Digital Sanskrit Buddhist Canon

दशानुशंसापरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Daśānuśaṁsāparivartaḥ

दशानुशंसापरिवर्तः॥



दशेमे कुमार आनुशंसाः क्षान्तिप्रतिष्ठितस्य मैत्रीविहारिणो बोधिसत्त्वस्य महासत्त्वस्य। कतमे दश ? अग्निना न दह्यते। शस्त्रेण न हन्यते। विषमस्य न क्रमते। उदकेन न म्रियते। देवताश्चैनं रक्षन्ति। लक्षणालंकृतं च कायं प्रतिलभते। सर्वदुर्गतिद्वाराणि चास्य पिथितानि भवन्ति। ब्रह्मलोके चास्योपपत्तिर्भवति। सुखेन चास्य रात्रिंदिवानि व्रजन्ति। प्रीतिसुखं चास्य कायं न विजहाति। इमे कुमार दशानुशंसाः क्षान्तिप्रतिष्ठितस्य मैत्रीविहारिणो बोधिसत्त्वस्य महासत्त्वस्य॥

तत्रेदमुच्यते -

अग्निना दह्यते नासौ शस्त्रेण न च हन्यते।

विषं न क्रमते काये उदके म्रियते न सः॥ १॥

रक्षन्ति देवताश्चैनं द्वात्रिंशद् भोन्ति लक्षणाः।

दुर्गतिः पिथिता चास्य क्षान्तिये अनुशंसिमे॥ २॥

ब्रह्मत्वं अथ शक्रत्वं भोति चास्य न दुर्लभम्।

सुखं विहरते नित्यं प्रिति भोन्ति अचिन्तिया॥ ३॥

नो अग्निशस्त्रेण स जातु हन्यते

विषेण वा वारिगतो न म्रियते।

रक्षन्ति देवास्तथ नाग यक्षा

मैत्रीविहारिष्यिमि आनुशंसाः॥ ४॥

द्वात्रिंश कायेऽस्य भवन्ति लक्षणा

नो चास्य भूयो विनिपातु भोति।

च्युतश्च स ब्रह्मपुरोपपद्यते

क्षान्तिस्थितस्यो इमि आनुशंसाः॥ ५॥

सुखेन रात्रिंदिव तस्य यान्ति

प्रीतिस्फुटः कायु तदास्य भोति।

स क्षान्तिसौरत्यबले प्रतिष्ठितः

प्रसन्नचित्तः सद भोति पण्डितः॥ ६॥

दशेमे कुमार आनुशंसा आरब्धवीर्यस्य बोधिसत्त्वस्य महासत्त्वस्य। कतमे दश? यदुत दुरासदश्च भवति। बुद्धपरिग्रहं च प्रतिलभते। देवतापरिगृहीतश्च भवति। श्रुत्वा चास्य धर्मा न परिहीयन्ते। अश्रतपूर्वांश्च धर्मान् प्रतिलभते। समाधिगोत्रं च प्रतिलभते। अल्पाबाधश्च भवति। आहारश्चास्य सम्यक् परिणामयति। पद्मोपमश्च भवति न मुसलोपमः। इभे कुमार दशानुशंसा आरब्धवीर्यस्य बोधिसत्त्वस्य महासत्त्वस्य॥

तत्रेदमुच्यते-

दुरासदः सदा भोति परिदाहो न विद्यते।

रक्षन्ति देवताश्चैनं क्षिप्रं बुद्धान् स पश्यति॥ ७॥

श्रुतं न हीयते तस्य अश्रतं भोति आमुखम्।

प्रणिधिं परिपूरेति वीर्यवन्ते इमे गुणाः॥ ८॥

समाधिगोत्रं लभते व्याधिश्चास्य न जायते।

सुखं चास्यान्नपानानि पच्यन्ते न विषीदति॥ ९॥

उत्पलं वरिमध्ये व सोऽनुपूर्वेण वर्धते।

एवं शुक्लेहि धर्मेहि बोधिसत्त्वो विवर्धते॥ १०॥

अवन्ध्याश्चास्य गच्छन्ति रात्रयो दिवसानि च।

भविष्यति मृत्युकाले फलमेतस्य चेदृशम्॥ ११॥

आरब्धवीर्येण तथागतेन

कल्पैरनैकैः समुदागतेन।

ये बोधिसत्त्वा विरियेणुपेता-

स्तेषानुशंसा इमि संप्रकाशिताः॥ १२॥

आरब्धवीर्यो भवती दुरासदः

परिगृहीतो भवती जिनेहि।

देवा पि तस्य स्पृह संजनेन्ति

नचिरेण सो लप्स्यति बुद्धबोधिम्॥ १३॥

श्रतं च तस्यो न कदाचि हीयते

अन्ये पृथू चापि लभन्ति धर्माः।

प्रतिभानु तस्यो अधिमात्रु वर्धते

आरब्धवीर्यस्य इमेऽनुशंसाः॥ १४॥

समाधिगोत्रं च लघुं धिगच्छति

आबाधु तस्यो न कदाचि भोति।

यथैव सो भोजनु तत्र भुञ्जते

सुखेन तस्यो परिणामु गच्छति॥ १५॥

रात्रिंदिवं भवति शुक्लपक्षो

आरब्धवीर्यस्य अतन्द्रितस्य।

बोधी पि तस्यो नचिरेण भेष्यते

तथा ह्यसौ वीर्यबलैरुपेतः॥ १६॥

दशेमे कुमार आनुशंसा ध्यानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य। कतमे दश ? यदुत आचारे तिष्ठति। गोचरे चरति। निष्परिदाहो विहरति। गुप्तेन्द्रियो भवति। प्रीतिमनुभवति। विविक्तः कामैः। अतृप्तो ध्यानैः। मुक्तो मारविषयात्। प्रतिष्ठितो बुद्धविषये। विमुक्तिं परिपाचयति। इमे कुमार दशानुशंसा ध्यानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य॥

तत्रेदमुच्यते -

नासौ भोति अनाचारो आचारे संप्रतिष्ठितः।

गोचरे चरते योगी वर्जेति च अगोचरम्॥ १७॥

निष्परिदाह्यविहारी गुप्तेन्द्रिय सुसंवृतः।

अनुभवति संप्रीतिं ध्यानध्यायिस्य गोचरः॥ १८॥

विरक्तः कामतृष्णाया ध्यानसौख्यं निषेवते।

मुक्तोऽसौ मारविषयाद् बुद्धगोचरि संस्थितः॥ १९॥

योगिनो हि विशेषोऽयं यदेको रमते वने।

विमुक्तिं परिपाचेति तं भोति दशमं पदम्॥ २०॥

आचारि सो तिष्ठति बोधिसत्त्वः

सर्वाननाचारु विवर्जयित्वा।

अगोचरं वर्जिय गोचरे स्थितः

समाधियुक्ते इमि आनुशंसाः॥ २१॥

परिदाहु तस्यो न कदाचि भोति

आर्यं स्पृशित्वेह सुखं निरामिषम्।

कायेन चित्तेन च भोति शीतलः

समाधियुक्ते इमि आनुशंसाः॥ २२॥

विहरत्यरण्यायतनेषु गुप्तो

विक्षेपु तस्यो न कदाचि भोति।

प्रीतिं च तस्मिल्लँभते निरामिषं

तथा हि कायेन विविक्तु भोति॥ २३॥

अलिप्त कामेहि असंकिलिष्टो

तथा हि मारविषयात्तु मुक्तः।

तथागतानां विषये प्रतिष्ठितो

विमुक्ति तस्यो परिपाकु गच्छति॥ २४॥

दशेमे कुमार आनुशंसाः प्रज्ञाचरितस्य बोधिसत्त्वस्य महासत्त्वस्य। कतमे दश ? यदुत सर्वस्वपरित्यागो भवति न च दानेन शुद्धिं मन्यते। अखण्डशीलश्च भवति न च शीलमाश्रितः। क्षान्तिबलसुप्रतिष्ठितश्च भवति न च सत्त्वसंज्ञासंप्रतिष्ठितः। आरब्धवीर्यश्च भवति कायचित्तविविक्तः। ध्यानध्यायी च भवति अप्रतिष्ठितध्यायी। दुर्धर्षश्च भवति मारैः, अप्रकम्प्यश्च भवति सर्वपरप्रवादिभिः। लव्धालोकश्च भवति सर्वसंस्कारगत्याम्। अधिमात्रा चास्य सर्वसत्त्वेषु महाकरुणा समतिक्रामति। न च श्रावकप्रत्येकभूमेः स्पृहयति। बुद्धध्यानसमाधिसमापत्तीरवतरति। इमे कुमार दशानुशंसाः प्रज्ञाचरितस्य बोधिसत्त्वस्य महासत्त्वस्य॥

तत्रेदमुच्यते -

सर्वस्वं त्यजते धीरः शुद्धिं तेन न मन्यते।

अखण्डं रक्षते शीलं निश्रयोऽस्य न विद्यते॥ २५॥

क्षान्तिं भावेति स प्राज्ञः सत्त्वसंज्ञा विवर्तिता।

आरब्धवीर्यो भवति कायचित्तविविक्ततः॥ २६॥

ध्यानध्यायी च सो भोति अप्रतिष्ठो अनिश्रितः।

दुर्धर्षो भोति मारेहि प्रज्ञावन्त इमे गुणाः॥ २७॥

अकम्पियो च सो भोति सर्वैः परप्रवादिभिः।

लब्धालोकश्च संसारे प्रज्ञाया ईदृशा गुणाः॥ २८॥

महाकृपां स लभते सर्वसत्त्वान अन्तिके।

श्रावकप्रत्येकज्ञाने न स्पृहेति कदाचन॥ २९॥

सर्वस्वत्यागेन न शुद्धि मन्यते

अखण्डशीलो न च शीलनिश्रितः।

भावेति क्षान्ती न च सत्त्वसंज्ञा।

प्रज्ञाधिमुक्ते इमि आनुशंसाः॥ ३०॥

आरब्धवीर्यो भवती विमुक्तो

अनिश्रितो ध्यायति अप्रतिष्ठितः।

दुर्धर्षु मारेण स भोति पण्डितो

प्रज्ञाधिमुक्ते इमि आनुशंसाः॥ ३१॥

अकम्पियो भोति परप्रवादिभिः

स लब्धगाधो भवतीह संस्कृते।

अधिमात्र सत्त्वेषु कृपां जनेति

प्रज्ञाधिमुक्ते इमि आनुशंसाः॥ ३२॥

प्रत्येकबुद्धेषु च श्रावकेषु चो

न तस्य जातु स्पृह तेषु जायते।

तथा ह्यसौ बुद्धगुणाः प्रतिष्ठिताः

प्रज्ञाधिमुक्ते इमि आनुशंसाः॥ ३३॥

दशेमे कुमार आनुशंसा बहुश्रुतस्य बोधिसत्त्वस्य महासत्त्वस्य। कतमे दश ? यदुत संक्लेशं न करोति। व्यापादं न जनयति। काङ्क्षां विवृणोति। दृष्टिमृज्वीकरोति। उत्पथं च वर्जयति। मार्गे प्रतिष्ठते। अमृतद्वारे तिष्ठति। आसन्नस्थायी भवति बोधये। आलोकभूतो भवति सत्त्वानाम्। दुर्गतिभ्यो न बिभेति। इमे कुमार दशानुशंसा बहुश्रुतस्य बोधिसत्त्वस्य महासत्त्वस्य॥

तत्रेदमुच्यते-

अनुशंसा दशैवैते बाहुश्रत्ये प्रकाशिताः।

तथागतेन बुद्धेन यथाभूतं प्रजानता॥ ३४॥

संक्लेशं व्यवदानं च उभौ पक्षौ स जानति।

संक्लेशं परिवर्जित्वा व्योदाने मार्गि तिष्ठति॥ ३५॥

काङ्क्षां विवरति ज्ञानी दृष्टीमृज्वीकरोति च।

मार्ग उत्पथ वर्जेति ऋजुके मार्गि तिष्ठति॥ ३६॥

तिष्ठते चामृतद्वारे आसन्नो भोति बोधये।

आलोकभूतः सत्त्वानां दुर्गतिभ्यो न भीयति॥ ३७॥

जानाति धर्मं पृथु सांकिलेशिकं

व्यवदानपक्षं पि तथैव जानति।

स संकिलेशं परिवर्जयित्वा

व्योदानि संशिक्षति धर्मि उत्तमे॥ ३८॥

काङ्क्षां च सो विवरति सर्वप्राणिनां

दृष्टी च तस्यो भवति सदोज्ज्वका।

स उत्पथं मार्गु विवर्जयित्वा

संतिष्ठते ऋजुकि पथे सदा शिवे॥ ३९॥

अमृतस्य द्वारे भवती सदा स्थितो

आसन्न भोती विपुलाय बोधये।

आलोकभूतः पृथु सर्वप्राणिनां

न चाप्यसौ भायति दुर्गतिभ्यः॥ ४०॥

दशेमे कुमार आनुशंसा धर्मदानगुरुकस्य बोधिसत्त्वस्य महासत्त्वस्य परेभ्यो धर्मदानं ददतः। कतमे दश ? यदुत अक्रियां विवर्जयति॥ क्रियामवतरति। सत्पुरुषधर्मे प्रतिष्ठते। बुद्धक्षेत्रं परिशोधयति। बोधिमण्डमर्पयति। वस्तुं परित्यजति। क्लेशान्निगृह्वाति। सर्वसत्त्वेभ्यः प्रत्यंशं ददाति। तदारम्बणां च मैत्रीं भावयति। दृष्टधार्मिकं च सुखं प्रतिलभते। इमे कुमार दशानुशंसा धर्मदानगुरुकस्य बोधिसत्त्वस्य महासत्त्वस्य परेभ्यो धर्मदानं ददतः॥

तत्रेदमुच्यते -

यो हि दानं दादात्यग्रं धर्मदानममत्सरी।

दश तस्यानुशंसा वै लोकनाथेन भाषिताः॥ ४१॥

अक्रियां सर्वि वर्जेति क्रियामोतरते विदुः।

सत्पुरुष धर्मप्रतिपन्नस्त्यागचित्तं निषेवते॥ ४२॥

बुद्धक्षेत्रं च शोधेति क्षेत्रं भोति स्यनुत्तरम्।

बोधिमण्डं समारूढो धर्मदानस्यिदं फलम्॥ ४३॥

त्यजते सर्ववस्तूनि शिक्षते धर्मराजिनः।

किलेशा निगृहीतास्य बोधिस्तस्य न दुर्लभा॥ ४४॥

सर्वसत्त्वान प्रत्यंशं मैत्रचित्तः प्रयच्छति।

अनीर्षुकश्च सो भोति सौख्यं भोति स्यमानुषम्॥ ४५॥

विवर्जिता अक्रिया पण्डितेन

क्रियाय सो नित्य विदुः प्रतिष्ठितः।

महात्मधर्मेषु सदा प्रतिष्ठितो

यो धर्मदानं सद देति पण्डितः॥ ४६॥

क्षेत्रं च तस्य सद भोति शुद्धं

धर्मा विवर्धन्तिमि बोधिपाक्षिकाः।

आसन्न भोति सद बोधिमण्डे

धर्मं ददित्वा इमि आनुशंसाः॥ ४७॥

क्लेशा न सन्ती परित्यक्त वस्तून्

वस्तुं परिज्ञातु स्वलक्षणेन।

विमुक्त सर्वेहि परिग्रहेहि

न तस्य सङ्गो भवती कदाचित्॥ ४८॥

उपस्थितं चित्तु विचक्षणस्य

सर्वेऽपि सत्त्वा सुखिनो भवन्तु।

स मैत्रचित्तो भवती अनीर्ष्युको

दृष्टेव धर्मेऽस्य सुखं अनल्पकम्॥ ४९॥

दशेमे कुमार आनुशंसाः शून्यताविहारिणो बोधिसत्वस्य महासत्त्वस्य। कतमे दश ? यदुत बुद्धविहारेण विहरति। अनिश्रितो ध्यायति। उपपत्तिं न प्रार्थयति। शीलं न परामृशति। आर्यान्नापवदति। अविरुद्धो विहरति। वस्तु नोपलभते। विविक्तश्च भवति। बुद्धान्नाभ्याख्यायति। सद्धर्मं धारयति। इमे कुमार दशानुशंसाः शून्यताविहारिणो बोधिसत्त्वस्य महासत्त्वस्य॥

तत्रेदमुच्यते -

यो विहारो नरेन्द्राणां सर्वबुद्धान गोचरः।

तेनो विहरते योगी यत्र जीवो न लभ्यते॥ ५०॥

अनिश्रितः सर्वलोके आर्यं ध्यानं न रिञ्चति।

उपपत्तिं न प्रार्थेति दृष्ट्वा धर्मस्वभावताम्॥ ५१॥

अपरामृष्टशीलस्य भवेच्छीलमनिश्रितम्।

न सोऽपवदते किंचिदन्यमार्यं अनास्रवम्॥ ५२॥

अविरुद्धो विहरति विवादोऽस्य न विद्यते।

वस्तुं नोपलभेद् योगी विविक्तो विहरी सदा॥ ५३॥

अभ्याख्याति न सो बुद्धमपि जीवितकारणात्।

निश्रितः शून्यधर्मेषु कायसाक्षी विशारदः॥ ५४॥

सर्वेषां लोकनाथानां बुद्धबोधिमचिन्तियाम्।

धर्मं धारेति सत्कृत्य बुद्धधर्मान्न काङ्क्षति॥ ५५॥

ये ते विहाराः पुरुषर्षभाणां

यस्मिन्नभूमिः पृथुतीर्थिकानाम्।

विहरत्यसौ तैरिह बोधिसत्त्वो

यस्मिन्न सत्त्वो न जीवु न पुद्गलः॥ ५६॥

न निश्रयस्तस्य कदाचि विद्यते

अनिश्रितः सेवते ध्यानसौख्यम्।

निरात्म निःसत्त्व विदित्व धर्मा -

नुपपत्तिसंज्ञास्य न जातु भोति॥ ५७॥

स्वभावु धर्माण प्रजानतश्च

शीलेऽपि तस्येह न कश्चि निश्रयः।

शीलेन नो मन्यति जातु शुद्धिं

प्रसादमार्येषु करोति नित्यम्॥ ५८॥

विरोधु तस्यो न कदाचि भोति

विभाविताः सर्वस्वभावशून्याः।

न चापि सोऽभ्याख्याति नायकानां

सद्धर्म धारित्व तथागतानाम्॥ ५९॥

दशेमे कुमार आनुशंसाः प्रतिसंलयनाभियुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य। कतमे दश ? यदुत अनाविलचित्तो भवति। अप्रमत्तो विहरति। बुद्धमनुस्मरति। चर्यां श्रद्दधाति। ज्ञाने न काङ्क्षति। कृतज्ञो भवति। बुद्धानां धर्मं न प्रतिक्षिपति। सुसंवृतो विहरति। दान्तभूमिमनुप्राप्नोति। प्रतिसंविदः साक्षात्करोति। इमे कुमार दशानुशंसाः प्रतिसंलयनाभियुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य॥

तत्रेदमुच्यते -

चित्तमनाविलं भोति प्रमादाः सर्वि वर्जिताः।

अप्रमत्तो विहरति प्रतिसंलानगोचरम्॥ ६०॥

श्रुत्वा च लोकनाथानां चर्यां बुद्धान श्रद्दधे।

ज्ञाने न काङ्क्षते योगी बुद्धज्ञाने अचिन्तिये॥ ६१॥

कृतज्ञो भोति बुद्धानां बुद्धधर्मान्न काङ्क्षति।

सुसंवृतो विहरति दान्तभूमिप्रतिष्ठितः॥ ६२॥

प्रतिसंविदः स लभते य एको रमते सदा।

जहित्वा लाभसत्कारं प्रतिसंलानगोचरः॥ ६३॥

चित्तं च तस्यो भवति अनाविलं

सर्वे प्रमादाः परिवर्जितास्य।

सदाप्रमत्तो भवती महात्मा

समाधियुक्तस्य इमेऽनुशंसाः॥ ६४॥

स्मरित्व बुद्धान् द्विपदानमुत्तमान्

श्रद्धाति तेषां चरियामनुत्तराम्।

न काङ्क्षति ज्ञानु तथागतानां

समाधियुक्ते इमि आनुशंसाः॥ ६५॥

बुद्धान सो भोति सदा कृतज्ञो

न जीवितार्थं स क्षिपेत धर्मम्।

सुसंवृतो विहरति नित्यकालं

समाधियुक्ते इमि आनुशंसाः॥ ६६॥

स दान्तभूमीमनुप्राप्त भोति

प्रतिसंविदः साक्षिकरोति क्षिप्रम्।

अनाच्छेद्यवाक्य प्रतिभानवांश्च

सूत्रान्तकोटिनियुतान भाषते॥ ६७॥

स बुद्धबोधिं परिगृह्णते लघुम्

आरक्षते शासनु नायकस्य।

निहनित्व सो सर्वपरप्रवादिनः

करोति वैस्तारिक बुद्धबोधिम्॥ ६८॥

इतश्च्यवित्वान स बोधिसत्त्वः

सुखावतीं गच्छति लोकधातुम्।

अनुत्पादधर्मेषु च क्षान्ति लप्स्यते

अमितायुषो धर्मवराग्रु श्रुत्वा॥ ६९॥

दशेमे कुमार आनुशंसा अरण्यवासगुरुकस्य बोधिसत्त्वस्य महासत्त्वस्य। कतमे दश ? यदुत अल्पकृत्यो विहरति। गणं वर्जयति। विवादोऽस्य न भवति। अव्यावध्यो भवति। आस्रवान वर्धयति। अधिकरणं न करोति। उपशान्तश्चरति। सुसंवृतश्व विहरति। मोक्षानुकूला चास्य चित्तसंततिर्भवति। क्षिप्रं च विमुक्तिं साक्षात्करोति। इमे कुमार दशानुशंसा अरण्यवासगुरुकस्य बोधिसत्त्वस्य महासत्त्वस्य॥

तत्रेदमुच्यते -

अल्पकृत्यः सदा भोति गणं वर्जेति दूरतः।

विवादो न भवत्यस्य वनेष्वेकविहारिणः॥ ७०॥

अव्यावध्येन चित्तेन आस्रवान्न विवर्धयेत्।

नास्याधिकरणं भोति गुणास्तेऽरण्यवासिनः॥ ७१॥

उपशान्तः स चरते मनोवाक्कायसंवृतः।

मोक्षानुकूलो भवति विमुक्तिं क्षिप्र स्पर्शति॥ ७२॥

भवति सततमल्पकृत्यु योगी

पृथुगणदोषेण विवर्जयित्वा।

न विवदति कदाचि मुक्त योगी

इमि गुण तस्य भवत्यरण्यवासे॥ ७३॥

यद भवति निर्विण्णु संस्कृतेऽसौ

न भवति तस्य स्पृहा कहिंचि लोके।

न च भवति विवृद्धिरास्रवाणां

वनि वसतोऽस्य भवन्ति आनुशंसाः॥ ७४॥

अधिकरणु न जातु चास्य भोति

उपशान्तरतो विवेकचारी।

वचसि मनसि काये संवृतस्यो

बहु गुण तस्य भवन्त्यरण्यवासे॥ ७५॥

भवति च अनुकूल तस्य मोक्षो

लघु प्रतिपद्यति सो विमुक्ति शान्तम्।

वनि वसति विमुक्ति सेवतोऽस्या

इमि गुण भोन्ति अरण्यवासि सर्वे॥ ७६॥

दशेमे कुमार आनुशंसाः पिण्डचारिकस्य धूतगुणसंलेखप्रतिष्ठितस्य बोधिसत्त्वस्य महासत्त्वस्य। कतमे दश ? यदुत ज्ञात्रकामतास्य न भवति। यशस्कामतास्य न भवति। लाभसत्कारकामतास्य न भवति। आर्यवंशप्रतिष्ठितश्च भवति। कुहनलपनतास्य न भवति। आत्मानं नोत्कर्षयति। परान्न पंसयति। अनुनयप्रतिघप्रहीणः परगृहे चरति। निरामिषं च धर्मदानं ददाति। धूतगुणसंलेखप्रतिष्ठितस्य चास्य ग्राह्या धर्मदेशना भवति। इमे कुमार दशानुशंसाः पिण्डपातिकस्य धूपगुणसंलेखप्रतिष्ठितस्य बोधिसत्त्वस्य महासत्त्वस्य॥

तत्रेदमुच्यते -

न ज्ञात्रकामो भवति यशो नाप्यभिनन्दते।

लाभालाभे समचित्तो यो धूतेषु प्रतिष्ठितः॥ ७७॥

नोत्सृजत्यार्यवंशं च कुहना लपना न च।

उत्कर्षेति न चात्मानं परान् पंसयते न च॥ ७८॥

प्रतिघानुनयौ चास्य धर्मं देशी निरामिषम्।

ग्राह्यं सि वचनं भोति पिण्डपाते गुणा अमी॥ ७९॥

न मार्गते ज्ञात्र यशो न लाभं

चतुरार्यवंशे भवति प्रतिष्ठितः।

अकुहको अलपकु भोति पण्डितो

धूताधिमुक्तस्य इमीदृशा गुणाः॥ ८०॥

नात्मानमुत्कर्षि परान्न पंसी

पुरुषं पि उक्तो न कदाचि कुप्यते।

वर्णं पि श्रुत्वा जनये न हर्षं

यः पिण्डपातेन भवेत तुष्टः॥ ८१॥

निरामिषं देति च धर्मदानं

न लाभसत्कार गवेषतेऽसौ।

ग्राह्या च तस्य भवतेऽस्य भाषितं

धूताधिमुक्तस्य इमेऽनुशंसाः॥ ८२॥

इति हि कुमार एवंरूपेषु धूतगुणेषु प्रतिष्ठितो बोधिसत्त्वो महासत्त्वोऽरण्ये विहरन् बुद्धनिधानं प्रतिलभते। धर्मनिधानं प्रतिलभते। ज्ञाननिधानं प्रतिलभते। पूर्वान्तापरान्तप्रत्युत्पन्नज्ञाननिधानं प्रतिलभते। कथं च कुमार बोधिसत्त्वो महासत्त्वो बुद्धनिधानं प्रतिलभते ? इमाः कुमार विवेकचारी बोधिसत्त्वो महासत्त्वः पञ्चाभिज्ञाः प्रतिलभते। स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण पूर्वस्यां दिशि अप्रमेयानसंख्येयान् बुद्धान् भगवतः पश्यति। एवं दक्षिणस्यां पश्चिमायामुत्तरस्यां दिशि अप्रमेयानसंख्येयान् बुद्धान् भगवतः पश्यति। सोऽविरहितो भवति बुद्धदर्शनेन। एवं हि कुमार बोधिसत्त्वो महासत्त्वो बुद्धनिधानं प्रतिलभते। कथं च कुमार बोधिसत्त्वो महासत्त्वो धर्मनिधानं प्रतिलभते ? यं च ते बुद्धा भगवन्तो धर्मं देशयन्ति, तं स बोधिसत्त्वो महासत्त्वो दिव्येन श्रोत्रधातुना सर्वं शृणोति। सोऽविरहितो भवति धर्मश्रवणेन। एवं हि कुमार बोधिसत्त्वो धर्मनिधानं प्रतिलभते। कथं च कुमार बोधिसत्त्वो महासत्त्वो ज्ञाननिधानं प्रतिलभते ? येन ज्ञानेन सर्वधर्मानाराधयति। आराधयित्वा अविप्रमुषितस्मृतिः सत्त्वानां धर्मं देशयति। तस्य च योऽर्थः स प्रजानाति। एवं हि कुमार बोधिसत्त्वो महासत्त्वो ज्ञाननिधानं प्रतिलभते। कथं च कुमार बोधिसत्त्वो महासत्त्वः पूर्वान्तापरान्तप्रत्युत्पन्नज्ञाननिधानं प्रतिलभते ? सोऽभिज्ञया अतीतानागतप्रत्युत्पन्नसत्त्वचित्तचरितज्ञानमवतरति। एवं हि कुमार बोधिसत्त्वो महासत्त्वः पूर्वान्तापरान्तप्रत्युत्पन्नज्ञाननिधानं प्रतिलभते। संक्षिप्तेन कुमार एवंगुणधर्मप्रतिष्ठितो बोधिसत्त्वो महासत्त्वः सर्वबुद्धधर्मान् प्रतिलभते यत्राभूमिः सर्वश्रावकप्रत्येकबुद्धानाम्, कः पुनर्वादः सर्वपरप्रवादिनाम्॥

तत्रेदमुच्यते -

बुद्धनिधानं च धर्मनिधानं

ज्ञाननिधानं च पूर्वान्तनिधानम्।

पञ्च अभिज्ञाः स क्षिप्रं लभति

यो विदु रण्णि सदा स्थितु भोति॥ ८३॥



इति श्रीसमाधिराजे दशानुशंसापरिवर्तो नाम अष्टाविंशतितमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project