Digital Sanskrit Buddhist Canon

क्षेमदत्तपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Kṣemadattaparivartaḥ

क्षेमदत्तपरिवर्तः।



अथ खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-भूतपूर्वं कुमार अतीतेऽध्वन्यसंख्येये कल्पे असंख्येयतरे विपुले अप्रमाणे अचिन्त्ये अपरिमिते यदासीत्। तेन कालेन तेन समयेन घोषदत्तो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। स खलु पुनः कुमार घोषदत्तस्तथागतोऽर्हन् सम्यक्संबुद्धो अप्रमेयानचिन्त्यानपरिमाणानसंख्येयान् सत्त्वानास्रवक्षयायार्हत्त्वे प्रतिष्ठाप्य परिनिर्वाप्य अप्रमेयानसंख्येयांश्च सत्त्वाननुत्तरायां सम्यक्संबोधावविनिवर्तनीयत्वे प्रतिष्ठाप्य परिनिर्वृतोऽभूत्। तेन च कुमार कालेन तेन समयेन राजाभूच्छ्रीघोषो नाम। स तस्य तथागतस्य पूजार्थं तथागतधातुगर्भाणि चतुरशीतिस्तूपकोटिसहस्राणि कारयामास। एकैकस्मिंश्च स्तूपे चतुरशीतिचतुरशीतिदीपार्ध्यकोटीनियुतसहस्राणि प्रतिष्ठापयामास। एवं वाद्यानां तूर्याणां पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकानाम्। एकैकत्र च स्तूपे चतुरशीतिचतुरशीतिकोटिसहस्राणि प्रतिष्ठापयामास। इहि हि कुमार स राजा श्रीघोषस्तथागतशरीराणां पूजां कृत्वा चतुरशीत्या बोधिसत्त्वकोटीनियुतशतसहस्त्राणां महान्तं बोधिसत्त्वसंनिपातं कारयित्वा तेषां बोधिसत्त्वानां महासत्त्वानां सर्वसुखोपधानेन पूजायामुद्युक्तोऽभूत्। सर्वे च ते बोधिसत्त्वा महासत्त्वा धर्मभाणका अभूवन् अनाच्छेद्यप्रतिभानाः समाधिप्रतिलब्धाः असङ्गधारणीप्रतिलब्धा भूतगुणधर्मदेशकाः परिशुद्धधर्मदेशकाः बोधिसत्त्ववशिपारमिप्राप्ताः। तेन च कुमार कालेन तेन समयेन तत्रैव पर्षदि क्षेमदत्तो नाम बोधिसत्त्वो महासत्त्वोऽभूच्छिशुर्दहरः कृष्णकेशः प्रथमयौवनसमन्वागते भद्रके वयसि वर्तमानः अविक्रीडितावी कामेषु कौमारब्रह्मचारी एकवर्ष उपसंपदा। तेन च कुमार कालेन तेन च समयेन राज श्रीघोषस्तं महान्तं बोधिसत्त्वमहासत्त्वगणमध्येषते स्म यदुत षट्पारमितासंगीतौ। बोधिसत्त्वपिटकमहाधारण्युपायकौशल्यवशिविनयासङ्गाभिनिर्हारार्थं तान् बोधिसत्त्वान् महासत्त्वानध्येष्य रात्रौ संनिषण्णायां तथागतचैत्यस्य पुरतः तत्रानेकानि दीपार्ध्यकोटिनियुतशतसहस्राणि प्रज्वालितानि। सिक्तसंमृष्टशोधितश्च मण्डलमात्रः कृतोऽभूत् पुष्पाभिकीर्णो नानाविचित्रशयनासनप्रज्ञप्तः। राजापि श्रीघोषः सान्तःपुरग्रामनगरजनपदपारिषद्यः सपौरो निष्क्रान्तः। वाद्यतूर्यतालावचरपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः परिगृहीताभिस्तथागतचैत्यस्य पूजां कृत्वा सार्धमन्तःपूरेण प्रासादतलमभिरूढोऽभुद्धर्मश्रवणाय। महती च देवमानुषिका परिषत् संनिपतिता धर्मश्रवणार्थिका। अद्राक्षीत् क्षेमदत्तो बोधिसत्त्वो महासत्वस्तानि च महान्ति दीपार्ध्यकोटीनियुतशतसहस्राणि संप्रज्वलितानि। अवभासेनैव स्फुटमभूत्। सदेवमानुषिकां च जनतां धर्मश्रवणाय संनिपतितां विदित्वा तस्यैतदभूत्-अहमपि महायानसंप्रस्थितः। यन्न्वहमिमं समाधिमाकाङ्क्षस्तथागतपूजां कुर्याम्, यथारूपया पूजया सदेवमानुषासुरलोकश्चित्रीकारप्राप्तो भवेदात्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवेद्धर्मालोकप्राप्तः। इमां च सर्वां तथागतपूजामभिभवेयं येयं श्रीघोषेण राज्ञा कृता। राजा च श्रीघोषश्चित्रीकारप्राप्तो भवेदात्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः सान्तःपुरपरिवारः॥



अथ खलु क्षेमदत्तो बोधिसत्त्व एवंचित्तः प्रीतिसौमनस्यजातस्तं महान्तं जनकायं संनिपतितं विदित्वा धर्मश्रवणिकानां रात्रौ संनिषण्णायां तथागतचैत्यस्य पुरतः स्थित्वा दक्षिणं बाहुं चीवरपरिवेष्टितं कृत्वा तैलप्लुतं कृत्वा दीपयामास। अथ खलु क्षेमदत्तस्य बोधिसत्त्वस्य महासत्त्वस्याध्याशयेनानुत्तरां सम्यक्संबोधिं पर्येषमाणस्य तथा प्रदीप्ते दक्षिणे पाणौ नाभूत् चित्तस्य मुखवर्णस्य वा अन्यथात्वम्। अथ खलु कुमारः समनन्तरप्रदीप्ते क्षेमदत्तस्य बोधिसत्त्वस्य महासत्त्वस्य पाणौ संप्रज्वलिते संज्योतीभूते एकज्वालाप्राप्ते, अथ खलु तस्यां वेलायां महापृथिवीचालः प्रादुरभूत्। तस्य पाणौ दीप्यमानस्य प्रभया तान्यनेकानि दीपार्ध्यकोटीनयुतशतसहस्राणि ध्यामीकृतान्यभूवन्। सर्वासु च दिक्षु महानवभासोऽभूत्, येनावभासेन सर्वा दिशोऽवभासिताः समन्तात् स्फुटा अभूवन्। स प्रीतिसौमनस्यजात इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं वल्गुना मनोरमेण स्वरेण विशिष्टया वाचानुप्रबद्धैः पदव्यञ्जनैर्विस्तरेण सर्वपर्षदं विज्ञापयन् संप्रकाशयति स्म। तत्र द्वादश सहस्राणि त्रायत्रिंशत्कायिकानां देवानां संनिपतितानि धर्मश्रवणाय। ते प्रीतिसौमनस्यजाता विविधां दिव्यां पूजामकार्षुः, अप्सरोगणाश्च दिव्याः संगीतीः प्रयोजयामासुः। अद्राक्षीद्राजा श्रीघोषः उपरिष्टात् प्रासादतलगतः स्वजनपुरस्कृतः अन्तःपुरमध्यगतोऽष्टाङ्गपोषधसमादत्तः क्षेमदत्तं बोधिसत्त्वं महासत्त्वं बाहुनावभासयन्तं सर्वाः प्रभा अभिभूय दिव्यया अतिक्रान्तमानुषिकयावभासितम्। दृष्ट्वा च पुनरस्यैतदभूत्-अभिज्ञाप्राप्तो बतायं क्षेमदत्तो बोधिसत्त्वो महासत्त्वो भविष्यतीति। स तीव्रं प्रेम च प्रसादं च गौरवं च चिपस्थाप्य सपरिवारो महाकुशलमूलपुण्यस्कन्धोपस्तब्धः सार्धमशीत्यान्तःपुरिकाभिस्ततः प्रासादतलादात्मानमुत्प्राक्षिपत् यदुत् क्षेमदत्तस्य बोधिसत्त्वस्य दर्शनाय प्रीतिसंमोदनाय। स गौरवनिर्जातेन कुशलमूलेन दृष्ट एव धर्मे सपरिवारो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगपरिग्रहं प्रतिलभते। स देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगपरिगृहीतः पुनरेव राजा श्रीघोषः सपरिवारः परिपूर्णाद्धस्तशतसहस्रिकात् प्रासादात् पतितः। न चास्य कायविहेठश्चित्तविहेठो वा अवलीनता वाभूत्॥



अथ खलु राजा श्रीघोषः उभौ बाहू प्रगृह्य महता जनकायेन सार्धं महान्तं निर्नादनिर्घोषमाक्रन्द्रं चाकार्षीत् यदुत क्षेमदत्तस्य बोधिसत्त्वस्य महासत्त्वस्य बाहुं दह्यमानं दृष्ट्वा संप्रज्वलितम्। स राजा तेन महता जनकायेन सार्धं प्रारोदीदश्रूणि प्रवर्तयमानः॥



अथ खलु क्षेमदत्तो बोधिसत्त्वो महासत्त्वः राजानं श्रीघोषमामन्त्रयते स्म-किं पुनस्त्त्वं महाराज अनेन महता जनकायेन सार्धं महान्तं निर्नादनिर्घोषमाक्रन्दं कुर्वन् रोदिषि अश्रूणि च प्रवर्तयसि ? अथ खलु राजा श्रीघोषः क्षेमदत्तं बोधिसत्त्वं गाथाभिगीतेन प्राभाषत -

क्षेमदत्तं महाप्राज्ञं पण्डितं धर्मभाणकम्।

अङ्गहीनं विदित्वैनं जनोऽयं तेन रोदिति॥ १॥

एतादृशं रूपमिदं तेजोराशिसमुद्गतम्।

बाहुहीनं विदित्वा हि भूयोऽहमपि दुःखितः॥ २॥

यस्त्वया दीपितो बाहुः प्रभा मुक्ता दिशो दश।

इमे जिह्मीकृता दीता दिव्यया त्वत्प्रभूतया॥ ३॥

प्रकम्पितेयं पृथिवी चित्तं ते न च लीयते।

तत उत्पादितं चित्तं नैषो अवरकोविदः॥ ४॥

हस्तशतसहस्रातः प्रासादात् पतितो ह्यहम्।

सार्धमन्तःपुरेणेह न च मे कायु हिंसितः॥ ५॥

साधु ते ज्ञानमाश्चर्यं साधु चित्तमनुत्तरम्।

साधु वीर्यं च स्वारब्धं साधुं चाध्याशयो महान्॥ ६॥

यस्य हस्तौ विदह्यन्ते न जात्वस्तीह इञ्जना।

प्रीतिप्रामोद्यजातश्च भूयो धर्मं प्रभाषते॥ ७॥

पूर्णमास्यां यथा चन्द्रः सूर्यो वासौ नभस्तले।

सुमेरुगिरिराजो वा एवं शोभसि मारिष॥ ८॥

अहं पि एवं प्रणिधिं परिपूरेय पण्डितः।

काये प्रेमं जहित्वाहं कुर्यामर्थं च प्राणिनाम्॥ ९॥

धर्मप्रेम्णा च हृष्यामि प्रीतिर्मेऽत्र अचिन्तिया।

यत् पुनो अङ्गहीनोऽसि तेन मे दुःखमुत्तमम्॥ १०॥

क्षेमदत्तो हि राजानं देवनागेहि पूजितः।

अनन्तप्रतिभानेन इमा गाथा अभाषत॥ ११॥

नैवं स्यादङ्गहीनोऽसौ यस्य बाहुर्न विद्यते।

स तु देवाङ्गहीनः स्याद यस्य शीलं न विद्यते॥ १२॥

अनेन पूतिकायेन पूजिता मे तथागताः।

अचिन्तिया दक्षिणीयाः सर्वलोकस्य चेतियाः॥ १३॥

अनन्ता यास्त्रिसाहस्रा परिपूरिताः॥

प्रदद्याल्लोकनाथेभ्यो बुद्धज्ञानगवेषकः॥ १४॥

अस्त्येषा लौकिकी पूजा अन्या पूजा अचिन्तिया।

ये धर्मान् शून्यान् जानन्ति त्यजन्ते कायजीवितम्॥ १५॥

सत्यवाक्यं करिष्यामि महाराज शृणोहि मे।

या चेयं जनता सर्वा इमां गाथां विजानथ॥ १६॥

येन सत्येन बुद्धोऽहं भेष्ये लोकस्य चेतियः।

तेन सत्येन धरणी षडविकारं प्रकम्पतु॥ १७॥

भाषिता व इयं वाचा धरणी च प्रकम्पिता।

आश्चर्यमद्भतप्राप्ता देवकोट्यः प्रहर्षिताः॥ १८॥

हर्षिता देवमनुजा बोधिचित्तमुपादयुः।

प्रस्थिता अग्रयानस्मिन्नप्रमेया अचिन्तियाः॥ १९॥

यात्तकानां कृतो अर्थः क्षेमदत्तेन भिक्षुणा।

बुद्धानां वर्तते ज्ञानं यत्राक्षयमचिन्तियम्॥ २०॥

येन सत्येन धर्मोऽसौ बाहुर्नाम न विद्यते।

तेन सत्येन मे बाहुर्भोति क्षिप्रं यथा पुरा॥ २१॥

येन सत्येन धर्मोऽसौ क्षेमदत्तो न विद्यते।

दिशो दश गवेषद्भिः शुन्यत्वान्नोपलभ्यते॥ २२॥

योऽपि निश्चरते शब्दस्तं पु शून्यं विजानथ।

प्रतिश्रुत्कोपमः शब्दो धर्मानेवं विजानथ॥ २३॥

सदा विशारदो भोति शुन्यतायां गतिंगतः।

तस्य सत्येन वाक्येन सर्वलोको न दह्यते॥२४॥

यावन्तस्त्रिभवे सत्त्वा ये देवा ये च मानुषाः।

सर्वज्ञतायास्तेजेन सर्वे भोन्ति समाहिताः॥ २५॥

यावन्त्युपद्रवाः केचिद् ये दिव्या ये च मानुषाः।

अवैवर्तिकतेजेन सर्वे ते भोन्ति निर्वृताः॥ २६॥

भाषिताश्च इमा गाथा बाहुश्च पुनरुत्थितः।

क्षेमदत्तस्य कायश्च लक्षणेहि विचित्रितः॥ २७॥

देवकोटीसहस्राणि अन्तरिक्षे स्थितानि च।

मन्दारपुष्पैस्तं भिक्षुमोकिरन्ति च तत्क्षणम्॥ २८॥

अमानुष्येहि पुष्पेहि जम्बुद्वीपो ह्ययं स्फुटः।

अप्सरःकोटिनियुतै संगीत्यः संप्रयोजिताः॥ २९॥

इमं नादं नदन्तस्य क्षेमदत्तस्य तत्क्षणम्।

बुद्धकोटीसहस्राणि पश्यन्तीदं विकुर्वितम्॥ ३०॥

स्वकस्वकेषु क्षेत्रेषु आरोचेत् सुमहायशाः।

भिक्षूणां भिक्षुणीनां च उपासक उपासिकाम्॥ ३१॥

क्षेमदत्तो ह्यसौ भिक्षुः पण्डितः सुमहाबलः।

येनासौ दीपितो बाहुर्बुद्धज्ञानस्य कारणात्॥ ३२॥

तेन क्षेत्रसहस्राणि यथा गङ्गाय वालिकाः।

ओभासिताः प्रदीपेन कल्पोद्दाह इव स्थिते॥ ३३॥

पुष्पचन्दनचूर्णैश्च सर्वक्षेत्राः स्फुटा अभूत्।

यावद्भूमिमुपादाय जानुमात्रमभूत् स्फुटम्॥ ३४॥

सर्वरत्नैः सर्वपुष्पैर्बुद्धक्षेत्रमभूत् स्फुटम्।

क्षेमदत्तस्य पूजायै नागा वर्षन्ति मौक्तिकम्॥ ३५॥

सर्वरत्नामयैर्व्यूहैरिदं क्षेत्रमलंकृतम्।

संस्तृतं रत्नमुक्ताभिः क्षेमदत्तस्य पूजया॥ ३६॥

देवा नागाश्च यक्षाश्च किन्नराप्सरमहोरगाः।

प्रस्थिता अग्रबोधीये यथा गङ्गाय वालिकाः॥ ३७॥

शाक्यसिंहोऽपि संबुद्धो गृध्रकूटस्मि पर्वते।

पुरतो भिक्षुसंधस्य सिंहनादं नदी जिनः॥ ३८॥

क्षेमदत्तोऽहमभवं श्रीघोषोऽप्यजितोऽभवत्।

कल्पकोटीसहस्राणि चरन् संबोधिचारिकाम्॥ ३९॥

सहदर्शनेन भिक्षुस्य क्षेमदत्तस्य तत्क्षणम्।

अचिन्त्याभिस्तदा स्त्रीभिः स्त्रीभावो विनिवर्तितः॥ ४०॥

व्याकृतास्ते नरेन्द्रेण नास्ति तेषां विनिवर्तना।

स्वयंभुवो भविष्यन्ति सर्वे लोकविनायकाः॥ ४१॥

श्रुत्वा सूत्रमिदं विद्वान् संलेखगुणदर्शनम्।

काये प्रेम न कुर्वीत इह धर्मे सुशिक्षितः॥ ४२॥



इति श्रीसमाधिराजे क्षेमदत्तपरिवर्तो नाम त्रयस्त्रिंशतितमः॥ ३३॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project