Digital Sanskrit Buddhist Canon

अनुशंसापरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Anuśaṁsāparivartaḥ
अनुशंसापरिवर्तः।



अथ खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मात्तर्हि कुमार य आकाङ्क्षेद् बोधिसत्त्वो महासत्त्वः- किमित्यहं सर्वसत्त्वानां रुतमधिगच्छेयमिन्द्रियाणां च परापरज्ञतां विज्ञाय धर्मं देशयेयमिति, तेन कुमार बोधिसत्त्वेन महासत्त्वेन अयं सर्वधर्मस्वभावसमताविपञ्चितः समाधिः श्रोतव्य उद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः अरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत-

अपरिमित अतीत नायकास्तेन दृष्टाः

पुरतु कथ प्रयुक्ता पृच्छिता लोकनाथाः।

प्रवर कुशलमूले तिष्ठतो बोधिसत्त्वो

इमु विरजसमाधिं धारयन् मोक्षकामः॥ १॥

लभति सुख प्रणीतं दिव्यमानुष्यकं चो

लभति परमपूजां दिव्यमानुष्यकां सो।

लभति सुख प्रणीतं ध्यानसौख्यार्यसौख्यम्

इमु विरज समाधिं धारयन् मोक्षकामः॥ २॥

वर्णु श्रुणिय उदारं हर्षु तस्यो न भोति

न पि च पुनरवर्णे मङ्कुभावं निगच्छेत्।

शैलोपमु अकम्पेय्यो अष्टभिर्लोकधर्मै-

रिमु विरज समाधिं धारयन् मोक्षकामः॥ ३॥

अखिलमधुरवाणी श्लक्ष्णवाचा सुयुक्ता

अपगतभ्रुकुटिश्चो पूर्वआलापि भोति।

सततस्मितमुखश्चो शिक्षितो नायकानाम्

इमु विरजसमाधिं धारयन् मोक्षकामः॥ ४॥

भवति स सुखवासः सूरतः स्निग्धचित्तो

भवति सद सुदान्तो दान्तभूमिस्थितश्च।

सुमधुर प्रियवाणी स्निग्धसत्याभिधायी

इमु विरजसमाधिं धारयन् बोधिकामः॥ ५॥

न च स कथ करोती वैग्रहीं नो विवादान्

अपगतखिल दोषा वर्जितास्तेन शेषाः।

प्रमुदितु सद भोती सूरतो मार्दवश्च

इमु विरज समाधिं धारयन् बोधिकामः॥ ६॥

भवति च सद विद्वांस्त्यागि नित्याभियुक्तः

सुदुखित जन दृष्ट्वा तेषमन्नं ददाति।

प्रियतरु परित्यक्तुं भोति नित्यं सुदाता

इमु विरजसमाधिं धारयन् बोधिकामः॥ ७॥

देवशतसहस्राण स्पृहां ये संजनेन्ती

नाग असुर यक्षा नित्युपस्थायकास्य।

वनि पवनि वसन्ते रक्ष तस्या करोन्ती

इमु विरज समाधिं यो नरो धारयति॥ ८॥

भणि वचनमसक्तं ब्रह्मधोषस्वरोऽसौ

हंसरवितघोषः किन्नरोद्गीतघोषः।

पञ्चशतस्वराङ्गो हर्षणीयस्वरश्चो

भवति नदितशब्दो घुष्टशब्दः सुशब्दः॥ ९॥

यावततु पृथु क्षत्राण नरः कश्चिदेव

सूक्ष्म रज करेय्या शक्य ते लक्षणाय।

ततु बहुतरु तस्यो ये स्वरा निश्चरन्ती

इमु विरज समाधिं यो नरो धारयाति॥ १०॥



इति श्रीसमाधिराजेऽनुशंसापरिवर्तो नाम त्रिंशतितमः॥ ३०॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project