Digital Sanskrit Buddhist Canon

तेजगुणराजपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Tejaguṇarājaparivartaḥ
तेजगुणराजपरिवर्तः॥



तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म-तस्मात्तर्हि कुमार दिव्यानि चक्रवर्तिराज्यैश्वर्यसुखान्यपहाय प्रव्रजिष्यामीत्येवं त्वया कुमार सदा शिक्षितव्यम्। प्रव्रजितेन कुमार धूतगुणसंलेखप्रतिष्ठितेन विवेकचारिणा क्षान्तिसौरत्यसंपन्नेन भवितव्यम्। सदा च आरब्धवीर्येण ते कुमार आदीप्तशिरश्चैलोपमेन अयं सर्वधर्मस्वभावसमताविपञ्चितः समाधिः श्रोतव्य उद्ग्रहीतव्यः पर्यवाप्तव्यः प्रवर्तयितव्यो धारयितव्यो वाचयितव्यः उद्देष्टव्यः स्वाध्यातव्योऽरणाभावनया भावयितव्यो बहुलीकर्तव्यः, परेभ्यश्च विस्तरेण संप्रकाशयितव्यः। खङ्गविषाणभूतेन अद्वितीयेन च ते कुमार अरण्यनिषेविणा सदा भवितव्यम्। आत्मपरित्यागेनापि ते कुमार सर्वसत्त्वानामर्थः सदा करणीय इति॥

अथ खलु भगवांस्तस्या वेलायामेतमेवार्थमुद्भावयंश्चन्द्रप्रभस्य कुमारभूतस्येमं पूर्वयोगकथापरिवर्तं गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म-

स्मरमी अतीत बहुकल्पशता

यद आसि नायकु अनन्तयशाः।

नरदेवनागगणपूजनियो

नामेन तेजगुणि राज जिनो॥ १॥

दश भिक्षुकोटि षडभिज्ञरुहाः

प्रतिसंविदान वशिपारगताः।

धूतवृत्त संलेखित शान्तमनाः

इति तस्य तेन समयेन गणाः॥ २॥

षट्सप्तती नगर कोटिशताः

पञ्चाशयोजनप्रमाण समाः।

रतनान सप्तन विशिष्टवरा

इह जम्बुद्वीपि तद कालि अभूत्॥ ३॥

तद कालि ते पुरवरा सकलाः

प्रतिमण्डिता बहु उद्यानशतैः।

उद्यान सर्वि घनमेघनिभाः

फलपुष्पमण्डित तरुनिचिताः॥ ४॥

फलवृक्षजाति विविधा रुचिराः

लकुचाम्रजम्बुपनसैर्निचिताः।

कर्णिकारचम्पकपुन्नागशतैः

प्रतिमण्डितास्त उद्यानवराः॥ ५॥

न्यग्रोध सर्वि द्विजसंघरुताः

कलविङ्ककोकिलमयूरशतैः।

शुकजीवंजीवककुणालरुता

बहुपक्षिसंघरुत कालि तदा॥ ६॥

धृतराष्ट्रराजहंसोपनिभा

भृङ्गकुणाला वरघोषरुताः।

चित्राङ्गरक्तमहावर्णप्रभाः

सुमनोज्ञशब्द मधुरा मुदिताः॥ ७॥

इति पक्षि समागत कालि तदा

कलविङ्कमयूरविहङ्गरुतैः।

परपुष्ट शारिक विचित्र द्विजा

बहुपक्षिघोषरुत नानविधाः॥ ८॥

तेहि निषेवित उद्यानशता

मुचिलिन्दवार्षिक अशोकशतैः।

अतिमुक्तकाथ जवपुष्पपत्रैः

पद्मोत्पलैः कुमुदपुण्डरिकैः॥ ९॥

पदुमैः सहस्रशतपत्रचिता

इमि पुष्प पुष्करिणिशोभकराः।

प्रतिमण्डिताः सुरभिगन्धवराः

शोभन्ति पुष्करिणियो रुचिराः॥ १०॥

तहि कालि राज इह जम्बुध्वजे

दृढदत्तु आसि मनुजाधिपतिः।

पुत्राण तस्य अभु पञ्चशताः

प्रासादिकाः परमदर्शनिकाः॥ ११॥

तहि कालि राज्यु शिवु क्षेम अभूत्

अनुपद्रुतं सुरमणीय शिवम्।

अयु जम्बुद्वीप कुसुमैर्निचितो

निर्विंशेष देवभवनेहि समम्॥ १२॥

तहि कालि सो दशबलो अनिधो

जिनु भाषते इमु समाधिवरम्।

स्वप्नोपमा भवगती सकला

न व कश्चि जायति न चो म्रियते॥ १३॥

न सत्त्व लभ्यति न जीवु नरो

इमि धर्म फेनकदलीसदृशाः।

मायोपमा गगनविद्युसमा

दकचन्द्रसंनिभ मरीचिसमाः॥ १४॥

न च अस्मि लोकि मृतु कश्चि नरो

परलोकि संक्रमति गच्छति वा।

न च कर्म नश्यति कदाचि कृतं

फलमेति कृष्ण शुभ संसरतो॥ १५॥

न च शाश्वतं न च उच्छेदु पुनो

न च कर्मसंचयु न चापि स्थितिः।

न च सोऽपि कृत्व पुनरस्पृशती

न च अन्यु कृत्व पुन वेदयते॥ १६॥

न च संक्रमो न च पुनागमनं

न च सर्वमस्ति न च नास्ति पुनः।

न च दृष्टिस्थानु गतिशुद्धिरिहो

न च सत्त्वचरु न प्रशान्तगती॥ १७॥

अनुपादु शान्तु अनिमित्तपदं

सुगतान गोचरु जिनान गुणाः।

बल धारणी दशबलान बलं

बुद्धानियं वृषभिता परमा॥ १८॥

वरशुक्लधर्म गुणसंनिचयो

गुणज्ञानधारणिबलं परमम्।

ऋद्धिविकुर्वणाविधिः परमा

वरपञ्चाभिज्ञा प्रतिलाभनयः॥ १९॥

न च स प्रजानतीह स्वभावु क्वचि

अगतागती निपुणधर्मगती।

न च धर्मधातु व्रजतीह क्वचि

एवं गती अगति धर्मगती॥ २०॥

न च घोषसंचयु स्वभावगती

गतियो स्वभावु न कहिंचि स्थितः।

अस्थिता अनिश्रिता स्वभावगती

जिनगोचरो विरजु शान्तपदम्॥ २१॥

शान्तप्रशान्त उपशान्तगती

न च सा गती क्वचन संस्थिहती।

भावु स्वभावु नुगताः सततं

निपुणं सुदुर्दृशु पदं अचलम्॥ २२॥

न च सा चला हि स्वयमेव स्थिता

अस्थिता अनागत स्वभावु स्थिता।

न च शक्य भाषितु स्वभावु स्थिती

शून्या च सा अचलु धर्मस्थिती॥ २३॥

घोषश्च उक्त न च घोषगती

घोषस्वभावगति धर्मगती।

न च घोषसंचयु स्थिती च क्वचि

एवंस्वभावु गति धर्मगती॥ २४॥

गतिशब्द उक्तु न च सत्त्वगती

धर्मस्वभाव निपुणार्थगती।

घोषोऽपि चोक्तु न च सत्त्वगती

न च घोषु लभ्यति न सत्त्वगतिः॥ २५॥

न च अनन्त नान्त न च मध्यगतिः

नैवास्ति नास्ति न च देशगती।

ज्ञाता च यादृश स्वभावगती

इय देशना जिनवराण समा॥ २६॥

विरजं विशुद्धि परमार्थपदं

शान्त प्रशान्त अरजं विरजम्।

न च कल्प मन्यन प्रशान्तपदं

जिनु भाषते परमकारुणिको॥ २७॥

न पि चास्ति अक्षरप्रचार इहो

विपुला गतिर्विपुला अर्थगती।

बुद्धेहि सेवित जिनेहि स्तुता

अवभास धर्मनय सूक्ष्मगती॥ २८॥

धर्मनिधान विरजं विपुलं

यत्र स्थिता अप्रतिमा सुगता।

देशेन्ति धर्मरतनं विरजं

परमार्थशून्य निपुणार्थगती॥ २९॥

अश्रौषि राज दृढदत्तु तदा

द्विपदेन्द्र भाषति समाधिमिमम्।

सोऽशीतिकोटिनयुतेहि तदा

उपसंक्रमी तद जिनु कारुणिकम्॥ ३०॥

बलवन्तु गौरवु जनेत्व जिने

वन्दित्व पादु मनुजाधिपतिः।

पुरतः स्थितो दशबलस्य तदा

कृताञ्जलिर्दशनखः प्रमुदितः॥ ३१॥

तस्यो विदित्व परिशुद्ध चरीं

जिन इन्द्रियेषु वशि पारगतः।

अधुमुक्तिकोविदु नरः प्रवरो

इमु तस्य देशयि समाधिवरम्॥ ३२॥

यद तेन राज्ञ परमार्थ श्रुतो

उत्पन्न प्रीति अरिया विपुला।

उज्झित्व द्वीप सकलांश्चतुरो

विजहित्व काम अभिनिष्क्रमि सो॥ ३३॥

यद राज प्रव्रजि जहित्व महीं

बोधाय अर्थिकु भविष्यजिनः।

सर्वे मनुष्य इह जम्बुध्वजे

विजहित्व कामरती प्रव्रजिता॥ ३४॥

विपुलो गणो दशबलस्य तदा

बहु भिक्षु भिक्षुणि प्रयुक्तमनाः।

अकृष्टा अनुप्त तद ओषधयो

प्रादुर्भूता मरुत्परिचराः॥ ३५॥

काषाय त्रिचीवर प्रादुर्भूता

समच्छिन्न सुसीवित तेऽनुपमाः।

अमला विरजाश्च सुवर्णचित्ता

बुद्धस्य गुणोचित पुण्यबलाः॥ ३६॥

पश्यो कुमार स हि राजवरो

विजहित्व सर्व महि प्रव्रजितः।

भेष्यन्ति सत्त्व क्षयकालि बहु

अपरीत्तभोगा न त्यजन्ति गृहान्॥ ३७॥

ताडन बन्धन कुदण्ड बहु

आक्रोश तर्जनमनिष्टदुखम्।

सहिष्यन्ति राजकुल पीड बहु

सुपरीत्तभोग न च भक्तु गृहे॥ ३८॥

अपरीत्त आयु न च अस्ति धनं

सुमहान् प्रमादु न च पुण्यबलम्।

न च शिल्पस्थानकुशला अबुधा

दारिद्रियं च न च वित्तु गृहे॥ ३९॥

परदारगृद्ध अविशुद्धमना

ईर्ष्यालुकाः परमसाहसिकाः।

संक्लिष्टधर्म न च वृत्तु स्थिता

वक्ष्यन्ति बुद्ध भविष्याम् वयम्॥ ४०॥

उत्कोचवञ्चनक साहसिका

अहमाढ्यु धर्म धनदास्मि जगे।

उपघातकाः कुहक नैकृतिका

वक्ष्यन्ति बुद्ध भविष्याम वयम्॥ ४१॥

वधबन्धुपद्रवि परस्य रताः

दुःशील दारुण प्रदुष्टमनाः।

अकृतज्ञ भेदक विहिंसस्थिता

वक्ष्यन्ति हं ते भण बोधिचरिम्॥ ४२॥

यस्यैव तेन श्रुत बोधिचरी

तस्यैव मध्यि प्रतिघं जनयी।

श्रुत्वा च बुधं स्खलितमेकपदं

तस्यैव भाषति अवर्णशतान्॥ ४३॥

तदिमां कुमार मम श्रुत्व गिरं

मा तेहि संस्तवु करोहि तदा।

सुपिनान्तरेऽपि अविश्वस्त सिया

यदि इच्छसे स्पृशितु बोधिचरीम्॥ ४४॥

धूतवृत्त संलिखित नैकगुणान्

परिकीर्तयन्तु बहुकल्पशतान्।

भणती गुणान्न च गुणेषु स्थितो

न स बुध्यते परमबोधिगिराम्॥ ४५॥

भवथा सदापि अखिला मधुरा

सद शुद्धशील सुप्रसन्नमनाः।

परिशुद्धशील भवथा सततं

नचिरेण लप्स्यथ समाधिवरम्॥ ४६॥

न करोथ मान न जनेथ खिलं

परिशुद्धमानस सदा भवथा।

मद मान म्रक्ष विजहित्व ततः

प्रतिलप्स्यथा इमु समाधिवरम्॥ ४७॥

गुणतो अनुस्मरि जिनं सततं

वरकाञ्चनच्छविप्रभासकरम्।

गगनं च रात्रिय नक्षत्रस्फुटं

तथ कायु लक्षणस्फुटो मुनिनो॥ ४८॥

ध्वजच्छत्रवितानपताकवरां

चूर्णानुलेपनं गृहीत्व बहून्।

पूजां करोथ सुगतस्य सदा

नचिरेण लप्स्यथ समाधिवरम्॥ ४९॥

वर गन्धमाल्यकुसुमा रुचिरां

वादित्र तूर्य प्रगृहीत बहु।

जिनस्तूपि पूज प्रकरोथ सदा

नचिरेण लप्स्यथ समाधिवरम्॥ ५०॥

पणवैः सुघोषकमृदङ्गशतैः

पटहैर्विपञ्चिवरवेणुरवैः।

मधुरस्वरैर्विंविधवाद्यगणैः

पूजेथ नायकु प्रसन्नमनाः॥ ५१॥

कारेथ बुद्धप्रतिमां रुचिरां

रतनामयीं सुपरिकर्मकृताम्।

प्रासादिकां परमसुदर्शनीयां

नचिरेण लप्स्यथ समाधिवरम्॥ ५२॥

वनषण्ड सेवथ विविक्त सदा

विजहित्व ग्रामनगरेषु रतिम्।

अद्वितीय खङ्गसम भोथ सदा

नचिरेण लप्स्यथ समाधिवरम्॥ ५३॥

अहु धर्मस्वामि मम यूयु सुता

अनुशिक्षथा मम समाधिचरिम्।

अहु सो अभूषि दिशता सुविश्रुतो

दृढदत्तु नाम मनुजाधिपतिः॥ ५४॥

मय बुद्ध पूजित अनन्त पुरे

मय शीलु रक्षितु विशुद्धमनाः।

मय गौरवं दशबलेषु कृतं

इमु शान्तमेषत समाधिवरम्॥ ५५॥

मय पुत्र दार परित्यक्त पुरे

शिरहस्तपादनयनाग्रवराः।

न च लीनचित्तत कदाचि कृता

इमु शान्तमेषत समाधिवरम्॥ ५६॥

धनधान्य दास बहुदासिशता

रतना प्रभूत परित्यक्त मया।

संतर्पिता पि बहुयाचनका

इमु शान्तमेषत समाधिवरम्॥ ५७॥

मय मुक्ति स्फाटिक सुवर्ण बहु

वैदूर्य शङ्ख शिल त्यक्त पुरे।

मणि शुद्धरूपिय प्रवाल घना

इमु शान्तमेषत समाधिवरम्॥ ५८॥

मय त्यक्त आभरण नानविधा

वरमुक्तहार तथ सीहनुकाः।

रतनान जालिक विशिष्ट पृथु

इमु शान्तमेषत समाधिवरम्॥ ५९॥

मय वस्त्रकोट्य परमा सुखुमाः

परिशुद्ध काशिकदुकूलवराः।

बहुहेमचित्र परित्यक्त परे

इमु शान्तमेषत समाधिवरम्॥ ६०॥

मय हस्ति अश्व रथ नानविधाः

परित्यक्त स्वप्रियसुतो महिलाः।

न च दौर्मनस्यत कदाचि कृता

इमु शान्तमेषत समाधिवरम्॥ ६१॥

मय दृष्ट्व पूर्वि सुदरिद्र नराः

पर्येष्टिदुःखित च कृच्छ्रगताः।

मय ते धनेन अदरिद्र कृताः

इमु शान्तमेषत समाधिवरम्॥ ६२॥

हस्ती रथाश्वरथका नयुताः

प्रच्छन्नरतनमणिजालचिताः।

दत्ता मया याचनकान पुरा

इमु शान्तमेषत समाधिवरम्॥ ६३॥

उद्यान कोटिनयुता बहवः

समलंकरित्व मय दत्त पुरा।

हर्षेत्व मानसु जनित्व कृपां

इमु शान्तमेषत समाधिवरम्॥ ६४॥

ग्रामाथ राष्ट्रनगरा निगमाः

समलंकरित्व मय दत्त पुरा।

दत्वा च प्रीतिमनुभोमि सदा

इमु शान्तमेषत समाधिवरम्॥ ६५॥

रतनान राशय सुमेरुसमा-

स्तथ चीवराभरणकाश्च बहु।

ये दत्त पूर्वि मय याचनके

इमु शान्तमेषत समाधिवरम्॥ ६६॥

सुदरिद्र सत्त्व कृत आढ्य मया

परिकृच्छ्रप्राप्त परित्रात बहु।

बहुदुःखपद्रुत सुखी मि कृता

इमु शान्तमेषत समाधिवरम्॥ ६७॥

यद आसि ईश्चरु महीय अहं

दुखितां च पश्यमि बहुं जनताम्।

उत्सृष्ट तेषु मय राज्यमभूत्

कृप संजनेत्व सुखितो च यथा॥ ६८॥

ये मे कुमार कृत आश्चरिया

कृत दुष्कराणि बहु कल्पशता।

न च ते मय क्षपण शक्य सिया

कल्पान कोटिनयुता भणतः॥ ६९॥

उन्मत्तचित्तभूमि गच्छि नरा।

अश्रद्दधन्त सुगतस्य चरिम्।

कृत ये मि दुष्कर तदाश्चरिया

इमु शान्तमेषत समाधिवरम्॥ ७०॥

आरोचयामि च कुमार इदं

श्रद्दधन्त मे अवितथं वचनम्।

न हि वाच भाषति मृषां सुगतः

सद सत्यवादि जिनु कारुणिकः॥ ७१॥

अन्ये इमेऽपि च प्रकार बहू

चरता शोधित य कल्पशताः।

कथमहं लभित्विमु समाधिवरं

मोचेय सत्त्वनियुतां दुखिताम्॥ ७२॥

यस्मिन् क्षणे अयु समाधि मया

प्रतिलब्ध भूत महाज्ञानपथः।

सोऽहं लभित्विमु समाधिवरं

पश्यामि बुद्धनयुतान् सुबहून्॥ ७३॥

ऋद्धी अनन्त प्रतिलब्ध मया

स विकुर्वमाणु व्रजि क्षेत्रशतान्।

गत्वा च पृच्छि अहु कारुणिकान्

प्रश्नान कोटिनियुतान बहुम्॥ ७४॥

यश्चैव भाषि मम ते सुगता

प्रश्नान कोटिनियुतान तदा।

गृह्णित्व सर्वमहु धारयमी

न च भ्रश्यते एकपदं पि ममा॥ ७५॥

तं चो श्रुणित्व अहु भूतनयं

प्रश्नान कोटिनयुतान बहुम्।

देशित्व तं विरज शान्तपदं

स्थापेमि सत्त्व बहु ज्ञानपथे॥ ७६॥

अस्मिन् समाधिय स्थिहित्व मया

शिक्षित्व भूतनय कल्पशतान्।

बहुसत्त्वकोटिनयुतानि पुरा

ये स्थापिता विरजि मार्गवरे॥ ७७॥

येही न दृष्ट पुरिमा सुगता

भाषन्तका इमु नयं विरजम्।

तेही न शक्यमिह श्रद्दधितुं

परमार्थशून्यत समाधिवरम्॥ ७८॥

ये श्राद्ध पण्डित विधिज्ञ नरा

गम्भीरभूतनयलब्धनयाः।

ते ना त्रसन्ति न च संत्रसिषू

श्रुत्वा च भोन्ति सद आत्तमनाः॥ ७९॥

ते ते धरेन्ति वरबोधि समा

ते ते हि पुत्र अनुजात ममा।

ते ते ह्युदुम्बरकुसुमसमा-

स्तेषार्थ हं चरितु कल्पशतान्॥ ८०॥

न पि तस्य अस्ति विनिपातभयं

अष्टाक्षणा विगत तस्य सदा।

द्रक्ष्यन्ति बुद्धनयुतान् सुबहून्

इमु यः समाधि नरु धारयती॥ ८१॥

यथ मैत्रको जिनु अनन्तयशाः

सत्त्वान भेष्यि बहु अर्थकरः।

तथ व्याकरोम्यहमनन्तमतिं

हस्तस्मि यस्य सुसमाधिवरम्॥ ८२॥

स्मृतिमान् स भोति मतिमान्

ज्ञानोद्गतः श्रुतिधरो भवति।

प्रतिभानु तस्य भवति विपुलं

इमु यः समाधि नरु धारयती॥ ८३॥

देवानां च स भवति पूजनियो

मरुतां च सद नमस्यनीयः।

अभिरक्षितः सतत देवगणैः

इमु यः समाधि नरु धारयति॥ ८४॥

न च सोऽग्निमध्ये म्रियते न जले

न च तस्य शस्त्र क्रमते न विषम्।

न च वैरिणां गमनियो भवती

इमु यः समाधि नरु धारयती॥ ८५॥

वनकन्दरे वसतु तस्य सदा

मरुता करोन्ति वर पारिचरिम्।

उपस्थायकाश्च बहु यक्षशता

इमु यः समाधि नरु धारयती॥ ८६॥

ज्ञानेन सागरसमो भवती

न सज्जते गुण भणन्तु मुनेः।

भूतांश्च बुद्धगुण कीर्तयते

इमु यः समाधि नरु धारयती॥ ८७॥

नान्तो न चास्य पर्यन्तु श्रुते

न प्रमाणु लभ्यति यथा गगने।

ज्ञानोल्कधारि तिमिरं हरति

इमु यः समाधि नरु धारयती॥ ८८॥

स्निग्धं सुयुक्त सद मुञ्च गिरां

पर्षत्सु भाषति सुप्रेमणियाम्।

सिंहो यथा स विनदं भणती

इमु यः समाधि नरु धारयती॥ ८९॥

वैद्यो भिषकु समु सो भवती

गति लेनु त्राण शरणं बहूनाम्।

आलोकभूतु जगि सो भवति

इमु यः समाधि नरु धारयती॥ ९०॥

न च तस्य मैथुनि मनो रमते

शमथे रतः स्पृशति ध्यानसुखम्।

शान्तां स भाषति प्रशान्त गिरम्

इमु यः समाधि नरु धारयती॥ ९१॥

न च तस्य मानसु निमित्तरतं

सर्वे विभावित निमित्त पृथु।

सततं समाहितु विदू भवती

इमु यः समाधि नरु धारयती॥ ९२॥

चक्षुश्च सो लभति अप्राकृतकं

येनो स पश्यति अनन्तजिनान्।

सोऽनन्तचक्षुर्भवति वृषभो

इमु यः समाधि नरु धारयती॥ ९३॥

क्रौञ्चस्वरो मधुरयुक्तगिरो

कलविङ्कदुन्दुभिस्वरो भवती।

संगीतियुक्तस्वरु मञ्जुगिरो

इमु यः समाधि नरु धारयती॥ ९४॥

मेघाभिगर्जितस्वरो भवती

हंसस्वरो रवति मञ्जुगिरः।

पञ्चस्वराङ्गशतयुक्तस्वरो

इमु यः समाधि नरु धारयती॥ ९५॥

बहुकल्पकोटिनयुता विविधा

मधुरस्वराङ्गसुप्रयुक्तस्वराः।

अचिन्तिया स गिर निश्चरती

इमु यः समाधि नरु धारयती॥ ९६॥

न च भोजने भवति गृध्नुमना

न पात्रचीवररतो भवती।

अल्पेच्छु संतुष्ट सुसंलिखितो

इमु यः समाधि नरु धारयती॥ ९७॥

न च आत्म उत्कर्षकु सो भवती

न परस्य भाषति अवर्णु क्वचित्।

ध्याने रतः सुखुमचित्तु सदा

इमु यः समाधि नरु धारयती॥ ९८॥

आत्मानुप्रेक्षी सततं भवती

न परस्य स्खलितेमेषति च।

अविरुद्धु सर्वि जगि सो भवती

इमु यः समाधि नरु धारयती॥ ९९॥

अकिलिष्टचित्तु परिशुद्धचरी

अशठो अवञ्चकु सदा भवती।

सदमार्दवः सद विमोक्षरतो

इमु यः समाधि नरु धारयती॥ १००॥

त्यागाधिमुक्त सततं भवती

मात्सर्यचित्तु न च तस्य रतम्।

शीलेनुपेतु सततं भवती

इमु यः समाधि नरु धारयती॥ १०१॥

अभिरूप दर्शनियु प्रेमणियो

वरकाञ्चनच्छवि प्रभासकरः।

द्वात्रिंशल्लक्षणधरो भवती

इमु यः समाधि नरु धारयती॥ १०२॥

प्रासादिकश्च सद सो भवती

अभिलक्षितो बहुजनस्य प्रियो।

प्रेक्षन्त तृप्ति न लभन्ति नरा

इमु यः समाधि नरु धारयती॥ १०३॥

देवास्य नाग तथ यक्षगणा-

स्तुष्टा उदग्राः सद आत्तमनाः।

भाषन्ति वर्ण प्रविशित्व कुला-

निमु यः समाधि नरु धारयती॥ १०४॥

ब्रह्मा च शक्र वशवर्ति वहु

उपस्थानु तस्य प्रकरोन्ति सदा।

न च तस्य उन्नत मनो भवती।

इमु यः समाधि नरु धारयती॥ १०५॥

न च तस्य दुर्गतिभयं भवती

न पि चाक्षणा न विनिपातभयम्।

परिमुक्तु सर्वविनिपातभया-

दिमु यः समाधि नरु धारयती॥ १०६॥

न च तस्य काङ्क्ष विमतिर्भवती

वर बुद्धधर्म श्रुणिया निपुणान्।

गम्भीरज्ञानानुगतो भवती

इमु यः समाधि नरु धारयती॥ १०७॥

यं यं पि धर्मं श्रुणती सुखुमं

सर्वत्र भोति वशि पारगतः।

बलवन्तु हेतुनिपुणो भवती

इमु यः समाधि नरु धारयती॥ १०८॥

एवं प्रभाषित जिनेन गिरा

अहु तेन भोमि परिचीर्ण सदा।

लभते च धारणि विशिष्ट वरा-

मिमु यः समाधि नरु धारयती॥ १०९॥

कालक्रियां च स करोति यदा

अमिताभु तस्य पुरतः स्थिहती।

भिक्षुगणेन सह कारुणिको

इमु यः समाधि नरु धारयती॥ ११०॥

लाभी च धारणिय सो भवती

धर्मनिधान वशिपारगतः।

प्रतिभानवाननाच्छेद्यगिरो

य इमं समाधि नरु धारयती॥ १११॥

येनैव सो व्रजति धर्मधरो

आलोकभूत भवती जगतः।

सिप्रशान्तचर सुविशुद्धमना

इमु यः समाधि नरु धारयती॥ ११२॥

वर धर्मकोश विविधं निपुणं

सो धर्मकाय वशि पारगतः।

सो संशयं छिनत्ति सर्वजगे

इमु यः समाधि नरु धारयती॥ ११३॥

सर्वेऽपि सत्त्व सिय कारुणिका

भगवान् भवान्तकरणे सुगतः।

तान् सत्करेय्या बहु कल्पशतान्

यथ गङ्गवालुक तथोत्तरि वा॥ ११४॥

यश्चैव पश्चि क्षयकालि इमं

श्रुत्वा समाधिमिह कश्चि नरः।

अनुमोदमीति भणतैकगिरं

कल पुण्यस्कन्ध न स पूर्व भवेत्॥ ११५॥

यस्यो कुमार इय शान्तगती

परमार्थशून्यत समाधिवरो।

प्रावर्तु भोति तथ पुस्तगतः

सो धर्मभाणकु स्थितः सुमतिः॥ ११६॥



इति श्रीसमाधिराजे तेजगुणराजपरिवर्तो नामोनत्रिंशतितमः॥ २९॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project