्यक्संबोधेः। अथ न लभेरन् धारणीधर्मपर्यायश्रवणाय, विवर्तेरन्ननुत्तरायाः सम्यक्संबोधेः। अथ खलु सुपुष्पचन्द्रो धर्मभाणकः स्मृतः संप्रजानंस्ततः समाधेर्व्युत्थाय येनासौ महान् बोधिसत्त्वगणस्तेनोपसंक्रान्तः उपसंक्रम्य तं महान्तं बोधिसत्त्वगणमेतदवोचत्- गमिष्यामः कुलपुत्राः। ग्रामनगरनिगमराष्टराजधानीरवतरित्वा सत्त्वेभ्यो धर्मं देशयिष्यामः। अथ खलु स महान् बोधिसत्त्वगणः सुपुष्पचन्द्रं धर्मभाणकमेतदवोचत्-नास्माकमभिप्रेतं यदायुष्मानितो वनषण्डाद् ग्रामनगरनिगमराष्ट्रराजधानीरवतरेत्। तत्कस्य हेतोः ? बह्वयोऽभिमानिका भिक्षुभिक्षुण्युपासकोपासिकाः। सद्धर्मप्रतिक्षेपकालश्च वर्तते। तमायुष्मन्तं जीविताद्वयवरोपयिष्यन्ति। आयुष्मांश्चातीव प्रासादिकोऽभिरूपो दर्शनीयः प्रथमयौवनसमन्वागतो भद्रके वयसि वर्तते। स धौतकाञ्चनहाटकच्छविः शङ्खकुन्देन्दुवर्णयोर्णया प्रतिमण्डितोऽपि शोभितललाटो नीलकुञ्चितकेशोणीषश्च। मा ते राजपुत्रा वा अन्ये वा तत्प्रतिमा ईर्ष्यामात्सर्योपहचेतसो जीविताद्वयवरोपयिष्यन्ति। अथ खलु सुपुष्पचन्द्रो धर्मभाणकस्तं बोधिसत्त्वगणमेतदवोचत्-सचेन्मे आत्मा आरक्ष्यो भवेत्, न मया अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शासने आरक्षा कृता भवेत्। तस्यां च वेलायामिमा गाथा अभाषत-



न आत्मसंज्ञाय वसित्व जातु

शक्यं इहा शासनि रक्ष कुर्वणा।

महाविताना सुगतान बोधिः

प्रकाशना पश्चिमि कालि दारुणे॥ १॥

यो आत्मसंज्ञा प्रजहित्व सर्वशः

सत्त्वानिमान् पुद्गलवादनिश्रितान्।

रूपाणि शब्दांश्च रसांश्च गन्धान्

स्प्रष्टव्यु वर्जेति स रक्षि शासनम्॥ २॥

बुद्धान कोटीनयुतान्युपस्थिहे -

दन्नेन पानेन प्रसन्नचित्तः।

छत्रैः पताकाभि दीपक्रियाभिः

कल्पान कोटी यथ गङ्गवालिकाः॥ ३॥

यश्चैव सद्धर्म प्रलुज्यमाने

निरुध्यमाने सुगतान शासने।

रात्रिंदिवं एक चरेय्य शिष्यान्

इदं ततः पुण्यु विशिष्टु भोति॥ ४॥

ये दानि तेषां पुरुषर्षभाणां

सद्धर्मि लुज्यन्ति उपेक्षि भावयी।

न तैर्जिना सत्कृत भोन्ति केचित्

न चो कृतं गौरवु नायकेषु॥ ५॥

युष्मे भोथ सुखी स्वकार्थु कुरुथा गोपायथा आत्मनं

युष्मे भोथ इहाप्रमत्त विनये मैत्रीविहारी सदा।

शीलं रक्षथ उज्ज्वलं अशबलं शुद्धं शुचि निर्मलं

येही रक्षितु शीलु भोति अमलं बुद्धेभि संवर्णितम्॥ ६॥

येही सत्कृतु भोन्ति सर्वि सुगता यावन्त पूर्वे अभूत्

तेहि त्रायितु भोन्ति सर्वजनता या बोधिसंप्रस्थिता।

तेही उद्धरिताः भवन्ति नरका सत्त्वा बहू पापकाः

येही रक्षितु भोन्ति शीलु अमलं बुद्धैः प्रशस्तं पुरा॥ ७॥

दानं देथ विशिष्ट धर्मरतनं क्षान्तिं सदा रक्षथा-

रण्यं चाश्रयथा समाधिकुशला भावेथ चो मार्दवम्।

मा चो विग्रह सर्वथा विचरथा शिष्टां शिवां चारिकां

गच्छामो वयु राजधानि नगरं सत्त्वान त्राणार्थिकाः॥ ८॥

तस्मिन्नोतरती महामतिधरे सत्त्वाग्रसारे ऋषौ

वर्तेन्ती इमि अश्रुकाः सुकरुणं पादेहि अन्ये पती।

मा ही ओतरही महामति विदु प्रेक्ष वने पादपान्

मञ्जुगन्ध मनोरमान् सुरुचिरानात्मान त्राणात्मकः॥ ९॥

तेऽपी पूर्व विनायका दशबलाः शान्तेन्द्रियाः सूरताः

गत्वा काननि शैलशृङ्गशिखरे बोधाधिगम्यां वराम्।

श्रेष्ठां चारिक बोधिहेतु चरितास्ते पुण्यज्ञानां वराः

तेषां शिक्षिहि कानने निवसतो मा गच्छ त्वं सुव्रत॥ १०॥

गात्रं चित्रितु लक्षणैः सुरुचिरैः केशाश्च नीलास्तवा

वर्णः काञ्चनसंनिभप्रभकरो ओभासते मेदिनीम्।

ऊर्णा ते भ्रमुखान्तरे सुरुचिरा शङ्खनिकाशप्रभा

मा ते ईर्ष्यु जनित्व कायु विकिरी राजानुराजे तथा॥ ११॥

अथ खल्वानन्द सुपुष्पचन्द्रो धर्मभाणकस्तं बोधिसत्त्वगणं गाथयाभ्यभाषत-

यावन्तः परिमेण आसि सुगताः सर्वज्ञ क्षीणास्रवाः

सर्वे तेऽथ करिंसु लोकि त्रिभवे बोधाधिगम्यां वराम्।

श्रेष्ठां चारिक बोधिहेतु चरितास्ते पुण्यज्ञानां वराः

तेषां शिक्षय बोधिसत्व नियुता सत्त्वान त्राणार्थिकः॥ १२॥

सर्वे कृत्व प्रदक्षिणं ऋषिविदुं पादानि वन्दित्वना

घोरं आश्वसतो स्वनन्ति करुणं क्रन्दन्त आर्तस्वरम्।

अन्ये छिन्न प्रपात मेदिनि पती मूर्च्छित्व सालो यथा

नो चा ते परिवर्ति पुण्यनिचितः सत्त्वार्थकामो ऋषिः॥ १३॥

पात्रं चीवरु गृह्य प्रस्थितु ऋषी सिंहो यथा केसरी

नो चास्यो गुणदोष तत्र अकरी धर्मस्वभावे स्थितः।

घने काननि अस्मि लोकि वसतः सत्त्वा अपाये पति

सोऽभूत्तं नगरं गमी पुरवरं सत्त्वानं त्राणार्थिकः॥ १४॥



अथ खलु सुपुष्पचन्द्रो धर्मभाणको ग्रामनगरनिगमराष्टराजधानीरवतरित्वा सत्त्वानां धर्मं देशयति स्म। तेन पूर्वाह्णे अवतरित्वा सत्त्वानां नवनवति प्राणिकोट्यः अवैवर्तिंकतायां स्थापिताः अनुत्तरायां सम्यक्संबोधौ। न च तां रत्नावतीं राजधानीमनुप्राप्तः। सोऽनुपूर्वेण तां रत्नावतीं राजधानीमनुप्राप्तः। स तस्यां रत्नावत्यां राजधान्यामुपसंक्रमित्वा अन्यतरस्मिन् प्लक्षसालमूले व्यहार्षीत्। स तस्या रात्र्या अत्ययेन तां रत्नावतीं राजधानीं प्राविशत्। प्रविश्य षटत्रिंशत्प्राणिकोटीरवैवर्तिकत्वे स्थापयति बुद्धधर्मेषु। न च तावद् भक्तकृत्यमकार्षीत्। स भक्तच्छेदच्छिन्नो रत्नावत्या राजधान्या निष्क्रम्य येन भगवतो नखस्तूपस्तेनोपसंक्रम्य आस्थितक एव रात्रिंदिवमतिनामयति स्म। स तस्या रात्र्या अत्ययेन द्वितीये प्राग्भक्ते रत्नावतीं राजधानीं प्रविश्य त्रयोविंशतिप्राणिकोटीरवैवर्तिकबुद्धधर्मेषु प्रतिष्ठापयति स्म। न च तावद् भक्तकृत्यमकार्षीत्। स द्वितीयभक्तच्छेदच्छिन्नो रत्नावत्या राजधान्या निष्क्रम्य येन भगवतो नखस्तूपस्तेनोपसंक्रम्य उत्थितक एव रात्रिंदिवमतिनामयति स्म। स तस्यां रात्र्यामतीतायां त्रिरात्रभक्तच्छेदच्छिन्नो रत्नावतीं राजधानीं प्रविश्य नवनवतिप्राणिकोटीशतसहस्राण्यवैवर्तिकबुद्धधर्मेषु प्रतिष्ठापयति स्म। न च तावद् भक्तकृत्यमकार्षीत्। स त्रिरात्रभक्तच्छेदच्छिन्नो रत्नावत्या राजधान्या निष्क्रम्य येन भगवतो नखस्तूपस्तेनोपसंक्रम्य उत्थितक एव तृतीयं रात्रिंदिवमतिनामयति स्म। स तस्या रात्र्या अत्ययेन चतुर्थे प्राग्भक्ते रत्नावतीं राजधानीं प्रविश्य नवनवतिप्राणिशतसहस्राण्यवैवर्तिकबुद्धधर्मेषु प्रतिष्ठापयति। स चतुर्दिवसभक्तच्छेदच्छिन्नो रत्नावत्या राजधान्या निष्क्रम्य येन भगवतो नखस्तूपस्तेनोपसंक्रम्य उत्थितक एव रात्रिंदिवमतिनामयति स्म। स तस्या रात्र्या अत्ययेन पञ्चमे दिवसे रत्नावतीं राजधानीं प्रविश्य राज्ञोऽन्तःपुरं प्राविशत्। प्रविस्य चाशीतिं स्त्रीसहस्राण्यवैवर्तिकत्वेऽनुत्तरायां समक्संबोधौ प्रतिष्ठापयति स्म। तस्माच्च नगरात् सर्वसत्त्वानवैवर्तिकतायां स्थापयति बुद्धधर्मेषु। स तस्या रात्र्या अत्ययेन षष्ठे प्राग्भक्ते रत्नावतीं राजधानीं प्रविश्य सहस्रं राजपुत्राणामवैवर्तिकत्वे स्थापयति स्म अनुत्तरायां सम्यक्संबोधौ। न च तावद् भक्तस्य कृत्यं करोति स्म। स षष्ठे भक्तच्छेदच्छिन्नो रत्नावत्या राजधान्या निष्क्रम्य येन भगवतो नखस्तूपस्तेनोपसंक्रम्य रात्रिंदिवमतिनामयति स्म। स तस्य रात्र्या अत्ययेन सप्तमे पुरोभक्ते रत्नावतीं राजधानीं प्रविश्याद्राक्षीच्छूरदत्तं राजानमुद्यानमभिनिष्क्रमन्तं सुवर्णमयेन रथेन रूप्यमयैः पक्षभिरुरगसारचन्दनमय्या ईषया वैदूर्यमयैश्चक्रैः उच्छ्रितच्छत्रध्वजसमलंकृतेन ईषापट्टावनद्धेन दूष्यपट्टसंछादितेन यत्राष्टौ शतानि कुमारीणां रत्नसूत्रपरिगृहीतानाम्, यास्तं रथं वाहयन्ति अभिरूपाः प्रासादिका दर्शनीयाः परमया शुभ्रवर्णपुष्कलतया समन्वागताः प्रितिकार्ये औद्विल्यकार्ये बालानां न पिण्डतानाम्। चतुरशीतिक्षत्रियमहाशालकुलसहस्राणि पृष्ठतः समनुबद्धान्यभूवन्। चतुरशीतिब्राह्मणमहाशालसहस्राणि चतुरशीतिगृहपतिमहाशालसहस्राणि पृष्ठतः पृष्ठतोऽनुबद्धान्यभूवन्। पञ्च च दुहितृशतानि रत्नमयीशिबिकाभिरूढाः पुरतो निर्यान्ति स्म। ताः सहदर्शनेनैव तस्य भिक्षोरवैवर्तिका अभूवन्ननुत्तरायां सम्यक्संबोधौ। अष्टषष्टिश्चान्तःपुरिकाशतसहस्राणि सहदर्शनेनैव तस्य भिक्षुरवैवर्तिकान्यभूवन्ननुत्तरायां सम्यक्संबोधौ। स च महाजनकायो मणिकुण्डलान्यपनीय पादुकाश्चापनीय एकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन स भिक्षुस्तेनाञ्जलिं प्रणम्य नमस्यमानः स्थितोऽभूत्। अथ खलु ता अपि कुमार्थः पूर्वकैः कुशलमूलैः संचोदिताः समानास्ताभ्यः शिबिकाभ्योऽवतरित्वा एकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन स भि स्तेनाञ्जाल प्रणम्य गाथाभिरध्यभाषन्त -



अवभासितमद्यैवं रविणेव समन्ततः।

भिक्षुणा प्रविशन्तेन जनकायश्च धिष्ठितः॥ १५॥

रागदोषाः समुच्छिन्ना मोहाश्च विधमीकृताः।

क्रोधो दोषश्च ईर्ष्या च सर्वं छिन्नं तदन्तरम्॥ १६॥

न राजं प्रेक्षते कश्चिन्नं चैवमनुयात्यसौ।

यो राज्ञः शूरदत्तस्य परिवारः सुतादिकः॥ १७॥

पूर्णमास्यां यथा चन्द्रो नक्षत्रपरिवारितः।

एवं स शोभते भिक्षू राजपुत्रपुरस्कृतः॥ १८॥

स्वर्णबिम्बं यथा चित्रं कुशलेभिः सुचित्रितम्।

पुष्पितः सालराजो वा एमेव भिक्षु शोभते॥ १९॥

शक्रश्च देवेन्द्र महानुभावः

सहस्रनेत्राधिपतिः पुरंदरः।

सुमेरुमूर्ध्नि त्रिदशान ईश्वरो

एमेव भिक्षुः प्रविशतु शोभतेऽयम्॥ २०॥

ब्रह्मेव मन्ये प्रतिष्ठितु ब्रह्मलोके

सुनिर्मितो वाधिपति देवपुत्रः।

सुयामु देवो यथरिव कामधातौ

एमेव भिक्षुः प्रविशतु शोभतेऽयम्॥ २१॥

सूर्यो वा मन्ये प्रतपति अन्तरीक्षे

सहस्ररश्मिर्विधमिय अन्धकारम्।

ओभासयन्तो समु दिशता समन्ताद्

एमेव भिक्षुः प्रविशतु शोभतेऽयम्॥ २२॥

दानं ददित्वा सुविपुल नन्तकल्पान्

रक्षित्व शीलं अशबलु नित्यकालम्।

भावेत्व क्षान्तिमसदृश सर्वलोके

सो लक्षणेभिः परिवृतु एव शोभी॥ २३॥

जनयित्व वीर्यं अरियजनप्रशस्तं

सेवित्व ध्याना चतुरि अलीनचित्तः।

उत्पाद्य प्रज्ञां निहनिय क्लेशजालं

तेनैष भिक्षुः प्रतपति सर्वलोके॥ २४॥

ये बुद्धवीरा असदृश सत्त्वसाराः

समतीत शूरा विकिरिय धर्मश्रेष्ठान्।

येऽनागतेऽध्वे तथरिव प्रत्युत्पन्ने

तेनैष पुत्रो वशगानु धर्मराज्ञः॥ २५॥

मा ते अनित्यं भवतु कदाचि भिक्षो

यद्रपतैवं प्रतपसि सर्वलोके।

संपश्य तेजो सुरुचिर शब्दघोषो

राजान तेजो न तपति सुष्ठु भूयः॥ २६॥

धर्मो यथायं अधिगतु आत्मना ते

बुद्धानुज्ञातो विचरसि सर्वलोके।

एमेव सर्वे विजहित इस्त्रिभावं

सर्वेऽपि यामो यथरिव एष भिक्षुः॥ २७॥

ते अञ्जलीयो दशनख कृत्व सर्वे

भाषित्व गाथाः क्षिपिंसु पिलन्धनानि।

सौवर्णमाला तथपि च मुक्तहारा-

नवतंसकानि तथपि च कर्णनिष्कान्॥ २८॥

राजा वै यथ चक्रवर्ति बलवान् सर्वान् विपश्यी मही

पुत्रसंज्ञ उपस्थपेति विचरन् द्वीपानि चत्वारिमे।

श्रेष्ठी क्षत्रिय ब्राह्मणां गृहपती ये कोट्टराजा स्वका

नो तेषामतिरेकु स्नेह जनयी सर्वेषु प्रेमं समम्॥ २९॥

एवं शिक्षित धारणीवशगतो भिक्षू अयं सूरतो

बोध्यङ्गा बल इन्द्रियान् बिभजति मार्गं च अष्टाङ्गिकम्।

चन्द्रो वा यथ रात्रिये प्रतपति तारागणैर्मध्यगो

सूर्यश्चो यथ मण्डलं प्रतपते वैरोचनस्तेजवान्॥ ३०॥

सर्वान् बुद्धान्नमस्यामो दशबलान् शान्तेन्द्रियान् सूरतान्

येषां वर्णनु कश्चिदुत्सहि नरो कल्पाशतैः क्षेपितुम्।

कल्पा कोटिसहस्र भाषितु बहून् नो चेद् गुणा क्षेपितुं

नो चो वर्ण क्षिपेय लोकप्रवरे एकस्य रोमस्य हि॥ ३१॥

येनो चक्र प्रवर्तितं असदृशं ज्ञानोपदं देशितं

निपुणं धर्म प्रभाषितस्य विरजं नो चास्य दृश्यं क्वचित्।

श्रमणाब्राह्मणदेवानाग असुरौर्मारैः सब्रह्मादिभि-

र्नो शक्तो गुणआर्णवः प्रकथितुं बुद्धस्य सर्वज्ञिनः॥ ३२॥

वन्दामो जिनवैद्यराजमसमं यस्येदृशा औरसाः

भाषित्वा इमि गाथ सर्वि मुदिता राज्ञः कुमार्यस्तदा।

स्वर्णं काञ्चनचूर्णकांश्च प्रकिरी चैलानि च प्रस्तरी

चूडानां च मणीन् सहाररुचिरा कोटीशतामूलिका

तं भिक्षुं अभिछादयित्व मुदिता बोधाय संप्रस्थिताः॥ ३३॥

अथ खलु राज्ञः शूरदत्तस्यैतदभवत्-विप्रतिपन्नं बतेदमन्तःपुरं जनकायश्च व्युत्थितः। स च जनो मणिकुण्डलान्यपनीय एकांसं चीवरमावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन स भिक्षुस्तेनाञ्जलिं प्रणम्य नमस्यति स्म। स च राजा शूरदत्तस्तावत् प्रासादिकोऽभूत् तावद्दर्शनीयो न च तावदभिरूपो यावदभिरूपः स भिक्षुः। स राज्यहेतोरुत्त्रस्तोऽभूत्। रूपकायपरिनिष्पत्तिं च तस्य भिक्षोदृष्ट्वा अतीव रोषमकार्षीत्। तस्य च भिक्षो राजमार्गस्थस्य राज्ञश्चक्षुर्भ्यां प्रविष्टः। तस्यैतदभवत्-संरक्तचित्तेनैतेन भिक्षुणा ममान्तःपुरः दृष्टम्। अक्षिभ्यां चानेन संकेतः कृतः। तस्यैतदभवत्-क इदानीमिमं भिक्षुं जीविताद् व्यवरोपयिष्यतीति। अथ राज्ञः शूरदत्तस्यः पृष्ठतः पुत्रसहस्रमनुबद्धमभूत्। स तानामन्त्रयति स्म-व्यवरोपयध्वं कुमारा एतं भिक्षुं जीवितादिति॥



अथ खलु ते कुमारा राज्ञः शूरदत्तस्य प्रतिवहन्ति स्म तस्य भिक्षोः कृतशः। तस्यैतदभवत्-पुत्रा अपि मे आज्ञां न कुर्वन्ति। एक एवाहं स्थापितः अद्वितीयः। क इदानीमिमं भिक्षुं जीविताद्वयवरोपयिष्यति ? अथ राज्ञः शूरदत्तस्य नन्दिको नाम वध्यघातकोऽभूत् चण्डः साहसिको रौद्रः। अथ राजा शूरदत्तस्तुष्ट उदग्रः आत्तमनाः एवं चिन्तयामास-अयं नन्दिक एतं भिक्षुं जीविताद्वयवरोपयिष्यति। अथ खलु नन्दिको वध्यघातको येन राजा शूरदत्तस्तेनोपसंक्रामत्। अथ खलु राजा शूरदत्तस्तमाह-शक्ष्यसि त्वं नन्दिक एतं भिक्षुं जीविताद्वयवरोपयितुम् ? महान्तं तेऽभिच्छादं दास्यामि। नन्दिक आह-सुष्ठु देव, यथाज्ञापयसि। अद्यैनं भिक्षुं जीविताद्वयवरोपयिष्यामि। तेन हि नन्दिक यस्येदानीं कालं मन्यसे। तीक्ष्णमसिं गृहीत्वा एतं भिक्षोर्हस्तपादं छिन्द। कर्णनासां छिन्द। अनेन मे संरक्तचित्तेनान्तःपुरं प्रेक्षितम्। अतोऽस्य संदंशेनाक्षिणी उत्पाटय। अथ नन्दिकेन वध्यघातकेन तस्यामेन वेलायां तीक्ष्णमसिं गृहीत्वा भिक्षोहस्तपादाश्छिन्ना अक्षिणी चोत्पाटिते। ततोऽसौ महान् जनकायो रुदन् क्रन्दन् परिदेवमानः पुनरपि रत्नावतीं राजधानीं प्रविष्टः॥



अथ खलु राजा शूरदत्तः सप्ताहस्यात्ययादुद्यानगतो न रमते न क्रीडति न परिचारयति। स उद्यानान्निवृत्तः सप्ताहस्यात्ययेन रत्नावतीं राजधानीं प्राविशत्। सोऽद्राक्षीत्तं भिक्षुं राजमार्गे छोरितं सप्ताहमृतकं अविवर्णशरीरम्। तस्यैतदभूत्-यथायं भिक्षुरविवर्णशरीरः, निःसंशयमेष भिक्षुरवैवर्तिको भविष्यत्यनुत्तरायां सम्यक्संबोधौ। पापं मया कर्म कृतं महानगरकसंवर्तनीयम्। क्षिप्रमेव मया महानिरये प्रतिपत्तव्यं भविष्यति। तस्यैवं चिन्तयतः उपर्यन्तरीक्षे चतुरशीतिभिर्देवपुत्रसहस्रैरेकरुतस्वरघोषशब्दमुदीरितम्-एवमेतन्महाराज यथा वदसि। अवैवर्तिक एष भिक्षुरनुत्तरायां सम्यक्संबोधौ। तस्य तावद् भूयस्या मात्रया भयं च त्रासं च स्तम्भितत्वं च रोमहर्षश्चोत्पन्नो विप्रतिसारश्चाभूत्। अथ राजा शूरदत्तो दुःखितो दुर्मना विप्रतिसारी तस्यां वेलायामिमा गाथा अभाषत -

राज्यं त्यजिष्ये तथपि च राजधानीं

हिरण्य सुवर्णं तथ मणिमुक्त रत्नान्।

घातेयमात्मा स्वय शस्त्र गृह्य

निहीनकर्मास्मिह बालबुद्धिः॥ ३४॥

सुपुष्पचन्द्रोऽयमिह भिक्षुरासीद्

द्वात्रिंशता कवचितु लक्षणेभिः।

ओभासयन्तो प्रविशति राजधानीं

नक्षत्रराजो यथरिव पूर्णमास्याम्॥ ३५॥

अहं च हीनः प्रलुलितु कामभोगे

नारीगणेना प्रमुदितु निष्क्रमामि।

रथाभिरूढः परिवृतु क्षत्रियेभिः

अयं च एती सुरभि सुनेत्र भिक्षुः॥ ३६॥

तं दृष्ट्व भिक्षुं प्रमुदितु नारिसंघो

सौवर्णमालानवसिरि प्रेमजाता।

सर्वे गृहीत्वा दशनखु अञ्जलीयो

गाथाभिगीतैस्तमभिस्तविंसु भिक्षुम्॥ ३७॥

ते गीतशब्दाः प्रशमित सर्वि राज्ञः

स रथाभिरूढः परिवृतु क्षत्रियेभिः।

अयं च एती सुरभि सुनेत्रो भिक्षु-

र्महानुभावः सुगतवरस्य पुत्रः॥ ३८॥

मम चैव चित्तं परम निहीनु मासी-

दीर्ष्यां च क्रोधं च तत्र जनेमि मूढः।

मुदितं विदित्व सुविपुल नारिसंघो

आलोक्य भिक्षुं प्रविशतु राजधानिम्॥ ३९॥

अतिघोररूपा अहु गिरि भाषि तत्र

पुत्रसहस्रं भणमि तत्क्षणस्मिन्।

गत्वान भिक्षुं प्रकुरुत खण्डखण्डा-

मेषो हि मह्यं परम अमित्र घोरः॥ ४०॥

ते कुमार सर्वे परमसुशीलवन्तो

स्वहितैषिचित्ता अभिरत येन भिक्षुः।

आणत्ति देवा न करिय एवरूपा

शोकाभिभूतो अहमभु तस्मि काले॥ ४१॥

इमु भिक्षु दृष्ट्वा परम सुशीलवन्तं

मैत्र्या उपेतं पितरमिव प्रवृत्तम्।

सुदृष्टचित्तो अवसरि घातनार्थं

पतितो अवीचौ अहु पश्चकाले॥ ४२॥

यन्नन्दिकोऽयं इह स्थितु राजमार्गे

अतिरौद्रकर्मा दुखकरु मानुषाणाम्।

आणत्ति तेना मम कृत एवरूपा

मालागुणो वा अयमिह छिन्न भिक्षुः॥ ४३॥

समन्तभद्रे वनवरि प्रेमणीये

द्विजाभिकीर्णे कुसुमितमञ्जुगन्धे।

सो चापि अन्यः सुविपुल भिक्षुसंघो

मात्रा विहीनो यथरिव एकपुत्रकः॥ ४४॥

उत्तिष्ठ भिक्षो प्रतिवस काननस्मिन्

कृतो ते अर्थः सुविपुल मानुषाणाम्।

यद्राजधानीमिमु तद आगतोऽसि

एष्यन्ति भिक्षु सुकरुण क्रन्दमानाः॥ ४५॥

पुष्पध्वजानि इम कृत दक्षिणेना

वामेन अन्ये सुरुचिर दर्शनीयाः।

प्रज्ञप्त मार्गः स्फुट कृत चीवरेभि

उत्तिष्ठ भिक्षो प्रतिभण धर्म श्रेष्ठम्॥ ४६॥

चिरप्रविष्टो तुहु इह राजधान्या-

मेष्यन्ति भिक्षु सुकरुणु क्रन्दमानाः।

मा अन्तरायो भव सिय जीवितस्य

प्रलोपकाले जिनवरशासनस्मिन्॥ ४७॥

यथैव कश्चित पुरुष महानुभावो

दिक्षु विदिक्षु सततु विघुष्टशब्दः।

महाप्रपातं प्रपतति वसुंधरायां

सर्वाभिभूय त्रिभवमिमं समन्तात्॥ ४८॥

एमेव भिक्षुरिह पतितो धरण्यां

सुरूपरूपो भूषितु लक्षणैर्वरैः।

अदोषदुष्टो मय कृत पापबुद्धिना

सुपुष्पचन्द्रो तिष्ठति खण्डखण्डः॥ ४९॥

भिक्षु इहो दुःखहत सर्व एव

अप्रीतिजातास्तथपि च शल्यचित्ताः।

भेष्यन्ति क्षिप्रं दृष्ट्विमु धर्मभाणकं

सुपुष्पचन्द्रं हतु पतितं पृथिव्याम्॥ ५०॥

सुपुष्पचन्द्रो यथरिव शैलराजो

द्वात्रिंशतीभिः कवचितु लक्षणेभिः।

मालागुणेव प्रमदगणेन गृह्य

क्षणे विकीर्णं कृतु खण्डखण्डम्॥ ५१॥

कृतस्मि कर्मं परम सुघोररूपम्

अवीचि गमिष्ये यमविषयमनाथो।

बुद्धान भेष्ये परम सुदूरदूरे

स भिक्षुः कृतु इह खण्डखण्डम्॥ ५२॥

न पुत्र त्राण न पि मम ज्ञातिसंघो

नो चास्य मान्या न च भटपादमूलिकाः।

मेष्यन्ति त्राणं नरकगतस्य मह्यं

स्वयं करित्व परम निहीनकर्म॥ ५३॥

येऽतीत बुद्धास्तथपि च ये अनागता-

स्तिष्ठन्ति ये चो दशसु दिशासु केचित्।

ते सार्थवाहा दशबला निष्किलेशाः

शरणं उपैमी वज्रघन आत्मभावान्॥ ५४॥

दृष्ट्वान् भिक्षुं कृतु इह खण्डखण्डं

क्रोशः प्रमुक्तः सुकरुण देवताभिः।

गत्वान ते आरोचयि भिक्षुसंघे

सुपुष्पचन्द्रो इतु इह राज्यधान्याम्॥ ५५॥

योऽसौ विदु पण्डितु धर्मभाणको

महानुभावो दिशिविदिशासु घुष्टः।

सो बोधिसत्त्वो प्रतिष्ठितु धारणीये

सुपुष्पचन्द्रो हतु इह राजधान्याम्॥ ५६॥

यो देति दानं विविधमनन्तकल्पान्

यो शील रक्षत्यशबलमसंप्रवेधिम्।

यो भावि क्षान्तीमसदृश सर्वलोके

सुपुष्पचन्द्रो हतु इह राजधान्याम्॥ ५७॥

यो वीर्यवन्तः सततमनन्तकल्पान्

यो ध्यानु ध्यायी चतुरि अलीनचितः।

यः प्रज्ञ भावेति किलेशघातकीं

सुपुष्पचन्द्रो हतु इह राजधानिये॥ ५८॥

यः कायप्रेमं विजहित्व सर्वशोऽ

नपेक्ष भूत्वा तथ जीवितातो।

समन्तभद्राद्वनतोतरित्वा

सुपुष्पचन्द्रो हतु इह राजधानिये॥ ५९॥

ते राजधानीं प्रविशित्व सूरता

आर्तस्वरं क्रन्दिषु घोररूपम्।

दृष्ट्वान् भिक्षुं कृतु इह खण्डखण्डं

मूर्च्छित्व सर्वे प्रपतित ते धरण्याम्॥ ६०॥

राजान तं सो अवचिषु भिक्षुसंघो

किमापराद्धं तव देव भिक्षुणा।

अच्छिदशीलेन सुसंवृतेन

यः पूर्वजातिं स्मरते अचिन्तियाम्॥ ६१॥

एषो वशी धारणिज्ञानपारगो

एष प्रजानातिह शून्य संस्कृतम्।

एषोऽनिमित्तं जगतो निदर्शयी

प्रणिधानसंज्ञां इति सर्व वर्जयी॥ ६२॥

एषो मुञ्चि मनोज्ञ घोष रुचिरं शान्तेन्द्रियः सूरतो

एषो पूर्वनिवासपारमिगतो लोकस्य अभ्युद्गतः।

एषो बुद्ध स्वयंभु ज्ञानवृषयो लोकस्य चित्रीकृतः

शुद्धा चक्षुष प्रेक्षिषू वितिमिरो अत्यर्थ-मैत्री-कृपः॥ ६३॥

कामा हीन जघन्य दुःखजननाः स्वर्गस्य निर्नाशकाः

कामान् सेवतु भोन्ति श्रोत्रविकलाः प्रज्ञाविहीना नराः।

कामान् सेवतु अन्धु भोति मनुजो मातापित घातयी

कामान् सेवतु शीलवन्तु वधयी तस्माद्विवर्जेन्नरो॥ ६४॥

कामान् सेवतु राज पार्थिववरा वर्जेत्व ऋद्धिमिमां

घोरान् गच्छति कर्कशान् दुखकरान्नरकान् भयानन्तकान्।

पापं कर्म करोति ईदृश विदुं भिक्षुं वधेती सदा

तस्मात् पापु विवर्जितव्यु विविधं यो इच्छि बोधिं शिवाम्॥ ६५॥

रूपाणि शब्दान् रस तथ गन्ध श्रेष्ठान्

स्प्रष्टव्यधर्मान् त्यजति अलीनचित्तः।

कायं विदित्व यथरिव माय तुच्छं

चक्षुं च श्रोत्रं तथरिव घ्राण जिह्वम्॥ ६६॥

दाने शिक्षितु शीलि अप्रतिसमः क्षान्तिं च वीर्यं तथा

ध्यानं सेवतु प्रज्ञपारमिगतः सत्त्वान अर्थकरः।

लोकः सर्वु सदेवकः समनुजः प्रेक्षन्ति मैत्र्या जिनं

तेनो चक्षु महान्धकारगहने बुध्यन्ति बोधिं शिवाम्॥ ६७॥

हस्ती अश्वरथांस्त्यजन्ति मुदिता अङ्गालमञ्चांस्तथा

शिबिकां दोल्लिकयुग्ययानवृषभान् ग्रामाणि राष्ट्राणि च।

नगरं राज्य त्यजित्व स्वर्णस्फटिकां रूप्यं प्रवालांस्तथा

भार्याप्रियपुत्रधीरस्वशिरास्त्यजित्वा बोधिप्रस्थिताः॥ ६८॥

पूजां चो अतुलां करोन्ति मुदिताः पुष्पेभि गन्धेभि चो

गृह्य च्छत्रध्वजा पताक विविधा संगीतिभाण्डानि च।

नो चापी अभिनन्दिषु भवगतिं ज्ञात्वान शून्यान् भवान्

तेनो लक्षणचित्रिता दशबला भासन्ति सर्वा दिशः॥ ६९॥

न कामधातौ न च रूपधाता-

वारूप्यधातौ च न ते निविष्टाः।

त्रैधातुकं नाभिनिविष्टधर्मा

ये बोधिसत्त्वाः प्रतिष्ठितु धारणीये॥ ७०॥

नो आत्मसंज्ञा न च पुन सत्त्वसंज्ञा

नो जीवसंज्ञा पुद्गलसंज्ञ नापि।

नित्यं चरन्ता अशबलु ब्रह्मचर्यं

ये बोधिसत्त्वाः प्रतिष्ठितु धारणीये॥ ७१॥

न भावसंज्ञा न च पुनरभावसंज्ञा

न क्षेमसंज्ञा न पुनरक्षेमसंज्ञा।

नो सौख्यसंज्ञा न पुनरसौख्यसंज्ञा

ये बोधिसत्त्वाः प्रतिष्ठितु धारणीये॥ ७२॥

नो अस्तिसंज्ञा न पुनर्नास्तिसंज्ञा

नो इस्त्रिसंज्ञा न पुनः पुरुषसंज्ञा।

न ग्रामसंज्ञा न च नगरेषु संज्ञा

नो राष्ट्रसंज्ञा न पि निगमेषु संज्ञा॥ ७३॥

नो रागसंज्ञा न पुन विरागसंज्ञा

नो दोषसंज्ञा न पुनरदोषसंज्ञा।

नो मोहसंज्ञा न पुनरमोहसंज्ञा

ये बोधिसत्त्वाः प्रतिष्ठितु धारणीये॥ ७४॥

नो इन्द्रियेभिर्न पुन ते बलेभि-

र्बोध्यङ्गध्याने न च पुन ते निविष्टाः।

त्रैधातुके ते प्रविजहि दोष सर्व

ये बोधिसत्त्वाः प्रतिष्ठितु धारणीये॥ ७५॥

नो रागरक्ता न च पुन दोषदुष्टा

नो मोहमूढा अशठ भवन्ति नित्यम्।

दृष्ट्वा च बुद्धा दशबल सत्करोन्ति

नो चापि स्वर्गं मतिधर प्रार्थयन्ति॥ ७६॥

तेषां श्रुत्वा परत विशिष्टधर्मं

नो भुय तस्मिन् भवति कदाचि काङ्क्षा।

तैलस्य पात्रं यथरिव अच्छ शुद्धं

छेदाच्छेदं परमत तेभि ज्ञातम्॥ ७७॥

स्नेहं कुर्वतु जायते अनुनयः सोऽपी किलेशो महान्

दोषं कुर्वतु जायतेऽस्य प्रतिघो वैरं भयं पापकम्।

द्वावेतौ विजहित्वना मतिघरा बोधाय ये प्रस्थिताः

ते भोन्तीह नरर्षभा दशबला लोके समभ्युद्गताः॥ ७८॥

अध्यात्मं प्रजहित्व बाह्यमपि चो धर्मस्वभावे स्थिताः

शीलस्कन्धु विशोधितो अशबलो अखण्ड अच्छिद्रितः।

नो वा तेषु कदाचि शील शबलं नो चापि कल्माषता

द्वावेतौ परिवर्जिया मतिधरा बुध्यन्ति बोधिं शिवाम्॥ ७९॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत-

अहं स पूर्वे चरमाणु चारिकां

राजा अभूवं तद शूरदत्तः।

रतनावती नाम स राजधानी

उद्यानभूमिर्यतु निष्क्रमामि॥ ८०॥

रथाभिरूढस्तद दृष्ट्व भिक्षुं

समन्तप्रासादिकु दर्शनीयम्।

द्वात्रिंशता कवचितु लक्षणेभि -

रोभासयन्तं दश दिशता समन्तात्॥ ८१॥

सुपुष्पचन्द्रो दिशता सुविश्रुतो

हितानुकम्पी करुणाविहारी।

सत्त्वानुकम्पी नगरं प्रविष्टः

शिरीय तेजेन च शोभमानः॥ ८२॥

अहं च रूपेण तादृशोऽभवं

मात्सर्यमुत्पन्नु सुभैरवं मे।

कामेषु गृद्धो ग्रथितश्च राज्ये

मा एष राज्यान्मम च्यावयेत॥ ८३॥

पुत्राण संपूर्ण सहस्र मह्यं

रथानुरूढा अनुयान्ति पृष्ठतः।

विचित्रमुकुटाभरणा विभूषिता

यथ देवपुत्रास्त्रिदशेन्द्र यान्ति॥ ८४॥

दुहितॄण तस्मिन् शत पञ्च मह्यं

मणिपादुकारूढ सुदर्शनीयाः।

आबद्धमुकुटाभरणा विभूषिता-

स्ते हेमजालै रथु ते वहन्ति॥ ८५॥

स्त्रीणां सहस्राणि अशीति मह्यं

प्रासादिकाः सर्व सुदर्शनीयाः।

रथाधिरूढाः समुदीक्ष्य भिक्षुं

प्रासादिकं मेरुमिवोद्गतश्रियम्॥ ८६॥

दृष्ट्वा च तासां पितृसंज्ञ जाता

उत्पादितं चित्त वराग्रबोधये।

समादयित्वा तद ब्रह्मचर्यं

क्षिपिंसु तानाभरणान् मनोरमान्॥ ८७॥

ईर्ष्या ममोत्पन्न अभूषि तत्क्षणं

व्यापाददोषश्च खिलं चा दारुणम्।

ऐश्वर्यमत्तश्च वदामि पुत्रान्

घातेय भिक्षुं स्थितु यः पुरस्तात्॥ ८८॥

श्रुत्वाथ ते मह्य कुमार वाक्यं

सुदुःखिता दुर्मनसो अभूवन्।

मा एव प्रव्याहर तात वाचं

न घातयामो वय भिक्षुमीदृशम्॥ ८९॥

यद्यङ्गमङ्गातु शरीर छिद्येत्

कल्पान कोट्यो यथ गङ्गवालुकाः।

न त्वेव भिक्षुं वय हिंसयेम

तथाहि बोधाय उत्पन्नु चित्तम्॥ ९०॥

श्रुत्वाथ राजा तद पुत्रवास्यं

भृत्यं भणी रोषितु वध्यघातकम्।

आनेथ शीघ्रं इमु भिक्षु घातयी

स्थितु यः पुरस्तापि अन्तःपुरस्य॥ ९१॥

अथागमी पश्चि स वध्यघातको

स रौद्रचित्तो व सु नन्दिनामा।

असिं गृहीत्वान स तैलपायितं

येनो कृतो भिक्षुण अष्टखण्डः॥ ९२॥

कृत्वा त्वकर्मेति सुघोररूपं

निर्यातु उद्यानु गता क्षणेन।

न तस्य क्रीडा न रती च जायते

स्मरित्व भिक्षुं तद पुष्पचन्द्रम्॥ ९३॥

स शीघ्रशीघ्रं त्वरमाणरूपः

ततः प्रविष्टः स्वकु राजधानीम्।

रथाभिरूढो गतु तं प्रदेशं

यस्मिन् कृतो भिक्षु स अष्टखण्डम्॥ ९४॥

अश्रौषि सो घोषमथान्तरीक्षाद्

बहून् देवानयुतान क्रन्दताम्।

कलिराज पापं सुबहु त्वया कृतं

च्युतो गमिष्यस्यसुखं अवीचिम्॥ ९५॥

श्रुत्वान राजा मरुतान घोषं

सुदुःखितो दुर्मनु त्रस्तचित्तः।

बहू मया दारुण पापकं कृतं

येनो मया घातितु पुष्पचन्द्रः॥ ९६॥

यः पुत्रु बुद्धान नरर्षभाणां

अनन्तज्ञानीन तथागतानाम्

गुप्तेन्द्रियः सूरतु शान्तमानसः

सोऽपी मया घातितु कामकारणात्॥ ९७॥

यो धर्मु धारेति तथागतानां

सद्धर्मकोशं क्षयि वर्तमाने।

ज्ञानप्रदीपं करि सर्वलोके

कष्टं स मे घातितु कामकारणात्॥ ९८॥

यो धर्म प्रव्याहरती प्रजानां

गम्भीर शान्तं निपुणं सुदुर्दृशम्।

यो बोधिमण्डस्य वरस्य देशकः

सोऽयं मया घातितु कामकारणात्॥ ९९॥

यो धर्मकोशंधरु नायकाना-

मन्धस्य लोकस्य प्रदीपभूतः।

यो धारणी धारयि सूत्रराजं

स किं मया घातितु कामकारणात्॥ १००॥

असंकिलिष्टः सुविशुद्धज्ञानी

शान्तः प्रशान्तः सततं समाहितः।

कामान्धभूतेन मयाद्य घातितो

येनातिकष्टं निरयं गमिष्ये॥ १०१॥

येऽतीत बुद्धाप्यथ ये अनागता

ये चापि तिष्ठन्ति नरोत्तमा जिनाः।

अनन्तवर्णान् गुणसागरोपमान्

उपैमि सर्वान् शरणं कृताञ्जलिः॥ १०२॥

घोरान् गमिष्ये निरयांश्च्युतस्य

त्राता न तत्र प्रतिविद्यते मम।

कर्मं ह्यनिष्टं हि कृतं मयाद्य

यद् घातितोऽयं मय धर्मभाणकः॥ १०३॥

धिक् पापचित्तं व्यसनस्य कर्तृ

धिग् राजभावं मदगर्वितानाम्।

एकः प्रयास्यामि विहाय सर्वं

सारं न मे किंचिदितो गृहीतम्॥ १०४॥

विशुद्धधर्मो गतदोषमोहः

प्रियंवदः कारुणिको जितात्मा।

अदूषकः सर्वजनैकबन्धुः

कस्माद्धतो मे वरपुष्पचन्द्रः॥ १०५॥

हा सुव्रता क्षान्तितपोधनाढ्या

हा रूपदाक्षिण्यगुणैरुपेता।

हा निष्कुहा श्रीघन निष्प्रपञ्चा

कुह प्रयातोऽसि विहाय मा त्वम्॥ १०६॥

अद्यावगच्छामि महर्षिवाक्यं

कामा ह्यनित्या वधकाः प्रजानाम्।

मनोज्वरा दुर्गतिहेतवश्च

तस्मात् प्रहास्ये एत कामचर्याम्॥ १०७॥

यास्ये घोरमहं ह्यवीचिनिरयं त्राणं न मे विद्यते

पापं कर्म कृतं ह्यनिष्टमसुखं भिक्षुर्मया घातितः।

मुक्त्वा राज्य हु ब्रह्मचर्यपरमः पूजां करिष्ये वरां

पुष्पैर्गन्धविलेपनैः सुरुचिरैः स्तूपं करिष्याम्यहम्॥ १०८॥

पुत्राश्चो दुहितॄः स्त्रियो गृहपती ये चा अमात्या मम

श्रेष्ठी नैगम क्षत्रिया बहुविधाः सर्वेष भाषाम्यहम्।

अगरुं पद्मकु चन्दनं सुरुचिरं गन्धाश्च ये शोभनाः

शीघ्रं कुर्वथ मञ्जुगर्भशिबिकां यद्भिक्षु ध्मापीयतु॥ १०९॥

श्रुत्वा पार्थिववाक्य सर्वनगरं गन्धां हरित्वा वरां

चितिकां कृत्व मनोज्ञगन्ध रुचिरामारोप्य भिक्षुं तहिम्।

अगरुं पद्मकु चन्दनं सतगरं स्पृक्कां तथा पाटलां

पुष्पैर्माल्यविलेपनेन रुचिरैस्तैलेन प्रज्वालयी॥ ११०॥

द्रोण्यां तस्य कृतं शरीरमभवद् या मापिता भिक्षुभि-

स्तेषां स्तूपु करित्व राज अवची पूजास्य कामाम्यहम्।

पुष्पं माल्य विलेपनं च ग्रहिय च्छत्रान् पताकां ध्वजां -

स्तस्मिंस्तूर्यसहस्रकोटिनयुतां वादापयी पार्थिवः॥ १११॥

त्रैकाल्यं दिवसे व्रजी महिपति भिक्षुस्य स्तूपं तदा

त्रिष्वप्यध्वसु देशयी पुरीमकं यत्किंचि पापं कृतम्।

वर्षा कोटिसहस्र पञ्चनवतिं तं क्षेपयी दुष्कृतं

शीलं पश्चि अखण्ड रक्षितु वरं शुद्धं शुची निर्मलम्॥ ११२॥

वर्षा कोटिसहस्र पञ्चनवतिं पोषी तदा पोषधं

भिन्ने चो तद आत्मभावि पतितो घोरामवीचिं पुनः।

कृत्वा निर्घृण कर्म वेदयि दुखं कामंनिदानं बहु

बुद्धा कोटिसहस्र पञ्चनवतिं वीरागिता ये मया॥ ११३॥

वर्षा कोटिसहस्र पञ्चनवती अन्धोऽहमासं तदा

द्वाषष्टी पि च कल्प कोटिनयुता नेत्रा मि भिन्ना पुरा।

नैका कल्पसहस्र कोटिनयुतामुत्पाट्य चक्षुर्हृतं

हस्ता च्छिन्न अनन्तकल्पनयुतान् पादाश्च कर्णाः शिराः॥ ११४॥

मानुष्ये सति कल्पकोटिनयुतानन्यासु वा जातिषु

दुःखा वेदन वेदयामि च चिरं संसारदुःखार्दितः।

कृत्वा पापकु कर्म दुःखनुभवी संसारमाणश्चिरं

तस्मात् पापु न कुर्यु अध्वि त्रिभवे यो बोधिमिच्छेच्छिवाम्॥ ११५॥

देशेत्व कर्मं पुरिमकु राजश्रेष्ठो

नासौ विमुच्यी पुरिमकु दुष्कृतातः।

कृत्वा च कर्मं पुरिमकु घोररुपं

स च च्यवित्व गच्छेन्निरयमवीचि घोरम्॥ ११६॥

हस्ता विच्छिन्नास्तथपि च पाद कर्ण

नासा विच्छिन्ना बहुविध नन्तकल्पान्।

नेत्रा च मह्यं बलशो हृता क्षिपित्वा

उत्क्षिप्त दण्डैर्विचरतु चारिकायाम्॥ ११७॥

त्यक्त्वा स्वकाये शिर कर बोधिहेतोः

पुत्राश्च दारान्नयन तथात्ममांसम्।

हस्तांश्च पादान् परित्यजि हृष्टचित्तो

नो च क्षपेमी पुरिमकु पापकर्म॥ ११८॥

राजा अभूवं तद अहु शूरदत्तो

ते पुत्र मह्यं चरिमक धर्मपालाः।

पद्मोत्तरोऽयं आसि सुपुष्पचन्द्रो

वसुनन्दि आसीद्दशबलु शान्तिराजः॥ ११९॥

सि नारिसंघो सुविपुल क्षत्रियाश्चो

गृहपती ये बलपति ये चमात्याः।

श्रेष्ठी तथैव नैगम कोदृराजा

सर्वेऽप्यभूषी दशबल निष्किलेशाः॥ १२०॥

कुमार एवाचरितमनन्तकल्पं

दृष्ट्वान् बुद्धान् धुतगुण निष्किलेशाः।

ते ते मि दुःखा तद अनुभूतपूर्वा

चरन्तु श्रेष्ठां इम बोधिचर्याम्॥ १२१॥

यो बोधिसत्त्वः प्रतिष्ठित धारणीये

मैत्राविहारी अचलितु अप्रकम्पी।

नासौ कदाचिद् व्रजति अपायभूमिं

पूजेत्व बुद्धान् धुतगुण निष्किलेशान्॥ १२२॥

यो इच्छि बुद्धो कथमिह धर्मस्वामी

द्वात्रिंशतीभिः कवचितु लक्षणेभिः।

सो शीलरक्षी अशबल अप्रवेधा

देशेति धर्मं प्रतिष्ठितु धारणीये॥ १२३॥



इति श्रीसमाधिराजे सुपुष्पचन्द्रपरिवर्तः पञ्चत्रिंशतितः॥ ३५॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project