Digital Sanskrit Buddhist Canon

सूत्रधारणानुशंसापरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Sūtradhāraṇānuśaṁsāparivartaḥ

सूत्रधारणानुशंसापरिवर्तः।



अथ खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन महाभिज्ञापरिकर्म धारयितुकामेनायं समाधिर्धारयितव्यः उद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्यो भावयितव्यः, परेभ्यश्च विस्तरेण संप्रकाशयितव्य। कतमच्च तत् कुमार सर्वधर्माणामभिज्ञापरिकर्म ? यदुत सर्वधर्माणामपरिग्रहः अपरामर्शः शीलस्कन्धस्यामन्यना समाधिस्कन्धस्य अप्रचारः प्रज्ञास्कन्धस्य विवेकदर्शनं विमुक्तिस्कन्धस्य यथाभूतदर्शनं विमुक्तिज्ञानदर्शनस्कन्धस्य स्वभावशून्यतादर्शनं सर्वधर्माणाम्। ययाभिज्ञया समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वसमाधिविकुर्वितानि विकुर्वन् सर्वसत्त्वानां धर्मं देशयति। इदमुच्यते कुमार महाभिज्ञापरिकर्मेति॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

महाभिज्ञापरिकर्म अविवादेन देशितम्।

विवादे यस्तु चरति सोद्गृह्णन् न विमुच्यते॥ १॥

अभिज्ञा तस्य सा प्रज्ञा बौद्धं ज्ञानमचिन्तियम्।

उद्ग्रहे यः स्थितो भोति ज्ञानं तस्य न विद्यते॥ २॥

बहवोऽचिन्तिया धर्मा ये शब्देन प्रकाशिताः।

यस्तत्र निविशेच्छब्दे संघाभाष्यं न जानति॥ ३॥

संघाभाष्यमजानानः किं संघाय तु भाषितम्।

अधर्मं भाषते धर्मं धर्मतायामशिक्षितः॥ ४॥

लोकधातुसहस्रेषु ये मया सूत्र भाषिताः।

नानाव्यञ्जन एकार्था न शक्यं परिकीर्तितुम्॥ ५॥

एकं पदार्थं चिन्तेत्वा सर्वे ते भोन्ति भाविताः।

यावन्तः सर्वबुद्धेहि बहु धर्माः प्रकाशिताः॥ ६॥

नैरात्म्यं सर्वधर्माणां ये नरा अर्थकोविदाः।

अस्मिन् पदे तु शिक्षित्वा बुद्धधर्मा न दुर्लभाः॥ ७॥

सर्वधर्मा बुद्धधर्मा धर्मतायां य शिक्षिताः।

ये धर्मतां प्रजानन्ति न विरोधेन्ति धर्मताम्॥ ८॥

सर्वा वाग् बुद्धवागेव सर्वशब्दो ह्यवस्तुकः।

दिशो दश गवेषित्वा बुद्धवाग् नैव लभ्यते॥ ९॥

एषा वाचा बुद्धवाचा गवेषित्वा दिशो दश।

न लभ्यतेऽनुत्तरैषा न लब्धा न च लप्स्यते॥ १०॥

अनुत्तरा बुद्धवाचा बुद्धवाचा निरुत्तरा।

अणुर्न लप्स्यतेऽत्रेति तेनोक्तेयमनुत्तरा॥ ११॥

अणु नोत्पद्यते धर्मो अणुशब्देन देशितः।

अणुमात्रो न चो लब्धो लोके शब्देन देशितः॥ १२॥

अलब्धिर्लब्धधर्माणां लब्धौ लब्धिर्न विद्यते।

य एवं धर्म जानन्ति बुध्यन्ते बोधिमुत्तमाम्॥ १३॥

ते बुद्धानुत्तरां बोधिं धर्मचक्रं प्रवर्तयी।

धर्मचक्रं प्रवर्तित्वा बुद्धधर्मान् प्रकाशयी॥ १४॥

बोधिसत्त्वाश्च बुध्यन्ते बुद्धज्ञानमनुत्तरम्।

तेन बुद्धा इति प्रोक्ता बुद्धज्ञाना प्रबोधनात्॥१५॥

अभावो अप्रणिहितमानिमित्तं च शून्यता।

एभिर्विमोक्षद्वारेहिर्द्वारं बुद्धः प्रकाशयी॥ १६॥

चक्षुः श्रोत्रं च घ्राणं च जिह्वा कायो मनस्तथा।

एते शून्याः स्वभावेन संबुद्धैः संप्रकाशिताः॥ १७॥

एतादृशानां धर्माणां स्वभावं यः प्रजानति।

नासौ विवादं कुरुते ज्ञात्वा धर्माण लक्षणम्॥ १८॥

एष गोचरु शूराणां बोधिसत्त्वान तायिनाम्।

न ते कदाचित् काङ्क्षन्ति जानन्ते धर्मशून्यताम्॥ १९॥

धर्मस्वभावं जानाति बुद्धस्तेनोच्यते हि सः।

बोधये विनयी सत्त्वानप्रमेयानचिन्तियान्॥ २०॥

सत्कृतो बुद्धशब्देन शीलशब्देन सो कृतः।

शीलशब्दो बुद्धशब्द उभौ तावेकलक्षणौ॥ २१॥

यावन्तः कीर्तिताः शब्दा हीन उत्कृष्टमध्यमाः।

समाहितैकशब्देन बुद्धशब्देन देशिताः॥ २२॥

न बुद्धधर्मा देशस्था न प्रदेशस्थ कीर्तिताः।

न चोत्पन्ना निरुद्धा व एकत्वेन पृथक् तथा॥ २३॥

न ते नवाः पुराणा वा न तेषामस्ति मन्यना।

न च नीला न पीता व नावदता न लोहिताः॥ २४॥

अनाभिलाप्या अग्राह्या एवं घोषेण देशिताः।

न च घोषस्य सा भूमिः प्रातिहार्यं मुनेरिदम्॥ २५॥

अनास्रवा हि ते धर्मा -- नेन उच्यन्ति हि।

स्तृता अपर्यापन्ना दशदिशे एषा बुद्धान देशना॥ २६॥

परिनिर्वृतस्य बुद्धस्य दृश्यते बुद्धविग्रहः।

तत्स्थानं मनसीकुर्वन् प्रातिहार्यं स पश्यति॥ २७॥

न चासौ लभ्यते सत्त्वो निर्वृतिर्येन स्पर्शिता।

एवं च दिशितो धर्मो बहवः सत्त्व मोचिताः॥ २८॥

यथा चन्द्रश्च सूर्यश्च कांसपात्रीय दृश्यते।

न च याति स्वकं बिम्बमेवं धर्माण लक्षणम्॥ २९॥

प्रतिभासोपमा धर्मा यैर्हि ज्ञाता स्वभावतः।

नैव ते रूपकायेन पश्यन्ते बुद्धविग्रहम्॥ ३०॥

अविग्रहो ह्ययं धर्मो विग्रहो नात्र कश्चन।

अविग्रहश्च यो धर्म एष बुद्धस्य विग्रहः॥ ३१॥

धर्मकायेन पश्यन्ति ये ते पश्यन्ति नायकम्।

धर्मकाया हि संबुद्धा एतत् संबुद्धदर्शनम्। ३२॥

प्रतीत्य प्रतिनिर्दिष्टा अप्रति प्रतिदेशिताः।

इमां गतिं विजानीत श्रामण्येन हि येऽर्थिकाः॥ ३३॥

अप्राप्ति प्राप्ति निर्दिष्टा सत्त्वानां ज्ञात्व आशयम्।

यो संधाभाष्योत्तरते न सो केन विहन्यते॥ ३४॥

यस्य भोति मया प्राप्तमप्राप्तं तेन चोच्यते॥

येन श्रामण्यमप्राप्तं तेन श्रमण उच्यते॥ ३५॥

कथं गम्भीरिमे धर्मा वक्ष्यन्ते ये न शिक्षिताः।

ते च गम्भीरनामेन न शक्यं परिकीर्तितुम्॥ ३६॥

अवस्तुकाः पञ्च स्कन्धा अभूत्वा एत उत्थिताः।

नात्र उत्थाप्यको ह्यस्ति यस्य स्कन्धाः समुत्थिताः॥ ३७॥

यल्लक्षणाः पञ्च स्कन्धाः सर्वधर्मास्तल्लक्षणाः।

तल्लक्षणास्ते निर्दिष्टा लक्षणं च न विद्यते॥ ३८॥

यथान्तरीक्षं गगनमेवं धर्माण लक्षणम्।

पूर्वान्तमपरान्तं च प्रत्युत्पन्नं च पश्यन्तः॥ ३९॥

अग्राह्यं गगनं प्रोक्तं ग्राह्यमत्र न लभ्यते।

एष स्वभावो धर्माणामग्राह्यो गगनोपमः॥ ४०॥

एवं च देशिता धर्मा न श्रावको विपश्यति।

यश्चो न पश्यती धर्मं तस्य धर्मा अचिन्तियाः॥ ४१॥

अस्वभावा इमे धर्माः स्वभावैषां न लभ्यते।

योगिनां गोचरो ह्येष ये युक्ता बुद्धबोधये॥ ४२॥

य एवं जानाति धर्मान् स न धर्मेषु सज्जते।

असज्जमानो धर्मेषु धर्मसंज्ञा प्रबोधयी॥ ४३॥

विभाविताः सर्वधर्मा बोधिसत्त्वेन तायिना।

धर्मसंज्ञा विभावित्वा बुद्धधर्मान्न मन्यते॥ ४४॥

अमन्यमाना हि सा कोटी कल्पेत्वा कोटि व्याहृता।

य एवं कोटिं जानाति कल्पकोटिं न मन्यते॥ ४५॥

पुरिमां कोटि कल्पित्वा बालः संसारि संसरि।

न चास्य लभ्यते स्थानं गवेषित्वा दिशो दश॥ ४६॥

शून्यं ज्ञात्वा च संसारं बोधिसत्त्वो न सज्जते।

चरन्ति चैव बोध्यर्थं चरिस्तेषां न लभ्यते॥ ४७॥

शकुनानां यथाकाशे पदं तेषां न लभ्यते।

एवंस्वभावा सा बोधिर्बोधिसत्त्वैश्च बुध्यते॥ ४८॥

यथा मायां विदर्शेति मायाकारः सुशिक्षितः।

नानाप्रकाररूपाणि न च रूपोपलभ्यते॥ ४९॥

अलब्धिलब्धिर्नो मन्ये लब्धे लब्धिर्न विद्यते।

मायोपमं च तज्ज्ञानं न मायायां च तत् स्थितम्॥ ५०॥

एवं शून्येषु धर्मेषु बालबुद्धिं विकल्पयेत्।

विकल्पे चरमाणानां गतयः षट परायणम्॥ ५१॥

जातिजरोपगाः सत्त्वा जातिस्तेषां न क्षीयते।

जातिमरणस्कन्धानां दुःखं तेषामनन्तकम्॥ ५२॥

दुःखो जातिसंसारो बालबुद्धीहि कल्पितः।

कल्पास्तेषां न क्षीयन्ते कल्पकोट्यश्च संसरी॥ ५३॥

अयुक्ताः संप्रयुक्ताश्च कर्मयोगस्मि ते स्थिताः।

कर्मणस्ते न मुच्यते कर्मोपादानि ये रताः॥ ५४॥

कर्मौघे वहतां तेषां कर्म न क्षीयते सदा।

पुनः पुनश्च म्रीयन्ते मारपक्षे स्थिताः सदा॥ ५५॥

माराभिभूता दुष्प्रज्ञाः संक्लिष्टेन हि कर्मणा।

अनुभोन्ति जातिमरणं तत्रतत्रोपपत्तिषु॥ ५६॥

मरणं ते निगच्छन्ति अन्धा बालाः पृथग्जनाः।

हन्यन्ते च विहन्यन्ते गतिश्चैषां न भद्रिका॥ ५७॥

परस्परं च घातेन्ति शस्त्रेभिर्बालबुद्धयः।

एवं प्रयुज्यमानानां दुःखं तेषां प्रवर्धते॥ ५८॥

पुत्रा मह्यं धनं मह्यं बालबुद्धीहि कल्पितम्।

असतं कर्म कल्पित्वा संसारो भूयु वर्धते॥ ५९॥

संसारं वर्धयन्तस्ते संसरन्ति पृथग्जनाः।

पृथक् पृथक् च गच्छन्ति तेन चोक्ताः पृथग्जनाः॥ ६०॥

पृथुधर्मा प्रवक्ष्यन्ति उज्झित्वा बुद्धशासनम्।

न ते मोक्षं लभिष्यन्ति मारस्य वशमागताः॥ ६१॥

कामनां कारणं बालाः स्त्रियं सेवन्ति पूतिकाम्।

पूतिकां गति गच्छन्ति पतन्ते तेन दुर्गतिम्॥ ६२॥

कामान्न बुद्धा वर्णेन्ति नापि स्त्रीणां निषेवणम्।

महाभयोऽहिपाशोऽयमिस्त्रिपाशः सुदारुणः॥ ६३॥

विवर्जयन्ति तं धीराश्चण्डमाशीविषं यथा।

न विश्वसन्ति इस्त्रीणां नैष मार्गो हि बोधये॥ ६४॥

भावेन्ति बोधिमार्गं च सर्वबुद्धैर्निषेवितम्।

भावयित्वा च तं मार्गं भोन्ति बुद्धा अनुत्तराः॥ ६५॥

अनुत्तराश्च ते युक्ता भोन्ति लोकस्य चेतियाः।

अनुत्तरेण ज्ञानेन बुद्धा भोन्ति अनुत्तराः॥ ६६॥

पोषधं च निषेवन्ति शीलस्कन्धे समादपी।

समादपेन्ति बोधाय सत्त्वकोटीरचिन्तियाः॥ ६७॥

कुर्वन्ति तेऽर्थं सत्त्वानामप्रमेयचिन्तियम्।

ते ते शूरा महाप्रज्ञा ताडेन्त्यमृतदुन्दुभिम्॥ ६८॥

कम्पेन्ति मारभवनं चालेन्ति मारकायिकान्।

समादपेन्ति बोधाय मारकोटीरचिन्तियाः॥ ६९॥

परवादीन्निगृह्णन्ति निर्जिनन्ति च तीर्थिकान्।

कम्पेन्ति वसुधां सर्वां ससमुद्रां सपर्वताम्॥ ७०॥

विकुर्वमाणा कायेभिरनेकर्द्धिविकुर्वितैः।

निदर्शेन्ति महाप्रज्ञाः प्रातिहार्यानचिन्तियान्॥ ७१॥

क्षेत्रकोटी प्रकम्पेन्ति यथा गङ्गाय वालिका।

पराजिनित्वा ते मारा बोधिं बुध्यन्त्यनुत्तराम्॥ ७२॥

निर्मिण्वन्ति च ते वृक्षान् रतनैः सुविचित्रितान्।

फलपुष्पेहि संयुक्तान् गन्धवन्तान् मनोरमान्॥ ७३॥

प्रासादांश्च विमानानि कूटागारान् सहर्षिकान्।

निर्मिण्वन्ति च ते शूराः पुष्करिण्यो मनोरमाः॥ ७४॥

अष्टाङ्गजलसंपन्नाः स्वच्छाः शीता अनाविलाः।

पिबन्ति ये ततो वारि तिस्रस्तृष्णा जहन्ति ते॥ ७५॥

अविवर्त्याश्च ते भोन्ति पीत्वा वारि निरुत्तरम्।

अनुत्तरेण ज्ञानेन भोन्ति बुद्धा अनुत्तराः॥ ७६॥

अनुत्तरां गतिं शान्तां गच्छन्तीति विजानथ।

इमां गतिमजानन्तः प्रनष्टाः सर्वतीर्थिकाः॥ ७७॥

ते च तद्गतिकाः सत्त्वा ये तेषां भोन्ति निश्रिताः।

पतिष्यन्ति महाघोरामवीचिमपरायणाः॥ ७८॥

यास्तत्र वेदना घोरा न शक्यास्ताः प्रकीर्तितुम्।

अहं च ताः प्रजानामि बोधिसत्त्वाश्च तायिनः॥ ७९॥

ये चेह धर्मे काङ्क्षन्ति एवं गम्भीरि दुर्दृशे।

अभूमिस्तत्र बालानामुपलम्भस्मि ये स्थिताः॥ ८०॥

निर्मिण्वन्ति वियूहांस्ते नैकरूपनिदर्शनान्।

येन ते सर्वि गच्छन्ति बुद्धक्षेत्राननुत्तरान्॥ ८१॥

यावन्त्यो बुद्धक्षेत्रेषु रूपनिर्हारसंपदः।

सर्वास्ता इह दर्शेन्ति बोधिसत्त्वा महर्द्धिकाः॥ ८२॥

महाधर्मेण संनद्धा महावीरा महाबलाः।

महाशून्यार्थवज्रेण प्रहाराणि ददन्ति ते॥ ८३॥

रश्मिकोटिसहस्राणि यथा गङ्गाय वालिका।

कायतो निश्चरन्त्येषां येभिर्लोकः प्रभासते॥ ८४॥

न ते स्त्रीष्वभिरज्यन्ते न च तेषां विरागता।

विभावितैतेषां संज्ञा इस्त्रिसंज्ञा स्वभावतः॥ ८५॥

अशून्या बुद्धक्षेत्रास्ते येषु शूरा भवन्ति ते।

किं तेषां मारु पापीयानन्तरायं करिष्यति॥ ८६॥

दृष्टीकृतेषु ये स्थित्वा बहु बुद्धा विरागिताः।

व्यापादेन उपस्तब्धा इच्छालोभप्रतिस्थिताः॥ ८७॥

सर्वसंज्ञा विभावित्वा संज्ञावैवर्तिये स्थिताः।

य एवं ज्ञास्यते ज्ञानं बुद्धज्ञानमचिन्तियम्॥ ८८॥

पूर्वान्तमपरान्तं च प्रत्युत्पन्नं च पश्यति।

एवं च देशिता धर्मा न चात्र किंचि देशितम्॥ ८९॥

न च ज्ञानेन जानाति न चाज्ञानेन सीदति।

ज्ञानाज्ञाने विकल्पेत्वा बुद्धज्ञानेति वुच्चति॥ ९०॥

विज्ञप्तिवाक्यसंकेतं बोधिसत्त्वः प्रजानति।

करोति अर्थं सत्त्वानामप्रमेयचिन्तियम्॥ ९१॥

संज्ञा संजाननार्थेन उद्ग्रहेण निदर्शिता।

अनुद्ग्रहश्च सा संज्ञा विविक्तार्थेन देशिता॥ ९२॥

यच्चो विविक्तं सा संज्ञा या विविक्ता स देशना।

संज्ञास्वभावो ज्ञातश्च एवं संज्ञा न भेष्यति॥ ९३॥

प्रहास्याम इमां संज्ञां यस्य संज्ञा प्रवर्तते।

संज्ञा प्रपञ्चे चरति न स संज्ञातु मुच्यते॥ ९४॥

कस्येयं संज्ञा उत्पन्ना केन संज्ञा उत्पादिता।

केन सा स्पर्शिता संज्ञा केन संज्ञा निरोधिता॥ ९५॥

धर्मो न लब्धो बुद्धेन यस्य संज्ञा उत्पद्यते।

इह चिन्तेथ तं अर्थं ततः संज्ञा न भेष्यति॥ ९६॥

कदा संज्ञा अनुत्पन्ना कस्य संज्ञा विरुध्यते।

विमोक्ष चितचारस्य कथं तत्र उत्पद्यते॥ ९७॥

यदा विमोक्षं स्पृशति सर्व चिन्ता अचिन्तिया।

अचिन्तिया यदा चिन्ता तदा भोति अचिन्तियः॥ ९८॥

चिन्ताभूमौ स्थिहित्वान पूर्वमेव विचिन्तिता।

सर्वचिन्तां जहित्वान ततो भेष्यत्यचिन्तियः॥ ९९॥

शुक्लधर्मविपाकोऽयमसंस्कारेण पश्यति।

एकक्षणेन जानाति सर्वसत्त्वविचिन्तितम्॥ १००॥

यथा सत्त्वास्तथा चिन्ता यथा चिन्ता तथा जिनाः।

अचिन्तियेन बुद्धेन इयं चिन्ता प्रकाशिता॥ १०१॥

यो रहो एकु चिन्तेति कदा चिन्ता न भेष्यति।

न चिन्तां चिन्तयन्तस्य सर्वचिन्ता विगच्छति॥ १०२॥

च्युते मृते कालगते यस्य चिन्ता प्रवर्तते।

चिन्तानुसारि विज्ञानं नासा चिन्तान्तमुच्यते॥ १०३॥

ये स्थिता इस्त्रिसंज्ञायां रागस्तेषां प्रवर्तते।

विभावितायां संज्ञायां न रागेणोपलिप्यते॥ १०४॥

इयं चिन्ता महाचिन्ता धर्मचिन्ता निरुत्तरा।

अनया धर्मचिन्ताय भूतचिन्ता प्रवर्तते॥ १०५॥

बहु अचिन्तिया चिन्ता दीर्घरात्रं विचिन्तिता।

न च चिन्ताक्षयो जातश्चिन्तयित्वा अयोनिशः॥ १०६॥

योऽसौ चिन्तयते नाम क्षये ज्ञानं न विद्यते।

न क्षयो भूमिज्ञानस्य क्षयस्यो एष धर्मता॥ १०७॥

घोषो वाक्पथ विज्ञप्तिः क्षयशब्देन देशिता।

निर्विशेषाश्च ते धर्मा यथा ज्ञानं तथा क्षयः॥ १०८॥

अनुत्पन्नानिरुद्धाश्च अनिमित्ता अलक्षणाः।

कल्पकोटिं पि भाषित्वा अनिमित्तेन देशिताः॥ १०९॥

सर्वभावान् विभावित्वा अभावे ये प्रतिष्ठिताः।

न चान्यो दर्शितो भावो नाभावोऽन्यो निदर्शितः॥ ११०॥

विज्ञप्ता भावशब्देन अभावस्य प्रकाशना।

न चासौ सर्वबुद्धेहि अभावः शक्यु पश्यितुम्॥ १११॥

यो भावः सर्वभावानामभाव एष दर्शितः।

एवं भावान् विजानित्वा अभावो भोति दर्शितः॥ ११२॥

नासौ स्पर्शयितुं शक्यमभावो जातु केनचित्।

स्पर्शनात्तु अभावस्य निर्वृति एष देशिता॥ ११३॥

अहं बुद्धो भवेल्लोके यस्यैषा हो मतिर्भवेत्।

न जातु भवतृष्णार्तो बोधिं बुध्येत पण्डितः॥ ११४॥

न कंचि धर्मं प्रार्थेति बोधिसत्त्वः समाहितः।

निष्किंचना निराभोगा एषा बोधीति उच्यते॥ ११५॥

बहू एवं प्रवक्ष्यन्ति वयं बोधाय प्रस्थिताः।

इमां गतिमजानन्तो दूरे ते बुद्धबोधये॥ ११६॥

शब्देन देशिता धर्माः सर्वे संस्कार शून्यकाः।

यश्व स्वभावः शब्दस्य गम्भीरः सूक्ष्म दुर्दृशः॥ ११७॥

महाभिज्ञाय निर्देश इदं सूत्रं प्रवुच्चति।

अर्थाय बोधिसत्त्वानां सर्वबुद्धेहि देशितम्॥ ११८॥

प्रतिपक्षा हतास्तेषां यावन्तः सांकिलेशिकाः।

प्रतिष्ठिता अभिज्ञासु ऋद्धिस्तेषां सुभाविता॥ ११९॥

स्थिताः प्रणिधिज्ञानस्मिंस्तच्च ज्ञानं विभावितम्।

अतृप्तिर्लब्धज्ञानस्य अप्रमेया अचिन्तिया॥ १२०॥

न तेषामभिसंस्कारः समाधी रिद्धिकारणम्।

विपाक एष शूराणां नित्यकालं समाहितः॥ १२१॥

विपाकजाये ऋद्धीये गच्छन्ती क्षेत्रकोट्यः।

पश्यन्ति लोकप्रद्योतान् यथा गङ्गाय वालिका॥ १२२॥

उपपत्तिश्च्युतिस्तेषां यथा चित्तस्य वर्तते।

चित्तस्य वशितां प्राप्ताः कायस्तेषां प्रभास्वरः॥ १२३॥

भावनामयि ऋद्धीये ये स्थिता बुद्धश्रावकाः।

तेभिः संस्कारऋद्धीये कलां नायान्ति षोडशीम्॥ १२४॥

न तेषां सर्वदेवेभिराशयः शक्यु जानितुम्।

अन्यत्र लोकनाथेभ्यो ये वा तेषां समे स्थिताः॥ १२५॥

न तेषामस्ति खालित्यं न चैव पलितं शिरे।

औदारिका जरा नास्ति न दुःखमरणं तथा॥ १२६॥

संशयो विमतिर्नास्ति काङ्क्षा तेषां न विद्यते।

रात्रिंदिवं गवेषन्ति सूत्रकोटीशतानि ते॥ १२७॥

प्रहीणानुशयास्तेषां यावन्तः सांकिलेशिकाः।

समचित्ताः सदा भोन्ति सर्वसत्त्वान तेऽन्तिके॥ १२८॥

समाधिकोटिनियुतां निर्दिशन्ति दशद्दिशे।

प्रश्नकोटीसहस्राणि व्याकुर्वन् ह्यनवस्थिताः॥ १२९॥

स्त्रीसंज्ञा पुरुषसंज्ञा च सर्वसंज्ञा विभाविताः।

स्थिता अभावसंज्ञायां देशेन्ति भूतनिश्चयम्॥ १३०॥

परिशुद्धेन ज्ञानेन यथावद्धर्मदेशकाः।

धर्मसंगीत्याभियुक्ताः समाधिज्ञानगोचराः॥ १३१॥

यापि ध्यानचरिस्तेषां नासौ भावप्रतिष्ठिता।

अवन्ध्यं वचनं तेषामवन्ध्या धर्मदेशना॥ १३२॥

सुलब्धं तेन मानुष्यं प्रहीणाः सर्वि अक्षणाः।

कृतज्ञाः सर्वबुद्धानां येषां सूत्रमिदं प्रियम्॥ १३३॥

कल्पा अचिन्तियास्तेहि ये संसारात्तु छोरिताः।

यैरितः सूत्रश्रेष्ठातो धृता गाथा चतुष्पदा॥ १३४॥

दृष्टास्ते सर्वबुद्धेहि तैस्ते बुद्धाश्च सत्कृताः।

क्षिप्रं च बोधिं प्राप्स्यन्ति तेषां सूत्रमिदं प्रियम्॥ १३५॥

न तेषां काङ्क्ष विमती सर्वधर्मेषु भेष्यती।

आसन्ना निर्वृतिस्तेषां येषां सूत्रमिदं प्रियम्॥ १३६॥

दृष्टस्तेहि महावीरो गृध्रकूटे तथागतः।

सर्वे व्याकृतु बुद्धेन द्रक्ष्यन्ति मैत्रकं जिनम्॥ १३७॥

दृष्ट्वा मैत्रेय संबुद्धं लप्स्यन्ते क्षान्ति भद्रिकाम्।

ये केचि क्षयकालस्मिन्निह सूत्रे प्रतिष्ठिताः॥ १३८॥

स्थितास्ते भूतकोटीये भूतकोटिरचिन्तिया।

अचिन्तियायां कोटीये काङ्क्षा तेषां न विद्यते॥ १३९॥

न तेषां विद्यते काङ्क्षा अणूमात्रापि सर्वशः।

अणूमात्रे प्रहीणेस्मिन् बोधिस्तेषां न दुर्लभा॥ १४०॥

चरतां दुष्करं चैव क्षयकाले सुभैरवे।

शिक्षित्व सूत्ररत्नेऽस्मिन् प्रतिभानस्मि अक्षयम्॥ १४१॥

इदं सूत्रं प्रियं कृत्वा बुद्धानां गञ्जरक्षकाः।

सर्वबुद्धानियं पूजा धर्मपूजा अचिन्तिया॥ १४२॥

न तेषां दुर्लभं ज्ञानं बुद्धज्ञानमचिन्तियम्।

धारयिष्यन्तिदं सूत्रं क्षयकालेस्मि दारुणे॥ १४३॥

येभिश्च पूर्वबुद्धानामिमे सूत्रान्त धारिताः।

तेषां कायगता एते क्षयकाले प्रवर्तिषु॥ १४४॥

ते ते नादं नदिष्यन्ति बुद्धानां क्षेत्रकोटिषु।

संमुखं लोकनाथानां शाक्यसिंहस्य या चरी॥ १४५॥

सिंहनादं नदन्तस्ते बुद्धनादमचिन्तियम्।

अनन्तप्रतिभानेन वक्ष्यन्ते बोधिमुत्तमाम्॥ १४६॥

ते ते व्याकृत बुद्धेन इक्ष्वाकुकुलसंभवाः।

ये रक्षिष्यन्तिमां बोधिं क्षयकाले महाभये॥ १४७॥

ते ते रूपेण संपन्ना लक्षणेहि विचित्रिताः।

विकुर्वमाणा यास्यन्ति बुद्धकोटीय वन्दकाः॥ १४८॥

मायोपमेहि पुष्पेहि हेमवर्णनिदर्शनैः।

रूप्यामयेहि पुष्पेहि वैदूर्यस्फटिकेहि च॥ १४९॥

सर्वाणि रत्नजातानि प्रादुर्भोन्त्येषु पाणिषु।

यैराकिरन्ति संबुद्धान् बोधिमार्गगवेषकाः॥ १५०॥

चित्रा नानाविधा पूजा वाद्यनिर्हारसंपदा।

निश्चरी रोमकूपेभ्यो यथा गङ्गाय वालिकाः॥ १५१॥

ये च शृण्वन्ति तं शब्दं सत्त्वकोट्यो अचिन्तियाः।

भवन्त्यविनिवर्त्यास्ते बुद्धज्ञाने अनुत्तरे॥ १५२॥

तेषां च बुद्धकोटीनां वर्णं भाषन्त्यचिन्तियम्।

अचिन्तियेषु क्षेत्रेषु तेषां शब्दः श्रुणीयति॥ १५३॥

ये च शृण्वन्ति तं शब्दं तेषां संज्ञा निरुध्यते॥

निरोधितायां संज्ञायां बुद्धान् पश्यन्त्यनल्पकान्॥ १५४॥

एतादृशेन ज्ञानेन चरित्वा बोधिचारिकाम्।

कृत्वार्थं सर्वसत्त्वानां भवन्त्यर्थकरा जिनाः॥ १५५॥

गुणानुशंसा इत्येते या लभन्ते ह पण्डिताः।

अन्ये अपरिमाणाश्च यैरियं बोधि धारिता॥ १५६॥

मातृग्रामोऽपिदं सूत्रं श्रुत्वा गाथापि धारयेत्।

विवर्तयित्वा स्त्रीभावं स भवेद् धर्मभाणकः॥ १५७॥

न सा पुनोऽपि स्त्रीभावमितः पश्चाद् ग्रहीष्यति।

भवेत् प्रासादिको नित्यं लक्षणैः समलंकृतः॥ १५८॥

श्रेष्ठेऽथ इह सूत्रस्मिन् गुणाः श्रेष्ठाः प्रकाशिताः।

तेऽस्य सर्वे भविष्यन्ति क्षिप्रं बोधिं च प्राप्स्यते॥ १५९॥

विशारदश्च सो नित्यं भोति सर्वासु जातिषु।

धारयित्वा इदं सूत्रं बोधिसत्त्वान गोचरम्॥ १६०॥

जनको बोधिसत्त्वानां समाधिः शान्त भाषितः।

य इच्छेद् बुद्धितुं बोधिमिदं सूत्रं प्रवर्तयेत्॥ १६१॥

आसन्नास्ते मुनीन्द्राणामासन्ना वुद्धबोधये।

लप्स्यन्ति नचिरेणेमां भूमिं शान्तां समाहिताः॥ १६२॥

इह बोधीय ते शूरा बोधिसत्त्वाः स्थिताः सदा।

पश्यन्ति बुद्धकोटीयो यथा गङ्गाय वालिकाः॥ १६३॥

राजा भवित्वा महीपति चक्रवर्ती

दृष्ट्वा च बुद्धान् विरजान् सुशान्तचित्तान्।

गाथाशतैस्तां स्तविष्यति लोकनाथान्

स लभित्व शान्तं इमु विरजं समाधिम्॥ १६४॥

सो पूज कृत्व अतुलिय नायकानां

सुमहायशानां देवनरोत्तमानाम्।

मुक्त्वा स राज्यं यथरिव खेटपिण्डं

शुद्धो विशुद्धश्चरिष्यति ब्रह्मचर्यम्॥ १६५॥

स प्रव्रजित्व जिनवरशासनस्मिं

लब्ध्वापि चैतं विरजु समाधि शान्तम्॥

कल्याणवाक्यो मधुरगिरः स भूत्वा

अधिष्ठानु धीमान् भविष्यति सूत्रकोट्याः॥ १६६॥

शून्यानिमित्तं परमप्रणीतु शान्तं

धर्म प्रशान्तं चर निपुणं असङ्गम्।

स्वभावशून्यं सद विरजं प्रशान्तं

समाधिप्राप्त्या बहु जनि संप्रकाशयी॥ १६७॥

गम्भीरबुद्धी सततमनन्तबुद्धी

विस्तीर्णबुद्धी अपरिमितार्थबुद्धी।

गम्भीर शान्तं लभिय इमं समाधि-

मालोकप्राप्तो भविष्यति सर्वलोकः॥ १६८॥

शुचिश्च नित्यं भविष्यति ब्रह्मचारी

स निरामगन्धः सततमसंकिलिष्टः।

अन्यांश्च तत्र स्थपिष्यति सत्त्वकोटयो

लब्ध्वा प्रशान्तं इमु विरजं समाधिम्॥ १६९॥

स सुतीक्ष्णप्रज्ञो भविष्यति श्रेष्ठप्रज्ञः

श्रुतिसागरोऽसौ नित्यमनन्तबुद्धिः।

कल्याणवाक्यो मतिकुशलो विधिज्ञो

धारित्व शान्तिं इमु विरजं समाधिम्॥ १७०॥

ये कर्मस्थाना तथरिव शिल्पस्थाना

भैषज्यस्थानास्तथरिव औषधीनाम्।

सर्वत्र धीरो भविष्यति पारप्राप्तो

धारित्व सूत्रं इमु विरजं समाधिम्॥ १७१॥

काव्येषु शास्त्रेषु तथपि च हास्यलास्ये

नृत्येऽथ गीते सुकुशल पारप्राप्तः।

आचार्यु लोके भविष्यति नित्यकालं

धारित्व शान्तं इमु विरजं समाधिम्॥ १७२॥

परिवारवान् सो भविष्यति नित्यकालं

स अभेद्यपक्षः सद सहितः समग्रः।

चरमाणु श्रेष्ठां वरां शिव बोधिचर्यां

धारित्व सूत्रं इमु विरजं समाधिम्॥ १७३॥

शोकाथ शल्या तथरिव चित्तपीडा

नो तस्य जातु भविष्यति पण्डितस्य।

आरोग्यप्राप्तो भविष्यति सर्वकालं

धारित्व शान्तं इमु विरजं समाधिम्॥ १७४॥

ये कायशूलास्तथरिव चित्तशूलाः

ये दन्तशूलास्तथपि च शीर्षशूलाः।

नो तस्य भोन्ती व्याधयु जीवलोके

धारित्व शान्तं इमु विरजं समाधिम्॥ १७५॥

यावन्त रोगा बहुविध मर्तलोके

ये कायरोगास्तथरिव चित्तरोगाः।

ते तस्य रोगाः सतत न जातु भोन्ति

धारित्व शान्तं इमु विरजं समाधिम्॥ १७६॥

चित्तस्य वा ये बहुविधु यत्किलेशाः

काये वापि बहुविध रोगजाताः।

ते तस्य नास्ती बहुविध संकिलेशा

धारित्व शान्तं इमु विरज समाधिम्॥ १७७॥

यथन्तरीक्षं गगनमनोपलिप्तं

प्रकृतिविशुद्धं विमल प्रभास्वरं च।

चित्तं तथैव भवति विशुद्ध तस्यो

धारित्व शान्तं इमु विरजं समाधिम्॥ १७८॥

चन्द्रस्य आभा तथरिव सूर्यआभा

शुद्धा अग्राह्या भवति प्रभास्वराश्च।

चित्तं तथैव भवति प्रभास्वरं च

धारित्व शान्तं इमु विरजं समाधिम्॥ १७९॥

यथ अन्तरीक्षं न सुकरु चित्रणाय

रङ्गान् गृहीत्वा बहुविध नैकरूपान्।

चित्तं तथैव न सुकरु चित्रितुं

सेवेत्व शान्तं इमु विरजं समाधिम्॥ १८०॥

वातो यथैव चतुर्दिश वायमानो

असज्जमानो व्रजति दिशः समन्तात्।

वातसमाना भवति स चित्तधारा

जगि सो असक्तो व्रजति अनोपलिप्तः॥ १८१॥

जालेन शक्यं गृह्णितु वायमानः

पाशेन चापी बन्धितु शक्य वातः।

नो तस्य चित्तं सुकरु विजाननाय

भावेत्व शान्तमिमु विरजं समाधिम्॥ १८२॥

प्रतिभासु शक्यं जलगत गृह्णनाय

संप्राप्तु तोयं तथपि च तैलपात्रे।

नो तस्य चित्तं सुकरु विजाननाय

भावेत्व शान्तं इमु विरजं समाधिम्॥ १८३॥

गर्जन्ति मेघा विद्युलता चरन्ता

शक्यं ग्रहीतु पाणिन मानुषेण।

नो तस्य चित्तं सुकरु प्रमाणु ज्ञातुं

भावेत्व शान्तं इमु विरजं समाधिम्॥ १८४॥

सत्त्वान शक्यं रूतरवितं ग्रहीतुं

ये सन्ति सत्त्वा दशदिशि बुद्धक्षेत्र।

चित्तस्य तस्यो न सुकरु ज्ञातु कोटिं

समाधिलब्धो यद भवि बोधिसत्त्वः॥ १८५॥

सो तां लभित्व विरजं समाधिभूमिं

असंंकिलिष्टो भवति अनोपलिप्तः।

नो तस्य भूयो त्रिभवि निवेश जातु

अनेन लब्धो भवति समाधि शान्तः॥ १९६॥

नो कामलोलो न च पुन रूपलोलो

न इस्त्रिलोलो न च पुन भ्रान्तचित्तः।

शान्तः प्रशान्तो भवति अनोपलिप्तो

यद भोति लब्धो अयु विरजः समाधिः॥ १८७॥

न पुत्रलोलो न च पुन धीतलोलो

नो भार्यलोलो न च परिवारलोलः।

सुशान्तचारी भवति अनोपलिप्तो

यद भोति लब्धो अयु विरजः समाधिः॥ १८८॥

न हिरण्यलोलो न च पुनरर्थलोलो

न स्वर्गलोलो धनरतनेष्वसक्तः।

सुविशुद्धचित्तो भवति स निर्विकल्पः

समाधिप्राप्तो अयु भवती विशेषः॥ १८९॥

न स्वर्गहेतोश्चरति स ब्रह्मचर्यं

न स्वर्गलोलो ददति सदा नु विज्ञः।

संबोधिकामः कुशलचरिं चरन्तः।

समाधिप्राप्तो अयु भवती विशेषः॥ १९० ॥

नो राज्यहेतोश्चरति तपो व्रतं वा

नैश्वर्यमर्थास्त्रिभुवनि प्रार्थमानः।

संबोधिलोलो बहुजनहिताय

निष्पादयी सो इमु विरजं समाधिम्॥ १९१॥

नो तस्य रागो जनयति जातु पीडां

यो न स्त्रीलोलो सो भवति भ्रान्तचित्तः।

तथापि तेन प्रकृतिप्रज्ञाय रागो

लभित्व एतं विरजु समाधि शान्तम्॥ १९२॥

नो तस्य दोषो जनयति जातु पीडां

व्यापादु येनो प्रतिघमथो करेय्य।

मैत्राय तेनो निहत स दोषधातु

प्रतिलभ्य एतं विरजु समाधि शान्तम्॥ १९३॥

नो तस्य मोहो जनयति जातु पीडां

प्रज्ञाय तेनो निहत स मोह अविद्या।

तं ज्ञानु लब्धं वितिमिरमप्रमेयं

समाधिप्राप्ते इमि गुण अप्रमेयाः॥ १९४॥

अशुभाय रागः सतत सुनिगृहीतो

मैत्र्याय दोषो निहतु सदा अशेषः।

प्रज्ञाय मोहो विधमिय क्लेशजालं

समाधिप्राप्तः प्रतपति सर्वलोके॥ १९५॥

नो तस्य मिद्धं जनयति जातु पीडां

सुभाविता से विविध उत्किलेशाः।

अनोपलिप्तो भवति च विप्रमुक्तः

समाधिप्राप्ते इमि गुण अप्रमेयाः॥ १९६॥

नो तस्य मोहो जनयति जातु पीडां

तथा हि त्यागे अभिरतु नित्यकालम्।

सर्वस्वत्यागी भवति सुखस्य दाता

य इमं समाधिं धारयति बोधिसत्त्वः॥ १९७॥

स्थामेनुपेतो भवति अनोपमेयो

स बलेनुपेतो भवति नित्यकालम्।

नो तस्य लोके भवति समः कदाचिद्

य इमं समाधिं धारयति बोधिसत्त्वः॥ १९८॥

यदापि राजा स भवति चक्रवर्तीं

मनुजानु लोके उपगत जम्बुद्वीपे।

तदापि भोती बहुजनपूजनीयो

विशेषप्राप्तो मतिम विशिष्टप्रज्ञः॥ १९९॥

ये भोन्ति मुख्याः कुलरतना विशिष्टाः

सुप्रभूतभोगा बहुजनस्वापतेयाः।

यत्राश्व हस्ती रथवर युग्ययाना

हिरण्यस्वर्णं मणीरतनं प्रभूतम्॥ २००॥

ये श्राद्ध भोन्ती इह वरबुद्धज्ञाने

ते जम्बुद्वीपे कुलरतनाभियुक्ताः।

तत्रोपपन्नः कुलरतने विशिष्टे

करोति सोऽर्थं सुविपुल ज्ञातिसंघे॥ २०१॥

अश्राद्ध ये वा इह कुल जम्बुद्विपे

श्रद्धां स तेषां जनयति अप्रमत्तः।

यं बोधिचित्ते प्रतिष्ठिति सत्त्वकाये

ते बुद्ध भोन्ती जिनप्रवरः स्वयंभूः॥ २०२॥

ते च स्पृशित्व अतुलियमग्रबोधिं

चक्रं प्रवर्तेन्त्यसदृश बुद्धक्षेत्रे।

ये चो विजानी इमु तद धर्मचक्रं

अनुत्पत्तिधर्मे निखिल ते संप्रतिष्ठी॥ २०३॥

सुबहुकराश्चो अमि तद बोधिसत्त्वाः

सत्त्वान भोन्ति सततु ते पूजनीयाः।

करोन्ति तेऽर्थं अतुलिय नित्यकालं

सत्त्वान चक्षुर्वितिमिरु ते जनेन्ति॥ २०४॥

बहव शतसहस्राः सत्त्वकोटी अनन्ता

येष कुशलमूला भोन्ति तत्र श्रुणित्वा।

ते अपि प्रतिलभन्ते उत्तमं बोधिचित्तं

यद जिनु अनुशासी बोधिसत्त्वं महात्मा॥ २०५॥

अशून्यक्षेत्रा प्रमुदित भोन्ति नित्यं

निरुपलेपा अमि तद बुद्ध भोन्ती।

यत्र स्थिहन्ती इमि तद बोधिसत्त्वाः

सत्त्वानमर्थ अपरिमितं करोन्ति॥ २०६॥

रक्षन्ति शीलं असदृशु ब्रह्मचर्यं

भावी समाधी विपुलमनन्तकल्पान्।

ध्याने विमोक्षे सुनिश्रित नित्यकालं

ते बोधिसत्त्वा भवि सद बुद्धपुत्राः॥ २०७॥

ते ऋद्धिपादान् सतत् निषेवमाणा

क्षेत्राणि गत्वा बहु विविधाननन्तान्।

शृण्वन्ति धर्मं सुगतवरप्रभाषं

सर्वं च गृह्णी प्रतिष्ठितु धारणीये॥ २०८॥

प्रभाषि सूत्रानपरिमिताननन्तान्

ये धारणीये प्रतिष्ठितु बोधिसत्त्वाः।

सत्त्वान अर्थं अपरिमितं करोन्ति

ये धारणीये प्रतिष्ठितु बोधिसत्त्वाः॥ २०९॥

च्युतोपपादं जानाति सत्त्वानामागतिं गतिम्।

यादृशं तैः कृतं कर्म विपाकोऽपि च तादृशः॥ २१०॥

कर्मणो न च संक्रान्तिरणुमात्राणि लभ्यते।

तेऽपि तेषां विजानन्ति बोधिसत्त्वा महायशाः॥ २११॥

शून्यता च महात्मानां विहारो भोति उत्तमः।

स्थापयन्ति महायाने सत्त्वकोटीरचिन्तियाः॥ २१२॥

न तेषामोवदन्तानां सत्त्वसंज्ञा प्रवर्तते।

अप्रवृत्तिं च धर्माणां बोधिसत्त्वाः प्रकाशयी। २१३॥

न प्रकाशयतां धर्माणुपलम्भः प्रवर्तते।

शून्याविहारिणो भोन्ति दृढज्ञाने प्रतिष्ठिताः॥ २१४॥

उद्दिश्येमं समाधिं च विहारं सर्वशास्तुनाम्।

न तेषां वर्तते संज्ञा इस्त्रिसंज्ञा स्वभावता॥ २१५॥

इस्त्रिसंज्ञां विभावित्वा बोधिमण्डे निषीदति।

बोधिमण्डे निषिदित्वा मारसंज्ञा निवर्तते॥ २१६॥

न चात्र पश्यते मारं मारसैन्यं च पण्डितः।

न च पश्यति मारस्य तिस्रो दुहितरोऽपि सः॥ २१७॥

बोधिमण्डे निषण्णस्य सर्वसंज्ञा प्रहीयते।

सर्वसंज्ञाप्रहीणस्य सर्वा कम्पति मेदिनी॥ २१८॥

सुमेरवः समुद्राश्च याव सन्ति दशा दिशे।

तं च सत्त्वा विजानन्ति सर्वदिक्षु दशस्वपि॥ २१९॥

बोधिसत्त्वस्य ऋद्ध्येयं मेदिनी संप्रकम्पिता

षड्विकारं तदा काले बुध्यतो बोधिमुत्तमाम्॥ २२०॥

यावन्तः संस्कृता धर्मा ये च धर्मा असंस्कृताः।

सर्वांस्तान् बुध्यते धर्मान् धर्मशब्देन देशितान्॥ २२१॥

न चात्र बुध्यते कश्चित् सिंहनादश्च वर्तते।

वर्तनीयं विजानित्वा भोति बुद्धः प्रभाकरः॥ २२२॥

प्रतीत्य धर्मा वर्तन्ते उत्पद्यन्ते प्रतीत्य च।

प्रतीत्यतां यद्धर्माणां सर्वे जानन्ति ते विदुः॥ २२३॥

विधिज्ञाः सर्वधर्मेषु शून्यताया गतिंगताः।

गतिं च ते प्रजानन्ति सर्वधर्मगतिंगताः॥ २२४॥

गतिमेतां गवेषित्वा बोधिसत्त्वो न लभ्यते।

येनैषा सर्वबुद्धानां ज्ञाता गतिरचिन्तिया॥ २२५॥

स तां गतिं गतो भोति यः सर्वां गति जानति।

सर्वस्य माया उच्छिन्ना ज्ञात्वा सद्धर्मलक्षणम्॥ २२६॥

बोधिमण्डे निषीदित्वा सिंहनादं नदी तथा।

विज्ञापयी क्षेत्रकोटीरप्रमेया अचिन्तियाः॥ २२७॥

तांश्च प्रकम्पयी सर्वा बुद्धवीरा महायशाः।

यथ वैनयिकान् सत्त्वान् विनेती सत्त्वसारथिः॥ २२८॥

स्पृशित्वा उत्तमां बोधिं बोधिमण्डात्तु उत्थितः।

विनेयान् विनयेत् सत्त्वानप्रमेयानचिन्तियान्॥ २२९॥

ततो निर्मिणि संबुद्धो अनन्तान् बुद्धनिर्मितान्।

क्षेत्रकोटीसहस्राणि गच्छन्ती धर्मदेशकाः॥ २३०॥

स्थापयन्त्यग्रबोधीये सत्त्वकोटीरचिन्तियाः।

देशयन्त्युत्तमं धर्मं हितार्थं सर्वप्राणिनाम्॥ २३१॥

ईदृशं तन्महाज्ञानं बुद्धज्ञानमचिन्तियम्।

तस्माज्जनयथ च्छन्दं बोधिच्छन्दमनुत्तरम्॥ २३२॥

जनेथ गौरवं बुद्धे धर्मे संघे गुणोत्तमे।

बोधिसत्त्वान शूराणां बोधिमग्र्यां निषेवताम्॥ २३३॥

अनोलीनेन चित्तेन सत्करोथ अतन्द्रिताः।

भविष्यथ ततो बुद्धा नचिरेण प्रभाकराः॥ २३४॥

ये च क्षेत्रसहस्रेषु बोधिसत्त्वा इहागताः।

पश्यन्ति लोकप्रद्योतं धर्मं देशेन्तमुत्तमम्॥ २३५॥

ओकिरन्ति महावीरा महारत्नेहि नायकम्।

मान्दारवेहि पुष्पेहि ओकिरी बोधिकारणात्॥ २३६॥

अलंकरोन्तिदं क्षेत्रं बुद्धक्षेत्रमनुत्तरम्।

रत्नजालेन च्छादेन्ति समन्तेन दिशो दश॥ २३७॥

पताका अवसक्ताश्च उच्छ्रिता ध्वजकोटयः।

अलंकारैरनन्तैश्च इदं क्षेत्रमलंकृतम्॥ २३८॥

कूटागारांश्च मापेन्ति सर्वरत्नविचित्रितान्।

प्रासादहर्म्यनिर्यूहानसंख्येयान् मनोरमान्॥ २३९॥

विमानान्यर्धचद्रांश्च गवाक्षान् पञ्जरांस्तथा।

धूपिता ध्वजघटिका नानारत्नविचित्रिताः॥ २४०॥

धूप्यमानेन गन्धेन अभ्रकूटसमं स्फुटम्।

क्षेत्रकोटीसहस्रेषु वाति गन्धो मनोरमः॥ २४१॥

ते च सर्वे स्फरित्वान गन्धवर्षं प्रवर्षिषुः।

ये च घ्रायन्ति तं गन्धं ते बुद्धा भोन्ति नायकाः॥ २४२॥

रागशल्यं प्रहीणैषां दोषशल्यं न विद्यते।

विध्वंसितं मोहजालं तमः सर्वं विगच्छति॥ २४३॥

ऋद्धिं च तत्र स्पर्शेन्ति बलबोध्यङ्ग इन्द्रियान्।

ध्यानविमोक्षान् स्पर्शेन्ति भोन्ति चो दक्षिणार्हाः॥ २४४॥

पञ्चकोटीय प्रज्ञप्ता वस्त्रकोटीभि संस्तृता।

संछन्ना रत्नजालेहि च्छत्रकोटीभि चित्रिताः॥ २४५॥

निषण्णास्तत्र ते शूरा बोधिसत्त्वाः समागताः।

लक्षणैस्ते विरोचन्ते तथानुव्यञ्जनैरपि॥ २४६॥

वृक्षै रत्नमयैः सर्वं बुद्धक्षेत्रमलंकृतम्।

निर्मिताः पुष्करिण्यश्च अष्टाङ्गजलपूरिताः॥ २४७॥

पानीयं ते ततः पीत्वा पुष्करिणीतटे स्थिताः।

सर्वे तृष्णां विनोदित्वा भोन्ति लोकस्य चेतियाः॥ २४८॥

अन्योन्येषु च क्षेत्रेषु बोधिसत्त्वाः समागताः।

बुद्धस्य वर्णं भाषन्ते शाक्यसिंहस्य तायिनः॥ २४९॥

शृण्वन्ति ये च तं वर्णं ते भोन्ती लोकनायकाः।

अचिन्त्या अनुशंसा मे इह सूत्रे प्रकाशिताः॥ २५०॥

स्वर्णमयेहि पत्रेहि पद्मकोट्यो अचिन्तियाः।

शुद्धस्योरगसारस्य कर्णिकास्तत्र निर्मिताः॥ २५१॥

वैडूर्यस्य च दण्डानि स्फटिकस्य च पञ्जराः।

केसरा गिरिगर्भस्य मापितास्तत्र शोभनाः॥ २५२॥

ये च घ्रायन्ति तं गन्धं निश्चरन्तं मनोरमम्।

तेषां सर्वे प्रशाम्यन्ति व्याधयः प्रीतचेतसाम्॥ २५३॥

रागो द्वेषश्च मोहश्च अशेषास्तेहि क्षीयते।

त्रीन् दोषान् क्षपयित्वा च भोन्ति बुद्धा सुखंददाः॥ २५४॥

शब्दस्ततो निश्चरति बुद्धशब्दो ह्यचिन्तियः।

सद्धर्मसंघशब्दश्च विनिश्चरति सर्वतः॥ २५५॥

शून्यता अनिमित्तस्य स्वरो अप्रणिहितस्य च।

श्रुत्वा तं सत्त्वकोटीयो भोन्तिवैवर्तिका बहु॥ २५६॥

निश्चरंश्चैव शब्दोऽसौ क्षेत्रकोटीषु गच्छति।

स्थापेन्ति बुद्धज्ञानस्मिन् सत्त्वकोटीरचिन्तियाः॥ २५७॥

शकुन्ता कलविङ्काश्च जीवंजीवकपक्षिणः।

तेऽपि प्रव्याहरी शब्दं बुद्धशब्दमनुत्तरम्॥ २५८॥

रत्नामयाश्च ते वृक्षा इह क्षेत्रस्मि निर्मिताः।

विशिष्टा दर्शनीयाश्च मणीवृक्षा मनोरमा॥ २५९॥

लम्बन्ते तेषु वृक्षेषु सर्वाभरणवेणयः।

अनुभावेन बुद्धस्य इह क्षेत्रस्मि निर्मिताः॥ २६०॥

न सोऽस्ति केषुचिद् व्यूहः सर्वक्षेत्रेषु सर्वशः।

यो नेह दृश्यते क्षेत्रे तद्विशिष्टतमस्तदा॥ २६१॥

पेयालमेतदाख्यातं शाक्यसिंहेन तायिना।

न ते ज्ञानेऽत्र काङ्क्षति बोधिसत्वा महायशाः॥ २६२॥

कोटीय एतां बुध्यन्ति गतिस्तेषामचिन्तिया।

ज्ञानेन ते विवर्धन्ते सागरो वा स्रवन्तिभिः॥ २६३॥

न तेषां लभ्यतेऽन्तो हि पिबतो वा महोदघेः।

आख्यातो बोधिसत्त्वानां नयो ह्येष अचिन्तियः॥ २६४॥

इह कोटयां स्थिताः शूरा बोधिसत्त्वा यशस्विनः।

स्वराङ्गानि प्रमुञ्चन्ति यथा गङ्गाय वालिकाः॥ २६५॥

ततश्चिन्त्यः स्वरोऽप्येवं बोधिसत्त्वो न मन्यते।

मन्यनायां प्रहीणायामासन्नो भोति बोधते॥ २६६॥

न स शीलं विलुम्पेति अपि जीवितकारणात्।

अविलुप्तः स चरति बोधिसत्त्वो दृढवतः॥ २६७॥

नासौ भूयो विलुप्येत कमसंज्ञाय सर्वशः।

सर्वसंज्ञाप्रहीणस्त अप्रमेयाः समाधयः॥ २६८॥

समाहितः स चरति सज्जते न समाधिषु।

असक्तश्चाप्रमत्तश्च नासौ लोकेषु सज्जते॥ २६९॥

लोकधातूनतिक्रम्य स गच्छति सुखावतीम्।

गतश्च तत्र संबुद्धममिताभं स पश्यति॥ २७०॥

बोधिसत्त्वांश्च तान् शूरान् लक्षणैः समलंकृतान्।

पञ्चाभिज्ञापारमिं च प्राप्ता धारणिगोचराः॥ २७१॥

गच्छन्ति क्षेत्रकोटीयो बुद्धानां पादवन्दकाः।

ओभाषयन्तो गच्छन्ति बुद्धक्षेत्रानचिन्तियान्॥ २७२॥

सर्वदोषप्रहीणाश्च सर्वक्लेशविशोधिताः।

सर्वक्लेशसमुच्छिन्ना एकजातिस्थिता जिनाः॥ २७३॥

न चो अपायान् गच्छन्ति तस्मात् क्षेत्रात्तु ते नराः।

सर्वेऽपाया समुच्छिन्नास्तस्मिन् क्षेत्रे अशेषतः॥ २७४॥

बोधिता बुद्धश्रेष्ठेन अमिताभेन तायिना।

करोथ मा तत्र काङ्क्षां गमिष्यथ सुखावतीम्॥ २७५॥

यः क्षेत्रश्रेष्ठस्य श्रुणित्व वर्णं

चित्तप्रसादं प्रतिलभि मातृग्रामः।

स क्षिप्र भोती पुरुषवरः सुविद्वान्

ऋद्ध्या च याति क्षेत्रसहस्रकोटीः॥ २७६॥

यावन्ति पूजा बहुविध अप्रमेया

या क्षेत्रकोटीनयुतयबिंबरेषु।

तां पूज कृत्व पुरुषवरेषु नित्यं

संख्याकलापी न भवति मैत्रचित्तः॥ २७७॥

शीलं समाधिं सततु निषेवमाणो

ध्यानान् विमोक्षांस्तथपि च अप्रमाणान्।

शून्यानिमित्तान् सततु निषेवमाणो

नचिरेण सो हि सुगतु भवति लोके॥ २७८॥

एषा हि पूजा परमा विशिष्ट मह्यं

यः शीलस्कन्धे प्रतिष्ठितु बोधिसत्त्वो।

सद सर्वबुद्धास्तेन सुपूजिता हि

क्षयान्तकाले यः स्थितु बोधिचित्ते॥ २७९॥

सुपरीन्दितास्ते बुद्धसहस्रकोट्यो

ये बोधिसत्त्वा इमु क्षयि कालि घोरे।

रक्षन्ति धर्मं सुगतवरोपदिष्टं

ते मह्य पुत्राश्चरिमक धर्मपालाः॥ २८०॥



इति श्रीसमाधिराजे सूत्रधारणानुशंसापरिवर्तो नाम द्वात्रिंशतितमः॥ ३२॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project