Digital Sanskrit Buddhist Canon

सर्वधर्मस्वभावनिर्देशपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Sarvadharmasvabhāvanirdeśaparivartaḥ

सर्वधर्मस्वभावनिर्देशपरिवर्तः।



तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मात्तर्हि कुमार य आकाङ्क्षेद् बोधिसत्त्वो महासत्त्वः किमित्यहं सर्वधर्माणां स्वभावं कथं जानीयामिति, तेन कुमार बोधिसत्त्वेन महासत्त्वेन अयं सर्वधर्मस्वभावसमताविपञ्चितः समाधिः श्रोतव्य उद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्य उद्देष्टव्यः स्वाध्यातव्यः अरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

तस्यो रागु न जातु कुप्यते न च दोषो

तस्यो मोह न जातु कुप्यते वृषभिस्य।

तेनो सर्वि किलेश च्छोरितानवशेषा

योऽसौ धर्मस्वभावु जानती सुप्रशान्तम्॥ १॥

सोऽसौ शिक्ष न जातु ओषिरी सुगतानां

सोऽसौ शूरु न जातु इस्त्रियाणां वशमेति।

सोऽसौ शासनि प्रीति विन्दते सुगतानां

योऽसौ धर्मस्वभावु जानती सुप्रशान्तम्॥ २॥

सोऽसौ ज्ञानविधिज्ञ पण्डितो मतिमांश्च

सोऽसौ बुद्ध अनन्त पश्यती अपर्यन्तां।

सोऽसौ धारणिज्ञानु जानती अपर्यन्तं

योऽसौ धर्मस्वभावु जानती नययुक्तिम्॥ ३॥

सोऽसौ नेह चिरेण भेष्यति द्विपदेन्द्रः

सोऽसौ वैद्यु भिषकु भेष्यते सुखदाता।

सोऽसौ उद्धरि शल्य सर्वशो दुखितानां

योऽसौ धर्मस्वभावु जानती सुप्रशान्तम्॥ ४॥

सोऽसौ आतुरु ज्ञात्व दुःखितानिमि सत्त्वान्

सोऽसौ भेरी सदा पराहनी अमृतस्य।

सोऽसौ भेष्यति नायको जिनो नचिरेण

योऽसौ धर्मस्वभावु जानती सुप्रशान्तम्॥ ५॥

सोऽसौ भैषज्यनयेषु कोविदो वरवैद्यो

आदिं जानति सर्वव्याधिनां यत्र मुक्तिः।

सोऽसौ भूतनयशिक्षितो मतिमन्तो

शिक्षित्वा बहुसत्त्व मोचयी पृथु नष्टान्॥ ६॥

सोऽसौ शून्यनयेषु कोविदो मतिशूरः

सोऽसौ लोकि असक्तु भुञ्जति सद पिण्डम्।

सोऽसौ बोधिवराय स्थापयि बहुसत्त्वान्

योऽसौ धर्मस्वभावु जानती सुप्रशान्तम्॥ ७॥

सोऽसौ क्षान्तिबलेन उद्गतो नरचन्द्रः

सोऽसौ लोष्टकदण्डताडितो न च कुप्यी।

सोऽसौ छिद्यतु अङ्गमङ्गशो न च क्षुभ्ये

योऽसौ धर्मस्वभावु जानती सुप्रशान्तम्॥ ८॥

सोऽसौ क्षान्तिबले प्रतिष्ठितो बलवन्तो

सोऽसौ क्षान्तिय वस्तु तादृशो सुप्रशान्तः।

सोऽसौ क्षान्तिबलेन मन्यते मतिशूरो

योऽसौ धर्मस्वभावु जानती सुप्रशान्तम्॥ ९॥

सोऽसौ वस्तु न जातु मन्यते अहु च्छिन्ना

तेनो सर्वि भवा विभाविताः सद शून्याः।

तस्यो संज्ञा प्रहीण सर्वशो निखिलेनो

योऽसौ धर्मस्वभावु जानती सुप्रशान्तम्॥ १०॥

ते ते धर्मस्वभावु देशयी सुप्रणीतं

ते ते बोधि स्पृशी अनुत्तरां नचिरेण।

येषां धर्मस्वभावु गोचरः सुनिध्यप्तो

तेषां दत्त अनन्त दक्षिणा अपर्यन्ता॥ ११॥

सोऽसौ भाषति सूत्रकोटियो अपर्यन्ता

यथ गङ्गनदीय वालिकास्ततु भूयः।

नो चास्यु प्रतिभानु छिद्यते वर्णमाने

योऽसौ धर्मस्वभावु जानती सुप्रशान्तम्॥ १२॥

सोऽसौ कल्पसहस्रकोटिशो नयुतानि

ज्ञानेनो सद भोति उद्गतो यथ मेरुः।

धर्म तस्य क्षयो न विद्यते भणमाने

योऽसौ धर्मस्वभावु जानती सुप्रशान्तम्॥ १३॥

विस्तीर्णं विपुलं अचिन्तियं प्रतिभानं

भोती बोधिवरां गवेषतः सद तस्यो।

नित्यं भाषति सूत्रकोटियो अपर्यन्ता

योऽसौ धर्मस्वभावु जानती सुप्रशान्तम्॥ १४॥

यं चैते द्विपदोत्तमा जिना भणि धर्मं

सर्वं तं च श्रुणित्व गृह्णती परिपूर्णम्।

नो वा एकपदेऽपि विद्यते विमतिस्यो

योऽसौ सर्वि अभाव जानती इमि धर्मान्॥ १५॥

सोऽसौ भोति विशिष्ट त्यागवान् सद कालं

भोती दानपतिः सुखंददो दुखितानाम्।

दृष्टा दुःखित सत्त्व तर्पयी रतनेही

योऽसौ धर्मस्वभावु जानती सद शून्यम्॥ १६॥

सौऽसौ जम्बुध्वजे भविष्यती सद राजा

सत्त्वानां सद सौख्य काहिती अपर्यन्तम्।

मैत्राये समुपेतु प्राणीनां सद काले

योऽसौ धर्मस्वभावु जानती सद शून्यम्॥ १७॥

पुत्रान् धीतर दासदासियो त्यज्य धीरो

हस्तौ पाद शिरांसि स त्यजी तथ राज्यम्।

नो चालीयति तस्य मानसं वृषभिस्यो

योऽसौ धर्मस्वभावु जानती सद शून्यम्॥ १८॥

अङ्गाङ्गं पुन तस्य छिद्यती यदि कायो

नो तस्य प्रतिहन्यते मनः सुपिनेऽपि।

तेनो पूजित भोन्ति नायका द्विपदेन्द्रा

योऽसौ धर्मस्वभावु जानती सद शून्यम्॥ १९॥

तेनो पूजित सर्वि नायका य अतीता-

स्तथ पूजित ये अनागता द्विपदेन्द्राः।

तेही सत्कृत सर्वि नायका स्थित ये चो

योऽसौ धर्मस्वभावु जानती सद शून्यम्॥ २०॥

सोऽसौ कोश धरेति पण्डितः सुगतानां

सोऽसौ धारणिये प्रतिष्ठितः परमायाम्।

सोऽसौ भेष्यति लोकनायको नचिरेण

यच्छुत्वा इमु सूत्रं धारयेत् क्षयकाले॥ २१॥

सोऽन्धो नैव कदाचि भेष्यती विदु जातु

नो चो अङ्गविहीनु भेष्यती बहुकल्पान्।

तेनो अक्षण अष्ट वर्जिता इमि नित्यं

येनो सूत्रमिदं प्रभाषितं अप्रमुष्टम्॥ २२॥

नासौ दुर्गतिषु गमिष्यति पुन जातु

नित्यं लक्षणधारि भेष्यती अभिरूपः।

पच्चो तस्य अभिज्ञ भाविता इमि नित्यं

पुरतः सो सुगतान स्थास्यती सद शूरः॥ २३॥

बहुकान् निर्मित निर्मिणित्वान अयु ज्ञानी

प्रेषती बहुक्षेत्रकोटिषु विनयार्थम्।

येहि दृष्ट भवन्ति निर्मिता बहु बुद्धाः

तेही बोधिवराय स्थापिता बहु सत्त्वाः॥ २४॥

स्मृतिमन्तः गतिमन्तः प्रज्ञावान् धृतिमांश्च

स्थाम्ना वीर्यबलेन सो सदा समुपेतः।

धर्मपारमिप्राप्त भेष्यति महतेजा

यः श्रुत्वा इमु सूत्र धारयेत् क्षयकाले॥ २५॥

रश्मिकोटिसहस्र निश्चरी सद तेषां

व्योमाः सर्वि करोन्ति मण्डलाः सुरियाणाम्।

येही भावित भोन्ति शून्यका इमि धर्मा-

स्ते ते शूर भवन्ति नायका नचिरेण॥ २६॥

एषो गोचरु शान्तु भावितो मय पूर्वं

बहुकल्पान सहस्र कोटियो नियुतानि।

वीर्यं मे न कदाचि सहसित इह मार्गे

यदहं दीपंकरेण व्याकृतो जिनभूमी॥ २७॥

यूयं पी मम चर्या शिक्षथा इह सूत्रे

गम्भीरा परमार्थ देशिता इय नेत्री।

यत्रामी बहु नष्ट तीर्थिका विपरिता

क्षिप्त्वा बोधिमपायि भैरवे प्रपतन्ति॥ २८॥

बहुकल्पान सहस्रकोटियो नयुतानि

वेदित्वा अमु तत्र वेदना कटु तीब्राः।

बहुकल्पा नयुतानमत्ययात् पुनरेव

हेतुः सो अमृतस्य प्राप्तये भविष्यते॥ २९॥

ये ते पश्चिमि कालि भैरवे सुगतस्यो

रक्षन्ति इमु सूत्रमीदृशं प्रशान्तम्।

तेषां बोधि वरा न दुर्लभा इय श्रेष्ठा

ते ते पश्चिमि कालि व्याकृत धरि धर्मान्॥ ३०॥



इति श्रीसमाधिराजे सर्वधर्मस्वभावनिर्देशपरिवर्तो नामैकत्रिंशतितमः॥ ३१॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project