Digital Sanskrit Buddhist Canon

ज्ञानावतीपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Jñānāvatīparivartaḥ

ज्ञानावतीपरिवर्तः।



तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन इमं समाधिमाकाङ्क्षता क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन कुशलमूले प्रतिष्ठिते धर्मदानेन वा आमिषदानेन वा योगः करणीयः। तेन बोधिसत्त्वेन महासत्त्वेन तद्दानं चतुसृभि परिणामनाभिः परिणामयितव्यम्। कतमाभिश्चतसृभिः ? यदुत यैरुपायकौशल्यैस्तैर्बुद्धैर्भगवद्भिरनुत्तरा सम्यक्संबोधिरभिसंबुद्धा, तेषामुपायकौशल्यानां प्रतिलम्भायेदं दानकुशलमूलमवरोपयामि। अयं प्रथमः परिणामः। येभ्यः कल्याणमित्रेभ्योऽन्तिकात्तान्युपायकौशल्यानि शृणुयामुद्गृह्णीयां पर्यवाप्नुयां धारयेयम्, तैरनुत्तरा सम्यक्संबोधिरभिसंबुध्यते। तैर्यैः कल्याणमित्रैः सार्धं समवधानं भवेत्, एवमेतद्दानकुशलमूलमवरोपयामि। अयं द्वितीयः परिणामः। ये भोगप्रतिलाभाः सर्वलोकोपजीव्या भवेयुस्तैर्मे भोगप्रतिलाभैः समवधानं भवेत्, एवमिदं कुशलमूलवरोपयामि। अयं तृतीयः परिणामः। य आत्मभावप्रतिलाभः द्वाभ्यामनुग्रहाभ्यां सत्त्वाननुगृह्णीयादामिषानुग्रहेण च धर्मानुग्रहेण च, तस्य मे आत्मभावस्य प्रतिलम्भो भवेत्, एवमिदं कुशलमूलवरोपयामि। अयं चतुर्थः परिणामः। आभिः कुमार चतसृभिः परिणामनाभिर्बोधिसत्त्वेन महासत्त्वेन तानि कुशलमूलानि परिणामयितव्यानि॥



पुनरपरं कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता गृहीणा वा प्रव्रजितेन वा क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन शीलवन्तो गुणवन्तः प्रज्ञावन्तो बोधिसत्त्वा महासत्त्वाः सेवितव्या भजितव्याः पर्युपासितव्या अशाठ्येन। योऽस्य समाधेर्धारको भिक्षुर्बोधिसत्त्वो महासत्त्वो भवेत्, स च स्यादाबाधिको बाढग्लानः, तेन स्वमांसशोणितेनापि स भिक्षुस्तस्मादाबाधाद् व्युत्थापयितुमुत्सोढव्यः। अध्याशयसंपन्नेन कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षत क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेनाविकम्पमानेन विशारदेन स्वकं मांसशोणितमपि परित्यज्य धर्मभाणको भिक्षुराबाधाद् व्युत्थापयितव्यः। तदनेनापि ते कुमार पर्यायेणैवं वेदितव्यम्॥



भूतपूर्वं कुमार अतीतेऽध्वन्यसंख्येये कल्पे असंख्येयतरे विपुले अप्रमाणे यदासीत् तेन कालेन तेन समयेनाचिन्त्यप्रणिधानविशेषसमुद्गतराजो नाम तथागतोऽहन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। स खलु पुनः कुमार अचिन्त्यप्रणिधानविशेषसमुद्गतराजस्तथागतोऽर्हन् सम्यक्संबुद्धो यस्मिन्नेव दिवसेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्तत्रैव दिवसे परिहते अप्रमेयानसंख्येयान् बुद्धनिर्मितान् निर्माय अपरिमाणानां च सत्त्वानां विनयं कृत्वा आस्रवक्षयायार्हत्त्वे प्रतिष्ठाप्य अपरिमाणांश्च सत्त्वाननुत्तरायां सम्यक्संबोधावविनिवर्तनीयत्वे प्रतिष्ठाप्य तत्रैव दिवसे परिनिर्वृतोऽभूत्। तस्य खलु पुनर्भगवतः परिनिर्वृतस्य चतुरशीतिः वर्षकोटीनयुतशतसहस्राणि सद्धर्मोऽतिष्ठत्। तस्य च भगवतोऽचिन्त्यप्रणिधानविशेषसमुद्गतराजस्य तथागतस्य शासनान्तर्धानकालसमये पश्चिमायां पञ्चशत्यां वर्तमानायां बहवो भिक्षवः प्रादुर्भूता उपलम्भदृष्टयः। तेषामेवंरूपाः सूत्रान्ता न रोचन्ते न चाधिमुच्यन्ते प्रतिबाधन्ते प्रतिक्षिपन्ति। ईदृशानां च सूत्रान्तधारकाणां भिक्षूणां पीडां कुर्वन्तो यावज्जीविताद् व्यवरोपणमकार्षुः। तैरभिसत्काराध्यवसितैरीदृशसुत्रान्तधारकाणां भिक्षुणां सहस्रं जीविताद् व्यवरोपितमभूत्। तेन च पुनः कुमार कालेन तेन समयेन राजाभूद् ज्ञानबलो नाम जम्बुद्वीपेश्वरः सद्धर्मपरिग्राहकः पूर्वप्रणिधानसंपन्नः। तेन खलु पुनः कुमार कालेन तेन समयेन इह जम्बुद्वीपे एको भिक्षुर्धर्मभाणकोऽभूत् तस्य समाधेर्धारको भूतमतिर्नाम्ना तस्य राज्ञः कुलप्रवेशकः कल्याणमित्रो हितैषी अनुकम्पकः अर्थकामः। स चास्य राजा अतृप्तो दर्शनेनाभीक्ष्णप्रतिकाङ्क्षी चाभूद्दर्शनेन धर्मसंकथनोपसंक्रमणपर्युपासनपरिपृच्छाग्रहणधारणवाचनविज्ञापनसमर्थः। स खलु पुनर्धर्मभाणको भिक्षुः सत्त्वानामीर्याचर्याधिमुक्तिधातुवासनाकुशलोऽभूत्। सत्त्वानामिन्द्रियबलवीर्यविमात्रताज्ञानधातुवासनाकुशलः सत्यसंधिकुशलः विसंधिप्रतिवचनकुशलः अर्थविनिश्चयकुशलः गम्भीरप्रतिभानः सत्त्वानां विनयविधिज्ञः पूर्वाभिलापी स्मितमुखः अपगतभ्रूकुटिमुखो महद्गतचित्तविहारी महाकरूणाभियुक्तः अनभिभूतः सर्वपरप्रवादिभिः। तेन च कुमार कालेन तेन च समयेन राज्ञो ज्ञानबलस्य दुहिता दारिकाभूत् षोडशवर्षा जात्या अभिरूपा प्रासादिका दर्शनीया परमया शुभवर्णपुष्कलतया समन्वागता ज्ञानावती नाम। तस्याः स भूतमतिर्भिक्षुराचार्योऽभूत् कुशलेषु धर्मेषु संदर्शकः समुत्तेजकः संप्रहर्षकः समादापकः। तेन च कुमार कालेन तेन समयेन तस्य धर्मभाणकस्य भिक्षोर्महाकृष्णवैसर्पः ऊरौ प्रादुरभूत् दुश्चिकित्स्यो दुर्लभभैषज्यः। स वैद्येः ग्लानः प्रतिक्षिप्तोऽभूत्॥



अथ खलु राजा सान्तपुरः सपुत्रः सदुहितृपरिवारः तं भिक्षुं ग्लानं विदित्वा प्रारोदीदश्रूणि प्रवर्तयति स्म सार्धमशीत्या स्त्रीसहस्रैः सार्धं पौरैर्नागरैः सार्धं राष्ट्रेण नैगमजानपदैर्गणकमहामात्रैः सार्धममात्यदौवारिकपारिषद्यैः। ते सर्वे तं भिक्षुं ग्लानं विदित्वा प्ररोदन्तः अश्रणि प्रवर्तयामासुः - मा खल्वयं भिक्षुः कालं कुर्यादिति। तेन च कुमार कालेन तेन समयेन राज्ञो ज्ञानबलस्यान्यतरा देवता पुराणसालोहिताभूदनुबद्धा। सा तस्य राज्ञः स्वप्नान्तर्गतस्यापदर्शयति स्म-सचेत् महाराज एतस्य भिक्षोर्नवकेनासंक्लिष्टेन मानुष्येण रुधिरेणैष कृष्णवैसर्प आलिप्येत, नवकं चासंक्लिष्टं मानुषं मासं नानारससंप्रयुक्तं भोजनं दीयेत, एवमेष भिक्षुरस्मादाबाधाद् व्युत्तिष्ठेत। अथ खलु राजा ज्ञानबलस्तस्या रात्र्या अत्ययेन ततः स्वप्नान्तरात् प्रतिविबुद्धोऽन्तःपुरमध्यगतः इमां स्वप्नप्रकृतिमन्तःपुरायारोचयामास-एवंरूपः स्वप्नो मया दृष्टः। इति हि कुमार ततः स्त्र्यागारात्ततश्च राजकुलान्न काचित् श्री उत्सहते तस्य भिक्षोस्तद्भैषज्यं दातुम्। ज्ञानावत्यपि राजदुहिता इममीदृशमेव स्वप्नमद्राक्षीत्। दृष्ट्वा च पुनः प्रतिविबुद्धा अन्तःपुरमध्ये इमामेव स्वप्नप्रकृतिं मातॄणां परिवारस्य चारोचयति स्म। न च काचिदुत्सहते स्त्री तस्य भिक्षोरेतद् भैषज्यं दातुम्॥



अथ खलु ज्ञानवती राजदुहिता तुष्टा उदग्रा आत्तमनस्का प्रमुदिता प्रीतिसौमनस्यजाता एवं व्यवसायमकार्षीत्-यन्न्वहमेतद् भैषज्यं स्वकाच्छरीराद् यथोपदिष्टं नवं रुधिरं नवं च मांसं दद्याम्। अहमेवेह राजकुले सर्वदहरा च सर्वतरुणी च असंक्लिष्टकायवाङ्भनस्कर्मा च। असंक्लिष्टं ज्ञानमेषामि असंक्लिष्टस्य धर्मभाणकस्य स्वशरीराद रुधिरं च मांसं चोपनामयिष्यामि। अप्येव नामैष भिक्षुरस्मादाबाधाद् व्युत्तिष्ठेत। अथ खलु सा ज्ञानवती राजदुहिता स्वकमावासं गत्वा तीक्ष्णं शस्त्रं गृहीत्वा धर्मान्तर्गतेन मानसेन स्वकमूरुमांसं छित्त्वा नानारससंप्रयुक्तं प्रणीतमभिसंस्कृत्य लोहितं च प्रगृह्य तं चाचार्यं प्रवेश्य राज्ञो ज्ञानबलस्य पुरतो निषद्य लोहितेन तं विसर्पमालेपयित्वा तेन च स्वभिसंस्कृतेन भोजनेन संतर्पयति। अथ खलु स भिक्षुरजानन्नपरिबुध्यमानः अपरिशङ्कमानस्तद्भक्तं परिभुक्तवान्। समनन्तरपरिभुक्ते च तस्मिन्नाहारे तस्य भिक्षोः सर्वास्ता वेदना प्रतिप्रस्रब्धाः, सर्वश्च व्याधिरपगतः। तेन विगतपरिदाहेन सर्वसुखसमर्पितेन तथा धर्मो देशितो यथा ततोऽन्तःपुरात्ततश्च नगरजनपदराष्ट्रसंनिपाताद् द्वादशानां प्राणिसहस्राणामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि॥

अथ खलु राजा ज्ञानबलः स्वकां दुहितरं गाथाभिरध्यभाषत-

कुतस्त्वया शोणितु लब्धु दारिके

कुतो इदं आहृतु मांस मानुषम्।

आहारु यः साधितु ते ऽद्य धीते

येनो सुखीयं कृतु धर्मभाणकः॥ १॥

हतो ह्ययं वाथ मृतोऽथ लब्धो

यत् साधितं नानरसेहि व्यञ्जनम्।

कुतश्च ते शोणितु लब्धु दारिके

येनो अयं मोचितु व्याधि पापकः॥ २॥

पितुः श्रुणित्वा वचनं च दारिका

ज्ञानावती तस्य इदं ब्रवीति।

अलीनचित्ता च गिरं प्रभाषते

शृणुष्व ताता यदहं ब्रवीमि ते॥ ३॥

दृष्टस्तात मया स्वप्नो देवताया निदर्शितः।

शृणुष्व मे भूमिपते भूतमर्थं विजानथ॥ ४॥

सा देवता ममाविचन्मानुषं मांसशोणितम्।

यो दद्यादस्य भिक्षुस्य व्याधेर्मुच्येत् स पापकात्॥ ५॥

मया चोत्थाय शय्यातः प्रविश्यान्तःपुरं नृप।

स्वप्नस्तदायमाख्यातो ज्येष्ठिकानां हि मातृणाम्॥ ६॥

चेटिकानां मयाख्यातं का शक्ता कर्तुमीदृशम्।

मानुषं शोणितं मांसं रससिद्धं सुसंस्कृतम्॥ ७॥

भोजनं च प्रदातव्यं शोणितेन च लेपनम्।

कृष्णवैसर्पतो एष कथं भिक्षुर्विमुच्यते॥ ८॥

यदि क्रिया न क्रियते क्षिप्रमेतेन व्याधिना।

कालं कुर्यादयं भिक्षुर्भैषज्येन विनेति वा॥ ९॥

त्रिभवे को न सत्त्वस्त्याजयेत् स्वमांसशोणितम्।

इमं दृष्ट्वा न को विद्वान् कुर्यात् कायस्मि निश्रयम्॥ १०॥

अन्तःपुरस्यो प्रतिवेदयाम्यहं

न एक नारीपि भणाति दास्ये।

प्रियश्च मे भिक्षुः प्रियश्च आत्मा

बोध्यर्थु त्यक्तं मय मांसशोणितम्॥ ११॥

तेषां न कायेस्मि च भक्ति निश्रिता

प्रेमापि नैवात्मनि चाणुमात्रम्।

त्यक्त्वापि चात्मानु न भोति दुर्मनाः

ये बोधि प्रार्थेन्ति शिवामशोकाम्॥ १२॥

अन्तःपुरं ततः श्रुत्वा सर्वं तद्विस्मितं अभूत्।

न चात्रोत्सहते काचिदेनां योजयितुं क्रियाम्॥ १३॥

ततो मे नामितं चित्तं भिक्षोर्दास्यामि भोजनम्।

स्वानि मांसान्यहं छित्त्वा शोणितेन च लेपनम्॥ १४॥

स्वकमूरुं मया छित्त्वा गृहीतं मांसशोणितम्।

मांसपेशी मया पक्वा नानारससुसंस्कृता॥ १५॥

भिक्षोस्तस्यातुरस्याहं दास्यामि पितुरग्रतः।

भोजनं मानुषं मांसं शोणितेन च लेपनम्॥ १६॥

शृणोहि मह्यं वचनं नराधिपा

मनुष्यमांसस्मि अविद्यमाने।

छित्त्वा स्वमांसानि मयोरुतो नृपा

साधेत्व दत्तानिम धर्मभाणके॥ १७॥

एषो मयानुत्तरबोधि अर्थे

स्वकात्त कायात्त कृतो महार्थः।

भिक्षुश्च मुक्तः कृतु निर्विकारो

मया च पुण्यं कृतमप्रमेयम्॥ १८॥

राजाप्यवोचद्दुहितां कथं ते

छिद्यन्ति कायात्तु स्वकात्तु मांसे।

भैषज्ययोगे क्रियमाणि दारिके

मा ते अभूद् दुःख शरीरवेदना॥ १९॥

स राजधीता मतिमान् विशारदा

तमालपी राज शृणु नराधिपा।

श्रुत्वा च तत्र प्रतिपद्य योनिशो

अचिन्तियः कर्मविपाकु तादृशः॥ २०॥

पापेन कर्मेण कृतेन ताता

निरयेऽपि सत्त्वा प्रपचन्ति दारुणे।

निर्मांस भूत्वा च समांस भोन्ति

पश्येतु कर्माण फलं अचिन्तियम्॥ २१॥

पापेन कर्मेण निर्मांसशोणिताः

क्षणेन चो भोन्ति समांसशोणिताः।

किं वा पुना तत् कुशलेन कर्मणा

अधिमुक्तितो जायति मांसशोणितम्॥ २२॥

छिद्यन्ति मांसे न ममासि वेदना

आहारि मे शोणितु नास्ति इञ्जना।

न धर्मकायस्य व्रणो न छिद्रं

यदि सर्वु छिद्येयु मम स्वमांसम्॥ २३॥

प्रीतिं मया धर्मि परां जनित्वा

छित्त्वा प्रदत्तं स्वकमूरुमांसम्।

न चो ममा तात व्रणेन दुःखं

जानामि कायो यथपूर्वमासीत्॥ २४॥

औदुम्बरं पुष्पु यथैव ताता

बहुकल्पकोटीषु कदाचि दृश्यते।

एमेव एतादृश धर्मभाणको

कदाचि दृश्यन्तिह जम्बुद्वीपे॥ २५॥

यथैव जाम्बूनद निष्कु भासते

पश्यन्त सत्त्वा न वितृप्तिमेन्ति।

एमेव एतादृश धर्मभाणकान्

दृष्ट्वा न तृप्यन्तिह देवमानुषाः॥ २६॥

पीत्वा यथाच्छं सलिलं जनस्य

तृषाभिभूतस्य तृषा विगच्छति।

एमेव एते विदु धर्मभाणका

धर्मामृतैस्तृष्ण विनेन्ति प्राणिनाम्॥ २७॥

सुत्यक्तमेतन्मय मांसशोणितं

यद्दत्तु भिक्षुस्य गिलानकस्य।

विसर्पु शान्तश्च स धर्मभाणके

कृतं मया गौरवु बुद्धवर्णितम्॥ २८॥

चारित्रवन्तस्य बहुश्रुतस्य

इमं समाधीवरधारकस्य।

यन्मे तु त्यक्तं स्वकमात्ममांस-

मेतेष धर्माण भवेय्य लाभिनी॥ २९॥

यथैव गन्धः सुरभी मनोरमः

कालानुसारी शुभ चन्दनस्य।

प्रवाति गन्धो दशसु दिशासु

एमेव गन्धोपम धर्मभाणकाः॥ ३०॥

यथैव मेरुर्दिशतासु दृश्यते

समन्तप्रासादिकु दर्शनीयः।

अवभासयन्तो दिशतासु रोचते

तथैव मेरूपम धर्मभाणकाः॥ ३१॥

यथैव स्तूपं पतमानु कश्चिद्

व्युत्थापयेत् संस्करि पण्डितो नरः।

यस्तत्र स्तूपेऽपि प्रसादु कुर्याद्

व्युत्थापितो येन स तस्य हेतुः॥ ३२॥

एमेवयं धर्मस्तूपो गिलानको

विमोचितो लोहितलेपनेन।

स्वकेन मांसेन च धर्मगौरवाद्

दीपो मया दीपितु जम्बुद्वीपे॥ ३३॥

एषोऽकरिष्यद् यदि भिक्षु कालं

समाधिशब्दोऽपिह जम्बुद्वीपे।

निरुद्धु सत्त्वान सदाभविष्यत्

चिकित्सितेऽस्मिन् स समाधि लब्धः॥ ३४॥

सर्वस्य लोकस्य परित्राणु भिक्षु-

रन्धस्य लोकस्य च चक्षुदायकः।

रागस्य दोषस्य मोहस्य चैव

चिकित्सकोऽयं मम वैद्यराजः॥ ३५॥

महद्गते चित्ति सदा प्रतिष्ठितः

प्रमाणु चर्याय न तस्य लभ्यते।

सुविनिश्चितार्थेषु पदेषु शिक्षितो

अनाभिभूतश्च परप्रवादिभिः॥ ३६॥

न मह्य भूयो विनिपाततो भयं

स्त्रीत्वं पुनर्मे न च भूयु भेष्यति।

सहस्रकल्पान च कोटियो भुयो

कृत्वा परं गौरवु धर्मभाणके॥ ३७॥

यो बुद्धक्षेत्रान् यथ गङ्गवालिकाः

रतनान पूर्णान् ददि नायकानाम्।

यश्चैव पादाङ्गुलिमेक दद्या-

दिदं ततः पुण्यु विशिष्यते परम्॥ ३८॥

सा दारिका कालमितश्च कृत्वा

अद्राक्षि बुद्धान सहस्रकोट्यः।

सर्वेष चो शासनि प्रव्रजित्वा

इमं वरं शान्तु समाधि देशयी॥ ३९॥

सर्वेष तेषां द्विपदोत्तमानां

परिनिर्वृतानां चरमिस्मि काले।

प्रव्रज्यलाभिन्यभु नित्यकाल-

मसंकिलिष्टाः सुगतान पुत्रकाः॥ ४०॥

दीपप्रभस्याथ तथागतस्य

चरित्व सा शासनि ब्रह्मचर्यम्।

स्त्रीभावु तस्मिन् विनिवर्तयित्वा

अभूषि भिक्षुस्तद धर्मभाणकः॥ ४१॥

मैत्रेय ज्ञानंबलु सो नरेन्द्रः

सद्धर्मपरिग्राहकु नित्यकालम्।

दीपंकरोऽसौ अभूद्धर्मभाणको

अहं च आसं तद राजधीता॥ ४२॥

स्वकेन मांसेन च शोणितेन चो

उपस्थितो मे तद धर्मभाणकः।

शाठ्यं च सर्वं परिवर्जयित्वा

इमं समाधिं प्रतिकाङ्क्षता तदा॥ ४३॥

येभी तदा रोदितु भिक्षु दृष्ट्वा

गिलानकं पीडितु वेदनाभिः।

अविवर्तिकास्ते सद सर्वि भूवन्

न जातु याता विनिपातभूमिम्॥ ४४॥

नाभूषि तेषां सद अक्षिरोगो

न शीर्षरोगो न च कर्णरोगः।

न घ्राणरोगो न च जिह्वरोगो

न च दन्तशूलं न कदाचिदासीत्॥ ४५॥

समन्तप्रासादिकु भोन्ति नित्यं

शिरीय तेजेन ज्वलन्तकायाः।

द्वात्रिंशकेतुशतपुण्यलक्षणा

उपस्थितो यैस्तद भिक्षु ग्लानकः॥ ४६॥

मह्यं च ते शासनि प्रव्रजित्वा

प्रलुज्यमानानिमु बुद्धबोधिम्।

धारित्व ते गञ्जु तथागतानां

द्रक्ष्यन्ति बुद्धान सहस्रकोटियो॥ ४७॥

सुसंगृहीत्वानिम बुद्धबोधिं

धारेत्व नित्यं च हि गौरवेण।

ते अर्थु कृत्वा विपुलं प्रजानां

द्रक्ष्यन्ति अक्षोभ्य नराणमुत्तमम्॥ ४८॥

श्रुत्वा च ते चर्य निरुत्तरामिमां

लप्स्यन्ति प्रीतिं चरियां निरामिषाम्।

श्रुत्वा च ते आत्मन पूर्वचर्यां

काहिन्ति बुद्धान उदारपूजाम्॥ ४९॥

दृष्टा च भिक्षून् विदु शीलवन्तो

निःशाठियेनो सद सेवितव्याः।

अखिलं च दोषं च विवर्जयित्वा

सेवेत भिक्षुं तद धर्मभाणकाः॥ ५०॥

आघातु क्रोधं च विवर्जयित्वा

पूजेथ पुत्रान् मम धर्मशासने।

मा अन्धभूता बहुकल्पकोटियो

विनिपातप्राप्ताश्च भवेत दुःखिताः॥ ५१॥

न शीलु त्रायेत श्रतं च तस्य

न ध्यानु त्रायेन्न अरण्यवासः।

तदा नु त्रायेन्न च बुद्धपूजा

व्यापादु कृत्वान परस्परेण॥ ५२॥



इति श्रीसमाधिराजे ज्ञानावतीपरिवर्तश्चतुस्त्रिंशतितमः॥ ३४॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project