Digital Sanskrit Buddhist Canon

प्रतिसंविदवतारपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Pratisaṁvidavatāraparivartaḥ

प्रतिसंविदवतारपरिवर्तः॥



तत्र कुमार कथं बोधिसत्त्वो महासत्त्वो धर्मप्रतिसंविदि चरन् धर्मेषु धर्मानुपश्यी समुदागच्छत्यनुत्तरायां सम्यक्संबोधौ ? इह कुमार बोधिसत्त्वो महासत्त्वो धर्मेषु धर्मानुपश्यी नान्यत्र रूपेण बोधिं समनुपश्यति। नान्यत्र रूपाद्वोधाय चरति। नान्यत्र रूपेण बोधिं पर्येषते। नान्यत्र रूपेण बोधाय समुदागच्छति। नान्यत्र रूपेण सत्त्वानि बोधाय समादापयति। नान्यत्र रूपेण तथागतं पश्यति। रूपस्याविनाशस्वभावः तथागत इति तथागतं पश्यति। अन्यद् रूपमन्यो रूपस्वभाव इति नैवं पश्यति। अन्यो रूपस्वभावोऽन्यस्तथागत इति नैवं पश्यति। यश्च रूपस्वभावो यश्च तथागत इत्यद्वयेयं धर्मता। एवं पश्यन् बोधिसत्त्वो महासत्त्वश्चरति धर्मप्रतिसंविदि। एवं नान्यत्र वेदनाया नान्यत्र संज्ञाया नान्यत्र संस्कारेभ्यो नान्यत्र विज्ञानेन बोधिं समनुपश्यति। नान्यत्र विज्ञानाद्बोधाय चरति। नान्यत्र विज्ञानेन बोधिं पर्येषते। नान्यत्र विज्ञानेन बोधाय समुदागच्छति। नान्यत्र विज्ञानेन सत्त्वानि बोधाय समादापयति। नान्यत्र विज्ञानेन तथागतं पश्यति। विज्ञानस्याविनाशस्वभावस्तथागत इति तथागतं पश्यति। अन्यद्विज्ञानमन्यो विज्ञानस्वभाव इति नैवं पश्यति। अन्यो विज्ञानस्वभावोऽन्यस्तथागत इति नैवं पश्यति। यश्च विज्ञानस्वभावो यश्च तथागत इत्यद्वयेयं धर्मता। एवं पश्यन् बोधिसत्त्वो महासत्त्वश्चरति धर्मप्रतिसंविदि॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

रूपेण दर्शिता बोधी बोधये रूप दर्शितम्।

विसभागेन शब्देन उत्तरो धर्म देशितः॥ १॥

शब्देन उत्तरं रूपं गम्भीरं च स्वभावतः।

समं रूपं च बोधिश्च नानात्वं नास्य लभ्यते॥ २॥

यथा निर्वाण गम्भीरं शब्देनासंप्रकाशितम्।

लभ्यते न च निर्वाणं स च शब्दो न लभ्यते॥ ३॥

शब्दश्चाप्यथ निर्वाणमुभयं तन्न लभ्यते।

एवं शून्येषु धर्मेषु निर्वाणं संप्रकाशितम्॥ ४॥

निर्वाणं निर्वृती वुत्ता निर्वाणं च न लभ्यते।

अप्रवृत्त्यैव धर्माणां यथा पश्चात्तथा पुरा॥ ५॥

सर्वधर्माः स्वभावेन निर्वाणसमसादृशाः।

ज्ञाता नैष्क्रम्यसारेहि ये युक्ता बुद्धशासने॥ ६॥

पश्यित्वा कायु बुद्धस्य वक्ष्यन्ते दृष्टु नायकः।

न चाहं रूपकायेन पश्यितुं शक्य केनचित्॥ ७॥

ज्ञातः स्वभावो रूपस्य यादृशं रूपलक्षणम्।

रूपस्वभावमाज्ञाय कायो मम निदेशितः॥ ८॥

एवं पञ्चान स्कन्धानां ज्ञानं मे धर्मलक्षणम्।

ज्ञात्वा स्वभावं धर्माणां धर्मकाये प्रतिष्ठितः॥ ९॥

देशेमि धर्म सत्त्वानां धर्मकायेऽप्यनिःसृतः।

न च धर्मत बुद्धानां शक्यं वाचाय भाषितुम्॥ १०॥

इमं नयमजानन्तो बुद्धशब्दं श्रुणित्व ते।

घोषमात्रेण वक्ष्यन्ति दृष्टो मे नरनायकः॥ ११॥

सर्वसंज्ञाप्रहीणस्य भवसंज्ञा विगच्छति।

न जातु शब्दसंज्ञस्य भवते शास्तृदर्शनम्॥ १२॥

यः शून्यतां प्रजानाति ईदृशं रूपलक्षणम्।

न चान्या शून्यता उक्ता अन्या रूपस्वभावता।

यस्तु रूपं प्रजानाति स प्रजानाति शुन्यताम्॥ १३॥

यः शून्यतां प्रजानाति ईदृशं रूपलक्षणम्।

न चासौ मारकोटीभिर्भूयः शक्य पराजितुम्॥ १४॥

प्रजानाति हि यो रूपं स प्रजानाति शून्यताम्।

य शून्यतां प्रजानाति स प्रजानाति निर्वृतिम्॥ १५॥

इमां गतिमजानन्तः प्रनष्टा औपलम्भिकाः।

अभावे भावसंज्ञेयो भावे चाभावसंज्ञिनः॥ १६॥

वञ्चिता ज्ञात्रलाभेन प्रनष्टा मम शासनात्।

फलसंज्ञा अवस्थाने रिक्ताः श्रामणकाद्धनात्॥ १७॥

कुसीदा हीनवीर्याश्च शीलस्कन्धे असंस्थिताः।

पर्युप्थिताश्च वक्ष्यन्ति न एतद् बुद्धशासनम्॥ १८॥

केचिदेवं प्रवक्ष्यन्ति वयं बोधाय प्रस्थिताः।

अदान्ता अविनीताश्च परस्परमगौरवाः॥ १९॥

शब्दकामा भविष्यन्ति धर्मे चैवानवस्थिताः।

एवं सा भेष्यते इच्छा ज्ञात्रलाभगवेषणे॥ २०॥

लाभकामा भविष्यन्ति संनिपाते हि चिन्तकाः।

मदप्रमादाभिभूता लाभसत्कार अर्थिकाः॥ २१॥

निःसृता लाभसत्कारे ज्ञात्रलाभगवेषिणः।

स्तूपान् विहारान् काहेन्ति कुलस्त्रीष्वधिमूर्च्छिताः॥ २२॥

निःसृताश्चोपलम्भस्मिन् कामतृष्णासु निःसृताः।

गृहिकर्म करिष्यन्ति मारस्य विषये स्थिताः॥ २३॥

गृहिणां देशयिष्यन्ति कामा अग्निशिखोपमाः।

प्रविश्य च गृहांस्तेषां दूषयिष्यन्ति तान् कुलान्॥ २४॥

गृहिणश्च भविष्यन्ति तेषु शास्तारसंज्ञिनः।

तेषां च विप्रवुस्तानां पुत्रदाराणि दूषयि॥ २५॥

ये तेषामन्नपानेन करिष्यन्ति अनुग्रहम्।

तेषां तत्पुत्रदारेषु भार्यासंज्ञा भविष्यति॥ २६॥

गृहिणो न स्वदारेषु भविष्यन्त्यधिमूर्च्छिताः।

यथा ते प्रव्रजित्वा हि परदारेषु मूर्च्छिताः॥ २७॥

शिक्षावदातवस्त्राणं गृहीणं या मि दर्शिता।

सा शिक्षा तेषां भिक्षूणां तस्मिन् काले न भेष्यति॥ २८॥

भेरीशङ्खमृदङ्गेहि पूजां काहेन्ति ते मम।

या च सा उत्तमा पूजा प्रतिपत्तिर्न भेष्यति॥ २९॥

ते आत्मना सुदुःशीला दृष्ट्वा शीलप्रतिष्ठितान्।

अन्योन्यमेवं वक्ष्यन्ति एतेऽपि यादृशा वयम्॥ ३०॥

श्रुत्वा शीलस्य ते वर्णं दुःशीलाः पापगोचराः।

पर्युत्थिताश्च वक्ष्यन्ति नैवैतद्बुद्धभाषितम्॥ ३१॥

न च ह्री भेष्यते तेषां नष्टं श्रामणकं धनम्।

चोदिताभूतवाचाय बुद्धबोधिं प्रतिक्षिति॥ ३२॥

तेषां व्यापन्नचित्तानामुत्सृष्ट्वा बुद्धशासनम्।

धर्मं प्रतिक्षिपित्वा च वासोऽवीचौ भविष्यति॥ ३३॥

न मे श्रुतं च दृष्टं वा येषामेतादृशी चरी।

ते बुद्धज्ञानं लप्स्यन्ते बालधर्मप्रतिष्ठिताः॥ ३४॥

या तेषां कुहना तत्र शाठियं वाक्कियं तदा।

जानामि तदहं सर्वं ज्ञानं मेऽत्र प्रवर्तते॥ ३५॥

सचेत् कल्पं प्रभाषेयं यत्तेषां स्खलितं पृथु।

बोधिसत्त्वप्रतिज्ञानां किंचिन्मात्रं प्रकीर्तितम्॥ ३६॥

नास्ति पापमकर्तव्यं कुमारा तेष भेष्यति।

मा तेहि संस्तवं सार्धं कुर्यास्त्वं कालि पश्चिमे॥ ३७॥

आलपेत् संलपेय्यासि कुर्यासी तेषु गौरवम्।

अनोलीनः सत्करेय्यासि अग्रबोधीय कारणात्॥ ३८॥

वर्षाग्रं परिपृच्छित्वा यस्ते वृद्धतरो भवेत्।

कुर्या हि गौरवं तत्र शिरसा पादवन्दनम्॥ ३९॥

न तेषां स्खलितं पश्येद्वोधिमण्ड विपश्यताम्।

प्रतिघातं न जनयेत् मैत्रचित्तः सदा भवेत्॥ ४०॥

यद्येषां स्खलितं पश्येद्दोषांस्तेषां न कीर्तयेत्।

यादृशं काहिती कर्म लप्स्यते तादृशं फलम्॥ ४१॥

स्मितेन मुखचन्द्रेण वृद्धेषु नवकेषु च।

पूर्वाभाषी भवेन्नित्यं हतमानश्च सूरतः॥ ४२॥

चीवरैः पिण्डपातैश्च कुर्यास्तेषामनुग्रहम्।

एवं चित्तं प्रदध्यास्त्वं सर्वे भेष्यन्ति नायकाः॥ ४३॥

अध्येष्येयुर्यदि त्वां ते धर्मदानस्य कारणात्।

प्रथमं वाचं भाषेय्या नाहं वैपुल्यशिक्षितः॥ ४४॥

एवं त्वं वाच भाषेय्या आयुष्मान् विज्ञ पण्डितः।

कथं महात्मनां शक्यं पुरतो भाषितुं मया॥ ४५॥

सहसैषां न जल्पेत तुलयित्वा च भाजनम्।

यदि भाजनं विजानीया अनधीष्टोऽपि देशयेत्॥ ४६॥

यदि दुःशील पश्येसि परिषायां बहुस्थितान्।

संलेखं मा प्रभाषेस्त्वां वर्णं दानस्य कीर्तयेः॥ ४७॥

भवेयुर्यदि वाल्पेच्छाः शुद्धाः शीले प्रतिष्ठिताः।

मैत्रं चित्तं जनित्वा त्वं कुर्याः संलेखिकीं कथाम्॥ ४८॥

परीत्ता यदि पापेच्छा शीलवन्तो बहू भवेत्।

लब्धपक्षस्तदा भूत्वा वर्णं शीलस्य कीर्तयेत्॥ ४९॥

पूर्वं परिषदं ज्ञात्वा यदि शुद्धा भवेत्तदा।

यावन्तः कुशला धर्माः सर्वांस्तेभ्यः प्रकाशयेत्॥ ५०॥

दानं शीलं तथा क्षान्तिं वीर्यं ध्यानं श्रुतं तथा।

संतुष्ट्यल्पेच्छसंलेखान् वर्णयेत् कीर्तयेत् सदा॥ ५१॥

अरण्यवासं ध्यानसुखं गणवासविवर्जनम्।

एतेषां वर्ण भाषेत एवं हि धारयेत् सुखम्॥ ५२॥

अरण्यवास नो रिञ्चेन्न शीलपरमो भवेत्।

प्रतिसंलानु सेवेत न दानपरमो भवेत्॥ ५३॥

शीलस्कन्धे स्थिहित्वा च बाहुश्रुत्यमुपार्जयेत्।

इमं समाधिमेषन्तः पूजयेच्छास्तृधातवः॥ ५४॥

छत्रैर्ध्वजैः पताकाभिर्गन्धमाल्यविलेपनैः।

कारयेत् पूज बुद्धस्य समाधिं शान्तमेषता॥ ५५॥

रञ्जनीयेहि तूर्येहि संगीतिं संप्रयोजयेत्।

पूजयेद्धातुं बुद्धस्य अनोलीनो अतन्द्रितः॥ ५६॥

यावन्ति गन्धमाल्यानि धूपनं चूर्ण चैलिकम्।

सर्वैस्तैः पूजयेन्नाथं बुद्धज्ञानस्य कारणात्॥ ५७॥

यावती काचित् पूजास्ति अप्रमेया अचिन्तिया।

कुर्यास्ताः सर्वबुद्धानां समाधिं शान्तमेषताः॥ ५८॥

प्रत्यंशं सर्वसत्त्वेभ्यः समं दद्यादनिश्रितः।

असङ्गज्ञानमेषन्तो बुद्धज्ञानमनुत्तरम्॥ ५९॥

मयापि पूर्वबुद्धानां कृता पूजा अचिन्तिया।

अनिश्रितेन भूत्वैनं समाधिं शान्तमेषता॥ ६०॥

दुर्लभोत्पादु बुद्धानां दुर्लभो मानुषो भवः।

दुर्लभा शासने श्रद्धा प्रव्रज्या उपसंपदा॥ ६१॥

येन आरागितः शास्ता चित्तं बोधाय नामितम्।

मा चल त्वं प्रतिज्ञायास्तिष्ठ च प्रतिपत्तिषु॥ ६२॥

य इदं धारयेत् सूत्रं क्षयकाले उपस्थिते ।

प्रतिभानं लभेत् क्षिप्रं प्रवृत्तं यदि धारयेत्॥ ६३॥

एकगाथां पि धारित्वा पुण्यस्कन्धो अचिन्तियः।

किं वा पुनः सर्वसूत्रं धारयेद् यः श्रुतार्थिकः॥ ६४॥

सर्वसत्त्वान् बोधिप्राप्तान् पूजयेद् यो ह्यतन्द्रितः।

यः कुर्याद् गौरवेणासौ कल्पसत्त्वोपमान् सदा॥ ६५॥

इतः समाधितो यश्च गाथामेकां पि धारयेत्।

सर्वं पुरिमकं पुण्यं कलां नोपैति षोडशीम्॥ ६६॥

अचिन्तियानानुशंसान् बुद्धज्ञानेन जानमि।

इमं समाधिं श्रुत्वेह यः काङ्क्षां न करिष्यति॥ ६७॥



इति श्रीसमाधिराजे प्रतिसंविदवतारपरिवर्तो नाम चतुर्विंशतितमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project